भारतकोश
संग्रह पर लौटें

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

सप्तमः परिच्छेदः । ३८७ यथा- 'नैवजलधरः संनद्धोऽयं न दृप्तनिशाचरः ॥' उक्तोदाहरणे तु तत्पुरुषसमासे गुणीभावे नञ्. पर्युदासत्या निषे- धस्य विधेयतयानवगमः । यदाहुः- पदार्थतावच्छेदकेन सह सम्बन्धस्य वाक्ये असौ नञ् । प्रसज्यप्रतिषेध इत्यर्थे ॥ उदाहरति-यथेति । नवजलधर इति । गन्धर्वेणोर्वश्या हृताया पुरूरवस- स्तद्विरहे नवजलधरादौ निशाचरादिप्रतीतिरित्पैतन्निदम् । अयं सन्नद्धो न नवज- लधर, दृप्तनिशाचर इति । अयं नवजलधरत्वाभाववानित्यर्थः । अत्रेशपदार्थस्य उद्देश्यत्वम्, नञर्थस्याभावस्य विधेयत्वम्, समभिव्याहृतपदार्थतावच्छेदकेन सह नञर्थस्य सम्बन्धः । न च विधेर्भावपदार्थस्येति व्यारोद्धम् । सन्नद्धो न दृप्तो- नापिलादस्येष्टत्वापत्तेः । विधेयेति । यथारूपताविधेयत्वे तु 'घटो न पटोऽयम्' इत्याद्यसङ्ग्रहेऽप्युदाहरणायसङ्ग्रहता । न च सर्वत्र क्रियान्वयित्वेनै- वोदाहरणादौ नञ प्रसज्यप्रतिषेधत्वमेवे नासीति वाच्यम् । तत्र निषेधविधेयत्वा- भावेन पर्युदासत्वासम्भवात्तत्तत्प्रकारान्तरेणैव प्रसज्यप्रतिषेधत्वस्योदाहर्तुं श- क्यत्वात् । अत एवान्वर्थमादायाभिप्राये गोपीचन्द्रोऽप्याह-'धर्मधर्मिणोः प्र- सज्यप्रतिषेधो नाभूत्', 'प्रत्यग्रोऽयं न भवति', 'इत्यन्वयं प्रक्रैद्य निषिध्यते' इति । 'दुर्निवारम्' इत्यादी रूपात्तुप्रतिषेधत्वमप्रतिपद्यते केवलं नञर्थस्य सम्बन्धः । यदाह 'घटो नेति न घटते', 'तन्न श्रेयसा न योज्यम्' इत्यादौ क्रियान्वयेन सह नञर्थस्यान्येऽपि प्रसज्यप्रतिषेधः स्यात् । सर्वत्र निषेधविधौ नञ्प्रयोगा- दित्यन्वयित्वासाधितम् एव । एवं च 'घटो न पटः' इत्यादावुभयपदार्थेन सह क्रियान्वयं विनापि नञर्थसम्बन्धेऽपि विधित्वमेव प्रसज्यप्रतिषेधस्य । न ह्यत्र घटाभाव एव विधेयः न तु पटभेद इति वाच्यम् । एतेनैतदपि नीतं सर्वत्र नञर्थस्य विधेयत्वैव तस्य प्रसज्यप्रतिषेधरूपत्वाभिप्रायः इतरेतर- भेदाभावयोर्विधेयत्वेन तयोर्निषेध्यप्रतिषेधत्वेनोपपत्तिरिति भावः ।' यद्विधेयं तदभावः (इत्येव प्रसज्यप्रतिषेधत्वं वाच्यम् इति प्रतिषेध्यतादा- त्म्याणां क्रियान्वयित्वस्यापि प्रसक्तत्वात् इति भावः । यत्तु 'आश्रयाभावत्वेन तदभावयोर्विधेयत्वे सामानाधिकरण्यम्' इति तन्निराकृतम् । सर्वत्रैव प्रसज्यप्रतिषेधे विधेयता नञर्थस्य सर्वत्र सम्भवति-एवमेवावधायितमिति दिक् । यदाहुः- पर्युदासोऽयं यत्र पूर्वपदार्थप्राधान्यम् । समासस्यो- ....................................................................... ....................................................................... .......................................................................

क्वचिदनुपात्तयोर्द्वयोरपि सामर्थ्यादवगमः । यथा— 'न मे शमयिता कोऽपि भारस्येत्युर्वि मा शुचः ॥ नन्दस्य भवने कोऽपि बालोऽस्त्यद्भुतपौरुषः ॥' अत्र योऽस्ति, स ते भारस्य शमयितेति बुध्यते । 'यद्यद्विरहदुःखं मे तत्को वापहरिष्यति ॥' इत्यत्रैको यच्छब्दः साकाङ्क्ष इति न वाच्यम् । तथाहि—ऐ- त्यनेन केनचिद्रूपेण स्थितं सर्वात्मकं वस्तु विवक्षितम् । तथानूद्य तत्- तच्छब्देन परामर्शः । एवमन्येषामपि वाक्यगतत्वेनोदाहरणं योज्यम् । पदांशे दुःश्रवत्वं यथा— 'तद्गच्छ सिद्धयै कुरु देवकार्यम् ॥' 'धातुमत्तां गिरिर्धत्ते ॥' दर्शनीय इति ॥ द्वयोर्यत्तत्पदयोः । सामर्थ्यादाकाङ्क्षात् ॥ ननु यत्र पूर्ववाक्ये यत्पदद्वयं तत्र कथमेकतत्पदेन निराकाङ्क्षप्रतीतिः । तत्र तत्पदद्वन्द्वस्यैव समु- योग्यत्वात् । यथा—'यं यं कामयते कामं तं तमाप्नोति लीलया' इति । तत्र आह—यद्यदिति । एक इति । उत्तरवाक्ये एकतत्पदप्रयोगोऽहं इति भावः । सर्वात्मकमिति । विरहदुःखत्वेन सामान्येन सर्वं विरहदुःखमित्यर्थः ॥ तथा- भूतस्य विरहदुःखत्वावच्छिन्नस्य । तथा च वीप्साया वक्तुस्तात्पर्यमेव निदानङ्कदा सामान्यरूपेण उपस्थापने वक्तृतातपर्यं सति न तत्पदे वीप्सा । तत्तद्विशेष- उपस्थापने तात्पर्यं मनि तत्पदे वीप्सा । क्वचित्तु तत्पदे एव वीप्सा, न तु यत्पदे । यथा—'ते ते सत्पुरुषा परार्थघटकाः स्वार्थस बाधेन ये ॥' एवमिति । अन्येषामनुचितार्थत्वादीनाम् । तच्च मया दर्शितमेव ॥ 'दोषाः केचिद्भवन्त्ये-' १. यद्यदिति । परमार्थस्तु यद्यदिति न पदद्वयम् । किंतु 'नित्यवीप्सयोः' इति सूत्रेण या यडो द्वित्वापन्नोऽयमादेशः । एव चादेशिनैकेन यत्पदेन तत्पदेन वाऽन्यान्यतरेण रूपेण दुःसपरामर्शः । आदेशान्तु सावत्त्वेनान्वये तात्पर्येग्राहके इति यत्तत्पदे न सम्बन्धभानोपपत्तौ न तत्पदेऽपि वीप्साद्योतनरो द्वित्वापन्न आदेशः । यत्र तु तत्पदेऽपि वीप्सा तत्र न यत्पदेऽप्यादेशः । किं तुभाभ्या रूपद्वयेन सर्वोत्पन्नानर्थ्य- तत्त्वम् ॥ २. सिद्धयै इति । अत्र 'सिद्धै' इति चतुर्थ्यन्तपदैकदेशः श्रुतिकटु ॥ अत्र 'तद्गच्छ' मर्थान्तरलम्ब्य एव । अपेक्षते प्रत्ययमङ्गगच्छ्यै बीजाङ्कुर प्रागुदयादिवाग्म ॥' इत्य- वशिष्टा पादत्रयी ॥ १ 'प्रयोगात्' पुस्तकान्तरे

