षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
[header] श्रीमद्विट्ठलेश्वरविरचितविवृतिसमेता । ७ [/header]
इति भावः । मर्यादास्थावपि ज्ञानिभक्तौ चेदनुगृह्णाति विशेषतः, तदा आदौ पुष्टि- मार्गं प्राप्य तन्मार्गीयां भक्तिं प्राप्नुत इत्याहुः उभयोरिति । यदि मर्यादायामेवाङ्गीकारः, तदोभयोर्मुक्तिरेव फलिष्यतीत्याशयः । एवं निरूपणे तात्पर्यमाहुः ज्ञानाधिक इति । लोकेऽधुना भक्तेरपि ज्ञानं फलं, तस्य मुक्तिरेवेति सर्वे वदन्ति । तत्र ज्ञानं हि ब्रह्मात्मैक्य- ज्ञानम् । ब्रह्म चाक्षरात्मकम्, तदात्मकत्वेन सर्वज्ञानं च। एतावतापि पुरुषोत्तमसम्बन्धस्तु दूरतरः । तस्य अक्षरातीतत्वात् । अत एवार्जुनेन पुरुषोत्तमाक्षरभजनयोस्तारतम्यं पृष्टः स्वभजन आधिक्यमाह गीतासु द्वादशेऽध्याये । गङ्गायां च क्षराक्षरपुरुषोत्तमतारतम्यदृष्टान्तः स्पष्टः । न हि देवी तीर्थात्सिका जलात्मिका वा, किन्तु जल एव तीर्थात्मकत्वं जानन् ज्ञानी भवति । तदतीतदेवतात्मकदर्शने भक्तत्वम् । न हि भक्त्या देवताद्रष्टृसमः पूर्वो भवति । अत एव पुरुषोत्तमं मां जानन् मामेव सर्वभावेन भजतीति 'यो मामेवमसंमूढ' इत्युपक्रम्य 'भजति मां सर्वभावेने' ति प्रभुरुक्तवान् । अतो ज्ञानमार्गीयस्यापि पुरुषोत्तम- विदोपि भक्तिनिष्ठैव फलमिति किमितोऽधिकं वाच्यम्, अनेकप्रमाणसिद्धत्वादिति विद्वद्भिर्ज्ञेयम् । ऋग्वेदेपि पठ्यते 'तमु स्तोतारः पूर्व्यं यथाविद ऋतस्य गर्भ जनुषा पिपर्तन । आस्य जानन्तो नाम चिद्विवक्तन महस्ते विष्णो सुमतिं भजामहे ।' हे स्तोतारो मदुत्कर्षवर्ण- नपराः पूर्व्यं सर्वकारणकारणरूपं तं लोकवेदप्रसिद्धं पुरुषोत्तमं भवन्तो यथावद्विदन्ति तत्स्वरू- पमिति तथाभूताः । ऋतस्य सूनृतवाणीरूपस्य वेदस्य गर्भरूपम् । स्वोदरस्थं वेदं विश्वहितार्थं ब्रह्मण उपदिष्टवानिति तथा । जनुषा स्वजन्मनेव सम्पूर्णेन, न तु क्षणयाममात्रेण पिपर्तन पूर्तियुक्तं सन्तुष्टं कुरुत । अत्र यथावित्त्वोक्त्या पूर्णज्ञानानां देहेन्द्रियप्राणान्तःकरण- जीवांस्तदर्थमेव तद्भजनार्थमेवोपयुक्तान् कुरुतेति भक्तिमार्गे विनियोगमुपदिशति । तेन स्फुटमेव ज्ञानमार्गाद्भक्तिमार्गस्याधिक्यमवगम्यते । भक्त्या विना न कोपि पुरुषार्थः
[section-header] श्रीमद्गोकुलनाथकृतविवृतिटिप्पणी । [/section-header]
उभयोरित्याभास उक्तो मर्यादास्थावपीति । अयमाशयः । यदि मर्यादापुष्टिमार्गियो- रप्येकमेव फलं स्यात्, तदा मार्गभेदेनाङ्गीकारोऽनुपपन्नः स्यात्, मूले च साधारण्येनोभयो- रपि फलैक्यप्रतिपादनाद्भवति सन्देहः, तस्मादुक्तं यद्युभावपि अनुगृह्णाति, तदोभयोरपि मर्या- दांशं त्याजयित्वा केवलपुष्टिमार्गे प्रवेशं कारयित्वा पूर्वोक्तं सेवारूपं फलं प्रयच्छति, तथा नाङ्गीकरोतीति चेत्, तदोभयोरपि मुक्तिमेव ददातीत्येतदेवोक्तं यदीति । एतेन मर्यादांशत्याजनपूर्वकपुष्टिमार्गेऽङ्गीकार इति स्पष्टमेव ज्ञानमार्गाधिक्यं भक्तिमार्गे । द्वादशेऽध्याये 'येत्वक्षर' मिति 'ये तु सर्वाणि कर्माणी'त्यादिभिरित्यर्थः । ननु ज्ञानभक्त्योः साम्यमेव कुतो नेति चेत् । न । ज्ञानमार्गस्याक्षरपर्यवसायित्वाद्भक्तिमार्गस्य पुरुषोत्तमपर्य- वसायित्वात्तयोः भेदस्य च गङ्गादृष्टान्तेनैव पूर्वमुक्तत्वात्तारतम्येन तत्परयोरपि तारतम्यमिति स्पष्टमेव ज्ञानाधिक्यं भक्तिमार्ग इति । तदेवोक्तं गङ्गायां चेति ॥
८ सिद्धान्तमुक्तावली । सिध्यतीति हृदयेनाहाग्रे देहादिसर्वविनियोगाशक्तौ आसमन्ताजानन्तोऽखण्डशब्दब्रह्मरूपं, न तु लौकिकशब्दरूपमिति नामस्वरूपं जानन्तस्तदेव विवक्तुन् विशेषेण वदन्तु। अधिकमा- हात्म्याद्यज्ञाने नाममात्रामृत कीर्तयन्तु । एतेनैव भगवत्स्वरूपतन्माहात्म्यादिकं ज्ञातं भवि- ष्यतीत्याशयेनाह नामस्वरूपम्। चिदिति। चिदित्युपलक्षणम् । सच्चिदानन्दात्मकमित्यर्थः । नामस्वरूपाज्ञाने तदुपदेष्टृगुरूपसत्तिः कार्येत्याशयेनाह महस्त इत्यादि। ते त्वत्सम्बन्धिनं सुमतिं निर्दोषपूर्णगुणत्वेन भवन्तं जानन्तं भगवद्भक्तं भजामहे । स च स्वतेजसा पराज्ञा- ननिरासक इत्याह मह इति। तेजोरूपमित्यर्थः । स्वहृदि सदा श्रीकृष्णप्राकट्येनोत्सवात्म- कमिति वा । एतेन ज्ञानिनां भक्तिमार्गप्रवेश एवोपदिष्टो भवति। एवमेव ‘तद्विष्णोः’ ‘तद्विप्रास’ इत्यादि श्रुतिसहस्रैर्निगद्यत इति सुष्ठूक्तं ज्ञानमार्गादधिको भक्तिमार्ग इति ॥१७॥१८॥१९॥ गङ्गादृष्टान्तस्य तात्पर्यान्तरमाहुः भक्त्यभाव इति । भक्त्यभावे तु तीरस्थो यथा दुष्टैः स्वकर्मभिः । अन्यथाभावमापन्नस्तस्मात्स्थानान्नश्यति ॥ २० ॥ एवं स्वशास्त्रसर्वस्वं मया गुप्तं निरूपितम् । एतद्बुद्ध्वा विमुच्येत पुरुषः सर्वसंशयात् ॥ २१ ॥ इति श्रीवल्लभाचार्यविरचिता सिद्धान्तमुक्तावली सम्पूर्णा ॥ भगवत्सान्निध्यदेशेऽपि स्थितौ भक्त्यभावे तथा भवतीति भावः । एतेन भक्तेरा- वश्यकत्वमुक्तं भवति ॥ २० ॥ २१ ॥ इति श्रीपितृपादाब्जपरागरससिक्तहृत् । श्रीविठ्ठलस्तत्सिद्धान्तवाङ्मालां हृदये दधौ ॥ १ ॥ श्रीमद्गोकुलनाथकृतविवृतिटिप्पणी । इति श्रीपितृपादाब्जपरागारक्तचेतसा । श्रीवल्लभेन सिद्धान्तविवृतेर्विवृतिः कृता ॥ १ ॥ इति श्रीगोकुलनाथविरचिता सिद्धान्तमुक्तावलीटिप्पणी समाप्ता । १. अदलितनलिनीदलैव वापी यदहृतपल्लव एव काननान्तः । प्रियसखि न जगाम वामशीलः स्फुटममुना नगरेण नन्दसूनुः ॥ २ ॥ इत्यधिकं पद्यं क्वचित् । २ सक्तेति पाठः ।
श्रीकृष्णाय नमः । सिद्धान्तमुक्तावली । श्रीमद्विट्ठलेश्वरविरचितविवृतिसमेता । प्रणम्य पितृपादाब्जपरागमनुरागतः । कृपया विशदीकुर्मस्तद्वाङ्मुक्ताफलावलीम् ॥१॥ नत्वा हरिं प्रवक्ष्यामि स्वसिद्धान्तविनिश्चयम् । कृष्णसेवा सदा कार्या मानसी सा परा मता ॥ १ ॥ स्वसिद्धान्तेति । अग्रे वक्ष्यमाणैर्बहुभिर्मिंथो विरुद्धैः सिद्धान्तैः शास्त्रार्थसन्देहे तन्निरासाय स्वसिद्धान्तरूपं शास्त्रार्थनिश्चयं वक्ष्यामीत्यर्थः । तमेवाहुः कृष्णसेवेति । फला- त्मकनामोक्त्या स्वतः पुरुषार्थत्वेन सेवाकृतिः स्वसिद्धान्तो, न त्वन्यशेषत्वेनेति ज्ञाप्यते । सेवा हि सेवकधर्मः । तदुक्त्या जीवानामशेषाणां सहजदासत्वं ज्ञापितम् । अत एव न कर्मणीवात्र कालपरिच्छेदोस्तीत्याहुः सदेति । आवश्यकार्थण्यत्प्रत्ययान्तकार्यपदोक्त्या तदकरणे प्रत्यवायी भवतीति भावो ज्ञाप्यते । सा च फलरूपा साधनरूपा चास्ते । तत्र मानसी सा परा फलरूपेत्यर्थः । यथा व्रजसीमन्तिनीनाम् । तदेव तत्प्राणनाथेन गीतं ‘ता नाविदन्मय्यनुषङ्गबद्धधियः स्वमात्मानमदस्तथेद’ मित्यादिना ॥ १ ॥ एतदेव सेवास्वरूपमित्याहुः चेत इति । चेतस्तत्प्रवणं सेवा तत्सिद्धौ तनुवित्तजा । ततः संसारदुःखस्य निवृत्तिर्ब्रह्मबोधनम् ॥ २ ॥ उक्तसेवासाधने इतरे इत्याहुस्तदिति । वित्तं दत्वा अन्येन पुरुषेण कृत्वा कारि- श्रीमत्कल्याणरायकृतविवृतिटिप्पणी । मुक्ताश्रये रत्नविशेषसेव्ये शुकादिवाञ्छ्ये सुमनोधिगम्ये । क्षणं गवेन्द्रस्य पदाम्बुजाते विश्रम्यतां मानसराजहंसः ॥ १ ॥ मायातमोनिरकर्त्रे गोभिः सर्वार्थदर्शिने । स्वान्तःस्थाय हरेर्नित्यं द्विजराजाय ते नमः ॥ २ ॥ स्वसिद्धान्तरूपमिति । स्वसिद्धान्तस्य शास्त्रार्थनिश्चयरूपत्वं श्रुतिसिद्धत्वादिति भावः । आवश्यकार्थेति । कृत्याश्चेति सूत्रेणावश्यकाधमर्ण्ययोरर्थयोः कृत्यसंज्ञकानां विधानात् कृञोऽप्यावश्यक्यार्थे ण्यत्प्रत्यय इति भावः । भगवद्भजने प्रत्यवायबोधकं महा- देववचनं स्कन्दपुराणे श्रूयते ‘स कर्ता सर्वधर्माणां भक्तो यस्तव केशव । स कर्ता सर्वपा- १. विनिश्चितमिति पाठः । २ काले इति पाठः । सि० मु० २
