मुद्राराक्षसम् (सटीक संस्कृत नाटक)
Mudrarakshasam Natakam with Hindi Commentary
महाकवि विशाखदत्त द्वारा
तृतीयोऽङ्कः १८६
**टिप्पणी—अवितथवाचः—**जिनकी वाणी असत्य नही होती अर्थात् सत्यवक्ता । तथा = सत्य । विगतं तथा अस्याः इति वितथा बहुव्रीहि स० । न वितथा अवितथा नञ्तत्० तादृशी वाक् येषां बहुव्रीहि स० । **प्रवाचः—**बहुत बोलने वाले । प्रभूता वाक् एषाम् प्रादिवहुव्रीहि स० । **अश्रान्तास्याः—**न थके हुए मुख वाले । यह ‘कृतिनः’ का विशेषण है । किसी पुस्तक मे ‘श्रान्तास्याः’ पाठ है । उसका अर्थ होगा—थके हुए मुख वाले अर्थात् जब तक मुख थक नही जाता तब तक । **प्रभावः—**प्रकृष्टो भावः प्रभावः प्रादितत्०। यहाँ 'प्र√भू+घञ्' ऐसा नही कर सकते; क्योकि 'श्रिणीभुवोऽनुपसर्गे' सूत्र से उपसर्ग में घञ् नही होता । **निरीहाणाम्—**निःस्पृहों का । कहा भी है—'निःस्पृहस्य तृण जगत्' । ईहायाः निष्क्रान्ता इति निरीहाः 'निरादयः क्रान्ताद्यर्थे पञ्चम्या' इत्यनेन तत्पुरुषसमासः । **तिरस्कारविषयः—**तिरस्कार करने की वस्तु । तिरस्√कृ+घञ् भावे = तिरस्कार वा तिरःकारः 'तिरसोऽन्यतरस्याम्' इत्यनेन सत्वस्य विकल्पात् । तिरस्कारस्य विषयः षष्ठीतत्० । इस श्लोक में विरोधाभास नामक अलकार उपमा अलंकार से संसृष्ट है । इसमे वैदर्भी रीति है, प्रसाद गुण है और शिखरिणी छन्द है । इस छन्द का लक्षण १, १३ में देखिए ॥ १६ ॥
[अवलोक्य सभयम्] तदयमार्यचाणक्यस्तिष्ठति ।
यो नन्दमौर्यनृपयोः परिभूय लोक- मस्तोदयौ प्रतिदिशन्नविभिन्नकालम् । पर्यायपातितहिमोष्णमसर्वगामि धाम्नातिशाययति धाम सहस्रधाम्नः ॥ १७ ॥
**अन्वय—**यः लोकं परिभूय अविभिन्नकालं नन्दमौर्यनृपयोः अस्तोदयौ प्रतिदिशन् सहस्रधाम्नः असर्वगामि पर्यायपातितहिमोष्णं धाम धाम्ना अतिशाययति ॥ १७ ॥
**व्याख्या—**यः—चाणक्यः, लोकं—भुवनं, परिभूय—अवमत्य, अविभिन्नकालं—युगपत्, नन्दमौर्यनृपयोः—नृपस्य नन्दस्य नृपस्य मौर्यस्य च, अस्तोदयौ, ह्रासोपचयौ, प्रतिदिशन्—यच्छन्, सहस्रधाम्नः—सूर्यस्य, असर्वगामि—सर्वं निखिलं भुवनं न गच्छति न व्याप्नोति यत् तादृशं, पर्यायपातितहिमोष्णं—
१६० | मुद्राराक्षसम्
पर्यायेण कालक्रमेण पातितम् अवतारितं हिमं शीतम् उष्णम् आतपञ्च येन तादृश, धाम—तेज , धाम्ना—स्वतेजसा, अतिशाययति—अतिक्रामयति ॥१७॥
हिन्दी अनुवाद—[ देख कर भय के साथ ] वे ये आप चाणक्य विराजमान हैं ।
जो विश्व को पराजित करके ( अर्थात् नन्द और उसके अमात्य आदि को नीति से मोहित करके ) एक ही समय नन्दराज और मौर्यराज को ( क्रमशः ) अस्त और उदय देते हुए सूर्य के सर्वत्र न जाने वाले तथा कालक्रम से सर्दी और गर्मी को गिराने वाले तेज को अपने तेज से अतिक्रान्त कर रहा है ॥ १७ ॥
टिप्पणी—लोकम्—संसार या लोगों को । सूर्य-पक्ष में लोक का तात्पर्य है लोकालोक नामक पर्वत से । पर्यायपातितहिमोष्णम्—कालक्रम से सर्दी और गर्मी को उतारने वाले । परि—आ√इ+अच् वा √अय्+घञ् भावे = पर्याय । हिमञ्च उष्णञ्च इति हिमोष्णम् वा हिमोष्णे 'विप्रतिषिद्धं चानधिकरणवाचि' इत्यनेन एकवद्भावस्य विकल्पात् । अतिशाययति—अतिक्रमण कर रहा है, नीचा दिखा रहा है । अति√शी+णिच्+लट्—तिप् । यहाँ भाव यह है कि सूर्य सहस्रधाम होते हुए भी क्रमशः सर्दी और गर्मी देते हैं, किन्तु ये चाणक्य तो एक ही काल में नन्द के लिए शीत और मौर्य के लिए उष्ण हो गए । इसलिए ये सूर्य से भी अधिक प्रतापशाली हैं । इस श्लोक में अतिशयोक्ति अलंकार व्यतिरेक अलंकार से संकीर्ण है । इसमें पाञ्चाली रीति है, ओज गुण है और वसन्ततिलका छन्द है । इस छन्द का लक्षण १, ८ में देखिए ॥ १७ ॥
[ जानुभ्यां भूमौ निपत्य ] जयतु जयत्वार्य ।
चाणक्य—[ नाट्येनावलोक्य ] वैहीनरे ! किमागमनप्रयोजनम् ।
कञ्चुकी—आर्य ! प्रणतसम्भ्रमसमुच्चलितभूमिपालमौलिमाला-माणिक्यशकलशिखापिशङ्गीकृतपादपद्मयुगल सुगृहीतनामधेयो देवश्च-न्द्रगुप्त आर्यं शिरसा प्रणिपत्य विज्ञापयति—'अकृतक्रियान्तरायमार्यं द्रष्टुमिच्छामि इति ।
तृतीयोऽङ्कः । १६१
चाणक्यः— वृषलो मां द्रष्टुमिच्छति ? वैहीनरे ! न खलुवृषल-श्रवणपथगतोऽयं मत्कृतः कौमुदीमहोत्सवप्रतिषेधः ?
कञ्चुकी— आर्य ! अथ किम् ?
चाणक्यः— [ सक्रोधम् ] आः ! केन कथितम् ?
कञ्चुकी— [ भयं नाटयित्वा ] प्रसीदत्वार्यः । स्वयमेव सुगाङ्ग-प्रासादशिखरगतेन देवेनावलोकितमप्रवृत्तकौमुदीमहोत्सवं कुसुमपुरम् ।
चाणक्यः— आः ज्ञातम् । भवद्भिरेव मदन्तरा प्रोत्साह्य रोषितो वृषलः । किमन्यत् ?