अत्र मत्ताशब्दः क्लीबार्थे निहतः । 'वर्ण्यते किं महासेनो विजेयो यस्य तारकः ॥' अत्र विजेयं इति कृत्यप्रत्ययः क्तप्रत्ययार्थेऽवाचकः । 'पाणिः पल्लवपेलवः ॥' पेलवशव्दस्याद्याक्षरे अश्लीले । 'संग्रामे निहताः शूरा वचोवाणत्वमागताः ॥' अत्र वचःशब्दस्य गीःशब्दवाचकत्वे नेयार्थत्वम् । तथा तत्रैव वाण- वाने शरेति पाठे । अत्र पदद्वयमपि न परिवृत्तिसहम् । जलध्यादौ दाशेऽपि पदे परे' इति यदुक्तम्, तदुदाहरणमाह-तद्गच्छेति ॥ अश्लीले ति । व्रीडाव्यञ्जके ॥ जुगुप्साव्यञ्जकं यथा- 'पूयते' इति । अत्र पूयशब्द । अमङ्गलव्यञ्जकं यथा- 'अभिप्रेत' इति । अत्र प्रेतशब्दः ॥ वचोवाणत्वं गीर्वाणत्वम् । गीःशब्दवाचकत्वे इति । लक्षणया गीःशब्दप्रतिपादकत्वे इत्यर्थ । तथा नेयार्थत्वम् । तत्रैव गीर्वाणशब्द एव । परिवृत्तिसहं श्रुतश-

  1. अत्र धातुमतो भावो धातुमत्तेति पदैकदेशेन क्लीबार्थेन मत्ताशब्देन मतुपोऽर्थो नेहन्यते । अत्र 'पद्माप्सरोविभ्रममण्डनानां संपादयत्री शिखरेर्विभाति । वलाहकच्छेद- विभक्तरागामकालसन्ध्यामिव धातुमत्ताम् ॥' इति तच्छेषम् ॥
  2. विजेय इति । 'अर्हे कृत्यतृचश्च' इति सूत्रेणार्हार्थे 'अचो यत्' इति सूत्रेण विहितः कृत्यसंज्ञो यत्प्रत्ययो भूतत्वरूपे क्तप्रत्ययार्थेऽवाचकः ॥ अत्र 'चापाचार्यस्त्रिपुर- विजयी कार्तिकेयो विजेयः शस्त्रन्यस्तः सदनमुदधिर्भूरियं हन्तकार । अस्यैवैतत् त्रिभुवनपतेः कृण्वतो रेणुकाकण्ठदाया दत्तरूपस्त्वय परशुना लूनने चन्द्रहासः ॥' इत्यपनीयम् ॥
  3. पेलवेति । 'पेल' इति वर्णद्वयं लाटभाषाया वृषणरूपस्याद्रव्यत्याचकत्वया व्रीडा- दायीति प्रकाशव्याख्याताराः ॥ अत्र 'अतिपेलवमतिपरिमितवर्णं लघुदन्तमुदाहरति भट । परमार्षतः सहृदयं हरति पुनः कालकूटघटिनमिव ॥' इति प्रकाशोदाहरणं शरणम् ॥
  4. जलध्यादाविति । तथा चोक्तममरासिंहेन-'उत्पादिषु पूर्वपदे सरोजमूर्धेषु चोत्तरपदेषु । वारिजनेषु चोभयपदेषु पर्यायाप्रवृत्तिः ॥ इति परिवृत्तिसहा ये दीक्षात्वे दीक्षिताः शब्दाः । परिवृत्त्यसहा ये तु निभ्रा गीर्वाणतुल्यास्ते ॥' द्योतत्विन्त्यो गीर्वाणदित्येतच्छब्दाः परिवृत्तिं न सहन्त इत्यर्थः ॥ अत्र वचोबाणेत्युदाहरणम् 'सिंह- च्छत्रेडस्य भूपालमौलिमाणिक्यनंशानोः । मुकुटैर्नं वचोबाणैश्चेतो दन्तं निनाय्यते ।' इत्येतदनुरूपम् । वचोबाण गीर्वाणः शब्दयोरभेदात् ॥

कोई OCR पाठ नहीं।

सप्तमः परिच्छेदः। ४२१ अतिविस्तृतिरङ्गस्य प्रकृतीनां विपर्ययः । अर्थानौचित्यमन्यच्च दोषा रसगता मताः । रसस्य स्वशब्दो रसशब्दः शृङ्गारादिशब्दश्च । क्रमेण यथा— 'तामुद्वीक्ष्य कुरङ्गाक्षीं रसो नः कोऽप्यजायत ॥' 'चन्द्रमण्डलमालोक्य शृङ्गारे मग्नमन्तरम् ॥' स्थायिभावस्य स्वशब्दवाच्यत्वं यथा— 'सजायत रतिस्तस्यास्त्वयि लोचनगोचरे ॥' व्यभिचारिणः स्वशब्दवाच्यत्वं यथा— 'जाता लज्जावती मुग्धा प्रियस्य परिचुम्बने ॥' अत्र प्रथमे पादे 'आसीन्मुकुलिताक्षी सा' इति लज्जाया अनुभाव- मुखेन कथने युक्तः पाठः । 'मानं मा कुरु तन्वङ्गि ज्ञात्वा यौवनमस्थिरम् ॥' अत्र यौवनास्थैर्यंनिवेदनं शृङ्गाररसस्य परिपन्थिनः शान्तरसस्याङ्गं शान्तस्यैव च विभाव इति शृङ्गारे तत्परिग्रहो न युक्तः । 'धवलयति शिशिररोचिषि भुवनतल लोकलोचनानन्दे । ईषत्स्मितकटाक्षा लॆरसुमुखी सा निरीक्ष्यतां तन्वी ॥' अत्र रतस्योद्दीपनालम्बनविभावावनुभावपर्यवसायिनौ स्थिताविति दुष्टकल्पना । दित्यर्थः रसस्यैव । प्रकृतीनां नायकौचितधर्माणाम् विपर्ययोऽन्यथावर्तनम् । इद- मेवानौचित्यम् । अन्यत्प्रकृतेर्निर्धर्त्यत्विम् ॥ कोऽप्यनिर्वचनीयप्रमदः ॥ व्यभिचारिणः सम्भवनेयोगत एव स्वशब्दवाच्यत्वं दोषः, रसव्यापृतार्थसम्पादने तु न दोषः । यथा लज्जामन्थरेति, भमन्वित्तमुखे च । स्वशब्दवाच्यत्वं रसादिप्रकर्षदोषप्रविपर्यस्तम् ॥ विरोधिकलापपरिग्रहमुदाहरति—मानमिति । शान्तस्यैव चेति । चशब्दो हेतौ । विभाव उद्दीपनविभावः । तत्परिग्रहो यौवनास्थैर्यतिवेदनपर्यन्तम् ॥ अनुभावस्य व्यञ्जकत्वमाह—धवलयतीति । विशि- ररोचिषि चन्द्रे चन्द्रिकयोद्भासमानतल इत्यर्थः । अत्रेति । आलम्बनं १. तामिति । 'तामुन्मदकटाक्षविभ्रमाभिरुद्भासितानन्दाम् । नेत्राभ्यामुपल- भ्यमानगोचरे वीक्ष्यास्माकं रसो निष्पन्नः ।' इति प्रकाशीकारसम्मतम् पूर्वार्द्धम् २. चन्द्रेति । 'निर्मेघमेकदेशेन्दुबिम्बाभिरुद्भासिते गगने शृङ्गारसङ्गिचित्तं वृत्तम् । पूर्वार्द्ध काव्यप्रकाशे विलोकनीयः शृङ्गारमपि सर्वतोऽवगाहितम्' इति प्रकाशीका- रस्याभिप्रायः ।

३.

