भारतकोश
संग्रह पर लौटें

ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

Ribhu Gita of Shiva Rahasya Hindi

महर्षि ऋभु / महर्षि निदाघ द्वारा

स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)

DevanagariHindipublished249 पृष्ठ

नाहं विश्वो न जाग्रद्वा स्थूलदेहो न मे क्वचित् । न प्रातिभासिको जीवो न चाहं व्यावहारिकः ॥ २२.४४॥

न पारमार्थिको देवो नाहमन्नमयो जडः । न प्राणमयकोशोऽहं न मनोमयकोशवान् ॥ २२.४५॥

न विज्ञानमयः कोशो नानन्दमयकोशवान् । ब्रह्मैवाहं न सन्देहो नामरूपे न किञ्चन ॥ २२.४६॥

एतावदुक्त्वा सकलं नामरूपद्वयात्मकम् । सर्वं क्षणेन विस्मृत्य काष्ठलोष्टादिवत् त्यजेत् ॥ २२.४७॥

एतत्सर्वमसन्नित्यं सदा वन्ध्याकुमारवत् । शशशृङ्गवदेवेदं नरशृङ्गवदेव तत् ॥ २२.४८॥

आकाशपुष्पसदृशं यथा मरुमरीचिका । गन्धर्वनगरं यद्यदिन्द्रजालवदेव हि ॥ २२.४९॥

असत्यमेव सततं पञ्चरूपकमिष्यते । शिष्योपदेशकालो हि द्वैतं न परमार्थतः ॥ २२.५०॥

माता मृते रोदनाय द्रव्यं दत्त्वाऽह्वयेज्जनान् । तेषां रोदनमात्रं यत् केवलं द्रव्यपञ्चकम् ॥ २२.५१॥

तदद्वैतं मया प्रोक्तं सर्वं विस्मृत्य कुड्यवत् । अहं ब्रह्मेति निश्चित्य अहमेवेति भावय ॥ २२.५२॥

अहमेव सुखं चेति अहमेव न चापरः । अहं चिन्मात्रमेवेति ब्रह्मैवेति विनिश्चिनु ॥ २२.५३॥

अहं निर्मलशुद्धेति अहं जीवविलक्षणः । अहं ब्रह्मैव सर्वात्मा अहमित्यवभासकः ॥ २२.५४॥

अहमेव हि चिन्मात्रमहमेव हि निर्गुणः । सर्वान्तर्याम्यहं ब्रह्म चिन्मात्रोऽहं सदाशिवः ॥ २२.५५॥

नित्यमङ्गलरूपात्मा नित्यमोक्षमयः पुमान् । एवं निश्चित्य सततं स्वात्मानं स्वयमास्थितः ॥ २२.५६॥

ब्रह्मैवाहं न सन्देहो नामरूपे न किञ्चन । एतद्रूपप्रकरणं सर्ववेदेषु दुर्लभम् । यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयं ॥ २२.५७॥

तं वेदादिवचोभीरीडितमहायागैश्च भोगैर्वृतै-
र्दानैश्चानशनैर्यमादिनियमैस्तं विद्विषन्ते द्विजाः ।
तस्यानङ्गरिपोरतीव सुमहाहृद्यं हि लिङ्गार्चनं
तेनैवाशु विनाश्य मोहमखिलं ज्ञानं ददातीश्वरः ॥ २२.५८॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे नामरूपनिषेधप्रकरणं नाम द्वाविंशोऽध्यायः ॥

॥ त्रयोविंशोऽध्यायः ॥

ऋभुः -

निदाघ शृणु वक्ष्यामि सर्वलोकेषु दुर्लभम् ।
इदं ब्रह्म परं ब्रह्म सच्चिदानन्द एव हि ॥ 23.1॥

नानाविधजनं लोकं नाना कारणकार्यकम् ।
ब्रह्मैवान्यदसत् सर्वं सच्चिदानन्द एव हि ॥ 23.2॥

अहं ब्रह्म सदा ब्रह्म अस्मि ब्रह्मोहमेव हि ।
कालो ब्रह्म क्षणो ब्रह्म अहं ब्रह्म न संशयः ॥ 23.3॥

वेदो ब्रह्म परं ब्रह्म सत्यं ब्रह्म परात् परः ।
हंसो ब्रह्म हरिर्ब्रह्म शिवो ब्रह्म चिदव्ययः ॥ 23.4॥

सर्वोपनिषदो ब्रह्म सौम्यं ब्रह्म समोऽस्म्यहम् ।
अजो ब्रह्म रसो ब्रह्म वियद्ब्रह्म परात्परः ॥ 23.5॥

त्रुटिर्ब्रह्म मनो ब्रह्म वृष्टिर्ब्रह्म सदामुदः ।
इदं ब्रह्म परं ब्रह्म तत्त्वं ब्रह्म सदा जपः ॥ 23.6॥

अकारो ब्रह्म एवाहमुकारोऽहं न संशयः ।
मकारब्रह्ममात्रोऽहं मन्त्रब्रह्ममनुः परम् ॥ 23.7॥

शिकारब्रह्ममात्रोऽहं वाकारं ब्रह्म केवलम् ।
यकारं ब्रह्म नित्यं च पञ्चाक्षरमहं परम् ॥ 23.8॥

रेचकं ब्रह्म सद्ब्रह्म पूरकं ब्रह्म सर्वतः ।
कुम्भकं ब्रह्म सर्वोऽहं धारणं ब्रह्म सर्वतः ॥ 23.9॥

ब्रह्मैव नान्यत् तत्सर्वं सच्चिदानन्द एव हि ।
एवं च निश्चितौ मुक्तः सद्य एव न संशयः ॥ 23.10॥

केचिदेव महामूढाः द्वैतमेवं वदन्ति हि ।
न सम्भाष्याः सदानर्हाः नमस्कारे न योग्यता ॥ 23.11॥

मूढा मूढतराश्चान्यस्तथा मूढतमाः परे ।
एते न सन्ति मे नित्यं अहंविज्ञानमात्रतः ॥ 23.12॥

सर्वं चिन्मात्ररूपत्वादानन्दत्वान्न मे भयम् ।
अहमित्यपि नास्त्येव परमित्यपि न क्वचित् ॥ 23.13॥

ब्रह्मैव नान्यत् तत्सर्वं सच्चिदानन्द एव हि ।
कालातीतं सुखातीतं सर्वातीतमतीतकम् ॥ २३.१४॥