कञ्चुकी— [ सभयं तूष्णीमधोमुखस्तिष्ठति । ]
व्याख्या— प्रणतसम्भ्रम०—प्रणताः कृतप्रणामाः ( अतएव ) ससम्भ्रमं ससत्वरं यथा तथा समुच्चलिताः जातकम्पाः ये भूमिपालाः राजानः तेषां मौलयः चूडाः तेषां मालाः पङ्क्तयः तासु यानि माणिक्यशकलानि रत्नखण्डानि तेषां शिखाभिः ज्वालाभिः पिशङ्गीकृत पिङ्ग़लीकृतं पादपद्मयुगलं चरणारविन्दयुग्मं यस्य सः, सुगृहीतनामधेयः—प्रातःस्मरणीयनामा, देवः—महाराजः, चन्द्रगुप्तः—मौर्यः, आर्य—भवन्त, शिरसा—मस्तकेन, प्रणिपत्य—प्रणम्य, विज्ञापयति—निवेदयति, अकृतक्रियान्तरायम्—अकृतः न विहितः क्रियायाः कर्मणः अन्तरायः प्रत्यूहः यस्य तादृशम् अन्तरायशून्यकर्माणम्, आर्य—भवन्तं, द्रष्टुं—प्रेक्षितुम्, इच्छामि—वाञ्छामि । अयम्—एषः, मत्कृतः—अस्मद्विहितः, कौमुदीमहोत्सवप्रतिषेधः—शरत्पूर्णचन्द्रनिमित्तोद्धवनिषेधः, वृषलश्रवणपथगतः—वृषलस्य श्रवणम् कर्णः तस्य पन्थाः मार्गः तम् गतः प्राप्तः, न खलु—न किमित्यर्थः । सुगाङ्गप्रासादशिखरगतेन—सुगाङ्गश्चासौ प्रासादः तस्य शिखरः उन्नतप्रदेशः तं गतः तेन, देवेन, अप्रवृत्तकौमुदीमहोत्सवम्—अप्रवृत्तः अनारब्धः कौमुदीमहोत्सवः शरत्पूर्णचन्द्रमहोत्सवः यस्मिन् तादृशम्, कुसुमपुरम्, अवलोकितम्—दृष्टम् । भवद्भिरेव—युष्माभिरेव, मदन्तरा—मदनुपस्थितिकाले, प्रोत्साह्य—उत्तेजकवचनैरुद्दीप्येत्यर्थः, वृषलः—मौर्यः, रोषितः—क्रोधितः ।
हिन्दी अनुवाद— [ घुटने टेककर ] जय हो, आर्य की जय हो ।
चाणक्य— [ अभिनय देखकर ] वैहीनरि ! आने का क्या
| १६२ | मुद्राराक्षसम् |
|---|
कञ्चुकी— आर्य ! प्रात स्मरणीय महाराज चन्द्रगुप्त न, जिनके दाना चरणारविन्द प्रणामार्थ झुके हुए तथा शीघ्रतावश कम्पित होते हुए राजाओ की चूडा-पत्ति पर स्थित रत्न-खडो की किरणो से लाल-पील बन रहते है, आपका माथा टेककर निवेदन किया है कि यदि किसी कार्य मे विघ्न न पड त। आर्य को देखना चाहता हूँ ।
चाणक्य— वृषल मुझे देखना चाहता है ? वैहीनरि ! मेरे द्वारा किया हुआ कौमुदीमहोत्सव का निषेध वृषल के कान तक तो नही पहुँच गया है ?
कञ्चुकी— और क्या ?
चाणक्य— [ क्रोध के साथ ] ऐ ! किसने कहा ?
कञ्चुकी— [ भय का नाट्य करके ] आर्य प्रसन्न हो । स्वय ही सुगाग प्रासाद की चोटी पर गय हुए महाराज ने कौमुदीमहोत्सव के समारम्भ से शून्य कुसुमपुर को देखा ।
चाणक्य— ओह ! समझ गया । तुम ही लोगो न मेरी अनुपस्थिति म भड़काकर वृषल को कुपित कर दिया है । और क्या ( हो सकता है ) ?
कञ्चुकी— [ भय के साथ नीचे मुंह किये चुप खडा रहता है । ]
टिप्पणी—अकृतक्रियान्तरायम्— जिसके किसी काय मे विघ्न न पडा हो । अन्त मध्ये अयनम् इति अन्तर्√अय् + घञ् भावे=अन्तराय । क्रियाया अतराय । अकृत कियान्तरायो येन यस्य वा, तम् । यह 'आर्यम्' का विशेषण है । अथवा अकृत क्रियातराय यस्मिन् कर्मणि तद् यथा स्यात् तथा । इस विग्रह मे यह दर्शनक्रिया का विशेषण है । **अन्तरा—**बीच मे, अवसर पाकर । यह एक अव्यय है । **प्रोत्साह्य—**प्रोत्साहित या उत्तेजित करके । प्र-उद्√सह्+णिच्+त्वा—ल्यप् ।
चाणक्य — अहो ! राजपरिजनस्य चाणक्योपरि विद्वेषपक्षपात । अथ क्व वृषलस्तिष्ठति ?
कञ्चुकी— [ भय नाट्यन् ] आर्य ! सुगाङ्गप्रासादगतेन देवेनाहमार्य-पादमूल प्रेषित ।
चाणक्य — [ उत्थाय ] कञ्चुकिन् ! सुगाङ्गप्रासादमार्गमादेशय ।
तृतीयोऽङ्कः । १६३
कञ्चुकी—इत इत आर्यः । [ इत्युभौपरिक्रामतः । ]
कञ्चुकी—अयं सुगाङ्गप्रासादः, शनैरारोढुमर्हत्यार्यः ।
चाणक्यः—[ नाट्येनारुह्यावलोक्य च सहर्षमात्मगतम् । ] अये ! सिंहासनमध्यास्ते वृषलः । साधु साधु !—
नन्दैर्वियुक्तमनपेक्षितराजवृत्तै-
रध्यासितञ्च वृषलेन वृषेण राज्ञाम् ।
सिंहासनं सदृशपार्थिवसङ्गतञ्च
प्रीतिं परां प्रगुणयन्ति गुणा ममैते ॥ १८ ॥
अन्वयः—सिंहासनम् अनपेक्षितराजवृत्तैः नन्दैः वियुक्तं, राज्ञां वृषेण वृषलेन अध्यासितं च, सदृशपार्थिवसङ्गतं च, एते गुणा मम परां प्रीतिं प्रगुणयन्ति ॥ १८ ॥
व्याख्या—सिंहासनम्—नृपासनम्, अनपेक्षितराजवृत्तैः—अनपेक्षितम् अनादृतम् राजवृत्तम् राजधर्मः यैः तादृशैः, नन्दैः एतदाख्यनृपैः, वियुक्तं—विरहितं, राज्ञां—नृपाणां, वृषेण—श्रेष्ठेन, वृषलेन—मौर्येण, अध्यासितं च—अधिष्ठितं च, सदृशपार्थिवसङ्गतं च—सदृशेन योग्येन पार्थिवेन राज्ञा सङ्गतं च—युक्तमपि, एते, गुणाः—अभ्युदयाः, मम—चाणक्यस्य, पराम्—उत्कृष्टाम्, प्रीतिम्—आनन्दं, प्रगुणयन्ति—जनयन्ति ॥ १८ ॥
हिन्दी अनुवाद—चाणक्य—ओह ! चाणक्य के साथ राजा के अनुचरों का अतिशय द्वेष है । अच्छा, वृषल कहाँ है ?