१० $\qquad\qquad$ सिद्धान्तमुक्तावली । तैका । एतादृशेन पुंसा कृता चापरा । एतादृश्यौ ते तत्साधिके नेत्यभिप्रायज्ञापकं समस्तं पदम् । एतेन भगवदर्थं निरुपधिखसर्वस्वनिवेदनपूर्वकं तत्रैव स्वदेहविनियोगे प्रेम्णि जाते सा भवतीति भावः । एतादृशस्यावान्तरफलं भवतीत्याहुः तत इति । अहन्ताममतात्मकः संसारो, न तु प्रपञ्चात्मकः, तस्य ब्रह्मात्मकत्वात्, तन्निवृत्त्याऽनिष्टनिवृत्तिरुक्ता । इष्टप्राप्ति- माहुरग्रे । स्वात्मनि प्रपञ्चे चाक्षरब्रह्मात्मकत्वेन ज्ञानम् । भगवत्सेवायामभिनिविष्टस्य यद्यप्यनभिलषिते ते, तथापि वस्तुस्वभावाद्भवत इति भावः ॥ २ ॥ इदमेव परं ब्रह्मेति न ज्ञेयमित्याहुः परं ब्रह्म त्विति । परं ब्रह्म तु कृष्णो हि सच्चिदानन्दकं बृहत् । द्विरूपं तद्धि सर्वं स्यादेकं तस्माद्विलक्षणम् ॥ ३ ॥ यशोदोत्सङ्गलालितो, न त्वन्य इति ज्ञापनाय मूलनामोक्तम् । अत्र भेदकं रूपमाहुः सच्चिदिति । एते हि भगवद्धर्मात्मकाः, प्रकटतत्रितयात्मकमक्षरं ब्रह्म । अत एव प्रपञ्चस्त- दात्मक इति सच्चिदानन्दात्मकत्वं तस्मिन्नुच्यते । एतावान्परं विशेषो, जडे सदंशः प्रकटः, इतरावाच्छन्नौ; जीवे त्वाद्यौ प्रकटौ, आनन्दांशस्तिरोहितः; परमात्मनि त्रयं स्फुटमिति । कप्रत्ययेन गणितानन्दत्वमेव, न तु पुरुषोत्तमवत् पूर्णानन्दत्वमिति ज्ञाप्यते । कृष्णशब्देनैव पुरुषोत्तमस्वरूपं निरूपितमित्यक्षरस्वरूपं निरूपयन्ति द्विरूपमिति । तत् अक्षरं ब्रह्म । तदेव रूपद्वयं विशदयन्ति सर्वं स्यादिति । प्रपञ्चरूपेणाविर्भूतमेकमित्यर्थः । एकं रूपं तस्मात् प्रपञ्चरूपात् एकरूपत्वेन श्रुतिप्रतिपाद्यत्वेन ज्ञान्युपास्यत्वेन तन्मुक्तिस्थानत्वेन पुरुषोत्तमाधिष्ठानत्वादिविभिर्विलक्षणमित्यर्थः । न च विरुद्धधर्मैर्भेदोत्र शङ्कनीयः । उभयो- र्धर्मयोरेकत्र प्रमाणसिद्धत्वेन विरोधाभावात् । विरुद्धधर्माश्रयत्वस्य ब्रह्मणि 'तदेजति तन्नैजती'त्यादिश्रुतिभिर्निरूप्यमाणत्वात् । लोक एव विरोधः शङ्कनीयो, नत्वलौकिके ब्रह्मणि । इदं यथा तथा ब्रह्मसूत्रभाष्ये निरूपितमिति नात्र प्रपञ्च्यते ॥ ३ ॥ श्रीमत्कल्याणरायकृतविवृतिटिप्पणी । पानां यो न भक्तस्तवाच्युते'ति । तन्निवृत्त्येति । अहन्ताममतात्मकसंसारसम्बन्धि- दुःखस्य निवृत्त्या । भक्तानां भगवद्भजनोपयोग्यहन्ताममतात्मकसंसारस्योपादेयत्वा- दित्यर्थः । तथोक्तं ब्रह्मादिभिर्गर्भस्तुतौ 'त्वय्यम्बुजाक्षाखिलसत्त्वधाम्नी'ति श्लोके । कृष्णशब्देनैवेति । 'कृषिर्भूवाचकः शब्दः' 'कृष्णस्तु भगवान् स्वय'मित्यादिवाक्यैः कृष्णशब्दस्य पुरुषोत्तमवाचकत्वादिति भावः । ज्ञान्युपास्यत्वं तन्मुक्तिस्थानत्वं च 'ये त्व- क्षरमनिर्देश्यमव्यक्तं पर्युपासते' 'यदक्षरं वेदविदो वदन्ति' इत्यादिभिर्ज्ञेयम् । अत्रेति । अक्षरप्रपञ्चयोरित्यर्थः । उभयोरिति । प्रपञ्चस्य ब्रह्मात्मकत्वे सिद्धे विरुद्धयोर्धर्मयोरक्षर- ब्रह्मणि प्रमाणसिद्धत्वेन सहानवस्थानलक्षणविरोधाभावादित्यर्थः । विरोधपरिहारायेति । ब्रह्मात्मकत्वे प्रपञ्चस्योच्यमाने मायावादादिभिर्विरोधः स्यात्तत्परिहाराय श्रुतिसिद्धं स्वसि-
श्रीमद्विठ्ठलेश्वरविरचितविवृतिसमेता । ११ विरोधपरिहाराय स्वसिद्धान्तं वक्तुं परमतान्याहुः अपरमिति । अपरं तत्र पूर्वस्मिन् वादिनो बहुधा जगुः । मायिकं सगुणं कार्यं स्वतन्त्रं चेति नैकधा ॥ ४ ॥ वेदमतादपरं भिन्नं मतं पूर्वस्मिन् प्रपञ्चरूपेणाविर्भूते । तत्र अक्षरे ब्रह्मणित्यर्थः । मायिकमिति हि मायावादिनः । सगुणं गुणकार्यमिति साङ्ख्याः । कार्यं द्व्यणुकादि- क्रमेणेश्वरकार्यमिति नैयायिकाः । स्वतन्त्रं न कदाचिदनीदृशं जगदिति मीमांसकाः । चकारेण वेदबाह्यमतानि सङ्गृह्यन्ते ॥ ४ ॥ तानि मतानि श्रुतिबलेनैव निराकृतानि सन्तीति नात्र पार्थक्येन निराकरणीयानि, स्वमतनिरूपणेनैव निराकरणसम्भवादित्याशयेन स्वसिद्धान्तमाहुः तदेवेति । तदेवैतत्प्रकारेण भवतीति श्रुतेर्मतम् । द्विरूपं चापि गङ्गावज्ज्ञेयं सा जलरूपिणी ॥ ५ ॥ माहात्म्यसंयुता नृणां सेवतां भुक्तिमुक्तिदा । मर्यादामार्गविधिना तथा ब्रह्मापि बुध्यताम् ॥ ६ ॥ ‘स हैतावानास’, ‘सर्वं खल्विदं ब्रह्म, तज्जलानि’त्यादिश्रुतिभ्यः तथेत्यर्थः । एक- स्यैवाक्षरस्योक्तं द्विरूपत्वं दृष्टान्तेनोपपादयन्ति द्विरूपमिति । प्रपञ्चतद्भिन्नरूपाभ्यां द्विरूपं तद्ब्रह्म गङ्गावज्ज्ञेयम् । अस्ति गङ्गायां त्रिरूपत्वम् । आधिभौतिकं जलरूपमेकम्, यद्दृष्ट्यातापाभ्यां वृद्धिह्रासौ भजते, सर्वव्यवहारयोग्यं च । अग्रिमा द्वितीयाध्यात्मिकी तीर्थरूपा, योद्धृतजलाविशेषेऽपि मर्यादामार्गसम्बन्धी यो विधिस्तेन तत्रैव स्नानपूजा- दिभिः फलदा । एवमेव प्रपञ्चतद्भिन्नरूपमप्येकमेव तदक्षरं ब्रह्मेति बुध्यतामित्यर्थः ॥५।६॥ आधिदैविकं रूपमाहुः तत्रैवेति । तत्रैव देवतामूर्तिर्भक्त्या या दृश्यते क्वचित् । गङ्गायां च विशेषेण प्रवाहाभेदबुद्धये ॥ ७ ॥ प्रत्यक्षा सा न सर्वेषां प्राकाम्यं स्यात्तया जले । विहिताच्च फलात्सिद्धिः प्रतीत्यापि विशिष्यते ॥ ८ ॥ यथा जलं तथा सर्वं यथा शक्त्या तथा बृहत् । यथा देवी तथा कृष्णस्तत्राप्येतदिहोच्यते ॥ ९ ॥ जगत्तु त्रिविधं प्रोक्तं ब्रह्माविष्णुशिवास्ततः ।
श्रीमत्कल्याणरायकृतविवृतिटिप्पणी । द्धान्तं वक्तुं पूर्वपक्षत्वेन परमतान्याहुरित्यर्थः । अपरमित्येकवचनमेकवदेव तेषां मतानां निराकरणीयत्वेन तुच्छत्वबोधनार्थम् । मूले सेवतामित्यत्रानुदात्तेतां धातूनामात्मने-
१२ सिद्धान्तमुक्तावली । देवतारूपवत्प्रोक्ता ब्रह्मण्यित्थं हरिर्मतः ॥ १० ॥ कामचारस्तु लोकेऽस्मिन् ब्रह्मादिभ्यो न चान्यथा । परमानन्दरूपे तु कृष्णे स्वात्मनि निश्चयः ॥ ११ ॥ अतस्तु ब्रह्मवादेन कृष्णे बुद्धिविधीयताम् । उक्तद्विरूपायां गङ्गायामेव देवतारूपा सा तद्भिन्नास्तीत्यर्थः । तत्र मानमाहुः मूर्तिरिति । भक्त्यैव, न तु मर्यादामार्गविधिनोपासनयेत्यर्थः । तदपि क्वचिदेव, भक्त्युद्रे- कदशायामेव । अथवा । यत्र क्वचिद्गृहादिष्वपीत्यर्थः । भक्तविशेषे विशेषमाहुः गङ्गाया- मिति । देवतारूपायां गङ्गायां भक्त्युद्रेकेण दृश्यमानप्रवाहादभिन्नत्वेन यस्य बुद्धिस्तस्मै गङ्गायां प्रवाहमध्य एव ( देवतारूपा गङ्गा ) प्रत्यक्षा भवतीत्यर्थः । एतेन प्रपञ्चमध्य एव भगवदाकारभगवद्भक्तयोर्दर्शने भगवति स्नेहातिशयेन तत्र भगवदभेदबुद्धये तत्र भगव- त्प्राकट्यं भवतीति भावः सूच्यते । अग्रिमव्यवस्थामाहुः प्राकाम्यमिति । स्वाभीष्टस्वसर्व- स्वरूपायाः स्थानभूतत्वेन ज्ञानात्तजले सर्वत्रानिषिद्धयथेष्टव्यवहारः स्यादित्यर्थः । एवमेवो- क्तप्रकारकभगवद्दर्शने सर्वत्र तद्भावः स्फुरतीति भावः । विहितेति । भक्त्या गङ्गादर्श- नानन्तरं प्रवाहरूपाया अपि दर्शनं विहितात्स्वर्गापवर्गरूपात्फलाद्विशिष्यते । तद्वदित्यर्थः । यद्वा । येषां न प्रत्यक्षा, तेषामपि तया देवतारूपया सा तत्रास्तीति तत्सम्बन्धानुभा- वेनैव तज्जले प्राकाम्यं प्रकृष्टकामविषयत्वं श्रद्धाविशेषपूर्वकस्नानादिव्यवहारो भवतीत्यर्थः । किञ्च । पुराणादिषु तज्जलदर्शनादिभिः फलं यदुक्तं तदनुभवेन महतामन्तःकरणप्रतीत्यापि श्रीमत्कल्याणरायकृतविवृतिटिप्पणी । पदानित्यत्वात्साधुत्वम् । मूर्तिरिति । देहवतीत्यर्थः । भक्तविशेष इति । प्रेमवति भक्त इत्यर्थः । तत्र भगवदभेदबुद्धय इति । तत्र भगवदाकारे भगवद्भक्ते च साक्षाद्भगवानयं मामनेन रूपेणानुगृह्णाति इति बुद्ध्या यो भजते तत्र भगवत्प्राकट्येन तस्य यथोक्तं भजनफलं भवति । 