सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
शान्तरसनिर्देशः
३६९
दिवसान् ॥ ५७ ॥ कदा वा सैकते विमलसरयूतीरपुलिने चरन्तं श्रीरामं जनकतनयालक्ष्मणयुतम् । अये राम स्वामिञ्जनकतनयावल्लभ विभो प्रसीदेत्याक्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ ५८ ॥ कदा वाराणस्याममरतटिनीरोधसि वसन्वसानः कौपीन शिरसि निदधानोऽञ्जलिपुटम् । अये गौरीनाथ त्रिपुरहर शंभो त्रिनयन प्रसीदेत्याक्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ ५९ ॥ भू पर्यङ्को निजभुजलतागेन्दुकः खं वितानं दीपश्चन्द्रो विरतिवनितालब्धयोगप्रमोदः । दिक्कन्याना व्यजनपवनैर्वीज्यमानोऽनुकूलैर्भिक्षुः शेते नृप इव सदा वीतरागो जितात्मा ॥ ६० ॥ आस्सारातत्रिभुवनमिदं चिन्वता तात तादृङ्गो वाऽस्माकं नयनपदवी श्रोत्रवर्त्मागतो वा । योऽयं धत्ते विषयकरिणीगाढगूढाभिमानक्षीयत्स्वान्तःकरणकरिणः संयमानानलीलाम् ॥ ६१ ॥ आयुर्वायुव्यथितनलिनीपत्रमित्र किमन्यत्संपच्छम्पाद्युतिसहचरी खेरचारी कृतान्तः । कस्मादस्मिन्भ्रमसि तमसि त्वं प्रयाहि प्रयागं पौनःपुन्यं भुवि भगवती स्वर्धुनी ते धुनीते ॥ ६२ ॥ पूर्वं तावत्कुवलयदृशा लोललोलैरपाङ्गैरराकर्षद्भिः किमपि हृदयं पूजिता यौवनश्रीः । संप्रत्यन्तर्निहितसदसद्भावलब्धप्रबोधप्रत्याहारैर्विशदहृदये वर्तते कोऽपि भावः ॥ ६३ ॥ मातर्माये भगिनि कुमते हे पितर्मोहजाल व्यावर्तध्वं भवतु भवतामेष दीर्घो वियोगः । सद्यो लक्ष्मीचरणचरणभ्रष्टगङ्गाप्रवाहव्यामिश्राया दृषदि परमब्रह्मदृष्टिर्भवामि ॥ ६४ ॥ गङ्गातीरे हिमगिरिशिलाबद्धपद्मासनस्य ब्रह्मज्ञानाभ्यसनविधिना योगनिद्रा गतस्य । किं तैर्भाव्यं मम सुदिवसैर्येत्र ते निर्विशङ्काः कण्डूयन्ते जरठहरिणाः शृङ्गमङ्गे मदीये ॥ ६५ ॥ भेदाभेदौ सपदि गलितौ पुण्यपापे विशीर्णे मायामोहौ क्षयमुपगतौ नष्टसदेहवृत्तेः । शब्दातीतं त्रिगुणरहितं प्राप्य तत्त्वावबोधं निस्त्रैगुण्ये पथि विचरतः को विधिः को निषेधः ॥ ६६ ॥ यद्वात्मानं सकलवपुषामेकमन्तर्बहिःस्थं दृष्ट्वा पूर्ण खमिव सततं सर्वभाण्डस्थमेकम् । नान्यत्कार्य किमपि च ततः कारणाच्चिन्नरूपं निस्त्रैगुण्ये पथि विचरतः को विधिः को निषेधः ॥ ६७ ॥ हेम्नः कार्य द्रुतबहूगतं हेममेवेति यद्वत्क्षीरे क्षीर समरसतया तोयमेवाम्बुमध्ये । एवं सर्व समरसतया त्वंपदं तत्पदार्थे निस्त्रैगुण्ये पथि विचरतः को विधिः को निषेधः ॥ ६८ ॥ यस्मिन्सर्वं सकलभुवन सामरसैकभूतंमुखी ह्यापोऽनलमनिलञ्च जीवमेवं क्रमेण । यत्क्षाराब्धौ समरसतया सैन्धवैकत्वभूतं निस्त्रैगुण्ये पथि विचरतः को विधिः को निषेधः ॥ ६९ ॥ यद्वन्नद्योदधिसमरसौ सागरत्वं ह्यवासौ तद्वज्जीवा-
लयपरिगतौ सामरसैकभूतौ । भेदातीतं परिलयगतं सच्चिदानन्दरूपं निस्त्रैगुण्ये पथि विचरतः को विधिः को निषेधः ॥ ७० ॥ दृष्ट्वा वेद्य परमथ पदं स्वात्मनोवस्वरूपं बुद्ध्वात्मान सकलवपुषामेकमन्तर्बहिःस्थम् । भूत्वा नित्यं समुदिततया स्वप्रकाशस्वरूपं निस्त्रैगुण्ये पथि विचरतः को विधिः को निषेधः ॥ ७१ ॥ कार्यकार्ये किमपि सततं नैव कर्तृत्वमस्ति जीवन्मुक्तस्थितिरवगतो दग्धवस्त्रावभासः । एव देहे प्रविलयगते तिष्ठमानो विमुक्तो निस्त्रैगुण्ये पथि विचरतः को विधिः को निषेधः ॥ ७२ ॥ कस्मान्कोऽह किमपि च भवान्कोऽयमत्र प्रपञ्चः स्वं स्वं वेद्य गगनसदृश पूर्णतत्त्वप्रकाशम् । आनन्दारूयं समरसघने बाह्यमन्तर्विहीने निस्त्रैगुण्ये पथि विचरतः को विधिः को निषेधः ॥ ७३ ॥ कि कदर्प कर कदर्थयसि रे कोदण्डटङ्कारितै रे रे कोकिल कोमलैः कलरवै कि त्वं सुधा वल्गसि । मुग्धे स्निग्धविदग्धमुग्धमधुरैर्लोलैः कटाक्षैरल चेतश्चुम्बितचन्द्रचूडचरणध्यानामृतं वर्तते ॥ ७४ ॥ मातर्मेदिनि तात मारुत सखे ज्योतिः सुबन्धो जल भ्रातर्व्योम निबद्ध एष भवतामन्त्यः प्रणामाञ्जलिः । युष्मत्सङ्गवशोपजातसुकृतोद्रेकः स्फुरन्निर्मलज्ञानापास्तसमस्तमोहमहिमा लीये परे ब्रह्मणि ॥ ७५ ॥ आशा नाम नदी मनोरथजला तृष्णातरङ्गाकुला रागग्राहवती वितर्कविहगा धैर्यद्रुमध्वंसिनी । मोहावर्तसुदुस्तरातिगहना प्रोत्तङ्गचिन्तातटी तस्याः पारगता विशुद्धमनसो नन्दन्ति योगीश्वराः ॥ ७६ ॥ येषा वल्लभया सह क्षणमपि क्षिप्रं क्षपा क्षीयते तेषा शीतकरः शशी विरहिणामुल्केव संतापकृत् । अस्माकं तु न वल्लभा न विरहस्तेनोभयभ्रंशिनार्मिन्दू राजति दर्पणाकृतिरसो नोष्णो न वा शीतलः ॥ ७७ ॥ धावन्त प्रतिवासर दिशि दिशि प्रत्याशया संपदा दृष्ट्वा कालवशेन हन्त पलित कस्यापि दैवद्रुमम् । श्रावं श्रावमवज्ञयोपहसितं सर्वत्र भग्नोद्यमा जीवामः परमार्थशून्यहृदयास्तृप्ता मनोमोदकैः ॥ ७८ ॥ सन्त्येके धनलाभमात्रगहनव्यामोहसम्मुर्च्छिताः केचिद्दैववसुन्दरीस्तनपरीरम्भभ्रमव्याकुलाः । अन्तर्भूतसमस्ततत्त्वनिवहं चिन्मात्रशेषं शिवं दृष्ट्वा हृष्टतनूरुहाङ्कुरभराः कष्टं न शिष्टाः क्वचित् ॥ ७९ ॥ आदित्यस्य गतागतैरहरहः संक्षीयते जीवितं व्यापारैर्बहुकार्यभारगुरुभिः कालोऽपि न ज्ञायते । दृष्ट्वा जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते पीत्वा मोहमयीं प्रमादमदिरामुन्मत्तभूतं जगत् ॥ ८० ॥ यत्रैकं शृतमक्षर पशुपतेर्हेतुः श्रुतीना कृतौ सद्यो रोहति चाष्टधा तनुभृता यत्रैकमुग्धदृपुः । यत्रैकाअनदीकणेऽपि विधृते सर्वैव सा धार्यते सा दृष्टाद्भुतवैभवा कविगिरा पारे हि
१ अयोध्यायाम्
२ भागीरथीतीरे
३ उपधानम्
४७ सु र. भां.
