पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
स्य व्याचष्टे—क्षणिकत्वञ्चेति । ज्ञानमित्युक्त्या सूत्रे भावस्येत्यनुष-
Wait, क्षणिकत्वञ्चेति or क्षणिकत्वंचेति?
It has क्षणिकत्वञ्चेति (with ञ्च).
And after व्याचष्टे: dash —.
At end of L12: भावस्येत्यनुष- or भावस्येत्यनुष? ङ्गो starts L13.
`ङ्गो दर्शितः । क्षणिकं यत इति शेषः । ज्ञानस्य क्षणिकत्वादाशुतरवि-`
Check:
`ङ्गो दर्शितः ।`
`क्षणिकं यत इति शेषः ।`
`ज्ञानस्य`
`क्षणिकत्वादाशुतरवि-`
`नाशत्वादित्येतदर्थानां स्थायित्वादित्यस्याप्युपलक्षकम् । चशब्दो वा`
Check:
`नाशत्वादित्येतदर्थानां स्थायित्वादित्यस्याप्युपलक्षकम् । चशब्दो वा`
Matches 100%.
`तत्समुच्चायक इत्याशयेनार्थानां घटादीनां चेत्याद्युक्तमुक्तं साधितं 'उ-`
Wait, quote before `उ`?
५१४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - २. ] प्रमाणाभावात्सर्वश्रुतिस्मृतियुक्तिविरुद्धत्वाच्च नैते प- क्षा ग्राह्याः ॥ ३२ ॥ ❖ ❖ ❖ १०. अधिकरणम् ॥ ( १ ) स्याद्वादिमतं दूषयति— सू—ॐ ॥ नैकस्मिन्नसम्भवात् ॥ ॐ ॥ ३३ ॥ णाश्च । स्मृतयस्तु ‘स एव भूयः’ इत्याद्याः उक्ताः वक्ष्यमाणाश्च । युक्त- यस्तु सूत्रोक्ता एव द्रष्टव्याः । एते वेदविद्वेषिणां वैभाषिकसौत्रान्ति- कशून्यवादिविज्ञानवादिनां पक्षाः प्रेक्षावद्भिर्न ग्राह्याः नोपादेयाः इति। अनेन नैते ग्राह्या इत्यस्याध्याहारः सूचितः। अत्र श्रुत्यादिविरोधवचन- मधिकारिणं प्रत्येव न तु परं प्रति तन्मते तेषां अप्रामाणिकत्वादिति ध्येयम् । तथा चायं तत्त्वप्रदीपदिशा सूत्रार्थः । सर्वथा सर्वप्रकारेषु प्रत्यक्षक्षणिकत्वकल्पने परोक्षप्रत्यक्षबिम्बप्रतिबिम्बजगद्युगलकल्पने शू- न्याद्वैतकल्पने विज्ञानाद्वैतकल्पने प्रकटने प्रच्छादने वा सर्वेषां वेदद्वे- षिणां पक्षाः नोपपद्यन्ते । कुतोऽनुपपत्तेः । उपपत्तिपदोपलक्षितप्रमाण- सामान्याभावात्प्रमाणविरुद्धत्वाच्च । स्थायिनोः जीवेशयोरनङ्गीकारा- च्च । अतो न ग्राह्या इति ॥ ९ ॥ ॥ इति अनुपलब्ध्यधिकरणम् ॥ —-::*-— १०. अधिकरणम् ॥ ( १ ) अधिकरणार्थं दर्शयति—स्यादिति ॥ सप्तप्रकारिणो जग- तः कायपरिमाणाजीवात्मनो दृष्टादृष्टसाधनैश्चोत्पत्तिसम्भवात्किमी- श्वरेण कृत्यमित्युक्तं लक्षणसूत्रमिति प्राप्ते सिद्धान्तयत्सूत्रमुपन्य- स्य व्याचष्टे—नेति । सत्स्यादित्याद्यनुवादेन जैनोक्तस्य सूत्रकृद्बुद्धि- स्थस्य नञर्थप्रतियोगिनः सप्तभङ्गित्वस्य सूत्रे अध्याहृततच्छब्देन प- रामर्शः कार्य इति सूचितम् । अत्र जगत्सत्स्यादित्यनेन सत्त्वाख्यैकप्र- कारोऽभिहितः। असत्स्यादित्यनेनान्यप्रकारः । सदसत्स्यादित्यनेन स- दसत्त्वरूपोऽपरः प्रकारोऽभिहितः। ततः उक्तपक्षत्रयादन्यश्चकारादन्य- स्तुनस्ततोऽन्यस्ततोऽन्यदपि स्यादित्यनेन प्रकारचतुष्टयमनूदितम् । त- था हि—ततः सदसद्भ्यां अन्यदिति सदसद्विलक्षणत्वप्रकारोक्तिः । पुनः सत्स्यात्ततोऽन्यत्स्यादिति अन्वयेन सत्त्वे सति सदसद्विलक्षण-
[ अधि - १०. सू - ३४. ] दीपिकासहितम्. ५१५ सत्स्यादसत्स्यात्सदसत्स्यात्ततोऽन्यच्च स्यादित्येतदे कस्मिन् युज्यते । अदृष्टत्वेनासम्भवात् ॥ ३३ ॥ ( २ ) सू—ॐ ॥ एवं चात्माकात्स्न्र्यम् ॥ ॐ ॥ ३४ ॥ जीवस्य । शरीरपरिमितत्वाङ्गीकारेऽण्वादिशरीरस्थ त্বরূপोऽन्यः प्रकारोऽनूदितः । एवमसत्स्यात्ततोऽन्यच्च स्यादित्यन्वये न असत्त्वे सत्यसद्विलक्षणत्वरूपप्रकारोऽभिहितः । तथा सदसत्स्या त्ततोऽन्यत्स्यादित्यन्वयेन सदसत्त्वे सति सदसद्विलक्षणत्वरूपोऽपरः इ ति पूर्वोक्तप्रकारत्रयेण सहास्य सप्तत्वमित्येवं रूपमेतत् । तद्दोषपरि जिहीर्षुणा जिनेनोक्तं जगतः सप्तभङ्गित्त्वमेकस्मिन् वस्तुनि न युज्यते इत्यर्थः । कुतो नेत्यत उक्तस्यासम्भवादेतस्यासम्भावितत्वादिति हे तोर्हेत्वन्तरसाध्यत्वात्तद्धेतुत्वेनासत इति सूत्राददृष्टत्वादिति पदमनु वर्त्य योजयति—अदृष्टत्वेनेति । सदसद्भ्यामन्यभङ्गिन एवाप्रामाणि कत्वेन एकस्मिन् सप्तभङ्गित्त्वस्य सुतरामप्रामाणिकत्वेनेत्यर्थः ॥ ( २ ) यदपि जीवस्याणुत्वे सर्वाङ्गवेदनानुसन्धानायोगाद्व्यापृतत्वे च देहान्तरगतस्याप्यनुसन्धानप्रसङ्गाच्छरीरपरिमितत्वमुक्तं जिनेन तत्र प्रष्टव्यं, किं तत् स्वीयसर्वशरीरावयवगतचेष्टोपपत्त्यर्थमुपेयते । उत शरीरावच्छिन्नत्वमन्तरेणात्मनः स्वतः परिमाणाभावाद्वा । तत्राद्यपक्षं प्रतिक्षेप्तुं प्रवृत्तं सूत्रमुपन्यस्य व्याचष्टे—एवं चेति ॥ जीवस्येत्यादि ना जैनमतप्रसङ्गसन्निधापितमात्मनः शरीरपरिमाणत्वमेवमित्यनेन प रामृश्यते । चकारोऽङ्गीकारद्योतक आत्मशब्दश्च जीवपर इत्युक्तं भव ति। एवमेवमित्येतदापादकपरतया व्याख्यायात्माकार्त्स्न्यमित्येतदेकं प दं कृत्वा स्यादित्यध्याहारेणापाद्यपरतया व्याख्याति-अण्वादीति । पि पीलिकादिशरीरस्थस्यैवेत्यर्थः । जीवस्येत्यनुषज्यते । तत्तत्परिमाण स्येत्यपि द्रष्टव्यम् । हस्त्यादीति । गजगर्दभादिशरीर इत्यर्थः । कर्मव शात्प्राप्ते सतीति शेषः । 'अकार्त्स्न्यं' तस्य तत्रापूर्णता स्यादित्यर्थः । त तश्चात्मनः कायपरिमाणाभ्युपगमेऽपि न सर्वशरीरावयवगतचेष्टोपप त्तिरिति भावः। एवं शरीरपदं सावधारणं कृत्वाऽऽवृत्त्याण्वादिशरीरस्था दिपदद्वयोः विनियमेनाण्वादीत्यादिवाक्यं हस्त्यादिशरीरस्य तत्परिमा णस्यात्मनोऽण्वादिशरीरेपि पिपीलिकादिशरीरे कर्मवशात्प्राप्ते सति त च्शरीर एवाकार्त्स्न्यं स्यात् पूर्णता न स्यादतिरेकस्स्यादिति यावत्। तथा च शरीरपरिमाणत्वभङ्ग इत्यपि व्याख्येयम् । अत एवोभयत्रा
५१६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - २. ] स्य हस्त्यादिशरीरेऽकात्स्न्यं स्यात् ॥ ३४ ॥ ( ३ ) ॐ ॥ न च पर्यायादप्यविरोधो विकारादिभ्यः ॥ ॐ ॥ ३५ ॥ तत्तच्छरीरस्थस्य तत्तत्परिमाणत्वमिति न मन्तव्यम् । विकारित्वादनित्यत्वप्रसक्तेः ॥ ३५ ॥ दिशब्दः । उक्तं हि तत्त्वप्रदीपे—हस्त्यादिशरीरस्थस्याण्वादिशरीर प्राप्तौ तच्छरीर एवात्मनः कात्स्न्यं न स्यादिति । अनेन सूत्रे एवमात्मा कात्स्न्यं च स्यादिति चशब्दस्यान्वयः, स चातिरेकसमुच्चयार्थ इ त्युक्तं भवति । केचित्तु-एतदर्थे भाष्येऽपि अकात्स्न्यमित्येतदनन्तरं चे ति शेष इत्याहुः । यद्वा-सूत्रे आत्मेति प्रथमान्तं भिन्नं पदं कात्स्न्यं अका- त्स्न्यमिति द्वेधा विच्छेदः । चः समुच्चये
यहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्ति-दर-पंक्ति लिप्यन्तरण दिया गया है:
[ अधि - १०. सू - ३६. ] दीपिकासहितम्. ५१७ (४) सू- ॐ॥ अन्त्यावस्थितेश्चोभयनित्यत्वादविशे षात् ॥ ॐ ॥ ३६ ॥ परिमाणाभावे स्वरूपाभावप्राप्त्याऽन्त्यपरिमाणस्थिते स्तदर्थत्वेन शरीरस्थितेरुभयनित्यत्वादविशेषेण स यल्लक्षणं तन्निवृत्तिरूपोऽन्यथाभाव एव तदनित्यतानिबन्धनं नान्यथा भावमात्रं जीवस्य लक्षणं च चैतन्यादिकमेव न सुखादीत्यस्मदभ्युप गमोऽत इति सुधोक्तिः ॥ (४) इदानीं शरीरावच्छेद मन्तरेणात्मनः स्वतः परिमाणाभावा त्तदर्थं कायपरिमाणत्वमङ्गीक्रियत इति द्वितीयपक्षं निराकुर्वत्सूत्रं प ठित्वा व्याचष्टे - अन्त्येति ॥ अत्र पूर्वसूत्राद्देयं चेत्यनुषज्यते । अन्त्या वस्थितेरित्यावर्तते। चशब्दो हेतुसमुच्चये अवधारणेऽप्यर्थे च । प्रसङ्ग इति शेषः। तथा चैवं सूत्रभाष्ययोजना-एवं च एवं सति क्षपणकेन श रीरावच्छेदमन्तरेणात्मनः स्वतः परिमाणाभावरूपप्रसङ्गभयाच्छरी रपरिमाणत्वेऽङ्गीकृते सत्यन्त्यावस्थितेः प्रसङ्गोऽन्त्यस्य मुक्तिकालीनस्या पि शरीरस्य स्थितेः प्रसङ्गः तदापि तत्सत्त्वमङ्गीकार्यं स्यात्कुतोऽन्त्याव स्थितेरन्त्यपरिमाणस्थितेरन्त्ये मुक्तौ परिमाणसत्त्वस्यावश्यकत्वात्तद र्थत्वेन परिमाणावच्छेदकत्वेन शरीरस्थितेरप्यावश्यकत्वादवच्छेदकं विनाऽवच्छेद्यसत्वायोगात्,मुक्तौ जीवे परिमाणस्थितिरेव कुतोऽन्त्याव स्थितेरन्त्ये मुक्तौ जीवस्य स्थितेस्तदर्थत्वेन परिमाणावस्थितेरावश्यक त्वात्। जीवसत्त्वेऽपि परिमाणावश्यकत्वं कुतः? यद्द्रव्यं तत्परमाणुवदि ति व्याप्तेः । परिमाणशून्यस्य द्रव्यस्यासत्त्वात् परिमाणाभावे स्वरूप सत्त्वस्याप्यभावप्राप्त्या तत्सिद्धेः । नन्वस्तु मोक्षे शरीरसत्त्वं किमनि ष्टमिति चेत् , तथा सति उभयनित्यत्वादुभयस्य मुक्तात्मशरीरयोर्नि त्यत्वप्रसङ्गात् । मुक्तिकालीनत्वेन हेतुना आत्मदृष्टान्तेन शरीरस्यापि नित्यत्वसाधनसम्भवात् । अस्तु मुक्तौ शरीरस्य नित्यत्वं किमनिष्टमि ति चेत्तथा सति सर्वशरीरनित्यत्वं स्यात्सर्वेषामधुनातनशरीराणाम पि नित्यत्वप्रसङ्गात् । कुतोऽविशेषात् परिमाणविशेषात् परिमाणाव च्छेदकजडशरीरत्वाविशेषेण तत्प्राप्तेः। यदि चैतद्दोषपरिहाराय मुक्त देहस्याप्यनित्यत्वं, तर्ह्यविशेषादुभयस्य मुक्तिसंसारयोरविशेषप्रसङ्गा त् । यदि चैतद्दोषपरिहारायान्त्ये मोक्षे एवं शरीरपातेऽपि तत्परिमाण स्यावस्थितिरङ्गीक्रियते, तर्ह्यविशेषात्संसारेऽपि परिमाणपरिवर्तनाभा