'तं यथा यथोपासते तथैव भवती'ति श्रुतेः । यस्तु नायं भगवान्, किन्तु भगवत्प्रतिमेयमिति बुद्ध्या भजते, तस्य भजनं भस्महोमतुल्यं भवति । अनेनैवा- भिप्रायेण कपिलदेवैर्देवहूतिं प्रत्युक्तं 'यो मां सर्वेषु भूतेषु सन्तमात्मानमीश्वरम् । हित्वाऽर्चां भजते मौढ्याद्भस्मन्येव जुहोति स'इति । अत्र सगुणभक्तस्य भेदबुद्धिर्नि- न्द्यते, न तु प्रतिमादिषु भजनम् । तथा सत्येकादशे श्रीकृष्णोक्तमुद्धवं प्रति प्रतिमादिषु स्वार्चनं विरुध्येत । अस्यार्थः । अहं सर्वत्र तत्तद्रूपः आत्मरूप ईश्वरोन्तर्यामी नियामकश्च वर्ते । एवं सर्वभावेन विद्यमानं भगवन्तं मां हित्वा उपेक्ष्य त्यक्त्वाऽर्चां प्रतिमां यो भजते स भस्मन्येव जुहोति । एतादृशभजने मौढ्यमेव हेतुः, नत्वेवं बोधकं प्रमाणमस्ति । प्राकाम्यमिति । प्रकर्षेणासमन्तात्काम्यं स्यात् सिध्येदित्यर्थः । दार्ष्टान्तिकेऽपि ज्ञातव्यम् । १ तथा । देवतारूपा सेति पाठः ।
[Page Header] श्रीमद्विट्ठलेश्वरविरचितविवृतिसमेता । १३
तज्जलमन्येभ्यो जलेभ्यो विशिष्यत इत्यर्थः । एवं येषां हृदि भगवत्सान्निध्यं ते भक्ता अन्येभ्यो विशिष्यन्ते । अत एव 'मल्लिङ्गमद्भक्तजनदर्शनस्पर्शनार्चन' मिति भगवतोक्तम् । एवं दृष्टान्तदार्ष्टान्तिकयोः साधर्म्यं निरूप्य उक्तमर्थं स्पष्टयन्ति यथा जलमित्यादिना । तत्रापीति । साधर्म्येपि । एतदिति । किञ्चित्तारतम्यम् । इह प्रपञ्चरूपे, दृष्टान्ते त्रि- विधत्वाभावात् अत उच्यते । जगत्त्विति । त्रिविधं त्रिगुणात्मकं त्रिस्वभावत्वेन प्रकटं, तेन तद्गुणनियामकत्वेन ब्रह्मादयो भगवतैव कृता इत्यर्थः । ब्रह्मैकरूपमिति तन्निष्ठानां नियामको हरिरैव । ये तु भगवद्भक्तास्तेषां स्वात्मनि स्वात्मविषये ऐहिके पारलौकिके चार्थे श्रीकृष्ण एव कामचार इत्यर्थः । सर्वत्र नियामकः स एवेति भावः । अथवा । भक्तानां स्नेहातिशयेन स्वात्मत्वेनैव प्रभुः स्फुरतीति सर्वोशेन तत्रार्थने शङ्का न भवतीत्यर्थः ।
श्रीमत्कल्याणरायकृतविवृतिटिप्पणी ।
अत एवेति । यतो भगवत्प्रतिमाभक्तस्थानेषु भगवत्सान्निध्यमस्ति, ततस्तद्दर्शनस्पर्श- नार्चनानि भगवता एकादशस्कन्धे एकादशाध्याये 'मल्लिङ्गमद्भक्तजनदर्शनस्पर्शनार्चन' मित्यनेन भक्तिकारणत्वेनोक्तानीत्यर्थः । यथा जलमिति मूलम् । शक्ता पापनिवारणादौ समर्था । आध्यात्मिकी तीर्थरूपा । बृहत् अक्षरम् । देवी मूर्तिमती । आधिदैविकी गङ्गा । इह गङ्गायाम्, तत्रापि भगवत्स्वरूपेऽपि, एतत्त्रैविध्यमुच्यत इत्यर्थः । तद्गुणनियामकत्वेनेति । जगद्गुणनियामकत्वेन भगवतैव ब्रह्मादयोऽधिकृता इत्यर्थः । एतदुक्तं नारदीयपुराणे 'यस्याज्ञया जगत्सर्वं ब्रह्मा सृजति नित्यशः । विष्णुश्च पालको नित्यं रुद्रः संहारकस्तथा' इति । तेन केवलं प्रपञ्चासक्तानां ब्रह्मादय एव नियामका निग्र- हानुग्रहकर्तार इत्यर्थः । ब्रह्मैकरूपमिति । ब्रह्माक्षरं तस्य गुणातीतत्वेनैकरूपत्वाच्चरणरू- पत्वाच्च पुरोपासकानां निग्रहानुग्रहकर्ता फलदाता हरिरैवेत्यर्थः । ये त्विति । भगवद्भक्तानां निग्रह ग्रहकर्ता फलदाता श्रीकृष्ण एव, नतु ब्रह्मादयः, कालः, कर्म वा । एतेषां मनोरथ- पूर्तिः श्रीकृष्णादेव । यतस्ते नाल्पेच्छवः, अतः परमानन्दरूपात् । परमानन्ददायकात् पूर्णानन्दात् पुरुषोत्तमात् कृष्णादेवेष्टसिद्धिरित्यर्थः । अत एव कपिलदेववचनम् 'न कर्हि- चिन्मत्पराः शान्तरूपे नंक्ष्यन्ति नोऽनिमिषो लेढि हेति'रिति । षष्ठे तृतीयाध्याये यमवचनं 'नैषां वयं नच वयः प्रभवाम दण्ड' इति । पदयोजनिका त्वेवम् । जगत्तु त्रिगुणात्म- कत्वेन त्रिविधं प्रोक्तम् । ततो हेतोर्ब्रह्मविष्णुशिवा जगतो देवता अधिष्ठातारः प्रोक्ताः । रूपवज्जगद्वैत्रिगुणयुक्ताः नियामकत्वेन तत्तद्गुणयुक्तत्वमेवैतेषाम्, न तु गुणाधीनत्वम्, अन्यसाधारणापत्तेः । एतेषां भगवदंशत्वेन गुणावतारत्वेनान्येभ्यो विशिष्टत्वात् । ब्रह्मण्य- क्षरविषये इत्थमधिष्ठातृत्वेन नियामकत्वेन च हरिः पुरुषोत्तमो मतः संमत इत्यर्थः । अस्मिँल्लोके भक्तजने हरिरैव नियामकः । तु पुनः भक्तजने ब्रह्मादिभ्यः कामचारश्चरधा- तोर्गंत्यर्थत्वेन प्राप्त्यर्थत्वाद्वाञ्छितार्थप्राप्तिर्न । च पुनरन्यथा कालकर्मादिभ्योपि न, किन्तु परमानन्दरूपे कृष्णे स्वात्मनि स्वात्मत्वेन स्फुरिते स्वात्मवत् प्रिये सति वा कामचार इति निश्चयः । अतः कारणात्त पुनस्तुशब्दः प्रकारान्तरव्युदासार्थः । ब्रह्मवादेन प्रकारेण
१४ सिद्धांतमुक्तावली । अथ जीवस्वरूपं तन्मुक्तिप्रकारं चाहुः आत्मनीति । आत्मनि ब्रह्मरूपे तु छिद्रा व्योम्नीव चेतनाः ॥ १२ ॥ उपाधिनाशे विज्ञाने ब्रह्मात्मत्वावबोधने । गङ्गातीरस्थितो यद्वद्देवतां तत्र पश्यति ॥ १३ ॥ तथा कृष्णं परं ब्रह्म स्वस्मिन् ज्ञानी प्रपश्यति । संसारी यस्तु भजते स दूरस्थो यथा तथा ॥ १४ ॥ अपेक्षितजलादीनामभावात्तत्र दुःखभाक् । तस्माच्छ्रीकृष्णमार्गस्थो विमुक्तः सर्वलोकतः ॥ १५ ॥ आत्मानन्दसमुद्रस्थं कृष्णमेव विचिन्तयेत् । लोकार्थी चेद्भजेत्कृष्णं क्लिष्टो भवति सर्वथा ॥ १६ ॥ क्लिष्टोऽपि चेद्भजेत्कृष्णं लोको नश्यति सर्वथा । आत्मविषय उच्यत इति शेषः । जीवा ह्यणवोऽक्षरात्मकाः, तदात्मकत्वम- विद्यान्तरायभूतया न विदन्ति । तेन संसारमापद्यन्ते । इदमेवोपाधिरूपत्वं तस्याः, न तु तत्कृतं जीवत्वम् । अणुत्वबोधनार्थं दृष्टान्तः । व्योम्नि यथोपाधिभिः क्षुद्रैः छिद्राणीव प्रतीयन्ते, तथात्मनि क्षुद्रत्वादयो धर्माः प्रतीयन्ते न तु ब्रह्मधर्मा इति बोधनार्थं च । तेषां मध्ये यं जीवं येन प्रकारेण प्रभुरुदिधीर्षुर्भवति, तत्प्रकारकगुरूपदेशादिभिरवि- द्यालक्षणोपाधेर्ब्रह्मात्मकत्वावबोधनप्रतिबन्धकस्याविद्यात्मकस्य नाशे ब्रह्मात्मकत्वावबोधन- लक्षणे विज्ञानेऽनुभवे सम्पन्ने पुरुषोत्तमाविर्भावयोग्यता तस्मिन् जाते स्वात्मनि तं प्रक- र्षेण पश्यतीत्यर्थः । तस्य सर्वस्वरूपो हरिरेवेति न तदतिरिक्तमपेक्षते । भजनोपयोग्यर्थापे- क्षायामपि प्रभुणैव सर्वं सम्पद्यत इति न कदाचिद्दुःखी भवति । एतज्ज्ञापनाय दृष्टान्तः । यस्तु प्रपञ्चासक्तो गुरूपदेशमात्रेण भजने संसारनिवृत्तिहेतुत्वं ज्ञात्वा भजते, न तु ब्रह्म- भावसम्पत्त्या पुरुषोत्तमाविर्भाववान्, स तु गङ्गातो दूरस्थो यथा तां भजते, तत्रापेक्षितत- जलाप्राप्त्या दुःखी भवति, तथा स्वयं भक्तिमार्गस्थ इति साक्षात्स्वरूपसम्बन्ध्यर्थापेक्षायां श्रीमत्कल्याणरायकृतविवृत्तिटिप्पणी । श्रीकृष्णो मूलभूतः पुरुषोत्तमोऽक्षरं तत्पदं तस्मात्प्रपञ्चः समुद्रात्तरङ्गवत् श्रीकृष्ण एव स्वे- च्छया सर्वं करोति, सर्वरूपश्च भवति, तस्मादेव सर्वं प्राप्यते इति ब्रह्मवादप्रकारः । अनेन कृष्णे सदानन्दे बुद्धिविधीयतां निवेश्यतामित्यर्थः । छिद्रा व्योम्नीति । व्योम्नि यथा क्षुद्रैरुपाधिभिः छिद्रप्रदेशाः प्रतीयन्ते, तथाऽविद्यातद्धर्मैरक्षरे चेतना अपि प्रतीयन्त इत्यर्थः । उपाधिनाश इति सार्धश्लोकेन ज्ञानिभक्तावस्थोक्ता । भजनप्रकारमाहुः तस्मा- दिति । भक्तिमार्गीयो भूत्वा भजने लोकानुरोधं त्यक्त्वा बाललीलादिषु यैव लीला स्वस्या- त्यन्तं रोचते तल्लीलासहितं कृष्णमेव, नत्ववतारान्तरमपि विशेषेण चिन्तयेदित्यर्थः । तदभावे बाधकमाहुः लोकार्थी चेदिति । मर्यादास्थावापि ज्ञानिभक्ताविति । अत्र ज्ञानी
