पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)
Paraskara Grihyasutra Hindi
महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा
स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)
प्रकाशकः—
श्रीसदाशिवकेन्द्रीयसंस्कृतविद्यापीठम्
पुरी, उत्कलः
विद्यापीठेन सर्वस्वत्वं स्वायत्तीकृतम्
प्रथमसंस्करणम्—५००
१९८१
मूल्यम्—रु० २५/- ३५.००
मुद्रकः— श्रीनारायणप्रेस, पुरी—७५२००१
CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
Publication No.—1
Shree Sadashiva Kendriya Samskrit Vidyapeetham
PARASKARA GRIHYASUTRAM
WITH
MARGADARSHINI
BY
Pt. KULAMANI MISHRA SHARMA
Dharmashastra & Sahitya Acharya. Vedashastri.
Retd. Lecturer in Dharmashastra
Shree Sadashiva Kendriya Samskrit Vidyapeetham
PURI, ORISSA.
┌─────────────────────────┐
│ योऽनूचानः स नो महान् │
│ [LOGO] │
│ राष्ट्रियसंस्कृतसंस्थानम् │
└─────────────────────────┘
Published by
Dr. HARIHAR JHA
Sahitya & Vyakaranacharya, M. A. Ph. D. D. Litt.
Principal
Shree Sadashiva Kendriya Samskrit Vidyapeetham
Puri, Orissa.
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF
Publisher—
Shree Sadashiva Kendriya Sanskrit Vidyapeetham
Puri, Orissa.
Copy right reserved by the Vidyapeetha
First Edition—500
1981
Price-Rs 26/- 35.00
Principal
Sadashiva Kendriya Sanskrit
Vidyapitha, Puri
93066
Printed by—
Sri Narayan Press, Puri—752001
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF
PARASKARA GRIHYASUTRAM
WITH
“Margadarshini”
RELEASED
BY
C. M. POONNACHA
Honourable Governor of ORISSA
on
SAMSKRIT DAY CELEBRATION
17-8 81
[... विद्यापीठ ...]
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
विद्य दुल्ल तदनु पुस्त मुद्रि
मुनि अि एत सर्व वि
न वि श प्र पा स्व
क वि मु पु
सं त
CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF
प्रस्तावना
संस्कृतभाषायाः शास्त्रपरम्परायाश्च सम्यक्तया रक्षार्थं हि विद्यापीठानामाविर्भावो जातः । अत उपादेयग्रन्थानां सम्पादनं दुर्ल्लभग्रन्थानां प्रकाशनं च विद्यापीठकर्मणामेकं विशिष्टमङ्गं भवति । तदनुसृत्यास्माकं श्रीसदाशिवकेन्द्रीयसंस्कृतविद्यापीठद्वारा प्रकाश्यमानेषु पुस्तकेषु मार्गदर्शिनीसहितं पारस्करगृह्यसूत्रमिदं सम्प्रति सर्वप्रथमं मुद्रितं सत् लोकलोचनगोचरतामागच्छति ।
पारस्करगृह्यसूत्रमिदमतिप्राचीनं सूत्रात्मकं कर्मकाण्डविषयकं मुनिकृतं ग्रन्थरत्नम् । भारतदेशस्य सर्वेष्वपि कोणेषु अद्याप्यस्य उपयोगिता अस्ति । सर्वत्र हि कन्यादानादौ "अमुकगृह्यसूत्रविधिने"त्युल्लेखनावसरे एतस्य ग्रन्थस्य नाम धार्मिकरीत्या आपतति । पाठ्यपुस्तकत्वेनापि सर्वेषु संस्कृतपाठ्यक्रमेषु वेदकर्मकाण्डधर्मशास्त्रविभागेषु अस्य समावेशो विद्यते ।