५१८ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - २. ] वैशरीरनित्यत्वं स्यात् ॥ ३६ ॥ -:*:— ११. अधिकरणम् ॥ ( १ ) पाशुपतपक्षमपाकरोति— सू—ॐ ॥ पत्युरसामञ्जस्यात् ॥ ॐ ॥ ३७ ॥ 'यं कामये तंतमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमे धाम्' ( ऋ. १०-१२५-५. ) 'अहं रुद्राय धनुरातनो मि ब्रह्मद्विषे शरवे हन्त वा उ' (ऋ. १०-१२५-६.) 'अ स्य देवस्य मीळ्हुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः । षप्रसङ्गादिति नात्मनः कायपरिमाणत्वपक्षो युक्त इति ॥ १० ॥ ॥ इति नैकस्मिन्नधिकरणम् ॥ -: ॐ :- ११. अधिकरणम् ॥ ( १ ) अधिकरणार्थं दर्शयति—पाशुपतेति ॥ पशुपतेरमी पाशुप ता इति विग्रहः । तथा च पाशुपतशाक्तेयसौरस्कान्दगाणापत्यभेदेन बहुविधेषु वैदिकाभासेषु मध्ये ये शैवपाशुपतकालामुखमहाव्रतभेदेन चत्वारः पशुपतिपारम्यवादिनः, तेषां पक्षमस्मिन्नधिकरणे निराकरो ति सूत्रकृदित्यर्थः । सार्वज्ञ्यादिगुणशाली पशुपतिरेव प्रकृतिमुपादा नीकृत्य हरिहिरण्यगर्भादिजगदुत्पत्त्यादि करोति । तथा श्रुतिस्मृतयो ऽस्मिन्नर्थे भवन्ति । तथा च का वार्ता हरेर्जगत्कारणत्वस्य । अतो न लक्षणसूत्रं युक्तमिति प्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे—पत्यु रिति । इत्यादिश्रुतेरिति पञ्चमी । समुदायैकवचनमेतत् । आदिशब्दे न 'वासुदेवो वा इदमग्र आसीन्न ब्रह्मा न च शङ्करः' ( ) इत्यादिकं गृह्यते। 'पारतन्त्र्येण' परतन्त्रत्वाख्यदोषावगमेन पारतन्त्र्यं जननमरणदेरप्युपलक्षकम्। अनेनहेत्वसिद्धिःपरिहृता । पारतन्त्र्येणेत्य सामञ्जस्यपदस्यार्थान्तरं भावे ष्यञमभिप्रेत्याह-असमञ्जसत्वादिति । दोषत्वादित्यर्थः । पशुपतेरिति विपरिणामेनात्रापि सम्बध्यते । पशुप तिः पशूनां पाशबन्धविमोक्षद इति ईश्वर इति च पत्युरिति पदस्यार्थ द्वयम्। ईश्वरत्वं चाज्ञजनप्रसिद्ध्याऽन्यस्यापीत्यतः-पशुपतिरित्याह,यो गेनान्योऽपि पशुपतिर्भवतीत्यतः-ईश्वर इति चाह । उभयसमभिव्या हाराच्छिवस्यैव प्राप्तिः । न जगत्कर्तेत्यनेन प्रकरणाल्लब्धस्य जगत्कर्तृ
-Line 14:षे' चतुर्मुखपञ्चममुखच्छेत्त्रे प्रमेयदीपोक्तरीत्या संहारकाले ब्राह्मणा-Line 15:दिसर्वप्राणिविद्विषे इति वा, सुधारीत्या व्यत्ययेन ब्रह्मद्विषां दैत्यानांLine 16:शरवे हिंसकायेति वा, चन्द्रिकारीत्या दक्षप्रजापतिद्विषे इति वा रु-Line 17:द्राय । द्वितीयार्थे चतुर्थी । उक्तविशेषणकरुद्रमिति । 'हन्त वा उ' ह-Line 18:न्तुमेव, न तु भीषणाद्यर्थम्, प्रलये दुर्गरूपेण हननात् । धनुः 'आत-Line 19:नोमि' विस्तारयामि सज्यं करोमीति वा । अहं 'जनाय' जनस्य 'स-Line 20:मदं' सम्मदं हर्ष सन्ततमोदं वा करोमि । अहं 'द्यावापृथिवी' तदु-Line 21:पलक्षितानूर्ध्वाधोलोकान् धारण्या 'आविवेश' च्छन्दसि परोक्षेLine 22:लिट् । अहमस्य जगतः 'पितरं' ब्रह्माणं 'मूर्धन्' मूर्
५२० ब्रह्मसूत्रभाष्यम् [ अध्या - २. पा - २. ] ( २ ) सू—ॐ ॥ सम्बन्धानुपपत्तेश्च ॥ ॐ ॥ ३८ ॥ अशरीरत्वात्तस्य जगता सम्बन्धो न युज्यते कर्तृत्वेन मृतपुरुषवत् ॥ ३८ ॥ ( ३ ) सू—ॐ ॥ अधिष्ठानानुपपत्तेश्च ॥ ॐ ॥ ३९ ॥ पृथिव्याद्यधिष्ठाने स्थितो हि कुलालादिः कार्यं करो ति, न चास्य तदस्ति ॥ ३९ ॥ णा ध्यानेन च प्रवृद्धे भरणे पूजने हविर्भिः कृते सति तत्प्रसादात् 'व याः' अहंतत्त्वाभिमानित्वेन जनानां बन्धको रुद्रः 'रुद्रियं महित्वं' रौद्रं पदं 'विदे' विविदे लेभे । हि प्रसिद्धमेतत् । तथा हि 'अश्विनौ' युवामपि विष्णुपूजयैव तत्प्रसादात् 'इरावत्' अन्नवत् 'वर्तिः' वर्त नं समस्तभोगवत्पदं 'यासिष्टं' अयासिष्टे प्राप्तुवन्तौ स्त इति । 'ए को नारायणः' इत्यादिकं श्रुत्यन्तरवाक्यम् । अनेन प्रलयेऽभावोऽवग म्यते । महाप्रलये नारायण एक एव प्रधान आसीत् । तदा स्वातन्त्र्ये ण 'न ब्रह्मा' न चतुर्मुख आसीत, न 'शङ्करो' रुद्रश्चासीदित्यर्थः ॥ ( २ ) युक्त्यन्तरेण पशुपतेर्जगत्कारणत्वं पराकुर्वत्सूत्रमुपन्यस्य व्याचष्टे—सम्बन्धेति ॥ अशरीरत्वादित्यनेन न केवलं पारतन्त्र्यादेः, किन्त्वशरीरत्वाच्चेति चशब्दसमुच्चेतव्यो हेतुर्दर्शितः । 'तस्य' पशु पतेरिति । अनेन सूत्रे पत्युरित्यस्यानुवृत्तिर्दर्शिता । 'जगता' कार्ये ण । जगत्पदं अशरीरस्य क्वचिदपि कार्यकर्तृत्वेन सम्बन्धो न युज्य ते सुतरां सर्वस्मिन्निति कैमुत्यद्योतनाय । सूत्रेऽनुपपत्तेरिति पञ्चमी प्रयोगेऽपि नात्र सम्बन्धानुपपत्तेः हेतुत्वं साध्याविशेषप्रसङ्गात् , कि न्तु साध्यत्वं, पञ्चमी तु चशब्दसूचिताशरीरत्वस्य हेतुत्वज्ञापिकेति प्र दर्शनाय युक्तेरित्यनुक्त्वा न युज्यत इति निर्देशः कृतः । ननु कार्येण जगताऽपि सम्बन्धमात्रमशरीरस्यापि सम्भवति गगनादेर्घटादिसंयो गदर्शनात् अतः कोऽसावत्र विवक्षितः सम्बन्धोऽयुक्त इत्यतः कार्यकार तृभाव इति भावेनोक्तं—कर्तृत्वेनेति । 'कर्तृत्वेन सम्बन्धः' कर्तृत्वरू पसम्बन्धः । अत्र दृष्टान्तमाह—मृतेति । त्यक्तदेहवदित्यर्थः । अने न—न केवलमसामञ्जस्यात्, किन्तु पत्युरशरीरत्वाच्च न जगता कार्य कर्तृभावरूपसम्बन्धो युक्त इति सूत्रार्थोऽभिहितः ॥ ( ३ ) हेत्वन्तरेण पशुपतेर्जगत्कारणत्वं पराकुर्वत्सूत्रमुपन्यस्य व्याचष्टे—अधिष्ठानेति ॥ 'चो' यतोऽस्य पत्युरतदधिष्ठानं नास्त्यतो