तदप्राप्त्या क्लेशभाग्भवतीत्यर्थः । तथापि न स भजनं त्यजति, अङ्गीकारातप्रभोः । अनङ्गी- कारे तु मध्ये भजनप्रतिबन्धेपि कृतभजनवैयर्थ्यासम्भवाज्जन्मान्तरे तत्फलिष्यतीति ज्ञेयम् । आत्मानन्दसमुद्रस्थमिति । श्रीकृष्णपदात्पुष्टिमार्गीयभक्तप्रकटितानिरवध्यानन्देषु विहरन्त- मित्यर्थः । ते तु व्रजरत्नात्मका इति मन्मतिः । स आनन्दो भगवत्स्वरूपात्मकस्तद्दत्त एव । अत आत्मपदं भगवत्परम् ॥ १३ ॥ १४ ॥ १५ ॥ १६ ॥ स्वस्वरूपज्ञानप्रभुस्वरूपज्ञानाभाववान् भक्तोऽपि पुष्टिमर्यादाभेदेन द्विविधः । उभयोश्चित्तचाञ्चल्याभावायाहुः ज्ञानाभाव इति । ज्ञानाभावे पुष्टिमार्गी तिष्ठेत्पूजोत्सवादिषु ॥ १७ ॥ मर्यादास्थस्तु गङ्गायां श्रीभागवततत्परः । अनुग्रहः पुष्टिमार्गे नियामक इति स्थितिः ॥ १८ ॥ उभयोस्तु क्रमेणैव पूर्वोक्तैव फलिष्यति । ज्ञानाधिको भक्तिमार्ग एवं तस्मान्निरूपितः ॥ १९ ॥ पुष्टिमार्गीये विशेषमाहुः अनुग्रह इति । तस्य स्थितौ न देशनियमः, किन्तु प्रभुरनुगृह्य यत्रैव यथा स्थापयति, तत्रैव तिष्ठति तथा । तस्य विधिर्न नियामक इति भावः । मर्यादास्थावपि ज्ञानिभक्तौ चेदनुगृह्णाति विशेषतः, तदा आदौ पुष्टि- मार्गं प्राप्य तन्मार्गीयां भक्तिं प्राप्नुत इत्याहुः उभयोरिति । यदि मर्यादायामेवाङ्गीकारः, तदोभयोर्मुक्तिरेव फलिष्यतीत्याशयः । एवं निरूपणे तात्पर्यमाहुः ज्ञानाधिक इति । लोकेऽधुना भक्तेरपि ज्ञानं फलं, तस्य मुक्तिरेवेति सर्वे वदन्ति । तत्र ज्ञानं हि ब्रह्मात्मैक्य- ज्ञानम् । ब्रह्म चाक्षरात्मकम्, तदात्मकत्वेन सर्वज्ञानं च । एतावतापि पुरुषोत्तमसम्बन्धस्तु दूरतरः । तस्य अक्षरातीतत्वात् । अत एवार्जुनेन पुरुषोत्तमाक्षरभजनयोस्तारतम्यं पृष्टः स्वभजन आधिक्यमाह गीतासु द्वादशेऽध्याये । गङ्गायां च क्षराक्षरपुरुषोत्तमतारतम्यदृष्टान्तः स्पष्टः । न हि देवी तीर्थात्मिका जलात्मिका वा, किन्तु जल एव तीर्थात्मकत्वं जानन् ज्ञानी भवति । तदतीतदेवतात्मकदर्शने भक्तत्वम् । न हि भक्त्या देवताद्रष्टुस्समः पूर्वो भवति । अत एव पुरुषोत्तमं मां जानन् मामेव सर्वभावेन भजतीति 'यो मामेवमसंमूढ' इत्युपक्रम्य 'भजति मां सर्वभावेने' ति प्रभुरुक्तवान् । अतो ज्ञानमार्गीयस्यापि पुरुषोत्तम- विदोपि भक्तिनिष्ठैव फलमिति किमितोऽधिकं वाच्यम्, अनेकप्रमाणसिद्धत्वादिति विद्वद्भिर्ज्ञेयम् । ऋग्वेदेपि पठ्यते 'तमु स्तोतारः पूर्व्यं यथाविद ऋतस्य गर्भं जनुषा पिपर्तन । आस्य जानन्तो नाम चिद्विवक्तन महस्ते विष्णो सुमतिं भजामहे ।' हे स्तोतारो मद्रुत्कर्षवर्ण- नपराः पूर्व्यं सर्वकारणकारणरूपं तं लोकवेदप्रसिद्धं पुरुषोत्तमं भवन्तो यथावद्विदन्ति तत्स्वरू- पमिति तथाभूताः । ऋतस्य सूनृतवाणीरूपस्य वेदस्य गर्भरूपम् । स्वोदरस्थं वेदं विश्वहितार्थं ब्रह्मण उपदिष्टवानिति तथा । जनुषा स्वजन्मनेव सम्पूर्वेन, न तु क्षणयाममात्रेण पिपर्तन
श्रीमत्कल्याणरायकृतविवृत्तिटिप्पणी । कर्ममार्गस्थो ज्ञेयो, भक्तो मर्यादाङ्गीकारवान् ज्ञेयः । तदोभयोरिति । ज्ञानिनोऽक्षरमा-
१६ सिद्धान्तमुक्तावली। पूर्तियुक्तं सन्तुष्टं कुरुत । अत्र यथावित्तोत्त्या पूर्णज्ञानानां देहेन्द्रियप्राणान्तःकरण- जीवांस्तदर्थमेव तद्भजनार्थमेवोपयुक्तान् कुरुतेति भक्तिमार्गे विनियोगमुपदिशति । तेन स्फुटमेव ज्ञानमार्गाद्भक्तिमार्गस्याधिक्यमवगम्यते । भक्त्या विना न कोपि पुरुषार्थः सिध्यतीति हृदयेनाह्याग्रे देहादिसर्वविनियोगाशक्तौ आसमन्ताज्जानन्तोऽखण्डशब्दब्रह्मरूपं, न तु लौकिकशब्दरूपमिति नामस्वरूपं जानन्तस्तदेव विवक्तन विशेषेण वदन्तु । अधिकमा- हात्म्याद्यज्ञाने नाममात्रमुत कीर्तयन्तु । एतेनैव भगवत्स्वरूपतन्माहात्म्यादिकं ज्ञातं भवि- ष्यतीत्याशयेनाह नामस्वरूपम्। चिदिति। चिदित्युपलक्षणम्। सच्चिदानन्दात्मकमित्यर्थः। नामस्वरूपाज्ञाने तदुपदेष्टृगुरूपसत्तिः कार्येत्याशयेनाह महस्त इत्यादि। ते त्वत्सम्बन्धिनं सुमतिं निर्दोषपूर्णगुणत्वेन भवन्तं जानन्तं भगवद्भक्तं भजामहे । स च स्वतेजसा पराज्ञा- ननिरासक इत्याह मह इति । तेजोरूपमित्यर्थः। स्वहृदि सदा श्रीकृष्णप्राकट्येनोत्सवात्म- कमिति वा । एतेन ज्ञानिनां भक्तिमार्गप्रवेश एवोपदिष्टो भवति । एवमेव 'तद्विष्णोः' 'तद्विप्रास' इत्यादि श्रुतिसहस्रैर्निगद्यत इति सुष्ठूक्तं ज्ञानमार्गादधिको भक्तिमार्ग इति ॥१७॥१८॥१९॥ गङ्गादृष्टान्तस्य तात्पर्यान्तरमाहुः भक्त्यभाव इति । भक्त्यभावे तु तीरस्थो यथा दुष्टैः स्वकर्मभिः । अन्यथाभावमापन्नस्तस्मात्स्थानाच्च नश्यति ॥ २० ॥ एवं स्वशास्त्रसर्वस्वं मया गुप्तं निरूपितम् । एतद्बुद्ध्वा विमुच्येत पुरुषः सर्वसंशयात् ॥ २१ ॥ इति श्रीवल्लभाचार्यविरचिता सिद्धान्तमुक्तावली सम्पूर्णा ॥ भगवत्सान्निध्यदेशेऽपि स्थितौ भक्त्यभावे तथा भवतीति भावः । एतेन भक्तेरा- वश्यकत्वमुक्तं भवति ॥ २० ॥ २१ ॥ ईति श्रीपितृपादाब्जपरागरससिक्तहृत् । श्रीविठ्ठलस्तत्सिद्धान्तवाङ्मालां हृदये दधौ ॥ १ ॥ श्रीमत्कल्याणरायकृतविवृतिटिप्पणी । युज्यम्, अत्र भक्तस्य पुरुषोत्तमसायुज्यमित्यर्थः । भक्त्यभाव इति । स्नेहमाहात्म्यज्ञा- नयोरभाव इत्यर्थः । श्रीमदाचार्यसिद्धान्तमुक्तावल्याः प्रणम्य तान् । श्रीमत्कल्याणरायेण टिप्पणी विवृतेः कृता ॥ १ ॥ इति श्रीमद्विठ्ठलेश्वरचरणकमलैकतानश्रीमत्कल्याणरायविरचिता सिद्धान्तमुक्तावलीविवृतिटिप्पणी समाप्ता । १. अदलितनलिनीदलैव वापी यदहृतपल्लव एव काननान्तः । प्रियसखि न जगाम वामशीलः स्फुटममुना नगरेण नन्दसूनुः ॥ २ ॥ इत्यधिकं पद्यं क्वचित् ।
श्रीकृष्णाय नमः । सिद्धान्तमुक्तावली । श्रीमद्विट्ठलेश्वरविरचितविवृतिसमेता । प्रणम्य पितृपादाब्जपरागमनुरागतः । कृपया विशदीकुर्मस्तद्वाङ्मुक्ताफलावलीम् ॥१॥ नत्वा हरिं प्रवक्ष्यामि स्वसिद्धान्तविनिश्चयम् । कृष्णसेवा सदा कार्या मानसी सा परा मता ॥ १ ॥ स्वसिद्धान्तेति । अग्रे वक्ष्यमाणैर्बहुभिर्मिंथो विरुद्धैः सिद्धान्तैः शास्त्रार्थसन्देहे श्रीमत्पुरुषोत्तमकृतविवृतिप्रकाशः । प्रणम्य श्रीमदाचार्यान् प्रभून् श्रीविठ्ठलेश्वरान् । तत्कृपातो यथाबुद्धि तदुक्तीर्विण्वृणोत्ययम् ॥ १ ॥ अथ यच्छ्रीमदाचार्यचरणैर्भागवतार्थनिबन्धे वैदिकमार्गभक्तिमार्गौ निरूपितौ, निरोधसुबोधिन्यां च स्वतन्त्रभक्तिमार्गो निरूपितः, तत्किं तदर्थं तेषां विकल्पप्राधा- न्याय, आहोस्विदेकतरमुख्यत्वायेति स्वीयानां संशयस्य तत्प्रसङ्गानुप्रसङ्गपतितानां सेवास्वरूपतदधिकारादिविषयाणां संशयान्तराणां चोद्भवमवेक्ष्य तन्निवारणाय स्वसि- द्धान्तनिष्कर्षं सिद्धान्तमुक्तावलीग्रन्थे श्रीमदाचार्यचरणाः संक्षेपेण प्रकाशितवन्तः । तस्य ग्रन्थस्य दुर्ज्ञेयत्वमालोच्य श्रीमत्प्रभुचरणास्तद्विवरीतुं प्रकृतोपयोगि मङ्गलं शिष्यशिक्षार्थ- मुपनिबध्नन्तो विवरणं प्रतिजानते प्रणम्येत्यादि । अत्रानुरागतः प्रणामोक्त्या एतद्ग्र- न्थार्थविबोधेऽपि तस्यैव विघ्नविघातकत्वेन प्रकृतोपयोगित्वं द्योतितम् । कृपयेति । श्रीमदाचार्यकृपया । स्वीयोपरि स्वकृपया वा । अतःपरं मूलं विवरणीयम् । तत्रापि नत्वा हरिं प्रवक्ष्यामीतिमङ्गलघटितमेव प्रतिज्ञावाक्यम् । तत्रानुबन्धचतुष्टयं यद्यपि वक्त- व्यम्, तथापि तत्र स्वसिद्धान्तविनिश्चयमितिपदेन विषयस्योक्तत्वात् विषयविशेषणी- भूतेन स्वपदेनैव श्रीमदाचार्यचरणानुरक्तस्य तत्सिद्धान्तजिज्ञासोरधिकारिणोपि लाभाद्वि- षयोक्त्यैव प्रतिपाद्यप्रतिपादकभावस्य सम्बन्धस्यापि लाभात्प्रयोजनमेवानुक्तत्वादस्फुट- मवशिष्यते । तदप्युपसंहारवाक्ये ‘एतद्बुद्ध्वा विमुच्येत पुरुषः सर्वसंशया’दित्यनेन वक्ष्यते । तद् हृदि कृत्वात्र स्फुटीकर्तुं प्रतिज्ञावाक्यमेव व्याख्यातुमुपक्षिप्य व्याकुर्वन्ति अग्रे वक्ष्यमाणैरित्यादि । अग्र इति । ‘मायिकं सगुण’मित्यग्रिमग्रन्थे । शास्त्रार्थसन्देह १. विनिश्चितमिति पाठः । सि० मु० ३
१८ सिद्धान्तमुक्तावली । तन्निरासाय स्वसिद्धान्तरूपं शास्त्रार्थनिश्चयं वक्ष्यामीत्यर्थः । तमेवाहुः कृष्णसेवेति । फलात्मकनामोक्त्या स्वतः पुरुषार्थत्वेन सेवाकृतिः स्वसिद्धान्तो, न त्वन्यशेषत्वेनेति ज्ञाप्यते । सेवा हि सेवकधर्मः । तदुक्त्या जीवानामशेषाणां सहजदासत्वं ज्ञापितम् । श्रीमत्पुरुषोत्तमकृतविवृतिप्रकाशः । इति । शास्त्रं काण्डद्वयात्मको वेदः, तदर्थनिश्चायका वेदान्ता वा । अर्थः प्रयोजनं तात्पर्यं च, तद्विषयके सन्देहे । तथा च तद्वेदप्रयोजनविषयके तत्तात्पर्यविषयके च संशये जाते तन्निरासाय तथेति भावः । स्वसिद्धान्तस्य वेदार्थनिश्चयरूपत्वं च । ‘भगवान् ब्रह्मका- त्स्न्र्येन त्रिरन्वीक्ष्य मनीषया । तदध्यवस्यत्कूटस्थो रतिरात्मन् यतो भवे’दिति द्वितीय- स्कन्धवाक्यात् । ‘वदन्ति कृष्ण श्रेयांसि बहूनि ब्रह्मवादिनः । तेषां विकल्पप्राधान्यमुताहो एकमुख्यता ।’ ‘भवतोदाहृतः स्वामिन् भक्तियोगोऽनपेक्षितः । निरस्य सर्वतः सङ्गं येन त्वय्याविशेन्मन’ इत्युद्धवप्रश्ने, ‘धर्ममेके यशश्चान्ये कामं सत्यं शमं दमम् । अन्ये वदन्ति वै स्वार्थमैश्वर्यत्यागभोजनम् । केचिद्यज्ञतपोदानं व्रतानि नियमान् यमान् । आद्यन्तवन्त एवैषां लोकाः कर्मविनिर्मिताः । दुःखोदर्कास्तमोनिष्ठाः क्षुद्रानन्दाः शुचा- र्पिताः । मय्यर्पितात्मनः सभ्यङ्गिरपेक्षस्य सर्वतः । मय्यात्मना सुखं यत्तत्कुतस्तद्विषयात्म- ना’मित्येकादशस्कन्धीयभगवद्वाक्यात् । ‘सर्वं खल्विदं ब्रह्म’ति श्रुते’र्ब्रह्मविद्याश्रुतेश्चे’- वगन्तव्यम् । एवं प्रतिज्ञावाक्यव्याख्यानेनाचार्याणां सिद्धान्तस्य वेदार्थनिष्कर्षरूपत्वं बोधयित्वा पूर्वं साधननिष्कर्षं वदन्तीत्याशयेनाग्रिमवाक्यमवतार्य व्याकुर्वन्ति फलात्म- केत्यादि । ‘कृषिर्भूवाचकः शब्दो णश्च निर्वृतिवाचकः । तयोरैक्यं परं ब्रह्म कृष्ण इत्यभि- धीयते ।’ ‘पापकर्षणो’ इति श्रुतेः कृष्णपदं परब्रह्मनामत्वेनावगतम् । परं ब्रह्मैव च ‘ब्रह्मविदाप्नोति पर’मिति श्रुत्या भूमविद्योक्तनित्यसुखनिरवधिसुखरूपतया च परमफल- त्वेनानन्दमयाधिकरणादौ निर्णीतम् । अतः कृष्ण इति फलात्मकस्य भगवतो नाम, तदुक्त्या तत्समभिव्याहारेण तथा सेवाकृतिः स्वसिद्धान्तः । ‘सालोक्यसार्ष्टिसामीप्यसा- रूप्यैकत्वमप्युत । दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः । स एव भक्तियोगाख्य आत्यन्तिक उदाहृत’ इति वाक्योक्तभक्तिलक्षणा सेति सिद्धान्त इति ज्ञाप्यत इत्यर्थः । भक्तिपदमनुक्त्वा यत्सेवापदमुक्तं तत्तात्पर्यमाहुः सेवा हीत्यादि । जीवानाम्, ‘एवं पञ्चविधं लिङ्गं त्रिवृत्षोडशविस्तृतम् । एष चेतनया युक्तो जीव इत्यभिधीयत’ इति प्राचीनबर्हिषं प्रति नारदवाक्याद्देहविशिष्टानां चेतनानाम् । ‘सर्वयोनिषु कौन्तेय मूर्तयः प्रभवन्ति याः । तासां ब्रह्म महद्योनिरहं बीजप्रदः पिते’ति गीतावाक्याद्भगवज्जन्यत्वेन तत्पोष्यत्वम्, तेन सर्वेषां तेषां सहजदासत्वं गर्भदासत्वं ज्ञापितम् । तेनासुराणां याऽधोगतिः, सापि ‘आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनी’त्यत्र मूढा इति विशेषणेन दासधर्माकरणादेवेति सिध्यति । अत एव ‘देवोऽसुरो मनुष्यो वे’ति प्रह्लादवाक्ये भजना- १. ‘’ चिह्नान्तर्गतं पुस्तकद्वये नास्ति । २ भूमविद्येतिपाठः ।
श्रीमद्विट्ठलेश्वरविरचितविवृतिसमेता । १९ अत एव न कर्मणीवात्र कालपरिच्छेदोऽस्तीत्याहुः सदेति । आवश्यकार्थण्यत्प्रत्यया- न्तकार्यपदोक्त्या तदकरणे प्रत्यवायी भवतीति भावो ज्ञाप्यते । सा च फलरूपा साधनरूपा चास्ते । तत्र मानसी सा परा फलरूपेत्यर्थः । यथा व्रजसीमन्तिनीनाम् । तदेव तत्प्राण- नाथेन गीतं 'ता नाविदन्मय्यनुषङ्गबद्धधियः स्वमात्मानमदस्तथेद' मित्यादिना ॥ १ ॥ श्रीमत्पुरुषोत्तमकृतविवृतिप्रकाशः । धिकारस्तेषामुच्यते । तेन सर्वेषां चेतनानां जीवानां दासत्वमक्षुण्णमित्यर्थः । तदेतदभि- सन्धाय सदापदाशयमाहुः अत इत्यादि । कार्यपदतात्पर्यमाहुः आवश्यकेत्यादि । आवश्यकाधमर्ण्ययोर्णिनिरित्यर्थद्वयं प्रस्तुत्य 'कृत्याश्चे'ति सूत्रे कृत्यप्रत्यया विहिताः । तत्रावश्यकत्वं नाम पूर्वं कथञ्चित् ज्ञातस्य पश्चात्तदभावेऽनिष्टजननज्ञानपूर्वकज्ञानविषयत्वं वा, तथा कृतिविषयत्वं वा, नतु विधिविषयत्वमात्रम् । प्रैषानुवादसूत्रेणैव तदर्थलाभे- नास्य सूत्रस्य वैयर्थ्यप्रसङ्गात् । अतस्तदर्थकण्यत्प्रत्ययान्तकार्यपदोक्त्या तदकरणे प्रत्यवायी भवति । प्रत्यवायस्य पातकत्वात्तेन भक्तिमार्गाद्भ्रश्येतेति भावो ज्ञाप्यते । तथा च स्वस्मिन् भगवद्दासत्वमनुसन्धाय सेवायां च स्वतन्त्रपुरुषार्थत्वमावश्यकदासधर्मत्वं चानुसन्धाय सर्वकालं सेवाकरणं साधननिष्कर्ष इत्यर्थः । नन्वत्र सेव्यसन्तोषजनिका पूर्वोक्तप्रकारककायादिव्यापाररूपा क्रिया सेवात्वेन विवक्षिता । यथा राजसेवा गुरुसे- वेति । तस्याः सर्वदा कार्यत्वकथनमशक्योपदेशरूपमित्याशङ्क्य, तत्र समाधिं वदन्ती- त्याशयेनाग्रिमं वाक्यं व्याकुर्वन्ति सा चेत्यारभ्य इत्यादिनेत्यन्तम् । तथाच कायादित्रितय- व्यापाररूपापि विचार्यमाणा बाह्याभ्यन्तरभेदेन द्विधा । तयोराभ्यन्तरी मानसी बाह्यायाः फलरूपा । बाह्या तु तत्साधनरूपा । तयोरवान्तरफलरूपत्वं सर्वदा कार्यत्वं च फला- ध्यायाद्यपादे 'आवृत्तिरसकृदुपदेशा'दित्यस्य प्रथमवर्णके सिद्धम् । तत्र हि 'द्रष्टव्य' इति पदेन श्रवणादीनां फलरूपं दर्शनं पूर्वमुक्त्वा, 'श्रोतव्य' इत्यादिना तत्साधनानां पश्चा- त्कथनेनात्मनः परोक्षमपि ज्ञानमवान्तरफलरूपं ज्ञानमार्गे । भक्तिमार्गे तु परमफलरूपज्ञान- सजातीयत्वेनापि फलमध्यपात्येव श्रुत्यभिमतम् ।१ अत एव 'सूत्रकृदपि फलप्रकरणे साधन- विचारं चकारे'ति कथनादसकृदुपदेशकथनाच्च । मानस्याः मुख्यत्वं च साधनाध्याये सहकार्यन्तराधिकरणे । श्रुतौ कायिकं वाचिकं मानसिकं च साधनं विधीयते । तत्र मानसं मुख्यम् । 'मनसैवावाप्तव्य'मिति श्रुतेः । तस्यापि स्नेहोदयपर्यन्तमेव विहितत्वेन कर्तव्यता । तदुत्तरं तु स्वत एव तत्सम्भव इति निर्णयात् । पुष्टिमार्गे तु तस्य या परा काष्ठा, सात्र 'यथा व्रजसीमन्तिनीना'मित्यादिना दर्शिता । यदि हि प्रकारान्तरं तत उत्कृष्टं भगवदभिप्रेतं स्यात्, तदा भगवान् 'अथैतत्परमं गुह्य'मित्यत्र 'सुगोप्यमपि वक्ष्यामी'ति प्रतिज्ञायैतमेव प्रकारं तथात्वेन न वदेत्, अतस्तथा । तेन साधनरूपाया असकृदावर्तनमेव सदा कार्यत्वम् । मानस्यास्तु भगवति मनोगत्यविच्छेदरूपम् । तच्च बाह्याया आवर्तनात्साधनीयम्, अतो नाशक्योपदेशरूपत्वमित्यर्थः ॥ १ ॥ १ काले इति पाठः ।