नित्यातीतमनित्यानाममितं ब्रह्म केवलम् ।
ब्रह्मैव नान्यत्सर्वं सच्चिदानन्दमात्रकम् ॥ २३.१५॥

द्वैतसत्यत्वबुद्धिश्च द्वैतबुद्ध्या न तत् स्मर ।
सर्वं ब्रह्मैव नान्योऽस्ति सर्वं ब्रह्मैव केवलम् ॥ २३.१६॥

बुद्ध्यातीतं मनोऽतीतं वेदातीतमतः परम् ।
आत्मातीतं जनातीतं जीवातीतं च निर्गुणम् ॥ २३.१७॥

काष्ठातीतं कलातीतं नाट्यातीतं परं सुखम् ।
ब्रह्ममात्रेण संपश्यन् ब्रह्ममात्रपरो भव ॥ २३.१८॥

ब्रह्ममात्रपरो नित्यं चिन्मात्रोऽहं न संशयः ।
ज्योतिरानन्दमात्रोऽहं निजानन्दात्ममात्रकः ॥ २३.१९॥

शून्यानन्दात्ममात्रोऽहं चिन्मात्रोऽहमिति स्मर ।
सत्तामात्रोऽहमेवात्र सदा कालगुणान्तरः ॥ २३.२०॥

नित्यसन्मात्ररूपोऽहं शुद्धानन्दात्ममात्रकम् ।
प्रपञ्चहीनरूपोऽहं सच्चिदानन्दमात्रकः ॥ २३.२१॥

निश्चयानन्दमात्रोऽहं केवलानन्दमात्रकः ।
परमानन्दमात्रोऽहं पूर्णानन्दोऽहमेव हि ॥ २३.२२॥

द्वैतस्वमात्रसिद्धोऽहं साम्राज्यपदलक्षणम् ।
इत्येवं निश्चयं कुर्वन् सदा तिष्ठ यथासुखम् ॥ २३.२३॥

दृढनिश्चयरूपात्मा दृढनिश्चयसन्मयः ।
दृढनिश्चयशान्तात्मा दृढनिश्चयमानसः ॥ २३.२४॥

दृढनिश्चयपूर्णात्मा दृढनिश्चयनिर्मलः ।
दृढनिश्चयजीवात्मा दृढनिश्चयमङ्गलः ॥ २३.२५॥

दृढनिश्चयजीवात्मा संशयं नाशमेष्यति ।
दृढनिश्चयमेवात्र ब्रह्मज्ञानस्य लक्षणम् ॥ २३.२६॥

दृढनिश्चयमेवात्र वाक्यज्ञानस्य लक्षणम् ।
दृढनिश्चयमेवात्र कारणं मोक्षसंपदः ॥ २३.२७॥

एवमेव सदा कार्यं ब्रह्मैवाहमिति स्थिरम् ।
ब्रह्मैवाहं न सन्देहः सच्चिदानन्द एव हि ॥ २३.२८॥

आत्मानन्दस्वरूपोऽहं नान्यदस्तीति भावय । ततस्तदपि सन्त्यज्य एक एव स्थिरो भव ॥ २३.२९॥

ततस्तदपि सन्त्यज्य निर्गुणो भव सर्वदा । निर्गुणत्वं च सन्त्यज्य वाचातीतो भवेत् ततः ॥ २३.३०॥

वाचातीतं च सन्त्यज्य चिन्मात्रत्वपरो भव । आत्मातीतं च सन्त्यज्य ब्रह्ममात्रपरो भव ॥ २३.३१॥

चिन्मात्रत्वं च सन्त्यज्य सर्वतूष्णींपरो भव । सर्वतूष्णीं च सन्त्यज्य महातूष्णींपरो भव ॥ २३.३२॥

महातूष्णीं च सन्त्यज्य चित्ततूष्णीं समाश्रय । चित्ततूष्णीं च सन्त्यज्य जीवतूष्णीं समाहर ॥ २३.३३॥

जीवतूष्णीं परित्यज्य जीवशून्यपरो भव । शून्यत्यागं परित्यज्य यथा तिष्ठ तथासि भो ॥ २३.३४॥

तिष्ठत्वमपि सन्त्यज्य अवाङ्मानसगोचरः । ततः परं न वक्तव्यं ततः पश्येन्न किञ्चन ॥ २३.३५॥

नो चेत् सर्वपरित्यागो ब्रह्मैवाहमितीरय । सदा स्मरन् सदा चिन्त्यं सदा भावय निर्गुणं ॥ २३.३६॥

सदा तिष्ठस्व तत्त्वज्ञ सदा ज्ञानी सदा परः । सदानन्दः सदातीतः सदादोषविवर्जितः ॥ २३.३७॥

सदा शान्तः सदा तृप्तः सदा ज्योतिः सदा रसः । सदा नित्यः सदा शुद्धः सदा बुद्धः सदा लयः ॥ २३.३८॥

सदा ब्रह्म सदा मोदः सदानन्दः सदा परः । सदा स्वयं सदा शून्यः सदा मौनी सदा शिवः ॥ २३.३९॥

सदा सर्वं सदा मित्रः सदा स्नानं सदा जपः । सदा सर्वं च विस्मृत्य सदा मौनं परित्यज ॥ २३.४०॥

देहाभिमानं सन्त्यज्य चित्तसत्तां परित्यज । आत्मैवाहं स्वयं चाहं इत्येवं सर्वदा भव ॥ २३.४१॥

एवं स्थिते त्वं मुक्तोऽसि न तु कार्या विचारणा । ब्रह्मैव सर्वं यत्किञ्चित् सच्चिदानन्द एव हि ॥ २३.४२॥

अहं ब्रह्म इदं ब्रह्म त्वं ब्रह्मासि निरन्तरः । प्रज्ञानं ब्रह्म एवासि त्वं ब्रह्मासि न संशयः ॥ २३.४३॥

दृढनिश्चयमेव त्वं कुरु कल्याणमात्मनः ।
मनसो भूषणं ब्रह्म मनसो भूषणं परः ॥ २३.४४॥

मनसो भूषणं कर्ता ब्रह्मैवाहमवेक्षतः ।
ब्रह्मैव सच्चिदानन्दः सच्चिदानन्दविग्रहः ॥ २३.४५॥

सच्चिदानन्दमखिलं सच्चिदानन्द एव हि ।
सच्चिदानन्दजीवात्मा सच्चिदानन्दविग्रहः ॥ २३.४६॥

