भारतकोश
संग्रह पर लौटें

रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary

सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished94 पृष्ठ

२.] रसरत्नाकरस्य रसायनखण्डः । १३ मधुना भक्षयेत्कर्षमनु स्यात्कामकं परम् । परानन्दरसः । मृतसूताभ्रकं गन्धं तुल्यं सप्तदिनावधि ॥ ६८ ॥ शिग्रुमूलद्रवैर्मर्द्यं तद्गोलं भाण्डमध्यगम् । रुद्ध्वा पच्याल्लघुत्वेन शाककाष्ठैर्दिनावधि ॥ ६९ ॥ परानन्दो रसो नाम घृतैर्निष्कं सदा लिहेत् । दिनैकं त्रिफलाक्वाथैः कुष्ठं सम्यग्विपाचयेत् ॥ ७० ॥ तच्छुष्कं चूर्णितं कर्षं मध्वाज्याभ्यां लिहेदनु । संवत्सरप्रयोगेण जीवेदाचन्द्रतारकम् ॥ ७१ ॥ महाकालरसः । मृतसूताभ्रकं तुल्यं मृतलोहं तयोः समम् । लोहांशं शोधितं गन्धं भावयेद्दिनसप्तकम् ॥ ७२ ॥ तत्सर्वं त्रिफलाक्वाथैर्भृङ्गशिग्रुकचित्रकैः । द्रवैः पृथक्पृथग्भाव्यं सप्तधा सप्तधा क्रमात् ॥ ७३ ॥ सप्तधा कटुकीक्वाथैर्भावितं चूर्णयेत्पुनः । चूर्णतुल्यं कणाचूर्णं पुरातनगुडैः समैः ॥ ७४ ॥ सर्वमेकीकृतं खादेन्निष्कैकं वत्सरावधि । महाकालो रसो नाम जराकालभयङ्करः ॥ ७५ ॥ तिलकोरण्टपत्राणि गुडेन भक्षयेदनु । हेमपर्पटरसः । मृतपारदसंतुल्यं लोहपर्पटकं भवेत् ॥ ७६ ॥ त्रिगुणं गन्धकं सूतात्सर्वं दिव्यौषधद्रवैः । मर्दितं तद्दिनं रुद्ध्वा ध्मातो बद्धो भवेद्रसः ॥ ७७ ॥ तस्मिन् पादं मृतं स्वर्णं क्षिप्त्वा वह्न्यार्द्रकद्रवैः । मर्द्यं यामं विचूर्ण्याथ व्योषजीरकसैन्धवैः ॥ ७८ ॥ तुल्यं पूर्वरसं तुल्यं निष्कैकैकं च भक्षयेत् । जरामृत्युं निहन्त्याशु हेमपर्पटको रसः ॥ ७९ ॥ २

१४ आयुर्वेदीयग्रन्थमाला । [उपदेशः अश्वगन्धासमां यष्टिं धात्रीफलरसैर्दिनम् । भावितां लेहयेत्क्षौद्रैः पलैकां क्रामकं परम् ॥ ८० ॥ श्रीकण्ठरसः । स्वर्णतारार्ककान्तं च तीक्ष्णं वा मारितं समम् । कृष्णाभ्रसत्त्वमाक्षीकं प्रत्येकं स्वर्णतुल्यकम् ॥ ८१ ॥ तत्सर्वं चान्धितं धाम्यं तत्खोटं मृतपारदम् । समं मृतामृतं वज्रं पादांशं तत्र योजयेत् ॥ ८२ ॥ सर्वं जम्बीरजैर्द्रवैस्तप्तखल्वे विमर्दयेत् । दिनैकं तं निरुध्याथ भूधरे पाचयेद्दिनम् ॥ ८३ ॥ उद्धृत्य गन्धकं तुल्यं दत्त्वा रुद्ध्वा धमेद्द्रुतम् । तच्चूर्णं मधुनाऽऽज्येन माषमात्रं लिहेत्सदा ॥ ८४ ॥ रसः श्रीकण्ठनामाऽयं खेचरत्वं प्रयच्छति । संवत्सरप्रयोगेण जीवेत्कल्पान्तमेव च ॥ ८५ ॥ तस्य मूत्रपुरीषाभ्यां सर्वलोहानि काञ्चनम् । पलैकं गन्धकं क्षीरैः क्रामकं चानु पाययेत् ॥ ८६ ॥ खेचरबद्धरसः । शुद्धताम्रस्य भागैकं द्विपद् शुद्धरसस्य च ॥ त्रयं भूनागसत्त्वस्य भागमेकत्र कारयेत् ॥ ८७ ॥ सर्वं मर्द्यं तप्तखल्वे जम्बीराणां द्रवैर्दिनम् । तत्सर्वं कच्छपे यन्त्रे क्षिप्त्वा तत्रैव गन्धकम् ॥ ८८ ॥ कासमर्दरसैः पिष्टं तुल्यं दत्त्वा निरुध्य च । यावज्जीर्णे पुटे पच्यादेवं षड्गुणगन्धकम् ॥ ८९ ॥ जारयेत्क्रमयोगेन समुद्धृत्याथ मर्दयेत् । यामं जम्बीरजैर्द्रवैस्ततो निश्चन्द्रमभ्रकम् ॥ ९० ॥ अम्लवेतससंतुल्यं मर्दितं दापयेद्रसे । षोडशांशं तप्तखल्वे चणकाम्लं च तालकम् ॥ ९१ ॥