सप्तमः परिच्छेदः । ४४१ एवं च विशेषणमात्रस्य पुनरुपादाने समाप्तपुनरात्तत्वं न वाक्यान्तर- स्येति विज्ञेयम् । गर्भितत्वं गुणः क्वापि— यथा— 'दिङ्मातङ्गघटाविभक्तचतुराघाटा मही साध्यते सिद्धा सापि वदन्त एव हि वयं रोमाञ्चिताः पश्यत । विप्राय प्रतिपाद्यते किमपरं रामाय तस्मै नमो यस्मात्प्रादुरभूत्कथाद्भुतमिदं यत्रैव चास्तं गतम् ॥' अत्र वदन्त एवेत्यादि वाक्यं वाक्यान्तरप्रवेशात् चमत्कारातिशयं पुष्णाति । पतत्प्रकर्षता तथा ॥ २८ ॥ तथेति क्वचित् गुणः । यथा—'चञ्चद्भुज-इत्यादि (३०२ पृ.)। अत्र चतुर्थपादे सुकुमारार्थतया शब्दाडम्बरत्यागो गुणः । क्वचिदुक्तौ स्वशब्देन न दोषो व्यभिचारिणः । अनुभावविभावाभ्यां रचना यत्र नोचिता ॥ २९ ॥ हरस्यैव पिनाकसम्बन्धेन दुर्जयत्वमिति व्यक्तत्वाद् गुणत्वम् । नायं निशुम्भरिपुवति नान्त्रो वितिक्षुर्धनुष्मन्नाह पुत्रो नहि नहि जटाजूटभार दधान । नायं व्याधो नवगुणधर पश्य क्लादक्लात्पुण्डेरण्ये नवजलधरश्यामलं कोऽयमेति ॥' अत्र द्वितीयस्य नहीति निपातनमुदायस्य वाचकत्वाभावेन कथितपदस्य न विषयः, किं त्वधिकोऽपि राजपुत्रस्य जटाधारणमत्यन्तासम्भावीति व्यक्तत्वाद् गुण एव ॥ न वाक्यान्तरस्येति । पुनरुपादाने समाप्तपुनरात्तत्वं न दोष इत्यर्थः । दिङ्मातङ्गेति । दिङ्मातङ्गसमूहेन विभक्ताः परिच्छिन्नाश्चत्वार आघाटाः सीमा यस्याः सा । साध्यते स्ववशीक्रियते । सिद्धा साधितापि सा मही । विप्राय प्रतिपाद्यत इत्युत्तरेणान्वयः । किमपरमिति वाच्यमिति शेषः । दधैवाद्भुतमा- श्चर्यम् । यत्रैवेति । तथा च तत्सुल्यो न भूतो न वर्तमानो न भविष्यतीति भावः ॥ चमत्कारातिशयमिति । तेन युद्धवीरदानवीरयोः परिपोषः ॥ क्वचिदिति । यत्र पद्यांशे सुकुमारार्थत्वं तत्रेत्यर्थः ॥ इदानीं रसदोषाणां नियम- विशेषे यथायथंमदोषत्वं गुणत्वं चाह—क्वचिदिति । रचना वरण्डम् । विभाव-

इस पृष्ठ पर कोई सुपाठ्य पाठ (text) उपलब्ध नहीं है। पृष्ठ पूर्णतः रिक्त (blank) है, केवल नीचे बाएँ कोने में कुछ अस्पष्ट मुद्रण चिह्न/धब्बे उपस्थित हैं।

दशमः परिच्छेदः । १८४ वर्णप्रत्ययलिङ्गानां प्रकृत्योः पदयोरपि ॥ ११ ॥ श्लेषाद्विभक्तिवचनभाषाणामष्टधा च सः । क्रमेणोदाहरणम्— 'प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता । अवलम्बनाय दिनभर्तुरभून्न पतिष्यतः करसहस्रमपि ॥' अत्र 'विधौ' इति विधु-विधि-शब्दयोरेकादेशेन वर्णश्लेषः । 'किरणा हरिणाङ्कस्य दक्षिणश्च समीरणः । कान्तोत्सङ्गजुषां नूनं सर्वे एव व्यथाविदः ॥'

४८८ साहित्यदर्पणे

'महदे सुरसंधं मे तमव समासङ्गमागमाहरणे । हर बहुसरणं तं चित्तमोहमवसर उमे सहसा ॥' अत्र संस्कृतमहाराष्ट्ऱ्योः¹ । पदश्लेषोऽपीत्यवधेयम् ॥ भाषाश्लेषमाह—महदे इति । संस्कृतायॊ यथा—हे महदे उत्सवदे, हे उमे हे गौरि आगमाहरणे विद्याग्रहणे मे मम तं प्रसिद्धं समासङ्गं अव रक्ष । कीदृशम् । सुरसंधं देवप्रार्थनीयम् । अवसरे समये तं प्रसिद्धं चित्त- मोहं सहसा झटिति हर अपनय । कीदृशम् । बहुसरणं बहुविषयगामिनम् । प्रकृ- तार्थस्तु—मह-मम, देसु-देहि, रस-रतिम् । धम्मे-धर्मे, तमवस-तमोवशात्, आस-आशाम्, गमागमा-संसारात्, हर-अपनय, णे-अस्माकम्, हग्गबहु- शिववधू, सरणं-रक्षयित्री, तं-त्वम्, चित्तमोहं-चित्तमोह, अवसरउ-अवस- रतु, मे-मम, सहसेति । भाषासंमे तु भाषाणामैकरूप्यमेव, न त्वर्थभेदः ।