१ नक्र
२ अभ्भसां भ्रम
३७० सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
वाराणसी ॥ ८१ ॥ क्षारस्मेरमदोन्मज्जत्कुचतटीकान्ताकरा-
न्दोलितैः पुष्पाम्भोनिचितैःशरीररचितैः किं तालवृन्तैर्भ्रम ।
अन्वानन्दवनं सुखं शिशयिषोरर्धप्रमीलदृशो यातायातरिप-
श्रमं शमयिता गङ्गातरङ्गानिलः ॥ ८२ ॥ एकद्वैः किम-
भावि सूरिभिरथ द्वित्राणि मित्राणि किं व्यापन्नानि गताश्च
किं त्रिचतुरा घोरा महाव्याधयः । सप्ताहैरल्मिदमेतदपि
नश्चेत. क्षणान्यञ्चपान्स्वान्मन्येव रमस्व तेजसि गते कालेऽथ
वा सर्वतः ॥ ८३ ॥ नित्यानित्यविचारणा प्रणयिनी वैराग्य-
मेक सुहृन्मित्राण्येव यमादय. शमदमप्राया. सखायो
मताः । मैत्र्याद्याः परिचारिकाः सहचरी नित्यं मुमुक्षा
बलादुच्छेद्या रिपवश्च मोहममतासंकल्पवैरादयः ॥ ८४ ॥
पुण्यैर्मूलफलैः प्रियप्रणयिनी वृत्ति कुरुष्वाधुना भूशय्या
नवपल्लवैः कुरु तृणैरृत्तिष्ठ यामो वने । क्षुद्राणामविवेकगूढ-
मनसा यत्रेश्वराणा सदा वित्तव्याध्यविवेककुलगिरा
नामापि न श्रूयते ॥ ८५ ॥ भस्मोद्धूलन भद्रमस्तु भवते
रुद्राक्षमाले शुभं हा सोपानपरम्परे गिरिसुताकान्तालयालंकृते ।
अद्याराधनतोषितेन विभुना युष्मत्सपर्यासुखालोको-
च्छेदिनी मोक्षनामनि महामोहे निधीयामहे ॥ ८६ ॥
कृत्वा दीननिपीडना निजजने बद्ध्वा वचोविग्रहं नैवालोच्य
गरीयसीरपि चिरादामुष्मिकीर्यातनाः । द्रव्यौघा परि-
सचिता. खलु मया यस्याः कृते साप्रतं नीवाराञ्जलिनापि
केवलमहो सेयं कृतार्था तनुः ॥ ८७ ॥ रथ्यान्तररतस्तथा
धृतजरत्कन्थालवस्साध्वगैः सत्रास च सकौतुक च
सदय दृष्टस्य तैर्नागरै. । निर्याणीकृतचित्सुधारसमुदा
निद्रायमाणस्य मे निःशङ्कं कैरटः कदा करपुटीभिक्षा
विलुण्ठिष्यति ॥ ८८ ॥ सौजन्याम्बुमरुस्थली सुचरिता-
लेख्यद्युभित्तिर्गुणज्योत्स्नाकृष्णचतुर्दशी सरलतायोगश्वपुच्छ-
च्छटा । यैरेषापि दुराशया कलियुगे राजावली सेविता
तेषा शूलिनि भक्तिमात्रसुलभे सेवा कियत्कौशलम् ॥ ८९ ॥
भोगे रोगभयं कुले च्युतिभयं वित्ते नृपालाद्भयं माने दैन्य-
भय बले रिपुभयं रूपे जराया भयम् । शास्त्रे वादभयं
गुणे खलभय काये कृतान्ताद्भयं सर्वे वस्तु भयान्वितं भुवि
नृणा वैराग्यमेवाभयम् ॥ ९० ॥ शय्या शार्दूलमासनं शुचि
शिला सद्म द्रुमाणामधः शीतं निर्झरवारि पानमशनं कन्दा-
सहाया मृगाः । इत्यप्रार्थितलभ्यसर्वविभवे दोषोऽयमेको
वने दुष्प्रापार्थिनि यत्परार्थघटनाबन्ध्धैर्वृथा स्थीयते ॥ ९१ ॥
याञ्चाशून्यमयत्नलभ्यमशनं वायुः कृतो वेधसा व्यालाना
पशवस्तृणाङ्कुरभुज. सुस्थाः स्थलीशायिनः । ससारार्णव-
लङ्घनक्षमधिया वृत्तिः कृता सा नृणा यामन्वेषयता प्रयान्ति
सततं सर्वे समाप्ति गुणाः ॥ ९२ ॥ बीभत्सा विषया जुगु-
प्सिततमः कायो वयो गत्वर प्रायो बन्धुभिरध्वनीव पथिकै-
र्योगो वियोगावहः । हातव्योऽयमसार एष विरसः ससार
इत्यादिकं सर्वस्यैव हि वाचि चेतसि पुनः कस्यापि पुण्या-
त्मनः ॥ ९३ ॥ पुत्रः स्यादिति दुःखितः सति सुते तस्या-
मये दुःखितस्तद्बाधिकमार्जने तदनये तन्मूर्खतादुःखितः ।
जातश्चेत्सगुणोऽथ तन्मृतिभय तस्मिन्मृते दुःखितः पुत्रव्याज-
मुपागतो रिपुरयं मा कस्यचिज्जायताम् ॥ ९४ ॥ आ-
हारः फलमूलमात्मरचितं शय्या मही वल्कलं सवीताय
परिच्छदः कुशसमित्पुष्पाणि पुत्रा मृगाः । वस्त्रान्नाश्रयदान-
भोगविभवा निर्यन्त्रणा. शाखिनो मित्राणीत्यधिक गृहेषु
गृहिणा कि नाम दुःखाहते ॥ ९५ ॥ सूक्ति कर्णसुधा
व्यनक्तु सुजनस्तस्मिन्न मोदामहे ब्रूता वाचमसूयको विष-
मुचं तस्मिन्न खिद्यामहे । या यस्य प्रकृति. स ता वितनुता
कि नस्तया चिन्तया कुर्मस्तत्खलु कर्म जन्मनिगडच्छेदाय
यज्जायते ॥ ९६ ॥ यत्क्षान्तिः समये श्रुतिः शिव शिवे-
त्युक्तौ मनोनिर्वृतिर्भैक्षे चामिरुचिर्धनेषु विरतिः शश्वत्स-
माधौ रति. । एकान्ते वसतिर्गुरौ प्रतिनतिः सद्भिः समं
सङ्गति. सत्त्वे प्रीतिरनङ्कनिर्जितिरसौ सन्मुक्तिमार्गे स्थितिः
॥ ९७ ॥ सम्भोगाद्विषयामिषस्य परित. सौहित्यमस्ताखिल-
ज्ञानोन्मेषतया कथं तव भवेदव्यासपद देहिनः । साध्यं
तद्धि तदेव साधनमितो व्यावृत्तिरेवामिषात्तस्सा ज्योतिरुपैत्य-
निन्धनमिदं दोषत्रयं धक्ष्यति ॥ ९८ ॥ सत्यं वक्तुमशेष-
मस्ति सुलभा वाणी मनोहारिणी दातुं दानवर शरण्यमभयं
स्वच्छं पितृभ्यो जलम् । पूजार्थं परमेश्वरस्य विमलः स्वाध्याय-
यज्ञः पर क्षुद्बाधेः फलमूलमस्ति शमनं क्लेशात्मकैः
कि धनैः ॥ ९९ ॥ जिह्वे लोचन नासिके श्रवण हे त्वक्
चापि नो वार्यसे सर्वेभ्योऽस्तु नमः कृताञ्जलिरहं सप्रश्रयं
प्रार्थये । युष्माकं यदि संमतं तदधुना नात्मानमिच्छाम्यहं
होतुं भूमिभुजा निकारदहनज्वालाकराले गृहे ॥ १०० ॥
भिक्षाहारमदैन्यमप्रतिहतं भीतिच्छिदं सर्वदा दुर्मात्सर्यमदा-
भिमानमथनं दुःखौघविध्वसनम् । सर्वत्रान्वहमप्रयत्नसुलभं
साधुप्रियं पावनं शम्भोः सत्रमवार्यमक्षयनिधिं शंसन्ति योगी-
श्वराः ॥ १०१ ॥ मातर्लक्ष्मि भजस्व कंचिदपरं मत्का-
ङ्क्षिणी मा स्म भूर्भोगेष्वः स्पृहयालवो नहि वयं का निःस्पृ-
हाणामसि । सद्यःस्यूतपलाशपत्रपुटके पात्रे पवित्रीकृते
भिक्षासक्तुभिरेव संप्रति वयं वृत्ति समीहामहे ॥ १०२ ॥
धैर्ये यस्य पिता क्षमा च जननी शान्तिश्चिरं गेहिनी सत्यं
सूनुरयं दया च भगिनी भ्राता मनःसंयमः । शय्या भूमि-
पादटिप्पण्यः (Footnotes):
| १ काक | २ नवतृणमयम् |