अस्य पारस्करगृह्यसूत्रस्य प्राचीनानि भाष्याणि वर्त्तमानान्यपि न सुलभाणि तथा कक्षासु नियतपठनकालयोग्यानि न भवन्ति । अतएव विद्यापीठस्यास्य लब्धावसरधर्मशास्त्राध्यापकैः पण्डितश्रीकुलमणिमिश्र-शर्म्ममहोदयैः रचितया सुखबोध्याया नातिविस्तृतया सूत्रमन्त्रोभयार्थ-प्रकाशिकया सर्वोपरि छात्रजनानुग्राहिकया मार्गदर्शिन्या समलङ्कृतोऽयं पारस्करगृह्यसूत्रग्रन्थः विद्यापीठेन प्रकाशितः । स चायं संस्कृतसंसारे स्वगुणेन अवश्यं समादरं लप्स्यते इत्याशासे ।
अत्र देवनागरलिप्या मुद्रणाय मुद्रणालयानामभावात् प्रकाशन-कर्मणि महत् काठिन्यमनुभूयते । प्रकाशनार्थमर्पितमपि पुस्तकं महता विलम्बेनापि नोपलभ्यते । गतेष्वपि संवत्सरेषु "प्रायश्चित्तविवेकः" मुद्रायन्त्रादद्यापि नास्माभिरुपलब्धः । भगवतः श्रीजगन्नाथदेवस्य कृपया पुस्तकमेतत् कथञ्चित् मुद्रितमित्यस्माकं सौभाग्यम् ।
अस्मिन् प्रकाशने अक्षरसंयोजकानां देवनागरलिप्यनभ्यस्ततया संस्कृतभाषानभिज्ञतया च अनेके प्रमादाः सम्भवन्त्येव । कृपया सहृदयैः तत्सर्वं क्षन्तव्यमिति सप्रश्रयमर्थयते ।
| पुरी | विदुषां विधेयः |
| ता १५-८-८१ | डॉ० हरिहरझा |
| प्राचार्यः |
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
(पृष्ठस्य मूलपाठः अत्यन्तं मन्दः/अस्पष्टः (faded/ghost print) अस्ति, यस्य स्पष्टतया पठनं प्रतिलेखनं च अशक्यम् अस्ति।)
[पृष्ठे दृश्यमानानि पार्श्वचिह्नानि / शीर्षकाणि]
CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
(दक्षिणभागे अवशिष्टाः केचन अंशाः)
मु
त्र
सु
म
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
प्राग्व्याहृतिः
विदन्त्येव सर्वे विद्वांसो यद् वेदा एव भारतवर्षस्य भारतीयसंस्कृतेश्च मुख्यमवलम्बनमिति । ते च भगवता कृष्णद्वैपायनेन शिष्याणां ग्रहणकसौर्याय ऋग्यजुःसामाथर्वभेदेन चतुर्धा विभज्य यथाक्रमं पैलवैशम्पायनजैमिनिसुमन्तुभ्यः प्रदत्ताः । कालक्रमेण शिष्योपशिष्यैर्गृहीतास्ते बहुशाखत्त्वमापन्नाः । तदुक्तं व्याकरणमहाभाष्ये पस्पशाह्निके भगवता पतञ्जलिना—
‘एकशतमध्वर्युशाखाः, सहस्रवर्त्मा सामवेदः ।
एकविंशतिधा वाह्वृचम् । नवधा आथर्वणो वेद’ । इति ।
तत्रायं यजुर्वेदः शुक्लकृष्णभेदेन द्विधा । तत्रेयं पौराणिकी वार्त्ता— गुरुणा वैशम्पायनेन कारणविशेषवशात् “मदधीतं परित्यजे”ति क्रोधादभिशप्तो याज्ञवल्क्यो रक्ताक्तानि यजूंष्यवमत् । तानि गुरोराज्ञया तित्तिरिपक्षिरूपधारिभिरितरैर्वैशम्पायनशिष्यैरास्वादितानि । ततो याज्ञवल्क्यवान्तत्वेन म्लानिमापन्नानि तानि कृष्णयजुर्वेद इति संज्ञामावहन् । तित्तिरिभिर्गृहीतत्वेन तैत्तिरीय इति संज्ञान्तरं च । तद्ग्राहकाश्च शाखाप्रवर्त्तका गुरोर्व्रताचरणेन चरकाः, चरकाध्वर्यवश्चेति ख्यातिमापन्नाः ।
वान्तवेदो याज्ञवल्क्यो महता तपसा भगवन्तमादित्यमाराध्य तस्मादयातयामानि यजूंष्याजहार । सृष्ट्यारम्भे ब्रह्मा तस्मात् सामवेदमदूदुहत् । याज्ञवल्क्यश्चेदानीं यजुर्वेदमित्यादित्यमण्डलस्य त्रयीमयत्वं
( II )