[ अधि - ११. सू - ४०. ] दीपिकासहितम्. ५२१ (४) सू—ॐ ॥ करणवच्चेन्न भोगादिभ्यः ॥ ॐ ॥ ४० ॥ इदमेव जगतस्तस्य करणवदधिष्ठानादिरूपं नित्यस्यापि कस्य चिद्भावाद्युज्यत इति चेत्— ऽपि न जगत्कर्तृत्वमित्यनेन 'अधिष्ठानानुपपत्तेः' अधिष्ठानाभावाच्च न पत्युः जगत्कर्तृत्वमिति सूत्रार्थो दर्शितः। अत्राप्रयोजकत्वमाशङ्क्य तत्परिहाराय सूत्रे अधिष्ठानाभावादित्यनुक्त्वा अधिष्ठानानुपपत्तेः अ- धिष्ठानाख्यव्याप्याभावादित्युक्तिबलात्सूचितां व्यतिरेकव्याप्तिं सामा- न्यतः सहदृष्टान्तं दर्शयति—पृथिव्यादीति । 'पृथिव्याद्यधिष्ठाने' भूम्याद्यधिकरणे । हिः प्रसिद्धौ । 'कार्ये' घटादि ॥ (४) उक्तमाक्षिप्य समादधत्सूत्रमुपन्यस्याक्षेपांशं तावद्व्याचष्टे —करणवदिति ॥ इदमेवेति । मायादिकारकसमुदायरूपं जगदेवेत्य- र्थः । न ततोऽन्यत् मृग्यमित्येवशब्दार्थः । 'तस्य' ईश्वरस्य । अनेन सूत्रे पत्युरिदमेवेति पदानुषङ्गो दर्शितः । 'करणवत्' करणमस्मदा- दिशरीरेन्द्रियादि तद्वत् समानं भवति , साक्षात्प्रयत्नाधिष्ठेयत्वसा- म्यात् । यत एवमतस्तस्य् इदमेवाधिष्ठानादिस्वरूपं भवतीत्यर्थः । आदिपदेनेह विवक्षितं सम्बन्धोपपादकं शरीरं गृह्यते । यद्यप्यस्य सू- त्रस्य व्यवहिताव्यवहितपूर्वसूत्रद्वयोक्तानुपपत्तिद्वयपरिहारनिरासक- त्वात् व्यवहितपूर्वसूत्रेऽशरीरत्वस्य हेतुत्वेनोक्तत्वात् इदमेव विश्वं शरीरादिरूपमिति वक्तव्यम् । अतएवानुव्याख्याने 'देहादिवद्विश्वम्' इत्युक्तम् । तथाऽपि सन्निहितपरित्यागकारणाभावादधिष्ठानादिरूप- मित्यक्तावपि उभयानुपपत्तिपरिहारप्रतीतेस्तन्निरासोऽत्र युज्यत एवे- त्याशयेनाधिष्ठानादीत्युक्तम् । अनुव्याख्याने तु उभयानुपपत्तिपरिहार- निरासकत्वज्ञापनायोभयमध्ये 'करणवच्चेत्' इत्यस्य सूत्रस्य व्याख्या- त्वात् तदनुसारेण सन्निधिमनादृत्य देहादिवदित्युक्तमिति न विरोधः। अधिष्ठानादिरूपमित्यनन्तरं अतो न तदनुपपत्तिरिति वाक्यशेषः । ननु प्रलये सर्वस्यापि विनाशात् कारकसमूहस्यापि नाधिष्ठानत्वाद्, युज्यत इत्यत आह—नित्यस्येति । अपिः प्रलयेऽपीत्यध्याहृतेनान्वेति। अधिष्ठानादीति भावप्रधानमिहानुषज्यते । युज्यत इति चावर्तते । त- था च यतः प्रलयेऽपि 'कस्यचित्' मायादिरूपकारकसमूहस्य नि- त्यस्य 'भावात्' विद्यमानत्वात् तस्याधिष्ठानादिरूपत्वं युज्यते तदुक्तं युज्यत इति च योजना ॥ ६६
५२२ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - २. ] ( ५ ) न, भोगादिप्राप्तेः । उत्पत्तिनाशौ सुखदुःखभोगाश्च प्राप्यन्ते तद्गताः ॥ ४० ॥ ( ६ ) सू—ॐ ॥ अन्तवत्त्वमसर्वज्ञता वा ॥ ॐ ॥ ४१ ॥ देहवत्त्वेऽन्तवत्त्वम् । अन्यथा ज्ञानाभावः । शरीरिण एव हि ज्ञानोत्पत्तिर्दृष्टा । ( ५ ) परिहारांशं व्याचष्टे—नेति ॥ पूर्ववादिनोक्तं नेत्यर्थः । कुतो ने- त्यतो भोगादिभ्य इत्येतत्प्राप्त्युपलक्षकतया व्याचष्टे—भोगादीति । भोगनिमित्तपदार्थवचनेन विषयोक्त्या च भोगादीति । एतदेव स्फु- टीकरोति--उत्पत्तीति । यत इत्यादावुपस्कार्यम् । उत्पत्तिविनाशयो- रादिशब्दगृहीतयोः पश्चादुक्तव्यत्वेऽपि सुखदुःखानुभवरूपभोगरूप- त्वात्प्रथमं ग्रहणम् । अतएवासमासः । क्रियान्वयोऽपि विपरिणामेन पृ- थगेव द्रष्टव्यः ।विषयीभूतसुखदुःखव्यक्तिबाहुल्याद्बहुवचनम् । सुखं दुःखे च तयोर्भोगश्चेति वा । भोगश्चेत्येकवचनपाठः स्वरसः । तथा त्वे आहृत्यैते प्राप्यन्त इत्यन्वयः । 'तद्गताः' शरीरादिसमानकारक- व्रातगताः तदुपादानहानिनिमित्ता इति यावत् । 'प्राप्यन्ते' प्राप्येर- न् । यज्ञदत्तादेः साक्षात्प्रयत्नाधिष्ठेयविकारात्मकशरीरोपादानहान- योः सतोस्तन्निमित्तयोरुत्पत्तिविनाशयोर्दर्शनादिति भावः । सुखदुः- खभोगस्य तद्गतत्वं चोत्पत्तिविनाशद्वारा बोध्यम् ॥ ( ६ ) 'सम्बन्धानुपपत्तेः, करणवच्च' इत्याभ्यां मुक्तशरीर- भावाभावपक्षावेव विकल्पभङ्ग्या दोषान्तरेण दूषयत्सूत्रं पठित्वा व्याचष्टे—अन्तवत्त्वमिति ॥ भावरूपत्वात्प्रथमं करणसूत्रोक्तपक्षो गृ- हीतः । 'अन्तवत्त्वं' देशतः परिच्छिन्नत्वं स्यात् यज्ञदत्तवदित्यर्थः । पत्युरिति वर्तते । ततश्च न जगत्कर्तृत्वं स्यादिति वाक्यशेषः । 'अन्यथा' देहाभावे ज्ञानस्यैवाभावस्स्यात् । सुतरां सार्वज्ञ्यस्येत्येवार्थः । ततश्च न जगत्कर्तृत्वं पत्युरिति भावः । शरीराभावे कुतो ज्ञानाभाव इत्यतो • व्यतिरेकव्याप्तिं दर्शयति--शरीरिण एव हीति । न त्वशरीरिण इत्ये- वार्थः । हिः प्रसिद्धौ । अनेन-सूत्रे करणवदिति मतुबन्तं पदं भावप्रधा- नमनुवर्तनीयम् । न चेदिति शेषः । चशब्दार्थः वार्थः, कल्पभेदेन दो- षसूचकश्च । तथा च यतः पत्युः करणवत्त्वं देहवत्त्वं चेत् अन्तवत्त्वं च स्यात्, न केवलं भोगादिप्राप्तिः । न चेदज्ञता स्यात्, सुतरामसर्व- ज्ञता च । न केवलं जगता कार्यकार्तृभावानुपपत्तिरिति सूत्रार्थ उक्तो
