पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
( ३९६ ) पञ्चतन्त्रम् ।
( ३९६ ) पञ्चतन्त्रम् । त्रिलोकका जीतनेवाला मान्धाता कहां गया ?, सत्यव्रत राजा कहां है ?, देवताओंका राजा नहुष कहां गया ?, सत् शास्त्रवान् भगवान् केशव कहां है ?, यह महात्मा जो इन्द्रके सहित एक आसनमें बैठनेवाले माने जाते थे, कालने इनको उत्पन्न किया और विध्वंस भी कर दिया ॥ २६९ ॥ अपि च- औरभी- स च नृपतिस्ते सचिवास्ताः प्रमदास्तानि काननवनानि । स च ते च ताश्च तानि च कृन्तान्तदृष्टानि नष्टानि ॥२७०॥ वह राजा, वह मंत्री, वे स्त्री, वे उपवन, वे ( राजा ) वह ( मंत्री ) वे सब कालने देखकर खाय नष्ट कर दिये ॥ २७० ॥ एवं मत्तकरिकर्णचञ्चलां राज्यलक्ष्मीमवाप्य न्यायैक- निष्ठो भूत्वा उपभुङ्क्ष्व- इति श्रीविष्णुशर्मविरचिते पञ्चतन्त्रके काकोलूकीयं नाम तृतीयं तन्त्रं समाप्तम् । इस प्रकार मतवाले हाथीके कानकी समान चंचल राज्य लक्ष्मीको प्राप्त हो न्यायकी निष्ठावान होकर भोगकरो । इति श्रीविष्णुशर्मविरचिते पञ्चतंत्रके पंडितज्वालाप्रसादमिश्रकृतभाषाटीकायां काकोलूकीयं नामतृतीयं तन्त्रं सम्पूर्णम् ।
अथ लब्धप्रणाशंनाम चतुर्थं तन्त्रम् ।
अथ लब्धप्रणाशंनाम चतुर्थं तन्त्रम् । अथ इदमारभ्यते लब्धप्रणाशं नाम चतुर्थं तन्त्रं यस्य अयमादिमः श्लोकः- अब यह लब्धप्रणाशनाम ( प्राप्त होकर नष्ट होजाना ) चौथे तन्त्रको आरभ किया जाता है जिसके आदिके यह श्लोकहै- समुत्पन्नेषु कार्येषु बुद्धिर्यस्य न हीयते । स एव दुर्गं तरति जलस्थो वानरो यथा ॥ १ ॥ कार्यके उत्पन्न होनेमे जिसकी बुद्धि क्षय नहीं होती है वह कठिन कार्यको इस प्रकार तरजाताहै जैसे जलमें स्थित वानर ॥ १ ॥ तद्यथा अनुश्रूयते- सो यह सुना गयाहै कि- कथा १. अस्ति कस्मिंश्चित् समुद्रोपकण्ठे महान् जम्बूपादपः सदाफलः, तत्र च रक्तमुखो नाम वानरः प्रतिवसति स्म । तत्र च तस्य तरोरधः कदाचित् करालमुखो नाम मकरः समुद्रसलिलात् निष्क्रम्य सुकोमलवालुकासनाथे तीरोपान्ते न्यविशत् । ततश्च रक्तमुखेन स प्रोक्तः-“भो ! भवान् सम- भ्यागतोऽतिथिः । तद्भक्षयतु मया दत्तानि अमृततुल्यानि जम्बूफलानि । उक्तञ्च- किसी सागरके किनारे जामुनका वृक्ष सदा फलवालाहै, वहा रक्तमुखनामवाला वानर रहताथा । सो उस वृक्षके नीचे एक समय करालमुखनामवाला नाका समुद्रके जलसे निकलकर सुकोमल रेतसे युक्त उसके तटमें प्राप्त हुआ । तब रक्तमुखने कहा-“भो ! आप आये हुए हमारे अतिथियो । सो खाओ हमारे दिये हुए अमृतकी समान जम्बूफल । कहा है- प्रियो वा यदि वा द्वेष्यो मूर्खो वा यदि पण्डितः । वैश्वदेवान्तमापन्नः सोऽतिथिः स्वर्गसंक्रमः ॥ २ ॥
( ३९८ ) पञ्चतन्त्रम् ।
( ३९८ ) पञ्चतन्त्रम् । प्रिय वा द्वेषी मूर्ख वा पंडित जो वैश्वदेव वलिके समय प्राप्त हो वह स्वर्ग- गमनमें सेतुभूत अतिथि होताहै ॥ २ ॥ न पृच्छेच्चरणं गोत्रं न च विद्यां कुलं न च । अतिथिं वैश्वदेवान्ते श्राद्धे च मनुरब्रवीत् ॥ ३ ॥ वैश्वदेवके अन्तमें श्राद्धमें उपस्थित अतिथिका घर गोत्र विद्या कुल न पूछे, यह मनुने कहाहै ॥ ३ ॥ दूरमार्गश्रमश्रान्तं वैश्वदेवान्तमागतम् । अतिथिं पूजयेद्यस्तु स याति परमां गतिम् ॥ ४ ॥ दूर मार्गके श्रमसे प्राप्तहुए वैश्वदेवके अन्तमें आयेहुए अतिथिका जो पूजन करताहै, वह परम गतिको प्राप्त होताहै ४ ॥ अपूजितोऽतिथिर्यस्य गृहाद्याति विनिश्वसन् । गच्छन्ति विमुखास्तस्य पितृभिः सह देवताः ॥ ५ ॥ जिसके घरसे अपूजित अतिथि श्वास लेता हुआ जाताहै, उसके यहांसे देवता पितरों सहित विमुख होकर चल जाते हैं ॥ ५ ॥ एवमुक्त्वा तस्मै जम्बूफलानि ददौ । सोऽपि तानि भक्ष- यित्वा तेन सह चिरं गोष्ठीसुखमनुभूय भूयोऽपि स्वभवनम- गात् । एवं नित्यमेव तौ वानरमकरौ जम्बूच्छायास्थितौ विविधशास्त्रगोष्ठ्या कालं नयन्तौ सुखेन तिष्ठतः । सोऽपि मकरो भक्षितशेषाणि जम्बूफलानि गृहं गत्वा स्वपत्न्यैः प्रयच्छति । अथ अन्यतमे दिवसे तया स पृष्टः-“नाथ ! क्व एवंविधानि अमृतफलानि प्राप्नोषि?”। स आह-“भद्रे ! मम अस्ति परमसुहृद् रक्तमुखो नाम वानरः स प्रीतिपूर्वमिमानि फलानि प्रयच्छति” । अथ तया अभिहितम्-“यः सदा एव अमृतप्रायाणि ईदृशानि फलानि भक्षयति तस्य हृदय- ममृतमयं भविष्यति । तत् यदि मया भार्य्यया ते प्रयोजनं, ततः तस्य हृदयं मह्यं प्रयच्छ, येन तद्भक्षयित्वा जरामरणर- हिता त्वया सह भोगान् भुनज्मि” । स आह-“भद्रे ! मा मा एवं वद । यतः स प्रतिपन्नोऽस्माकं भ्राता, अपरं फल-