सुसिद्धमेव । सम्भवति च तद् यथाद्यत्वे वैज्ञानिका वायोः सकाशात् शब्दं सञ्चिन्वन्तः प्रसारयन्ति, तथा चायं याज्ञवल्क्यः सूर्यमण्डलाद् यजूंषि संजग्राहेति ।
एतान्येव अयातयामानि यजूंषि स्वच्छानीति नाम्ना शुक्लयजुर्वेदो जातः । श्रीमद्भागवत (१२-६-७३)—विष्णुपुराण (३-५-२८) प्रभृतिमतेन वाजिरूपधरेण सूर्येण प्रदत्त इति स वाजसनेयसंज्ञामपि लेभे । वायुपुराण-मतेन तु वाजिरूपिणा याज्ञवल्क्येन वेदो लब्ध इति तदध्येतारो वाजिन उच्यन्ते ।
“अश्वरूपाय मार्त्तण्डो याज्ञवल्कयाय धीमते । ६१-२१
यजूंष्यजातयामानि ब्राह्मणा येन केन च ।
अश्वरूपाय दत्तानि ततस्ते वाजिनोऽभवन्” । ६१-२२ इति
युज्यते चैतत् सजातीय एव सजातीयभाषामवगन्तुमर्हति । नहि अनश्वः अश्वभाषां गृह्णीयादिति अनयोर्द्वयोरपि वाजित्वं संगच्छते नत्वेकस्य ।
यजुर्वेदस्य एकशत १०१ शाखासु कृष्णयजुर्वेदस्य षडशीतिः ८६ शाखाः । तदुक्तं वायुपुराणे—
“वैशम्पायनगोत्रोऽसौ यजुर्वेदं व्यकल्पयत् ।
षडशीतिस्तु येनोक्ताः संहिता यजुषां शुभाः ।” ६१-५ इति
ब्रह्माण्डे—(अ ३५)
“वैशम्पायनशिष्योऽसौ यजुर्वेदमकल्पयत् ।
षडशीतिस्तु तेनोक्ताः संहिता यजुषां शुभाः ।।
तथा—
“षडशीतिस्तथा शिष्याः संहितानां विकल्पकाः ।
सर्वेषामेव तेषां वै त्रिधा भेदाः प्रकीर्त्तिताः” ।। इति
शुक्लयजुर्वेदस्य पञ्चदश १५ शाखा उक्ता विष्णुपुराणे—३-५-२६
“शाखाभेदास्तु तेषां वै दश पञ्च च वाजिनाम् ।
काण्वाद्यास्तु महाभागा याज्ञवल्क्याः प्रकीर्त्तिताः ।। इति
( III )
तथैव वायुपुराणेऽपि— (६१-२६) "इत्येते वाजिनः प्रोक्ता दशपञ्च च संस्मृताः । इति
एतेन शुक्लकृष्णयोर्द्वयोः संहृत्य एकशतम् १०१ अध्वर्युशाखा भवन्ति । इयं च संख्या पतञ्जलिना परिकीर्तिता । वायुपुराणमपि तां संख्यां दृढीकरोति ।
"शतमेकाधिकं कृत्स्नं यजुषां वै विकल्पकाः” (६१-२६) इति ।
कूर्मपुराणमते यजुर्वेदस्य शतं शाखा उक्ताः । तत्र (१-२ अध्याये)
एकविंशतिभेदेन ऋग्वेदं कृतवान् पुरा ।
शाखानां तु शतेनैव यजुर्वेदमथाकरोत् । इति ।
शौनकीयचरणव्यूहे तु साकल्येन यजुर्वेदस्य शाखाः षडशीति८६ रेव दर्शिताः । "यजुर्वेदस्य षडशीतिर्भेदा भवन्ति इति २-१
देवीपुराणमपि तथैव वक्ति—
"संख्या यजुर्वेदस्य श्रूयताम् ।
षडशीतिविभेदेन मया भिन्नं शिवाज्ञया” । १०७-१८ इति ।
विष्णुपुराणे तु यजुषां वैशम्पायनप्रवर्तिताः सप्तविंशतिः २७, याज्ञवल्क्यप्रवर्तिताः पञ्चदश १५ इति साकल्येन द्विचत्वारिंशत् ४२ शाखा भणिताः ।
उक्तं चात्र—
"यजुर्वेदतरोः शाखाः सप्तविंशन्महामुनिः ।
वैशम्पायननामाऽसौ व्यासशिष्यश्चकार वै । ३-५-१
तथा—
'शाखाभेदास्तु तेषां वै दश पञ्च च वाजिनाम् । ३-५-२६ इति
प्रदर्शिताः सर्वे मतभेदाः शाखानां मुख्यामुख्यभेदापेक्षया उक्ता इति व्यवस्थापनेन तेषामविरोधः साधयितुं शक्यते ।
उक्तेषु एकशत-(१०१) शाखासु कासांचन नामान्यप्युपलभ्यन्ते । तत्रादौ कृष्णयजुःशाखा दर्शिताश्चरणव्यूहे ।
( IV )
"तत्र चरकाणां द्वादश भेदा भवन्ति । (१) चरकाः (२) आह्वरकाः (३) कठाः (४) प्राच्यकठाः (५) कपिष्ठलकठाः (६) चारायणीयाः (७) वारायणीयाः (८) वार्त्तान्तवेयाः (६) श्वेताश्वतराः (१०) औपमन्यवः (११) पाताण्डनीयाः (१२) मैत्रायणीयाश्चेति ।