कासीसं च दशांशेन दत्त्वा मर्द्यं दिनावधिः । तत्सर्वं पक्वमूषायां क्षिप्त्वा वस्त्रेण बन्धयेत् ॥ ९२ ॥ दोलायन्त्रे सारनाले त्र्यहं लघ्वग्निना पचेत् । उद्धृत्य क्षालयेदुष्णैः काञ्जिकैर्जीर्यते यदि ॥ ९३ ॥ अजीर्णं चेत्पचेद्यन्त्रे कच्छपाख्ये विडान्वितम् । एवं पुनः पुनर्जार्यं गगनं सूततुल्यकम् ॥ ९४ ॥ शिखिपित्तप्रलिप्तानि स्वर्णपत्राणि तस्य वै । चतुःषष्ठ्यंशयोगेन दत्त्वा खल्वे विमर्दयेत् ॥ ९५ ॥ स्वेदयेत्पूर्ववद्यन्त्रे जीर्णे स्वर्णं च दापयेत् । इत्येवं षोडशांशं तु स्वर्णं जार्यं रसस्य वै ॥ ९६ ॥ ततो जार्यं मृतं वज्रं षोडशांशं च हेमवत् । तालकासीसजम्बीरयुक्तं मर्द्यं च तत्परम् ॥ ९७ ॥ ततो दिव्यौषधद्रावैस्तं मृतं मर्दयेत्त्र्यहम् । वज्रमूषानिधतं धाम्यं बद्धं स्याच्चूर्णयेत्पुनः ॥ ९८ ॥ मधुशर्करया सार्धं गुञ्जामात्रं च भक्षयेत् । रसः खेचरबद्धोऽयं षण्मासान्मृत्युजिद्भवेत् ॥ ९९ ॥ वलीपलितनिर्मुक्तो महाबलपराक्रमः । सप्ताहं भृङ्गजैर्द्रावैर्नीलीमुण्डीफलत्रयम् ॥ १०० ॥ भावयेन्मधुसर्पिर्भ्यां कर्षमात्रं लिहेदनु । स्वयमग्निरसः । शुद्धसूतं द्विधा गन्धं कुर्यात्खल्वेन कज्जलम् ॥ १०१ ॥ तयोस्तुल्यं कान्तचूर्णं तीक्ष्णं वा मुण्डमेव वा । सर्वमेकीकृतं खल्वे मर्दयेत्कन्यकाद्रवैः ॥ १०२ ॥ दिनैकं गोलकं कृत्वा ताम्रपात्रे निवेशयेत् । आच्छाद्यैरण्डपत्रैस्तु यामार्धेऽत्युष्णतां व्रजेत् ॥ १०३ ॥ धान्यराशौ न्यसेत्तं तु द्विदिनान्ते समुद्धरेत् ।

१६ आयुर्वेदनायग्रन्थमाला । [उपदेशः कन्याभृङ्गीकाकमाचीमुण्डीनिर्गुण्डिचित्रकम् ॥१०४॥ कोरण्टवाकुचीब्राह्मीसहदेवीपुनर्नवाः । शाल्मलीविजयाधूर्ता द्रवैरेषां पृथक्पृथक् ॥ १०५ ॥ सप्तधा सप्तधा भाव्यं सप्तधा त्रिफलोद्भवैः । कषायैर्भावितं चूर्णं जातीफललवङ्गकम् ॥ १०६ ॥ त्रिकटु त्रिफला चैला चूर्णयेन्नवकं समम् । तच्चूर्णं पूर्वचूर्णं च समं क्षौद्रेण कर्षकम् ॥ १०७ ॥ वर्षैकं लेहयेन्नित्यं जराकालप्रशान्तये । खयमग्निरसो नाम सिद्धानां सुमुखागतः ॥ १०८ ॥ तिलाश्वगन्धयोश्चूर्णं पलार्धं मधुना लिहेत् । कक्षपुटरसः । निर्गुण्डी नीलिका वज्री ब्रह्मदण्डी त्रिदण्डिका ॥१०९॥ शतपुष्पा मुद्गपर्णी श्वेताकर्को वानरी जया । पेटारीकृष्णधत्तूरविजयाक्षीरकन्दकम् ॥ ११० ॥ एतैः समस्तैर्व्यस्तैर्वा द्रव्यैर्मर्द्यं दिनत्रयम् । शुद्धसूतं तप्तखल्वे तत्कल्कं क्षीरकन्दके ॥ १११ ॥ वज्रकन्देऽथवा रुद्ध्वा तन्मज्जाभिर्मृदा पुनः । तं कन्दं वज्रमूषायां रुद्ध्वा लघुपुटे पचेत् ॥ ११२ ॥ पुनर्मर्द्यं पुनः पाच्यमित्येवं सप्तधा क्रमात् । रसः कक्षपुटो नाम गुञ्जैकं मधुना लिहेत् ॥ ११३ ॥ जीवेद्ब्रह्मदिनैकं तु वलीपलितवर्जितः । वर्षैकेन न संदेहो रसकायो भवेन्नरः ॥ ११४ ॥ भल्लातबीजचूर्णं च हयगन्धामृताघृतैः । पलैकं भक्षयेच्चानु क्रामकं परमं हितम् ॥ ११५ ॥ महाशक्तिरसः । मृतमृताभ्रकं वज्रं कान्ततारार्कहाटकम् । तीक्ष्णं च तुल्यतुल्यांशं सर्वेषां गन्धकं समम् ॥११६॥

रसरत्नाकरस्य रसायनखण्डः । १७ सर्वं पालाशतैलेन मर्दयेद्दिनसप्तकम् । महाशक्तिरसो नाम क्षौद्रैर्माषं लिहेत्सदा ॥ ११७ ॥ षण्मासेन जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् । वत्सरात्सप्तकल्पानि जीवत्येव न संशयः ॥ ११८ ॥ इच्छावेगी महासिद्धः पराशक्तिसमो भवेत् । तस्य मूत्रपुरीषाभ्यां ताम्रं भवति काञ्चनम् ॥ ११९ ॥ पालाशबीजजं तैलं क्षौद्रैर्लेह्यं पलाष्टकम् । क्रामकं ह्यनुपानं स्यात्सम्यक्छक्त्या प्रकाशितम् ॥१२०॥ नाटकेश्वररसः । लोहितं वाऽथ वा कृष्णं वैक्रान्तं मारितं पलम् । स्वर्णचूर्णपलैकं च द्विपलं शुद्धपारदम् ॥ १२१ ॥ बालरण्डाजमूत्राभ्यां तत्सर्वं मर्दयेद्दिनम् । शरपुङ्खा मेषशृङ्गी सर्पाक्षीकटुतुम्बिका ॥ १२२ ॥ इन्द्रवारुणिका चैषां द्रवैर्मर्द्यं दिनत्रयम् । तद्गोलं गर्भयन्त्रे तु रुद्ध्वा पच्याद्दिनत्रयम् ॥ १२३ ॥ तुषाग्निना लघुत्वेन समुद्धृत्य विचूर्णयेत् । सप्तधा भृङ्गजैर्द्रवैर्भावितं चूर्णयेत्पुनः ॥ १२४ ॥ त्रिफलात्र्यूषमध्वाज्यैः समं चूर्ण विमिश्रयेत् । माषैकैकं सदा खादेद्रसोऽयं नाटकेश्वरः ॥ १२५ ॥ सर्वरोगजरामृत्यून् वत्सरान्नाशयत्यलम् । दिव्यतेजा महाकायो जीवेदाचन्द्रतारकम् ॥ १२६ ॥ मूलत्वचं ब्रह्मवृक्षाच्छायाशुष्कां विचूर्णिताम् । पिबेन्निष्कद्वयां तक्रैः क्रामकं परमं शुभम् ॥ १२७ ॥ बालसुन्दररसः । सुशुद्धं श्वेतवैक्रान्तं सप्ताहं भाव्यमातपे । अम्लवेतससंपिष्टं तेनैव द्रुतिमाप्नुयात् ॥ १२८ ॥ त्रैफलोषणमध्वाज्यैः' ख. । २ 'हाटकेश्वरः' क. ।