  1. संस्कृतेति । संस्कृतप्राकृतयोरित्यर्थः । उत्कृष्टं प्राकृतं महाराष्ट्रीति व्यपदिश्यते । न तु 'भक्तिविना वश नोहे वीण्यानें वा मृदङ्गनादानें । कन्यादानफलानें फेडी पापे मृदंगनादानें ॥' इत्यादिमहाराष्ट्रजनसुप्रसिद्धगायेति । तथा चोक्तं दण्डिना—'महारा- ष्ट्राश्रया भाषा प्रकृष्टं प्राकृतं विदुः । सागरः सूक्तिरत्नानां सेतुबन्धादि यन्मयम् ॥' इति । संस्कृतमागध्योः श्लेषो यथा—'फुल्लारिलावरोले शलिलेशे शालशालिवशारे । कमलाशवलाखिलेडमाले दिशमन्तकेऽनिशमे ॥' 'फुल्लारिणावरोल मधिक तरवा- रमऽविरलशूरम् । कमलाभवलालिवर मारयति शाम्यतो नियमम् ॥' इति मागधी छाया । 'फुल्लानि लालयन्ति पोषयन्त्येवशीला ये तेषां लावे छेदने लोम्बनिन् । शमन्तीति शलाः मोषमाः ते मन्ति यत्र देशे स शली तं लिशत्यल्पीकरोतीति शलिले- शमस्मिन् । शालिगुंहाैः शालन्ते शोभन्ते ये तादृशातीति शालशालिन्यः स चासौ शूर- श्चेति, दुःशननऋत्वात्, तथाभूते । कमला लक्ष्मीस्तस्याः शवा हरिद्रानेपु लन्ति नम- तीत्येवंशीलं बलं यस्य स तस्मिन् । मलनं माउ, न विद्यते मागो यस्यामाउमाळ- स्तस्मिन् । 'मक्ष धारणे' । अनिवार्य इत्यर्थः । अन्तके मृत्यौ सति स वासुदेवे विपदे वा दिशामन्तेना दिशमनिशं प्रनिशेटस्मि ।' इति संस्कृतवाच्यार्थः । मागधन्तु—'फुल्लानां पद्मिनीरोषाणां या आलिः पङ्क्तिस्तद्वाने रोद्धुं कत्तनशे यत्र तत् । मारयानां यात्रिक- द्धेवेष शूरं वडिग्ह्डिमारणसमर्थम् । कमलानामाभव मरहन्द ये यन्ति ते च नेविन्विथ नेत्रम् । नियमं नियोजितनहुःशास्त्रं वन्यतित शाम्यतः शममुपोदपि मागधी । हारि तादृशं मधिकं विशेषेण मुनयोऽपि क्षुभ्यन्ति ।' इति । संस्कृतपैशाच्योर्यथा—'रतनेप- नादानं शुभन्मरस्तु बहुल लदानीमम् । अपनिमान समने सोपाकितान ना' इत्यादि 'जने कृताने दाना मुखपीननेोपलदानीमम् । अपनिमान समने स पश्चिशानानं ? इति पैशाचीछाया । ...

[दशमः परिच्छेदः । ४८९]

पुनस्त्रिधा सभङ्गोऽथाभङ्गस्तदुभयात्मकः ॥ १२ ॥ एतद्भेद्त्रयं चोक्तभेदाष्टके यथासंभवं ज्ञेयम् । यथा वा— ‘येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो यश्चोद्वृत्तभुजंगहारवलयोगङ्गां च योऽधारयत् । इह त्वर्थभेदोऽपीति भेदः ॥ यथासंभवमिति । ‘पृथुकार्तस्वर-’इत्यादौ सभङ्गः । ‘नीतानाम्-’इत्यादावभङ्गः । ‘सर्वस्वं हर-’इत्यादौ सभङ्गाभङ्गः ॥ एकत्रैव तत्रितयमुदाहरति—यथावेति । सर्वदं. सर्वाभीष्टदाता माधव., सर्वदा दानानि दत्स तान् । तत्प्रसिद्धं छल मायामासीनमाश्रितम् । अपगतेर्वरात्सेव मानो यस्य तम् । अगा अचला निकाल्या कीर्तिर्यस्य तम् ।’ इति संस्कृतवाक्यार्थः । पैशाचन्तु ‘स पुरुषो रचयितुमात्मरचनाय कामविषये कृतामोदानां सुवर्णरजताभ्यामुत्कण्ठ्यो दान्यो दाता तथाभूतानां गणिकानामप्रतिमानं न क्षमते न सहते न तदानीमादरममिलिषन् कञ्चिद्रूपधृतगणिकोक्तोक्तिरियम् ।’ इति । संस्कृतशूरसेन्योर्यथा—‘तोदी नदिशिर- मशेऽकलहं स मदा बलं विदन्नारिदम् । आर दमेतावर सामदमार गदामारम् ॥’ ततो दृष्ट्वने गगनमदः कलहंसशनावदम्बिजान्नारितम् । आरतमेपावमर शाधनमार गतामा- रन् ॥’ इति । शूरसेनीच्छाया । ‘तुदति परानिति तोदी, देशान् दिक्षु उपदेशः नदा मद् वर्तत इति नदिकु न गणेन सहादेन मदो दस्य स , स निक् , सदा सर्वकालमेव अश्र- लहं परिभूतमत्त्वात्रिवेरम्, अत एव दमेताया उपशमचेष्टादा अवमरो दस्य तत्, तथाप्यन्ते द्विपदने इलामाः शरास्तान्पन्ति सण्डयन्तीलामदा धातृष्याः मद नैर्वचनं इति नाम- दम्, गदामारम्, इदमारीत्सक्त दम्पान्नर्मध्ये आर सनार ।’ इति संस्कृतवाक्यार्थः । शौरसेनस्तु—‘आरत्तो निवृत्तो नेपानान्दनगो दत्र । शत्रनो नारः गनो दश । गत आमारो यतस्त्व । शारदत्तमोवर्षन्ननेतर ।’ इति । संस्कृतपैशाचयोर्यथा—‘धीराः ण्डगुने रनदुरुरवारिमद सु । अभवदम्रप्रसरावरशुरनिर्जरा तेज सु ॥’ ‘धीरा गण्डुड नेदनमो दुधैर्वाधिकदस्यु । अभवदप्रसराररण रविनिजितास्ते दस्य ॥’ इत्यपभ्रंश- च्छाया । ‘हे रमे, अवेरिव दुधैर्वादा इव द्विष द्विशिक्ष निर्यामन दम्याः दद्याभूता, दृण्हत्सु, लघुः दग्धा, अमे दाने नाशदि द. नः व्यथितोऽन्न प्रसूरो दस्याः ना अभवत्प्रमदा गण उद्दिष्वन्मपि पङ्क्त्या वरा प्रत्यक्षानिम्नगा दग्धाऽनुङ्गत दृष्ट ऋदि च नक्षूद्रस्य च तदेव सहो दूर्द देवा हेतु तेज ह । वरदानन्दनेऽस्त्वित्यर्थः । अभ्राण्ड् अभवद् ररनिर्यान्मण्डुडिना स्त्री गङ्गाऽग्रं दण्डान्तोपनीताऽवेऽपि धीरा गच्छता प्य- सनेन सत्या न्व्या’ इति संस्कृतवाक्यार्थः । ‘हे धीराः, दुर्धरा वारिणो दन्यते यत्र त्या- गृहस्तत्तेजोधनं इति गच्छन्तस्तस्तु । दस्य नेत्रक्रमः- हे न इमे दशवीक्षकाण्ड मृत्यो- वेषा वाह्णव रविनिराण दान हवीतः ।’ इत्यपभ्रंशवाक्यार्थः । १. पुनरिति । त्रिभिर्भेदैरयं शेषः सङ्कीर्णेऽपि पृथगुदाहरणीयस्तदुभयात्मकश्चेति- विषमपदेनैवेष्यते ॥

The provided image is completely blank and contains no text to transcribe.