मैत्रायणीया नाम षड्भेदाः भवन्ति— (१) मानवाः (२) वाराहाः (३) दुन्दुभाः (४) छागलेयाः (५) हारिद्रवेयाः (६) श्यामायनीयाश्चेति ।
तत्र तैत्तिरीयका नाम द्विभेदा भवन्ति । (१) औखेयाः (२) खाण्डिकेयाश्चेति ।
तत्र खाण्डिकेया नाम पञ्चभेदा भवन्ति । (१) कालेता (२) शाठ्यायनी (३) हैरण्यकेशी (४) भारद्वाजी (५) आपस्तम्बी चेति ।
तथा शुक्लयजुःशाखाश्चोक्तास्तत्रैव— प्राच्योदीच्यनेऋ त्यवाजसनेया नाम पञ्चदशभेदा भवन्ति ।
(१) जावालाः (२) बौधायनाः (३) काण्वाः (४) माध्यन्दिनेयाः (५) शाफेयाः (६) तापनीयाः (७) कपोलाः (८) पौण्डरवत्साः (६) आवटिकाः (१०) परमावटिकाः (११) पाराशराः (१२) वैणेयाः (१३) वैधेयाः (१४) अद्धाः (१५) बौधेयाश्चेति ।
वायुपुराणेऽपि वाजसनेयशाखास्तत्प्रवर्त्तकनाम्ना प्रदर्शिता यथा—
'याज्ञवल्क्यस्य शिष्यास्ते कण्व-वैधेय-शालिनः । ६१-२४ मध्यन्दिनश्च शापेयो विदग्धश्चाप्य उद्दलः । ताम्रायणश्च वात्स्यश्च तथा गालव—शैशिरी ।। आटवी च तथा पर्णी वीरणी सपरायणः ६१-२५ इत्येते वाजिनः प्रोक्ता दश पञ्च च संस्मृताः । ६१-२६ इति
अत्र वाजसनेयशाखानामाख्यायां वायुपुराण—चरणव्यूहयोर्महान् भेदः सम्प्रदृश्यते ।
( V )
आभिर्वेदशाखाभिः सह गृह्यसूत्राणामस्ति सुमहान् सम्बन्धः । गृह्यसूत्राणि हि स्मार्त्तकर्माण्येव प्रदर्शयन्त्यपि शाखाविशेषमाश्रित्य व्यवतिष्ठन्ते ।
तत्र गृह्यो नाम वैवाहोऽग्निः । तदुक्तं खादिरगृह्यसूत्रे— “यस्मिन्नग्नौ पाणिं गृह्णीयात् स गृह्यः” ( १-१-१ ) इति । अत्र पाणिग्रहणमुपलक्षणम्, 'दायाद्यकाल एकेषाम्'(१-२-२)इति पारस्कराचार्यैः कालान्तराहितस्यापि अग्नेरुपदिष्टत्वात्” । सर्वथा गृह्योऽयमग्निः स्मार्त्त एव न श्रौतः । कृतविवाहस्य गृहस्थस्य चतुर्विधपाकयज्ञसम्पादनार्थम् अस्याग्नेर्नितरामावश्यकतास्ति । तेन गृहस्य—गृहस्थाश्रमस्य, हितसाधकत्वेन 'तस्मै हित-(५-१-५)मिति यति गृह्यशब्दो निष्पद्यते । तेन गृहपर्यायैः उपासनावसथशालाशब्दैरपि अयमाख्यायते औपासनाग्निः, आवसथ्याग्निः शालाग्निरिति । विवाहकालाऽऽधेयत्वेन वैवाहिकाग्निरित्यप्यस्य संज्ञान्तरम् । गृह्यशब्दः अग्निपरोऽपि तदग्निसाध्यकर्मसु रूढः । तेन गृह्याणां—गृह्याग्निसाध्यकर्मणां सूत्रं गृह्यसूत्रमिति विग्रहः सम्पद्यते । अत्र सूत्रं नाम संक्षिप्ता भाषा । तल्लक्षणं चोक्तम्—
“अल्पाक्षरमसन्दिग्धं सारवद् विश्वतोमुखम् । अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः । इति ।
(अस्तोभं-निरर्थपूरणाक्षरवर्जितम्) । अनया वै सूत्रभाषया सर्वाण्येव गृह्याणि आचार्यैरुपनिबद्धानि । तानि च गृह्यसूत्राणि प्रतिवेदं भिद्यन्ते । यथा वाह्वचानाम् आश्वलायनगृह्यसूत्रं शाङ्खायनगृह्यसूत्रं चेत्यादि । छन्दोगानां गोभिलखादिरादीनि गृह्यसूत्राणि । आथर्वणानां कौशिकगृह्यसूत्रम् । तैत्तिरीयाणाम् आपस्तम्बगृह्यसूत्रं, बौधायनगृह्यसूत्रं, सत्याषाढगृह्यसूत्रं, मानवगृह्यसूत्रं, भारद्वाजगृह्यसूत्रं, वाधूलगृह्यसूत्रं, काठकगृह्यसूत्रं, वाराहगृह्यसूत्रं, लौगाक्षिगृह्यसूत्रं चेत्यादीनि गृह्यसूत्राणि भवन्ति । तथा शुक्लयजुर्वेदस्य पञ्चदशानामपि शाखानां
