पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
(१५) शब्दजातस्य सर्वस्य यत्प्रमाणञ्च निर्णयः ।
इति। निमित्तसप्तमी इयम्। अपिः अभिव्याप्तौ सङ्कोचनिवर्तकः। निर्ण- यस्य सर्वत्वं विषयद्वारा तस्य च शब्दद्वारा बोध्यम्। तथाच ये- भ्यः सूत्रेभ्यः सर्वे निर्णयाः सर्वशाखार्थनिर्णयाः भाव्यतया समुदीरि- ताः, येषां सर्वशाखानिर्णायकत्वमुक्तं प्रमाण इत्यर्थः। यद्वा—निर्णी- यन्त इति निर्णयाः निर्णेतव्यार्थाः। अयं भावः — ‘येषां’ इति वाक्ये तावत् ब्रह्मसूत्राणामेवाञ्जसा सूत्रत्वमित्युक्तम्। सति चैवं तदन्तर्गतं सूत्रधर्मतयोक्तं विश्वतोमुखत्वमपि तेषामेवाञ्जसा भवति। यदा चैवं तदा तेषामसङ्कुचितसर्वशाखानिर्णायकत्वमुक्तं भवेत्, कतिपयशाखा- निर्णायकत्वे आञ्जस्यानुपपत्तेः। यत एवमतः सर्ववेदशाखार्थनिर्णाय- कानां ब्रह्मसूत्राणां असर्वनिर्ण
१४ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] ( १६ ) एवंविधानि सूत्राणि कृत्वा व्यासो महायशाः । ( १७ ) ब्रह्मरुद्रादिदेवेषु मनुष्यपितृपक्षिषु । ( १८ ) ज्ञानं संस्थाप्य भगवान् क्रीडते पुरुषोत्तमः । इत्यादि । ( १६ ) 'एवंविधानि' इति । अञ्जसा विश्वतोमुखत्वाद्युपेतानीत्य र्थः । अस्योपसंहाररूपत्वान्न 'तानि चकार' इत्यनेन पुनरुक्तिः ॥ ( १७ ) 'देवेषु' इत्यनेन कर्मजाजानजदेवदेवगन्धर्वा अपि सङ्गृही ताः । मनुष्यपदं “निवीतं मनुष्याणां" * इत्यादाविव मननशील र्षिपरम् । पान्तीति पाः चक्रवर्तिनः । क्षीति क्षयार्थस्य क्षेः रूपं मनु ष्योत्तमवाचकम्, तेषामितरापेक्षया अत्यल्पायुष्ट्वात् । मनुष्यगन्धर्वा णामप्युपलक्षकमेतत् । मनुष्याश्च पितरश्च पाश्च क्षयश्चेति विग्रहः । अनेन देवर्षिपिट्टपनराः इत्युक्ताः पञ्चविधा अपि मुक्तियोग्याः सङ्गृ हीता भवन्ति । पक्षीत्यस्याखण्डत्वे पक्षिशब्दो जरितार्यादियोग्य तिर्यक्परः ॥ ( १८ ) 'ज्ञानं' सम्यग्ज्ञानं विशेषज्ञानं 'संस्थाप्य' उत्पाद्य दृढी कृत्येति वा । दृढीकरणं नाम ज्ञानविषये संशयविपर्ययनिरासः । तथा च पुरुषोत्तमो महायशाः उत्तमश्लोको भगवान् व्यासो येषु सूत्रेषु सर्वे निर्णयाः समुदीरिताः, येषां सर्वशाखानिर्णायकत्वमुक्तम्, तथा सर्वैः शब्दसमूहैः जैमिन्यादिसूत्रान्तरात्मकैर्निर्णायकैः स्मृत्या दिभिश्च क्रियमाणो लोककर्तृकवेदैकदेशावान्तरतात्पर्यनिर्णयो यन्मू लको यज्जन्यसर्ववेदमहातात्पर्यनिर्णयमूलकः तदुपजीवी — तं वि ना अवान्तरतात्पर्यज्ञानमात्रेण मुक्तिफलासिद्धेरिति चोक्तं 'येषां' इ ति पूर्ववाक्ये प्रमाणे च—एवंविधानि एतादृक्प्रकाराणि सूत्राणि कृ त्वा ब्रह्मरुद्रादिदेवेषु मनुष्यपितृपक्षिषु ज्ञानं संस्थाप्य क्रीडते इति म हावाक्ययोजना । 'क्रीडते परमेश्वरः' इति पाठे ऐश्वर्यं एवंविधसूत्र करणे असामर्थ्यशङ्कानिरासकतयोक्तमिति ध्येयम् । अत्र ब्रह्मादिषु ज्ञा नसंस्थापनं नाम पूर्वं स्थितस्यैव ज्ञानस्य विशेषयुक्त्यादिभिः दृढीक रणं किञ्चिदप्राप्तलाभश्चोच्यते, 'जानन्तोऽपि विशेषार्थज्ञानाय स्था पनाय वा' इति गीतातत्पर्योदाहृतवचनात् । न च 'एवं ज्ञानं पुनः
- तै. सं. २-५-११.
[ अधि - १. सू - १. ] दीपिका सहितम्. १५ ( १९ ) सू— ॐ ॥ ॐ अथातो ब्रह्मजिज्ञासा ॥ ॐ ॥ १ ॥ प्रापुर्देवाश्च ऋषयस्तथा' इति भारततात्पर्यनिर्णयविरोधः, अत्र पुन शब्दात्सर्वदेवादीनां अज्ञातविस्मृतार्थज्ञानप्राप्तेरुक्तत्वादिति वाच्य म्, तस्याप्युक्तार्थत्वात् । विरिञ्चेतेरेषां तिरोहितार्थज्ञानलाभो वा ऽत्रोच्यते, यत आहुर्गीतातात्पर्ये आचार्याः- "ब्रह्मणस्तु प्रायो नाप्रति भासितं" इति । 'इत्यादि' इत्यस्य 'तच्चोक्तं' इत्यनेनान्वयः । लुप्त विभक्तिकोऽयं निर्देशः ॥ (१९.) प्रमाणाभावेन जीवचैतन्यातिरिक्तब्रह्मणोऽभावात्, जीवस्य च स्वप्रकाशत्वेनासन्दिग्धत्वात्, तथाच विषयाभावात् प्रत्यग्रूपे ब्रह्मण्यहमिति प्रतीयमानेऽपि मोक्षानुपलम्भेन प्रयोजनाभावात् तत एव तत्प्रतिबद्धाधिकार्यभावाच्च न ब्रह्मजिज्ञासा कर्तव्येति प्राप्ते सिद्धा न्तितं भगवता सूत्रकारेण 'ॐ अथातो ब्रह्मजिज्ञासा ॐ' इति । इदमेकं सूत्रमेकमधिकरणम् । अधिकरणं नाम विषयसंशयपूर्वप क्षसिद्धान्तप्रयोजनरूपपञ्चाङ्गसमुदायः । यथाऽत्रैव जिज्ञासाधिकर णे "तद्विजिज्ञासस्व" इति जिज्ञासाभिधायकवाक्यविहिता श्रवणा दिरूपा जिज्ञासा विषयः । कर्तव्या न वेति सन्देहः । न कर्तव्येति पू र्वः पक्षः । अस्मिन् पक्षे च शास्त्रस्यानारम्भणीयत्वनिश्चयः फलम् । कर्तव्येति सिद्धान्तः । तत्र चारम्भणीयत्वनिर्णयः फलं, न्यायानुसन्धा नात्मकमीमांसारूपजिज्ञासायाः अकर्तव्यत्वे न्यायग्रथनात्मकमीमां साशास्त्रस्यानारम्भणीयत्वावश्यंभावात् । एवमन्यत्रापि । एकस्याधिकरणस्य सङ्गतिपञ्चकम् । तच्च—शास्त्रसङ्गतिः, अ ध्यायसङ्गतिः, पादसङ्गतिः, पूर्वाधिकरणसङ्गतिः, तद्विषयवाक्यसङ्ग तिश्चेत्येवंरूपम् । सङ्गतिरपि सामान्यतो द्विविधा, अन्तर्भावरूपा आ नन्तर्यलक्षणा चेति । तत्र शास्त्राध्यायपादैरन्तर्भावरूपा सङ्गतिः । पू र्वाधिकरणतद्विषयवाक्याभ्यां तु आनन्तर्यरूपा । साऽपि आक्षेपिकी आतिदेशिकी औपोद्धातिकी आपवादिकी प्रासङ्गिकी इत्यादिरूपेण ब हुविधा । तत्र पञ्चाधिकरणपर्यन्तं शास्त्रसङ्गतिमात्रं, नाध्यायपाद सङ्गतिः । समन्वयैकत्योरध्यायेन सङ्गतिसत्त्वेऽपि पादेनाभावात्सङ्ग त्योरभावः पञ्चाधिकरणीसाधारणः । तथा पूर्वाधिकरणतद्विषयसङ्ग ती अपि नैतदधिकरणस्य भवतः, अस्यैवाद्याधिकरणत्वात् श्रुतिकि