कंचुकी—[भय का नाट्य करता हुआ] आर्य ! सुगाङ्ग प्रासाद में गये हुए महाराज ने मुझे आपके चरणों के समीप भेजा था ।
चाणक्य—[उठकर] कंचुकी ? सुगाङ्ग प्रासाद का मार्ग बताओ ।
कंचुकी—इधर से आर्य ! इधर से । [दोनों घूमते हैं ।]
कंचुकी—यह सुगाङ्गप्रासाद है, धीरे से आर्य चढ़ें ।
चाणक्य—[अभिनय के साथ चढ़कर और देखकर प्रसन्नता के साथ मन में] अहा ! वृषल सिंहासन पर विराजमान है । वाह वाह !—
मु० रा०—१३
१६४ मुद्राराक्षसम्
सिंहासन राज-धर्म की अवहेलना करने वाले नन्दो से रहित, राजाओ मे श्रेष्ठ मौर्य से सुशोभित तथा अपने अनुरूप राजा मे युक्त (हो गया है)—ये (तीनो) गुण (अभ्युदय) मेरे अतिशय आनन्द को उत्पन्न कर रहे हैं ॥ १८ ॥
टिप्पणी—विद्वेषपक्षपात —द्वेष के विषय मे पक्षपात या आसक्ति । पक्षे पात पक्षपात आसक्तिविशेष इत्यर्थ । विद्वेषे पक्षपात विद्वेषपक्षपात । उभयत्र सुप्सुपा स० । सिंहासनम्—अत्र ‘अधिशीङ्स्थासा कर्म’ इत्यनेन कर्म-सञ्ज्ञा—द्वितीया । अनपेक्षितराजवृत्ते —राजा के धर्म या कर्त्तव्य का पालन न करने वाले । राजा का वृत्त या धर्म चार प्रकार का बताया गया है — ‘न्यायेनार्जनमर्थाना रक्षण पालन तथा । सत्पात्रे विनियोगश्च राजवृत्त चतुर्विधम् ।।' 'अनपेक्षितराजराजे' इस पाठान्तर की व्याख्या होगी—'अना-दृतकुबेरे । नन्द महाधनाढ्य था इसलिए वह अपने सामने कुबेर को भी तुच्छ समझता था । किन्तु इससे अच्छा पाठ 'अनपेक्षितराजवृत्ते ' यही है । वृपेण—श्रेष्ठ । 'शुक्ने मूषिके श्रेष्ठे सुवृते वृषभे वृप' इत्यमर । सदृशपा-र्थिवसङ्गतञ्च—योग्य या अनुरूप राजा से युक्त । समान (स) √दृश् + कन् कर्तरि = सदृश । पृथिव्या ईश्वर इति पृथिवी + अञ् = पार्थिव । इस पद्य मे सम नामक अलकार है, वैदर्भी रीति है, प्रसाद गुण है और वसन्ततिलका छन्द है । इस छन्द का लक्षण १, ८ मे देखिए ॥ १८ ॥
[उपसृत्य] विजयता नृपल ।
[ सिंहासनादुत्थाय चाणक्यस्य पादौ गृहीत्वा ] आर्य ! चन्द्रगुप्त प्रणमति ।
चाणक्य —[पाणौ गृहीत्वा] उत्तिष्ठोत्तिष्ठ वत्स !—
आ शैलेन्द्राच्छिलान्त स्खलितसुरनदीशीकरासारशीता- तीरान्तान्नैकरागस्फुरितमणिरुचो दक्षिणस्यार्णवस्य । आगत्यागत्य भीतिप्रणतनृपशतै शश्वदेव क्रियन्ता चूडारत्नांशुगर्भस्तव चरणयुगस्याङ्गुलीरन्ध्रभागा ॥ १९ ॥
अन्वय —शिलात स्खलितसुरनदीशीकरासारशीतात् शैलेन्द्रात् , आ,
तृतीयाऽङ्कः १६५
नैकरागस्फुरितमणिरुचः दक्षिणस्य अर्णवस्य तीरान्तात् आगत्य आगत्य भीति- प्रणतनृपशतैः तव चरणयुगस्य अङ्गुलीरन्ध्रभागाः शश्वदेव चूडारत्नांशुगर्भाः क्रियन्ताम् ॥ १६ ॥
व्याख्या—शिलान्तःस्खलित०—शिलानां प्रस्तरखण्डानाम् अन्तः मध्ये स्खलिता पतिता या सुरनदी गङ्गा तस्याः शीकराणां जलकणानां यः आसारः वर्षणं तेन शीतात् शीतलात्, शैलेन्द्रात् हिमालयात् आ मर्यादाीकृत्येत्यर्थः, नैकरागस्फुरितमणिरुचः—नैकैः बहुभिः रागैः वर्णैः स्फुरिताः द्योतमानाः मणिरुचः रत्नभासः यस्मिन् तादृशस्य, दक्षिणस्य अर्णवस्य—दक्षिणसागरस्य, तीरान्तात्—कूलात्, आगत्य आगत्य—पुनः पुनः समेत्य, भीतिप्रणतनृपशतैः—भीत्या भयेन प्रणतानि यानि नृपशतानि राजमण्डलानि तैः, तव—भवतः, चरणयुगस्य—पादद्वयस्य, अङ्गुलीरन्ध्रभागाः—अङ्गुलीनां रन्ध्रभागाः छिद्रप्रदेशाः, शश्वदेव—सर्वदैव, चूडारत्नांशुगर्भाः—चूड़ास्थितानि रत्नानि मुकुटमणयः तेषाम् अंशवः किरणाः गर्भे मध्ये येषां तादृशाः, क्रियन्ताम् विधीयन्ताम् ॥ १६ ॥
हिन्दी अनुवाद—[समीप जाकर] वृषल की विजय हो ।
राजा—[सिंहासन से उठकर चाणक्य के चरणों को पकड़कर] आर्य ! चन्द्रगुप्त प्रणाम करता है ।
चाणक्य—[हाथों में लेकर] वत्स ! उठो उठो ।
शिलाओ पर गिरती हुई गंगा के जलकणों की वर्षा से शीतल हिमालय की ओर से और रंग-बिरंगी चमकती मणियों की कान्ति वाले दक्षिण समुद्र के तट की ओर से आ-आकर डर से झुके हुए सैकड़ो राजाओ से तुम्हारे दोनो चरणों की अंगुलियो के छिद्रभाग निरन्तर ही ( उनके ) मुकुटों में जटित रत्नों की किरणों से युक्त किये जायँ ॥ १९ ॥
टिप्पणी—विजयताम्—अत्र ‘विपराभ्यां जेः’ इत्यनेन आत्मनेपदत्वम् । शैलेन्द्रात्—शैलानाम् इन्द्रः लक्षणया राजा शैलेन्द्रः = हिमालयः, तस्मात् । अत्र आङ्योगे ‘पञ्चम्यपाङ् परिभिः’ इत्यनेन पञ्चमी । नैकराग—न एकः नैकः नञर्थेन नशब्देन नुप्सुपा इति समासः । नैकश्च नैकश्च नैकश्च इत्येकशेषः । चूडारत्नांशुगर्भाः—( राजाओं के ) मुकुटों में जड़े हुए रत्नों
'१६६ मुद्राराक्षसम्
की किरणें जिनके बीच में पड़ती हैं । चूडारत्नानाम् अंशवः गर्भे येषां तादृशा व्यधिकरणबहुव्रीहि स०, गङ्ग्वादीनामाकृतिगणत्वात् सप्तम्यन्तस्य गर्भशब्दस्य परनिपातः । क्रियन्ताम्—अत्र 'आशिषि लिङ्लोटौ' इत्यनेन आशीर्र्थे लोट् । श्लोक का तात्पर्य यह है कि (उत्तर) हिमालय और दक्षिण सागर की सीमा के मध्यवर्ती राजा लोग वशीभूत होकर तुम्हें सदव प्रणाम किया करें । इसमे स्रग्धरा छन्द है । इसका लक्षण १, १ में देखिए ॥ १६ ॥
राजा—आर्यप्रसादादनुभूयत एवैतत्, नाऽऽशास्यते । उपविशत्वार्यः ।
[इत्युभौ यथासनमुपविष्टौ ।]
चाणक्य—वृषल ! किमर्थं वयमाहूताः ?