|---|---|
| १ उपजीवनम् | २ वाञ्छामहे |
| ३ गृहस्था पत्नी | ४ पुत्र. |
| ५ मनोनिग्रह.. |
आन्तरसन्निवेशः ३७१
तल दिशोऽपि वसनं ज्ञानामृतं भोजनमेते यस्य कुटुम्बिनो वद सखे कस्माद्वाय योगिन. ॥ १०३ ॥ सन्ध्या- वन्दन भद्रमस्तु भवते भो स्नान तुभ्य नमो भो देवाः पितरश्च तर्पणविधौ नाह क्षम. क्षम्यताम् । यत्र कापि निषद्य यादवकुलोत्तमस्य कंसद्विषः स्मार स्मारमघं हरामि तदलं मन्ये किमन्येन मे ॥ १०४ ॥ एणाक्षीस्पृहयालुना न कथमप्यास्ते विवेकोदयान्नित्यं प्रच्युतिशङ्कया क्षणमपि स्वर्गे न मोदामहे । आप्त्येयेषु विनाशिवन्तुविषयाभोगेषु तृष्णा न मे स्वर्णद्याः पुलिने पर हरिपदध्याने मनो वा- ञ्छति ॥ १०५ ॥ जानोऽह जनको ममेष जननी क्षेत्रं कलत्र कुल पुत्रा मित्रमरातयो वसु बलं विद्या सुहृद्बा- न्धवाः । चित्तस्पन्दितकल्पनामृतभवन्विद्वानविद्यामयी निद्रा- मेत्य विघूर्णितो बहुविधान्स्वप्नानिमानपश्यति ॥ १०६ ॥ लाटीनेत्रपुटीपयोधरघटीक्रीडाकुटीदोस्तटीपाटीरद्रुमवर्णनेन कविभिर्मूढैर्दिन नीयते । गोविन्देति जनार्दनेति जगता नाथेति कृष्णेति च व्याहारै समयस्तदेकमनमा पुंसामति- क्रामति ॥ १०७ ॥ वेदस्याध्ययनं कृतं परिचित शास्त्रं पुराणं स्मृतं सर्वं व्यर्थमिदं पदं न कमलाकान्तस्य चेत्की- र्तितम् । उत्खातं सदृशीकृतं विरचितः सेकोऽम्भसा भूयसा सर्वं निष्फलमालवालवलये क्षिप्तं न बीज यदि ॥ १०८ ॥ हेयं हर्म्यमिदं निकुञ्जभवनं ^३श्रेयं प्रदेयं धनं पेयं तीर्थपयो हरेर्भगवतो गेयं पदाम्भोरुहम् । नेयं जन्म चिराय दर्भ- शयने धर्मे निधेयं मनः स्थेयं तत्र सितासितस्य सविधे ध्येय पुराणं महः ॥ १०९ ॥ गङ्गोत्तुङ्गत रङ्गरिङ्गणलघूत्सर्प- न्मरुच्छीतलान्दुग्बन्धट्दमञ्जुवज्जुलसकुञ्जोपकण्ठान्मुदा । अभ्यास्य प्रणवाय मानसमहो शंभोः पदाम्भोरुहे धन्याः प्राप्य पर पदं प्रतिदिन नन्दन्ति योगं बिना ॥ ११० ॥ कौपीन शतखण्डजर्जरतर कन्था पुनस्तादृशी निश्चिन्त सुखसाध्यभैक्षमशनं शय्या श्मशाने वने । मित्रामित्रसमा- ^०नता पशुपतेश्चिन्ताथ शून्यालये स्वात्मानन्दमदप्रमोदमुदितो योगी सुखं तिष्ठति ॥ १११ ॥ धिग्विधिक्तान्कृमिनिर्विशेष- वपुषः स्फूर्जन्महासद्धयो निष्पन्दीकृतशान्तयोऽपि च तमः- कारागृहेब्वासते । तं विद्वासमिह स्तुमः करपुटीभिक्षाञ्चशा- कोऽपि वा बालाषक्त्रसरोजिनीमधुनि वा यस्याविशेषो रसः ॥ ११२ ॥ पाणिः पात्र पवित्रं भ्रमणपरिगतं भैक्षमक्षय्य- मन्नं वस्त्रं विस्तीर्णमाशादशकममलिन तदपमखल्पसुर्वी । येषा निःसङ्गताङ्गीकरणपरिचितिः स्वान्तसन्तोषिनस्ते धन्या. सन्य- स्तदैन्यव्यतिकरनिकराः कर्म निर्मूलयन्ति ॥ ११३ ॥ आशा निष्ठा प्रतिष्ठा मम किल महिलास्तासु सौख्य कदा स्याद्या
प्रान्त्या सा विद्ध्यादिह किमपि तथा मध्यमा सा परत्र । आद्या मा नोभयत्राप्यहह तदपि कि मत्तता यामि तस्या या प्रोत्पादप्रगल्भे प्रतिदिनमसुमे ते कदर्थीकरोति ॥ ११४ ॥
विषयोपहासः
नित्यमाचरतः शौचं कुर्वतः पितृतर्पणम् । यस्य नोद्वि- जते चेत शास्त्रं तस्य करोति किम् ॥ ११५ ॥ कृमयो मम विष्ठा वा निष्ठा यम्येयमीदृशी । स काय परतापाय युज्यतामिति को नय. ॥ ११६ ॥ रक्तमासममय. कायः स्त्रीणा स्पर्शसुखाय नः । नमेवाश्नन्ति मिष्टान्द्या रम्यं नास्तीह वस्तुतः ॥ ११७ ॥ अङ्गमङ्गेन सपोड्य मास मामेन तु स्त्रिय । पुगहमभव प्रीतो यत्तन्मोहविजृम्भितम् ॥ ११८ ॥ उत्तानोच्छूनमण्डूकपाटिनोदरसन्निभे । क्लेदिनि स्त्रीव्रणे सक्तिर्मूक्रमे कस जायते ॥ ११९ ॥ दृष्ट्वैव विकृतं कार्यं वायुस्पर्शविवर्जितम् । ये तु निर्व्याजमासक्तास्तेभ्योऽपि बिभ्रिमो वयम् ॥ १२० ॥ अन्यत्र भीष्माद्राङ्गेयादन्यत्र च हनूमतः । हरिणीखुरमात्रेण चर्मणा मोहितं जगत् ॥ १२१ ॥ त्वङमासरुधिरस्नायुमेदोमज्जास्थिसंहतौ । विण्मूत्र- पूये रमत्ता कुमीणा कियदन्तरम् ॥ १२२ ॥ चर्मखण्डं द्विधा भिन्नमपानोद्वारधूपितम् । ये रमन्ते नरास्तत्र कृमितुल्याः कथ न ते ॥ १२३ ॥ सर्वाशुचिनिधानस्य कृतघ्नस्य विनाशिनः । शरीरकस्यापि कृते मूढा. पापानि कुर्वते ॥ १२४ ॥ लाला वक्त्रासवं वेत्ति मासपिण्डौ पयोधरौ । मासास्थिकूटं जघन जनः कामग्रहातुरः ॥ १२५ ॥ दाराः परिवभवकार बन्धुजनो बन्धनं विषं विषयाः । कोड्य जनस्य मोहो ये रिपवस्तेषु सुहृद्दाशा ॥ १२६ ॥ केश. काशस्तवकविलासः कायः प्रकटितकरभविलासः । चक्षुर्देग्धवराटककल्पं त्यजति न चेतः काममनल्पम् ॥ १२७ ॥ आलोचन च वचनं च निगूहन च यासा खरश्ममृगवत्वसरस कृशस्त्वम् । तासा किमङ्ग पिशितास्र- पुरीषपात्रं गात्र खरन्मृगदृशा न निराकुलोऽसि ॥ १२८ ॥ प्रादुर्भवन्ति वपुष. कति नाम कीटा यान्यत्नतः खलु तनो- रपसारयन्ति । मोह. क एष जगतो यदपत्यसज्ञा तेषा विधाय परिशोषयति स्वदेहम् ॥ १२९ ॥ स्तनौ मासग्रन्थी कनककलशावित्युपमितौ मुख श्लेष्मागार तदपि च शशाङ्केन तुलितम् । स्रवन्मूत्रक्लिन्नं करिवरकरस्पर्धि जघनं परं निन्द्य रूप कविजनविशेषैर्गुरु कृतम् ॥ १३० ॥ तृषा शुष्यत्यास्ये पिबति सलिलं स्वादु सुरभि क्षुधार्तः सञ्छाली- न्कवलयति मासाज्यकलितान् । प्रदीप्ते कामाग्नौ सुदृढतर- माश्रिष्यति वधूं प्रतीकोर ब्याधेः सुखमिति विपर्यस्यति जनः ॥ १३१ ॥ कृशः काण. खञ्ज. श्रवणरहितः पुच्छविकलो
१ वस्त्रम् २ तीरे ३ आश्रयणीयम्
१ उत्तमाद्यपानादिरूतान्कारनाशकस्य २ नाशनोपाय..