१६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] ( २० ) अथशब्दो मङ्गळार्थोऽधिकारानन्तर्यार्थश्च । अत- श्शब्दो हेत्वर्थः । चारस्याद्याप्यनारब्धत्वाच्च; किन्त्वितरेषां चतुर्णामिति ध्येयम् । अत्र सूत्रे आद्यन्तयोरोङ्कारः उच्चारणीयः । तत्राद्य एक एव दृष्टादृष्टोभयार्थः अत एव सूत्रावयवः सर्वसूत्रेषु अनुवृत्त्यर्थमसंहितत- योच्चार्यते । अथ वा - आदौ ॐकारद्वयं अदृष्टार्थं दृष्टार्थञ्चेति । अ- न्ते तु पक्षद्वयेऽपि अदृष्टार्थ एक एवोङ्कारः । अदृष्टार्थत्वं नाम केवलं श्रवणविशरणरूपदोषपरिहारार्थत्वम् । दृष्टार्थत्वं तु अन्वेतव्यपदार्थ- प्रतिपादकत्वम् । तत्रादिसूत्रावयवभूतं 'ॐ' इत्येतत् अव्ययं ब्रह्मश- ब्दविशेषणं गुणपूर्णत्ववाचि । ब्रह्मशब्दोऽपि विद्वद्रूढ्या महायोगेन च विष्णुवाची । 'अथ' शब्द आनन्तर्यार्थः । योग्यतया 'अधिकारा- त्' इति सम्बध्यते । कर्तव्येति शेषः । तथाच 'अथ' अध्ययनशम- दमादिरूपाधिकारानन्तरं 'अतः' स्वजन्यज्ञानजन्यप्रसादजन्यमोक्षा- ख्यफलयुक्तत्वात् 'ॐ' गुणपूर्णस्य 'ब्रह्मणो' विष्णोः 'जिज्ञासा' श्रवणादिरूपो विचारः कर्तव्य इति सूत्रार्थः । विष्णोः प्रसादादिति 'अतः' शब्दस्यार्थान्तरम् । अस्य जिज्ञासादिकार्यं भवेदिति वाक्य- शेषेणान्वयः । ॐब्रह्मशब्दयोरुभयोर्यौगिकत्वेऽपि एकस्य रूढत्वेन वि- शेष्यवाचित्वं अन्यस्य यौगिकत्वेन विशेषणवाचित्वमाश्रित्यान्वया- ङ्गीकारान्नान्यतरवैयर्थ्यम् । "ॐमित्येतदक्षरमुद्गीथमुपासीत" "त- द्विजिज्ञासस्व । तद्ब्रह्मेति" इत्याद्यनेकविषयवाक्यसङ्ग्रहाय चोभयोः प्रयोगः ॥ ( २० ) ग्रन्थादौ मङ्गळाचरणस्यावश्यं कर्तव्यत्वेन मङ्गळप्रयोजक- तया अथ शब्दं व्याचष्टे - 'अथ' इति । मङ्गळं विघ्नोत्सारणसाधा- रणकारणानुष्ठेयविष्णुस्मरणाथशब्दोच्चारणरूपमर्थः प्रयोजनं यस्य, तथा प्रशस्तरूपानुष्ठेयमङ्गळात्मको विष्णुः तद्गुणो वाऽभिधेयो यस्य स तथोक्तः । अथशब्दस्य मङ्गळफलकत्वं तु- ॐङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ ॥ इति मनुस्मृतिसिद्धम् । मुक्त्यर्थिमात्रस्य ब्रह्मजिज्ञासायां प्रवृत्तिनिर-
[ अधि - १. सू - १. ] दीपिकासहितम्. १७ ( २१ ) उक्तं च गारुडे— ( २२ ) अथातश्शब्दपूर्वाणि सूत्राणि निखिलान्यपि । ( २३ ) प्रारभन्ते नियत्यैव तत्किमत्र नियामकम् ॥ सनतात्पर्येणापि प्रयुक्तस्याखण्डाथशब्दस्य वाच्यमर्थमाह — ‘अ धिकार’ इति । च शब्दोऽनुष्ठेयाननुष्ठेयाक्षरार्थविवक्षया समुच्चये, न केवलं मङ्गलप्रयोजनकः किन्त्वानन्तर्याभिधायकश्चेति विषमसमुच्चये वा । यद्वा—अवधारणे चशब्दः । तेनानुष्ठेयमङ्गलारम्भप्रश्नकात्स्न्र्यार्थनि रासः । तत्प्रकारस्तु चन्द्रिकायामुक्तः । तथा चाधिकारानन्तर्यमर्थोऽ भिधेयो यस्य स तथोक्तः । अथशब्दस्यानन्तर्यमात्रार्थत्वेऽपि अधि कारेतिपदस्य योग्यतया सम्बन्धात् एवमुक्तिः । अनेनानधिकारिणो मुक्त्यर्थमात्रस्य ब्रह्मविचारे प्रवृत्तिर्निरस्ता भवति । ब्रह्मजिज्ञासायाः प्रयोजनकारणशून्यताशङ्कानिवर्तकतया अतःशब्दं व्याचष्टे—‘अतः’ इति । ‘हेत्वर्थः’ इति । हेतुर्लिङ्गमर्थो यस्य, हेतुः कारणं प्रसादाख्य मर्थो यस्येति वा, स तथोक्तः । ( २१ ) नन्वथातः शब्दपूर्वकत्वं सूत्राणां किं निमित्तं विघ्ननिवर्तक शब्दोच्चारणादेः “मङ्गळं ततः” इति शब्दान्तरोच्चारणेनापि सम्भवा दित्याशङ्कां पुराणवचनेनैव निराकरोति—‘उक्तञ्च’ इति । यदेतत् “अथशब्दः” इत्यादिनाक्तं तद्गारुडपुराणे उक्तमेवेत्यर्थः । न केवलम स्माभिः, किंतु गारुडे चेति समुच्चये वा चशब्दः । ( २२ )—( २३ ) किमुक्तमित्यतस्तत्पठति — ‘अथ’ इति । यादृ च्छिकत्वापरपर्यायानियतत्वशङ्कावारणाय ‘नियत्यैव’ इति । ‘निखि लानि’ इत्येतत् ‘सूत्राणि’ इत्यस्य सङ्कोचवारकं विशेषणम् । अपिर भिव्याप्तौ । एवकारोऽनियमव्यावृत्त्यर्थः । भिन्नक्रमो वा । तथा च — हे ‘विद्वन्’ आदिकवे ‘ब्रह्मन्’ चतुर्मुख ‘निखिलान्यपि’ व्यासजैमि न्यादिकृतानि सर्वाण्यप्यादिसूत्राणि ‘नियत्यैव’ नियमेनैव कल्पा न्तरेपि ‘अथातश्शब्दपूर्वाणि’ एव, अथातश्शब्दौ पूर्वौ प्रथमप्रयोज्यौ येषु तथाविधान्येव ‘प्रारभन्ते’ सूत्रकाराः । ‘अत्र’ प्रथमप्रयोज्यत्वे नियमेन प्रथमप्रयोगे केन चिन्नियामकेन भाव्यं, तन्नियामकं किमिति प्रश्नवाक्ययोजना । ३