सच्चिदानन्दमद्वैतं सच्चिदानन्दशंकरः ।
सच्चिदानन्दविज्ञानं सच्चिदानन्दभोजनः ॥ २३.४७॥

सच्चिदानन्दपूर्णात्मा सच्चिदानन्दकारणः ।
सच्चिदानन्दलीलात्मा सच्चिदानन्दशेवधिः ॥ २३.४८॥

सच्चिदानन्दसर्वाङ्गः सच्चिदानन्दचन्दनः ।
सच्चिदानन्दसिद्धान्तः सच्चिदानन्दवेदकः ॥ २३.४९॥

सच्चिदानन्दशास्त्रार्थः सच्चिदानन्दवाचकः ।
सच्चिदानन्दहोमश्च सच्चिदानन्दराज्यकः ॥ २३.५०॥

सच्चिदानन्दपूर्णात्मा सच्चिदानन्दपूर्णकः ।
सच्चिदानन्दसन्मात्रं मूढेषु पठितं च यत् ॥ २३.५१॥

शुद्धं मूढेषु यद्दत्तं सुबद्धं मार्गचारिणा ।
विषयासक्तचित्तेषु न संभाष्यं विवेकिना ॥ २३.५२॥

सकृच्छ्रवणमात्रेण ब्रह्मैव भवति स्वयं ।
इच्छा चेद्यदि नारीणां मुखं ब्राह्मण एव हि ॥ २३.५३॥

सर्वं चैतन्यमात्रत्वात् स्त्रीभेदं च न विद्यते ।
वेदशास्त्रेण युक्तोऽपि ज्ञानाभावाद् द्विजोऽद्विजः ॥ २३.५४॥

ब्रह्मैव तन्तुना तेन बद्धास्ते मुक्तिचिन्तकाः ।
सर्वमुक्तं भगवता रहस्यं शङ्करेण हि ॥ २३.५५॥

सोमापीडपदाम्बुजार्चनफलैर्युक्त्यै भवान् मानसं
नान्यद्योगपधा श्रुतिश्रवणतः किं कर्मभिर्यायते ।
युक्त्या शिक्षितमानसानुभवतोऽप्यस्पर्श्यास्पृशङ्गो वचां
किं ग्राह्यं भवतीन्द्रियार्थरहितानन्दैकसान्द्रः शिवः ॥ २३.५६॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे रहस्योपदेशप्रकरणं नाम त्रयोविंशोऽध्यायः ॥

॥ चतुर्विंशोऽध्यायः ॥

ऋभुः –

पुनः पुनः परं वक्ष्ये आत्मनोऽन्यदसत् स्वतः ।
असतो वचनं नास्ति सतो नास्ति सदा स्थिते ॥ २४.१॥

ब्रह्माभ्यास परस्याहं वक्ष्ये निर्णयमात्मनः ।
तस्यापि सकृदेवाहं वक्ष्ये मङ्गलपूर्वकम् ॥ २४.२॥

सर्वं ब्रह्माहमेवास्मि चिन्मात्रो नास्ति किंचन ।
अहमेव परं ब्रह्म अहमेव चिदात्मकम् ॥ २४.३॥

अहं ममेति नास्त्येव अहं ज्ञानीति नास्ति च ।
शुद्धोऽहं ब्रह्मरूपोऽहमानन्दोऽहमजो नरः ॥ २४.४॥
देवोऽहं दिव्यभानोऽहं तुर्योऽहं भवभाव्यहम् ।
अण्डजोऽहमशेषोऽहमन्तरादन्तरोऽस्म्यहम् ॥ २४.५॥

अमरोऽहमजस्रोऽहमत्यन्तपरमोऽस्म्यहम् ।
परापरस्वरूपोऽहं नित्यानित्यरसोऽस्म्यहम् ॥ २४.६॥

गुणागुणविहीनोऽहं तुर्यातुर्यरसोऽस्म्यहम् ।
शान्ताशान्तविहीनोऽहं ज्ञानाज्ञानरसोऽस्म्यहम् ॥ २४.७॥

कालाकालविहीनोऽहमात्मानात्मविवर्जितः ।
लब्धालब्धादिहीनोऽहं सर्वशून्योऽहमव्ययः ॥ २४.८॥

अहमेवाहमेवाहमनन्तरनिरन्तरम् ।
शाश्वतोऽहमलक्ष्योऽहमात्मा न परिपूर्णतः ॥ २४.९॥

इत्यादिशब्दमुक्तोऽहं इत्याद्यं च न चास्म्यहम् ।
इत्यादिवाक्यमुक्तोऽहं सर्ववर्जितदुर्जयः ॥ २४.१०॥

निरन्तरोऽहं भूतोऽहं भव्योऽहं भववर्जितः ।
लक्ष्यलक्षणहीनोऽहं कार्यहीनोऽहमाशुगः ॥ २४.११॥

व्योमादिरूपहीनोऽहं व्योमरूपोऽहमच्युतः ।
अन्तरान्तरभावोऽहमन्तरान्तरवर्जितः ॥ २४.१२॥

सर्वसिद्धान्तरूपोऽहं सर्वदोषविवर्जितः ।
न कदाचन मुक्तोऽहं न बद्धोऽहं कदाचन ॥ २४.१३॥

एवमेव सदा कृत्वा ब्रह्मैवाहमिति स्मर । एतावदेव मात्रं तु मुक्तो भवतु निश्चयः ॥ 24.14॥

चिन्मात्रोऽहं शिवोऽहं वै शुभमात्रमहं सदा । सदाकारोऽहं मुक्तोऽहं सदा वाचामगोचरः ॥ 24.15॥

सर्वदा परिपूर्णोऽहं वेदोपाधिविवर्जितः । चित्तकार्यविहीनोऽहं चित्तमस्तीति मे न हि ॥ 24.16॥

यत् किंचिदपि नास्त्येव नास्त्येव प्रियभाषणं । आत्मप्रियमनात्मा हि इदं मे वस्तुतो न हि ॥ 24.17॥

इदं दुःखमिदं सौख्यमिदं भाति अहं न हि । सर्ववर्जितरूपोऽहं सर्ववर्जितचेतनः ॥ 24.18॥

अनिर्वाच्यमनिर्वाच्यं परं ब्रह्म रसोऽस्म्यहं । अहं ब्रह्म न संदेह अहमेव परात् परः ॥ 24.19॥