१८ आयुर्वेदीयग्रन्थमाला । [ उपदेशः एतद्द्रुतिं शुद्धसूतं समं क्षौद्रैर्दिनत्रयम् । मर्दितं लेहयेन्माषं मासाद्बालो भवेन्नरः ॥ १२९ ॥ वत्सराद्ब्रह्मतुल्यः स्याद्रसोऽयं बालसुन्दरः । बाकुचीबीजकर्षैकं मध्वाज्याभ्यां लिहेदनु ॥ १३० ॥ ब्रह्मपञ्जररसः । चतुःपलं शुद्धसूतं पलैकं मृतहाटकम् । पलाशकुड्मलद्रावैस्तत्तैलैश्च दिनत्रयम् ॥ १३१ ॥ मर्दयेत्तप्तखल्वे तु स्वर्णतुल्यं च गन्धकम् । शोधितं निक्षिपेत्तस्मिन् पूर्वोक्तैर्मर्दयेद्दिनम् ॥ १३२ ॥ माषमात्रां वटीं खादेद्वत्सरान्मृत्युजिद्भवेत् । जीवेद्ब्रह्मादिनं वीरो रसोऽयं ब्रह्मपञ्जरः ॥ १३३ ॥ वानरीकाकतुण्ड्युत्थबीजचूर्णं समं समम् । शाल्मलीत्वग्दलद्रावैर्भावयेद्दिवसत्रयम् ॥ १३४ ॥ त्र्यहं च भृङ्गजैर्द्रावैर्भावितं चूर्णयेत्ततः । पुरातनगुडैस्तुल्यं कर्षकमनु भक्षयेत् ॥ १३५ ॥ शिवामृतरसः । रक्तभूमौ तु भूनागान् ग्राहयित्वा परीक्षयेत् । छेदे निर्याति रक्तं चेत्तान् स्वीकुर्यात्प्रयत्नतः ॥ १३६ ॥ कृष्णवर्णगवाज्येन समेन सह तान् पचेत् । लोहजे चालयन् पात्रे यावत्सिन्दूरवर्णकम् ॥ १३७ ॥ तत्सर्वं जायते भस्म तत्तुल्यं मृतपारदम् । मधुनाऽऽलोडितं सर्वं गुञ्जाधार्धं विवर्धयन् ॥ १३८ ॥ पञ्चाङ्गुञ्जां सदा खादेद्यावत्संवत्सरावधि । शिवामृतो रसो नाम जरामृत्युहरो नृणाम् । आयुर्ब्रह्मादिनं दत्ते शिवाम्बु पाययेदनु ॥ १३९ ॥


१ 'तिलैः सह' ख. ।

३.] रसरत्नाकरस्य रसायनखण्डः । १९ एवं दिव्यरसायनैः समुचितैः सारातिसारैः शुभैः सिद्धं देहमनेकसाधनवलाद्येषां तु दृष्टं मया । तानाराध्य च तेषु सारमखिलं संगृह्य शास्त्रादपि भूपानां विदुषां महामतिमतां प्रोक्तं हितार्थाय वै ॥ १४० इति श्रीपार्वतीपुत्रनित्यनाथसिद्धविरचिते रसरत्नाकरे चतुर्थे रसायनखण्डे दिव्यरसदेहसाधनं नाम द्वितीय उपदेशः ॥ २ ॥ * अथ तृतीयोपदेशः । दिव्ययोगगुटिकारसायनं क्रामणेन रहितं न सिध्यति । शीघ्रसिद्धिकरमेव१ सेव्यतां क्रामणार्थमनुपानमत्र वै ॥ १ ॥ मृतसंजीवनीगुटिका । काकतुम्ब्री काकमाची निर्गुण्डी च कुमारिका । गोजिह्वा सैन्धवं गुञ्जा ह्यार्द्रकं च समं समम् ॥ २ ॥ पिष्ट्वा तेन प्रलेप्तव्या मूषा सर्वाऽङ्गुलावधि । पारदं व्योमसत्त्वं च कान्तं तीक्ष्णं च मुण्डकम् ॥ ३ ॥ ताप्यसत्त्वं च तुल्यांशं सर्वं संचूर्ण्य मर्दयेत् । दिनं जम्बीरजैर्द्रवैस्तन्मूषायां विनिक्षिपेत् ॥ ४ ॥ आच्छाद्यालेप्य कल्केन चान्धयित्वा विशोषयेत् । करीषाग्नौ दिवारात्रं पुटे पक्त्वा समुद्धरेत् ॥ ५ ॥ पुनः प्रलिप्तमूषायां क्षिप्त्वा रुद्ध्वा पुटेत्ततः । इत्येवं दशमूषासु प्रलिप्तासु विपाचयेत् ॥ ६ ॥ जायते गुटिका दिव्या मृतसंजीवनी परा । वक्त्रे शिरसि कण्ठे वा कर्णे वा२ धारिता करे ॥ ७ ॥ हेम्ना सुवेष्टिता सम्यग्वयःस्तम्भकरी परा । वलीपलितकालाग्निमृत्युशङ्काविनाशिनी ॥ ८ ॥ १ 'देहसिद्धिकरमेव' ख. । २ 'बाधां हरेदियम्' ख. ।