( VI )
पारस्करगृह्यसूत्रमेकमेव गृह्यसूत्रमित्यस्य ग्रन्थरत्नस्य सुमहती प्रतिष्ठा व्यापकता च।
अस्य ग्रन्थस्य प्रणेता पारस्कर इति कात्यायन इति चाख्याद्वयेन प्रख्यायते । अनयोः कात्यायन इति गोत्रजा संज्ञा । पारस्कर इति देशवाचिका च । पारस्करशब्दस्य हि देशवचनत्वं "पारस्करप्रभृतीनि च संज्ञायाम् (६-१-१५७) इत्यस्य पाणिनीयसूत्रस्य विवृत्तौ वार्त्तिक-भाष्यकाराभ्यां वररुचिपतञ्जलिभ्यां "पारस्करो देश" इति अविस्वादं प्रदर्शितम् । स च पारस्करदेशः साम्प्रतिक पारस्यदेशः भवितुमर्हतीत्यनुमीयते शब्दसादृश्यात् ।
एतेनास्य ग्रन्थकर्त्तुः कालोऽप्यनुमातुं शक्यते यदा पारस्यदेशे वैदिकधर्मः ब्राह्मणक्षत्रियादिवर्णविभागश्च समुज्ज्वल आसीत् यदा च बुद्धस्याविर्भावो नाभूत् तदानीमेवास्य ग्रन्थस्य निर्मितिरभूदिति । यदि नाम बुद्धस्य आविर्भावानन्तरमस्य ग्रन्थस्य सृष्टिः स्यात् तर्हि करुणात्मनो बुद्धस्य प्रभावादत्र ग्रन्थे मधुपर्कशूलगवादिकर्मणि पशुवधः स्थानं न लभेत । यदिवा पाणिनिना पारस्कराचार्यसंज्ञायां पारस्करशब्द उदाहृतः स्यात् तर्हि एतस्य पाणिनिप्राग्भावित्वं सुदृढमेव ।
अनेनाचार्येण प्रथमं श्रौतसूत्रं सम्पाद्य परतो गृह्यसूत्रं निरमायि । तच्चास्य "न पूर्वचोदितत्वात् सन्देह" इति ३-१७-४ सूत्रेण कात्यायन-श्रौतसूत्रस्य 'व्रीहीन् यवान् वा हविषि' (१-६-१) इति सूत्रस्य परामर्शात् तथा "प्रोष्येत्य गृहानुपतिष्ठते पूर्ववत् ( १-१८-१ )" इतिसूत्रेण आहिताग्निप्रवासप्रकरणाक्षेपाच्चानुमीयते ।
सकलदेशप्रसिद्धश्चायं ग्रन्थः सूत्रात्मकः । छन्दोवत् सूत्राणि भवन्तीतिवचनात् सूत्रपाठेषु वैदिकी मर्यादाप्याधीयते । वेदे च सर्वे विधयश्छन्दसि विकल्प्यन्ते । तथैवात्र 'अन्नपर्याय वा' (१-१६-११), 'आचार्य्याय भैक्षं निवेदयित्वा' (२-५-८) प्रभृतिस्थलेषु व्याकरणनियमा
( VII )
नापेक्षिताः। सूत्राण्यपि अत्र मन्त्रगर्भितानि। आवश्यकस्थलेषु शाखान्तर- मन्त्राश्चात्र साकल्येनोद्धृताः, स्वशाखामन्त्राश्च प्रतीकमात्रेण । परिशिष्टभागवर्जितोऽयं काण्डत्रयात्मको ग्रन्थः द्विपञ्चाशत् (५२) काण्डिकासम्मलितो मया व्याख्यातः । यमलजननमूलजननशान्त्यादि हरिहरादिभिरप्युपेक्षितमिति मयापि न समाहृतम् । सूत्रविभागश्चात्र पूर्वाचार्याणां सरणिमनुसृत्य मया प्रकल्पितः । क्वचिदतिदीर्घे सूत्रे अर्थग्रहणाय कोमलमतीनां क्लेश आपद्येत इति भिया सूत्रस्य अंशकल्प- नापि कृता (यथा १-१-२ सूत्रे) । साकल्येनात्र दशाधिकानि सप्तशतानि सूत्राणि सन्ति । मन्त्राश्च शाखान्तरीयाः २२६ षड्विंशत्यधिकशतद्वय- परिमिता अत्र उद्धृताः । आकृत्या अदीर्घोऽप्ययं ग्रन्थः अर्थग्रहणावसरे सुदीर्घ इव प्रतीयते ।