दशमः परिच्छेदः । ४८९ पुनस्त्रिधा सभङ्गोऽप्यभङ्गस्तदुभयात्मकः ॥ १२ ॥ एतद्भेदत्रयं चोक्तभेदाष्टके यथासंभवं ज्ञेयम् । यथा वा— 'येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो यश्चोद्वृत्तभुजंगहारवलयोगङ्गां च योऽधारयत् । इह त्वर्थभेदोऽपीति भेदः ॥ यथासंभवमिति । 'पृथुकर्तस्वर-'इत्यादौ सभङ्गः । 'नीतानाम्-'इत्यादावभङ्गः । 'सर्वस्वं हर-'इत्यादौ सभङ्गाभङ्गः ॥ एकत्रैव त्रितयमुदाहरति-यथावेति । सर्वद सर्वाभीष्टदाता माधवः, सर्वदा दानानि दत्स ताम् । तत्प्रसिद्धं छलं मायामासीनोमाश्रितम् । अपगतैर्वकास्येव मानो यस्य तम् । अगा अचला निकाना दीप्तिर्यस्य तम् ।' इति संस्कृतवाक्यार्थः । पैशाचन्तु 'स पुम्यो रखयितुमात्मरसनाय कामिनिम्ये कृतामोशाय सुवपीरजनाभ्यासुन्दलन्तो दान्यो दाहा तथाभूताना गणिकानामप्रतिमान न धमते न सहते न तदानीमादरमलिनजन- कच्विदुपन्रूताणिकम्योच्चिरिदम् ।' इति । संस्तसूरसेन्योर्यथा—'तोदी तरिणग- मशेड़कल्ह स लढा दलं विरम्भरिदम् । आर दनेरावरन मानदमार गरामागन् ॥' ततो दृश्यते गगनमटं दलरसतायत्वम्दितान्तरितम् । आरनमेनावर मर साधनमार गतामा- रन् ॥' इति । सूरसेनीच्छाया । 'तुदति परानिति तोदी, देशांनं दिक् उपदेशं तना मह वर्तन इति तद्दिक् न गणेन स्ररायेन मशे दम्प सः, स नित्, सदा सर्वगात्मदेव अन- ल्ह परिभूत्वाविपिरम्, अत एव दनेराया उपशमवेठाया अननरो दन्य तम्, तथाभ्यन्ते क्षिप्यन्ते श्लानाः शरासाम्दन्ति मण्डदनीलासदा भामुण्डा सह मर्दैर्नत इति म--- दम्, गदासारम्, इद्मारमरिभक्त वल्कमन्मध्ये आर नमार ।' इति संस्कृतवाक्यार्थः । सौरसेनस्तु—'आरतो निवृत्तो मेयानान्दनं ते दतः । गधनी भारः चापो दत्तः । गत्त अनारो दतस्तद् । शारदनभोवर्णनमेतत् ।' इति । सस्कृतअपभ्रंशयोर्यथा—'धीरा- चट्टुने हरुद्दूरवारिन्द स । अमन्दपमराहरुन्विग्निता देन स ॥' 'धीरा गच्छतु नेदनमो दुर्धरवारिदस्तु । अमन्दप्रसाररुत रविग्नितान्ते दन्न ॥' इत्यपभ्रंश- छाया । 'हे हर्रे, अतीव भूरिबाबा इव क्षिप्रं श्वित्रन् निर्गतं यस्याः मयाभूता, रहट्टस्य, अङ्कः रणा, अगे गाने मारुति दन्तः न्यस्तितोम्य प्रस्तो दन्तः ना असमस्तमरा यत्र असन्दिमपि रुष्ट्वा यत्र मन्दारविष्णुना वल्नच्छुद्रा इन न्यूरो- च ममुखल च यत्रैन स्तौ युष्ट्र देवा तेषु तेन सः । पशगतान्तेऽशिशेषः । अमन्दम् अदनन् रदन्निर्गमन्दुःस्तिन मही गन्त्वा ददान्तैरतीतमरीचि दीप्र नम्रता म्म- स्तकेन सख्या भवा' इति संस्कृतवाक्यार्थः । 'हे धीराः, दुर्धर वारिदा दम्यो यत्र मया- भूतन्वेदनम् इति श्लोकपुष्पवाक्यम् । दस्य नेदनमनः ते न अयं दर्शयन्वाक्यः प्रस्तो- देषा नाशूना रविग्निता एन एनोदेः ।' इत्यपभ्रंशवाक्यार्थः ॥

  1. पुनरिति । विशेषोऽस्य हेतः सङ्घटनाविशेषदशावशंवदत्वेन प्रागसङ्कीर्णत्वा- दित्यनया दिशोपदिश्यते ॥

यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः पायात्स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाधवः ॥' अत्र 'येन-' इत्यादौ सभङ्गश्लेषः । 'अन्धक-'इत्यादावभङ्गः । अ- नयोश्चैकत्र संभवात्सभङ्गाभङ्गात्मको ग्रन्थगौरवभयात्पृथङ्नोदाहृतः । अत्र केचिदाहुः—'सभङ्गश्लेष एव शब्दश्लेषविषयः । यत्रोदात्तादि- स्वरभेदाद्भिन्नप्रयत्नोच्चार्यत्वेन भिन्नयोः शब्दयोर्जतुकाष्ठन्यायेन श्लेषः । अभङ्गस्त्वर्थश्लेष एव । य॑त्र स्वरभेदादभिन्नप्रयत्नोच्चार्यतया शब्दाभेदाद- र्थयोरेकवृन्तगतफलद्वयन्यायेन श्लेषः । यो हि यदाश्रितः स तदलंकार एव । अलंकार्यालंकरणभावस्य लोकवदाश्रयाश्रयिभावेनोपपत्तिः' इति । तदन्ये न क्षमन्ते । उमाधवश्च त्वा पायात् । माधवपक्षे—येन अभवेन जन्मरहितेन अन शकटं न्वस्तं पादेन परावर्तितम् । बलेरसुरराजस्य जेता । काय पुरा अमृतपरि- वेषणावसरे स्त्रीकृतः स्त्रीत्वं प्रापितः । अमृतार्थं विवदमानाना देवासुराणाम- मृतपरिवेषणाय मायया नारायणेन मोहिनीरूपं धृतमिति पुराणवार्ता । यश्चोदृ- त्तस्य उन्मत्तस्य अभङ्गस्य अघासुरस्य हन्ता । यद्वा कालियस्य पीडाकरः । आरखलय अरिसम्बन्धि सैन्यं यातीत्यर्थः । यद्वा उद्धत्तभुजंगहार बलं यस्य तेन गरुडेन यातीत्यर्थ । अगं गोवर्धनं कृष्णरूपेण, गां पृथ्वीं च कूर्मरूपेण योऽधारयत् । शशिनं मन्नातीति शशिमद्भाहु तस्य शिरोहर इति स्तुत्यं नाम यस्य चामरा आहुः । अन्धकाना यादवाना क्षयकरो द्वारकाप्यनिवासनिर्माता । उमाववपक्षे—येन ध्वस्तमनोभवेन विनाशितकामेन बलिजितो विष्णो कायं पुग स्त्रीकृतः । मोहिनीरूपदिदृक्षुणा शिवेन प्रेरितो विष्णु पुनःर्मोहिनीरूपं दधारेति पुराणवार्ता । यश्च उद्धृत्तौ उत्कर्षेण वर्तितौ भुजंगरूपी हारवलयौ येन सः । यश्च शिरसि गङ्गामधारयत् । यद्वा शरीरार्धेन गौरीम्, शिरसि गङ्गा चेत्यभिप्रायेण च- कारः । यस्य शिरः शशिमचन्द्रयुक्तं हर इति स्तुत्यं नाम चामरा आहु । अन्ध- कस्य असुरविशेषस्य विनाशकरः ॥ श्लेषस्तावच्छब्दालंकारोऽर्थालंकारश्च सन्भवति, तयोः परमतनिराकरणपूर्वकं भेद निरूपयति—अत्रेति जतुकाष्ठेति । पृथगु- पलभ्यमानयोरपि जतुकाष्ठयोर्योगे यथैकत्वप्रतिभासस्त्वेहापीत्यर्थः । लोकव-

  1. यत्रेति । समानभेदेनोदात्तादिस्वरभेदाद्भिन्नप्रयत्नोच्चारणयोग्ययोरपि शब्दयो श्लेषभङ्गभयेन स्वरभेदानादरादेकप्रयत्नोच्चारणे जतुकाष्ठन्यायेन शब्दश्लेष इति भावः ॥
  2. यत्र स्वरेति । समानाभेदेनोदात्तादिभेदाभावादभिन्नप्रयत्नोच्चार्यत्वेन शब्दाभेदा- भावे केवलमर्थयोरेकवृन्तगतफलद्वयन्यायेन श्लिष्टत्वादर्थश्लेष इति भावः ॥
  3. पुराणवार्तेति । अस्त्रीकृत इति च्छेदः । त्रिपुरवधे विष्णुरस्य बाणो बभूवेति १. 'द्वेष' इ पुस्तके नास्ति. २. 'इह' घ. ३. 'मन्यन्ते' घ.