२० आयुर्वेदीयग्रन्थमाला । [उपदेशः

वर्षमात्रान्न संदेहो जीवेद्वर्षशतत्रयम् । शुद्धगन्धपलैकं तु गवां क्षीरैः पिबेत्सदा ॥ ९ ॥ अनेन त्वनुपानेन देहे संक्रमते रसः । वज्रेश्वरीगुटिका । समुखं पारदं कान्तं मुण्डलोहाभ्रसत्त्वकम् ॥ १० ॥ ताप्यसत्त्वं मृतं वज्रं सर्वं जम्बीरजैर्द्रवैः । सप्ताहं मर्दयेत्तुल्यं कृत्वा गोलं समुद्धरेत् ॥ ११ ॥ निर्गुण्डी सैन्धवं क्षौद्रं गोजिह्वा काकतुण्डिका । पिष्ट्वा तु लेपयेद्गोलं सर्वतोऽङ्गुलमात्रकम् ॥ १२ ॥ तं रुद्ध्वा वज्रमूषायां पचेद्यामं तु भूधरे । लिप्त्वा रुद्ध्वा पुनः पाच्यमित्येवं पक्षमात्रकम् ॥ १३ ॥ यवचिञ्चापलाशोत्थराजीकार्पासबीजकैः । सुपिष्टैर्लेपयेन्मूषां तन्मध्ये पूर्वगोलकम् ॥ १४ ॥ टङ्कणं श्वेतकाचं च दत्त्वा पृष्ठे निरुध्य च । खदिराङ्गारयोगेन धमेदद्यावद्द्रुतं भवेत् ॥ १५ ॥ ततस्तं बिडलिप्तायां मूषायां च निवेशयेत् । तत्तुल्यं दापयेत्स्वर्णं जारयेत्तं धमन् धमन् ॥ १६ ॥ जीर्णे स्वर्णे समुद्धृत्य तप्तखल्वे विमर्दयेत् । त्र्यहं दिव्यौषधिद्रावैर्वज्रमूषान्धितं धमेत् ॥ १७ ॥ जायते गुटिका दिव्या नाम्ना वज्रेश्वरी परा । वक्त्रस्था सा जरां मृत्युं हन्ति संवत्सरात्किल ॥ १८ ॥ शस्त्रस्तम्भं च कुरुते ब्रह्मायुर्गच्छति ध्रुवम् । कृष्णाष्टम्यां समादाय सहदेवीं सुचूर्णयेत् ॥ १९ ॥ कर्षैकां भक्षयेदाज्यै्रनु स्यात्क्रमणे हितम् । वज्रसुन्दरीगुटिका । आरक्तं मेघनादं तु तथा पाषाणभेदकम् ॥ २० ॥


१ 'पिष्टैर्निरुन्धयेत्' ख. ।

रसरत्नाकरस्य रसायनखण्डः । २१ स्त्रीस्तन्यसहितं पिष्ट्वा तेन मूषां प्रलेपयेत् । भागैकं मृतवज्रस्य स्वर्णचूर्णस्य षोडश ॥ २१ ॥ क्षित्वा तस्यां निरुन्ध्याथ याममात्रं दृढं धमेत् । उद्धृत्य निक्षिपेत्खल्वे शुद्धमूतं च तत्समम् ॥ २२ ॥ मर्दयेच्चार्द्रकद्रावैर्यावद्भवति गोलकंः । चण्डालीकन्दमादाय स्त्रीस्तन्येन सुपेषयेत् ॥ २३ ॥ अनेन गोलकं लिप्त्वा वज्रमूषां निरोधयेत् । पक्त्वा गजपुटे ग्राह्या गुटिका वज्रसुन्दरी ॥ २४ ॥ वर्षैकं धारयेद्वक्त्रे जीवेद्ब्रह्मदिनत्रयम् । ब्रह्मवृक्षस्य त्वक्चूर्णं क्षीरैर्नित्यं पलं पिवेत् ॥ २५ ॥ क्रामणं ह्यनुपानं स्यात्साधकस्यातिसिद्धिदम् । तदुद्भवमलैर्लिप्तं ताम्रं तु धमनेन हि ॥ २६ ॥ जायते कनकं दिव्यं सत्यं शङ्करभाषितम् । हेमसुन्दरीवटिका । समुखस्य रसेन्द्रस्य पूर्ववत्काञ्चनं समम् ॥ २७ ॥ जारयेद्विद्वयोगेन ततो मर्द्यं दिनत्रयम् । दिव्यौषधैः सगोमूत्रैर्वज्रमूषान्धितं धमेत् ॥ २८ ॥ उद्धृत्य धारयेद्वक्त्रे गुटिका हेमसुन्दरी । पलार्धं गन्धकं चाज्यैर्द्विगुणैर्लेहयेदनु ॥ २९ ॥ वर्षैकेन जरां हन्ति जीवेदाचन्द्रतारकम् । वज्रखेचरीगुटिका । शुद्धमूतं मृतं वज्रं व्योमसत्त्वं सहाटकम् ॥ ३० ॥ अम्लवर्गे समं सर्वं मर्दयेद्दिवसत्रयम् । तद्गोलकं दृढं कृत्वा छायायां शोषयेत्ततः ॥ ३१ ॥ ब्रह्मकार्पासबीजानि राजिका यवचिश्चिका । वन्ध्या सर्वं समं पिष्ट्वा पूर्वगोलं प्रलेपयेत् ॥ ३२ ॥ १ ‘क्षित्वा तु मर्दयेच्चानु चार्द्रकस्य द्रवैः पुनः’ ख. । २ ‘सुरसुन्दरी’ ख. ।

२२ आयुर्वेदीयग्रन्थमाला । [उपदेशः रुद्धा गजपुटे पच्यात्समुद्धृत्याथ लेपयेत् । रुद्धा मूषां धमेद्गाढं गुटिका वज्रखेचरी ॥ ३३ ॥ जायते धारिता वक्त्रे वत्सरान्मृत्युनाशिनी । १भूतावरवटचूर्णं तु पलैकं सितया युतम् ॥ ३४ ॥ भक्षयेत्क्रामणार्थं तु ब्रह्मायुर्जायते नरः । व्योमसुन्दरी वटिका । कार्पासाः काकमाच्याश्च कन्यायाश्च दलद्रवैः ॥ ३५ ॥ शुद्धसूतं दिनं मर्द्यं क्षाल्यमम्लैः समुद्धरेत् । तद्रसं निष्कचत्वारि निष्कार्धं ताम्रचूर्णकम् ॥ ३६ ॥ पादोननिष्कम्प्रोत्थं सत्त्वं पादं च हाटकम् । हेमतुल्यं मुण्डचूर्णं सर्वमम्लैर्विमर्दयेत् ॥ ३७ ॥ दिनान्ते गोलकं कृत्वा जम्बीरस्योदरे क्षिपेत् । त्रिदिनं दोलकायन्त्रे पाचयेत्सारनालके ॥ ३८ ॥ उद्धृत्य धारयेद्वक्त्रे गुटिका व्योमसुन्दरी । वर्षमात्रान्जरां हन्ति जीवेद्ब्रह्मदिनं नरः ॥ ३९ ॥ चित्रमूलस्य चूर्णं तु सक्षौद्रं कान्तपात्रके । आलोड्य भक्षयेत्कर्षमनु स्यात्क्रामणे हितम् ॥ ४० ॥ हाटकेश्वरीगुटिका । निष्कमेकं स्वर्णपत्रं त्रिनिष्कं शुद्धपारदम् । जम्बीरशरपुङ्खोत्थद्रवैर्मर्द्यं दिनावधि ॥ ४१ ॥ तद्गोलं बन्धयेद्वस्त्रे पचेद्गोक्षीरपूरिते । दोलायन्त्रे दिवारात्रं गुटिका हाटकेश्वरी ॥ ४२ ॥ जायते धारिता वक्त्रे जरामृत्युविनाशिनी । वर्षमात्रान्न संदेहो जीवेद्वर्षायुतं नरः ॥ ४३ ॥ दिनैकं त्रिफलाचूर्णं क्वाथैः खदिरबीजकैः । भावितं मधुसर्पिर्भ्यां पलैकं क्रामकं लिहेत् ॥ ४४ ॥ १ 'भूतावरटचूर्णं' ख. ।