पारस्करगृह्यसूत्रग्रन्थस्यास्य कर्क-जयराम-हरिहर-गदाधर- विश्वनाथकृतानि भाष्याण्युपलभ्यन्ते । वासुदेवरेणुदीक्षितयोः व्याख्ये नाममात्रावशेषे । उपलब्धेषु कर्कभाष्यं परमप्रामाणिकमतिप्राचीनं गूढाभिप्रायकं मन्त्रार्थप्रकाशनविधुरं संक्षिप्ततमं च । हरिहरभाष्यं विशदमपि प्रयोगसंवलितमपि मन्त्रार्थशून्यम् । गदाधरभाष्यमसम्पूर्णं विस्तृततममत्युपादेयमपि परीक्षार्थिनामत्तुपयोगि । अन्यद्भाष्यद्वयमपि विस्तृतं दुर्लभं च ! इत्थं भाष्याणां कोमलमतिपरीक्षार्थिछात्राणां पक्षे दुर्ग्राह्यत्वं दुर्लभत्वं चाकलय्य सारल्येन साकल्येन मन्त्रगर्भितानां सूत्राणामाशुग्रहणाय मयायं प्रयत्नः कृतो न पुनः पाण्डित्यप्रकटनाय ।
प्रथमं मया काण्डद्वयस्य व्याख्या कृता । तस्य प्रकाशनाय भारतसर्वकारस्यानुदानमपि प्रार्थितम् । समायाते ततः स्वीकृतिपत्रे पुरीविद्यापीठस्य तात्कालिकप्राचार्यैः डॉ० श्रीजयदेव-(गांगुली) गङ्गोपाध्यायैः एतत् पुस्तकं विद्यापीठप्रकाशनाय दीयतां, पुनश्च सम्पूर्णस्य ग्रन्थस्य व्याख्या अवश्यं करणीयेति अहमनुरुद्धः। तदनुसार- मात्मसम्मतिं प्रदाय अवसरग्रहणानन्तरं तृतीयकाण्डस्य व्याख्याऽपि
( VIII )
कृता यस्याः २१-१२-७६ ख्रीष्टीयदिवसे समाप्तिरभूत् । इयं मदीया व्याख्या मूलसूत्राणां तथा प्राचीनभाष्याणामपि ग्रहणाय मार्गं दर्शयिष्यतीति नाम्ना मार्गदर्शनोति कृता ।
यदि नाम परीक्षार्थिनां छात्राणामन्येषां वा पाठकानामियं मार्गदर्शिनी उपकारलेशं साधयिष्यति, तर्हि आत्मानमहं कृतार्थं मंस्ये । पुरीविद्यापीठस्य साम्प्रतिकप्राचार्यैः डॉ० श्रीहरिहरझामहोदयैर्बहुकार्याकुलैरपि एतस्य प्रकाशनं सादरमारब्धं समापितं चेति तेषु, पूर्वोक्तगङ्गोपाध्यायमहोदयेषु च कृतज्ञतां समर्प्य नरसुलभा दोषा मे स्वोदारतया कृपया मार्जनीया इति भूयो भूयः प्रार्थ्यन्ते सदाशया अन्तर्वाणय इति शम् ॥
विदुषां विधेयः
श्रीकुलमणिमिश्रशर्मा
श्रीसदाशिवकेन्द्रीयसंस्कृतविद्यापीठस्य
लब्धावसरधर्मशास्त्राध्यापकः
पुरी
१२-८-१९८१
पारस्करगृह्यसूत्रस्य विषयसूची
| विषयाः (प्रथमकाण्डः) | पृष्ठाङ्काः | विषयाः (द्वितीयकाण्डः) | पृष्ठाङ्काः |
|---|---|---|---|
| ग्रन्थोपक़्रमः | १ | चूडाकर्मकेशान्तौ | ७४ |
| कुशण्डिका | १ | उपनयनम् | ८० |
| आवसथ्याधानम् | ४ | ब्रह्मचारिव्रतम् | ८६ |
| मधुपर्कविधिः | ८ | स्नातकलक्षणम् | ६७ |
| पाकयज्ञभेदाः | १८ | उपनयनस्य परमावधिः | ६८ |
| विवाहः | १६ | समावर्तनम् | १०० |
| नित्यहोमः | ४१ | स्नातकव्रतम् | १०८ |
| नैमित्तिकहोमः | ४३ | पञ्च महायज्ञाः | ११२ |
| चतुर्थीकर्म | ४५ | उपाकर्म | ११५ |
| पक्षादिकर्म | ५० | अनध्यायाः | १२० |
| गर्भाधानम् | ५२ | उत्सर्गः | १२३ |
| पुंसवनम् | ५३ | लाङ्गलयोजनम् | १२५ |
| सीमन्तोन्नयनम् | ५५ | श्रवणाकर्म | १२७ |
| सोष्यन्तीकर्म | ५७ | इन्द्रयज्ञः | १३२ |
| जातकर्म | ५८ | पृषातक(आश्वयुजी)कर्म | १३४ |
| नामकरणम् | ६६ | सीतायज्ञः | १३६ |
| वहिर्निष्क्रमणम् | ६७ | (तृतीयकाण्ड) | |
| प्रवासादागतस्य पुत्रादिदर्शनविधिः | ६८ | नवयज्ञः | १४३ |
| अन्नप्राशनम् | ७० | आग्रहायणीकर्म | १४७ |