राजा—आर्यस्य दर्शनेनात्मानमनुग्राहयितुम् ।
चाणक्य—[स्मितं कृत्वा] वृषल ! अलमनेन प्रश्रयेण, न निष्प्रयोजनमधिकारवन्तः प्रभुभिराहूयन्ते, तत् प्रयोजनमभिधीयताम् ।
राजा—आर्य ! कौमुदीमहोत्सवप्रतिषेधस्य किं फलमार्यः पश्यति ?
चाणक्य—[स्मितं कृत्वा] वृषल ! उपालब्धुं तर्हि वयमाहूताः ।
राजा—आर्य ! नोपालब्धुम् ।
चाणक्य—किं तर्हि ?
राजा—विज्ञापयितुम् ।
चाणक्य—वृषल ! यद्येवं तर्हि विज्ञापनीयानामवश्यं शिष्येण रुचयोऽनुरोद्धव्याः ।
राजा—आर्य ! कः संदेहः ? किन्तु न कदाचिदप्यार्यस्य निष्प्रयोजना प्रवृत्तिरिति न प्रश्नावकाशः ।
चाणक्य—[...] ! सम्यग्गृहीतवानसि मदाशयम् । न हि प्रयोजन[...] चाणक्यश्चेष्टते ।
राजा—[...] भीतिर्मां प्रयोजनशुश्रूषा मुखरयति ।
चाणक्य—वृषल ! [...]स्तिव चेत्ताम् । इह खल्वर्थशास्त्रकारा [...] तद्यथा—राजायत्ता, सचिवायत्ताम्,
तृतीयोऽङ्कः १६७
उभयायत्ताञ्चेति । तत् सचिवायत्तसिद्धेर्भवतः किं फलान्वेषेण ! यतो वयमेवात्र नियुक्ता वेत्स्यामः ।
राजा—[सकोप इव मुखं परावर्तयति ।]
हिन्दी अनुवाद—राजा—आर्य की कृपा से इसका अनुभव ही किया जा रहा है, आज्ञा नहीं । आर्य बैठें । [दोनों यथायोग्य आसन पर बैठ जाते हैं ।]
चाणक्य—वृषल ! क्यों हमें बुलाया गया है ?
राजा—आर्य के दर्शन से अपने को अनुगृहीत कराने के लिए ।
चाणक्य—[मुसकराकर ] वृषल ! यह विनय पर्याप्त हो गया । राजा अधिकारियों को बिना प्रयोजन के नहीं बुलाते । इसलिए प्रयोजन बताओ ।
राजा—आर्य ! कौमुदीमहोत्सव के रोकने का क्या परिणाम आप देखते हैं ?
चाणक्य—[मुसकराकर] वृषल ! तब उलाहना देने के लिए हमें बुलाया गया है ।
राजा—आर्य ! उलाहना देने के लिए नहीं ।
चाणक्य—तब क्यों ?
राजा—निवेदन करने के लिए ।
चाणक्य—वृषल ! यदि ऐसा है तो शिष्य निवेदन करने योग्यों की रुचियों का अनुसरण अवश्य करें ।
राजा—आर्य ! (इसमें) क्या सन्देह ? किन्तु कभी भी बिना प्रयोजन के आर्य की प्रवृत्ति नहीं होती, इसलिए हमें प्रश्न करने का अवसर है ।
चाणक्य—वृषल ! मेरे आशय को ठीक समझा है । प्रयोजन की अपेक्षा किये बिना चाणक्य स्वप्न में भी चेष्टा नहीं करता है ।
राजा—आर्य ! इसलिए प्रयोजन सुनने की इच्छा मुझे मुखरित कर रही है ।
चाणक्य—वृषल ! सुनो । यहाँ अर्थशास्त्र के रचयिताओं ने तीन प्रकार की ही सिद्धि का वर्णन किया है । वह जैसे—राजा के अधीन, मंत्री के
१६८ मुद्राराक्षसम्
अधीन और दोनों के अधीन। इसलिए मन्त्री के अधीन सिद्धि (प्राप्त करने) वाले तुम्हें परिणाम के अन्वेषण से क्या लाभ ? क्योंकि इस विषय मे नियुक्त हुए हम ही जानेंगे।
राजा—[क्रुद्ध की भाँति मुंह फेर लेता है।]
टिप्पणी—अनुग्राहयितुम्—प्रसन्नतास्पदं कर्तुम्। अनु√ग्रह्+णिच्+तुमुन्। दर्शन् आत्मानम् अनुगृह्णासि=अहं दर्शनेन (अनुक्ते कर्तरि तृतीया) आत्मानम् अनुग्राहयामि। प्रश्रयेण—विनयेन। प्र√श्रि+अच् भावे=प्रश्रय, तेन। करणे तृतीया। अधिकारवन्त —विशिष्टकार्यकारिण। अधिकार अस्ति एषाम् इति अधिकार+मतुप्। उपालब्धुम्—तिरस्कर्तुम्। उप-आ√लभ्+तुमुन्। विज्ञापयितुम्—निवेदयितुम्। वि√ज्ञा+णिच्, पुक् तुमुन्। विज्ञापनीयानाम्—निवेदनीयानां गुह्यानामित्यर्थ। रुचय —प्रवृत्तय । अनुरोधव्या —मानयितव्या। प्रश्नावकाश —पृच्छावसर । अनपेक्षमाण —अनवलोकयन् । प्रयोजनशुश्रूषा—हेतुश्रवणेच्छा। श्रोतुम् इच्छा इति √श्रु+सन्+अ भावे स्त्रियाम्=शुश्रूषा। प्रयोजनस्य शुश्रूषा। मुखरयति—वक्तुं प्रवर्तयति। वाचाल बना रही है। मुखम् अस्ति अस्य महद् इति मुख+र मत्वर्थे=मुखर=वाचाल। तं करोति इति मुखर+णिच् (नामधातु)+लट्—तिप्=मुखरयति। राजायत्ताम्—नृपाधीनाम्। आ√यत्+क्त कर्मणि=आयत्ता। राज्ञि आयत्ता सुपुपा स०, ताम्। फलान्वेषणेन—प्रयोजनजिज्ञासया। अत्र करणे तृतीया। नियुक्ता—व्यापृता। वेत्स्याम —वेदिष्याम । √विद् (ज्ञाने)+लृट्—मस्। यहाँ इट् का आगम हो जाता है, इसलिए ‘वेत्स्याम’ रूप अशुद्ध है। शुद्ध रूप ‘वेदिष्याम’ होता है। विद् धातु अन्यार्थक है और अनेक गणों में पठित है—‘सत्तायां विद्यते ज्ञाने वेत्ति विन्ते विचारणे। विन्दते—विन्दति प्राप्तौ श्यन्लुक्श्नम्शेश्ष्विद क्रमात्’ ॥
[ततो नेपथ्ये वैतालिकाँ पठत।]
एक —
आकाशं काशपुष्पच्छविमभिभवता भस्मना शुक्लयन्ती शीतांशोरंशुजालैर्जलधरमलिनां क्लिन्दती कृत्तिमैभीम् ।
तृतीयोऽङ्कः १६६
कापालीमुद्वहन्ती स्रजमिव धवलां कौमुदीमित्यपूर्वा हासश्रीराजहंसा हरतु तनुरिव क्लेशमैशी शरदः ॥ २० ॥
अन्वयः—काशपुष्पच्छविम् अभिभवता भस्मना आकाशं शुक्लयन्ती, शीतांशोः अंशुजालैः जलधरमलिनाम् ऐभीं कृत्तिं क्लिन्दती, कौमुदीमिव धवलां कापालीं स्रजम् उद्वहन्ती, हासश्रीराजहंसा इति अपूर्वा शरदिव ऐशी तनुः वः क्लेशं हरतु ॥ २० ॥