३७२ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
व्रणी पूयक्लिन्नः कृमिकुलशतैराचिततनुः । क्षुधाक्षामो जीर्णः पिठरककपालाङ्कतगलः शुनीमन्वेति श्वा हतमपि निहन्त्येव मदनः ॥ १३२ ॥ श्रियो दोलालोला विषयजरसाः प्रान्तविरसा विपद्गेहं देहं महदपि धनं भूरि निधनम् । बृहच्छोको लोकः सततमबला दुःखबहुलास्तथाप्यस्मिन्संसारे पथि बत रता हन्त कुधियः ॥ १३३ ॥ समाश्लिष्यत्युच्चैर्घनपिशितपिण्डं स्तनधिया मुखं लालाक्लिन्नं पिबति चेषकं सौसवमिव । अमेध्येह्लादार्द्रे पथि च रमते स्पर्शरसिको महामोहान्धाना किमिव रमणीयं न भवति ॥ १३४ ॥ बाला मामियमिच्छतीन्दुवदना सानन्दमुद्वीक्षते नीलेन्दीवरलोचना पृथुकुचोत्पीडं परीरप्सते । का त्वामिच्छति का व पश्यति पशो मासास्थिनिर्मिर्मिता नारी वेद न किंचिदत्र स पुनः पश्यत्यमूर्तः पुमान् ॥ १३५ ॥ आस्य यस्या सुधांशुं कलयति नयनाभ्या जित पुंसमूहः कान्त्या विद्युत्कुचाभ्या तरुणजलरुहे निर्जितेऽस्या सुधाशुम् । कुष्ठं दुर्गन्धियुक्तं लघुकृमिविकृतं पूयमज्जास्रवाहिव्याप्तं तन्मक्षिकामिर्गतैरिति वपुषः कुत्सिता नास्ति लोके ॥ १३६ ॥ क्वैतद्वक्त्रारविन्दं क्व तदधरमधु कायतास्ते कटाक्षाः कालापाः कोमलास्ते क्व च मदनधनुर्भङ्गुरो भ्रूविलासः । इत्थं खट्वाङ्गकोटौ प्रकटितदशनं मञ्जुगुञ्जत्स्मीर रागान्धानामि-वोच्चैरुपहसति महामोहजालं कपालम् ॥ १३७ ॥
गर्भवासप्रयुक्तं दुःखम्
कृमिभिः^४ क्षतसर्वाङ्गः सौकुमार्यात्प्रतिक्षणम् । मूर्च्छामाप्नोत्युरुक्लेशो^५ गर्भस्थैः क्षुधितैर्भृशम् ॥ १३८ ॥ कटुतीक्ष्णोष्णलवणक्षाराम्लादिभिर्बणैः^६ । मातृभुक्तैरुपस्पृष्टः सर्वाङ्गेष्वितिवेदनः ॥ १३९ ॥ उल्बेन संवृत्तस्तस्मिन्स्निग्धैश्च^७ बहिरावृतः । आस्ते कृत्वा शिरः कुक्षौ भुग्नपृष्ठशिरोधरः ॥ १४० ॥ अकल्पः^९ स्वाङ्गचेष्टाया^१० शकुन्त^११ इव पञ्जरे । अनुच्छसन्सरेत्पूर्वै^१३ गर्भे किं नाम विन्दते ॥ १४१ ॥ निःसृतोऽहं^१४ करिष्यामि सुकृतानीति चिन्तयन् । मेदोसृग्दिग्धसर्वाङ्गो^१५ जरायुपुटसंवृतः^१६ ॥ १४२ ॥ निष्क्रामन्मूर्धशु^१७ खातौ^१८ रुदैन्नुच्चै^१९रधोमुख । यत्रादिव विनिर्मुक्तः पतत्युत्तानशाय्यथ^२० ॥ १४३ ॥
अनित्यता निरूपणम्
एता याः प्रेक्षसे लक्ष्मीश्छत्रचामरचञ्चलाः । स्वप्न एष महाबुद्धे दिनानि त्रीणि पञ्च वा ॥ १४४ ॥ एकेऽद्य प्रातरपरे पश्चादन्ये पुनः परे । सर्वे निःसीम्नि संसारे यान्ति कः केन शोच्यते ॥ १४५ ॥ येषा निमेषोन्मेषाभ्या जगता प्रलयोदयौ । तादृशाः पुरुषा याता मादृशा गणनैव का ॥ १४६ ॥ गलितानीन्द्रलक्षाणि बुद्बुदानीव वारिणि । मा जीवितनिबद्धाश विहसिष्यन्ति साधवः ॥ १४७ ॥ संसाररात्रिदुःस्वप्ने शून्ये देहमये भ्रमे । आस्था चेदनुबध्नामि तन्मूर्खो नास्ति मत्परः ॥ १४८ ॥ येषु येषु दृढं बद्धा भावना दृष्टवस्तुषु । तानि तानि विनष्टानि दृष्टानि किमिहोत्तमम् ॥ १४९ ॥ यन्मध्ये यच्च पर्यन्ते यदापाते मनोरमम् । सर्वमेवापवित्रं तद्विनाशा मेध्यदूषितम् ॥ १५० ॥ नीलोत्पलाभनयना' परमप्रेमभूषणम् । हासायैव विलासिन्यः क्षणमङ्गितया स्थिता ॥ १५१ ॥ गन्धर्वनगराकारः संसारः क्षणभङ्गुर । मनसो वासनैवेयमुभयोर्भेदसाधनम् ॥ १५२ ॥ गतेनापि न सबन्धो न सुखेन भविष्यता । वर्तमानं क्षणातीतं सगति कस्य केन वा ॥ १५३ ॥ पृथिवी दह्यते यत्र मेरुश्चापि विशीर्यते । सुशोष सागरजलं शरीरे तत्र का कथा ॥ १५४ ॥ इद युगसहस्रस्य भविष्यद्भववद्दिनम् । तदप्यद्यत्वमापन्नं का कथा मरणावधेः ॥ १५५ ॥ लब्धास्त्यक्ताश्च संसारे यावन्तो बान्धवास्त्वया । न सन्ति खलु तावन्तो गङ्गायामपि वालुकाः ॥ १५६ ॥ आसन्नतामेति मृत्युरायुर्याति दिने दिने । आघातं नीयमानस्य वध्यस्येव पदे पदे ॥ १५७ ॥ अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत । अव्यक्तनिधनान्येव तत्र का परिदेवना ॥ १५८ ॥ एकसार्थप्रयाताना सर्वेषा तत्र गामिनाम् । यद्येकस्त्वरितं यातस्तत्र का परिदेवना ॥ १५९ ॥ सत्य मनोरमा रामा सत्य रम्या विभूतयः । किंतु मत्ताङ्गनापाङ्गभङ्गलोलं हि जीवितम् ॥ १६० ॥ मातापितृसहस्राणि पुत्रदारशतानि च । त्वानन्तानि यातानि कस्य ते कस्य वा भवान् ॥ १६१ ॥ सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः । संयोगा विप्रयोगान्ता मरणान्तं हिं जीवितम् ॥ १६२ ॥ बिडालभक्षिते दुःखं यादृशं गृहकुक्कुटे । न तादृग्ममताशून्ये कलविङ्केऽथ मूषके ॥ १६३ ॥ शरदम्बुधरच्छायागत्वर्यो यौवनश्रियः । आपातरम्या विषयाः पर्यन्तपरितापिनः ॥ १६४ ॥ अन्तकः पर्यवस्थाता जन्मनः सततमापद । इति त्याज्ये भवे भव्यो मुक्तावुत्तिष्ठते जनः ॥ १६५ ॥ न्यस्तं यथा मूर्ध्नि मुदोत्ति मेषो यवाक्षताद्यं बलिकल्पितः सन् । मृत्युं समीपस्थितमप्यजानन्नुनक्ति मर्त्यो विषयास्तथैव ॥ १६६ ॥ नन्दन्ति मन्दाः श्रियमाप्य नित्यं परं विषीदन्ति विपद्धहीताः । विवेकदृष्ट्या
१ मामपिण्डम्. २ पानपात्रम् ३ मद्ययुक्तम् ४ कीटैके ५ महाकष्टयुक्त ६ उत्कटै ७ जरायुणा ८ व्याप्त ९ असमर्थ १० चलनादिव्यापारे ११ पक्षीव १२ उच्छ्वास त्यक्तुमशक्त १३ प्राचीन कर्म १४ गर्भशयाच्युत १५ मेदोरक्तलिससर्वाङ्ग १६ जरायुकोशव्यास १७ बहिर्नि सरन् १८ नि सरणकालेऽत्यन्तदु खयुक्त १९ उच्चस्वरेण रोदनं कुर्वन् २० उत्तान शेतेऽसौ. १ उच्चत्व उन्नतत्व वा २ हर्षेण भक्षयति
शान्तरसनिर्देशः ३७३
चरता नराणा श्रियो न किंचिद्विपदो न किंचित् ॥ १६७ ॥
हरिष्यमाणो बहुधा परस्व करिष्यमाणः सुतसपदादि । धरिष्यमाणोऽरिशिरःसु पादं न स्वं मरिष्यन्तमवेति कोऽपि ॥ १६८ ॥
उत्तुङ्गवातायनगोपुराणि गृहाणि विद्धानि दुर- जिंतानि । क्षणादधःपातकराणि हन्त चितातिथेरस्य निर- र्थकानि ॥ १६९ ॥