| स्रस्तरारोहणम् | १४६ |
| विषयाः | पृष्ठाङ्काः | विषयाः | पृष्ठाङ्काः |
|---|---|---|---|
| अष्टका | १५३ | उष्ट्रारोहणम् | २११ |
| अन्वष्टका | १६१ | खरारोहणम् | २११ |
| शालाकर्म | १६३ | मार्गारोहणम् | २११ |
| मणिकावघानम् | १७३ | चतुष्पथगमनम् | २१२ |
| शिरोरोगप्रतीकारः | १७४ | नद्यभिमन्त्रणम् | २१२ |
| दासवशीकरणम् | १७६ | नौकारोहणम् | २१२ |
| शूलगवः | १७७ | वनाभिमन्त्रणम् | २१२ |
| गोयज्ञः | १८० | पर्वताभिमन्त्रणम् | २१२ |
| वृषोत्सर्गः | १८१ | श्मशानाभिमन्त्रणम् | २१२ |
| पायसप्राशनम् | १८५ | गोष्ठाभिमन्त्रणम् | २१३ |
| अन्त्येष्टिकर्म | १८६ | नैमित्तिकदोषनिवारणम् | २१३ |
| अर्घ्यपशुनिरूपणम् | १९६ | मेघाभिमन्त्रणम् | २१३ |
| अवकीर्णिप्रायश्चित्तम् | २०२ | वाश्यमानशृगाल्यभिमन्त्रणम् | २१४ |
| सभाप्रवेशः | २०४ | शकुन्यभिमन्त्रणम् | २१४ |
| वशीकरणम् | २०५ | वृक्षाभिमन्त्रणम् | २१४ |
| रथारोहणम् | २०७ | प्रतिग्रहविधिः | २१५ |
| हस्त्यारोहणम् | २१० | अधीतस्य अविस्मरणोपायः | २१७ |
| अश्वारोहणम् | २११ |
पारस्करगृह्यसूत्रम्
"मार्गदर्शिनी"सहितम्
तस्मै नमः सदाराध्यपदपङ्कजरेणवे ।
सर्वस्वान्तर्निवासाय विश्वरूपाय शम्भवे ॥ १ ॥
पारस्कराचार्यगृह्यसूत्राणां मार्गदर्शिनी ।
संक्षिप्ता क्रियते व्याख्या छात्राणां सुखबोधिनी ॥ २ ॥
—×—
अथातो गृह्यस्थालीपाकानां कर्म ॥ १-१-१
अथ श्रौतकर्मविधानानन्तरं यतः श्रौतानि कर्माणि विहितानि, स्मार्त्तानि तु विधेयानि, अतः — अस्मात् कारणात्, गृह्यस्थालीपाकानां-गृह्ये-आवसथ्ये अग्नौ, ये पाकाः स्थालीपाकाः ते गृह्यस्थालीपाकाः तेषां कर्म-क्रिया अनुष्ठानमिति यावत्, वक्ष्यते इति शेषः । "प्रोष्येत्य गृहानुपतिष्ठते" ( १-१८-१ ) इत्यादिभ्यः श्रौतकर्मविधानस्य प्राथम्यमवगम्यते ।
परिसमूह्योपलिप्योल्लिख्योद्धृत्याऽभ्युक्ष्याऽग्निमुपसमाधाय ॥ १-१-२ (क)
यजमानः सुस्नातः सुप्राक्षालितपाणिपादः स्वाचान्तः वारणादियज्ञियवृक्षोद्भूवासने प्राङ्मुख उपविश्य होमार्थं सप्तविशंत्यङ्गुलं मण्डलं परिलिख्य तत्र परिसमूह्य त्रिभिर्दर्भैः पांशूनपसार्य, उपलिप्य-गोमयोदकेन त्रिवारम् उपलिप्य, उल्लिख्य-खादिरेण हस्त-
( २ )
मात्रेण खड्गाकृतिना स्फ्येन प्रागग्रा उदक्संस्थाः स्थण्डिलपरिमाणाः तिस्रो रेखाः कृत्वा, उद्धृत्य-अनामिकाऽङ्गुष्ठाभ्यां रेखाभ्यः पांशूनुद्धृत्य, अभ्युक्ष्य - मणिकाजलेन अभिषिच्य, । एते परिसमूहनादयः पञ्च भूसंस्कारा इति भर्तृयज्ञः, अग्निसंस्कारा इति कर्काचार्याः । परिसमूहनादि दैवे त्रिः त्रिः पित्र्ये सकृत् सकृत् इत्याचार्याः । अग्निं कर्मसाधनभूतं लौकिकं स्मार्त्तं श्रौतं वा अग्निम् , उपसमाधाय - आत्माभिमुखं पूर्वस्यां दिशि स्थापयित्वा ततः :-
दक्षिणतो ब्रह्मासनमास्तीर्य प्रणीय परिस्तीर्यार्थवदासाद्य
१-१-२ (ख)