१८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
(२४) कश्चार्थश्च तयोर्विद्वन् कथमुत्तमता तयोः । (२५) एतदाख्याहि मे ब्रह्मन् यथा ज्ञास्यामि तत्त्वतः ॥ (२६) एवमुक्तो नारदेन ब्रह्मा प्रोवाच सत्तमः । (२७) आनन्तर्येऽधिकारस्य मङ्गलार्थे तथैव च ॥
(२४) नन्ववश्यवक्तव्यार्थत्वं स्वरूपोत्तमत्वं अर्थतआधिक्यं वा नियामकं भविष्यतीत्याशङ्कयाद्यपक्षे पृच्छति — ‘कश्च’ इति । चः प्रश्नसमुच्चये, अवधारणे वा । द्वितीयस्तुशब्दार्थः अर्थस्यावश्यक वक्तव्यत्वरूपविशेषमाह । तुशब्दपाठस्तु स्वरसः । तथा च—‘तयोः’ अथा तःशब्दयोः कोसाववश्यवक्तव्योर्थः येन प्राथम्यमित्यर्थः । द्वितीयमा क्षिपति — ‘कथं’ इति । ‘उत्तमता’ स्वरूपतश्चाधिक्यम् । न कथ मपीत्यर्थः । एवं कथंशब्दस्य प्रश्नपरत्वमङ्गीकृत्य तृतीयपक्षप्रश्नपरत्वे नापि कथमित्येतद्योजनीयम् । अर्थत इति शेषः । तथा च-तयोरथातः शब्दयोः अर्थतः उत्तमता आधिक्यं कथमित्यर्थः । अत्र आद्यतृतीयप क्षयोरवश्यवक्तव्यार्थतार्थाधिक्ययोस्तदभावयोश्च लोके शब्दान्तरेषु दर्शनात् अथातःशब्दयोस्तत्सन्देहात् प्रश्न एव न त्वाक्षेपः । द्वितीय पक्षे तु स्वरूपाधिक्यस्य शब्दान्तरेष्वदर्शनात् आक्षेप एवेति ध्येयम् । अत्रोङ्कारस्य प्रश्नाद्यविषयत्वं सर्वशास्त्रादिसूत्रावयवत्वाभावात् , ‘स्रवति’इति श्रुत्या ‘सिसृक्षोः’ इत्यादिस्मृत्या चैतच्छास्त्रमात्रमुख्यादित्वे न सिद्धत्वाच्चेत्यवधेयम् ॥ (२५-२६) ‘एतत्’ प्रश्नाक्षेपविषयीभूतं नियामकं ‘अहं तत्त्वतो’ याथार्थ्येन ‘यथा ज्ञास्यामि’ तथा ‘मे’ मह्यं ‘आख्याहि’ ब्रूहीति ‘एवं नारदेनोक्तः’ पृष्टः आक्षिप्तश्च ‘सत्तमः’ सर्वजीवोत्तमः ‘ब्रह्मा’ प्रत्युवाचेत्यर्थः । (२७) जिज्ञासाधिकारस्यावश्यवक्तव्यत्वेन तद्धेतुतासाधकानन्त र्यस्य जिज्ञासाहेतोस्तत्कर्तव्यताहेतोश्चावश्यवक्तव्यत्वात्तदर्थकत्वात्त योः प्रथमप्रयोग इति परिहारमभिप्रेत्यावश्यवक्तव्यार्थत्वं अथातश्श ब्दयोर्दर्शयति — ‘आनन्तर्ये’ इति । परस्परसमुच्चये तथाचशब्दौ । एवकारो भिन्नक्रमः ; तेनाभिधेयान्तरं व्यावत्र्यते । तथा च-- सौत्रा थशब्दः ‘अधिकारस्यानन्तर्ये’ अधिकारनिरूपितानन्तर्यरूपार्थे तद्धि
[ अधि - १. सू - १. ] दीपिकासहितम्. १९ (२८) अथशब्दस्त्वतःशब्दो हेत्वर्थे समुदीरितः । (२९) परस्य ब्रह्मणो विष्णोः प्रसादादिति वा भवेत् ॥ षये तन्मात्रवाचकत्वाभिप्रायेणैव सूत्रकारैः 'समुदीरितः' प्रयुक्तो न मङ्गलादिवाचकत्वेनेत्यर्थः । अवश्यकर्तव्यप्रयोजकत्वाच्च प्रथमम- थशब्दप्रयोग इति भावेनाथशब्दो मङ्गलार्थ इति स्वोक्तार्थे प्रमाणं द- र्शयति — 'मङ्गलार्थे' इति । चतुर्थ्यर्थे सप्तमीयं, अव्ययं वा । अर्थ- शब्दः प्रयोजनवाची। तथा च—मङ्गलारूपप्रयोजनार्थ चाथशब्दः सूत्र- कारैस्समुदीरितः प्रयुक्तो भवेदित्यर्थः । विष्णुवाचकाकारघटिताथश- ब्दोच्चारणरूपमङ्गलस्य तत्साध्यत्वादिति भावः । 'आनन्तर्य' इतिवत् 'मङ्गले' इत्यनुक्त्वा 'अर्थ' इति वचनं तद्वैषम्यसूचनार्थम् । स्ववा- क्ये प्रमाणक्रमातिक्रमस्तु मङ्गलस्य प्रथममनुष्ठेयत्वात् कृतः ॥ (२८) एवमथशब्दस्य अवश्यवक्तव्यार्थत्वरूपं प्रथमप्रयोगनिया- मकं प्रदर्श्य अतःशब्दस्यापि तद्दर्शयति---' अतःशब्दस्तु हेत्वर्थे' इति । तुशब्दो विशेषार्थः । हेतुर्लिङ्गं कारणं च स चासावर्थोऽभिधे- यश्च तस्मिन् तद्विषये तद्वाचकतया सूत्रकारैः 'समुदीरितः' इत्य- र्थः । गुर्वर्थदीपिकायान्तु "हेत्वर्थ इति स्ववाक्ये प्रमाणे च 'तद्धेतु- त्वं वदन्' इत्युत्तरवाक्यानुसारात् भावप्रधानो निर्देशः" इत्युक्तम् । तन्निष्फलम् । तथा च व्याख्यास्यामः । हेतावित्यनुक्त्वा अर्थशब्दग्र- हणं शब्दाधिक्यादर्थाधिक्यमिति न्यायेन प्रकृतेर्हेतुरर्थः प्रत्ययस्य तु हेतुत्वमर्थ इति प्रकृतिप्रत्ययोभयार्थकथनार्थम् । यद्वा — अर्थशब्द- स्योभयत्र श्रवणात्स पूर्वत्राप्यनुषञ्जनीय इति ज्ञापनाय, तदर्थमात्रं भिन्नमिति ध्येयम् । (२९) अत्र अतःशब्दस्यावश्यवक्तव्यमर्थान्तरं चाह—'परस्य' इति । वाशब्दः समुच्चये । उक्तं हि प्रमेयदीपे "वाशब्दश्चार्थः" इति। उक्तं हि "यदि वा भेदभिन्नयोः" इति विष्णुत्तत्त्वनिर्णयटीकायां "वाश- ब्दस्समुच्चयार्थः" इति । तथा तत्त्वप्रदीपेऽपि "सुप्तौ मोक्षे वा" इत्यत्र "वाशब्दस्समुच्चयार्थः" इति । अनेन 'अतः' इत्येतत् 'अ' शब्दप्रकृति- कं तसिल्लन्तं पदम्, प्रकृत्यर्थो विष्णुः, 'प्रसादात्' इति तु लब्धा- र्थकथनं, कारणत्वं प्रत्ययार्थ इत्युक्तं भवति । अपरव्यावृत्त्यर्थं 'परस्य' इति । "अ इति ब्रह्म" (ऐ-आ-२-३-८-७) इति श्रुतिं सूचयति परब्रह्म
२० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] ( ३० ) स हि सर्वमनोवृत्तिप्रेरकस्समुदाहृतः ॥ ( ३१ ) सिसृक्षोः परमाद्विष्णोः प्रथमं द्वौ विनिस्सृतौ । ( ३२ ) ओंकारश्चाथशब्दश्च तस्मात्प्राथमिकौ क्रमात् ॥ ग्रहणेन । तत्स्थब्रह्मशब्दव्याख्यानाय परस्य ब्रह्मण इत्यनुवादेन वि- ष्णोरित्युक्तम् । प्रसादादित्यनन्तरं तज्जिज्ञासादिरूपं कार्यमिति शेषः । भवेदित्यस्य इत्यर्थेपि अतःशब्द इत्यन्वयः । अतःशब्दप्रकृत्यर्थस्य फ- लस्य यथा जिज्ञासाकर्तव्यत्वे लिङ्गत्वं, न तथा तदर्थप्रसादस्य, किन्तु कर्तव्यजिज्ञासायां ज्ञानमोक्षयोरथशब्दार्थाध्ययनादौ च कार- णत्वेनान्वय इत्याशयेन पृथगुक्तिः । यद्यपि 'हेत्वर्थे' इत्यनेनैवायमर्थो लभ्येत, हेतुशब्दस्य लिङ्गकारणोभयार्थत्वात्; तथापि असाधारणास- र्वनामप्रकृतिकशब्देन बोधनार्थमिदमित्यदोषः । ( ३० ) ननु जिज्ञासाद्यर्थे किं भगवत्प्रसादेन येनासाववश्यकवक्त- व्यार्थः स्यादित्यत आह-'स हि' इति । 'हि' यस्मात् 'सः' विष्णुप्र- सादः प्रसन्नो विष्णुरिति यावत् 'सर्वमनोवृत्तिप्रेरकः' सर्वेषां अधि- कारिणां सर्वस्मिन् पूर्णे विष्णौ मनोवृत्तेः प्रेरकः प्रावण्यहेतुः 'समुदा- हृतः' प्रामाणिकैरित्यर्थः । जिज्ञासापि साक्षात्प्रमाणद्वारा वा मनोवृत्तेः प्रावण्यमेव, "जिज्ञासाऽपि सैव" इति सुधोक्तेः । एवं सर्वासां मनो- वृत्तीनां तत्प्रभेदानां टीकास्थादिपदगृहीतानां ज्ञानाध्ययनादीनां मनो- वृत्तिसाध्यमोक्षादेश्च प्रेरकः सम्पादकः इत्यपि व्याख्येयम् । अस्य त- स्मात्तदर्थेप्यतश्शब्दो भवेदिति पूर्वेणान्वयः । ( ३१-३२ ) ननु मङ्गळाचरणादेः “मङ्गलं ततः” इति शब्दान्तरेणा- पि सम्भवात्किमेतत्प्रयोगनियत्येति कृतचोद्यस्य कः परिहार इत्यतो न केवलमवश्यकवक्तव्यार्थत्वादथातःशब्दयोः प्रथमप्रयोगः, किन्तु स्व- रूपाधिक्याच्चेत्याशयेन 'कथमुत्तमता'इत्यस्योत्तरत्वेन तयोः स्वरूपा- धिक्यमाह - 'सिसृक्षोः' इति । शब्दयोः समुच्चये आद्यः चशब्दः । निमित्तसमुच्चये द्वितीयः । 'स्वरूपोत्तमौ' इति शेषः । 'तस्मात्' इ- त्यावर्तते । तथा च—यस्मात् 'सिसृक्षोः' स्रष्टुमिच्छोः 'परमात्' स- र्वोत्तमात् 'विष्णोः' तन्मुखात् 'प्रथमं' स्वसमानजातीयशब्दान्तरो- त्पत्तेः पूर्वं ओंकारोथशब्दश्चेत्येतौ कण्ठं भित्त्वा 'विनिस्सृतौ' विनिर्या-
[ अधि - १. सू - १. ] दीपिका सहितम्. २१ ( ३३ ) तद्धेतुत्वं वदंश्चापि तृतीयोऽत उदाहृतः ॥ तौ, तस्मात्स्वरूपोत्तमौ, तस्मात्स्वरूपोत्तमत्वादेव 'प्राथमिकौ' प्रथमं प्रयोroundज्यविति योजना । अत्राक्षेपाविषयस्याप्योङ्कारस्य स्वरूपाधिक्यो क्तिर्ब्रह्ममीमांसाशास्त्रमात्रमुख्यामुख्यादित्वविवक्षया प्रवृत्तं 'सर्वे एते' इति वक्ष्यमाणमनुसृत्येति द्रष्टव्यम् । ननु द्वयोरेकविधं प्राथमिकत्वं विरुद्धमित्यत उक्तं 'क्रमात्' इति । आदिमध्यक्रमादित्यर्थः । तत्रो ङ्कारस्य मुख्यं प्राथमिकत्वं, अथशब्दस्य द्वितीयतया मुख्यत्वमिति ध्येयम् । ( ३३ ) अथशब्दस्य ओङ्कारेण सह स्वरूपाधिक्यमभिधाय अतः शब्दस्यापि तदाह — 'तत्' इति । 'तद्धेतुत्वं वदन्' इति 'हेत्व र्थे' इत्यस्यानुवादः । स चोद्देश्यसमर्पकस्य अत इत्यस्य शब्दपरत्व ज्ञापनद्वारा तृतीयतयोक्तत्वादिविधानार्थः । अन्यथा स्वरूपाधिक्यकथन दशाऽसङ्गतिः स्यात् । यद्यपि पुरोवादानुसारात् 'तद्धेतुत्वं वदन्' इति सुवचम् ; तथापि हेतुशब्दस्य लिङ्गार्थत्वपक्षे तत्स्वरूपं विवरि तुं कारणार्थत्वपक्षे तत्कार्यं तसिप्रत्ययार्थं च प्रदर्शयितुं 'तद्धेतुत्वं व दन्' इत्युक्तम् । अत्रातःशब्दोऽसकृदावर्तते । तत्रैकशब्दपरः, अ न्यो हेतौ, अपरो विष्णुपराः । अत्र शब्दपरस्यातश्शब्दस्य समुच्चया र्थेन अपिशब्देनान्वयः । चो यत इत्यर्थे । 'तृतीयः उदाहृतः' इत्यन योरावृत्तिः । 'प्राथमिकौ' इत्यस्य वचनव्यत्ययेनानुषङ्गः । तृतीयश ब्दो भावप्रधानः, विभक्तिव्यत्ययश्च । तथा च—न केवलमोङ्कारार्थश ब्दौ, किन्तु 'तद्धेतुत्वं' तस्य प्रसन्नस्याकारवाच्यस्य विष्णोस्तत्र जि ज्ञासादौ कारणत्वं तसिप्रत्ययेन वदन्प्रकृत्यैव तस्य जिज्ञासादेर्मोक्षहे तुत्वरूपं लिङ्गं वा वदन् 'अतः' सर्वनामासर्वनामप्रकृतिकोऽतश्शब्दोऽपि यतो विष्णोः 'तृतीयः' तृतीयतया 'उदाहृतः' उच्चारितः अतः सोऽ पि स्वरूपोत्तमः ; यत एवमतोऽतश्शब्दोऽपि तृतीयतया प्राथमिक उदाहृत इति योजना । तथा च—मङ्गलशब्देन मङ्गलोक्तावपि तस्य स्वरूपाधिक्यानुक्तेः अथातःशब्दाभ्यामवाधिकारप्रयोजनयोरनुक्ते श्च न तेन गतार्थता, अधिकारप्रयोजनसूचनार्थं तयोरवश्यापेक्षित त्वात् । अत एव टीकायां "मङ्गलोक्त्यादेः" इत्यादिशब्दः । ततश्श ब्देन हेत्वानन्तर्यप्रतियोग्यधिकारसूचनेऽपि न तस्यादिसूत्रे निवे शो युक्तः, तस्य स्वरूपाधिक्यानुक्तेरेवेति भावः ।