व्याख्या—काशपुष्पच्छविम्—काशपुष्पस्य काशकुसुमस्य छविं कान्तिम्, अभिभवता—न्यक्कुर्वता, भस्मना—भूत्या, आकाशं—गगनं, शुक्लयन्ती—धवलयन्ती, शीतांशोः—चन्द्रस्य, अंशुजालैः—किरणसमूहैः, जलधरमलिनाम्—जलधरः—मेघ इव या मलिना नीला ताम्, ऐभीं कृत्तिं—गजचर्म, क्लिन्दती—सिञ्चन्ती (‘क्लिश्रती’ इति पाठे तद्गतनैल्य तिरस्कुर्वन्तीत्यर्थः), कौमुदीमिव—चन्द्रिकामिव, धवलां—स्वच्छां, कापाली—नरकपालकल्पितां, स्रजं—मालाम्, उद्वहन्ती—धारयन्ती, हासश्रीराजहंसा—प्रशस्ताट्टहाससम्पत्, इति—अतो हेतोः, अपूर्वा—अतिरमणीया, शरदिव—शरदृशुरिव, ऐशी—शाम्भवी, तनुः—मूर्तिः, वः—युष्माकं, क्लेशं—कष्टं, हरतु—अपनयतु। (पक्षे शरदो विशेषणं सर्वं क्वचिद्विभक्तिविपरिणामेन क्वचिच्च यथोक्तरूपेणेति ज्ञेयम्) भस्म, अभिभवन्त्या—तिरस्कुर्वन्त्या, काशपुष्पच्छव्या—काशकुसुमशोभया, आकाशं, शुक्लयन्ती, शीतांशोः, अंशुजालैः, ऐभीं, कृत्तिमिव, जलधरमलिनां—मेघमालिन्यं, क्लिन्दती—अपसारयन्ती (धातूनामनेकार्थत्वात्), कापालीं, स्रजमिव, धवलां, कौमुदीम्, उद्वहन्ती, हासश्रीराजहंसा—हासश्रीरिव राजहंसो यस्यां तादृशी, इति, अपूर्वा, शरत्, वः, क्लेशं, हरतु ॥ २० ॥
हिन्दी अनुवाद—[नेपथ्य में दो वैतालिक (दो श्लोक) पढ़ते हैं।]
पहला—(ताण्डवनृत्य के प्रारंभ होने पर) काशपुष्प की कान्ति को तिरस्कृत करने वाले भस्म से आकाश को धवल बनाती हुई, चन्द्रमा के किरण-समूहों से मेघ के समान नील (वर्ण के) गज-चर्म को सींचती हुई, चाँदनी के समान शुभ्र कपाल-माला को धारण किये हुई और राजहंस के समान (धवल) हास्य-शोभा से युक्त होने के कारण विलक्षण शरद् ऋतु की तरह शिव की मूर्ति आपके क्लेश का हरण करे। (शरद्-पक्ष में) भस्म
२०० | मुद्राराक्षसम्
को तिरस्कृत करने वाली काशपुष्प की कान्ति से आकाश को धवल बनाती हुई, चन्द्रमा के किरण-समूहों से गजचर्म के समान मेघ के मालिन्य को दूर करती हुई, कपाल-माला के समान शुभ्र चन्द्रिका को धारण करती हुई और हास्य की शोभा के समान राजहंसों से युक्त होने के कारण विलक्षण शरद् ऋतु आपके (राक्षस और मलयकेतु द्वारा उत्पन्न किये हुए) दुःख को दूर करे ॥ २० ॥
टिप्पणी—वैतालिकौ—स्तुतिपाठक, समय की सूचना देने वाले। विविधस्तालः नितालः। तेन चरति वा विविधस्तालः प्रयोजनमस्य इति विताल+ठक्, तस्य इञादेशः = वैतालिकः, तौ। एषः—पहला वैतालिक चाणक्य का गुप्तचर है। शुक्लयन्तीम्—शुभ्रं करोति इति शुक्ल+णिच् (नामधातु)+शतृ स्त्रियाम्। ऐभीं कृत्तिम्—गज सम्बन्धी चर्म को। इभस्य इयम् इति इभ+अण्+ङीप्=ऐभी, ताम्। कहते हैं कि शंकर गज नामक असुर को मारकर उसकी खाल को धारण किये हुए हैं। कापालीम्—कपालानाम् इयम् इति कापाली कपाल+अण्+ङीप्, ताम्। हास्यश्रीराजहंसा—राजहंस के समान हास्य की शोभा अर्थात् अट्टहास से युक्त। हास्यस्य श्रीः षष्ठीतत्०। हास्य-श्रीः राजहंसः इव इति उपमितकर्मधारय स०। सा अस्ति अस्याम् इति हास्यश्री-राजहंस+अच्—टाप्। ऐशी—शंकर सम्बन्धिनी। ईशस्य इयम् इति ईश+अण्+ङीप्। इस श्लोक में उपमा अलङ्कार है और स्रग्धरा छन्द है ॥ २० ॥
अपि च—
प्रत्यग्रोन्मेषजिह्या क्षणमनभिमुखी रत्नदीपप्रभाणा-
मात्मव्यापारगुर्वी जनितजडतया जृम्भिते साङ्गभङ्गे ।
नागाङ्कं मोक्तुमिच्छोः शयनमुरु फणाचक्रवालोपधानं
निद्राच्छेदाभिताम्रा चिरमवतु हरेर्दृष्टिराकेकरा वः ॥ २१ ॥
अन्वय—फणाचक्रवालोपधानम् उरु नागाङ्क शयनं मोक्तुमिच्छोः हरेः प्रत्यग्रोन्मेषजिह्या क्षणम् रत्नदीपप्रभाणाम् अनभिमुखी साङ्गभङ्गे जृम्भिते जनित-जडलवा आत्मव्यापारगुर्वी आकेकरा निद्राच्छेदाभिताम्रा दृष्टिः वः चिरम् अवतु ॥ २१ ॥
व्याख्या—फणाचक्रवालोपधानम्—फणानां स्फटानां चक्रवालं मण्डलम् तदेव
तृतीयोऽङ्कः २०१
उपधानं शिरोधानं यस्मिन् तादृशम्, उरु—महत्, नागाङ्कम्—सर्पराजक्रोडरूपं, शयनं—शय्यां, मोक्तुमिच्छोः—त्यक्तुं कामयमानस्य, हरेः—विष्णोः, प्रत्यग्रोन्मेषजिह्मा—प्रत्यग्रः नवः यः उन्मेषः उन्मीलनं तेन जिह्मा मन्दा, क्षणं—किञ्चित्कालम्, रत्नदीपप्रभाणाम् रत्नदीपानां दीपरूपाणां नागराजशिरोमणीनाम्, अनभिमुखी—असम्मुखी, साङ्गभङ्गैः—अङ्गभङ्गसहितैः जृम्भितैः—गात्रविनामैः, जनितजललवा—जनितः उद्गमितः जललवः वारिविन्दुः यस्यां तादृशी, (अतएव) आत्मव्यापारगुर्वी—दर्शनात्मकस्वक्रियाऽसमर्था, आकेकरा—अर्धनिमीलिता, निद्राच्छेदाभिताम्रा—निद्रायाः स्वापस्य छेदः भङ्गः तेन अभिताम्रा अतिरक्ता, दृष्टिः—नेत्रं, वः—युष्मान्, चिरं—दीर्घकालम्, अवतु—रक्षतु ॥२१॥
हिन्दी अनुवाद—और भी—फणा-मंडल के बने तकियो वाली तथा विशाल शेषनाग के शरीर रूपी शय्या को छोड़ने के इच्छुक ( भगवान् ) विष्णु की सद्यः खुलने के कारण अलसायी, कुछ देर के लिए रत्नदीपों ( अर्थात् दीप रूपी नाग-राज की शिरोमणियों ) की शिखा पर न टिक पाती हुई, अँगड़ाई के साथ जँभाई लेने से उत्पन्न अश्रु-कणों वाली, ( अतएव ) अपने व्यापार ( अर्थात् देखने ) में असमर्थ अधखुली और निद्रा-भंग के कारण अत्यंत लाल दृष्टि चिरकाल तक आपकी रक्षा करे ॥२१॥