रसरत्नाकरस्य रसायनखण्डः । २३ अर्कप्रभावती गुटिका । रसनिष्कत्रयं शुद्धं निष्कैकं ताम्रचूर्णकम् । चिञ्चाफलाम्लतक्राभ्यां खल्वे मर्द्य दिनावधि ॥ ४५ ॥ तद्गोलं बन्धयेद्वस्त्रैस्तक्रचिञ्चाम्लपूरिते । दोलायन्त्रे दिनं पच्याद्गुटिकाऽर्कप्रभावती ॥ ४६ ॥ वर्षैकं धारयेद्वक्त्रे सूर्यतुल्यो भवेन्नरः । पालाशबीजजं तैलं गोक्षीरैः कर्षमात्रकम् ॥ ४७ ॥ क्रामकं ह्यनुपानं स्याज्जरामृत्युहरं परम् । सुरसुन्दरी वटिका । स्वर्णमेकं कान्तमेकं पश्चतारं द्विपारदम् ॥ ४८ ॥ त्रिभागं व्योमसत्त्वं स्यात् षड्भागं शुल्वचूर्णकम् । सर्वमेतत्कृतं सूक्ष्मं तप्तखल्वे दिनत्रयम् ॥ ४९ ॥ मर्दयेदम्लवर्गेण दोलायन्त्रे सकाञ्जिके । तद्गोलं त्रिदिनं पच्याद्गुटिका सुरसुन्दरी ॥ ५० ॥ जायते धारिता वक्त्रे वर्षान्मृत्युजरापहा । भूतारवटमूलं च कर्षं क्षीरैः पिबेदनु ॥ ५१ ॥ वज्रतुण्डवटिका । स्वर्णतारार्कमुण्डं च वङ्गसीसाभ्रसत्त्वकम् । एतत्सर्वं समं चूर्ण चूर्णांशं मृतवज्रकम् ॥ ५२ ॥ सर्वतुल्यं शुद्धसूतं सर्वं दिव्यौषधिद्रवैः । मर्दयेद्दिनमेकं तु वज्रमूषानिधतं धमेत् ॥ ५३ ॥ गुटिका वज्रतुण्डेयं जायते धारिता मुखे । जरामृत्युं शस्त्रसंघं नाशयेद्वत्सरात्किल ॥ ५४ ॥ वज्रकायो महावीरो जीवेद्वर्षशतत्रयम् । कुमार्याः स्वरसं ग्राह्यं गुडेन सह लोडयेत् ॥ ५५ ॥ 'भूतावरटमूलं' ख.

२४ आयुर्वैदीयग्रन्थमाला । [उपदेशः पलैकं क्रामकं लेह्यमनुपानं सदैव हि । कामसुन्दरीगुटिका । स्वर्णचूर्णं तु भागैकं त्रिभागं शुद्धपारदम् ॥ ५६ ॥ पादभागं मृतं वज्रं तत्सर्वं क्षीरकन्दजैः । द्रवैश्च देवदाल्युत्थैस्तप्तखल्वे दिनावधि ५७ ॥ मर्दयेत्कान्तचूर्णं च वज्रतुल्यं क्षिपेच्च वै । वज्रमूषान्धितं धाम्यं गुटिका कामसुन्दरी ॥ ५८ ॥ जायते धारिता वक्त्रे वर्षान्मृत्युजरापहा । निष्कत्रयं ब्रह्मतैलं गवां क्षीरं पलद्वयम् ॥ ५९ ॥ मिश्रितं पाययेच्चानु लक्षायुर्जायते नरः । गान्धारीगुटिका । लोहपात्रे द्रुते गन्धे पादांशं पारदं क्षिपेत् ॥ ६० ॥ किंचिच्चाल्यं तु काष्ठेन मुहूर्तादवतारयेत् । शतावरी क्षीरकन्दो वज्रवल्लीन्द्रवारुणी ॥ ६१ ॥ पाठा पुनर्नवा चिञ्चा लाङ्गली सुरदालिका । एतासां वस्त्रपूतैश्च द्रवैर्मर्घ्यं दिनत्रयम् ॥ ६२ ॥ तस्मिन् पात्रे लोहमुष्ट्या छायांशुष्कं वटीकृतम् । लोहसंपुटगं रुद्धा संधिं मृल्लवणैर्दृढम् ॥ ६३ ॥ तं धमेत्खदिराङ्गारैर्यावदारक्तमुद्धरेत् । उत्खन्योत्खन्य तन्मध्यादुद्धरेच्चद्रसं पुनः ॥ ६४ ॥ काचटङ्कणसंयुक्तं मूषायां चान्धितं पचेत् । गान्धारीगुटिका सिद्धा वर्षे वक्त्रे स्थिता सदा ॥६५॥ काकतुण्डीबीजतैलं कर्षैकं नस्यमाचरेत् । क्रामकं ह्यनुपानं स्याज्जीवेद्वर्षसहस्रकम् ॥ ६६ ॥ मातङ्गी गुटिका । शुद्धसूतसमं गन्धं मर्दनात्कजलीकृतम् । १ 'शुष्कं तं च विचूर्णयेत्' ख.