भाषाटीकासमेतम् । (३९९) दाता, ततो व्यापादयितुं न शक्यते । तत् त्यज एनं मिथ्याग्रहम् । उक्तञ्च- ऐसा कह उसके निमित्त जम्बूफल दिये । वह भी उनको भक्षणकर उसके साथ चिरकाल गोष्ठीसुखका अनुभवकर फिर अपने घरको गया । इस प्रकार नित्यही वह वानर और नाका जामनकी छायामें स्थित हुए विविध शास्त्रकी गोष्ठीसे समय बिताते सुखसे स्थित रहे । वह मकरभी खानेसे बचे हुए जामनके फलोंको घर जाकर अपनी स्त्रीको देता । तब एक दिन उसने उससे पूछा- “नाथ ! कहांसे यह अमृतमय फल लातेहो ?” वह बोला-“ भद्रे ! मेरा एक परम मित्र रक्तमुख वानर प्रीतिसे इन फलोंको देताहै । तब उसने कहा जो सदा ऐसे अमृतमय फल खाताहै उसका हृदयभी अमृतकी समान होगा । सो यदि मुझ भार्यासे तेरा कुछ प्रयोजन हो तो उसका हृदय लाकर मुझेदे । जिससे उसे भक्षणकर जरा मरणसे रहित हो तेरे साथ भोग भोगूं” । वह बोला- “भद्रे ! ऐसा मत कहो कारण कि वह बुद्धिमान् हमारा भ्राता तथा फल देनेवा- लाहै वह मारा नहीं जासक्ता सो इस मिथ्या आग्रहको त्यागदो कहा है कि- एकं प्रसूयते माता द्वितीयं वाक् प्रसूयते । वाग्जातमधिकं प्रोचुः सोदर्य्यादपि बन्धुवत् ॥ ६ ॥ ” माता एक सोदर उत्पन्न करती है, वाणी दूसरा उत्पन्न करती है, वाणीसे उत्पन्न हुआ सोदरसे भी अधिक मित्रकी समान श्रेष्ठ होता है ऐसा पंडितोंने कहा है ॥ ६ ॥” अथ मकरी आह -“ त्वया कदाचित् अपि मम वचनं अन्यथा कृतम् । तत् नूनं सा वानरी भविष्यति यतः तस्या अनुरागतः सकलमपि दिनं तत्र गमयसि । तत् त्वं ज्ञातो मया सम्यक् । यतः- तब मकरी बोली-“तैने कभी मेरा वचन अन्यथा न किया, सो अवश्यही वह वानरी होगी । इससे उसके अनुरागसे सम्पूर्ण दिन वहा बिताते हो सो यह मैंने अच्छी प्रकार जान लिया जिससे- साह्लादं वचनं प्रयच्छसि न मे नो वाञ्छितं किञ्चन प्रायः प्रोच्छ्वसिषि द्रुतं हुतवहज्वालासमं रात्रिषु ।
(४००) पञ्चतन्त्रम् ।
(४००) पञ्चतन्त्रम् । कण्ठाश्लेषपरिग्रहे शिथिलता यन्नादराच्चुम्बसे तत्ते धूर्त्त! हृदि स्थिता प्रियतमा काचिन्ममैवापरा ॥७॥” न अच्छी प्रकार मुझसे बोलते हो, न वांछित देते हो, जलती अग्निकी समान रात्रिमें प्रायः श्वास लेते हो, कंठके आलिंगन करनेमें शिथिलता करते हो, न आदरसे चुम्बन करते हो, इससे हे धूर्त ! मैने जाना कि तुम्हारे हृदयमें मेरेसमान कोई अन्यस्त्री है ॥ ७ ॥” सोऽपि पत्न्याः पादोपसंग्रहं कृत्वा अङ्कोपरि निधाय तस्याः कोपकोटिमापन्नायाः सुदीनमुवाच- वह भी स्त्रीके चरण पकड़ कर गोदीमें रख अत्यन्त क्रोधको प्राप्त हुई स्त्रीसे दीन हो बोला- ः "मयि ते पादपतिते किङ्करत्वमुपागते । त्वं प्राणवल्लभे कस्मात्कोपने कोपमेष्यसि ॥ ८ ॥” "मुझे तेरे चरणोंपर गिरने तथा दीनताको प्राप्त होनेमें भी हे प्राणप्यारी ! हे कोपने ! किस कारण तू क्रोध करती है ॥ ८ ॥” सा अपि तद्वचनमाकर्ण्य अश्रुप्लुतमुखी तमुवाच- यह इस वचनको सुनकर आंसुओंसे मुखको भिगोती उससे बोली- "सार्द्धं मनोरथशतैस्तव धूर्त्त कान्ता सैव स्थिता मनसि कृत्रिमभावरम्या । अस्माकमस्ति न कथञ्चिदिहावकाश- स्तस्मात्कृतं चरणपातविडम्बनाभिः ॥ ९ ॥ हे धूर्त ! सैकडो मनोरथोंकेसाथ कपटसे मन हरने वाली वह कान्ता तेरे मनमें स्थित है । इस हृदयमें हमारे निमित्त स्थान नहीं है सो अब चरणपातकी विडम्बनासे कुछ प्रयोजन नहीं है ॥ ९ ॥ अपरं सा यदि तव वल्लभा न भवति तत् किं मया भणि- तेऽपि तां न व्यापादयसि ? । अथ यदि स वानरस्तत् कः तेन सह तव स्नेहः ? तत् किंबहुना यदि तस्य हृदयं न भक्ष- यामि, तत् मयाः प्रायोपवेशनं कृतं विद्धि” । एवं तस्याः तं निश्चयं ज्ञात्वा चिन्ताव्याकुलितहृदयः स प्रोवाच-अथवा साधु इदमुच्यते-
भाषाटीकासमेतम् । ( ४०१ ) सो यदि वह तुम्हारी प्यारी न होती तो क्यों मेरे निमित्त तुम उसको न मारते?। और जो वह वानर है तो उसके सहित तेरा स्नेह कैसा ? सो बहुत कहनेसे क्या है यदि उसका हृदय भक्षण न करूंगी तो मेरा मरणक निमित्त कृत सकल्प जानो” । इस प्रकार वह उसके निश्चयको जान चिन्तासे व्याकुल हृदय हो बोला । अथवा अच्छा कहा है- "वज्रलेपस्य मूर्खस्य नारीणां कर्कटस्य च । एको ग्रहस्तु मीनानां नीलीमद्यपयोस्तथा ॥ १०॥ “वज्रलेप ( महा ) मूर्ख, नारी, केंकडा, मत्स्य, नीली और मद्यप इनका एकवारही दृढग्रह होता है ॥ १० ॥ तत् किं करोमि ? कथं स मे वध्यो भवति” इति विचि- न्त्य वानरपार्श्वमगमत् । वानरोऽपि चिरायान्तं तं सोद्वेग - मवलोक्य प्रोवाच "भो मित्र ! किमद्य चिरवेलायां समा- यातोऽसि ? कस्मात् साहादं न आलपसि ? न सुभाषितानि पठसि ?” स आह-“मित्र ! अहं तव भ्रातृजायया निष्ठुर- तरैर्वाक्यैरभिहितः-“ भोः कृतघ्न ! मा मे त्वं स्वमुखं दर्शय यतः त्वं प्रतिदिनं मित्रं उपजीवासि न च तस्य पुनः प्रत्युप- कारं गृहदर्शनमात्रेण अपि करोषि । तत् ते प्रायश्चित्तमपि नास्ति । उक्तञ्च- सो क्या करू किस प्रकार उसको मारू” । ऐसा विचार कर वानरके समीप आया, वानर भी उसे आता देख उद्वेगपूर्वक बोला,-“ भो मित्र ! क्या आज देरसे आये ? क्यों आनन्दपूर्वक नहीं बोलते हो ? क्यो नहीं अच्छे वचन पढते हो ?” वह बोला-“मित्र ! मैं तेरी भाभीसे आज निष्ठुर वचनसे ताडित हुआ हू । उसने कहा है-“भो कृतघ्न ! तू मुझे अपना मुख मत दिखला जो कि तू प्रतिदिन मित्रोंसे उपजीवित होताहै परन्तु घर दिखाने मात्रसे भी उसका प्रत्युपकार नहीं करता है, सो तेरा प्रायश्चित्त भी नहीं है। कहा है- ब्रह्मघ्ने च सुरापे च चौरे भग्नव्रते शठे । निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥ ११ ॥ २६
( ४०२ ) पञ्चतन्त्रम् ।
( ४०२ ) पञ्चतन्त्रम् । ब्रह्महत्यारा, सुरापी, चोर, व्रतभंगकरनेवाला सत्पुरुषोंने इनकी निष्कृति कही है परन्तु कृतघ्नकी निष्कृति नहीं है ॥ ११ ॥ तत् त्वं मम देवरं गृहीत्वा अद्य प्रत्युपकारार्थं गृहमानय। नो चेत् त्वया सह मे परलोके दर्शनम्" । तत् अहं तया एवं प्रोक्तः तव सकाशमागतः । तत् अद्य तया सह त्वदर्थे कलहायतो मम इयती वेला विलग्ना। तत् आगच्छ मे गृहम्। तव भ्रातृपत्नी रचितचतुष्का प्रगुणितवस्त्रमणिमाणिक्याद्यु- चिताभरणा द्वारदेशबद्धवन्दनमाला सोत्कण्ठा तिष्ठति" । मर्कट आह-"भो मित्र ! युक्तमभिहितं मद्भ्रातृपत्न्या । उक्तञ्च- सो तू मेरे देवरको ग्रहण कर उसका प्रत्युपकार करनेको घर लेआना । नहीं तो तेरे साथ मेरा परलोक दर्शन होगा"। सो मैं इस प्रकारसे कहा हुआ तुम्हारे पास आया हूं । सो आज तुम्हारे अर्थ स्त्रीके साथ क्लेश करते हुए मुझे इतनी देर लग गई । सो मेरे घरको आओ । तुम्हारी भाभी आंगन सजाये बडे मोलके वस्त्र मणि माणिक्यसे रचित गहनेवाले द्वारदेश बंधी वंदन माला किये उत्कं- ठित स्थित है" वानर बोला-"भो मित्र ! तुम्हारी जायाने सत्य कहा है । कहा है कि- वर्जयेत्कौलिकाकारं मित्रं प्राज्ञतरो नरः । आत्मनः सम्मुखं नित्यं य आकर्षति लोलुपः ॥ १२ ॥ अति बुद्धिमान् मनुष्य कपट आकारवाले मित्रको त्याग दे जो कपटी मित्र लोभके कारण नित्य अपने सम्मुख मित्रको खैंचता है ॥ १२ ॥ तथाच- और देखो- ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति । भुङ्क्ते भोजयते चैव षड्विधं प्रीतिलक्षणम् ॥ १३ ॥ जो देता, ग्रहण करता, गुप्त बात कहता और पूछता, भोजन करता, भोजन कराता है ये छः प्रकारका प्रीतिका लक्षण है ॥ १३ ॥ परं वयं वनचराः, युष्मदीयञ्च जलान्ते गृहं, तत् कथं
भाषाटीकासमेतम् । ( ४०३ ) शक्यते तत्र गन्तुम्,तस्मात् तामपि मे भ्रातृपत्नीमत्र आनय येन प्रणम्य तस्या आशीर्वादं गृह्णामि” । स आह,–“भो मित्र ! अस्ति समुद्रान्तरे सुरम्ये पुलिनप्रदेशेऽस्मद्गृहम् । तत् मम पृष्ठमारूढः सुखेन अकृतभयो गच्छ” । सोऽपि तच्छ्रुत्वा सानन्दमाह,–“भद्र ! यदि एवं तत् किं विलम्ब्यते त्वर्यताम् । एषोऽहं तव पृष्ठमारूढः । तथानुष्ठिते अगाधे जलधौ गच्छन्तं मकरमालोक्य भयत्रस्तमना वानरः प्रोवाच– “भ्रातः ! शनैः शनैः गम्यताम् । जलकल्लोलैः प्लाव्यते मे शरीरम्”। तत् आकर्ण्य मकरः चिन्तयामास । “असौ अगाधं जलं प्राप्तो मे वशः सञ्जातः, मत्पृष्ठगतः तिलमात्रमपि चलितुं न शक्नोति । तस्मात् कथयामि अस्य निजाभिप्रायं, येन अभीष्टदेवतास्मरणं करोति” । आह च,–“मित्र ! त्वं मया वधाय समानीतो भार्यावाक्येन विश्वास्य । तत् स्मर्यतामभीष्टदेवता” । स आह,–“भ्रातः ! किं मया तस्याः तवापि च अपकृतं ? येन मे वधोपायः चिन्तितः” । मकर आह,–“भोः ! तस्याः तावत् तव हृदयस्य अमृतमय- फलरसास्वादनमृष्टस्य भक्षणे दोहदः सञ्जातः तेन एतदनु- ष्ठितम्” । प्रत्युत्पन्नमतिः वानर आह,–“भद्र ! यदि एवं तत् किं त्वया मम तत्र एव न व्याहृतम् । येन स्वहृदयं जम्बूको- टरे सदा एव मया सुगुप्तं कृतम् । तद् भ्रातृपत्नया अर्पया- मि । त्वया अहं शून्यहृदयोऽत्र कस्मात् आनीतः ?” तदा- कर्ण्य मकरः सानन्दमाह,–“भद्र ! यदि एवं तदर्पय मे हृदयं येन सा दुष्टपत्नी तद्भक्षयित्वा अनशनादुत्तिष्ठति । अहं त्वां तमेव जम्बूपादपं प्रापयामि” । एवमुक्त्वा निवृत्य जम्बूतलमगात् । वानरोऽपि कथमपि जल्पितविविधदेवतो- पचारपूजः तीरमासादितवान्। ततश्च दीर्घतरचंक्रमणेन तमेव जम्बूपादपमारूढः चिन्तयामास । “अहो ! लब्धाः तावत् प्राणाः । अथवा साधु इदमुच्यते–