दशमः परिच्छेदः। ४९१ तथाहि—अत्र ध्वनिगुणीभूतव्यङ्ग्यदोषगुणालंकाराणां शब्दार्थ- गतत्वेन व्यवस्थितेरन्वयव्यतिरेकानुविधायित्वेन नियम इति।¹ न च 'अन्धकक्षय-' इत्यादौ शब्दभेदः, 'अर्थभेदेन शब्दभेदः' इति ²दर्श- नात्। किं चात्र शब्दस्यैव मुख्यतया वैचित्र्यबोधोपायत्वेन कविप्रति- भयोल्लङ्घनाच्छब्दालंकारत्वमेव। विसदृशशब्दद्वयस्य बन्धे चैवंविधस्य वैचित्र्याभावाद् वैचित्र्यस्यैव चालंकारत्वात्। अर्थमुखप्रेक्षितया ³चा- र्थालंकारत्वेऽनुप्रासादीनामपि रसादिपरत्वेनार्थमुखप्रेक्षितयार्थालंकारत्व- प्रसङ्गः। शब्दस्याभिन्नप्रयत्नोच्चार्यत्वेनार्थालंकारत्वे 'प्रतिकूलतामुपगते हि विधौ' इत्यादौ शब्दभेदेऽप्यर्थालंकारत्वं तवापि प्रसज्यतइत्युभय- त्रापि शब्दालंकारत्वमेव। यत्र तु शब्दपरिवर्तनेऽपि न ⁴श्लेषत्व- खण्डना, तत्र— ष्टिति। यथा लोके मौल्यादिगतं मुकुटादि मस्तकालङ्कारत्वेन व्यपदिश्यते तथा काव्येऽपीत्यर्थः॥ दूषयति—तदन्ये इति। शब्दभेदादर्थश्लेष इति यदुक्तं तद्दूष- यति—न चेति। दर्शनस्य प्रामाण्यानभ्युपगमे त्वाह—किं चेति। कविप्रतिभया कवीनामनुभवेन उल्लङ्घनाद् विषयीकरणात्। शब्दस्यान्वयानुविधायित्वं प्रदर्श्य व्यतिरेकानुविधायित्वं दर्शयति—विसदृशेति। बन्धे चेति चकारस्य वैचित्र्या- भावश्चेत्यन्वयः। ननु वैचित्र्यस्य शब्दान्वयव्यतिरेकानुविधायित्वेन किमायातमत आह—वैचित्र्यस्यैवेति। अलंकारत्वालंकारनियामकत्वात्। अर्थमुखप्रेक्षित- या अर्थानुसंधानसापेक्षत्वेन अर्थालंकारत्वे अर्थालंकारत्वाङ्गीकारे। रसादि- परत्वेन रसाद्युत्कर्षानिप्रायप्रयोज्यत्वेन। शब्दभेदेऽपीति। 'विधौ' इत्यादौ स्वरभेदाभावेन एकप्रयत्नेनैव शब्दद्वयोच्चारणादर्थद्वयप्रतीतिरिति भावः। उभयत्र पुराणवार्ता इति तु युक्तम्॥ तथा च शिवमहिम्न. स्तवे—'रथः क्षोणी यन्ता शतधृति- रगेन्द्रो धनुरथो रथाङ्गे चन्द्रार्कौ रथचरणपाणिः शर इति'॥

  1. शब्दार्थेति। पर्यायान्तरपरिवृत्तितत्त्यागसहत्वाभ्यां शब्दार्थगतव्यवस्थितिरिति भावः॥
  2. दर्शनादिति। 'यावन्त एवमर्थाः स्युः शब्दास्तावन्त एव हि।' इत्याद्युन्मिष्ट- कादित्यर्थः॥
  3. शब्दभेद इति। विधिविधुशब्दयो. पार्थक्येऽपीत्यर्थः॥
  4. श्लेषत्वेति। श्लेषत्वखण्डना श्लेषभङ्गः॥ १. 'अर्थ' इति नास्ति क-ख पुस्तयोः २. 'लोके' इति मुद्रितपुस्तके नास्ति. ३. 'अप्यर्थांशा- रत्वे' इति पुस्तकान्तरे नास्ति.

The provided image is completely blank and contains no text to transcribe.

दशमः परिच्छेदः । ४९५ लम्-' इत्यादौ च नोपमाप्रतिभोत्पत्तिहेतुः श्लेषः । पूर्णोपमाया निर्वि- षयत्वापत्तेः । 'कमलमिव मुखं मनोज्ञमेतत्' इत्याद्यस्ति पूर्णोपमाया वि- षय इति चेत् । न । यदि 'सकल-' इत्यादौ शब्दश्लेषतया नोपमा तत्किमपराद्धं 'मनोज्ञम्' इत्यादावर्थश्लेषेण । 'स्फुटमर्थालंकारावेतावुपमासमुच्चयौ, किं तु । आश्रित्य शब्दमात्रं सामान्यमिहापि संभवतः ॥' इति रुद्रटोक्तदिशा गुणक्रियासाम्यवच्छब्दसाम्यस्याप्युपमाप्रयोजक- त्वात् । ननु गुणक्रियासाम्यस्यैवोपमाप्रयोजकता युक्ता, तत्र साधर्म्यस्य वास्तवत्वात् । शब्दसाम्यस्य तु न तथा, तत्र साधर्म्यस्यावास्तवत्वात् । ततश्च पूर्णोपमाया अन्यथानुपपत्त्या, गुणक्रियासाम्यस्यैवार्थश्लेषविषयत- मित्यादौ चेति । श्लेषो नोपमाबाधक इति भावः । तत् तदा । शब्द- मात्रं सामान्यमाश्रित्यापीहालंकारमध्ये संभवत इत्यन्वयः । यद्यपि 'सकल- कलम्-' इत्यादावेकप्रयत्नेन शब्दद्वयोत्पत्त्या शब्दस्याप्येकत्वं न संभवति, तथा- प्येकानुपूर्व्यवच्छिन्नत्वेन शब्दयोरेकत्वप्रतिभास इति भावः । समुच्चयालंकारे एक- धर्माभिसंबन्धस्य निवेशाभावात्तत्समुच्चयपदमत्र तुल्ययोगितापरं दीपकपरं च तयोस्तत्सम्भवात् । नन्वेवं 'किं च तुल्ययोगितायाम्-' इत्यादिना श्लेषतुल्ययोगि- तयोर्विषयविभागः कृतः स न संगच्छते 'येन ध्वस्त-' इत्यादावपि शब्दरूपै- कधर्मसंबन्धस्य सत्त्वेन तुल्ययोगिताया विषयसंभवादिति चेत् । सत्यम् । यत्रानेक- सैकधर्मसंबन्धावगमे द्विवचनबहुवचनचकाराद्यपेक्षा तत्रैव दीपक तुल्ययोगितयो- र्विषयः । 'येन ध्वस्त-' इत्यादौ तु द्विवचनाद्यपेक्षाविरहेण तुल्ययोगिताया विषय एव नास्ति । एवं ययोरेकधर्मसंबन्धस्तयोरेकप्रयत्नोच्चार्यपदवाच्यत्वं दीपक तुल्य- योगितालक्षणे निवेशनीयमतो नातिप्रसङ्गः । एवं च 'स्वेच्छोपजातविषयोऽपि-' इत्यादिदीपकस्य 'किरणा हरिणाङ्कस्य-' इत्यादि, 'विकसन्नेत्रनीलाब्जे-' इत्यादि च तुल्ययोगितायाश्च विषय इति ध्येयम् । गुणक्रियासाम्यवद्गुणक्रियासाम्यस्येव । तत्र गुणक्रियासाम्यप्रयुक्तोपमायाम् । वास्तवत्वाद् वस्तुसमवेतत्वात् । न तथा नोपमाप्रयोजकता । तत्र शब्दसाम्यप्रयुक्तोपमायाम् । साधर्म्यस्य शब्द- रूपसामान्यस्य धर्मस्य । अवास्तवत्वाद् उपमानोपमेयरूपवस्तुनोरसमवेत-