दक्षिणतः - अग्नेर्दक्षिणस्यां दिशि, ब्रह्मासनं-कर्मसु तत्त्वज्ञस्य ब्रह्माभिधेयस्य ब्राह्मणस्य, तादृशब्राह्मणाभावे पञ्चाशत्कुश - निर्मितस्य ब्रह्मणः, आसनं - वारणादियज्ञियदारुनिर्मितम् आसनम् आस्तीर्य - कुशैः स्तीर्त्वा, ततः यथाविधि ब्रह्माणं वृत्वा, प्रणीय-वारणं द्वादशाङ्गुलदीर्घं चतुरङ्गुलविस्तारं चतुरङ्गुलखातं प्रणीतापात्रं सव्यहस्ते कृत्वा दक्षिणहस्तपात्रस्थोदकेन पूरयित्वा अग्नेरुत्तरतः संस्थाप्य, परिस्तीर्य-ईशानादि प्रागग्रैः कुशैः अग्नेः परिस्तरणं कृत्वा, अर्थवत्—यावद्भिः पदार्थैः अर्थः प्रयोजनं, तावतः पदार्थान्, अग्नेरुत्तरतः पश्चाद् वा आसाद्य-आसादितान् कृत्वा, ते पदार्थाः यथा :—
१) पवित्रच्छेदनानि त्रीणि कुशतरुणानि (२) पवित्रे साग्रे अनन्तर्गर्भे द्वे कुशतरुणे (३) प्रोक्षणीपात्रं वारणं द्वादशाङ्गुलदीर्घं करतलसम्मितखातं पद्मपत्राकृति कमलमुकुलाकृति वा (४) आज्यस्थाली तैजसी मृण्मयी वा द्वादशाङ्गुलविशाला प्रादेशोच्चा (५) तथैव चरुस्थाली (६) सम्मार्ग-कुशाः त्रयः (७) उपयमनकुशाः त्रिप्रभृतयः (८) समिधः तिस्रः पालाश्यः प्रादेशमात्र्यः (६) स्रुवः खादिरो हस्तमात्रोऽङ्गुष्ठपर्वमात्रखात-परिणाहवर्त्तुलपुष्करः (१०) आज्यं गव्यम् (११) चरुश्चेद् व्रीहितण्डुलाः (१२) तण्डुलादिपूर्णपात्रं, वरो वा यथाशक्ति हिरण्यादि द्रव्यं चेति आसाद्य, ततः—
( ३ )
पवित्रे कृत्वा प्रोक्षणीः संस्कृत्यार्थवत् प्रोक्ष्य निरूप्याज्यमधिश्रित्य पर्यग्नि कुर्यात् ॥ १-१-२ (ग)
पवित्रे कृत्वा - पवित्रच्छेदनेः त्रिभिः कुशतरुणैः द्वे कुशतरुणे अग्रतः प्रादेशमात्रं विहाय प्रच्छिद्य, प्रोक्षणीः-प्रोक्षणार्थाः अपः संस्कृत्य, संस्कारप्रकारो यथा-प्रोक्षणीपात्रं प्रणीतासन्निधौ निधाय तत्र प्रणीतोदकमासिच्य पावित्राभ्यामुत्पूय, तत्र पवित्रे संस्थाप्य दक्षिणहस्तेन प्रोक्षणीपात्रमानीय सव्ये पाणौ कुर्यात् । अर्थवत् प्रोक्ष्य—अर्थवन्ति प्रयोजनवन्ति आसादितानि द्रव्याणि आसादनक्रमेण प्रोक्ष्य, ततः असञ्चरे-अग्निप्रणीतयोर्मध्ये प्रोक्षणीपात्रं निधाय, आज्यं निरूप्य—आसादितम् आज्यम् अग्नेः पश्चात् निहितायामाज्यस्थाल्यां निक्षिप्य, अधिश्रित्य-आज्यस्थालीम् अग्नौ आरोप्य, पर्यग्नि कुर्यात्—ज्वलदुलमुकम् आज्यचर्वोः समन्तात् प्रदक्षिण परिभ्रामयेत् ।
स्रुवं प्रतप्य संमृज्याऽभ्युक्ष्य पुनः प्रतप्य निदध्यात् ॥ १-१-३
स्रुवं पूर्वोक्तलक्षणं, प्रतप्य — अधोमुखं प्राञ्चम् अग्नौ तापयित्वा, वामहस्ते धृत्वा, संमृज्य — दक्षिणहस्तेन सम्मार्गकुशाग्रैः मूलतः अग्रपर्यन्तं (तं स्रुवं) सम्यक् मार्जयित्वा, अभ्युक्ष्य-प्रणीतोदकेन च अभिषिच्य, पुनः प्रतप्य-पूर्वोक्तविधिना तापयित्वा, निदध्यात्-दक्षिणतः स्थापयेत् ।
आज्यमुद्वास्योत्पूयावेक्ष्य प्रोक्षणीश्च पूर्ववदुपयमनान् कुशानादाय समिधोऽभ्याधाय पर्युक्ष्य जुहुयात् । १-१-४
आज्यं— होमार्थं स्थापितं गवां घृतम्, उद्वास्य — उत्थाप्य उत्पूय-पूर्वपवित्राभ्यां संस्कृत्य, अवेक्ष्य—आज्यं दृष्ट्वा, ततः अपद्रव्यं, निष्कास्य, प्रोक्षणीः—प्रोक्षणार्था अपः च पूर्ववत्—पूर्ववत् पवित्राभ्यां उत्पूय उपयमनान् कुशानादाय—उपयमनकुशान् दक्षिणहस्तेन आनीय