३.] रसरत्नाकरस्य रसायनखण्डः । २५ तत्ताम्रसंपुटे रुद्ध्वा लवणेन मृदा दृढम् ॥ ६७ ॥ शुष्कं दीपाग्निना पच्याद्यामैकं भस्मयन्त्रके ॥ ६८ ॥ संपुटस्योर्ध्वलग्नं तत्समुद्धृत्याथ मर्दयेत् । तुल्यपारदसंयुक्तं पूर्ववत्संुपुटे पचेत् ॥ ६९ ॥ उद्धृत्य तुल्यमृतेन संयुक्तं मर्दितं पचेत् । इत्येवं सप्तधा कुर्यात्पुनः पारदटङ्कणम् ॥ ७० ॥ तुल्यं तुल्यं क्षिपेत्तस्मिन् दिनं सर्वं विमर्दयेत् । वज्रमूषागतं रुद्ध्वा धमाते खोटो भवेद्रसः ॥ ७१ ॥ मार्तण्डी गुटिका ह्येषा वर्षैकं यस्य वक्त्रगा । वलीपलितमुक्तोऽसौ जीवेदाचन्द्रतारकम् ॥ ७२ ॥ पलाशबीजजं तैलं पलैकं क्षीरतुल्यकम् । क्रामणं प्रपिबेन्नित्यं तत्क्षणान्मूर्च्छितो भवेत् ॥ ७३ ॥ तस्य वक्त्रे गवां क्षीरं स्तोकं स्तोकं निषेचयेत् । प्रबुद्धे क्षीरमन्नं स्याद्भोजने परमं हितम् ॥ ७४ ॥ तस्य मूत्रपुरीषाभ्यां ताम्रं भवति काञ्चनम् । वायुवेगो महासिद्धश्छिद्रां पश्यति मेदिनीम् ॥ ७५ ॥ तारकेश्वरीगुटिका । काकमाच्यमृताद्रावैः पारदं तालकं समम् । मर्दयेद्दिनमेकं तु कृत्वा गोलं विशोषयेत् ॥ ७६ ॥ निक्षिपेद्वज्रमूषायामाच्छाद्य लोहैःपर्पटैः । रुद्ध्वा सन्धिं धमेद्गाढं खोटबद्धो भवेद्रसः ॥ ७७ ॥ लोहपर्पटकं दत्त्वा तद्वद्धाम्यं त्रिधा पुनः । वर्षैकं धारयेद्वक्त्रे गुटिका तारकेश्वरी ॥ ७८ ॥ बाकुचीबीजकर्षैकं गवां क्षीरैः पिबेदनु । 'दीप्ताग्निना' ख.। २ 'बद्धो' ख.। ३ 'पर्पटीरसैः' ख। ३

२६ आयुर्वेदीयग्रन्थमाला । [ उपदेशः विद्यावागीश्वरी गुटिका । व्योमसत्त्वं मृतं वज्रं स्वर्णतारार्कमुण्डकम् ॥ ७९ ॥ तीक्ष्णं कान्तं तालकं च शुद्धं कृत्वा विमिश्रयेत् । सूक्ष्मचूर्णं समं सर्वं चूर्णांशं शुद्धपारदम् ॥ ८० ॥ त्रिदिनं चाम्लवर्गेण मर्दितं चान्धितं धमेत् । विद्यावागीश्वरी ख्याता गुटिका वत्सरावधि ॥ ८१ ॥ यस्य वक्त्रे स्थिता तस्य जरा मृत्युर्न विद्यते । कर्षं ज्योतिष्मतीतैलं क्रामणार्थं पिबेत्सदा ॥ ८२ ॥ वाक्पतिर्जायते धीरो जीवेच्चन्द्रार्कतारकम् । वज्रतुण्डवाटिका । कान्तपाषाणमाक्षीकं टङ्कणं कर्कटास्थि च ॥ ८३ ॥ स्नुह्यर्कक्षीरभूनागं सर्वमेतत्समं भवेत् । स्त्रीस्तन्येन दिनं मर्द्यं तेन मूषां प्रलेपयेत् ॥ ८४ ॥ तन्मध्ये द्रुतसूतं १ तु वज्रभस्म समं समम् । क्षिप्त्वा रुद्ध्वा पुटे पच्याद्गजाख्ये याममात्रकम् ॥ ८५ ॥ ततः प्रलिप्तमूषायां क्षिप्त्वा रुद्ध्वा धमेद्दृढात् । एवं पुनः पुनः कार्यं वज्रसूतं मिलत्यलम् ॥ ८६ ॥ ततस्तस्यैव दातव्यं समं काचं सटङ्कणम् । एवं मूषाशते देयं तुल्यं तुल्यं धमन् धमन् ॥ ८७ ॥ तेजःपुञ्जो रसेन्द्रोऽसौ भवेन्मार्तण्डसंनिभः । गुटिका वज्रतुण्डेयं वक्त्रस्था मृत्युनाशिनी ॥ ८८ ॥ वर्षमात्रान्न संदेहो रुद्रतुल्यो भवेन्नरः । तस्य मूत्रपुरीषाभ्यां पूर्ववत्काञ्चनं भवेत् ॥ ८९ ॥ पञ्चाङ्गं भक्षयेत्कर्षं रुदन्त्या मधुसर्पिषा । गगनेश्वरीगुटिका । टङ्कणं कर्कटास्थीनि ऊर्णा चैव शिलाजतु ॥ ९० ॥ १ 'शुद्धसूतं' ख ।

३.] रसरत्नाकरस्य रसायनखण्डः । २७ महिषीकर्णनेत्रोत्थं मलं स्त्रीस्तन्यकैः समम् । पिष्ट्वा तल्लिप्तमूषायामभ्रसत्त्वं क्षिपेद्धमेत् ॥ ९१ ॥ सत्त्वतुल्यं क्षिपेत्तत्र पूर्ववद्द्रुतपारदम्¹ । द्रवं दिव्यौषधीनां च दत्त्वा तत्रैव तद्धमेत् ॥ ९२ ॥ मिलितो जायते बद्धः पूर्ववत्काचटङ्गणैः । ध्मातो मूषाशतेनायं तेजःपुञ्जो भवेद्रसः ॥९३ ॥ वर्षैकं धारयेद्वक्रे शिवतुल्यो भवेन्नरः । अजरामरकारीयं गुटिका गगनेश्वरी ॥ ९४ ॥ बिल्वबीजोत्थितं तैलं निष्कमात्रं पिबेदनु । उदरे जायते वह्निः पिबेत्क्षीरं पुनः पुनः ॥ ९५ ॥ साक्षाज्जातिस्मरत्वं च कवित्वं श्रुतधारणम् । खेचरत्वमदृश्यत्वं जायते नात्र संशयः ॥ ९६ ॥ आनन्दगुटिका । अग्निमन्थो वज्रवल्ली सूरणं वनसूरणम् । चित्रकश्च द्रवैरेषां शुद्धमृतं दिनावधि ॥ ९७ ॥ मर्दयेत्तप्तखल्वे तु तं रसं पलमात्रकम् । पलं पलं तालवङ्गौ तत्सर्वं चाम्लवेतसैः ॥ ९८ ॥ मर्दयेद्दिनमेकं तु कृत्वा तं गोलकं पुनः । चतुःपलां नागमूषां कृत्वा तस्यां तु तत्क्षिपेत् ॥ ९९॥ चतुष्पले शुद्धताम्रसंपुटे तां निरोधयेत् । मृण्मूषायां तु तां रुद्ध्वाऽरण्योत्पलकैः पुटेत् ॥१००॥ शतद्वयप्रमाणैस्तु स्वाङ्गशीतं समुद्धरेत् । सर्वं दिव्यौषधद्रावैर्मर्दयेद्दिवसत्रयम् ॥ १०१ ॥ चतुर्निष्कमिता कार्या वटिका, शोषयेत्ततः । एकैकां वज्रमूषायां रुद्ध्वा तीव्राग्निना धमेत् ॥ १०२ ॥ १ ‘पूर्ववच्छुद्धपारदम्’ ख. ।