टिप्पणी—फणाचक्रवालोपधानम्—फणा-समूह रूपी तकियो से युक्त । 'स्फटायां तु फणा द्वयोः' इति 'चक्रवाल तु मण्डलम्' इति चामरः । नागाङ्कम्—नागराज के शरीर या गोद रूप । जिह्मा—मन्द, अलस । आकेकरा—अर्धनिमीलित, आधी बंद । आकेकरा दृष्टि की परिभाषा यह है—'दृष्टिराकेकरा किञ्चित् स्फुटापाङ्गे प्रसारिता । मीलितार्धपुटा लोके ताराव्यावर्तनोत्तरा ॥' इस श्लोक में रूपक और स्वभावोक्ति अलंकारो की संसृष्टि है । इसमें प्रसाद गुण है, लाटी रीति है और स्रग्धरा छन्द है ॥२१॥
द्वितीयः—
सत्त्वोत्कर्षस्य धात्रा निधय इव कृताः केऽपि कस्यापि हेतो- र्जेतारः स्वेन धाम्ना मदसलिलमुचां नागयूथेश्वराणाम् । दंष्ट्राभङ्गं मृगाणामधिपतय इव व्यक्तमानावलेपा- नाऽऽज्ञाभङ्गं सहन्ते नृवर नृपतयस्त्वादृशाः सार्वभौमाः ॥२२॥
२०२ मुद्राराक्षसम्
अन्वय—नृवर ! धात्रा सत्त्वोत्कर्षस्य निधय इव वृता व्यक्तमानावलेपा केऽपि त्वादृशा सार्वभौमा नृपतयः स्वेन धाम्ना मदमलिलमुचां नागयूथेश्वराणां जेतार मृगाणामधिपतय दंष्ट्राभङ्गमिव कस्यापि हेतो आज्ञाभङ्गं न सहन्ते ॥२२॥
व्याख्या—नृवर !—मनुजश्रेष्ठ !, धात्रा—ब्रह्मणा, सत्त्वोत्कर्षस्य—सत्त्वस्य बलस्य य उत्कर्ष आधिक्यं तस्य, निधय इव—आगारा इव, वृता—उत्पादिता, ( अतएव ) व्यक्तमानावलेपा—व्यक्त स्फुट मान स्वाभिमान अवलेप-गर्वश्च येषां ते, केऽपि—उत्कृष्टसामर्थ्यवन्त, त्वादृशा—भवद्विधा, सार्वभौमा—सर्वभूमिपतय, नृपतय—राजान, स्वेन—स्वकीयेन, धाम्ना—तेजसा, मदमलिलमुचां—मदमलिलं दानवारि मुञ्चन्ति ये तादृशानाम् मदस्राविणामित्यर्थ, नागयूथेश्वराणाम्—नागानां हस्तिनां यूथा समूहा तेषाम् ईश्वरा अधिपतय तेषाम्, जेतार—जयिन, मृगाणां—पशूनाम्, अधिपतय—राजान सिंहा इत्यर्थ, दंष्ट्राभङ्गमिव—दशनत्रुटिमिव, कस्यापि हेतो—कुतोऽपि निमित्तात्, आज्ञाभङ्गम्—आदेशव्याघातम्, न सहन्ते—न मृष्यन्ति ॥२२॥
हिन्दी अनुवाद—दूसरा—हे नरश्रेष्ठ ! ब्रह्मा के द्वारा बल की अधिकता की निधि के समान उत्पन्न किये हुए और ( अतएव ) प्रकट स्वाभिमान एवं गर्व से युक्त कोई आप-जैसे चक्रवर्ती राजा अपने तेज के कारण आज्ञा के उल्लंघन को उसी तरह किसी भी कारण से सहन नहीं करते हैं जैसे मदजल को बहाने वाले हाथियों के झुण्डों के विजेता मृगपति ( सिंह ) दाढ़ के तोड़े जाने को ( सह्य नहीं करते ) ॥२२॥
टिप्पणी—द्वितीय—दूसरा वैतालिक राक्षस का गुप्तचर स्तनकलश है । निधय—निधीयन्ते स्थाप्यन्ते एषु इति नि√धा+कि 'कर्मण्यधिकरणे च' इत्यनेन । व्यक्तमानावलेपा—वि√अञ्ज्+क्त कर्मणि = व्यक्त । √मन्+घञ् भावे = मान । अव√लिप्+घञ् भावे = अवलेप । मानश्च अवलेपश्च इति मानावलेपो द्वन्द्व० स० । व्यक्तौ मानावलेपौ येषां ते बहुव्रीहि स० । सार्वभौमा—भूमण्डल के शासक । सर्वभूमे ईश्वरा वा सर्वभूमौ विदिता इति सर्वभूमि+अण्, 'अनुशतिकादीनां च' इति सूत्रेण उभयपदवृद्धि । कस्यापि हेतो—देखिए १, १ में 'कस्य हेतो' की टिप्पणी । इस श्लोक में उत्प्रेक्षा और
तृतीयोऽङ्कः २०३
उपमा अलंकारों की संसृष्टि है। इसमें ओज गुण है, वैदर्भी रीति है और स्रग्धरा छन्द है ॥२२॥
अपि च—
भूषणाद्युपभोगेन प्रभुर्भवति न प्रभुः।
परैरपरिभूताज्ञस्त्वमिव प्रभुरुच्यते ॥२३॥
**अन्वयः—**प्रभुः भूषणाद्युपभोगेन न प्रभुः भवति। त्वमिव परैः अपरिभूताज्ञः प्रभुः उच्यते ॥२३॥
**व्याख्या—**प्रभुः—नृपः, भूषणाद्युपभोगेन—भूषणादीनाम् अलंकरणादीनाम् उपभोगेन अनुभवेन हेतुना, न प्रभुर्भवति—न राजा सम्पद्यते। त्वमिव—भवानिव, परैः—अन्यैः, अपरिभूताज्ञः—अपरिभूता अप्रतिहता आज्ञा आदेशो यस्य तादृशः, प्रभुः—राजा, उच्यते—कथ्यते ॥२३॥
**हिन्दी अनुवाद—**और भी—राजा आभूषण आदि के उपभोग करने (मात्र) से राजा नहीं होता है। (किन्तु) आप ही की तरह दूसरो से तिरस्कृत न होने वाली आज्ञा से सम्पन्न (होने पर) राजा कहलाता है ॥२३॥
**टिप्पणी—**भूषणाद्यु०—इसका तात्पर्य यह है कि आज्ञा का उल्लंघन न होना ही राजत्व का कारण है। इस प्रकार आज्ञा का उल्लंघन करते हुए चाणक्य की यदि तुम उपेक्षा करते हो तो वही तत्त्वतः राजा है न कि तुम। इसलिए उसे क्षमा न करो। इस श्लोक में उपमा अलंकार है और अनुष्टुप् छन्द है ॥२३॥
चाणक्यः—[आकर्ण्यात्मगतम्] प्रथम तावद्विशिष्टदेवतास्तुतिरूपेण प्रवृत्तशरद्गुणप्रख्यापनमाशीर्वचनम्। इदमपरं किमिति नावधारयामि। [विचिन्त्य] आः, ज्ञातम्। राक्षसस्यायं प्रयोगः। आः दुरात्मन् राक्षसहतक! दृश्यसे, जागर्ति खलु कौटिल्यः।
**राजा—**आर्य वैहीनरे! दापयाभ्यां वैतालिकाभ्यां सुवर्णशतसहस्रम्।
**कंचुकी—**यदाज्ञापयति देवः। [इत्युत्थाय परिक्रामति।]
चाणक्यः—[सक्रोधम्] वैहीनरे! तिष्ठ तिष्ठ, न गन्तव्यम्। वृषल! किमयमस्थाने एव महानर्थोत्सर्गः क्रियते?