२२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] ( ३४ ) अकारस्सर्ववागात्मा परब्रह्माभिधायकः । ( ३५ ) तथौ प्राणात्मकौ प्रोक्तौ व्याप्तिस्थितिविधायकौ । ( ३६ ) अतश्च पूर्वमुच्चार्याः सर्वे एते सतां मताः । ( ३४ ) न केवलमवश्यवक्तव्यार्थत्वात् नापि स्वरूपाधिक्यात् अ- थातश्शब्दयोः प्रथमप्रयोगः, किन्त्ववयवार्थतश्च । अतोऽपि प्रथमप्र- योग इति भावेन कथमिति तृतीयप्रश्नस्य प्रकारान्तरेणोत्तरमाह — ‘अकारः’ इति । तयोरित्यनुवर्तते । तथा च — अथातश्शब्दयोस्स- म्बन्धी ‘अकारो’ यतः ‘सर्ववागात्मा’ तस्मात्सर्वगुणान् विष्णोः अकारो वक्ति । “यत्प्रभोः” इत्यैतरेयभाष्यदिशा सर्वासाम् वाचां र्थो यत्पूर्णत्वं तदभिधायकः, अतः परब्रह्माभिधायकः ; गुणपूर्णत्व धर्मिण एव परब्रह्मत्वात् , धर्मधर्मिणोरभेदाच्चेति भावः । ( ३५ ) एवं तयोः ‘तथौ’ तश्च थश्च वर्णौ ‘प्राणात्मकौ’ प्राणौ, दोषात्म- कः दोष इतिवत् । विशेषणयोः प्रत्येकमन्वयः । प्राणशब्दो वायुविष्णू- भयवाची । “महत्तश्चतुर्मुखात्” इतिवत् अभिमान्यभिमन्यमानयोः, “अयं वै लोकः प्रथमा महानाम्नी” ( ) इतिवद्वाच्यवा- चकयोः सामानाधिकरण्येन ऐक्यव्यपदेशः । अस्य निरूढत्वज्ञापनाय ‘आत्मक’ शब्दः । प्रोक्ताविति वाच्यत्वाभिमानित्वयोः प्रामाणिकत्व- माह । क्रमभङ्गस्तु वर्गक्रमानुसारात् उच्चारणलाघवाच्च कृतः । परमा- त्मवाचित्वं च तद्गुणद्वारेत्याह— ‘व्याप्ति’ इति । तस्येति शेषः । त- था च—तस्य अकारवाच्यस्य परब्रह्मणो व्याप्तिस्थित्यभिधायकौ इत्यर्थः । तथयोरेतत्क्रमेण योजनीयम् । अत्राकारार्थो गुणव्याप्तिः, त- कारार्थो देशकालव्याप्तिः, थकारस्य तु अविकारेण अवस्थितिरर्थ इत्यर्थभेदो ज्ञातव्यः । तत्त्वप्रदीपे तु -- ‘तथौ प्राणात्मकं प्राप्तौ’ इ- ति पाठभेदमङ्गीकृत्य प्राणात्मकं प्राणप्रणेतारं विष्णुं वाचकत्वेन प्रा- प्ताविति व्याख्यातम् । यद्यपि सूत्रे प्रविष्टस्य सर्वनामप्रकृतिकस्य अ- तश्शब्दस्य नैवमवयवार्थकथनं युज्यते, असर्वनामप्रकृतिकस्य तु ‘परस्य’ इत्यनेनैव अर्थत आधिक्यं चोक्तम् । तथापि अथशब्दस्य अर्थत आधिक्यानुक्तेः तद्गतवर्णयोः असर्वनामप्रकृतिकातश्शब्दगतव- र्णयोश्च वाक्यार्थाप्रविष्टातिशयितार्थान्तरोक्तिरियमित्यदोषः । ( ३६ ) अस्त्वेवं, ततः किमित्यत आह — ‘अतश्च’ इति । चोऽव- धारणे समुच्चये च । तत्र अथातश्शब्दविषये समुच्चयः, ओङ्कारविष-
[ अधि - १. सू - १. ] दीपिकासहितम्. २३ ( ३७ ) अथातश्शब्दयोरेवं वीर्यमाज्ञाय तत्त्वतः । ( ३८ ) सूत्रेषु तु महाप्राज्ञास्तावेवादौ प्रयुञ्जते ॥ इति । ( ३९ ) अधिकारश्चोक्तो भागवततन्त्रे— ( ४० ) मन्दमध्योत्तमत्वेन त्रिविधा ह्यधिकारिणः । ये तु स्वरूपत आधिक्यादेवेत्यवधारणार्थतेति ध्येयम् । 'एते' इत्य- स्य विवरणं 'सर्वे' ओमथातश्शब्दा इति । 'अतः पूर्वं' एतच्छास्त्रा- दाविति अतश्शब्दावृत्त्या अन्वयः । 'क्रमात्' इत्यत्रापि सम्बध्यते । 'उच्चार्याः' इत्येवं 'सतां' जनानां सम्मता इत्यर्थः । यद्वा — 'सतां' मुख्यानां ब्रह्मसूत्राणां पूर्वं आदिसूत्रे इत्यर्थः । न चात्र "सकलसूत्र- कारैरेवमेव प्रयुक्तत्वात्" इति सुधाविरोधः, तस्याथातश्शब्दमात्रवि- षयत्वात् । अत एव "एतौ" इति पूर्वमुक्त्वा सकलसूत्रकारैरेवमेवे- त्युक्तम्, क्रमान्तरं विहायादावेवेत्यर्थः । अथशब्दस्य सूत्रकृतेति शेषः । (३७-३८) तत्किमत्रेत्यादिप्रश्नोत्तरमुपसंहरति— 'अथ' इति । तुश- ब्दोऽवधारणे विशेषे च । 'एवं' उक्तप्रकारेण 'वीर्यं' स्वरूपाधिक्यादि- माहात्म्यं 'आज्ञाय' तत्त्वतो विज्ञाय 'सूत्रेषु' विचारशास्त्रादिषु सर्वेषु 'तौ' अथातश्शब्दावेव नत्वन्यं 'आदौ' प्रथममेव 'प्रयुञ्जते' प्रयोगं कुर्वन्तीत्यर्थः । 'महाप्राज्ञाः' इत्यनेन सूत्रकृतां शब्दमाहात्म्यतत्त्वज्ञाने असामर्थ्यं निवारयति । एवकारः सर्वशास्त्रादिसूत्रविवक्षयोङ्कारव्यव- च्छेदकः । अत एव 'अतश्च' इति त्रयाणां प्रकृतत्वेपि ॐङ्कारवैषम्यज्ञा- पनाय अथातश्शब्दयोरेवोक्तिः । अत एव अथातश्शब्दविषये उपक्रमो- पसंहारयोः 'निखिलानि सूत्राणि' 'सूत्रेषु' इति सर्वसूत्रोक्तिः, ॐङ्का- रविषये तु तदनुक्तिः । अथशब्दस्योङ्कारेण सह पाठेऽपि न सार्वत्रिक- त्वं, उपक्रमोपसंहारविरोधात् । इतिशब्दस्य उक्तमित्येनेनान्वयः ॥ (३९) अथशब्दोधिकारानन्तर्यं वक्तीत्युक्तं; तत्र कोसावधिकारो ब्रह्मजिज्ञासायां, कतिविधश्च स इत्यत आह — 'अधिकारः' इति । चशब्दो न केवलमधिकारः किन्तु तद्विभागश्च भागवततन्त्राख्यग्र- न्थेऽभिहित इति समुच्चये । अत्र प्रमाणे अधिकारिकथनेऽपि तद्वि- शेषणतया देवत्वादिरूपोऽप्यधिकारः उक्तो भवतीति नासङ्गतिः ॥ (४०) कथमित्यतस्तद्वाक्यं पठति — 'मन्द' इति । त्वः प्रत्येकं सम्बध्यते । इत्थंभूतलक्षणे तृतीया । हिशब्दः प्रसिद्धौ ॥