२८ आयुर्वेदियग्रन्थमाला । [ उपदेशः आनन्दगुटिका ह्येषा वक्त्रस्था मृत्युनाशिनी । वत्सरान्नात्र संदेहो जीवेद्ब्रह्मदिनत्रयम् ॥ १०३ ॥ तैलं वातारिबीजोत्थं गोक्षीरैर्निष्कमात्राकम् । क्रामणार्थं पिबेन्नित्यं शीघ्रसिद्धिकरं परम् ॥ १०४ ॥ वज्रखेचरिकावटिका । वज्रभस्मसमं सूतं हंसपाद्या द्रवैर्यहम् । मर्दितं द्वन्द्वमूषायां लिप्तायां चान्वितं पुटेत् ॥ १०५ ॥ भूधराख्ये दिवारात्रौ समुद्धृत्याथ तस्य वै । पूर्वांशं पारदं दत्त्वा हंसपाद्या द्रवैरुयहम् ॥ १०६ ॥ मर्दितं द्वन्द्वलिप्तायां मूषायां चान्वितं धमेत् । तत्खोटं धमनाच्छोध्यं काचटङ्कणयोगतः ॥ १०७ ॥ नक्षत्राभं भवेद्यावत्तावद्धाम्यं पुनः पुनः । तद्रसं व्योमसत्त्वं च काञ्चनं च

२. द्वितीय उपदेश: महारस, उपरस, गन्धक-जारण एवं स्वर्ण-रजत भस्म कल्प

३.] रसरत्नाकरस्य रसायनखण्डः । २९ वेष्टयेद्भूर्जपत्रेण वस्त्रे बद्ध्वा पचेत्र्यहम् । दोलायन्त्रे सारनाले जातं गोलं समुद्धरेत् ॥ ११५ ॥ गान्धारी जीवनी चैव लाङ्गली चेन्द्रवारुणी । एतासां पिण्डकल्केन वेष्टयेत्पूर्वगोलकम् ॥ ११६ ॥ अन्धयित्वा दिनं पच्याद्भूधरे तं समुद्धरेत् । पुनर्लेप्यं पुनः पाच्यं चतुर्दशदिनावधि ॥ ११७ ॥ गुटिका जायते दिव्या नाम्ना रत्नेश्वरी तथा । वक्रस्था वर्षमात्रं तु नन्दितुल्यो भवेन्नरः ॥ ११८ ॥ जीवेद्वर्षसहस्राणि दिव्यतेजा महाबलः । वर्षद्वादशपर्यन्तं यस्य वक्रे स्थिता तु सा ॥ ११९ ॥ तस्य प्रस्वेदसंपर्कादष्टलोहानि काञ्चनम् । जायन्ते नात्र संदेहः सत्यमीश्वरभाषितम् ॥ १२० ॥ पञ्चाङ्गचूर्णं मध्वाज्यै रुदन्त्युत्थं लिहेदनु । दिव्यखेचरीवटिका । स्वर्णं कृष्णाभ्रसत्त्वं च तारं ताम्रं सुचूर्णितम् ॥ १२१ ॥ समांशं द्वन्द्वलिप्तायां मूषायां चान्धितं धमेत् । तत्खोटं भागचत्वारि भागैकं मृतवज्रकम् ॥ १२२ ॥ माक्षिकं तीक्ष्णकान्तं च भागैकैकं सुचूर्णितम् । समस्तं द्वन्द्वलिप्तायां मूषायां चान्धितं धमेत् ॥ १२३ ॥ तत्खोटं सूक्ष्मचूर्णं तु चूर्णांशं द्रुतसूतकम् । त्रिदिनं तप्तखल्वे तु मर्द्यं दिव्यौषधिद्रवैः ॥ १२४ ॥ रुद्ध्वाऽथ भूधरे पच्यादहोरात्रात्समुद्धरेत् । द्रुतसूतं पुनस्तुल्यं दत्त्वा मर्द्य पुटेत्तथा ॥ १२५ ॥ इत्येवं सप्तवारांस्तु द्रुतं सूतं समं समम् । दत्त्वा मर्द्य पुटे पच्याज्जायते भस्मसूतकः ॥ १२६ ॥ भस्मसूतसमं गन्धं दत्त्वा रुद्ध्वा धमेद्दृढम् । जायते गुटिका दिव्या विख्याता दिव्यखेचरी ॥ १२७ ॥

३० आयुर्वेदीयग्रन्थमाला । [उपदेशः वर्षैकं धारयेद्वक्त्रे जीवेत्कल्पसहस्रकम् । तस्य मूत्रपुरीषाभ्यां सर्वलोहस्य लेपनात् ॥ १२८ ॥ जायते कनकं दिव्यं समावर्ते न संशयः । पलद्वयं भृङ्गराजद्रवं चानु पिबेत्सदा ॥ १२९ ॥ पूर्वोक्तं भस्मसूतं वा गुञ्जामात्रं सदा लिहेत् । वर्षैकं मधुनाऽऽज्येन लक्षायुर्जायते नरः ॥ १३० ॥ वलीपलितनिर्मुक्तो महाबलपराक्रमः । स्वर्णवैक्रान्तबद्धरसः । स्वर्णं वैक्रान्तसत्त्वं च द्वन्द्वितं जारयेद्रसे ॥ १३१ ॥ समांशं तु भवेद्यावत्तस्तेनैव सारयेत् । समेन जायते बद्धो धारयेत्तं मुखे सदा ॥ १३२ ॥ संवत्सरप्रयोगेण जराकालापमृत्युजित् । कुमार्या दलजं द्रावं सितायुक्तं पिबेदनु ॥ १३३ ॥ स्वर्णवैक्रान्तबद्धोऽयं ब्रह्मायुर्यच्छते नृणाम् । वैक्रान्तवटिका । वैक्रान्तसत्त्वतुल्यांशं शुद्धसूतं विमर्दयेत् ॥ १३४ ॥ दिनं दिव्यौषधद्रावैस्तद्गोलं निगडेन वै । लिप्त्वा लवणगर्भायां वज्रमूष्यां निरोधयेत् ॥ १३५ ॥ छायायां शोषयेत्सन्धिं त्रिदिनं तुषवह्निना । स्वेदयेद्वा करीषाग्नौ दिवारात्रमथोद्धरेत् ॥ १३६ ॥ तद्गोलं निगडेनैव लिप्त्वा तद्वन्निरुध्य च । छायाशुष्कं धमेद्गाढं बन्धमायाति निश्चितम् ॥१३७॥ वर्षैकं धारयेद्वक्त्रे जीवेद्ब्रह्मदिनत्रयम् । वैक्रान्तगुटिका ह्येषा सर्वकामफलप्रदा ॥ १३८ ॥ कर्षैकं त्रिफलाचूर्णं मध्वाज्याभ्यां लिहेदनु । १ 'जारयेत्' ख. ।