  1. कमलेति । 'कमलमिव मुखं मनोज्ञमेतत्क्वचित्त्विराम्' इत्यत्र मनोज्ञत्वलक्षणस्य गुणस्य, प्रकाशलक्षणायाः क्रियायाः, गुणक्रिययोर्वा साम्यात्पूर्णोपमाविषयोऽस्तीत्यर्थः ॥
  2. मनोज्ञमिति । मनोज्ञत्वेनोन्मानेनोन्मत्तयोः कमलमुखयोर्भेदेन क्लिष्टत्वादर्थ- श्लेष इत्यर्थः ॥ १. 'रुद्रटोक्त' क. २. 'च' इति नास्ति घ-पुस्तके ३ 'दृश्यते' घ. ४. 'विषयता' ग. ५. 'यत्र धर्मिनिष्ठान्यतरोत्थाप्यशब्दबोध्यतया द्विवचनचकाराद्यपेक्षा' इति मुद्रितपुस्तके. ६. 'एवं च पूर्वोक्तनिरूपने च स्त्रीत्यर्थ' इति मुद्रितपुस्तके पाठः. ७. 'अत्र' इति मुद्रितपुस्तके.

५१२ साहित्यदर्पणे 'प्रकृतिप्रत्ययौ स्वस्वार्थबोधकौ' इति च मतद्वयेऽपि वत्यादिक्यङाद्योः साम्यमेवेति । यच्च केचिदाहुः—'वत्यादय इवार्थेऽनुशिष्यन्ते, क्यङा- दयस्त्वाचाराद्यर्थे' इति । तदपि न । न खलु क्यङादय आचारमात्रार्थाः, अपि तु सादृश्याचारार्था इति । तदेवं धर्मलोपे दशप्रकारा लुप्ता । उपमानानुपादाने द्विधा वाक्यसमासयोः । उदाहरणम्— 'तस्या मुखेन सदृशं रम्यं नास्ते न वा नयनतुल्यम् ।' दितं प्रकृतिप्रत्ययसमुदायं, वाचकं प्रकृत्यर्थविशिष्टप्रत्ययार्थप्रतिपादकम् । स्वस्वार्थबोधकौ क्रमेण स्वार्थप्रतिपादकौ । वत्यादीति । आदिपदेन कल्पादि- परिग्रहः । साम्यमेवेति । सादृश्यवाचकत्वेन साम्यमित्यर्थः । आचाराद्यर्थ इति । 'अनुशिष्यन्ते' इत्यन्वयः । अपि त्विति । किंत्वित्यर्थः । 'अपि तर्हि' इति पाठे किं तर्हीत्यर्थे । उपसंहरति—तदेवमिति । वस्तुतस्तु 'चन्द्रायते शुक्लरुचापि हंस' इत्यादौ साधारणधर्मोपादानेऽपि क्यङादियोगे उपमादर्शना- दार्थ्या उपमायास्तद्धितादित्रितयगतत्ववत् क्यजादिपञ्चकगतत्वेन विशेषो बोध्यः । एवं चाष्टप्रकाराया आर्थ्या धर्मलोपालोपाभ्यां षोडशप्रकारत्वं बोध्यम् । क्यजादि- पञ्चके धर्मलोपे उदाहरणं यथा—'वीरः प्रीतिकरत्वेन पर्यङ्कीयति मञ्चके । मित्री- यति परं प्रेम्णा भक्त्या देवायते नृणाम् ॥ देवदर्शं जने साधु प्रतीक्ष्यत्वेन दृश्यते । कृपया विष्णुसञ्चारं नित्यं सचरति क्षितौ ॥' अत्र तृतीयान्तपदार्थानां क्यजाद्यर्थे सादृश्येऽभेदेनान्वयः ॥ उपमानलुप्तामुपमामाह—उपमानेति । 'लुप्तो- पमा' इत्यनुषङ्गः ॥ न वेति । न वा नयनतुल्यरम्यमास्त इत्यन्वयः । अन्यथा त्वनिष्टमेव । अन्यथा उपास्यते हरः, अनुभूयते सुखम्, इत्यादौ धात्वर्थात्मनभवनक्रि- ययोरकर्मकत्वेन कर्मत्वारोपपत्तिर्न स्यात् । इवादीनां तु वाचकत्वमेव । उपमेयमानगता- यामिवेदादिवाचकतायाः प्रतिबन्धकराहित्येन दृष्टान्तवैषम्यस्य सद्भावाद् विशेष्यविशेष्ययो- रेकविभक्तित्वे 'विशेष्येण सहेकार्थं भवेद्यत्र विशेषणम् । तत्र लिङ्गादयः प्रायो विशे- ष्याद्वा विशेषणे ॥' इत्यनुशासनस्येवोपमानोपमेययोरपि तत्र 'लिङ्गसंख्याविभेदेऽपि उप- मानोपमेयता । विभक्तिः पुनरेकैव उपमानोपमेययोः ॥' इत्यनुशासनस्य जागरूकत्वेन 'शरैरुस्रैः-' इत्यादावुपमानपदोत्तरतृतीयादेः सुसंपादकत्वाच्च । प्रायोग्रहणेन 'दिगन्ते श्रूयन्ते मदमलिनगण्डाः करटिनः करिण्यः कारुण्यात्पदम्—' इत्यादि विशेष्यविशेष्ययो- र्लिङ्गादिभेदेऽपि न काचिदनुपपत्तिरित्यन्यत्र विस्तरः ॥ १. क्यङादय इति । अयमभिप्रायः—'कर्त्तुः क्यङ् सलोपश्च' इत्यत्र 'उपमानादाचारे' इत्यत उपमानपदममुवर्त्तते, तेनेवार्थमात्राद्वाऽपि बोधे सादृश्याचाराद्यर्थः क्यङिति । १. 'स्वार्थबोधकौ' क. २. 'षोडशप्रकारा बोद्ध्या' इति मुद्रितपुस्तके.