( ४०४ ) पञ्चतन्त्रम् ।
( ४०४ ) पञ्चतन्त्रम् । परन्तु हम वनचर हैं और तुम्हारा जलके अन्तमें घर है सो मैं किस प्रकार वहां जासक्ता हूं । इस कारण उस हमारी भाभीको यहीं लाओ जिससे प्रणाम कर उसका आशीर्वाद ग्रहण करूं” । वह बोला,-“भो मित्र ! समुद्रके भीतर तटमें मनोहर बालुकामय स्थानमें हमारा घर है । सो मेरी पीठपर चढ़ सुखसे निर्भय हो चलो” । वहभी यह सुन आनन्दसे बोला,-“भद्र ! यदि ऐसा है तो देर करनेका क्या काम शीघ्रता करो यह मैं तुम्हारी पीठपर चढ़ा” । ऐसा कहकर जलमें जाते हुए मकरको देख कर भयसे व्याकुल मन हो वानर बोला- “भाई शनैः २ चलो । जलकी लहरोंसे मेरा शरीर ढका जाता है” । यह सुन- कर मकर विचारने लगा । “यह अगाध जलमें प्राप्तहो मेरे वशीभूत हुआ है, मेरी पीठको प्राप्त हुआ तिलमात्रभी नहीं चल सकता है । सो इससे अपना अभिप्राय कहूं जिससे यह अपने इष्ट देवताका स्मरण करे” । और बोला भी- “मित्र ! तुमको मैं भार्याके वाक्यसे विश्वास दिलाकर मारनेके निमित्त लाया हूं ! सो अपने इष्ट देवताका स्मरण करो” । वह बोला,-“भ्राता ! क्या मैंने उसका और तुम्हारा अपकार किया है? जो मेरे वधका उपाय विचार किया है”। मकर बोला,-“भो ! उसको अमृतमय फलके रसास्वादसे मीठे तुम्हारे हृदय खानेका गर्भावस्थाका मनोरथ है तिससे यह अनुष्ठान किया है” । तत्कालबुद्धि प्रगटवाला वानर बोला,-“भद्र ! जो ऐसा है तो वहीं तुमने क्यों न मुझसे कहा । जो कि मैने अपना हृदय जम्बूकी कोटरमें सदाहीसे गुप्त कर रक्खा है । सो तुम्हारी पत्नीकोही अर्पण करूं । सो तुम मुझ शून्यहृदयको यहां क्यों लाये”। यह सुनकर मकर आनन्दसे बोला,-“भद्र ! जो ऐसा है तो मुझको अपना हृदय दे जिससे वह दुष्टपत्नी भक्षण करके अनशन ( अभोजन ) से उठे । मैं तुझे उस जम्बूवृक्षको प्राप्त करता हूं” । ऐसा कह लौटकर जामन- वृक्षके नीचे गया । वानरभी किसी प्रकार विविध देवतोंकी सत्कार पूजाकी जल्पना कर तटपर आया । फिर बडी कुलांच मारकर उस जामनके पेड़पर चढ़कर विचारने लगा । “अहो ! अब प्राण बचे । अथवा अच्छा कहा है- न विश्वसेदविश्वस्ते विश्वस्तेऽपि न विश्वसेत् । विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति ॥ १४ ॥ अविश्वासीका विश्वास न करे और विश्वासीकाभी विश्वास न करे विश्वाससे उत्पन्न हुआ भय जड़से नष्ट कर देता है ॥ १४ ॥
भाषाटीकासमेतम्। (४०५) तन्मम एतदद्य पुनर्जन्मदिनमिव सञ्जातम्”। इति चिन्त- मानं मकर आह,–“भो मित्र ! अर्पय तत् हृदयं यथा ते भ्रातृपत्नी भक्षयित्वा अनशनादुत्तिष्ठति”। अथ विहस्य निर्भर्त्सयन् वानरः तमाह,–“धिक् धिक् मूर्ख ! विश्वास- घातक ! किं कस्यचित् हृदयद्वयं भवति ?। तदाशु गम्यतां जम्बूवृक्षस्य अधस्तात, न भूयोऽपि त्वया अत्र आगन्तव्य- म्। उक्तञ्च यतः– सो आज यह मेरे नये जन्मका दिन है”। ऐसा विचार करते मकर उससे बोला,-“भो ! मित्र उस हृदयको अर्पण करो जिसे तुम्हारी भाभी भक्षण कर अनशन व्रतसे उठे”। फिर हँसकर घुडकता हुआ वानर उससे बोला-“धिक् धिक् मूर्ख ! विश्वासघातक ! क्या किसीके दो हृदय होते हैं । सो शीघ्र जाओ जम्बूवृक्षके नीचे फिर कभी मत आना। कहा है- सकृद्दुष्टञ्च यो मित्रं पुनः सन्धातुमिच्छति । स मृत्युमुपगृह्णाति गर्भमश्वतरी यथा ॥ १५ ॥” एक बार दुष्ट हुए मित्रसे जो फिर मिलनेकी इच्छा करता है वह मृत्यु- कोही ग्रहण करता है जैसे खिचड़ी गर्भको ग्रहण कर मृत्युको प्राप्त होती है ॥ १५ ॥” तत् श्रुत्वा मकरः सविलक्षं चिन्तितवान्,–“अहो ! मया अतिमूढेन किमस्य स्वचित्ताभिप्रायो निवेदितः तद्यदि असौ पुनरपि कथञ्चिद्विश्वासं गच्छति तद्भूयोऽपि विश्वास- यामि”। आह च–“मित्र ! हास्येन मया तेऽभिप्रायो लब्धः । तस्या न किञ्चित् तव हृदयेन प्रयोजनम् । तत् आगच्छ प्राघुणिकन्यायेन अस्मद्गृहम् । तव भ्रातृपत्नी सोत्कण्ठा वर्त्तते”। वानर आह–“भो दुष्ट ! गम्यताम् अधुना नाहमागमिष्यामि । उक्तञ्च– यह सुनकर नाका लजित हो विचारने लगा-“अहो ! मुझ अति मूर्खने क्यो इसके प्रति अपने चित्तका अभिप्राय कथन कर दिया । सो यदि यह फिर किसी प्रकार विश्वासको प्राप्त हो तो इसको फिर विश्वास प्राप्त करू”।
( ४०६ ) पञ्चतन्त्रम् ।