[ अधि - ११. सू - ४१. ] दीपिकासहितम्. ५२३ (७) विष्णोस्तु श्रुत्यैव सर्वे विरोधाः परिहृताः ।
- यदात्मको भगवांस्तदात्मिका व्यक्तिः । किमा- त्मको भगवान् । ज्ञानात्मक ऐश्वर्यात्मकः ' (एकायन.) इति । 'बुद्धिमनोऽङ्गप्रत्यङ्गवत्तां भगवतो लक्षयामहे । बुद्धिमान्मनोवानङ्गवान्प्रत्यङ्गवान् ' ( ) इति । 'सदेहः सुखगन्धश्च ज्ञानभाः सत्पं- भवति । अत्र सम्बन्धानुपपत्तिसूत्रे शरीराभावे कर्तृत्वोपयुक्तज्ञाना- भावेन कर्तृत्वरूपसम्बन्धानुपपत्तिरुक्ता । अत्र तु शरीराभावे ज्ञाना- भावेनासर्वज्ञत्वाज्जगत्कर्तृत्वानुपपत्तिरित्युच्यतेऽत इति भेदो द्रष्टव्यः ॥ (७) ननु विष्णोरप्युक्तविकल्पमुखेनोक्तदोषाः प्रसज्यन्तयेवेति तस्यापि कर्तृत्वानुपपत्तिरित्याशङ्कां 'आत्मनि चैवम्, सर्वोपेता च, [L
५२४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - २. ] राक्रमः ज्ञानज्ञानः सुखंसुखः स विष्णुः परमोऽक्षरः ' ( पैङ्गिश्रुतिः. ) इत्यादिकया ॥ ४१ ॥ १२. अधिकरणम् ॥ ( १ ) शक्तिपक्षं दूषयति— सू— ॐ ॥ उत्पत्त्यसम्भवात् ॥ ॐ ॥ ४२ ॥ न हि पुरुषाननुगृहीतस्त्रीभ्य उत्पत्तिर्दृश्यते ॥ ४२ ॥ स्यासौ सदेहः । यः 'सुखगन्धः' सुगन्धिः पुण्यगन्धः सुखात्मकग- न्धो वा। तत्रैकः सुधोक्तः। द्वितीयस्तृतीयः न्यायदीपोक्तः। यश्च 'ज्ञान- भाः' न तु तेजसभाः । 'सत्पराक्रमः' अप्रतिहतपराक्रमः । यश्च 'ज्ञा- नज्ञानः' अतिशयितज्ञानः कर्तृसाधनोऽयं ज्ञानशब्दः । 'सुखसुखः' अ- तिशयितसुखः । अर्शाआद्यजन्तः । सुखशब्दः निर्धारणषष्ठ्या चोभय- श्रोक्तार्थलाभः । स विष्णुः 'परमोऽक्षरः' परा जडप्रकृतिः । ततः प- रा चित्प्रकृतिः । ततः परमः तत उत्तमोऽक्षर इत्यर्थः । तत्त्वप्रदीपे तु- 'ज्ञानज्ञानः' नाज्ञानमिश्रज्ञानः 'सुखसुखो' न दुःखमिश्रितसुख इत्य- र्थ उक्तः ॥ ११ ॥ ॥ इति पत्युग्धिकरणम् ॥ १२. अधिकरणम् ( १ ) अधिकरणार्थं दर्शयति—शक्तीति ॥ असामञ्जस्यादिति पू- र्वोक्तन्यायेन निरस्तमपि शक्तिपक्षं शक्तेः स्त्रिया एव जगदुत्पत्तिरि- ति वदतां महावामनमध्यवामनाणुवामनभेदेन त्रिविधानां शाक्तानां मतमसाधारणदोषाविष्कारेण पुनर्द्षयत्यस्मिन्नधिकरणे सूत्रकृदित्य- र्थः । शक्तिरेव खलु सार्वज्ञ्यादिगुणशालिनी सकलजगज्जननी श्रुति- स्मृतीतिहासपुराणेषु पठ्यते । ततो न हरेर्जगत्कारणत्वं लक्षणं युक्त- मितिप्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे—उत्पत्तीति । न हीत्या- दिना सूत्रे अनुषङ्गहेत्वध्याहाराभ्यां न शक्तेः केवलाया अगत्कर्तृत्वं युक्तं । केवलायास्तस्या जगत्कर्तृत्वासम्भवात् । कुतः ? पुरुषाननु- गृहीतत्वादिति सूत्रार्थो दर्शितः । अत्राप्रयोजकतामाशङ्क्य विपक्षे क्वचिदप्यनुपलम्भबाधोक्त्या साऽपि परिहृता ॥
[ अधि - १२. सू - ४५. ] दीपिकासहितम्. ५२१ ( २ ) सू—ॐ ॥ न च कर्तुः करणम् ॥ ॐ ॥ ४३ ॥ यदि पुरुषोऽङ्गीक्रियते तस्यापि करणाभावादनुपपत्तिः ॥४३॥ ( ३ ) सू—ॐ ॥ विज्ञानादिभावे वा तदप्रतिषेधः ॥ ॐ ॥ ४४ ॥ यदि विज्ञानादिकरणं तस्याङ्गीक्रियते तदा तत एव सृष्ट्याद्युपपत्तेरीश्वरादान्तर्भावः ॥ ४४ ॥ ( ४ ) सू—ॐ ॥ विप्रतिषेधाच्च ॥ ॐ ॥ ४५ ॥ ( २ ) ननु हेतुरसिद्धः । यतोऽस्त्येव शक्त्यनुग्राहकः पुरुषः सदा शिवः अतस्तस्याः जगदुत्पत्तियुक्तेति वदतां मध्यमवामनानां मतं नि राकुर्वत्सूत्रमुपन्यस्य व्याचष्टे-न चेति ॥ यद्यपीति सम्बन्धः । तत ए वं तथापीति लभ्यते । अङ्गीक्रियते कैश्चिच्छाक्तेयैः । 'तस्य' शक्त्यनुग्रह कर्तुः पुरुषस्य। करणाभावादिति। उत्पत्त्युपयोगिज्ञानादेस्तत्साधनेन्द्रि यादेस्तत्कारणशरीरस्य चाभावादित्यर्थः । प्रकृतस्योत्पत्त्यसम्भवस्ये ह साध्यत्वेनान्वय इत्याशयेन अनुपपत्तिरित्युक्तम् । सावधारणमेत त् । तथा च पुरुषानुगृहीतशक्तेरपि जगदुत्पत्त्यसम्भव एवेत्यर्थः । अ नेन सौत्रश्चशब्दो यत इत्यर्थे अवधारणे चेत्यभिप्रेति ॥ ( ३ ) ननु शक्त्यनुग्राहकपुरुषाभावात् तस्याः जगदुत्पत्तियुक्तेत्ये व नोच्यते, किन्तु तस्य पुंसः सार्वज्ञ्यादेरपि सद्भावेन युक्ततरा शक्तेर्ज गदुत्पत्तिरितीत्यङ्गीकुर्वतामणुवामनानां मतान्निरासाय सूत्रमुपन्यस्य व्याचष्टे—विज्ञानादीति ॥ आदिपदेनोत्पत्त्युपयोगिशरीरेन्द्रियादिग्रह णम् । ' करणं ' तत्सत्त्वम् । ' तस्य ' शक्त्यनुग्रहकर्तुरिति । अनेन सूत्रे कर्तुरित्यस्यानुवृत्तिः सूचिता । अङ्गीकार इत्यनेन सत्त्वार्थकभा वपदमङ्गीकारोपलक्षकमित्युक्तं भवति । ' अत एव ' यदितदेत्युक्ते तत एव शक्त्यनुग्रहकर्तुः शिवादेः कर्त्रन्तरमनपेक्ष्यैव ' सृष्ट्याद्युपप त्तेः ' जगदुत्पत्त्यादिसम्भवात् इति भावकथनं, ' तदेश्वरवादान्तर्भा वः ' शक्तिमतस्य पाशुपतमतैक्यं स्यादिति।अनेन 'तदप्रतिषेधः' तेन शाक्तेयेन तस्य पाशुपतमतस्याप्रतिषेधः कृतः स्यात् । तेन तदनुमत मेव स्यात् । तच्च निरस्तमेवेति पुनस्तदप्रतिषेधो नास्माभिस्तत्प्रति षेधः कार्य इत्यावृत्त्या तदप्रतिषेध इत्यंशो व्याख्यातः । सूत्रे वाशब्दो मतान्तरत्वद्योतकः ॥ ( ४ ) एवं शाक्तेयमतत्रयं पृथङ्निराकृत्य समुदितदूषणेनापि प राकुर्वत्सूत्रमुपन्यस्य व्याचष्टे-विप्रतिषेधाच्चेति ॥ आदिशब्देन स्मृत्या