मरण प्रकृतिः शरीरिणा विकृतिर्जीवन- मुच्यते बुधैः । क्षणमप्यवतिष्ठते श्वसन्यदि जन्तुर्ननु लाभ- वानसौ ॥ १७० ॥
क्षिपसि शुक वृषदशकरदने मृगमर्प- यसि मृगादनवदने । वितरसि तुरगं महिषविषाणे विदध- च्चेतो भोगविताने ॥ १७१ ॥
नलिनीदलगतजलमत्तितरलं तद्द्वजीवनमतिशयचपलम् । विद्धि व्याधिव्यालग्रस्तं लोक शोकहृतं च समस्तम् ॥ १७२ ॥
अष्टकुलाचलसप्तसमुद्रा ब्रह्मपुरंदरदिनकररुद्राः । न त्वं नाह नाय लोकस्तदपि किमर्थ क्रियते शोकः ॥ १७३॥
चेतोहरा युवतयः सुहृदो- ऽनुकूलाः सद्बान्धवाः प्रणतिगर्भगिरश्च भृत्याः । गर्जन्ति दन्तिनिवहास्तुरलास्तुरङ्गाः सम्मीलने नयनयोर्न हि किंचि- दस्ति ॥ १७४ ॥
मित्रं कलत्रमितरः परिवारलोको भोगैक- साधनमिमाः किल संपदो नः । एकः क्षणः स तु भविष्यति यत्र भूयो नायं न यूयमितरे न वयं न चैते ॥ १७५ ॥
अहमिह कृतविद्यो वेदिता सत्कलाना धनपतिरहमेको रूपलावण्ययुक्तः । इति कृतगुणगर्वः खिद्यते कि जनोऽयं कतिपयदिनेमध्ये सर्वमेतन्न किचित् ॥ १७६ ॥
वयं येभ्यो जाताश्चिरतरगता एव खलु ते समं यैः सवृद्धाः स्मरण- पदवीं तेऽपि गमिताः । इदानीमेते स्मः प्रतिदिवसमासन्न- पतना गतास्तुल्यावस्था सिकतिलनदीतीरतरुभिः ॥ १७७ ॥
यदस्माभिर्दृष्टं क्षणिकमभवत्स्वप्नमिव तत्कियन्तो भावाः स्युः स्मरणविषयादप्यवगताः । अहो पश्यन्पश्यन्सजन- मखिल यान्तमर्निशं हतव्रीडं चेतस्तदपि न भवेत्सङ्गरहि- तम् ॥ १७८ ॥
अमीषा जन्तूना कतिपयनिमेषस्थितिजुषा वियोगे धीराणा क इह परितापस्य विषयः । क्षणादुत्पद्यन्ते विलयमपि यान्ति क्षणममी न केऽपि स्यातारः सुरगिरि- पयोधिप्रभृतयः ॥ १७९ ॥
आयुर्वर्षशत नृणा परिमितं रात्रौ तदर्ध गतं तस्यार्धस्य परस्य सार्धमपरं बालत्ववृद्ध- त्वयोः । शेषं व्याधिवियोगदु खसहितं सेवादिभिर्नीयते जीवे वारितरङ्गबुद्बुद्समे सौख्यं कुत. प्राणिनाम् ॥ १८० ॥
रम्यं हर्म्यतलं न कि वसंतये श्रव्यं न गेयादिकं कि वा आणतमासमागमसुखं नैवाधिकं प्रीतये । कि तूद्धान्तपतत्पतङ्ग- पवनव्यालोलदीपाङ्कुरच्छायाचञ्चलमाकलय्य सकलं सन्तो वनान्तं गताः ॥ १८१ ॥
भूत्वा कल्पशतायुषोऽण्डजमुवः सेन्द्राश्च देवासुरा मन्वाद्या मुनयो महीजलधयो नष्टाः पराः कोटयः । मोहः कोऽयमहो महानुदयते लोकस्य शोकावहो बन्धोः फेनममे गते वपुषि यत्पञ्चात्मके पञ्चताम् ॥ १८२ ॥
आक्रान्त मरणेन जन्म जरया यात्युल्बणं यौवनं सन्तोषो धनलिप्सया शमसुखं प्रौढाङ्गनाविभ्रमैः । लोकैर्मत्सरिभिर्गुणा वनभुवो व्यालैर्नृपा दुर्जनैःस्थैर्येण विपत्तयोऽप्युपहता ग्रस्तं न किं केन वा ॥ १८३ ॥
आधिव्याधिशतैर्जनस्य विविधैरारोग्यमुन्मूल्यते लक्ष्मीर्यत्र पतन्ति तत्र विवृतद्वारा इव व्यॉपदः । जातं जातमवश्य- माशु विवशं मृत्युः करोत्यात्मसात्तत्कि तेन निर्दुशेन विधिना यन्निर्मितं सुस्थिरम् ॥ १८४ ॥
भोगास्तुङ्गत रङ्ग- भङ्गचपलाः प्राणाः क्षणध्वसिनः स्तोकन्येव दिनानि यौवन- सुखं स्फूर्तिः क्रियास्वस्थिरा । तत्तसारमसारमेव निखिलं बुद्ध्वा बुधा बोधका लोकानुग्रहपेशलेन मनसा यत्न समा- धीयताम् ॥ १८५ ॥
भोगा मेघवितानमध्यविलसत्सौदामिनीचञ्चला आयुर्वायुविघट्टिताभ्रपटलीलीनाम्बुवद्भङ्गुरम् । लोला यौवनलालसास्तनुभृतामित्याकलय्य द्रुतं योगे धैर्य- समाधिसिद्धिसुलभे बुद्धि विदध्वं बुधाः ॥ १८६ ॥
साक्षा- त्प्रेमावतारः कमलदलदृशो दिक्षु लक्ष्मीरनन्ताः सद्युत्राः सन्ति मित्राण्यपि विषमविपत्सविभागी कुटुम्बः । एतत्सर्वं हि तावत्सुकृतविलसितं दृश्यमान मनोज्ञं यच्चैतत्क्षिप्रनाश- प्रणयि बत मनाङ् म्लायते तेन चेतः ॥ १८७ ॥
आयुः कल्लोललोलं कतिपयदि वसस्थायिनी यौवनश्रीरर्थाः संकल्प-कल्पा धने समयतडिद्विभ्रमा भोगपूगा । कण्ठाश्लेषोपगूढं तदपि च न चिर यत्प्रियाभिः प्रणीतं ब्रह्मण्यासक्तचित्ता भवत भवमयाम्भोधिपार तरीतुम् ॥ १८८ ॥
कालचरितम्
मातुलो यस्य गोविन्दः पिता यस्य धनंजयः । सोऽपि कालवशं प्राप्तः कालो हि दुरतिक्रमः ॥ १८९ ॥
पुरदर- सहस्राणि चक्रवर्त शतानि च । निर्वापितानि कालेन प्रदीपा इव वायुना ॥ १९० ॥
अद्यैव हसितं गीतं पठितं यैः शरीरिभिः । अद्यैव ते न दृश्यन्ते कष्टं कालस्य चेष्टितम् ॥ १९१ ॥
म्रियमाणं मृतं बन्धुं शोचन्ति परिदेविनः । आत्मानं नानुशोचन्ति कालेन कवलीकृतम् ॥ १९२ ॥
ब्रह्मा विष्णुदिने याति विष्णु रुद्रस्य वासरे । ईश्वरस्य तथा सोऽपि क. कालं लङ्घितुं क्षमः ॥ १९३ ॥
अप्सु प्लवन्ते पाषाणा मानुषा घ्नन्ति राक्षसान् । कपयः कर्म कुर्वन्ति कालस्य कुटिला गतिः ॥ १९४ ॥
अॅशनं मे
१ उच्छ्रितम् २ शान्तिसुखम् ३ विलासै ४ विपत्त्य ५ पराधीनम् ६ कालः ७ आत्माधीनम ८ स्वत्रेण ९ तुङ्गा उच्चा ये तरङ्गा ऊर्मयस्तेषा भङ्गस्तद्वच्चपला १० अह्नानि ११ मृदुलेन १२ सकल्पतुल्या १३ वर्षाकालविद्युद्विलासा अतिचञ्चला इत्यर्थ . १४ कान्ताभि १५ तरन्ति १६ भोजनम्
| ३७४ | सुभाषितरत्नभाण्डागारम् | [ ६ प्रकरणम् |
|---|
वैसन मे जाया मे बन्धुवर्गो मे । इति मे मे कुर्वाणं कोल-
वृको हन्ति पुरुषमजम् ॥ १९५ ॥ प्राप्ता जरा यौवनमप्य-
तीतं बुधा यतध्वं परमार्थसिद्धयै । आयुर्गतप्रायमिदं यतोऽसौ
विश्रम्य विश्रम्य न याति कालः ॥ १९६ ॥ भगीरथाद्याः
सगरः ककुत्स्थो दशाननो राघवक्ष्मणौ च । युधिष्ठिरा-
द्याश्च बभूवुरेत सत्यं क्व याता बत ते नरेन्द्राः ॥ १९७ ॥
आराध्य भूपतिमवाप्य ततो धनानि भुञ्जामहे वयमिह
प्रसभं सुखानि । इत्याशया बत विमोहितमानसानां कालो
जगाम मरणावधिरेव पुंसाम् ॥ १९८ ॥ यत्रानेके क्वचि-
दपि गृहे तत्र तिष्ठत्यथैको यत्राप्येकस्तदनु बहवस्तत्र
नैकोऽपि चान्ते । इत्थं चेमौ रजनिदिवसौ दोलयन्द्रावि-