" in line 25! "सत्त्वाद्" then: What are the letters? Is it "यथाश्रुतेरतिव्याप्तेर्"? Let's look at the letters between सत्त्वाद् and अतिव्याप्तेर्: सत्त्वाद् (sat-tvād) Letter 1: य (ya) Letter 2: थ (tha) Letter 3: ा (ā) Letter 4: श्र (śra) or श (śa) or स (sa)? Letter 5: त (ta) or ते (te)? Wait, look at: य (ya) - थ (tha) - ा (ā) - स (sa) - त (ta) - े (e)? "यथासतेर्"? Wait, look at: "यथाश्रुतेरतिव्याप्तेर्"? Wait, let's look at character 4: It has an upper loop, loop on left: 'श्रु' (śru)? Wait, does it say: "यथाश्रुतेरतिव्याप्तेर्ध्रौव्यादित्यतः"? Let's see: यथाश्रुतेः (of the literal definition / as stated literally) अतिव्याप्तेः (of over-application) ध्रौव्यात् (because of the certainty/inevitability) इत्यतः (therefore) प्रकारान्तरेण अधिकारिणः स्वरूपमाह — 'तथा' इति ।
[ अधि - १. सू - १. ] दीपिकासहितम्. २५ ( ४४ ) भक्तिमान् परमे विष्णौ यस्त्वध्ययनवान्नरः । ( ४५ ) अधमः शमादिसंयुक्तो मध्यमस्समुदाहृतः । ( ४६ ) आब्रह्मस्तम्बपर्यन्तमसारं चाप्यनित्यकम् । ( ४७ ) विज्ञाय जातवैराग्यो विष्णुपादैकसंश्रयः । ( ४८ ) स उत्तमोऽधिकारी स्यात्संन्यस्ताखिलकर्मवान् ॥ इति ॥ ( ४४-४५ ) तमेव दर्शयति - 'भक्तिमान्' इति । पूर्वमुद्देशवाक्ये ब- हुवचननिर्देशेऽप्यत्र 'नरः' इत्येकवचननिर्देशो नानुपपन्नः, अस्य लक्षणवाक्यत्वात्, "प्रमाणानि" इत्युद्देशवाक्ये बहुवचननिर्देशेऽ- पि "प्रमाकरणं प्रमाणं" इत्येकवचनेन लक्षणोक्तिवत् । अत्र अवैष्णवस्य वेदेऽपि ह्यधिकारो न विद्यते । गुरुभक्तिविहीनस्य शमादिरहितस्य च ॥ इत्युक्तेः । अध्ययन- लब्धापि विष्णुभक्तिः शमादिकं चाभक्तानधिकारिकताऽध्ययनशमा- दिनिवृत्त्यर्थं पृथगुक्तम् । आदिशब्देन "शान्तो दान्तः" इत्युक्तानां ग्रहणम् । सारनित्यसमुच्चये चापिशब्दौ । 'इति' इति शेषः । 'नरो' भक्तजनः । अस्य सर्वत्र सम्बन्धः । तथा च - यो नरः परमे विष्णौ भक्तिमान् अध्ययनवांश्च सोऽधमोऽधिकारीति प्रामाणिकैः समु- दाहृतः । यः शमादिसंयुक्तो नरः स मध्यम इति प्रोक्तः ॥ ( ४६ ) यः 'आब्रह्मस्तम्बपर्यन्तं' चतुर्मुखमारभ्य तृणजीवपर्यन्तं जीवजातं 'असारं' असर्वोत्तमं, असारपदं मोक्षादवरपरं वा 'अनि- त्यकं' अनित्यं ब्रह्मादिजीवानां देहनाशोऽपि स्वरूपनाशाभावात् कप्र- त्ययः । परब्रह्म तु सर्वसारं सर्वथा नित्यं चेति । ( ४७ ) 'विज्ञाय' ज्ञानवान् सन् सारासारनित्यानित्यवस्तुविवेकवा- निति यावत् । यश्च ततो विवेकात् 'जातवैराग्यः' इति विज्ञाय जनित- वैराग्य इति वा । यश्च 'विष्णुपादैकसंश्रयः' विष्णुपाद एव एको मुख्यः संश्रयो मम शरणमिति ज्ञानं यस्य सः । ( ४८ ) यश्च 'संन्यस्ताखिलकर्मवान्' संन्यस्तं भगवति समर्पि- तं अखिलं यत्काम्यं कर्म तद्वान् 'सः' नरः 'उत्तमोऽधिकारी' स्या- दिति योजना । अत्र सन्यासो नाम भगवान् सर्वाणि कर्माणि करोति सर्वकर्माणि भगवत्पूजारूपाणीति च ज्ञात्वा भ्रान्त्या जीवकर्तृकत्वेन ज्ञातानां कर्मणां भगवति विसर्गः । यथोक्तं गीताभाष्ये - "भगवा- ४
२६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
( ४९ ) “ अध्ययनमात्रवतः । नाविशेषात् ” (१) इति चोपरि । ( ब्र. सू. ३-४-१२,१३. )
नैव सर्वाणि कर्माणि करोति ” इत्यादिना । अनेन ‘ भक्तिमान् परमे विष्णौ ’ इत्यादि ‘ संन्यस्ताखिलकर्मवान् ’ इत्यन्तवाक्येन यान्यधिका रित्रयविशेषणान्युक्तानि तान्येव सर्वाणि मिलित्वाधिकारिसामान्यल क्षणभूतानीत्युक्तं भवति । न च मिलितानां त्रयाणां प्रत्येकं त्रैविध्याभावा दसम्भवः, भावे वाऽधमादिलक्षणस्य मध्यमादिष्वतिव्याप्त्यापत्तिरि ति वाच्यम्, उत्तरवाक्ये पूर्वस्य पूर्ववाक्ये चोत्तरस्यानुकर्षेण सर्व त्र सर्वस्य सत्त्वाभ्युपगमेनासम्भवाभावात् । नन्वसङ्कीर्णविशेषलक्ष णानुक्तेस्त्रैविध्यायोग इति चेत् — अत्र केचित् “ उत्तरोक्ताप्राचुर्यं ण ” इति टीकावाक्यस्योत्तरयोरधिकारिणोरुक्तानां गुणा
[अधि - १. सू - १.] दीपिकासहितम् २७ (५०) “शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वा आत्मन्येवात्मानं पश्येत्” (बृ-उ. ४-४-२३.) (५१) परीक्ष्य लोकान् कर्मचितान्ब्राह्मणो रस्तारतम्येन वक्ष्यते, सूत्रकृतेति शेषः । तदभिप्रेतस्मृतौ 'वेदोक्तब्र- ह्मविद्यायाम्' इत्युक्तत्वात् तत्रोदाहृतश्रुतौ ज्ञानाधिकारित्रैविध्यस्या- प्युक्तत्वादुक्तशङ्कापरिहार इति भावः । चशब्दः 'अध्ययनवान्' इ- ति प्रमाणसमुच्चये । (५०) शमादिकमपि ब्रह्मविद्यायामधिकार इत्यत्र काण्वश्रुतिमा- ह (बृ-४-४-२३)—'शान्त' इति । अत्र 'आत्मनि' इत्युक्त्या मध्य- माधिकारी सूचितः, 'ऋषयोऽन्तःप्रकाशाः' इति श्रुतेः (चतुर्वेदशि- खा) 'मध्यमा ऋषिगन्धर्वाः' इत्युक्तेश्च । 'शान्तो' भगवन्निष्ठबुद्धिः “शमो मन्निष्ठता बुद्धेः” इति भागवतोक्तेः । तत्त्वप्रदीपे तु—वैष्णव- सिद्धान्तादचलनं शम इति पर्यवसितमुक्तम् । 'दान्तो' निगृहीतमदः, इन्द्रियनिग्रहवानिति यावत् । 