३.] रसरत्नाकरस्य रसायनखण्डः । ३१ दिव्यखेचरीगुटिका । हेम्ना यद्वन्दितं वज्रं कुर्यात्तत्सूक्ष्मचूर्णितम् ॥ १३९ ॥ एतद्देयं गुहामृते मूषायामधरोत्तरम् । पादमात्रं प्रयत्नेन रुद्ध्वा सन्धिं विशोषयेत् ॥ १४० ॥ भूधराख्ये दिनं पच्यात्समुद्धृत्याथ मर्दयेत् । दिव्यौषधफलद्रावैस्तप्तखल्वे दिनावधि ॥ १४१ ॥ रुद्ध्वाऽथ भूधरे पच्याद्दिनं लघुपुटैः पुटेत् । समुद्धृत्य पुनस्तद्वन्मर्द्यं रुद्ध्वा दिनत्रयम् ॥ १४२ ॥ तुषाग्निना शनैः स्वेद्यमूर्ध्वाधः परिवर्तयन् । जायते भस्ममूतोऽयं सर्वयोगेषु योजयेत् ॥ १४३ ॥ द्रुतमूतस्य भागैकं भागैकं पूर्वभस्मकम् । शुद्धनागस्य भागैकं सर्वमम्लेन मर्दयेत् ॥ १४४ ॥ अन्धमूषागतं धाम्यं खोटो भवति तद्रसः । धमेत्प्रकटमूषायां यावन्नागक्षयो भवेत् ॥ १४५ ॥ द्रुतमूतप्रकारेण द्रावयित्वा त्विमं रसम् । निक्षिपेत्कच्छपे यन्त्रे विडं दत्त्वा दशांशतः ॥ १४६ ॥ स्वर्णादिसर्वलोहानि क्रमेणैव च जारयेत् । प्रत्येकं षड्गुणं पश्चाद्वज्रद्वन्द्वं च जारयेत् ॥ १४७ ॥ त्रिगुणं तु भवेद्यावत्ततो रत्नानि वै क्रमात् । जारयेद्रावितान्येव प्रत्येकं त्रिगुणं शनैः ॥ १४८ ॥ ततो यन्त्रात्समुद्धृत्य दिव्यौषधद्रवैर्दिनम् । मर्द्यं रुद्ध्वा धमेद्गाढं जायते गुटिका शुभा ॥ १४९ ॥ पूजयेदङ्कुशीमन्त्रैर्नाम्नेयं दिव्यखेचरी । यस्य वक्रे स्थिता ह्येषा स भवेद्भैरवोपमः ॥ १५० ॥ दिव्यतेजा महाकायः खेचरत्वेन गच्छति । यत्रेच्छा तत्र तत्रैव क्रीडते ह्यङ्गनादिभिः ॥ १५१ ॥

३२ आयुर्वेदियग्रन्थमाला । [उपदेशः महाकल्पान्तपर्यन्तं तिष्ठत्येव न संशयः । तस्य मूत्रपुरीषाभ्यां ताम्रं भवति काञ्चनम् ॥ १५२ ॥ पलाशपुष्पचूर्णं तु तिलाः कृष्णाः सशर्कराः । सर्वं पलत्रयं खादेन्नित्यं स्यात् क्रामणे हितम् ॥ १५३॥ प्रचण्डखेचरीगुटिका । चूर्णमश्वखुरस्यैव गुह्यसूते समं क्षिपेत् । त्रिदिनं मातुलुङ्गाम्लैस्तत्सर्वं मर्दयेद्दृढम् ॥ १५४ ॥ सूततुल्यं मृतं वज्रं तस्मिन् क्षिप्त्वाऽथ मर्दयेत् । तप्तखल्वे दिनं चाम्लैस्तद्गोलं चान्वितं पुटेत् ॥ १५५ ॥ दिनैकं भूधरे यन्त्रे भागैकं पूर्वपारदम् । क्षिप्त्वा तस्मिन् दृढं मर्द्यं मातुलुङ्गरद्रवैर्दिनम् ॥ १५६ ॥ रुद्धाऽथ पूर्ववत्पच्यात्पुनर्देयश्च पारदः । मर्द्यं पाच्यं यथापूर्वमेवं कुर्याच्च सप्तधा ॥ १५७ ॥ रसं पुनः पुनर्दत्त्वा स्यादेवं भस्मसूतकः । योजयेत्सर्वयोगेषु जरामृत्युहरो भवेत् ॥ १५८ ॥ भागैकं नागचूर्णस्य भागैकं पूर्वभस्मनः । द्रुतसूतस्य भागैकं खोटं कुर्याच्च पूर्ववत् ॥ १५९ ॥ तद्वद्भागं गते नागे द्रावितं जारयेत्पुनः । पूर्ववल्लोहरत्नान्तं जीर्णे बद्धा स्थिता मुखे ॥ १६० ॥ प्रचण्डखेचरी नाम्नी गुटिका खे गतिप्रदा । पूर्ववल्लभते वीरः फलमत्यन्तदुर्लभम् ॥ १६१ ॥ निर्गुण्डीमूलचूर्णं तु कर्षं तक्रैः पिबेदनु । कङ्कालखेचरीगुटिका । शुद्धसूतस्य दातव्यं कलांशं मृतवज्रकम् ॥ १६२ ॥ तत्सर्वमम्लवर्गेण तप्तखल्वे दिनत्रयम् । मर्दयित्वा ततस्तेन लेपयेत्समभागतः ॥ १६३ ॥ १ 'जारितं द्रावयेत्पुनः' ख. ।