वाँक्षौ कालः काल्या भुवनफलके क्रीडति प्राणिसारैः
॥ १९९ ॥ भ्रातः कष्टमहो महान्स नृपतिः सामन्तचक्रं
च तत्पार्श्वे तस्य च सा विदिग्धपरिषत्ताश्चन्द्रबिम्बाननाः ।
उद्रिक्तः स च राजपुत्रनिवहस्ते बन्दिनस्ताः कथाः सर्वं
यस्य वशादगात्स्मृतिपथं कालाय तस्मै नमः ॥ २०० ॥
कश्चित्कल्पशतं कृतस्थितिरथान्यः कश्चिद्युगानां शतं काश्चि-
द्वर्षशतं तथा कतिपयाञ्जन्तून्दिनानां शतम् । तांस्तान्कर्मभि-
रात्मनः प्रतिदिनं सक्षीयमाणायुषः कालोऽय कवली-
करोति सकलान्भ्रातः कुतः कौशलम् ॥ २०१ ॥ कालेन
क्षितिवारिवह्निपवनव्योमादियुक्तं जगद्ब्रह्माद्याश्च सुराः प्रया-
न्ति विलयं विद्धो विचारादिति । पश्यामोऽपि विनश्यतो-
ऽनवरतं लोकाननेकान्सुधा माया मोहमयी भवप्रणयिनी
नास्थां जहीमो वयम् ॥ २०२ ॥ व्योमैकान्तविहारिणोऽपि
विहँगोः संप्राप्नुवन्त्यापदं बध्यन्ते निपुणैरगाधसलिलान्मत्स्याः
समुद्रादपि । दुर्नीतं किमिहास्ति किं सुचरितं कः स्थानलाभे
गुणः कालो हि व्यसनप्रसारितकरो गृह्णाति दूरादपि
॥ २०३ ॥ मान्धाता स महीपतिः क्षितितलेऽलङ्कारभूतो
गतः सेतुर्येन महोदधौ विरचितः क्वासौ दशास्यान्तकः ।
अन्ये चापि युधिष्ठिरप्रभृतयो यावन्त एवाभवन्नैकेनापि
समं गता वसुमती मुञ्च त्वया यास्यति ॥ २०४ ॥
पश्चात्तापः
जन्मैव व्यर्थता नीतं भवभोगप्रलोभिना । काचमूल्येन
विक्रीतो हँन्त चिन्तामणिर्मया ॥ २०५ ॥
तरत्तरलतृष्णेन किमिवास्मिन्धरातले । मया न कृतमज्ञेन
पश्चात्तापाभिवृद्धये ॥ २०६ ॥ यात यौवनमधुना
वनमधुना शरणमेकमस्माकम् । स्फुरदुरुहारमणीनां हा
रमणीनां गतः कालः ॥ २०७ ॥ धनवानिति हि मदो मे
किं गतविभवो विषादमुपयामि । करनिहतकन्दुकसमाः
पातोत्पाता मनुष्याणाम् ॥ २०८ ॥ भोगा न भुक्ता वयमेव
भुक्तास्तपो न तप्तं वयमेव तप्ताः । कालो न यातो वयमेव
यातास्तृष्णा न जीर्णा वयमेव जीर्णाः ॥ २०९ ॥ पुनः
प्रभात पुनरेव शर्वरी पुनः शशाङ्कः पुनरुद्यतो रविः । कालस्य
किं गच्छति याति यौवनं तथापि लोकः कथितं न बुध्यते
॥ २१० ॥ न चाराधि राधाधवो माधवो वा न वाऽपूजि
पुष्पादिमिश्रन्द्रचूडः । परेषां धने धन्धने नीतकालो दयालो
यमालोकने कः प्रकारः ॥ २११ ॥ न चाकारि कामारि-
कंसारिसेवा न वा स्वेष्टमाचेष्टितं हन्त किंचित् । मनः प्रेयसी-
रूपपङ्के निमग्नं किमन्ते कृतान्ते मयावेदनीयम्
॥ २१२ ॥ चित्ते भूवित्तभूमत्तभूपालकोपासनावासनायास-
नानाभ्रमैः । साधुता सा धुता संविता साधिता किं तया
चिन्तया चिन्तयाम शिवम् ॥ २१३ ॥ अजानन्दाहार्ति
पतति शलभोस्तीव्रदहने न मीनोऽपि ज्ञात्वा बडिशयुत-
मश्नाति पिशितम् । विजानन्तोऽप्येते वयमिह विपज्जाल-
जटिलान्न मुञ्चामः कामानहह गहनो मोहमहिमा ॥ २१४॥
चिरं ध्याता राँमा क्षणमपि न रॉमप्रतिकृतिः परं पीतं
रामाधरमधु न रोमाङ्घ्रिसलिलम् । नता रुष्टा रामा यदरचि
न रामाय विर्नतिर्गतं मे जन्माद्य न दशरथजन्मा परिगतः
॥ २१५ ॥ कुचौ तु परिचर्चितौ परिचितं चिरं चन्दनं
कृताः पर मुरोजयो परिसरेऽरविन्दश्रियः । स्तुतिर्नतिरपि
स्मृतिर्विरतनोः कृतैवादरादिदं तु निखिलं मया विरचितं
पुनर्नैश्वरे ॥ २१६ ॥ नाभ्यस्ता भुवि वादवृन्ददमनी
विद्या विनीतोचिता खङ्गाग्रैः करिकुम्भपीठदलनैर्नाकं न
नीत यशः । कान्ताकोमलपल्लवाधररसः पीतो न चन्द्रोदये
तारुण्यं गतमेव निष्फलमहो शून्यालये दीपवत् ॥ २१७ ॥
न ध्यातं पदमीश्वरस्य विधिवत्संसारविच्छित्तये स्वर्गद्वारकपाट-
पाटनपटुर्धर्मोऽपि नोपार्जितः । नारीपीनपयोधरोरुयुगलं स्वप्ने-
ऽपि नालिङ्गितं मातुः केवलमेव यौवनवनच्छेदे कुँठारा वयम्
॥ २१८ ॥ क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न संतो-
षतः सोढा दुःसहशीतवाततपनक्लेशा न तप्त तपः । ध्यातं
वित्तमहर्निशं नियमितप्राणैर्न शम्भोः पदं तत्तत्कर्म कृतं
यदेव मुनिभिस्तैस्तै फलैर्वञ्चितम् ॥ २१९ ॥ धन्याना
गिरिकन्दरे निवसता ज्योतिः परं ध्यायतामानन्दाश्रुजल
टिप्पणी:
१ वसनम् २ काल एव वृक ३ पुरुष एवाज ४ पाशौ ५ भुवनमेव फलकमारीपटस्तस्मिन् ६ प्राणिन एव सारास्तै ७ भाण्ड लिरूपमण्डलम् ८ चतुरसभा ९ स्तुतिपाठका १० केवलमाकाशसचारिण ११ पक्षिण १२ विपत्तिम् १३ कुशले १४ निष्फलत्वम् १५ हन्तेति खेदे १६ रत्नविशेष
१ चित्तभू कामः, वित्तभूमद ताभ्या मन्तो यो भूपालकस्तस्योपासनं, या वासना तया जायास्सन्ततो ये नाना भ्रमास्तै २ आधिसहितत्वम् ३ स्त्री ४ राममूर्ति ५ रामपादोदकम् ६ नमस्कार ७ दशरथाज्जन्म यस्य स राम ८ स्वर्गम् ९ छेदनाय १० परश्वधा
शान्तरसनिर्देशः
३७५
पिबन्ति शकुना निःशङ्कमङ्गेष्वश्याः। अस्माकं तु मनोरथोपरचितप्रासादवापीतट्रीडाकाननकेलिकौतुकजुषामार्युः परं क्षीयते ॥ २२० ॥
मनोद्भाविभवितद्देवतैर्न विविधदास्रीकृताः सिद्ध्यो योगभ्याससमाहितेरनुदिनं तीर्णो न मोहार्णवः । क्षुभ्यत्क्षुद्रनरेन्द्रदत्तविगलत्सपल्लवोल्लासितैर्धीभूतेरिव पण्डितैरपि बलात्कालः कथं नीयते ॥ २२१ ॥
धावित्वा सुसमाहितेन मनसा दूराच्छिगे नामित भूपाना प्रतिशङ्कयैकैरिव चिर प्रोद्घृष्टसृष्टं वचः । द्वारध्यक्षनियन्त्रणापरिमवप्रम्लानवक्त्रैः स्थितं भ्रातः किं करवाम मुञ्चति मनो नाद्यापि विद्यागृहम् ॥ २२२ ॥
नो धर्माय ततो न तत्र निरता नार्थाय येनेदृशाः कामोऽप्यर्थवता तदर्थमपि नो मोक्षः क्वचित्कस्यचित् । तक्के नाम वय वृथैव घटिता ज्ञात पुनः कारण जीवन्तोऽपि मृता इति प्रवदता शब्दार्थसंसिद्धये ॥ २२३ ॥
| ३७६ | सुभाषितरत्नभाण्डागारम् | [ ६ प्रकरणम् |
|---|