एतदेव सेवारूपमित्याहुः चेत इति । चेतस्तत्प्रवणं सेवा तत्सिद्धयै तनुवित्तजा । ततः संसारदुःखस्य निवृत्तिर्ब्रह्मबोधनम् ॥ २ ॥ उक्तसेवासाधने इतरे इत्याहुस्तदिति । वित्तं दत्त्वा अन्येन पुरुषेण कृत्वा कारि- श्रीमत्पुरुषोत्तमकृतविवृतिप्रकाशः । तदेतदग्रिमावतरणेन निगमयन्ति एतदेवेत्यादि । अत्र मूले मानस्याः स्वरूपं 'चेत- स्तत्प्रवणं सेवे'त्यनेनोक्तम् । तत्र प्रवणपदं तावत् 'प्रवणं क्रमनिम्नोर्व्यां प्रह्वे ना तु चतुष्पथे' इत्यमरात्, 'प्रवणस्तु क्षणे प्रह्वे क्रमनिम्ने चतुष्पथे । आयत्ते चे'त्यनेकार्थचिन्तेषु रूढम् । मनश्च वेदे अन्नमयत्वेन श्रावणात्पार्थिवं पृथिवीपोषितं चेति सिद्धम् । एवं सति तस्मिन् कृष्णे पूर्वं प्रह्रमीषन्नम्रं तत आयत्तं तदधीनं ततः क्रमेण भगवदेकतानत्वरूपां 'ता नाविद'न्नितिवा- क्योक्तप्रकारां गभीरतां प्राप्तं यच्चेतस्तदेव सेवारूपम् । समाधाविव भगवति लयं प्राप्तमिति यावत् । नतु वृत्त्यन्तरविशिष्टमित्यर्थः । ( न च क्रमनिम्नत्वस्याचार्याशयगोचरत्वे मानाभावः शङ्क्यः । भक्तिवर्धिन्यां बीजदार्थ्यप्रकारकथने 'ततः प्रेम तथासक्तिर्व्यसनं च यदा भवे'दित्यत्र तथाङ्गीकारस्य स्फुटत्वादिति ) । एवं मानसीं साध्यरूपां निष्कृष्य साधनरूपाया निष्कर्षं वदन्तीत्याशयेनाग्रिममवतार्य व्याकुर्वन्ति उक्तसेवेत्यादि । अत्रेदं बोध्यते । इन्द्रियव्यापारं विना केवलस्य देहस्य न सेवाकर्तृत्वमिति प्रत्यक्षतोऽवसीयते । अत इन्द्रियव्यापारापेक्षायां यथा ज्ञानमार्गे नित्यनैमित्तिककर्मसहकृतं श्रवणादित्रयं पूर्वं साधनं, तत्परिपाकद्शायां प्रव्राजसहकृतं केवलमुपासनात्मकं ज्ञानम्; तथा भक्तिमार्गे 'एतान्यपि तु कर्माणी'ति गीतोक्तरीत्या तत्सहकृतं श्रवणादिनवकम्, तदप्येकादशस्कन्धे 'पुनश्च कथयिष्यामि मद्भक्तेः कारणं पर'मित्युपक्रम्य 'एवं धर्मैर्मनुष्याणामुद्धवात्मनिवेदिनाम् । मयि सञ्जायते भक्ति'रित्यन्तोक्तरीत्या क्रियमाणं साधनम् । तत्परिपाकद्शायां तु स्नेहेन क्रियमाणं तत्साधनम् । तच्चेद्वित्तं वेतनत्वेन दत्वा कार्यते, तदा सा चित्तस्य राजसत्वं कुर्वन्ती चित्तस्य तत्प्रवणत्वं न करोति । यदि च वित्तं वेतनत्वेन गृहीत्वा क्रियते, तदा ऋत्विजो यागवत् स्वस्य तत्प्रवणत्वरूपं फलं न साधयति । न च यागो यजमानस्येव वित्तदातुः फल- तीति शङ्क्यम् । तत्रर्त्विग्दक्षिणावरणादिवदत्र तद्दानादेर्भक्तिमार्गे भगवतानुक्तत्वात् । अत- स्तथा न कार्यम्, किन्तु भगवदुक्तरीत्यैव कार्यम् । तदैव साधनरूपा साध्यरूपां मानसीं सेवां जनयन्ती स्वयमपि पश्चात्फलरूपतया व्रजस्थानामिव पर्यवस्यतीति । एतदेव निबन्धे 'विशिष्टरूपं वेदार्थ' इत्यादिना 'एतन्मार्गद्वयं प्रोक्त'मित्यन्तेन सविवरणेन बोधितम् । यत्तुनरादिमे 'सेव्यः सायुज्यकाम्यये'त्युक्तम्, ततु मुख्याधिकाराभावपरम् । अत एव सर्वनिर्णये 'भक्तिः स्वतन्त्रा शुद्धा च दुर्लभेति न सोच्यत' इत्युक्तम्, अतो न दोषः । एवं १ ( ) क्वचिन्नास्ति ।
श्रीमद्विट्ठलेश्वरविरचितविवृतिसमेता । २१
तैका । एतादृशेन पुंसा कृता चापरा । एतादृश्यौ ते तत्साधिके नेत्यभिप्रायज्ञापकं समस्तं पदम् । एतेन भगवदर्थं निरुपाधिसर्वस्वनिवेदनपूर्वकं तत्रैव स्वदेहविनियोगे प्रेम्णि जाते सा भवतीति भावः । एतादृशस्यावान्तरफलं भवतीत्याहुः तत इति । अहन्ताममत्वात्मकः संसारो, न तु प्रपञ्चात्मकः, तस्य ब्रह्मात्मकत्वात्, तन्निवृत्त्याऽनिष्टनिवृत्तिरुक्ता । इष्टप्राप्ति- माहुरग्रे । स्वात्मनि प्रपञ्चे चाक्षरब्रह्मात्मकत्वेन ज्ञानम् । भगवत्सेवायामभिनिविष्टस्य यद्यप्यनभिलषिते ते, तथापि वस्तुस्वभावाद्भवत इति भावः ॥ २ ॥ इदमेव परं ब्रह्मेति न ज्ञेयमित्याहुः परं ब्रह्म त्विति । परं ब्रह्म तु कृष्णो हि सच्चिदानन्दकं बृहत् । द्विरूपं तद्धि सर्वं स्यादेकं तस्माद्विलक्षणम् ॥ ३ ॥
श्रीमत्पुरुषोत्तमकृतविवृतिप्रकाशः ।
साधननिष्कर्षमुक्त्वा तस्याग्रिमव्यवस्थां वदन्तीत्याशयेनाग्रिममवतारयन्ति एतादृशस्ये- त्यादि । अत्रैतादृशस्येति पदेनेदं ज्ञाप्यते । यद्याधुनिकैस्तादृशाधिकारराहित्येऽपि मार्गप्र- वर्तकाचार्योक्तप्रकारेण क्रियते, तत्तु भक्तिहंसे विधिमजानता बालेन पित्रादिशिक्षया कृतः सन्ध्यावन्दनादिः प्रत्यवायपरिहारेण यथा आरात् कर्ममार्गीयफलोपकारी भवति, तथैतदपि ।' 'न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छती'ति न्यायेनारादुपकरोति, न तु साक्षात् । अतः सद्भिरुपदिष्टेन प्रकारेण शास्त्रार्थं बुद्ध्वा करणीयमिति व्याकुर्वन्ति अह- न्तेत्यादि । तन्निवृत्त्येति । अहन्ताममत्वात्मकसंसारनिवृत्त्या । अग्रे इति । ब्रह्मबोधनपदे । तस्य स्वरूपं स्वात्मनीत्यादिनोक्तम् । एतस्यावान्तरफलस्योक्तेः प्रयोजनमाहुः भगवदि- त्यादि । अभिनिविष्टस्येति । 'स्नेहाद्रागविनाशः स्यादासक्त्या स्याद्गृहारुचिः । गृहस्थानां बाधकत्वमनात्मत्वं च भासते । यदा स्याद्व्यसनं कृष्णे कृतार्थः स्यात्तदैव ही'ति रीत्या जातव्यसनस्य तदुत्तरं भक्तिवृद्धिमत्तः । तथाच क्रियमाणा बाह्याभ्यन्तरी यथोक्तरूपा जाता अतः परं परमं फलं साधयिष्यतीति तेन निश्चेयमिति ज्ञापनायेदमवान्तरफलमु- क्तमित्यर्थः ॥ २ ॥ एतस्मिन् सम्पन्ने दुःखनिवृत्त्योक्तविधज्ञानमेव मानसीकाष्ठां मन्येत, तदा भक्ति- मार्गीयं फलं न भवेत्, अतस्तन्निवृत्त्यर्थं फलनिष्कर्षं प्रमेयनिष्कर्षं च सार्धनवभिर्वक्तुं प्रथममवान्तरप्रमेयं वदन्तीत्याशयेनाग्रिममवतारयन्ति इदमेवेत्यादि । इदमिति । जीव- स्वरूपमक्षरं वा । व्याकुर्वन्ति यशोदेत्यादि । अत्र 'परं ब्रह्म तु कृष्णो ही'ति मूलम् । तत्र तुः पूर्वव्यावर्तकः । हिर्हेतौ । तथा च यतो हेतोः । 'कृषिर्भूवाचकः शब्दः' 'गोपवेशम- भ्रामम्' 'गोपवेशो मे पुरुषस्तदा आविर्बभूवे'त्यादितापनीयश्रुतिभिः 'कृष्णस्तु भगवान् स्वय'मित्यादिस्मृतिभिरुपनिषत्सु गोपालतापिनीति नाम्ना च 'यशोदोत्सङ्गललितः कृष्णः अक्षरात्परतः परः । एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षते । परं ज्योतिरुपसंपद्य
२२ सिद्धान्तमुक्तावली ।
यशोदोत्सङ्गलालितो, न त्वन्य इति ज्ञापनाय मूलनामोक्तम् । अत्र भेदकं रूपमाहुः सच्चिदिति । एते हि भगवद्धर्मात्मकाः, प्रकटतन्नित्यात्मकमक्षरं ब्रह्म । अत एव प्रपञ्चस्त- दात्मक इति सच्चिदानन्दात्मकत्वं तस्मिन्नुच्यते । एतावान्परं विशेषो, जडे सदंशः प्रकटः, इतरावाच्छन्नौ; जीवे त्वाद्यौ प्रकटौ, आनन्दांशस्तिरोहितः; परमात्मनि त्रयं स्फुटमिति । कप्रत्ययेन गणितानन्दत्वमेव, न तु पुरुषोत्तमवत् पूर्णानन्दत्वमिति ज्ञाप्यते । कृष्णशब्देनैव पुरुषोत्तमस्वरूपं निरूपितमित्यक्षरस्वरूपं निरूपयन्ति द्विरूपमिति । तत् अक्षरं ब्रह्म ।