| २०४ | मुद्राराक्षसम् |
|---|
राजा— आर्येणैव सर्वतो निरुद्धचेष्टाप्रसरस्य मम बन्धनमिव राज्यं न राज्यमिव ।
चाणक्य— वृषल ! स्वयमनभियुक्तानां राज्ञामेते दोषा भवन्ति । तद्यदि न सहसे, तदा स्वयमेवाभियुज्यताम् ।
राजा— एते वयं स्वकर्मण्यभियुज्यामहे।
चाणक्य— प्रियं न , वयमपि स्वकर्मण्यभियुज्यामहे ।
हिन्दी अनुवाद—चाणक्य— [ सुनकर मन में ] पहला तो देवविशेषो की स्तुति रूप में प्रस्तुत शरद् ऋतु के गुणों को प्रकट करने वाला आशीर्वाद है । यह दूसरा क्या है, यह निश्चय नही कर पा रहा हूँ । [सोचकर] अच्छा, समझ गया । यह राक्षस का प्रयोग है । ओह दुष्ट पाजी गद्दन ! देखे जा रहे हो । चाणक्य जाग रहा है ।
राजा— आर्य वैहीनरि ! इन दोनो वैतालिकों को एक-एक लाख सुवर्ण-मुद्रायें दिला दो ।
कञ्चुकी— महाराज की जैसी आज्ञा । [उठकर घूमता है ।]
चाणक्य— [क्रोध के साथ] वैहीनरि ! ठहरो ठहरो, मत जाओ । वृषल ! क्यो अनुपयुक्त स्थान पर ही महान् धन का त्याग कर रहे हो ?
राजा— इस प्रकार आर्य के द्वारा सब तरह से रोकी गई गतिविधि वाले मेरे लिए तो राज्य बन्धन के समान है, न कि राज के समान ।
चाणक्य— वृषल ! स्वयम् स्वतन्त्रता से राज-कार्य न करने वाले राजाओं के ये दोष होते हैं (कि वे गुरुजनो की आज्ञा का सहन नही करते) । इसलिए यदि तुम्हें सहन नही होता है तो स्वयं राज-काज देखो ।
राजा— ये हम अपने कार्य को स्वतन्त्र रूप से करेंगे ।
चाणक्य— हमारे लिए अच्छा है । हम भी अपने कार्य में लग जाते हैं ।
टिप्पणी—प्रथमम्— पहले वैतालिक का पठन । विशिष्टदेवतास्तुति-रूपेण— विशिष्ट देवता (शिव और विष्णु) की स्तुति रूप से । विशिष्टा देवता कर्मधारय स०, तस्याः स्तुतिः , तस्याः रूपम् षष्ठीतत्०, तेन करणे तृतीया । प्रवृत्तशरद्गुणप्रख्यापनम्— उपस्थित शरद् ऋतु के गुणों का कीर्तन । प्रवृत्ता
- तृतीयोऽङ्कः २०५
'चासौ शरत् प्रवृत्तशरत् कर्मधारय स०, तस्याः गुणाः, तेषाम् प्रख्यापनम् षष्ठी-तत्०। यह 'आशीर्वचनम्' का विशेषण है। सुवर्णशतसहस्रम्—सौ हजार स्वर्ण-मुद्रायें। सुवर्णात् शतानि, तेषां सहस्रम्। अर्थोत्सर्गः—उद्√सृज्+घञ् भावे=उत्सर्गः=दानम्। अर्थस्य=धनस्य उत्सर्गः। निरुद्धचेष्टाप्रसरस्य—प्रतिहतोद्योगावसरस्य। प्र√सृ+अप् भावे बाहुलकात्=प्रसरः। चेष्टायाः प्रसरः षष्ठीतत्०। निरुद्धः चेष्टाप्रसरः अस्य बहुव्रीहि स०, तस्य। यह 'मे' का विशेषण है। स्वयम्—आत्मना। अनभियुक्तानाम्—राजकार्येष्व-स्वतन्त्राणाम्।
राजा—यद्येवं, तर्हि कौमुदीमहोत्सवप्रतिषेधस्य प्रयोजनं श्रोतुमिच्छामि।
चाणक्यः—वृषल ! कौमुदीमहोत्सवानुष्ठानस्य किं प्रयोजनमित्यहमपि श्रोतुमिच्छामि।
राजा—प्रथमं तावत् ममाज्ञाव्याघातः।
चाणक्यः—वृषल ! ममापि खलु त्वदाज्ञाव्याघात एव कौमुदीमहोत्सवप्रतिषेधस्य प्रथमं प्रयोजनम्। कुतः ?—
अम्भोधीनां तमालप्रभवकिसलयश्यामवेलावनाना-
मा पारेभ्यश्चतुर्णां चटुलतिमिकुलक्षोभितान्तर्जलानाम्।
मालेवाज्ञा सपुष्पा तव नृपतिशतैरुह्यते या शिरोभिः
सा मय्येव स्खलन्ती प्रथयति विनयालङ्कृतं ते प्रभुत्वम् ॥२४॥
अन्वयः—तमालप्रभवकिसलयश्यामवेलावनानां चटुलतिमिकुलक्षोभितान्तर्जलानां चतुर्णां अम्भोधीनां पारेभ्यः आ या तव आज्ञा सपुष्पा माला इव नृपतिशतैः शिरोभिः उह्यते सा मयि एव स्खलन्ती (सती) ते प्रभुत्वं विनयालङ्कृतं प्रथयति ॥२४॥
व्याख्या—तमालप्रभवकिसलयश्यामवेलावनानां—तमालेभ्यः प्रभवन्तीति तमालप्रभवाणि तमालजातानि यानि किसलयानि नवपल्लवाः तैः श्यामानि कृष्णानि वेलावनानि तीरवर्तिकाननानि येषां तादृशानाम्, चटुलतिमिकुलक्षोभितान्तर्जलानाम्—चटुलानि चपलानि यानि तिमिकुलानि महामत्स्यसमूहाः तैः
२०६ मुद्राराक्षसम्
क्षोभितम् आन्दोलितम् अन्तर्जल गभीरतलवर्ति सलिल येषा तादृशाना, चतुर्णाम्, अम्भोधीना—सागराणा पारेभ्य या—तीरपर्यन्त यो भूभाग तत्र, या, तव—ते, आज्ञा—आदेश, सपुष्पा—पुष्पयुक्ता, माला इव—स्रगिव, नृपतिशतै—राजसमूहै, शिरोभि—उत्तमाङ्गै, उह्यते—धायते, सा—आज्ञा, मयि एव—चाणक्य एव, स्खलन्ती—व्याहता (गता), त, प्रभुत्व—स्वामित्व विनयाऽलङ्कृत—विनयेन शीलेन अलङ्कृत भूषित, प्रथयति—ख्यापयति ॥२४॥
हिन्दी अनुवाद—राजा—यदि ऐसा है तो कौमुदीमहोत्सव को रोकने का प्रयोजन सुनना चाहता हूँ ।
चाणक्य—वृषल ! कौमुदीमहोत्सव मनाने का क्या प्रयोजन है, यह मैं भी सुनना चाहता हूँ ।
राजा—पहले तो (न मानने से) मेरी आज्ञा का उल्लङ्घन होता है ।
चाणक्य—मेरा भी तो तुम्हारी आज्ञा का उल्लङ्घन करना ही कौमुदी-महोत्सव को रोकने का पहला प्रयोजन है । क्योंकि—