'उपरतो' विषयालम्बुद्धिमान् । बृहद्भा- ष्यरीत्या—उप समीपे स्वहृदयस्थे विष्णौ सन्तोषवानिति वा । 'ति- तिक्षुः' शीतोष्णादिद्वन्द्वसहिष्णुः । 'समाहितः' समे सेन्दिरे हरौ चित्तवृत्तिमान् । यद्वा—'यथा वस्तु तथा ज्ञानं तत्साम्यात्सममीरि- तम्' इति वचनात् समं यथार्थमाहितमाधानं मनोवृत्तिरूपं ज्ञानं इच्छा च यस्य स तथोक्तः । तथा च यथावस्तुज्ञानादिमानित्यर्थः । भूत्वेत्यस्य प्रत्येकं सम्बन्धः। स्थितमिति शेषः । तथा च-पूर्वं 'एवं' विच्छब्देनोक्तो हरेः संसारमोचकत्वज्ञानी शान्त्यादिमान् 'भूत्वा' 'आत्मनि' स्वहृद- ये स्थितं 'आत्मानं' परमात्मानं 'पश्येत्' जानीयादित्यर्थः, विचारये- दिति लाक्षणिकार्थः । शान्तादिर्भूत्वात्मानं विद्यादित्यनेन उपनयन- स्य अध्ययनार्थत्ववत् शान्त्यादेर्ब्रह्मविद्यार्थत्वमुक्तं भवति । यद्यपि प- श्यतीति श्रुतिपाठः तथापि विष्णुत्तत्त्वनिर्णयटीकायां “स तथा चका- रेति क्वचित्पाठः ; स सदृशशाखान्तरगतो ज्ञातव्यः, एवमन्यत्रापि” इत्युक्तत्वात् तन्न्यायेनायमपि सदृशशाखान्तरगतो वा पश्यतीत्य- स्यार्थानुवादो वेत्यदोषः । (५१-५२) सारासारनित्यानित्यविवेकजन्यवैराग्याद्यपि ब्रह्मविद्याया- मेव अधिकार इत्यत्राथर्वणश्रुतिमाह (मुं-१-२-१२)—'परीक्ष्य' इति ।
२८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] ( ५२ ) निर्वेदमायान्नास्त्यकृतः कृतेन । ( ५३ ) तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् ( ५४ ) समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ॥ ( मु.उ.१-२-१२. ) ( ५५ ) यमेवैष वृणुते तेन लभ्यः 'ब्राह्मणो' ब्रह्मज्ञानयोग्यः 'लोकान्' विष्णुलोकेतरान् 'कर्मचितान्' काम्यकर्मसम्पादितान् तत एवासारत्वेनानित्यत्वेन च 'परीक्ष्य' वि विच्य तेन विवेकेन 'निर्वेदं' काम्यकर्मणि तत्फले च वैराग्यं 'आयात्' प्राप्नुयात् । यस्मात्स्वरूपानन्दाविर्भावरूपत्वात् 'अकृतो' नित्यपुमर्थरू पो मोक्षः 'कृतेन' उत्पत्तिनाशवत्फलत्वेनावधृतकर्मणा 'नास्ति', किन्तु ज्ञानेन । ( ५३-५४ ) 'तत्' तस्मात् 'सः' मोक्षादितरत्र विरक्तः 'विज्ञानार्थं' ब्रह्मणो विशेषज्ञानाय । 'समित्पाणिः' समिद्युक्तौ पाणी यस्य । यद्वा-- सम्प्राप्तौ सम्पुटीकृतौ अरिक्तौ वा पाणी यस्य । स एवम्भूतस्सन् 'श्रोत्रि यं' छन्दोध्येतारं ब्रह्मनिष्ठमेव गुरुं 'अभिगच्छेत्' उपसीदेदित्यर्थः । गुरु मेव न त्वन्यमिति वा एवशब्दान्वयः । तत्त्वप्रदीपे तु-'कर्मचितान्' क र्मणा सञ्चितान् ऐहिकान् मन्दिरादीन् विनाशिनः 'परीक्ष्य' परितो वीक्ष्य पारलौकिकत्वेन तद्विपरीतानपि कर्मभिश्चितान् स्वर्गादिलो कान् विनाशिन एव परीक्ष्य तेभ्यो 'निर्वेदमायात्' । 'अकृतो' ज्ञा नप्रियो भगवान् 'कृतेन' कर्मणा 'न' लभ्यते । ततः 'तद्विज्ञानार्थं' तस्य ज्ञानप्रियस्य विष्णोर्विज्ञानार्थं 'गुरुमभिगच्छेत्' इति श्रुत्यर्थ उक्तः । अत्रापि विज्ञानपदेन ब्रह्मज्ञानिपरब्राह्मणपदेन च उत्तमाधिका री सूचितः, 'देवादीनां तु तज्ज्ञानं विज्ञानमिति कीर्तितम्' इति गी ताभाष्योक्तेः, 'नैव देवपदं प्राप्ताः ब्रह्मदर्शनवर्जिताः' इति तत्त्वा त्पर्योक्तेश्च । ( ५५ ) विष्णुभक्तिरपि ब्रह्मविद्यायामधिकार इत्येतत्कठश्रुत्या द र्शयति - 'यं' इति । आथर्वणेपीयँ पठ्यते । ( मुं-३-२-३ ) 'एषः' इच्छारूपः 'आत्मा' विष्णुः 'यं' अधिकारिणं 'वृणुते' परिगृह्णाति 'तेन' एव 'लभ्यः' प्राप्यः तस्य प्रसन्नो भवति ॥
[ अधि - १. सू - १० ] दीपिकासहितम्. २९ ( ५६ ) तस्यैष आत्मा वृणुते तनूं स्वाम् ॥ (कठोप. २-२३.) ( ५७ ) यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । ( ५८ ) तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ ( श्वे. उ. ६-२३. ) ( ५९ ) इत्यादिश्रुतिभ्यश्च । व्योमसंहितायां च — ( ५६ ) ततश्च 'तस्य' अधिकारिणः 'एषः' प्रसन्नः 'आत्मा स्वां तनूं' रूपं 'वृणुते' प्रकाशयतीत्यर्थः । अत्र 'भक्तमेव च वृणुत इति प्रसिद्धः' इति प्रमेयदीपिकारीत्या वृणुत इत्यनेन भक्तत्वं सूचितम् । तत्त्वप्रदीपे तु—'यमेवैषः' परमात्मा भक्तिदानेन 'वृणुते' स्वीकरो- ति 'तेन' प्राप्यो यतस्तस्यैव 'स्वां तनूं' प्रकाशयतीत्युक्तम् ॥ ( ५७ ) सा च भक्तिः विष्णौ सर्वाधिका अन्येष्वपि यथायोग्या ब्र- ह्मविद्योपयोगिनीत्यर्थे श्वेताश्वतराणां श्रुतिं ( श्वे-६-२३) दर्शयति— 'यस्य' इति । 'यथा' इत्यावर्तते । 'तथा' इति समुच्चये । 'कथिताः' 'अकथिताः' इति द्वेधा विच्छेदः । पूर्ववेदादिभिर्गुरुणेति च शेषः । तथा च—'यस्य' अधिकारिणो 'देवे' द्योतनादिगुणे विष्णौ 'परा' सर्वाधिका 'भक्तिः' अस्ति 'तथा' 'देवे' तदितरदेवेषु ब्रह्मादिषु 'यथा' यथायोग्या भक्तिरस्ति, 'तथा गुरौ' अन्येषु स्वोत्तमेषु च यथा- योग्या भक्तिरस्ति ( ५८ ) 'तस्य' महात्मनः कर्तरि षष्ठीयम् । तेनाधिकारिणा पूर्वं वेदादिभिर्गुरुणा वा 'कथिताः' 'एते' उक्ताः 'अर्थाः' परापरतत्त्व- रूपाः 'प्रकाश्यन्ते' ज्ञायन्त इत्यर्थः । यद्वा—'एते' शमादिरूपा 'अ- र्थाः' गुणास्तस्मिन् 'प्रकाश्यन्ते' दृश्यन्त इत्यर्थः । अथ वा—'अक- थिताः' गुरुभिरनुपदिष्टाः 'अर्थाः' अस्य भक्तिवशात् 'प्रकाश्यन्ते' 'हि' प्रसिद्धमित्यर्थः । 