अहं चैतन्यभूतात्मा देहो नास्ति कदाचन । लिंगदेहं च नास्त्येव कारणं देहमेव न ॥ 24.20॥

अहं त्यक्त्वा परं चाहं अहं ब्रह्मस्वरूपतः । कामादिवर्जितोऽतीतः कालभेदपरात्परः ॥ 24.21॥

ब्रह्मैवेदं न संवेद्यं नाहं भावं न वा नहि । सर्वसंशयसंशांतो ब्रह्मैवाहमिति स्थितिः ॥ 24.22॥

निश्चयं च न मे किंचित् चिंताभावात् सदाऽक्षरः । चिदहं चिदहं ब्रह्म चिदहं चिदहं सदा ॥ 24.23॥

एवं भावनया युक्तस्त्यक्तशंकः सुखीभव । सर्वसंगं परित्यज्य आत्मैक्यैवं भवान्वहं ॥ 24.24॥

संगं नाम प्रवक्ष्येऽहं ब्रह्मैवाहमिति निश्चयः । सत्योऽहं परमात्माऽहं स्वयमेव स्वयं स्वयं ॥ 24.25॥

नाहं देहो न च प्राणो न द्वंद्वो न च निर्मलः । एष एव हि सत्संगः एष एव हि निर्मलः ॥ 24.26॥

महत्संगे महद्व्याप्त्यभावनं परमं पदं । अहं शांतप्रभावोऽहं अहं ब्रह्म न संशयः ॥ 24.27॥

अहं त्यक्तस्वरूपोऽहं अहं चिंतादिवर्जितः । एष एव हि सत्संगः एष नित्यं भवानहं ॥ 24.28॥

सर्वसंकल्पहीनोऽहं सर्ववृत्तिविवर्जितः । अमृतोऽहमजो नित्यं मृतिभीतिरतीतिकः ॥ २४.२९॥

सर्वकल्याणरूपोऽहं सर्वदा प्रियरूपवान् । समलाङ्गो मलातीतः सर्वदाहं सदानुगः ॥ २४.३०॥

अपरिच्छिन्नसन्मात्रं सत्यज्ञानस्वरूपवान् । नादान्तरोऽहं नादोऽहं नामरूपविवर्जितः ॥ २४.३१॥

अत्यन्ताभिन्नहीनोऽहमादिमध्यान्तवर्जितः । एवं नित्यं दृढाभ्यास एवं स्वानुभवेन च ॥ २४.३२॥

एवमेव हि नित्यात्मभावनेन सुखी भव । एवमात्मा सुखं प्राप्तः पुनर्जन्म न संभवेत् ॥ २४.३३॥

सद्यो मुक्तो भवेद्ब्रह्मकारेण परितिष्ठति । आत्माकारमिदं विश्वमात्माकारमहं महत् ॥ २४.३४॥

आत्मैव नान्यद्भूतं वा आत्मैव मन एव हि । आत्मैव चित्तवद्भाति आत्मैव स्मृतिवत् क्वचित् ॥ २४.३५॥

आत्मैव वृत्तिवद्भाति आत्मैव क्रोधवत् सदा । आत्मैव श्रवणं तद्वदात्मैव मननं च तत् ॥ २४.३६॥

आत्मैवोपक्रमं नित्यमुपसंहारमात्मवत् । आत्मैवाभ्यां समं नित्यमात्मैवापूर्वताफलं ॥ २४.३७॥

अर्थवादवदात्मा हि परमात्मोपपत्ति हि । इच्छा प्रारभ्यवद्ब्रह्मा इच्छामारभ्यवत् परः ॥ २४.३८॥

परेच्छारब्धवद्ब्रह्मा इच्छाशक्तिश्शिवेव हि । अनिच्छाशक्तिरात्मैव परेच्छाशक्तिरव्ययः ॥ २४.३९॥

परमात्मैवाधिकारो विषयं परमात्मनः । संबंधं परमात्मैव प्रयोजनं परात्मकं ॥ २४.४०॥

ब्रह्मैव परमं संगं कर्मजं ब्रह्म संगमं । ब्रह्मैव भ्रान्तिजं भाति द्वन्द्वं ब्रह्मैव नान्यतः ॥ २४.४१॥

सर्वं ब्रह्मेति निश्चित्य सद्य एव विमोक्षदं । सविकल्पसमाधिस्थं निर्विकल्पसमाधि हि ॥ २४.४२॥

शब्दानुविद्धं ब्रह्मैव ब्रह्म दृश्यानुविद्धकं । ब्रह्मेवादिसमाधिश्च तन्मध्यमसमाधिकं ॥ २४.४३॥

ब्रह्मैव निश्चयं शून्यं तदुक्तमसमाधिकं । देहाभिमानरहितं तद्वैराग्यसमाधिकं ॥ २४.४४॥

एतद्भावनया शान्तं जीवन्मुक्तसमाधिकः । अत्यन्तं सर्वशान्तत्वं देहो मुक्तसमाधिकं ॥ २४.४५॥

एतदभ्यासिनां प्रोक्तं सर्वं चैतत्त्वमन्वितं । सर्वं विसृत्य विसृत्य त्यक्त्वा त्यक्त्वा पुनः पुनः ॥ २४.४६॥

सर्ववृत्तिं च शून्येन स्थास्यामीति विमुच्य हि । न स्थास्यामीति विसृत्य भास्यामीति च विस्मर ॥ २४.४७॥

चैतन्योऽहमिति त्यक्त्वा सन्मात्रोऽहमिति त्यज । त्यजनं च परित्यज्य भावनं च परित्यज ॥ २४.४८॥

सर्वं त्यक्त्वा मनः क्षिप्रं स्मरणं च परित्यज । स्मरणं किञ्चिदेवात्र महासंसारसागरं ॥ २४.४९॥

स्मरणं किञ्चिदेवात्र महादुःखं भवेत् तदा । महादोषं भवं बन्धं चित्तजन्य शतं मनः ॥ २४.५०॥

प्रारब्धं हृदयग्रन्थि ब्रह्महत्यादि पातकं । स्मरणं चैवमेवेह बन्धमोक्षस्य कारणं ॥ २४.५१॥

अहं ब्रह्मप्रकरणं सर्वदुःखविनाशकं । सर्वप्रपञ्चशमनं सद्यो मोक्षप्रदं सदा । एतच्छ्रवणमात्रेण ब्रह्मैव भवति स्वयं ॥ २४.५२॥