र्जेन्मन्यस्मिन्ननुभवपथं यो न गतवान् । विवेकप्रध्वंसादुपचित- महामोहगहनो विकारः कोऽप्यन्तर्जडयति च तापं च कुरुते ॥ २४७ ॥ विशीर्णः प्रारम्भो वपुरपि जराच्याधि- विधुरं गतं दूरे विप्रखजनभरणं वाञ्छितमपि । इदानीं व्यामोहादहह विपरीते हतविधौ विधेयं यत्तत्त्वं स्फुरति मम नाद्यापि हृदये ॥ २४८ ॥ शुचा पात्रं धात्री परिणति- रमेध्यप्रचयभूरयं भूतावासो विमृश कियती याति न दशाम् । तदस्मिन्धीराणा क्षणमपि किमास्थातुमुचितं खलीकार- कोऽयं यदहमहमेवेति रभसः ॥ २४९ ॥ यद्वा पूर्व नासी- दुपरि च तथा नैव भविता तदा मध्यावस्थाक्षणपरिचयो मूतनिचयः । अतः संयोगेऽस्मिन्परिणतिवियोगे च सहजे किमाधारः प्रेमा किमधिकरणाः सन्तु च शुचः ॥ २५० ॥ स्थिरापायः कायः प्रणयिषु सुखं स्थैर्यविमुखं महाभोगा रोगाः कुवलयदृशः सर्पसदृशः । महावेशः क्लेशः प्रकृति- चपला श्रीरपि खला यमः खैरी वैरी तदपि न हितं कर्म विहितम् ॥ २५१ ॥ विवेकः कि सोऽपि स्वरसजनिता यत्र न कृपा स कि योगो यस्मिन्न भवति परानुग्रहरसः । स कि धर्मो यत्र स्फुरति न परद्रोग्धुविरतिः कृतं किं तद्वा स्यादुपशमफलं यन्न भवति ॥ २५२ ॥ दिवसरजनीकूल- च्छेदैः पतद्भिरनारतं वहति निकटे कालस्रोतः समस्त- भयावहम् । इह हि पतता नास्त्यालम्बो न चापि निवर्तनं तदिह महता कोऽयं मोहो यदेष मदाविलः ॥ २५३ ॥ माने म्लायिनि खण्डिते च वसुनि व्यर्थ प्रयातेऽर्थिनि क्षीणे बन्धुजने गते परिजने नष्टे शनैयौवने । युक्तं केवलमेत- देव सुधिया यज्जहुकन्यापयःपूतग्रावगिरीन्द्रकन्दरदरीकुञ्जे निवासः क्वचित् ॥ २५४ ॥ अद्वैतोक्तिपटून्बहूनपि वयं बालान्ममस्कुर्महे ये तु द्वैन्द्ववदास्तदीयशिरसि न्यस्याम वामं पदम् । सिंहः स्वीयशिशोर्निवेश्य हृदये सान्द्रादरादामृश- त्यावेशेन भिनत्ति सभ्रमपदं मत्तेभकुम्भस्थलम् ॥ २५५ ॥ क्लेशत्यागकृतेऽर्पितेन करणव्यूहेन देहेन च स्वानर्थं बत | जन्तुरर्जयति चेन्मेन्तुर्नियैन्तुः कुतः । शस्त्रे शत्रुजयाय नैजगुरुणादत्तेऽथ तेनैव चेत्पुत्रो हन्ति निजं वपुः कथय रे तत्रापराधी तु कः ॥ २५६ ॥ बीभत्सा प्रतिभान्ति कि न विषयाः किं तु स्पृहायुष्मती देहस्यापचयो मृतौ निविशते गाढो गृहेषु ग्रहः । ब्रह्मोपास्ममिति स्फुरत्यपि हृदि व्यावर्तिका वासना का नामेयमतर्क्यहेतुगहना दैवी सता यातना ॥ २५७ ॥ नाथे श्रीपुरुषोत्तमे त्रिजगता- मेकाधिपे चेतसा सेव्ये स्वस्य पदस्य दातरि सुरे नारायणे तिष्ठति । यं कंचित्पुरुषाधमं कतिपयग्रामेशमल्पा- र्थदं सेवायै मृगयामहे नरमहो मूढा वराका वयम् ॥ २५८ ॥ रेतःशोणितयोरियं परिणतिर्यदूर्ध्वं तत्रामव- न्मूत्रोरास्पदमाश्रयो गुरुशुचा रोगस्य विश्रामभूः । जान- न्नप्यवशी विवेकविरहान्मज्जन्नविद्याम्बुधौ शृङ्गारीयति पुत्र- काम्यति बत क्षेत्रीयति क्षीयति ॥ २५९ ॥ इन्द्रस्यानुचि- शूकरस्य च सुखे दुःखे च नास्त्यन्तरं स्वेच्छाकल्पनया तयोः खलु सुधा विष्ठा च काम्याशनम् । रम्भा चाशुचि- शूक्री च परमप्रेमास्पदं मृत्युतः सत्रासोऽपि समः स्वकर्म- गतिमिश्रान्योन्द्यभावः सम ॥ २६० ॥ अर्थप्राणविनाश- संशयकरी प्राप्यापदं दुस्तरा प्रत्यासन्नभयं न वेत्ति विभवं खं जीवितं काङ्क्षति । उत्तीर्णस्तु ततो धनार्थमपरा भूयो विशत्यापदं प्राणाना च धनस्य चाधमधियामन्योन्यभावः पणः ॥ २६१ ॥ अग्रे कस्यचिदस्ति कंचिदमितः केनापि पृष्टे कृतः ससारः शिशुभावयौवनजराभारावतारादयम् । बालस्तं बहु मन्यतामसुलभं प्राप्तं युवा सेवता वृद्धस्त्वं विष- याद्वहिष्कृत इव व्यावृत्त्य किं पश्यसि ॥२६२ ॥ येषा श्रीमद्यशोदासुतपदकमले नास्ति भक्तिर्नराणा येषामभीर- कन्याप्रियगुणकथने नानुरक्ता रसज्ञा । येषा श्रीकृष्णली- लाललितगुणरसे सादरौ नैव कर्णौ धिक्तान्धिकतान्धिगेतान् कथयति सतत कीर्तनस्थो मृदङ्गः ॥ २६३ ॥
१ द्वैतवादिन
१ अपराध
२ परमेश्वरस्य
इति श्रीसुभाषितरत्नभाण्डागारे षष्ठं नवरसप्रकरणं समाप्तम् ।
सप्तमं संकीर्णप्रकरणम्
शीलं प्रधानं पुरुषे तद्यस्येह प्रणश्यति । न तस्य जीवितेनार्थो न धनेन न बन्धुभिः ॥ १ ॥
महतो हि क्षयं लब्ध्वा श्लाघा नीचोऽपि गच्छति । दानार्थी मधुपो यद्वद्गजकर्णसमाहतः ॥ २ ॥
महद्भिः स्पर्धमानस्य विपदेव गरीयसी । दन्तभङ्गो हि नागानां श्लाघ्यो गिरिविदारणे ॥ ३ ॥
पञ्चास्यस्य परामवाय भैषको मासेन गोर्मूत्रया दध्यन्नैरपि पायसैः प्रतिदिनं संवर्धितो यो मया । सोऽयं सिंहरवाहुहान्तरगमद्भीत्याकुलः सन्निभाच्छान्ताशा विलयं गता हतविधेर्लाभं परं गोवधः ॥ ४ ॥
पञ्चेन्द्रियस्य मर्त्यस्य छिद्रं चेदेकमिन्द्रियम् । ततोऽस्य स्रवति प्रज्ञा दृतेः पात्रादिवोदकम् ॥ ५ ॥
पञ्चैव पूजयंल्लोके यशः प्राप्नोति केवलम् । देवान्पितॄन्मनुष्यांश्च भिक्षूनतिथिपञ्चमान् ॥ ६ ॥
यन्निमित्तं भवेच्छोकश्वासा वा दुःखमेव च । आयासो वा यतो मूलस्तदेकाङ्गमपि त्यजेत् ॥ ७ ॥
यन्निःशब्दजला घनाश्मपरुषे देशेऽतिघोरारवा यच्चाच्छाः समये पयोदमलिने कालुष्यसंदूषिताः । दृश्यन्ते कुलनिम्नगा अपि परं दिग्देशकालाविमौ तत्सत्यं महतामपि स्वसदृशाचारप्रवृत्तिप्रदौ ॥ ८ ॥
यमो वैवस्वतस्तस्य निर्यातयति दुष्कृतम् । हृदि स्थितः कर्मसाक्षी क्षेत्रज्ञो यस्य तुष्यति ॥ ९ ॥
भीतवत्सविधातव्यं यावद्भयमनागतम् । आगतं तु भयं दृष्ट्वा प्रहर्तव्यमभीतवत् ॥ १० ॥
भुञ्जानाः पवनं सरीसृपगणा प्रख्यापिता भोगिनो गायद्भूङ्गविवारका निगदिता विस्तीर्णकर्णा गजाः । यश्चाभ्यन्तरसम्भृतोष्मविकृतिः प्रोक्तः शमी स द्रुमो लोकेनेति निरर्गलं प्रलपता सर्वं विपर्यासितम् ॥ ११ ॥
पतिव्रता पतिप्राणा पत्युः प्रियहिते रता । यस्य स्यादीदृशी भार्या धन्यः स पुरुषो भुवि ॥ १२ ॥
संक्षेपात्कथ्यते धर्मो जनाः किं विस्तरेण तु । परोपकारः पुण्याय पापाय परपीडनम् ॥ १३ ॥