५२६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पां - २. ] सकलश्रुत्यादिविरुद्धत्वाच्चासमञ्जसम् ॥ ४५ ॥ —: ✡ :— इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रभाष्ये द्वितीयस्याध्यायस्य द्वितीयः पादः. — ☼ — ॥ ॐ ॥ — दिपरिग्रहः । विरुद्धत्वादित्यनेन विप्रतिषेधशब्दो व्याख्यातः । च शब्दः पूर्वोक्तप्रत्येकहेतुसमुच्चये । श्रुतयः 'नर्ते' 'एको नारायणः' ( महाना. ) इत्याद्याः । स्मृतयः 'स एव' इत्याद्याः । चशब्दः पूर्वोक्तप्रत्येकहेतुस मुच्चये । शिष्टजनैर्जिगुप्सितत्वाच्चेत्यनुभाष्योक्तयुक्तिसमुच्चये च । 'अ समञ्जसं ' अयुक्तमिति । एतद्विप्रतिषेधसूत्रादनुषक्तं पदम् । शक्तिक र्तृत्वमतमिति शेषः ॥ १२ ॥ इति उत्पत्त्यधिकरणम् ॥ —: ❇ :— इति श्रीमत्परमहंसपरिव्राजकाचार्याणां सर्वतन्त्र संवतन्त्रसंवतन्त्राणां श्रीमद्रघुनाथतीर्थपूज्यपादानां शिष्येण श्रीमज्जगन्ना थयतिना कृतायां श्रीमद्ब्रह्मसूत्रभाष्यदीपि कायां द्वितीयाध्यायस्य द्वितीयः पादः ❖ ॥ ॐ ॥ —
[ अधि - १. सू - १० ] दीपिकासहितम्. ५२७ १. अधिकरणम् ॥ ( १ ) जीवपरमात्माधिभूताधिदैवेषु श्रुतीनां परस्परविरोध- मपाकरोत्यनेन पादेन— १. अधिकरणम् ॥ ( १ ) एतत्पादार्थं दर्शयति—जीवेति ॥ अव्ययीभावगर्भतत्पुरुष- गर्भद्वन्द्वसमासोऽयम् । तथा च जीवश्च परमात्मा च अधिभूतं च अ- धिदैवं च तानि तथोक्तानि, तेषु तदुत्पत्तिविषये श्रुतीनामन्योन्यवि- रोधं अनेन तृतीयपादेन निराकरोति सूत्रकृदित्यर्थः । अध्यात्मविषय- श्रुतिविरोधपरिहारस्तु जिज्ञासोरध्यात्मविषयविचारस्यान्तिमत्वाच्च- तुर्थपादे करिष्यतीति भावः । यद्यपि अस्मिन् पादे प्रथममेकैकस्मिन्न- धिकरणे एकैकाधिभूतविचारस्यानन्तरं 'असम्भवस्तु, नात्माऽश्रुतेः' इत्यधिकरणद्वये परमात्मविचारस्य, अथ 'ज्ञोऽत एव' इत्यारभ्य आ- पादपरिसमाप्तेर्जीवविचारस्य च करणात्तदनुसारेणाधिभूताधिदैवप- रमात्मजीवेष्विति निर्देष्टव्यम् । तथाऽपि जीवविचारस्य बाहुल्यात्त- द्विवक्षया क्रमोल्लङ्घनम् । यद्यप्यत्र पादे अधिदैवश्रुतिविरोधपरिहारः पृथङ्न क्रियते । तथाऽपि भूतविचारपराण्येव सूत्राण्यधिदैवपराणि इत्याशयेनैवमुक्तम् । 'एतेन' इत्यधिदैवविचारोऽपि कृतः । अ- धिभूतं नाम भूतमधिकृत्य वर्तमानम् । अधिकर्त्तव्यप्रधाने अधिकरणे अधिशब्दः । सकार्यकारणभूतानि तच्च भूतं भूतकार्यं ब्रह्माण्डादिकं तत्कारणमव्यक्तादिकं तदेकदेशश्च भवति । उक्तं च सुधायाम्-अधि- भूतानि कार्यकारणोपेतानि वियदादिभूतानीति । उक्तं च न्यायविवर- णटीकायाम्—अधिभूतादिशब्दैः आकाशादीन्युच्यन्ते । समुदायैकदे- शाश्रयेणाधिकरणाधिकर्त्तव्यतोपपत्तेरिति । तत्त्वप्रदीपकृदाह—अधि- भूतेषु महाभूतेषु आकाशादिषु 'इमानि पञ्चभूतानि पृथिवीवाय्वाक- शापोज्योतींषि' (ऐ. ३ - ३.) इति श्रुतिः । अथवा—अधिभूतेष्विति भूततत्सम्बन्धिविवक्षयेति । अधिभूताभिमानिदेवता अधिदैवतम् । अ- धिगतं च तत् दैवतं चेति विग्रहः । तदुक्तं तत्त्वप्रदीपसुधयोः—अधि- दैवेष्विति तदभिमानितत्सम्बन्धिविवक्षयेति। अधिदैवानि अव्यक्ताभि- मानिदेवता इति च । एवमधिभूतशब्द इव अध्यात्मशब्देऽपि आत्मान- न्देहं जीवं च अधिकृत्यवर्तमानं अध्यात्ममिति विग्रहो ज्ञातव्यः ॥
५२८ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ] ( २ ) सू—ॐ ॥ न वियदश्रुतेः ॥ ॐ ॥ १ ॥ न वियदनुत्पत्तिमत्, तथाऽश्रुतेः ॥ १ ॥ ( ३ ) सू—ॐ ॥ अस्ति तु ॥ ॐ ॥ २ ॥ अस्त्येव चोत्पत्तिश्रुतिः, 'आत्मन आकाशस्सम्भूतः' ( तै. २-१० ) इत्यादि ॥ २ ॥ ( ४ ) सू—ॐ ॥ गौण्यसम्भवात् ॥ ॐ ॥ ३ ॥ ( २ ) न वियदित्यंशविवरणेनैव विषयपूर्वपक्षादिः सूचितो भव- तीत्याशयेन तमप्रदर्श्य सिद्धान्तयतसूत्रमेवोपन्यस्यति—नेति ॥ अत्र 'उत्पत्त्यसम्भवात्' इति सूत्रप्रकृतानुत्पत्तिबोधकानुत्पत्तिमदितिपदम- नुवर्त्य न वियदिति प्रतिज्ञाभागं व्याचष्टे—नेति । अत्र वियत्पदेन भू- ताव्याकृताकाशौ तदभिमानिदैवतं चोच्यते । सुधाटीकोक्तरीत्या प्रकृ- तिजीवकालमहदहङ्कारादेः उपलक्षकमेतत् । तत्त्वप्रदीपे तु वियदिति विशेषव्याप्तिमत्त्वादहङ्कारादिकमप्युच्यत इत्युक्तम् । तन्नोच्यत इत्य- स्य प्रतिपाद्यत इत्यर्थाश्रयणान्न विरोधः । कुतो नेत्यतस्तथाशब्दाध्या- हारेण अश्रुतेरिति हेत्वंशं व्याचष्टे—तथेति । ' तथा ' तत्रानुत्पत्तौ श्रु- त्यभावादित्यर्थः ॥ ( ३ ) ननु न वियत् उत्पत्त्यभावे प्रमाणं नियमेन वक्तव्यम्, उत्प- त्तौ प्रमाणाभावेनैव तत्सिद्धेः । न हि घटे प्रमाणाभावे पुनः प्रमाणापे- क्षा स्यादित्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे—अस्तीति ॥ एवे- ति तुशब्दार्थ उक्तः । चेति तुशब्दस्य न केवलं तथाऽश्रुतेः, किन्तु य- त उत्पत्तौ श्रुतिरस्त्येव चेति समुच्चयरूपार्थान्तरं यत इत्यर्थत्वं चाह। यथोक्तं तत्त्वप्रदीपे—न केवलमनुत्पत्तिर्न श्रूयते, किन्तु ' अस्ति तु ' अस्त्येव चोत्पत्तिवादिनी श्रुतिरिति । इत्यादिश्रुतिरित्यान्वयः । आदि- शब्देन ' एतस्माज्जायते .... खं वायुः ' ( मु. २-१-३. ) ' नाभ्या आसी- दन्तरिक्षम् ' ( तै. आ. ३-१३. ) ' सन्देहो बहुलः ' ( छा. ५-१८-२. ) इत्यादिकं गृह्यते ॥ ( ४ ) ननु न वियतोऽनया श्रुत्योत्पत्तिः साधयितुं शक्या । ' अना- दिर्वा ' इत्यादिस्वाभिधायकश्रुतिविरोधादित्याशङ्कां परिहरत्सूत्रमुप- न्यस्य व्याचष्टे—गौणीति ॥ इत्यादीति । एवमादिरूपे वाक्ये अनादि- त्वश्रुतिः तद्बोधकशब्दो 'गौणी' भूते छत्रिवल्लाक्षणिकी । आकाशश- ब्दार्थैकदेशानादित्वपरा । एकदेशानित्यत्वगुणयोग इति तत्त्वप्रदीपो
[ अधि - १ ० - सू - ३ ० ] दीपिकासहितम् ० ५२९ 'शून्योऽलौकिकः' इत्यादिश्रुतिर्गौणी । (५) अन्यथोत्पत्तिश्रुतिबाहुल्यासम्भवात् ॥ ३ ॥ र्कैः । चिरंतनत्वमात्रेण गौणी वेत्यर्थः । यद्वा—'इत्यादिश्रुतिर्गौणी' अमुख्यपदोपेतेत्यर्थः । तद्यथाकरीत्याऽनादिपदमाकाशपदं वा । तस्या पि भूतेतरस्मिन्नाकाशशब्दबोध्ये लाक्षणिकत्वसम्भवादिति भावः । इत्यादिश्रुतिरित्यनेन सूत्रेऽनुत्पत्तिश्रुतिरिति प्रकृतमनुपद्यते इति सू चितम् । उपलक्षणमेतत् । उत्पत्तिश्रुतिस्तु मुख्यार्था सर्वविषयिणीत्य पि द्रष्टव्यम् । गौणीत्यनन्तरं यत एवं व्यवस्था युज्यते, अतो नोक्तश्रु तेस्तद्विरोध इति वाक्यशेषः । श्रुतौ अयमित्यव्याकृताकाशो ग्राह्यः । भूते कथमप्यवृत्तेरिति टीकाविरोधान् न भूताकाशोऽपि । आकाशा नादित्वे हेतुमाह—यतः 'शून्यः' सूक्ष्मः अप्रतिघ इति । सूक्ष्मत्वं वा योरप्यस्तीति व्यभिचार इत्यतो हेतुगर्भं विशेषणान्तरमाह—अलौ किक इति । अतीन्द्रिय इत्यर्थः । नन्वव्याकृतस्य साक्षिवेद्यत्वात्कथमे तत् । न, तत्त्वप्रदीपेरीत्यास्य लौकिकप्राकृतेन्द्रियागम्य इत्यर्थाश्रयणा त् । ननु तथाऽपि व्यभिचारानुद्धारः, 'आकाशवायू त्वव्यक्तौ' इति भा गवततात्पर्योक्तेः, तस्य प्रत्यक्षाप्रत्यक्षपञ्चमहाभूतविषयत्वादिति सु धोधेश्च वायोरप्यतीन्द्रियत्वादिति चेत्—न, भूताकाशस्य दिव्यदृष्टि गोचरत्वेन तद्विषयेऽव्यक्तशब्दस्य सङ्कोचेऽवश्यंभाविनि तद्वत् वायो रपि स्पार्शनेन्द्रियग्राह्यत्वमङ्गीकृत्य अव्यक्तशब्दस्येतरेन्द्रियाग्राह्यार्थक तया सङ्कोचसम्भवात् । अत एव सुधावाक्यस्थाप्रत्यक्षपदमपि भूता काशमात्रपरं । न च पङ्क्तौ 'वायुस्पर्शाऽपि त्वचो विषयः' इति वायुस्पर्शमात्रग्रहणविरोधः । वायुस्तत्स्पर्शोऽपीत्यर्थाश्रयणात् । अ स्तु वा—तात्पर्यसुधानुसाराद्वायोरतीन्द्रियत्वम् । तथाऽपि न व्यभि चारः । भूताकाशवत् वायोरपि योगिचाक्षुषप्रत्यक्षविषयत्वेन प्राकृते न्द्रियग्राह्यतया तदग्राह्यत्वहेतोस्तत्राभावात् ॥ (५) ननु किमेतया व्यवस्थया, अनादित्वश्रुत्यनुसारेणानुत्पत्ति रेव किं नाश्रीयत इत्यतः प्रवृत्तमसम्भवादित्यंशं व्याचष्टे—अन्यथेति ॥ उक्तव्यवस्थामनभ्युपगम्याकाशस्य सर्वथाऽनुत्पत्तेरेवाभ्युपगमे 'उत्प त्तिश्रुत्यसम्भवात्' तत्प्रामाण्यासम्भवात्तदप्रामाण्यप्रसङ्गादित्यर्थः । विषयाभावादिति भावः । ननूत्पत्तिश्रुतेरनुभवाद्यनुसारिबलवदनादि त्वश्रुतिविरोधेनाप्रामाण्यं युक्तमिति नेदमनिष्टमित्याशङ्कोत्तरत्वेनापि ६७
५३० ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ] ( ६ ) सू—ॐ ॥ शब्दाच्च ॥ ॐ ॥ ४ ॥ 'अथ ह वाव नित्यानि पुरुषः प्रकृतिरात्मा काल इति । अथ यान्यनित्यानि प्राणः श्रद्धा भूतानि भौतिकानी प्रवृत्तमसम्भवादित्येतत बाहुल्यासम्भवपरतयाऽपि व्याचष्टे—अन्य थेति ॥ अनादित्वश्रुतिविरोधेनोत्पत्तिश्रुतेरप्रामाण्याङ्गीकारे 'आत्मन आकाशस्सम्भूतः' इत्युत्पत्तिश्रुतेर्बहुविषयत्वरूपबाहुल्येन प्रबलत्वात दसम्भवप्रसङ्गादित्यर्थः । बाहुल्यस्य प्राबल्यहेतुतया उत्पत्तिश्रुतेरपि बलवत्त्वेन अप्रामाण्यस्य वक्तुमशक्यतया श्रुतिद्वयप्रामाण्याय उक्त व्यवस्थाया एव आश्रयणीयत्वादिति भावः । यद्वा—नन्वनादित्वश्रु तिर्मुख्या , उत्पत्तिश्रुतिस्तु गौणीति वैपरीत्यं किं न स्यादित्याशङ्क्यो त्तरत्वेनापि प्रवृत्तं असम्भवादित्येतद्बाहुल्यासम्भवपरतया व्याचष्टे- अन्यथेति । उत्पत्तिश्रुतेरेवैकदेशविषयत्वरूपगौणार्थानभ्युपगमे तस्या बहुविषयत्वरूपबाहुल्यासम्भवप्रसङ्गादित्यर्थः । अयं भावः—उत्प त्तिवाक्यस्थाकाशशब्देन हि आकाशाख्यभूतं तदभिमानी विनायकः अव्याकृताकाशं तदभिमानिचित्प्रकृतिश्चेति चत्वारो वाच्याः । उत्प त्तिरपि अभूत्वाभवनरूपा देहसम्बन्धरूपा पराधीनविशेषावाप्तिरूपा चेति त्रिधा । तत्राद्या भूताकाशे । द्वितीया तदभिमानिनि । तृतीया मूर्तद्रव्यसम्बन्धरूपपराधीनविशेषवत्यव्याकृताकाशे , तदभिमानि चित्प्रकृतौ चास्ति । तथा चोत्पत्ति श्रुतेर्बहुविषयत्वम्, अनुत्पत्तिश्रुते स्त्ववकाशमात्रविषयत्वेनाल्पविषयत्वं सिद्धम् । एवं चोत्पत्तिश्रुतेरेव गौणार्थत्वे एकदेशविषयत्वापत्त्या बहुविषयत्वासम्भवप्रसङ्गाद्बह्वनुग्र हायानुत्पत्तिश्रुतेरेव गौणत्वं अङ्गीकृत्योत्पत्तिश्रुतेर्मुख्यार्थताऽङ्गीकार्य्ये त्युक्तव्यवस्थैव युक्ता, न वैपरीत्यमिति ॥ ( ६ ) न केवलमुक्तव्यवस्थाऽसम्भवयुक्तिसिद्धा, अपि तु श्रुतिसि द्धा चेत्यर्थप्रतिपादकं सूत्रमुपन्यस्य तां श्रुतिमुदाहरति-शब्दाच्चेति॥ भाल्लवेयश्रुतेश्चेत्यस्य अनुत्पत्तिश्रुतिर्गौणीति व्यवस्था सिद्धेति पूर्वेणा न्वयः । न केवलमसम्भवयुक्तेरिति चशब्दार्थः । श्रुतौ अथेति प्रमेया न्तरारम्भे । वावेति निपातौ प्रसिद्धौ । हेत्यास्वादने । हवावेति नि पातसमुदायो वा प्रसिद्धौ । यानीत्युभयत्र सम्बध्यते । तथा च यानि पुरुषादीनि तानि नित्यानि, यानि च प्राणादीनि प्रसिद्धानि तान्यनि त्यानीति प्रतिज्ञाद्वयस्यार्थः । इत्येतानीति इतिशब्दद्वयस्यान्वयः । 'पु
[ अधि - १०. सू - ४. ] दीपिकासहितम्. ५३१ ति । यानि ह वाव उत्पत्तिमन्ति तान्यनित्यानि । या- नि ह वा अनुत्पत्तिमन्ति तानि नित्यानि, न ह्येतानि कदाचनोत्पद्यन्ते न विलीयन्ते पुरुषः प्रकृतिरात्मा का- रूपो' जीवचैतन्यं तदभिमानी ब्रह्मा च । 'प्रकृतिः' सत्त्वादिगुणात्म- कं जडं तदभिमानिनी श्रीभूदुर्गात्मिका लक्ष्मीश्च । तत्र लक्ष्म्याः न स्वरूपदेहयोरुत्पत्तिः, नापि प्रधानवत्परिणामेनेति नित्यं सत्त्वेन नि- त्यत्वमुच्यते । 'आत्मा' परमात्मा । 'कालः' तत्प्रवाहस्तदभिमानी प्रकृतिश्च । 'प्राणो' मुख्यवायुः । 'श्रद्धा' तत्पत्नी भारती । 'भूता- नि' आकाशादीनि । 'भौतिकानि' भूतकार्याणि शरीरादीनि । यद्य- पि सकलचैतन्यग्राहकपुरुषपदेनैव प्राणश्रद्धयोर्नित्यवर्गे गृहीतत्वात् तदुपकरणभूतयोस्त
त इति । अथैतान्युत्पत्तिमन्ति च अनुत्पत्तिमन्ति च प्राणः श्रद्धाऽऽकाश इति भागशो ह्युत्पद्यन्ते' इतिभाल्ल- वेयश्रुतेश्च ॥ ४ ॥ ( ७) सू—ॐ ॥ स्याच्चैकस्य ब्रह्मशब्दवत् ॥ ॐ ॥ ५ ॥ स्यादेवैकस्योत्पत्तिमत्त्वमनुत्पत्तिमत्त्वं च गौणमुख्य- त्वापेक्षया । केषु नञ्परित्यागेनोपनयनिगमने द्रष्टव्ये । अनित्यत्वेन गृहीतेषु प्रा- णादिषु मध्ये न सर्वेषामनित्यत्वमेव मन्तव्य म्, किन्तु केषु चिन्नित्यत्व- मपीत्याह—अथेति । अर्थान्तरवचनोऽयम् । चावन्वोन्यसमुच्चये । इत्येतानीत्यन्वयः । तस्मान्नित्यानीति शेषः । तत्रोपपत्तिमाह—भाग- श इति । बहुभागैरुत्पद्यन्ते कैश्चिन्नोत्पद्यन्त इत्यर्थः । तथा च 'हि' यस्मात्प्राणादीनि भागश उत्पद्यन्ते , भागशस्तु न, अथ तस्मादुत्प- त्तिमन्ति चानुत्पत्तिमन्ति च तस्मान्नित्यानित्यानीति योजना । तथा- हि-प्राणपदोक्तो भूततदमुख्यमुख्याभिमानिरूपत्रित्यात्मको वायुस्त्रि- भिरपि भागैरुत्पद्यते । एवं श्रद्धापदोक्ता भारती च । एवमाकाश- पदोक्तं भूतमव्याकृतं तदभिमानिद्वयं च । आहत्य चतुष्टयं चतुर्भि- रपि भागैरुत्पद्यते उक्ताया उत्पत्तेश्च त्रिष्वपि सत्त्वात् । एतान्येवाभि- मानिचैतन्यस्वरूपेणावकाशस्वरूपेण भूतसूक्ष्मरूपेण च नोत्पद्यन्ते इ- ति । अनेन यानि प्राणः श्रद्धा आकाशाख्यभूतं चेत्येतानि, तानि नि- त्यानित्यानीति प्रतिज्ञान्तरम् । तत्र स्यादनादित्वादितिहेतुः तदनुसार्यु- दाहरणोपनयनिगमनानि चोपलक्षणयाऽनेन दर्शितानीति ज्ञातव्यम् ॥ ( ७) ननु भवेदाकाशस्य गौणमनादित्वं उत्पत्तिस्तु मुख्यत इति व्यवस्था, यद्यनादित्वश्रुतिर्गौणी भवेत्, नैतदस्ति, 'न जायते म्रियते वा कदाचिन्नाऽयं भूत्वा भविता वा न भूयः' ( भ.गी-२. ) इत्यादौ न जायत इत्यनुत्पत्तिमत्त्वाभिधायकशब्दस्य परमात्मनि मुख्यत्वदर्शनेन तदेकार्थानादित्वश्रुतेरपि तथात्वौचित्यात् । यद्यप्ययं मन्त्रो गीताभा- ष्ये जीवपरत्वेन व्याख्यातः । तथाऽपि तत्र परमात्मप्रतिबिम्बत्वेनैव त- च्छब्दप्रवृत्तिर्मुख्यतो भगवत्येवायं शब्द इत्यस्ति चोद्यावकाशः । ' अ- यं ना ' परमपुरुषो न जायते इति गीतातत्पर्ये परमात्मपरत्वेनापि व्याख्यानाच्चेत्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे—स्यादिति ॥ ए