श्रीमत्पुरुषोत्तमकृतविवृतिप्रकाशः । स्वेन रूपेणाभिनिष्पद्यते । स उत्तमः पुरुष' इत्यादिश्रुतेः, 'यस्मात्क्षरमतीतोऽहमक्षराद- पि चोत्तमः ।' 'उत्तमः पुरुषस्त्वन्यः' 'परं ब्रह्म परं धामे'त्यादिस्मृतेश्च परं ब्रह्म, नत्वन्यः 'वृष्णीनां वासुदेवोऽस्मि' 'रामकृष्णाविति भुवो भगवानहरद्भर'मित्याद्युक्तो विभूत्यादि- रूपो न इति ज्ञापनाय मूलस्य परब्रह्मणो नामोक्तम् । यदि हि सोऽवतारः स्यात्, तदा यदुवंशोद्भवो मुख्य इति यादवतापिन्युपनिषत्स्यात्, गोपरूपेण च नाविर्भवेदिति । अतस्तत्रावतारत्वं न ज्ञेयम् । अक्षरं च परब्रह्मत्वेन न ज्ञेयमित्यर्थः । ननु 'सच्चिदान- न्दरूपाय कृष्णायाक्लिष्टकर्मणे' इति तापनीयश्रुतिवत् 'सत्यं ज्ञानमनन्तं ब्रह्मे'ति तैत्तिरी- येपि श्रावणादक्षरकृष्णयोः स्वरूपलक्षणैक्यादभेद एवाङ्गीकार्य इत्याशङ्कां निवारयन्ती- त्याशयेनाग्रिमभवतारयन्ति अत्रेत्यादि । सच्चिदानन्दकं बृहदित्यत्रापि देहलीदीपवत् हिशब्दः सम्बध्यत इत्याशयेन व्याकुर्वन्ति एते हीत्यादि, ज्ञाप्यत इत्यन्तम् । हिर्हेतौ । एत इति । सच्चिदानन्दाः । कप्रत्ययश्च प्रतिकृतौ 'इवे प्रतिकृता'वित्यनेन भवति । कुत्सापक्षेऽपि प्रतिकृतित्वादेव हीनताद्योतनम् । तथा चानन्दमीमांसायां शतानन्दिभ्य आधिक्येपि 'ते ये शतं प्रजापतेरानन्दाः, स एको ब्रह्मण आनन्द' इति गणनापरिच्छेदस्य तैत्तिरीये श्रावणात्, बृहदारण्यके च 'ते ये शतं प्रजापतिलोक आनन्दाः, स एको ब्रह्मलोक आनन्द' इति तदानन्दिनो लोकत्वेन विशेषितत्वात्, ततः परस्य च 'यतो वाचो निव- र्त्तन्ते अप्राप्य मनसा सहे'त्यनेनापरिच्छिन्नानन्दत्वश्रावणात्तयोः स्वरूपैक्येपि भेद एव पर्यवस्यति । इदं यथा तथा समन्वयाध्याये अदृश्यत्वाद्यधिकरणे प्रपञ्चितम् । तेनाभेदोऽ- प्यमित्रादिवत् भेदविरुद्धसम्पद्रूपस्तादात्म्य एव पर्यवस्यति । तेनाक्षरस्य पुरुषोत्तमान्यून- त्वमप्यक्षुण्णमिति तदेव भेदकमित्यर्थः । एवमत्र भगवतः कृष्णस्य परब्रह्मत्वकथनेन फलनिष्कर्ष उक्तः । अतः परमवान्तरप्रमेयनिष्कर्षं वदन्तीत्याशयेनाग्रिमभवतारयन्ति कृष्णशब्देने- त्यादि । निरूपितमिति । मुख्यप्रमेयत्वेन फलत्वेन च निरूपितम् । निरूपयन्तीति । अवान्तरप्रमेयत्वेन निरूपयन्ति । व्याकुर्वन्ति तदित्यादि । तत् अक्षरं ब्रह्म द्विरूपम् । अथ परा, यया तदक्षरमधिगम्यते, यत्तददृश्यमग्राह्यम् । एतद्वै तदक्षरं गार्गि अस्थूल-
श्रीमद्विट्ठलेश्वरविरचितविवृतिसमेता । २३ तदेव रूपद्वयं विशदयन्ति सर्वं स्यादिति । प्रपञ्चरूपेणाविर्भूतमेकमित्यर्थः । एकं रूपं तस्मात् प्रपञ्चरूपात् एकरूपत्वेन श्रुतिप्रतिपाद्यत्वेन ज्ञान्युपास्यत्वेन तन्मुक्तिस्थानत्वेन पुरुषोत्तमाधिष्ठानत्वादिभिर्विलक्षणमित्यर्थः । न च विरुद्धधर्मभेदोत्र शङ्कनीयः । उभयो- र्धर्मयोरेकत्र प्रमाणसिद्धत्वेन विरोधाभावात् । विरुद्धधर्माश्रयत्वस्य ब्रह्मणि 'तदेजति तन्नैजती'त्यादिश्रुतिभिर्निरूप्यमाणत्वात् । लोक एव विरोधः शङ्कनीयो, नत्वलौकिके ब्रह्मणि । इदं यथा तथा ब्रह्मसूत्रभाष्ये निरूपितमिति नात्र प्रपञ्च्यते ॥ ३ ॥ विरोधपरिहाराय स्वसिद्धान्तं वक्तुं परमतान्याहुः अपरमिति । अपरं तत्र पूर्वस्मिन् वादिनो बहुधा जगुः । मायिकं सगुणं कार्यं खतन्त्रं चेति नैकधा ॥ ४ ॥ वेदमतादपरं भिन्नं मतं पूर्वस्मिन् प्रपञ्चरूपेणाविर्भूते । तत्र अक्षरे ब्रह्मणीत्यर्थः । श्रीमत्पुरुषोत्तमकृतविवृतिप्रकाशः । मनण्वि' त्यादिश्रुतिषु, 'अक्षरं ब्रह्म परम'मित्यादिस्मृतिषु च यदुक्तं, तत् द्विप्रकारकं कथमित्याकाङ्क्षायामाहुः तदेवेत्यादि । एकपदं देहलीदीपवदग्रिमेऽपि सम्बध्यत इत्याशयेनाहुः एकं रूपमित्यादि । अत्र पुरुषोत्तमाधिष्ठानत्वं 'तदक्षरे परमे व्योमन्नि'ति श्रुतौ, आदिपदोक्तं चरणादिरूपत्वं च 'ब्रह्म पुच्छं प्रतिष्ठे'ति श्रुतौ स्फुटम् । शेषं 'क्व परे'त्युक्तश्रुतेर्ज्ञेयम् । तथाचैवं मूलयोजना । हि यतो हेतोः, सर्वं स्यादेकं तस्माद्विलक्षणमेकमतो द्विरूपमिति । ननु रूपद्वयस्येतरेतरवैलक्षण्येन भेदे रूपिण ऐक्यं न प्रमातुं शक्यत इत्याकाङ्क्षायामाहुः नचेत्यादि, ब्रह्मणीत्यन्तम् । भेद इति, रूपिणो भेदः । अत्रेति, अस्मिन्मते । तथा च लोकतः प्रमातुमशक्यत्वेऽपि श्रुतितः प्रमातुं शक्यत इत्यर्थः । ननु लोकविरोधे श्रुतेः स्तावकत्वं कल्पनीयमित्यत आहुः इदं यथे- त्यादि । श्रुतेः स्तुतिपरत्वमुपचारपरत्वं च वारयितुमेव ब्रह्मसूत्रप्रवृत्तेर्भाष्ये प्रतिपादित- त्वात्तत्र स्तावकत्वादिकं न कल्पयितुं शक्यमित्यर्थः ॥ ३ ॥ ननु 'एषाऽविद्या जगत्सर्व'मिति नृसिंहतापनीयवाक्यावलम्बनेन मायावादो, 'यस्त- न्तुनाभ इव तन्तुभिः प्रधानजैः स्वभावत'इत्यादिवाक्यावलम्बनेन साङ्ख्यादिवादः प्रवृत्त इति कथं तन्मूलश्रुतिविरोधपरिहार इत्याशङ्कायां वदन्तीत्याशयेनाग्रिममवतारयन्ति विरोध- परीत्यादि । व्याकुर्वन्ति वेदेत्यादि । वादिनो बहुधा जगुरित्यर्थः । तथा च श्रुतितात्पर्यस्य तत्र प्रकारान्तरेण सत्त्वात्तेषां भिन्नत्वमित्यर्थः । तदेतद्बोध्यितुं मतप्रणेतॄनाहुः मायिकमि- त्यादिना । मायिकमिति, मायोपादानकं सगुणेश्वरकर्तृकम् । एवमग्रेऽपि तत्तन्मत्तरीत्या बोध्यम् । साङ्ख्यपदं पातञ्जलानामप्युपलक्षकम् । नैयायिकपदं च वैशेषिकानाम् । वेद- बाह्यमतानीति चतुर्विधबौद्धार्हतलोकायतिकवामशाक्तादिमतानि । मूले इति नैकधेति । इतिः प्रकारे नैकधेति बहुधापदोक्तार्थस्य निगमनम् ॥ ४ ॥
२४ सिद्धान्तमुक्तावली । मायिकमिति हि मायावादिनः । सगुणं गुणकार्यमिति साङ्ख्याः । कार्यं द्व्यणुकादि- क्रमेणेश्वरकार्यमिति नैयायिकाः । स्वतन्त्रं न कदाचिदनीदृशं जगदिति मीमांसकाः । चकारेण वेदबाह्यमतानि सङ्गृह्यन्ते ॥ ४ ॥ तानि मतानि श्रुतिबलेनैव निराकृतानि सन्तीति नात्र पार्थक्येन निराकरणीयानि, स्वमतनिरूपणेनैव निराकरणसम्भवादित्याशयेन स्वसिद्धान्तमाहुः तदेवेति । तदेवैतत्प्रकारेण भवतीति श्रुतेर्मतम् । द्विरूपं चापि गङ्गावज्ज्ञेयं सा जलरूपिणी ॥ ५ ॥ माहात्म्यसंयुता नृणां सेवतां भुक्तिमुक्तिदा । मर्यादामार्गविधिना तथा ब्रह्मापि बुध्यताम् ॥ ६ ॥ ‘स हैतावानास’, ‘सर्वं खल्विदं ब्रह्म, तज्ज्ला’नित्यादिश्रुतिभ्यः तथेत्यर्थः । एक- स्यैवाक्षरस्योक्तं द्विरूपत्व दृष्टान्तेनोपपादयन्ति द्विरूपमिति । प्रपञ्चतद्भिन्नरूपाभ्यां द्विरूपं तद्ब्रह्म गङ्गावज्ज्ञेयम् । अस्ति गङ्गायां त्रिरूपत्वम् । आधिभौतिकं जलरूपमेकम्, यद्दृष्टघातपाभ्यां वृद्धिह्रासौ भजते, सर्वव्यवहारयोग्यं च । अग्रिमा द्वितीयाध्यात्मिकी तीर्थरूपा, योद्धृतजलाविशेषेऽपि मर्यादामार्गसम्बन्धी यो विधिस्तेन तत्रैव स्नानपूजा- श्रीमत्पुरुषोत्तमकृतविवृतिप्रकाशः । तर्हि तानि स्वमतबोधनाय तत्स्थापनाय च दूष्याणीत्याकाङ्क्षायामग्रिममवतारयन्ति तानीत्या- दि । श्रुतिबलेन निराकृतानीति । श्रुतितात्पर्यप्रकाशनेन भाष्ये प्रपञ्चेन निराकृतानि । इदं यथा तथाविरोधाध्यायभाष्यप्रकाशादवगन्तव्यम् । व्याकुर्वन्ति स हैतावा’नित्यादि । अत्र प्रथमा श्रुतिर्बृहदारण्यके पुरुषविधब्राह्मणे । द्वितीया छान्दोग्ये शाण्डिल्यविद्यायाम् । आदिपदेन ‘यथा प्रदीप्तात्पावकाद्विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः, तथा अक्षरा- द्विविधाः सौम्य भावाः प्रवर्त्तन्ते । तत्र चैवापियन्ती’ति मुण्डकश्रुतिः संगृह्यते । तेन बह्वीषु श्रुतिष्वक्षरस्यैव प्रपञ्चप्रकारेण भवनस्य निरूपणात्, नृसिंहोत्तरतापनीयेऽप्युक्त- वाक्योपसंहारे अविद्याया नानाविधक्षेत्रदर्शकतस्य परमात्मन एव जगद्योनित्वस्य च निगमनान्न श्रुतीनामितरेतरविरोध इति पूर्वोक्तं सर्वमक्षुण्णमित्यर्थः ॥ ४½ ॥ एवमवान्तरप्रमेयं निरूप्य तस्य बालबोधनार्थं सार्धकारिकया वैशद्यं कुर्वन्तीत्याशये- नाग्रिममवतारयन्ति एकस्यैवेत्यादि । व्याकुर्वन्ति प्रपञ्चेत्यादि । मूले चकारोऽनुक्तसमुच्चा- यक इत्याशयेनाहुः अस्तीत्यादि । अग्रिमेति । माहात्म्यसंयुतेत्यादिग्रन्थेनोक्ता । तत्सत्त्वे मानमाहुः योद्धृतेत्यादि । उद्धृतजलाविशेषेऽपीति । प्रवाहादुद्धृतं यज्जलं तस्य प्रवाहज- लाद्विशेषेऽपि प्रवाहजलसाम्येऽपि । तत्रैवेति । प्रवाह एव न तूद्धृतजले । तथा च यदि तीर्थरूपातिरिक्ता न स्यात्, तदा देशान्तर उद्धृतजलस्नानादिनापि तत्तीर्थस्नानफलं स्मर्येत, तन्तु न दृश्यत इति तीर्थरूपा जलरूपाद्भिन्नैवेत्यर्थः । दार्ष्टान्तिके सङ्ग-