भक्त्या पद्मदलाक्षपूजितपदध्यानानुवृत्त्या मनः स्वान्तानन्तपथप्रचारविधुरं मुख्यै भवेन्मानसं । सङ्कल्पोज्झितमेतदल्पसुमहाशीलो दयाम्भोनिधौ कश्चित् स्याच्छिवभक्तधुर्यसुमहाशान्तः शिवप्रेमतः ॥ २४.५३॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे अहं ब्रह्मप्रकरणनिरूपणं नाम चतुर्विंशोऽध्यायः ॥

॥ पञ्चविंशोऽध्यायः ॥

ऋभुः –

वक्ष्ये प्रसिद्धमात्मानं सर्वलोकप्रकाशकम् । सर्वाकारं सदा सिद्धं सर्वत्र निबिडं महत् ॥ २५.१॥

तद्ब्रह्माहं न सन्देह इति निश्चित्य तिष्ठ भोः । चिदेवाहं चिदेवाहं चित्रं चेदहमेव हि ॥ २५.२॥

वाचावधिश्च देवोऽहं चिदेव मनसः परः । चिदेवाहं परं ब्रह्म चिदेव सकलं पदम् ॥ २५.३॥

स्थूलदेहं चिदेवेदं सूक्ष्मदेहं चिदेव हि । चिदेव कारणं सोऽहं कायमेव चिदेव हि ॥ २५.४॥

अखण्डाकारवृत्तिश्च उत्तमाधममध्यमाः । देहहीनश्चिदेवाहं सूक्ष्मदेहश्चिदेव हि ॥ २५.५॥

चिदेव कारणं सोऽहं बुद्धिहीनश्चिदेव हि । भावहीनश्चिदेवाहं दोषहीनश्चिदेव हि ॥ २५.६॥

अस्तित्वं ब्रह्म नास्त्येव नास्ति ब्रह्मेति नास्ति हि । अस्ति नास्तीति नास्त्येव अहमेव चिदेव हि ॥ २५.७॥

सर्वं नास्त्येव नास्त्येव साकारं नास्ति नास्ति हि । यत्किञ्चिदपि नास्त्येव अहमेव चिदेव हि ॥ २५.८॥

अन्वयव्यतिरेकं च आदिमध्यान्तदूषणम् । सर्वं चिन्मात्ररूपत्वादहमेव चिदेव हि ॥ २५.९॥

सर्वापरं च सदसत् कार्यकारणकर्तृकम् । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१०॥

अशुद्धं शुद्धमद्वैतं द्वैतमेकमनेककम् । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.११॥

असत्यसत्यमद्वन्द्वं द्वन्द्वं च परतः परम् । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१२॥

भूतं भविष्यं वर्तं च मोहोमोहौ समासमौ । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१३॥

क्षणं लवं त्रुटीर्ह्याह्यं त्वंपदं तत्पदं तथा । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१४॥

त्वंपदं तत्पदं वापि ऐक्यं च ह्यहमेव हि । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१५॥

आनन्दं परमानन्दं सर्वानन्दं निजं महत् । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१६॥

अहं ब्रह्म इदं ब्रह्म कं ब्रह्म ह्यक्षरं परं । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१७॥

विष्णुरेव परं ब्रह्म शिवो ब्रह्मोऽहमेव हि । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१८॥

श्रोत्रं ब्रह्म परं ब्रह्म शब्दं ब्रह्मपदं शुभं । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१९॥

स्पर्शो ब्रह्म पदं त्वक्च त्वक्च ब्रह्म परस्परं । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.२०॥

परं रूपं चक्षुभिः एव तत्रैव योज्यतां । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.२१॥

ब्रह्मैव सर्वं सततं सच्चिदानन्दमात्रकं । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.२२॥

चिन्मयानन्दमात्रोऽहं इदं विश्वमिदं सदा । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.२३॥

ब्रह्मैव सर्वं यत्किञ्चित् तद्ब्रह्माहं न संशयः । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.२४॥

वाचा यत् प्रोच्यते नाम मनसा मनुते तु यत् । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.२५॥

कारणे कल्पिते यद्यत् तूष्णीं वा स्थीयते सदा । शरीरेण तु यद् भुङ्क्ते इन्द्रियैर्यत्तु भाव्यते । सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.२६॥

वेदे यत् कर्म वेदोक्तं शास्त्रं शास्त्रोक्तनिर्णयं । गुरूपदेशसिद्धान्तं शुद्धाशुद्धविभासकं ॥ २५.२७॥

कामादिकलनं ब्रह्म देवादि कलनं पृथक् । जीवयुक्तेति कलनं विदेहो मुक्तिकल्पनम् ॥ २५.२८॥

ब्रह्म इत्यपि संकल्पं ब्रह्मविद्वरकल्पनम् । वरीयानिति संकल्पं वरिष्ठ इति कल्पनम् ॥ २५.२९॥

ब्रह्माहमिति संकल्पं चिदहं चेति कल्पनम् । महाविद्येति संकल्पं महामायेति कल्पनम् ॥ २५.३०॥

महाशून्येति संकल्पं महाचिन्तेति कल्पनम् । महालोकेति संकल्पं महासत्येति कल्पनम् ॥ २५.३१॥

महारूपेति संकल्पं महारूपं च कल्पनम् । सर्वसंकल्पकं चित्तं सर्वसंकल्पकं मनः ॥ २५.३२॥

सर्वं नास्त्येव नास्त्येव सर्वं ब्रह्मैव केवलम् । सर्वं द्वैतं मनोरूपं सर्वं दुःखं मनोमयम् ॥ २५.३३॥

चिदेवाहं न सन्देहः चिदेवेदं जगत्त्रयम् । यत्किञ्चिद्भाषणं वापि यत्किञ्चिन्न्यासो जपम् । यत्किञ्चिन्न्यासनं कर्म सर्वं ब्रह्मैव केवलम् ॥ २५.३४॥

सर्वं नास्तीति सन्मन्त्रं जीवब्रह्मस्वरूपकम् । ब्रह्मैव सर्वमित्येवं मन्त्रञ्चैवोत्तमोत्तमम् ॥ २५.३५॥

अनुक्तमन्त्रं सन्मन्त्रं वृत्तिशून्यं परं महत् । सर्वं ब्रह्मेति संकल्पं तदेव परमं पदम् ॥ २५.३६॥

सर्वं ब्रह्मेति संकल्पं महादेवेति कीर्तनम् । सर्वं ब्रह्मेति संकल्पं शिवपूजासमं महत् ॥ २५.३७॥