तमाल वृक्षों के नवीन पल्लवों से काले बने हुए तटवर्ती वनों वाले और चंचल महामत्स्यों के समूह से क्षुब्ध भीतरी जल वाले चारों समुद्रों के तीर-पर्यन्त भू-भाग पर जो तुम्हारी आज्ञा फूलों की माला के समान सैकड़ों राजाओं के द्वारा सिर से लगायी जाती है, वह मुझमें ही स्खलित होती हुई (अर्थात् मेरे ही आगे भग्न होती हुई) तुम्हारे प्रभुत्व को विनय से विभूषित बताती है ॥२४॥
टिप्पणी—आज्ञाव्याघात—आज्ञा का उल्लङ्घन । 'आज्ञाऽव्याघात' इस पाठ में 'आज्ञा का उल्लङ्घन न होना' अर्थ करना चाहिए । वि-आ√हन्+घञ् भावे=व्याघात । न व्याघात अव्याघात । आज्ञाया अव्याघात पक्षे आज्ञाया व्याघात । तमालप्रभव०—प्रभवति अस्मात् इति प्र√भू+अप् अपादाने= प्रभव । तमाल प्रभव एषाम् इति तमालप्रभवाणि तादृशानि किसलयानि (आगे दे० व्याख्या) । तिमि—बहुत बड़े आकार का एक समुद्री मत्स्य । इसके सम्बन्ध में कहा गया है—'अस्ति मत्स्य तिमिर्नाम शतयोजनविस्तृत । तिमिङ्गिलगिलो-ऽप्यस्ति तद्गिलोऽप्यस्ति राघव ।।' अन्तर्जलम्—अन्त स्थित जलम् मध्यमपदलोपी स० अथवा जलस्य अन्त षष्ठीतत्० । 'राजदन्तादिषु परम्' इत्यनेन जलस्य पर-
तृतीयोऽङ्कः २०७
निपातः । उह्यते—धारण की जाती है । √ वह् + लट्—ते कर्मणि । इस श्लोक में उपमा अलंकार है, ओज गुण है, गौडी रीति है और स्रग्धरा छन्द है । इसका लक्षण १, १ में देखिए ॥२४॥
राजा—अथापरमपि प्रयोजनं यत्तच्छ्रोतुमिच्छामि ।
चाणक्यः—तदपि कथयामि ।
राजा—कथ्यताम् ।
चाणक्यः—शोणोत्तरे ! मद्वचनात् कायस्थमचलदत्तं ब्रूहि, यत् भद्रभट-प्रभृतीनां लेख्यपत्रं तत्तावत् दीयतामिति ।
प्रतीहारी—जं अज्जो आणवेदि त्ति ( यदार्य आज्ञापयतीति । )
[ निष्क्रम्य पुनः प्रविश्य ] अज्ज ! इदं पत्तं । (आर्य ! इदं पत्रम् । )
चाणक्यः—वृषल ! श्रूयताम् ।
राजा—दत्तावधानोऽस्मि ।
चाणक्यः—[ वाचयति ] स्वस्ति सुगृहीतनामधेयस्य देवस्य चन्द्रगुप्तस्य सहोत्थायिनां प्रधानपुरुषाणामितोऽपक्रम्य मलयकेतुमाश्रितानां प्रमाणलेख्यपत्रम् । तत्र प्रथमं तावत् गजाध्यक्षो भद्रभटः, अश्वाध्यक्षः पुरुषदत्तः, महाप्रतीहारस्य चन्द्रभानोर्भागिनेयो हिङ्गुरातः, देवस्य स्वजनगन्धी महाराजो बलगुप्तः, देवस्यैव कुमारसेवको राजसेनः सेनापतेः सिंहबलस्य कनीयान् भ्राता भागुरायणः मालवराजपुत्रो रोहिताक्षः क्षत्रगणमुख्यतमो विजयवर्मा इति ।
[ आत्मगतम् ] एते वयं देवस्य कार्येऽवहिताः स्म इति ।
[ प्रकाशम् ] एतावदेतत् पत्रम् ।
हिन्दी अनुवाद—राजा—अच्छा, दूसरा जो प्रयोजन है, उसे भी सुनना चाहता हूँ ।
चाणक्य—उसे भी कह देता हूँ ।
राजा—कह डालिए ।
चाणक्य—शोणोत्तरे ! मेरी ओर से कायस्थ अचलदत्त से कहो कि भद्रभट आदि का लिखा हुआ जो पत्र है, वह दे दो ।
२०८ मुद्राराक्षसम्
प्रतोहारी—जो आर्य की आज्ञा । [ निकलकर पुन प्रवेश करके ] आय ! यह पत्र है ।
चाणक्य—वृपल ! सुनो ।
राजा—(सुनने मे) दत्तचित्त है ।
चाणक्य—[ वांचता है ] कल्याण हो, प्रात म्मरणीय महाराज चन्द्रगुप्त के साथ उठने (-बैठने) वाले तथा यहा (कुसुमपुर) से भागकर मलयकेतु का आश्रय लेने वाले प्रधान राजपुरुषो का प्रामाणिक रूप से लिखा हुआ पत्र है । उनमे से पहले तो ( १ ) गज-सेनापति भद्रभट, ( २ ) अश्व-सेनापति पुरुषदत्त, ( ३ ) महाप्रतीहार चन्द्रभानु का भानजा हिङ्गरात, ( ४ ) महाराज का आत्मीय महाराज बलगुप्त, ( ५ ) महाराज का ही बाल-सेवक राजसेन, ( ६ ) सेनापति सिंहदत्त का छोटा भाई भागुरायण, ( ७ ) मालव का राजकुमार राहिताक्ष और ( ८ ) क्षत्रियो मे नवश्रेष्ठ विजयवर्मा है ।
[ मन म ] ये हम सब महाराज के कार्य मे सावधान हैं ।
[ प्रगट ] यह पत्र इतना ( ही ) है ।
टिप्पणी—लेख्यपत्रम्—√लिख्+ण्यत् कर्मणि=लेख्यम् । तस्य पत्रम् । गजाध्यक्ष—अक्ष=व्यवहार । अधिगत अक्षम् इति अध्यक्षः प्रादितत्० । गजेषु अध्यक्ष सुप्सुपा स० । महाप्रतीहारस्य—प्रधानद्वारपालकस्य । भागिनेय—भगिन्या अपत्यम् इति भगिनी+ढक्—एय । स्वजनगन्धी—आत्मीयजन-सम्बन्धी । स्व चा स्वजन कर्मधारय स० । तस्य गन्ध लेश स्वजनगन्धः । सः अस्ति अस्य इति स्वजनगन्ध+इनि । कुमारसेवक—बचपन से सेवा करने वाला । कुमारस्य सेवक 'याजकादिभिश्च' इति समास शेषषष्ठ्या वा समासः । कनीयान्—छोटा । अतिशयेन युवा इति युवन्+ईयसुन्=कनीयान् वा यवीयान् 'युवाल्पयो कनन्यतरस्याम्' इत्यनेन कनादेशस्य विकल्पात् । क्षत्रगणमुख्यतम—क्षत्र=क्षत्रिय । क्षत्राणा गण । तस्मिन् मुख्यतम ।
राजा—आर्य ! एतेषामपरागहेतून् श्रोतुमिच्छामि ।
चाणक्य—वृपल ! श्रूयताम् । अत्र यावेतौ गजाध्यक्षाश्वाध्यक्षौ भद्रभटपुरुषदत्तनामानौ, एतौ खलु स्त्रीमद्यमृगयाशीलो हस्त्यश्वावेक्षणे-