( ४०६ ) पञ्चतन्त्रम् । और बोला- "मित्र ! हास्यसे मैंने आपका अभिप्राय जाना । उसको कुछभी तुम्हारे हृदयसे प्रयोजन नहीं है । सो आओ अतिथिरूपसे हमारे घर चलो । तेरी भाभी उत्कंठित है" । वानर बोला- "भो दुष्ट ! अब जाओ । मैं नहीं आऊंगा । कहा है- बुभुक्षितः किं न करोति पापं क्षीणा जना निष्करुणा भवन्ति । आख्याहि भद्रे प्रियदर्शनस्य न गङ्गदत्तः पुनरेति कूपम् ॥ १६ ॥" भूखा क्या पाप नहीं करता ? क्षीण मनुष्य करुणाहीन हो जाते है, हे भद्रे ! प्रियदर्शनसे कहना गंगदत्त फिर कूपमें नहीं आवेगा ॥ १६ ॥” मकर आह- "कथमेतत् ?" स आह- मकर बोला- "यह कैसी कथा है ?" वह बोला- कथा २. कस्मिंश्चित् कूपे गङ्गदत्तो नाम मण्डूकराजः प्रतिवसति स्म । स कदाचित दायादैः उद्वेजितोऽरघट्टघटीमारुह्य निष्क्रान्तः। अथ तेन चिन्तितम् । "यत् कथं तेषां दायादानां मया प्रत्यपकारः कर्त्तव्यः । उक्तञ्च- किसी कूपमें गंगदत्त नामक मेडकराजा रहता था, वह कभी हिस्सेदारोंसे उद्वेजित हुआ कुएकी ढेकलीको आलम्बन कर बाहर निकला । और उसने विचारा "इन गोतियोंका अपकार किस प्रकार करूं। कहा है- आपदि येनापकृतं येन च हसितं दशासु विषमासु । अपकृत्य तयोरुभयोः पुनरपि जातं नरं मन्ये ॥ १७ ॥” जिसने आपत्तिमें अपकार किया और विषम दशामें हँसा उन दोनोंके प्रति फिर अपकार करकेही मनुष्यको उत्पन्न हुआ ऐसा मैं मानता हूं ॥ १७ ॥" एवं चिन्तयन् बिले प्रविशन्तं कृष्णसर्पमपश्यत् । तं दृष्ट्वा भूयोऽपि अचिन्तयत् । "यत् एनं तत्र कूपे नीत्वा सकलदा- यादानां उच्छेदं करोमि । उक्तञ्च- ऐसा विचार कर बिलमें प्रवेश करते काले सांपको देखा । उसको देखकर
[Header] भाषाटीकासमेतम् । (४०७)
फिरभी विचारने लगा कि "इसको उस कूपमें लेजाकर सम्पूर्ण दायादोका नाश करूं। कहा है-- शत्रुभिर्योजयेच्छत्रुं बलिना बलवत्तरम्। स्वकार्याय यतो न स्यात्काचित्पीडात्र तत्क्षये ॥ १८ ॥ शत्रुओंके साथ शत्रुओंको भिड़ावै, बलवान्के साथ बलवान्को अपने कार्यके निमित्त लगावै कारण कि, उसके क्षयमें फिर कुछ पीडा नहीं होती १८ तथाच- और देखो- शत्रुमुन्मूलयेत्प्राज्ञस्तीक्ष्णं तीक्ष्णेन शत्रुना। व्यथाकरं सुखार्थाय कण्टकेनेव कण्टकम् ॥ १९ ॥ " बुद्धिमान् तीक्ष्ण शत्रुको तीक्ष्ण शत्रुसे नष्ट करावै व्यथा करनेवाला काटा सुखके निमित्त कांटेसेही निकाला जाता है ॥ १९ ॥" एवं स विभाव्य बिलद्वारं गत्वा तमाहूतवान्-"एहि ! एहि !! प्रियदर्शन ! एहि !" तत् श्रुत्वा सर्पश्चिन्तयामास । "य एष मां आह्वयति, स स्वजातीयो न भवति यतो नैषा सर्पवाणी । अन्येन केनापि सह मम मर्त्यलोके सन्धानं नास्ति । तदत्र एव दुर्गे स्थितः तावत् वेद्मि कोऽयं भवि- ष्यति । उक्तञ्च-- ऐसा विचार बिलके द्वारे जाकर उसे बुलाता हुआ--"आओ ! आओ !! प्रियदर्शन ! आओ ।" तब सुनकर साप विचारने लगा। "यह मुझे बुलाता है सो अवश्यही मेरी जातीका न होगा। कारण कि यह सर्पकी वाणी नहीं है। और किसीके साथ मर्त्यलोकमें मेरी मित्रता नहीं है। सो इसी दुर्गमें स्थित हुआ पहले जानू कि यह कौन होगा। कहा है कि-- यस्य न ज्ञायते शीलं न कुलं न च संश्रयः। न तेन सङ्गतिं कुर्यादित्यवाच बृहस्पतिः ॥ २० ॥ जिसका कुल शील और आश्रय न जाना हो उसकी संगति न करे ऐसा बृहस्पतिजीने कहा है ॥ २० ॥ कदाचित् कोऽपि मन्त्रवादी औषधचतुरो वा मामाहूय
( ४०८ ) पञ्चतन्त्रम् ।
( ४०८ ) पञ्चतन्त्रम् । बन्धने क्षिपति । अथवा कश्चित पुरुषो वैरमाश्रित्य कस्य- चिद्भक्षणार्थे मामाह्वयति”। आह च-“भोः ! को भवान् ?” स आह-“अहं गङ्गदत्तो नाम मण्डूकाधिपतिः त्वत्सकाशे मैत्र्यर्थमभ्यागतः”। तच्छ्रुत्वा सर्प आह,-“भो ! अश्रद्धेयमे- तत् यत्तृणानां वह्निना सह सङ्गमः । उक्तञ्च- कभी कोई सर्पमंत्रमें कुशल भौषधीमें चतुर मुझे बुलाकर बंधनमें डालना चाहता है । अथवा कोई पुरुष वैरको आश्रित कर किसीके भक्षणके निमित्त मुझे बुलाता है” । बोला भी-“भो ! आप कौन हैं ?” । वह बोला-“मैं गंगदत्तनामक मण्डूकराजा तुम्हारे पास मित्रता करनेको आयाहूं” । यह सुनकर सर्प बोला-“भो ! यह श्रद्धाके अयोग्य वचन हैं जो तृण और अग्निका समागम होना, कहा है- यो यस्य जायते वध्यः स स्वप्नेऽपि कथञ्चन । न तत्समीपमभ्येति तत्किमेवं प्रजल्पसि ॥ २१ ॥” जो जिसका वध्य हो वह स्वप्नमेंभी कभी उसके समीप न जाय, सो तू ऐसी जल्पना क्यों करता है ॥ २१ ॥” गङ्गदत्त आह-“भोः सत्यमेतत् । स्वभाववैरी त्वम् अस्माकम् । परं परपरिभवात् प्राप्तोऽहं ते सकाशम् । उक्तञ्च- गंगदत्त बोला-“भो ! यह सत्य है तुम हमारे स्वभाविक वैरी हो परन्तु शत्रुओंसे तिरस्कृत होकर मैं तुम्हारे पास आया हूं । कहा है- सर्वनाशे च सञ्जाते प्राणानामपि संशये । अपि शत्रुं प्रणम्यापि रक्षेत्प्राणधनानि च ॥ २२ ॥” सर्वनाश और प्राणसंशयके उत्पन्न होनेमें शत्रुकोभी प्रणाम कर अपने प्राण और धनकी रक्षा करे ॥ २२ ॥” सर्प आह-“कथय कस्मात् ते परिभवः ?” स आह- “दायादेभ्यः”। सोऽपि आह-“क्व ते आश्रयो वाप्यां कूपे तडागे ह्रदे वा ? तत्कथय स्वाश्रयम् ।” तेनोक्तम्-“पाषा- णचयनिवद्धे कूपे”। सर्प आह-“अहो ! अपदा वयं तन्ना- स्ति तत्र मे प्रवेशः । प्रविष्टस्य च स्थानं नास्ति । यत्र स्थितः तव दायादान् व्यापदयामि । तद्गम्यताम् । उक्तञ्च-
भाषाटीकासमेतम् । (४०९) सर्प बोला- "कहो किससे तुम्हारा परिभव हुआ है?" वह बोला-"गोत्रियों- से"। वह बोला- "कहा तेरा आश्रय है । वावडी, कुए, तडाग वा हृदमे २ सो अपना आश्रय कहो" वह बोला-"पत्थरसमूहसे बनेहुए कूपमें"। सर्प बोला- "भो ! हमारे चरण नहीं हैं सो हमारा वहा प्रवेश नहीं हो सकता न रहनेका स्थान है जहा स्थित होकर तुम्हारे दायादोंको भक्षण करू सो जाऊँ । कहा है- यच्छक्यं ग्रसितुं शस्यं ग्रस्तं परिणमेच्च यत् । हितञ्च परिणामे यत्तदाद्यं भूतिमिच्छता ॥ २३ ॥" जो वस्तु भक्षण करनेको सामर्थ्य हो वह प्रशस्त है और जो खाकर पाक होजाय और पाकमे हितकारक हो कल्याणकी इच्छावालेको वह वस्तु खानी चाहिये ॥ २२ ॥ गंगदत्त आह-"भोः ! समागच्छ त्वं अहं सुखोपायेन तत्र तव प्रवेशं कारयिष्यामि । तथा तस्य मध्ये जलोपान्ते रम्य- तरं कोटरं अस्ति । तत्र स्थितः त्वं लीलया दायादान् व्या- पादयिष्यसि"। तच्छ्रुत्वा सर्पो व्यचिन्तयत् । "अहं तावत् परिणतवयाः, कदाचित् कथञ्चित् मूषकमेकं प्राप्नोमि । तत्सुखावहो जीवनोपायोऽयमनेन कुलाँगारेण मे दर्शितः । तद्गत्वा तान् मण्डूकान् भक्षयामि" इति । अथवा साधु इदमुच्यते- गंगदत्त बोला- "भो ! आप आइये मैं सुख उपायसे वहा तुम्हारा प्रवेश कराऊगा । उसके मध्य जलके समीप मनोहर खखोडल है । वहा स्थित होकर तू लीलासे ही दायादोंको भक्षण करना " । यह सुन सर्प विचा- रने लगा । "मेरी अवस्था वृद्ध होगई है कभी एक चूहा प्राप्त होता है । सो सुखदायक जीवनोपाय इस कुलाङ्गारने वर्णन किया है। सो जाकर उन मण्डूकों- को भक्षण करूंगा । अथवा अच्छा कहा है- यो हि प्राणपरिक्षीणः सहायपरिवर्जितः । स हि सर्वसुखोपायां वृत्तिमाराचयेद्बुधः ॥ २४ ॥" जो प्राणोंसे परिक्षीण सहायसे रहित हो वह पंडित सर्व सुखके उपायवाली वृत्तिको आचरण करे ॥ २४ ॥"
(४१०) पञ्चतन्त्रम् ।
(४१०) पञ्चतन्त्रम् ।
एवं विचिन्त्य तमाह-“भो गंगदत्त ! यदि एवं तदग्रे भव येन तत्र गच्छावः”। गंगदत्त आह-“भोः प्रियदर्शन ! अहं त्वां सुखोपायेन तत्र नेष्यामि स्थानञ्च दर्शयिष्यामि। परं त्वया अस्मत्परिजने रक्षणीयः। केवलं यानहं तव दर्शयि- ष्यामि ते एव भक्षणीयाः” इति । सर्प आह-“साम्प्रतं त्वं मे मित्रं जातं तन्न भेतव्यम्, तव वचनेन भक्षणीयाः ते दाया- दाः” एवमुक्त्वा बिलात् निष्क्रम्य तमालिङ्ग्य च तेनैव सह प्रस्थितः। अथ कूपमासाद्य अरघट्टघटिकामार्गेण सर्पः तेन आत्मना स्वालयं नीतः। ततश्च गङ्गदत्तेन कृष्णसर्प कोटरे धृत्वा दर्शिताः ते दायादाः। ते च तेन शनैः शनैः भक्षिताः। अथ मण्डूकाभावे सर्पेण अभिहितम्-“भद्र ! निःशेषिताः ते रिपवः तत् प्रयच्छ अन्यत् मे किञ्चित् भोजनं, यतोऽहं त्वया अत्र आनीतः”। गङ्गदत्त आह-“भद्र ! कृतं त्वया मित्रकृत्यम्, तत् साम्प्रतम् अनेन एव घटिकायन्त्रमार्गेण गम्यताम्” इति। सर्प आह-“भो गङ्गदत्त ! न सम्यगभिहितं त्वया । कथमहं तत्र गच्छामि । मदीयबिलदुर्गमन्येन रुद्धं भविष्यति । तस्मात् अत्रस्थस्य मे मण्डूकमेकैकं स्ववर्गीयं प्रयच्छ नो चेत् सर्वानपि भक्षयिष्यामि” इति । तच्छ्रुत्वा गङ्गदत्तो व्याकुलमना व्यचिन्तयत् । “अहो ! किमेतन्मया कृतं सर्पमानयता तद्यदि निषेधयिष्यामि तत्स- र्वानपि भक्षयिष्यति । अथवा युक्तमुच्यते- ऐसा विचार कर उससे बोला-“भो ! गंगदत्त यदि ऐसा हो तो आगे हो जिससे वहां चले”। गंगदत्त बोला-“भो ! प्रियदर्शन ! मैं तुमको सुखके उपा- यसे वहां ले जाऊंगा और स्थान भी दिखाऊंगा । परन्तु हमारे परिजनोंकी तुमने रक्षा करना । केवल जिनको मै दिखाऊं उन्हींको खाना”। सर्प बोला-“अब तू हमारा मित्र होगया । सो मतडरो तुम्हारे वचनसे मै तुम्हारे गोतियोंको भक्षण करूंगा”। ऐसा कह बिलसे निकल उसको आलिंगन कर उसके संग चला । तब कूपको प्राप्त हो ढेंकलीके मार्गसे सर्पको वह स्वयं अपने स्थानमें लाया । तब