सर्वं ब्रह्मेत्यनुभवः सर्वाकारो न संशयः । सर्वं ब्रह्मेति संकल्पं सर्वत्यागमितीरितम् ॥ २५.३८॥

सर्वं ब्रह्मेति संकल्पं भावाभावविनाशनम् । सर्वं ब्रह्मेति संकल्पं महादेवेति निश्चयः ॥ २५.३९॥

सर्वं ब्रह्मेति संकल्पं कालसत्ताविनिर्मुक्तः । सर्वं ब्रह्मेति संकल्पः देहसत्ता विमुक्तिकः ॥ २५.४०॥

सर्वं ब्रह्मेति संकल्पः सच्चिदानन्दरूपकः । सर्वोऽहं ब्रह्ममात्रैव सर्वं ब्रह्मैव केवलम् ॥ २५.४१॥

इदमित्येव यत्किञ्चित् तद्ध्येव न संशयः । भ्रान्तिश्च नरकं दुःखं स्वर्गभ्रान्तिरितीरिता ॥ २५.४२॥

ब्रह्मो विष्णुरिति भ्रान्तिर्भ्रान्तिश्च शिवरूपकम् । विराट् स्वराट् तथा सम्राट् सूत्रात्मा भ्रान्तिरेव च ॥ २५.४३॥

देवाश्च देवकार्याणि सूर्याचन्द्रमसोर्गतिः । मुनयो मनवः सिद्धा भ्रान्तिरेव न संशयः ॥ २५.४४॥

सर्वदेवासुरा भ्रान्तिस्तेषां युद्धादि जन्म च । विष्णोर्ज्जावताराणि चरितं शान्तिरेव हि ॥ २५.४५॥

ब्रह्मणः सृष्टिकृत्यानि रुद्रस्य चरितानि च । सर्वभ्रान्तिसमायुक्तं भ्रान्त्या लोकाश्चतुर्दश ॥ २५.४६॥

वर्णाश्रमविभागश्च भ्रान्तिरेव न संशयः । ब्रह्मविष्णीशरुद्राणामुपासा भ्रान्तिरेव च ॥ २५.४७॥

तत्रापि यन्त्रमन्त्राभ्यां भ्रान्तिरेव न संशयः । वाचामगोचरं ब्रह्म सर्वं ब्रह्ममयं च हि ॥ २५.४८॥

सर्वं नास्त्येव नास्त्येव अहमेव चिदेव हि । एवं वद त्वं तिष्ठ त्वं सद्योमुक्तो भविष्यसि ॥ २५.४९॥

एतावदुक्तं यत्किञ्चित् तन्नास्त्येव न संशयः । एवं यदान्तरं क्षिप्रं ब्रह्म्येव दृढनिश्चयम् ॥ २५.५०॥

दृढनिश्चयमेवात्र प्रथमं कारणं भवेत् । निश्चयः खल्वयं पश्चात् स्वयमेव भविष्यति ॥ २५.५१॥

आर्थं यच्छिवपादतोऽन्यदितरं तज्जादिशब्दात्मकं चेतोवृत्तिपरं पराप्रमुदितं षड्भावसिद्धं जगत् । भूताक्षादिमनोवचोभरनभे सान्द्रे महेशे घने सिन्धौ सैन्धवखण्डवज्जगदिदं लीयेत वृत्युज्जितम् ॥ २५.५२॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे ब्रह्मणस्स्वरूपत्वनिरूपणप्रकरणं नाम पञ्चविंशोऽध्यायः ॥

॥ षड्विंशोऽध्यायः ॥

ऋभुः -

वक्ष्ये सच्चित्परानन्दं स्वभावं सर्वदा सुखम् ।
सर्ववेदपुराणानां सारात् सारतरं स्वयं ॥ २६.१॥

न भेदं च द्वयं द्वन्द्वं न भेदं भेदवर्जितम् ।
इदमेव परं ब्रह्म ज्ञानाश्रयमनामयम् ॥ २६.२॥

न क्वचिन्नाथ एवाहं नाक्षरं न परात्परम् ।
इदमेव परं ब्रह्म ज्ञानाश्रयमनामयम् ॥ २६.३॥

न बहिर्भ्यान्तरं नाहं न सङ्कल्पो न विग्रहः ।
इदमेव परं ब्रह्म ज्ञानाश्रयमनामयम् ॥ २६.४॥

न सत्यं च परित्यज्य न वार्ता नार्थदूषणम् ।
इदमेव परं ब्रह्म ज्ञानाश्रयमनामयम् ॥ २६.५॥

न गुणो गुणिवाक्यं वा न मनोवृत्तिनिश्चयः ।
न जपं न परिच्छिन्नं न व्यापकमसत् फलम् ॥ २६.६॥

न गुरुश्च च शिष्यो वा न स्थिरं न शुभाशुभम् ।
नैकरूपं नान्यरूपं न मोक्षो न च बन्धकम् ॥ २६.७॥

अहं पदार्थस्तत्पदं वा नेन्द्रियं विषयादिकम् ।
न संशयं न तुच्छं वा न निश्चयं न वा कृतम् ॥ २६.८॥

न शान्तिरूपमद्वैतं न चोर्ध्वं न च नीचकम् ।
न लक्षणं न दुःखाङ्गं न सुखं न च चञ्चलम् ॥ २६.९॥

न शरीरं न लिङ्गं वा न कारणमकारणम् ।
न दुःखं नान्तिकं नाहं न गूढं न परं पदम् ॥ २६.१०॥

न सञ्चितं च नागामि न सत्यं च त्वमाहकम् ।
नाज्ञानं न च विज्ञानं न मूढो न च विज्ञवान् ॥ २६.११॥

न नीचं नरकं नान्तं न मुक्तिर्न च पावनम् ।
न तृष्णा न च विद्यात्वं नाहं तत्त्वं न देवता ॥ २६.१२॥

न शुभाशुभसङ्केतो न मृत्युर्न च जीवनम् ।
न तृप्तिर्न च भोज्यं वा न खण्डैकरसोऽद्वयम् ॥ २६.१३॥

न सङ्कल्पं न प्रपञ्चं न जागरणराजकं । न किञ्चित्समतादोषो न तुर्यगणना भ्रमः ॥ २६.१४॥

न सर्वं समलं नेष्टं न नीतिर्न च पूजनं । न प्रपञ्चं न बहुना नान्यभाषणसङ्गमः ॥ २६.१५॥