[Header: श्रीमद्विठ्ठलेश्वरविरचितविवृतिसमेता । २५]
दिभिः फलदा। एवमेव प्रपञ्चतद्भिन्नरूपमप्येकमेव तदक्षरं ब्रह्मेति तथा बुध्यतामित्यर्थः ॥ ५।६॥ आधिदैविकं रूपमाहुः तत्रैवेति । तत्रैव देवतामूर्तिर्भक्त्या या दृश्यते क्वचित् । गङ्गायां च विशेषेण प्रवाहाभेदबुद्धये ॥ ७ ॥ प्रत्यक्षा सा न सर्वेषां प्राकाम्यं स्यात्तथा जले । विहिताच्च फलात्तद्धि प्रतीत्यापि विशिष्यते ॥ ८ ॥ यथा जलं तथा सर्वं यथा शक्ता तथा बृहत् । यथा देवी तथा कृष्णस्तत्राप्येतदिहोच्यते ॥ ९ ॥ जगत्तु त्रिविधं प्रोक्तं ब्रह्मविष्णुशिवास्ततः । देवतारूपवत्प्रोक्ता ब्रह्मण्यीत्थं हरिर्मतः ॥ १० ॥ कामचारस्तु लोकेऽस्मिन् ब्रह्मादिभ्यो न चान्यथा । परमानन्दरूपे तु कृष्णे स्वात्मनि निश्चयः ॥ ११ ॥ अतस्तु ब्रह्मवादेन कृष्णे बुद्धिर्विधीयताम् । उक्तद्विरूपायां गङ्गायामेव देवतारूपा सा तद्भिन्नास्तीत्यर्थः । तत्र प्रमाणमाहुः मूर्तिरिति । भक्त्यैव, न तु मर्यादामार्गविधिनोपासनयेत्यर्थः । तदपि क्वचिदेव, भक्त्युद्रे- कदशायामेव । अथवा । यत्र क्वचिद्ब्रह्मादिष्वपीत्यर्थः । भक्तविशेषे विशेषमाहुः गङ्गाया- मिति । देवतारूपायां गङ्गायां भक्त्युद्रेकेण दृश्यमानप्रवाहादभिन्नत्वेन यस्य बुद्धिस्तस्मै
श्रीमत्पुरुषोत्तमकृतविवृतिप्रकाशः । मयन्ति एवमेवेत्यादि । प्रपञ्चतद्भिन्नरूपमिति । प्रपञ्चश्च तद्भिन्नं च प्रपञ्चतद्भिन्ने ते रूपे यस्य तत् । (न चात्र बहुव्रीहिणा रूपिणस्तुत्यत्वं शङ्क्यम् । एकादशव्यूहो रुद्र इति वत्तदुपपत्तेः ।) तथा बुध्यतामिति । वृद्धिह्रासभाववत्तद्राहित्यपूर्वकमाहात्म्ययुक्तत्वाभ्यां बुध्यताम् । तथा चाक्षरोपासनया यत्फलम्, न तत्प्रपञ्चोपासनयेति तयोरैक्येऽप्येवं भेद इत्यर्थः । मूले सेवेतामिति शतुरनुदात्तेल्लक्षणस्यात्मनेपदस्य चक्षिङो ङित्करणाज्ज्ञापकादनि- त्यत्वेन बोध्यः । 'त्वां सेवतां सुरकृता बहवोन्तराया' इत्यादिपुराणप्रयोगाच्च ॥ ५,६ ॥ एवमवान्तरप्रमेयरूपमक्षरं दृष्टान्तेन बोधयित्वा मुख्यप्रमेयस्य पुरुषोत्तमस्य कृष्णस्य सर्वसामर्थ्यं सर्वत्र व्याप्तिं च बोधयितुं सपादकारिकां वदन्तीत्याशयेनाग्रिमभवतारयन्ति आधिदैविकमित्यादि । व्याकुर्वन्ति उक्तेत्यादि । प्रत्यक्षा भवतीत्यर्थ इत्यन्तम् । अनेन व्याप्तिरुक्ता । तत्र प्रमाणमिति । प्रवाहेतीर्थातिरिक्तदेवतासत्त्वे प्रमाणम् । मूर्तिरिति । भीष्मादिमातृत्वेन भगीरथदृष्टत्त्वादिना पुराणप्रसिद्धशरीरयुक्ता । तेन शब्दः प्रमाण- मित्युकम् । प्रत्यक्षविशेषस्यापि तत्र प्रामाण्यमाहुः भक्त्येत्यादि । (अयमर्थः । अंशुमद्दिलीपाभ्यां बहुकालं तपःकरणेपि गङ्गा न प्रत्यक्षाऽभूत् । भगीरथस्य तु प्रत्यक्षा प्रसन्ना वरदास्मीत्यु- वाचेति भगीरथतपसि भक्तिविशेषसाहित्यमेव सुमहत्सु महत्त्वम् । अत एव ब्रह्मवैवर्तखण्डे 'भगीरथस्त्वस्य पुत्रो महाभागवतः सुधीः । वैष्णवो विष्णुभक्तश्चे'ति विशेषणमुक्तम् ।
४ सि० मु०
गङ्गायां प्रवाहमध्य एव ( देवतारूपा गङ्गा ) प्रत्यक्षा भवतीत्यर्थः । एतेन प्रपञ्चमध्य एव भगवदाकारभगवद्भक्तयोर्दर्शने भगवति स्नेहातिशयेन तत्र भगवदभेदबुद्धये तत्र भगव- त्प्राकट्यं भवतीति भावः सूच्यते । अग्रिमव्यवस्थामाहुः प्राकाम्यमिति । स्वाभीष्टसर्व- स्वरूपायाः स्थानभूतत्वेन ज्ञानात्तज्जले सर्वत्रानिषिद्धयथेष्टव्यवहारः स्यादित्यर्थः । एवमेवो- क्तप्रकारकभगवद्दर्शने सर्वत्र तद्भावः स्फुरतीति भावः । विहितेति । भक्त्या गङ्गादर्श- नानन्तरं प्रवाहरूपाया अपि दर्शनं विहितात्स्वर्गापवर्गरूपात्फलाद्विशिष्यते । तद्धृदीत्यर्थः । यद्वा । येषां न प्रत्यक्षा, तेषामपि तया देवतारूपया सा तत्रास्तीति तत्सम्बन्धानुभा- वेनैव तज्जले प्राकाम्यं प्रकृष्टकामविषयत्वं श्रद्धाविशेषपूर्वकस्नानादिव्यवहारो भवतीत्यर्थः । श्रीमत्पुरुषोत्तमकृतविवृतिप्रकाशः । तस्य च तपस्यत एव प्रकटा बभूव । अतोऽन्यत्रापि तथेत्यर्थः १) मूले भक्तिपदमात्रक- थनात्क्वचित्पद उद्रेकदशारूपविशेषबोधनमयुक्तमिवाभातीत्यरुच्या पक्षान्तरमाहुः अथवे- त्यादि । ननु यदि गृहादिष्वपि गङ्गादर्शनं भक्त्यैव स्यात्, सर्वेषां भक्तानां स्यात्, तत्तु नेति कथमेवमित्याकाङ्क्षायां वदन्तीत्याशयेनाग्रिममवतारयन्ति भक्तविशेष इत्यादि । व्याकुर्वन्ति देवतेत्यादि । प्रवाहमध्य एवेति । प्रवाहसम्बन्धिन्येव गङ्गाद्वारादिरूपे क्वचिद्देशे । मूले गङ्गायां चेति । चोऽवधारणे । विशेषपदस्यार्थष्टीकायां भक्त्युद्रेक- पदेन विवृतोऽवगन्तव्यः । एतावत्कथनप्रयोजनमाहुः एतेनेत्यादि । एतेनेति । भौतिक्यां गङ्गायामेवाधिदैविकगङ्गास्वरूपप्राकट्यबोधनेन । तत्रेति । भगवदाकारे भगवद्भक्ते च । अग्रिमव्यवस्थामिति । आधिदैविकरूपस्थितिकार्यम् । प्राकाम्यमिति । प्राकाम्यं बाहुल्यम् । 'प्रकामसुभगत्वाद्गात्रसंश्लेषत' इत्यादिप्रयोगदर्शनात् । तदत्र किं विवक्षितमि- त्याकाङ्क्षायां विवृण्वन्ति स्वाभीष्टेत्यादि । तथा च तादृग्भक्तप्रत्यक्षया तया गङ्गया कृत्वा तज्जले भक्तस्यानिषिद्धव्यवहारबाहुल्यरूपं प्राकाम्यं स्यादित्यर्थः । एतत्कथन- प्रयोजनमाहुः एवमित्यादि । अग्रिमार्धं व्याकुर्वन्ति भक्त्येत्यादि । तथा चैवं भगवतः कृष्णस्य साक्षात्कारानन्तरं ज्ञानफलान्मोक्षादपि प्रपञ्चे सर्वत्र भगवदधिष्ठानत्वरूपेण ज्ञानं विशिष्यत इति भावः । मूले चोप्यर्थे । तदिति, गङ्गादर्शनम् । हिर्निश्चये । यथा- तथापदयोरध्याहारः । तथा च हि निश्चयेन तत्तादृशभक्त्या गङ्गादर्शनं विहितादपि फलात्प्रतीत्यापि यथा विशिष्यते, तथा तया जले प्राकाम्यं स्यादिति मूलयोजना । अस्मिन् व्याख्यानेऽध्याहारादिदोषादरुच्या प्रकारान्तरेण व्याकुर्वन्ति यद्वेत्यादि । अस्मिन्पक्षे प्राकाम्यं नाम प्रकृष्टः कामः प्रकामस्तस्य कर्म । 'गुणवचनब्राह्मणादिभ्यः कर्मणि चे'त्यनेन 'भावे कर्मणि चे'त्यर्थद्वयेऽनुशासनादत्र कर्मणि ष्यञ् । तदेव विवृतं प्रकृष्टेत्यादिना । तथाच यथा तयैवं तथा प्रपञ्चेऽपि यत्र भगवत्सम्बन्धानुभवः, तत्र भगव- त्स्वरूपे गुर्वादौ च श्रद्धापूर्वको व्यवहारः श्रद्धालुनामिति भावः । अग्रिमं विवृण्वन्ति १ तथा । देवतारूपा सेति पाठः ।