भाषाटीकासमेतम् । (४११) गंगदत्तने काले सर्पको खखोडलमे धरकर उन दायादोको दिखाया वे उसने शनैः २ खालिये । तब मण्डूकोंका अभाव देखकर सर्पने कहा-“भद्र ! तुम्हारे *शत्रु तो निःशेष होगये सो मुझे कुछ और भोजन दो, जो कि तुम मुझे यहा लाये हो” । गंगदत्त बोला-“मित्र ! तुमने मित्रका कार्य किया है । सो अब इसी ढेकलीके मार्गसे जाओ” । सर्प बोला-“भो गंगदत्त ! तुमने अच्छा नहीं कहा कैसे मैं वहां जाऊ । मेरा बिलदुर्ग औरोंने घेर लिया होगा इस कारण यहीं स्थित हुए मुझे एक एक मेढक अपने कुटुम्बका दो । नहीं तो सबको खाजा- ऊंगा” यह सुन गंगदत्त व्याकुल मनसे विचारने लगा । “अहो ! सर्पको लाकर यह मैंने क्या किया । सो यदि निषेध करू तो यह सबहीको खाजायगा । अथवा युक्त कहा है- योऽमित्रं कुरुते मित्रं वीर्याभ्यधिकमात्मनः । स करोति न सन्देहः स्वयं हि विषभक्षणम् ॥ २५ ॥ जो अपने पराक्रमसे अधिक अमित्रको मित्र करता है इसमें सन्देह नहीं वह स्वयंही विष भक्षण करता है ॥ २५ ॥ तत् प्रयच्छामि अस्य एकं दिनं प्रतिसुहृदम् । उक्तञ्च- सो प्रतिदिन इसको मै एक एक सुहृद दू । कहा है- सर्वस्वहरणे युक्तं शत्रुं बुद्धियुता नराः । तोषयन्त्यल्पदानेन वाडवं सागरो यथा ॥ २६ ॥ बुद्धिमान् मनुष्य सर्वस्व हरण करनेमें युक्त हुए शत्रुको अल्प दानसे सन्तुष्ट करे जैसे सागर वडवा अग्निको प्रतिदिन अल्प जल देताहै ॥ २६ ॥ तथाच- और देखो- यो दुर्बलोऽप्यूनमपि याच्यमानो बलीयसा यच्छति नैव साम्ना । प्रयच्छते नैव च दर्शमानं खारीं स चूर्णस्य पुनर्ददाति ॥ २७ ॥ जो दुर्बल प्रबलकी सात्वनापूर्वक याचना करनेपर अल्पभी प्रदान नहीं करता है तथा दर्शमानभी नहीं देता है वह डाटनेसे चूर्णके स्थानमें खारी
परिमाण द्रव्यको फिर देता है (अर्थात् बलवानके थोडा मांगने पर न देनेसे फिर अधिक देना पडता है) उपजाति वृत्त ॥ २७ ॥ तथाच- और देखो- सर्वनाशे समुत्पन्ने अर्द्धं त्यजति पण्डितः । अर्द्धेन कुरुते कार्य्यं सर्वनाशो हि दुस्तरः ॥ २८ ॥ सर्व नाश उत्पन्न होनेमें पंडित जन आधा त्याग देते हैं और आधेसे कार्य करते हैं, सर्व नाश बडा दुस्तर है ॥ २८ ॥ न स्वल्पस्य कृते भूरि नाशयेन्मतिमान्नरः । एतदेव हि पाण्डित्यं यत्स्वल्पाद्भूरिरक्षणम् ॥ २९ ॥" बुद्धिमान् मनुष्य थोडेके निमित्त बहुतका नाश न करे यही चतुराई है कि थोडे देकर बहुतकी रक्षा करनी ॥ २९ ॥" एवं निश्चित्य नित्यमेकैकं आदिशति । सोऽपि तं भक्ष- यित्वा तस्य परोक्षेऽन्यानपि भक्षयति । अथवा साधु इदमुच्यते- ऐसा विचार कर नित्यही एक एक देने लगा। वहभी उसे भक्षण कर उसके पीछेमें औरोंकोभी भक्षण कर जाता । अथवा यह अच्छा कहा है- यथा हि मलिनैर्वस्त्रैर्यत्र तत्रोपविश्यते । एवं चलितवित्तस्तु वित्तशेषं न रक्षति ॥ ३० ॥ जैसे मलीन वस्त्र पहरे हुए मनुष्य जहां तहां बैठ जाता है इस प्रकार निर्धन होनेपर यह प्राणी शेष धनकी भी रक्षा नहीं करता है ॥ ३० ॥ अथ अन्यदिने तेन अपरान् मण्डूकान् भक्षयित्वा गङ्गदत्त- सुतो यमुनादत्तो भक्षितः । तं भक्षितं ज्ञात्वा गङ्गदत्तः तार- स्वरेण धिक् धिक् प्रलापपरः कथञ्चिदपि न विरराम । ततः स्वपत्न्या अभिहितः- तब दूसरे दिन वह और मेडकोंको भक्षण करके गंगदत्तके पुत्र यमुनादत्तको भी भक्षण कर गया उसको खाया हुआ जानकर गंगदत्त तारस्वरसे अपनेको धिक् धिक् करता हुआ किंचित् काल भी विरामको प्राप्त न हुआ। तब उसकी स्त्रीने कहा-
भाषाटीकासमेतम् । (४१३) "किं क्रन्दसि दुराक्रन्द स्वपक्षक्षयकारक । स्वपक्षस्य क्षये जाते को नस्त्राता भविष्यति ॥ ३१ ॥ "हे दुष्ट रोदन करनेवाले ! क्यो रोदन करता है, हे अपने पक्षके क्षय करने वाले ! अपना पक्ष क्षय होनेपर अब कौन हमारी रक्षा करेगा ॥ ३१ ॥ तत् अद्यापि विचिन्त्यतां आत्मनो निष्क्रमणमस्य वधोपायश्च” । अथ गच्छता कालेन सकलमपि कवलितं मण्डूककुलम् । केवलमेको गङ्गदत्तः तिष्ठति । ततः प्रियदर्श- नेन भणितं ,-“भो गङ्गदत्त ! बुभुक्षितोऽहं निःशेषिताः सर्वे मण्डूकाः । तदीयतां मे किञ्चित् भोजनं यतोऽहं त्वया अत्र आनीतः”। स आह,-“भो मित्र ! न त्वया अत्र विषये मया अवस्थितेन कापि चिन्ता कार्या तत् यदि मां प्रेषयसि ततोऽन्यकूपस्थान् अपि मण्डूकान् विश्वास्य अत्र आनयामि”। स आह-“मम तावत् त्वं अभक्ष्यो भ्रातृस्थाने, तत् यदि एवं करोषि तत् साम्प्रतं पितृस्थाने भवसि,तदेवं क्रियताम्”इति । सोऽपि तत् आकर्ण्य अरघट्टघटिकां आश्रित्य विविधदेवतो- पकल्पितपूजोपयाचितः तस्मात् कूपात् विनिष्क्रान्तः । प्रिय- दर्शनोऽपि तदाकांक्षया तत्रस्थः प्रतीक्षमाणः तिष्ठति । अथ चिरात् अनागते गंगदत्ते प्रियदर्शनोऽन्यकोटरनिवासिनीं गो- धामुवाच-“भद्रे ! क्रियतां स्तोकं साहाय्यम् । यतः चिरपरि- चितः ते गङ्गदत्तः तद्गत्वा तत्सकाशं कुत्रचिज्जलाशये अन्विष्य मम सन्देशं कथय । येन आगम्यतां एकाकिना अपि भवता द्रुततरं यदि अन्ये मण्डूका न आगच्छन्ति । अहं त्वया बिना नात्र वस्तुं शक्नोमि । तथा यदि अहं तव विरुद्धं आ- चरामि तत् सुकृतमन्तरं मया विधृतम्” गोधा अपि तद्वच- नात् गङ्गदत्तं द्रुततरमन्विष्य आह-“भद्र गङ्गदत्त ! स तव सुहृत् प्रियदर्शनः तव मार्गं समीक्षमाणः तिष्ठति । तत् शीघ्रं आगम्यतामिति । अपरञ्च तेन तव विरूपकरणे सुकृतमन्तरे
( ४१४ ) पञ्चतन्त्रम् ।
( ४१४ ) पञ्चतन्त्रम् । धृतम् । तत् निःशङ्केन मनसा समागम्यताम्" । तत् आकर्ण्य गङ्गदत्त आह- सो अब भी अपने निकलनेका उपाय विचार करो इसके वधका उपाय भी विचारो" इस प्रकार समयके बीतते २ वह सम्पूर्ण मण्डूककुलको भक्षण करगया । केवल एक गंगदत्त रहगया । तब प्रियदर्शनने कहा- "भो गंग- दत्त ! मैं भूखा हूं सम्पूर्ण निःशेष होगये । सो मुझे कुछ भोजन दे क्यों कि तू मुझे यहां लाया है" । वह बोला- "भो मित्र ! इस विषयमें तुझे मेरे रहते कुछ चिन्ता न करनी चाहिये । सो यदि तुम मुझे भेजो तो और कूपमें स्थित मेंडकोंको विश्वास देकर यहां लाऊं" । वह बोला- "भो ! तू तो भाईके स्था- नमें होनेसे मेरा अभक्ष्य है । सो यदि ऐसा करेगा तो तू मेरे पिताके स्थानमें होगा । सो ऐसाही करो" वह भी यह सुनकर उस ढेंकलीका आश्रय कर अनेक देवताओंकी पूजाका संकल्प करके उस कूपसे निकला । प्रियदर्शन भी उसकी आकांक्षासे वहीं स्थित हो वाट देखता स्थित था । तब बहुत दिनोंतक गंग- दत्तके न आनेमें प्रियदर्शन दूसरी खखोडलमें रहनेवाली गोधासे बोला- "भद्रे ! थोडी हमारी सहाय करो । कारण कि तुम गंगदत्तको बहुत समयसे जानती हो । सो जा उसके पास उसे किसी सरोवरमें ढूंढकर मेरा संदेशा कह तुम इकले ही शीघ्र चले आओ यदि दूसरे मेंडक नहीं आते हैं तो मैं तुम्हारे बिना यहां रहनेको समर्थ नहीं हूं । और यदि म तेरे साथ विरुद्ध आचरण करूं तो मैंने इस अन्तरमें अपने पुण्यका फल लगा दिया है" । गोधा भी उसके बचन- से शीघ्र गंगदत्तको ढूंढ कर बोली- "भद्र गंगदत्त ! वह तुम्हारा मित्र प्रियदर्शन तुम्हारी वाट देखता स्थित है सो शीघ्र आओ । कदाचित् शंका हो तो तुमसे विरुद्ध आचरण करनेपर उसने अपना पुण्य बीचमें धर दिया है । सो निश्शंक मनसे आओ" । यह सुन गंगदत्त बोला- “बुभुक्षितः किं न करोति पापं क्षीणा नरा निष्करुणां भवन्ति । आख्याहि भद्रे प्रियदर्शनस्य
भाषाटीकासमेतम् । ( ४१६ ) “भूखा क्या पाप नहीं करता है, क्षीण मनुष्य दयारहित होजाते हैं भद्रे प्रियदर्शनसे कहना मैं फिर कूपमें नहीं आऊगा ॥३२॥” एवमुक्त्वा स तां विसर्जयामास । यह कह उसने उसको विदा करादिया । तत् भो दुष्ट जलचर ! अहमपि गंगदत्त इव त्वद्गृहे न कदाञ्चित् अपि यास्यामि” । तत् श्रुत्वा मकर आह-“भो मित्र ! न एतद् युज्यते । सर्वथा एव मे कृतघ्नतादोषं अप- नय मद्गृहागमनेन । अथवा अत्र अहं अनशनात् प्राणत्यागं तव उपरि करिष्यामि” । वानर आह-“मूढ ! किं अहं लम्बकर्णो मूर्खो दृष्टापायोऽपि स्वयमेव तत्र गत्वा आत्मानं व्यापादयामि । सो हे दुष्ट जलचर ! मैंभी तेरे घर गंगदत्तकी समान किसी प्रकार नहीं जाऊंगा” । यह सुनकर मकर बोला-“भो मित्र ! सर्वथा तुमको यह युक्त नहीं है मेरे कृतघ्नता दोषको मेरे घर चल कर दूरकरो । अथवा मैं यहा लंघनकर तुम्हारे ऊपर प्राण त्यागन करूंगा” वानर बोला-“मूर्ख ! क्या मैं लम्बकर्ण मूर्ख हू जो अपाय ( आपत्ति ) देखकर भी स्वय वहा जाकर अपनेको नष्ट करू ' आगतश्च गतश्चैव दृष्ट्वा सिंहपराक्रमम् । अकर्णहृदयो मूर्खो यो गत्वा पुनरागतः ॥ ३३ ॥” जो आकर सिंहके पराक्रमको देखकर भाग गया और कर्णहृदयरहित होनेके कारण वह मूर्ख फिरभी आगया ॥ ३३ ॥” मकर आह,-“भद्र ! स को लम्बकर्णः ? कथं दृष्टापायो- ऽपि मृतः ? तत् मे निवेद्यताम्” ! वानर आह- मकर बोला,-“भद्र वह लम्बकर्ण कौनहै ? किस प्रकार आपत्ति देखकर भी वहा जाकर मृत हुआ २ । सो मुझसे कहो” । वानर बोला- कथा ३. कस्मिंश्चित् वनोद्देशे करालकेशरो नाम सिंहः प्रति- वसति स्म । तस्य च धूसरको नाम शृगालः सदा एव अनु-