न सत्सङ्गमसत्सङ्गः न ब्रह्म न विचारणं । नाभ्यासं न च वक्ता च न स्नानं न च तीर्थकं ॥ २६.१६॥

न पुण्यं न च वा पापं न क्रिया दोषकारणं । न चाध्यात्मं नाधिभूतं न दैवतमसम्भवं ॥ २६.१७॥

न जन्ममरणे क्वापि जाग्रत्स्वप्नसुषुप्तिकं । न भूलोकं न पातालं न जयापजयाजयौ ॥ २६.१८॥

न हीनं न च वा भीतिर्न रतिर्न मृतिस्मृरा । अचिन्त्यं नापराध्यात्म निगमागमविभ्रमः ॥ २६.१९॥

न सात्त्विकं राजसं च न तामसगुणाधिकं । न शैवं न च वेदान्तं न स्वाद्यं तन्न मानसं ॥ २६.२०॥

न बन्धो न च मोक्षो वा न वाक्यं ऐक्यलक्षणं । न स्त्रीरूपं न पुम्भावः न षण्डो न स्थिरः पदं ॥ २६.२१॥

न भूषणं न दूषणं न स्तोत्रं न स्तुतिर्न हि । न लौकिकं वैदिकं न शास्त्रं न च शासनं ॥ २६.२२॥

न पानं न कृशं नेदं न मोदं न मुदामदं । न भावनमभावो वा न कुलं नामरूपकं ॥ २६.२३॥

नोत्कृष्टं च निकृष्टं च न श्रेयोऽश्रेय एव हि । निर्मलत्वं मलोत्सर्गो न जीवो न मनोदमः ॥ २६.२४॥

न शान्तिकलना नागं न शान्तिर्न शमो दमः । न क्रीडा न च भावाङ्गं न विकारं न दोषकं ॥ २६.२५॥

न यत्किञ्चिन्न यत्राहं न मायाभ्या न मायिका । यत्किञ्चिन्न च धर्मादि न धर्मपरिपीडनं ॥ २६.२६॥

न यौवनं न बाल्यं वा न जरामरणादिकं । न बन्धुर्न च वाऽबन्धुर्न मित्रं न च सोदरः ॥ २६.२७॥

नापि सर्वं न चाकिञ्चिन्न विरिञ्चो न केशवः । न शिवो नाष्टदिक्पालो न विश्वो न च तैजसः ॥ २६.२८॥

न प्राज्ञो हि न तुर्यो वा न ब्रह्मक्षत्रविद्वरः ।
इदमेव परं ब्रह्म ज्ञानामृतमनामयम् ॥ २६.२९॥

न पुनर्ह्यावि पश्चाद्वा न पुनर्भवसंभवः ।
न कालकलना नाहं न संभाषणकारणं ॥ २६.३०॥

न चोर्ध्वमन्तःकरणं न च चिन्मात्रभाषणं ।
न ब्रह्माहमिति द्वैतं न चिन्मात्रमिति द्वयं ॥ २६.३१॥

नान्नकोशं न च प्राणमनोमययकोशकं ।
न विज्ञानमयः कोशः न चानन्दमयः पृथक् ॥ २६.३२॥

न बोधरूपं बोध्यं वा बोधकं नात्र यद्द्वयः ।
न बाध्यं बाधकं मिथ्या त्रिपुटीज्ञाननिर्णयः ॥ २६.३३॥

न प्रमाता प्रमाणं वा न प्रमेयं फलोदयं ।
इदमेव परं ब्रह्म ज्ञानामृतमनोमयं ॥ २६.३४॥

न गुह्यं न प्रकाशं वा न महत्वं न चाणुता ।
न प्रपञ्चो विद्यमानं न प्रपञ्चः कदाचन ॥ २६.३५॥

नान्तःकरणसंसारो न मनो जगतां भ्रमः ।
न चित्तरूपसंसारो बुद्धिपूर्वं प्रपञ्चकं ॥ २६.३६॥

न जीवरूपसंसारो वासनारूपसंसृतिः ।
न लिङ्गभेदसंसारो नाज्ञानमयसंसृतिः ॥ २६.३७॥

न वेदरूपसंसारो न शास्त्रागमसंसृतिः ।
नान्यदस्तीति संसारमन्यदस्तीति भेदकं ॥ २६.३८॥

न भेदाभेदकलनं न दोषादोषकल्पनं ।
न शान्ताशान्तसंसारं न गुणागुणसंसृतिः ॥ २६.३९॥

न स्त्रीलिङ्गं न पुंलिङ्गं न नपुंसकसंसृतिः ।
न स्थावरं न जङ्गमं च न दुःखं न सुखं क्वचित् ॥ २६.४०॥

न शिष्टाशिष्टरूपं वा न योग्यायोग्यनिश्चयः ।
न द्वैतवृत्तिरूपं वा साक्षिवृत्तित्वलक्षणं ॥ २६.४१॥

अखण्डाकारवृत्तित्वमखण्डैकरसं सुखं ।
देहोऽहमिति या वृत्तिर्ब्रह्माहमिति शब्दकं ॥ २६.४२॥

अखण्डनिश्चया वृत्तिर्नाखण्डैकरसं महत् ।
न सर्ववृत्तिभवनं सर्ववृत्तिविनाशकं ॥ २६.४३॥

सर्ववृत्त्यनुसन्धानं सर्ववृत्तिविमोचनम् । सर्ववृत्तिविनाशान्तं सर्ववृत्तिविशून्यकम् ॥ २६.४४॥

न सर्ववृत्तिसाहस्रं क्षणक्षणविनाशनम् । न सर्ववृत्तिसाक्षित्वं न च ब्रह्मत्वभावनम् ॥ २६.४५॥

न जगन्न मनो नान्तो न कार्यकलनं क्वचित్ । न दूषणं भूषणं वा न निरङ्कुशलक्षणम् ॥ २६.४६॥

न च धर्मात्मनो लिङ्गं गुणशालित्वलक्षणम् । न समाधिकलिङ्गं वा न प्रारब्धं प्रबन्धकम् ॥ २६.४७॥

ब्रह्मवित्त्वं आत्मसत्यो न परः स्वप्नलक्षणम् । न च वर्षवरो रोधो वरिष्ठो नार्थतत्त्वरः ॥ २६.४८॥