'प्रकाशन्ते' इति पाठे तत्कर्तृकज्ञानानुकूल- भानकर्तारो भवन्तीत्यर्थः ॥ ( ५९ ) 'इत्यादिश्रुतिभ्यश्च' इत्यस्य 'अधिकार उक्तः' इत्यनेना- न्वयः । न केवलमुक्तश्रुतिभिः, किन्तु “भक्त्या त्वनन्यया शक्य अह- मेवं विधोऽर्जुन । ज्ञातुं द्रष्टुं” ( भ-गी-११-५४ ) इत्यादिस्मृतिभ्यश्चेति चशब्दार्थः ॥ ननु यद्यध्ययनवतामेव ब्रह्मविद्याधिकारः तर्हि त्रिवर्णे- तरेषामध्ययनाभावेनाधिकारो न स्यात् । ततश्च तेषां ब्रह्मज्ञानाभावे
३० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] ( ६० ) अन्त्यजा अपि ये भक्ता नामज्ञानाधिकारिणः । ( ६१ ) स्त्रीशूद्रब्रह्मबन्धूनां तन्त्रज्ञानेऽधिकारिता ॥ ( ६२ ) एकदेशे परोक्ते तु न तु ग्रन्थपुरस्सरे । ( ६३ ) त्रैवर्णिकानां वेदोक्ते सम्यग्भक्तिमतां हरौ ॥ न मोक्षाभावस्स्यादित्याशङ्कां स्मृत्या परिहरति—' व्योमसंहितायां च' इति । प्रकृतशङ्कानिरासपूर्वकमिति शेषः । पूर्वग्रन्थसमुच्चये च शब्दः । अस्यापि 'अधिकार उक्तः' इत्यनेनान्वयः । ( ६० ) अन्ते भवाः अन्त्याः तेषु जाताः 'अन्त्यजाः' त्रिवर्णबाह्याः। अ यं चार्थो “विष्णुनामस्वाध्यायोऽन्त्यानां" इत्येतदवतारिकारूपया “ना ग्निर्न यज्ञः शूद्रस्येत्यादेस्त्रिवर्णबाह्यानां" इति न्यायदीपिकया सूं त्रि [L12
[ अधि - १. सू - १. ] दीपिकासहितम्. ३१ ( ६४ ) आहुरप्युत्तमस्त्रीणामधिकारं तु वैदिके । ( ६५ ) यथोर्वशी यमी चैव शच्याद्याश्च तथाऽपराः ॥ इति ॥ ( ६६ ) यतो नारायणप्रसादमृते न मोक्षः, न च ज्ञानं- [ विनात्यर्थ प्रसादः, ( ६७ ) अतो ब्रह्मजिज्ञासा कर्तव्या ॥ वर्णिनां चेत्—तेषामपि किं सर्वेषामधिकारः? न, किं तु केषां चि दित्याह—‘त्रैवर्णिकानां' इति । ‘वेदोक्ते' वेदोत्पन्नब्रह्मज्ञाने तु 'ह रौ सम्यग्भक्तिमतां' एव 'त्रैवर्णिकानां' उक्तेतरब्रह्मक्षत्रियवैश्यानां अधिकारितेत्यर्थः । न केवलं नामादिज्ञानाधिकार इत्यर्थेऽपि तुशब्दः ॥ ( ६४ ) “सपत्नीं मे पराधमपतिः मे केवलं कुरु ।” (मं-प्र-१-१६) इत्यादी स्त्रीणामपि वेदाधिकारदर्शनात् कथं तासामनधिकार इत्यत
३२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] (६८) यत्रानवसरोन्यत्र पदं तत्र प्रतिष्ठितं ॥ (६९) वाक्यं वेति सतां नीतिः सावकाशे न तद्भवेत् ॥ [ इति बृहत्संहितायाम् । र्थः । उक्तं हि शब्दाधिकरणे तत्त्वप्रदीपे “ मोक्षस्यैव परमपुरुषार्थ त्वात् तस्य च समीचो विना विष्णुप्रसादात् अलभ्यत्वात् तस्य च अ तिमात्रस्य अपरोक्षज्ञानप्रसाध्यत्वात् तस्य चापरोक्षस्य जिज्ञासासमा प्ततत्त्वाद्द्विष्णुरेव जिज्ञास्य इत्युक्तम्” इति । सावधारणान्वयस्याप्यु पलक्षकमेतत् । तस्यातश्शब्देन परामर्शाद्यनुपपत्तिः । अनेन सूत्रे यतो नारायणप्रसादमृते न मोक्षः, किन्तु प्रसादेनैव, न च ज्ञानं विनाऽत्यर्थ प्रसादः, किन्तु ज्ञानेनैव, न च जिज्ञासां विना ज्ञानं, किन्तु जिज्ञासयैव, अतो ब्रह्मजिज्ञासा कर्तव्येत्यन्वयप्रदर्शनमुखेन अतश्शब्दस्य मोक्षसा धनप्रसादसाधनज्ञानसाधनत्वादिति हेतुरर्थ इत्येतद्विवृतं भवति । एवं यतो नारायणप्रसादमृते न ज्ञानं न जिज्ञासा किन्तु प्रसादेनैव इति योजनायां अतःशब्दस्यार्थान्तरमपि विवृतं भवति । नारायणशब्दप्रयो गेण सौत्रब्रह्मशब्दोऽपि व्याख्यातो भवति ॥ (६८-६९) ननु सूत्रे 'कर्तव्या' इति पदस्यैव अध्याहारः कुतः अध्याहारस्य निरङ्कुशत्वेन 'न कर्तव्या' इति वाक्यस्यैवाध्याहारः किं न स्यादित्यत आह—'यत्र' इति । अत्र यत्रेति तत्रेति पदमिति चावर्तते, तथा वाक्यमित्यपि, विनेत्यध्याह्रियते । तथा च—'यत्र' अवा न्तरवाक्ये यत् 'पदं' विना 'अन्यत्र' अर्थान्तरे 'अनवसरः' अघ टना 'तत्र' वाक्ये तदेव 'पदं' 'प्रतिष्ठितं' प्राप्तं भवेत् नान्यदिति 'सतां' न्यायः, यत्र वाक्ये यस्मिन् वाक्ये सावकाशे अर्थान्तरे घट नावति सति तदेव पदं नियमेन प्रतिष्ठितं प्राप्तं न भवेत् । एवं यत्र महावाक्ये यदवान्तरवाक्यं विनान्यत्रानवसरः तत्र महावाक्ये तदे व वाक्यं प्रतिष्ठितम्, यत्र यस्मिन् महावाक्ये सावकाशे सति तद् वान्तरवाक्यं नियमेन प्रतिष्ठितं न भवेदित्यर्थः । यत्र वाक्ये यत्पदं वाक्यं वाऽपेक्षितं अन्यत्रान्यस्यानवसर इति वा । इति बृहत्संहिताया मुक्तत्वात् 'कर्तव्या' इति पदमेवावश्यमध्याहर्तव्यमिति वाक्यशेषे णास्यान्वयः । 'न कर्तव्या' इत्यध्याहारे अथातश्शब्दार्थाधिकारादेरत्रा न्वयायोगादिति भावः । एवं चन्द्रिकोक्तरीत्या 'यत्र'इति श्लोको 'यतः' इत्याद्यध्याहारसमर्थनपरतयापि व्याख्येयः ।