दशमः परिच्छेदः । ५१३ अत्र मुखनयनप्रतिनिधिवस्त्वन्तरयोर्गम्यमानत्वादुपमानलोपः। अत्रैव च ‘मुखेन सदृशं’ इत्यत्र ‘मुखं यथेदं’, ‘नयनतुल्यं’ इत्यत्र ‘दृगिव’ इति पाठे श्रौत्यपि संभवतीति । अनयोर्भेदयोः प्रत्येकं श्रौत्यार्थीत्वभेदेन चतुर्विधत्वसम्भवेऽपि प्राचीनानां रीत्या द्विप्रकारत्वमेवोक्तम् । औपम्यवाचिनो लोपे समासे क्विपि च द्विधा ॥ २० ॥ क्रमेणोदाहरणम्— ‘वदनं मृगशावाक्ष्याः सुधाकरमनोहरम् ।’ ‘गर्दभति श्रुतिपरुषं व्यक्तं निनदन्महात्मनां पुरतः ।’ अत्र ‘गर्दभति’ इत्यत्रौपम्यवाचिनः क्विपो लोपः । न चेहोपमेयस्यापि लोपः । ‘निनदन्’ इत्यनेनैव निर्देशात् । द्विधा समासे वाक्ये च लोपे धर्मोपमानयोः । ‘तस्या मुखेन’ इत्यादौ ‘रम्यं’ इति स्थाने ‘लोके’ इति पाठेऽनयो- रुदाहरणम् । क्विप्समासगता द्वेधा धर्मेवादिविलोपने ॥ २१ ॥ धर्मोपमानलोपोदाहरणमिदं स्यात् । प्रतिनिधीति । सदृशेत्यर्थः ॥ द्व्यर्थमुप- माह—औपम्येति । यत्र वाशब्दादिक्विबलोपे विद्येते तत्र पूर्वोक्तद्वैविध्य- मुत्क्षिप्यते ॥ वदनमिति । उपमानोपमेयौ धर्मः दत्तः इति बहुव्रीहिसमासेन । इवार्थस्य समासगम्यतया इवपदाप्रयोगः । यद्यप्यत्र सादृश्यवाचिपदस्य इतीदं षडुपमागतविलोपोदाहरणम् । सुधाकर इव मनोहरमिति ‘उपमानानि सामान्यव- चनैः’ इति कर्मधारयः । एतदेव प्रत्युदाहरणम् । क्विपि उदाहरणम्—गर्द- भतीति । गर्दभ इवाचरतीत्यर्थे क्विपि द्वितीयान्तात्क्विप् । यद्यप्यत्र ‘सर्वप्रातिप- दिकाद्वै क्विपो लोपेऽपि कर्तुरस्य दृश्यस्य तत्त्वेऽपि सादृश्यवाचिपदोपादानस्यानु- गन्तव्यम् । अत्र श्रुतिपरुषनिनदः सादृश्यधर्मः श्रुतिपरुष एव । निर्देशोदिति । उपमेयस्येत्यनेनेत्यन्वयः ॥ एवमेवोपलक्षणमुक्त्वा द्वितीयप्रकारमाह—द्विधेत्यादि

  1. सुधाकरेति । ‘उपमानं सामान्यवचनैः’ इति सूत्रेणेह समासोऽत्र सादृश्यवाचिपद- इत्यनेन नायं पूर्वोपमासमासेन भवति इति पूर्वोक्तं व्याख्यातम्—इत्याशङ्क्य सा- दर्शितदिनेतरस्य समासोऽभ्युपेतो न त्वयमिति द्रष्टव्यम्, किन्तु साधर्म्यवाचकपदेन पृथक्समासप्रयोगः कृतो नान्येन सह समासविधानस्य कुत्राप्यदर्शनात्—
  2. गर्दभतीति । ‘सर्वप्रातिपदिकात् क्विब्वा वक्तव्यः’ (वार्तिकम्—३।१।११) इति सूत्रम् ? इति क्वब्विधानेनात्राप्यौपम्यवाचिनः क्विबः लोप इति भावः । इत्यनेनोपमेयनिर्देशोऽवसितव्यः ।

५१८ साहित्यदर्पणे यथा— 'चन्द्रायते शुक्लरुचापि हंसो हंसायते चारुगतेन कान्ता । कान्तायते स्पर्शसुखेन वारि वारीयते स्वच्छतया विहायः ॥' मालोपमा यदेकस्योपमानं बहु दृश्यते । यथा— 'वारिजेनेव सरसी शशिनेव निशीथिनी । यौवनेनेव वनिता नगेन श्रीर्मनोहरा ॥' क्वचिदुपमानोपमेययोर्द्वयोरपि प्रकृतत्वं दृश्यते— 'हंसश्चन्द्र इवाभाति जलं व्योमतलं यथा । विमलाः कुमुदानीव तारकाः शरदागमे ॥' 'अस्य राज्ञो गृहे भान्ति भूपाना ता विभूतयः । पुरंदरस्य भवने कल्पवृक्षभवा इव ॥' तस्योपमानता यदि स्यादित्यर्थः । इयं साधारणधर्मस्याभेदे भेदे च संभवतीति द्विधा ॥ तत्राद्या यथा-'महाभृतो वदान्यस्य भारतीवामला मतिः । चेष्टा मतिरिव स्वच्छा चेष्टेव गुणसंततिः ॥' अत्र स्वच्छत्वमेकमेव साधारणो धर्मः ॥ द्वितीया- माह—चन्द्रायत इति । चन्द्र इवाचरतीत्यर्थः ॥ मालोपमामाह—मालो- पमेति । बहुत्येकाधिकपरम् । तेन 'तां हंसमाला शरद्रीव गङ्गां महौषधीर्न- क्तमिवात्मभासः । स्थिरोपदेशामुपदेशकाले प्रपेदिरे प्राक्तनजन्मविद्याः ॥' इत्यादावुपमाद्वयेऽपि मालालमक्षतम् । इयमपि पूर्ववद्द्विधा । तत्राद्यामाह— वारिजेनेति । अत्र मनोहरत्वमेकमेव सादृश्यहेतुः । द्वितीया यथा—'ज्योत्स्नेव नयनानन्दः सुधेव मदकारणम् । प्रभृतेव समाकृष्टसर्वलोका नितम्बिनी ॥' अत्र नेत्रानन्दजननादयो विभिन्नधर्मा एव सादृश्यानां हेतवः ॥ उपमेयस्य प्रकृतत्वमु- पमानस्याप्रकृतत्वं प्रायिकमित्यभिप्रायेणाह—क्वचिदिति । प्रकृतत्वं वर्णनीयस्यो- त्कर्षाधायकत्वेनाकाङ्क्षितत्वम् ॥ हंस इति । हंसादय इव चन्द्रादयोऽपि वर्णनी- यशरत्कालसोत्कर्षाधायकत्वेनाकाङ्क्षिताः । 'विमला' इति पाठो न रमणीयः, भग्नप्रक्रमतया कुमुदानीत्युपमानान्वयायोग्यत्वात् । तस्मात् 'लसन्ति' इति पाठो द्रष्टव्यैः॥ प्राचीनसमतानाक्षेपोपमादीनुपमाप्रकारान्वैचित्र्यातिशायानाधायकत्वेनोपेक्ष- माण आह—अस्य राज्ञ इति । कल्पवृक्षभवाः कल्पवृक्षोत्पन्ना विभूतय इत्यर्थः ॥ १. मालेति । यथा काचिन्माला सजातीयैः कुसुमैः काचिच्च विजातीयैर्निर्मायते तथैवे- यमपि सजातीयैर्विजातीयैर्वा बहुभिरुपमानैरिति भावः । एकस्य उपमेयस्येत्यर्थः ॥ १. 'यथा' पुस्तकान्तरे नास्ति. २. 'वस्तुतस्तु प्रकृतयोरेकधर्माभिसंबन्धरूपतुल्ययोगितेयमे न तूपमा । एव चात्र यथैवशब्दप्रयोगस्तुल्ययोगिताद्योतकताधर्त्वेन न गौण एवेत्यवधेयम् ।' इति मुद्रितपुस्तकेऽधिकम्.