आत्मज्ञानविहीनो यो महापातकिरेव सः । एतावद् ज्ञानहीनो यो महारोगी स एव हि ॥ २६.४९॥

अहं ब्रह्म न सन्देह अखण्डैकरसात्मकः । ब्रह्मैव सर्वमेवेति निश्चयानुभवात्मकः ॥ २६.५०॥

सद्यो मुक्तो न सन्देहः सद्यः प्रज्ञानविग्रहः । स एव ज्ञानवान् लोके स एव परमेश्वरः ॥ २६.५१॥

इदमेव परं ब्रह्म ज्ञानामृतमनोमयम् । एतत्प्रकरणं यस्तु शृणुते ब्रह्म एव सः ॥ २६.५२॥

एकत्वं न बहुत्वमप्यणुमहत् कार्यं न वै कारणं विश्वं विश्वपतित्वमप्सरसकं नो गन्धरूपं सदा । बद्धं मुक्तमनुत्तमोत्तममहो नन्धैकमोदं सदा भूमानन्दसदाशिवं जनिजरारोगाद्यसङ्गं महः ॥ २६.५३॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे ज्ञानामृतमनोमयप्रकरणवर्णनं नाम षड्विंशोऽध्यायः ॥

॥ सप्तविंशोऽध्यायः ॥

ऋभुः -

वक्ष्ये प्रकरणं सत्यं ब्रह्मानन्दमनोमयम् । कार्यकारणनिर्मुक्तं नित्यानन्दमयं त्विदम् ॥ २७.१॥

अक्षयानन्द एवाहमात्मानन्दप्रकाशकम् । ज्ञानानन्दस्वरूपोऽहं लक्ष्यानन्दमयं सदा ॥ २७.२॥

विषयानन्दशून्योऽहं मिथ्यानन्दप्रकाशकः । वृत्तिशून्यसुखात्माहं वृत्तिशून्यसुखात्परम् ॥ २७.३॥

जडानन्दप्रकाशात्मा आत्मानन्दरसोऽस्म्यहम् । आत्मानन्दविहीनोऽहं नास्त्यानन्दात्मविग्रहः ॥ २७.४॥

कार्यानन्दविहीनोऽहं कार्यानन्दकलात्मकः । गुणानन्दविहीनोऽहं गुह्यानन्दस्वरूपवान् ॥ २७.५॥

गुप्तानन्दस्वरूपोऽहं कृत्यानन्दमहोनहम् । ज्ञेयानन्दविहीनोऽहं गोप्यानन्दविवर्जितः ॥ २७.६॥

सदानन्दस्वरूपोऽहं मुदानन्दनिजात्मकः । लोकानन्दो महानन्दो लोकातीतमहोनयम् ॥ २७.७॥

भेदानन्दश्चिदानन्दः सुखानन्दोऽहमद्वयः । क्रियानन्दोऽक्षयानन्दो वृत्त्यानन्दविवर्जितः ॥ २७.८॥

सर्वानन्दोऽक्षयानन्दश्चिदानन्दोऽहमव्ययः । सत्यानन्दः परानन्दः सद्योनन्दः परात्परः ॥ २७.९॥

वाक्यानन्दमहानन्दः शिवानन्दोऽहमद्वयः । शिवानन्दोत्तरानन्द आद्यानन्दविवर्जितः ॥ २७.१०॥

अमलात्मा परानन्दश्चिदानन्दोऽहमद्वयः । वृत्त्यानन्दपरानन्दो विद्यातीतो हि निर्मलः ॥ २७.११॥

कारणातीत आनन्दश्चिदानन्दोऽहमद्वयः । सर्वानन्दः परानन्दो ब्रह्मानन्दात्मभावनः ॥ २७.१२॥

जीवानन्दो लयानन्दश्चिदानन्दस्वरूपवान् । शुद्धानन्दस्वरूपात्मा बुद्ध्यानन्दो मनोमयः ॥ २७.१३॥

శబ్दानन्दो महानन्दश्चिदानन्दोऽहमद्वयः ।
आनन्दानन्दशून्यात्मा भेदानन्दविशून्यकः ॥ २७.१४॥

द्वैतानन्दप्रभावात्मा चिदानन्दोऽहमद्वयः ।
एवमादिमहानन्द अहमेवेति भावय ॥ २७.१५॥

शान्तानन्दोऽहमेवेति चिदानन्दप्रभास्वरः ।
एकानन्दपरानन्द एक एव चिदव्ययः ॥ २७.१६॥

एक एव महानात्मा एकसंख्याविवर्जितः ।
एकतत्त्वमहानन्दस्तत्त्वभेदविवर्जितः ॥ २७.१७॥

विजितानन्दहीनोऽहं निर्जितानन्दहीनकः ।
हीनानन्दप्रशान्तोऽहं शान्तोऽहमिति शान्तकः ॥ २७.१८॥

ममतानन्दशान्तोऽहमहमादिप्रकाशकम् ।
सर्वदा देहशान्तोऽहं शान्तोऽहमिति वर्जितः ॥ २७.१९॥

ब्रह्मैवाहं न संसारी इत्येवमिति शान्तकः ।
अन्तरादन्तरोऽहं वै अन्तरादन्तरान्तरः ॥ २७.२०॥

एक एव महानन्द एक एवाहमक्षरः ।
एक एवाक्षरं ब्रह्म एक एवाक्षरोऽक्षरः ॥ २७.२१॥

एक एव महानात्मा एक एव मनोहरः ।
एक एवाद्वयोऽहं वै एक एव न चापरः ॥ २७.२२॥

एक एव न भूरादि एक एव न बुद्धयः ।
एक एव प्रशान्तोऽहं एक एव सुखात्मकः ॥ २७.२३॥

एक एव न कामात्मा एक एव न कोपकम् ।
एक एव न लोभात्मा एक एव न मोहकः ॥ २७.२४॥

एक एव मदो नाहं एक एव न मे रसः ।
एक एव न चित्तात्मा एक एव न चान्यकः ॥ २७.२५॥

एक एव न सत्तात्मा एक एव जरामरः ।
एक एव हि पूर्णात्मा एक एव हि निश्चलः ॥ २७.२६॥

एक एव महानन्द एक एवाहमेकवान् ।
देहोऽहमिति हीनोऽहं शान्तोऽहमिति शाश्वतः ॥ २७.२७॥

शिवोऽहमिति शान्तोऽहं आत्मैवाहमिति क्रमः ।
जीवोऽहमिति शान्तोऽहं नित्यशुद्धहृदन्तरः ॥ २७.२८॥