शुभ्रं सद्म सविभ्रमा युवतयः श्वेतातपत्रोज्ज्वला लक्ष्मीरित्यनुभूयते स्थिरमिव स्फीते शुभे कर्मणि । विच्छिन्ने नितराममङ्गलकलहक्रीडात्रुटत्तन्तुकं मुक्ताजालमिव प्रयाति झटिति भ्रश्यद्दिशो दृश्यताम् ॥ १४ ॥
यन्नम्रं सरल चापि यच्चापस्तु न सीदति । धनुर्मित्रं कलत्रं च दुर्लभं शुद्धवंशजम् ॥ १५ ॥
यन्नवे भाजने लग्नः संस्कारो नान्यथा भवेत् । कथाछलेन बालानां नीतिस्तदिह कथ्यते ॥ १६ ॥
यदप्युच्चैर्विजानीयान्नीचैस्तदपि कीर्तयेत् । कर्मणा तस्य वैशिष्ट्यं कथयेद्विनयान्वितः ॥ १७ ॥
सकृज्जल्पन्ति राजानः सकृज्जल्पन्ति साधवः । सकृत्कन्याः प्रदीयन्ते त्रीण्येतानि सकृत्सकृत् ॥ १८ ॥
मुखं प्रसन्नं विमला च दृष्टिः कथानुरागो मधुरा च वाणी । स्नेहोऽधिकः संभ्रमदर्शनं च सदानुरक्तस्य जनस्य चिह्नम् ॥ १९ ॥
पञ्च त्वाऽनुगमिष्यन्ति यत्र यत्र गमिष्यसि । मित्राण्यमित्रा मध्यस्था उपजीव्योपजीविनः ॥ २० ॥
परेषामात्मनश्चैव योऽविचार्य बलाबलम् । कार्यायोत्तिष्ठते मोहादापदं स समीहते ॥ २१ ॥
बलीयसा हीनबलो विरोधं न भूतिकाभो मनसापि वाञ्छेत् । न वध्यतेऽत्यन्तबलो हि यस्माद्यक्तं प्रणाशोऽस्ति पतंगवृत्ते ॥ २२ ॥
बलोपपन्नोऽपि हि बुद्धिमाञ्नरः परं नयेन्न स्वयमेव वैरिताम् । भिषङ्ममास्तीति विचिन्त्य भक्षयेदकारणात्को हि विचक्षणो विषम् ॥ २३ ॥
मित्रस्वजनबन्धूनां बुद्धेर्धैर्यस्य चात्मनः । आपन्निकषपाषाणे नरो जानाति सारताम् ॥ २४ ॥
मित्राण्येव हि रक्षन्ति मित्रवाग्नावसीदति । मित्रादुत्पादितं वैरमपि मूलं निकृन्तति ॥ २५ ॥
मित्रार्थे बान्धवार्थे च बुद्धिमान् यतते सदा । जातालापत्सु यत्नेन जगादेदं वचो मनुः ॥ २६ ॥
प्रत्यासत्तिं मदकरटिनो दानगन्धेन वायुर्गजोद्भूतिं प्रकटितरुचिश्चञ्चलेवाम्बुदस्य । चेष्टा स्पष्टं वदति मतिमन्नैपुणोन्नेयतत्त्वा जन्तोर्जन्मान्तरपरिचिता निश्चला चित्तवृत्तिम् ॥ २७ ॥
प्रसादः कुरुते पत्युः सपत्ति नाभिजातताम् । कालिमा कालकूटस्य नैपैति हरसंगमात् ॥ २८ ॥
प्रसादो निष्फलो यस्य क्रोधश्चापि निरर्थकः । न तं भर्तारमिच्छन्ति षण्ढं पतिमिव स्त्रियः ॥ २९ ॥
प्रज्ञावृद्धं धर्मवृद्धं स्वबन्धुं विद्यावृद्ध वयसा चापि वृद्धम् । कार्याकार्ये पूजयित्वा प्रसाद्य यः सपृच्छेन्न स मुह्मेत्कदाचित् ॥ ३० ॥
यथा आमान्तर गच्छन्नरः कश्चित्कचिद्वसेत् । उत्सृज्य च तमावास प्रतिष्टेतापरेऽहनि ॥ ३१ ॥
एवमेव मनुष्याणा पिता माता गृहं वसु । आवासमात्रं काकुत्स्थ सज्जन्ते नात्र सज्जनाः ॥ ३२ ॥
यथा छायातापौ नित्यं सुसंबद्धौ परस्परम् । एवं कर्म च कर्ता च संश्लिष्टावितरेतरम् ॥ ३३ ॥
यथा फलाना पक्वाना नान्यत्र पतनाद्भयम् । एवं नरस्य जातस्य नान्यत्र मरणाद्भयम् ॥ ३४ ॥
यथा बीजं विना क्षेत्रमुप्तं भवति निष्फलम् । तथा पुरुषकारेण विना दैवं न सिध्यति ॥ ३५ ॥
योऽन्यथा सन्तमात्मानमन्यथा सत्सु भाषते । स पापकृत्तमो लोके स्तेन आत्मापहारकः ॥ ३६ ॥
पादटिप्पण्यः (Footnotes):
१ गजानाम्
२ सिंहस्य
३ कुक्कुर
४ चर्ममय जलपात्रम्
१ आपद् विपत्तिरेव निकषपाषाण शाणस्तस्मिन्
४८ सु र भा
३७८ सुभाषितरत्नभाण्डागारम् [ ७ प्रकरणम्
शान्तेऽनन्तमहिम्नि निर्मलचिदानन्दे तरगावलीनिर्मुक्तेऽमृत-
सागराम्भसि मनाग्नग्नोऽपि नाचामति । निःसारे मृग-
तृष्णिकार्णवजले श्रान्तो विमूढः पिबत्याचामत्यवगा-
हतेऽभिरमते मज्जत्यथोन्मज्जति ॥ ३७ ॥ वरं प्राप्ते मृत्योः
पितरि तनये वा सुहृदि वा शुचाऽलं तप्यन्ते भृशमुदरताडं
जडधियः । असारे संसारे विरसपरिणामे तु विदुषा
वियोगो वैराग्यं दृढयति वितन्वन् शमसुखम् ॥ ३८ ॥
विधिरेव हि जागर्ति भव्यानामर्थसिद्धये । असचेतयमानाना
सद्गत्याः स्वामिनामिव ॥ ३९ ॥ लीलयन्त्यः कुलं घ्नन्ति
कुलानीव सरिद्वराः । दोषान्सर्वांश्च मत्याशु प्रजापतिरभाषत
॥ ४० ॥ रामो हेममृगं न वेत्ति नहुषो नो यान्युनेक्ति
द्विजान्विप्रादेव सवत्सधेनुहरणे जाता मतिश्चार्जुने । द्यूते
भ्रातृचतुष्टयस्वमहिषीं धर्मात्मजो दत्तवान् प्रायः सत्पुरुषो
विनाशसमये बुद्ध्या परित्यज्यते ॥ ४१ ॥ पुरा विद्वत्ता-
सीदमलिनधिया क्लेशहतये गता कालेनासौ विषयसुखसिद्धौ
विषयिणाम् । इदानीं संप्रेक्ष्य क्षितितलभुजः शास्त्रविमुखा-
नहो कष्टं सापि प्रतिदिनमधोऽधः प्रविशति ॥ ४२ ॥
राजा धर्मविना द्विजः शुचिविना ज्ञानं विना योगिनः कान्ता
सत्यविना हयो गतिविना ज्योतिर्विना भूषणम् । योद्धा
शूरविना तपो व्रतविना छन्दो विना गायन भ्राता स्नेहविना
नरो हरिविना मुञ्चन्ति शीघ्रं बुधाः ॥ ४३ ॥ प्रियवचन-
कृतोऽपि योषिता दयितजनानुनयो रसाहते । प्रविशति
हृदयं न तद्विदा मणिरिव कृत्रिमरागयोजितः ॥ ४४ ॥
मानो वा दर्पो वा विज्ञानं विश्रम सुबुद्धिर्वा । सर्वे प्रण
श्यति समं वित्तविहीनो यदा पुरुषः ॥ ४५ ॥ परा
विनीतः समुपैति सेव्यता महीपतीना विनयो विभूषणम् ।
प्रवृत्तदानो मृदुसत्तरस्करः करीव भद्रो विनयेन शोभते
॥ ४६ ॥ प्रीणाति यः सुचरितैः पितरं स पुत्रो यद्भर्तुरेव
हितमिच्छति तत्कलत्रम् । तन्मित्रमापदि सुखे च समक्रियं
यदेतत्त्रयं जगति पुण्यकृतो लभन्ते ॥ ४७ ॥ भार्याया
जनित पुत्रमादर्शेम्बिव चाननम् । ह्लादते जनिता प्रेक्ष्य
स्वर्ग प्राप्येव पुण्यकृत् ॥ ४८ ॥ हिंसकान्यपि भूतानि
यो हिनस्ति स निर्घृणः । स याति नरकं घोरं किं पुनर्ये.
शुभानि च ॥ ४९ ॥ सुखात्खादपरो यस्तु संसारे सत्स-
मागमः । स वियोगावसानत्वादु खाना धुरि युज्यते
॥ ५० ॥ पूज्यो बन्धुरपि प्रियोऽपि तनयो भ्राता वयस्योऽपि
वा मोहादनवद्यकार्यविमुखो हेयः स कार्यार्थिना । लोके
हि प्रथिता ननु श्रुतिरियं नार्योऽपि गायन्ति या किं कार्य
कनकेन तेन भवति च्छेदाय कर्णस्य यत् ॥ ५१ ॥ सुधा-
शुभ्रं धाम स्फुरदमलरश्मिः शशधरः प्रियावक्त्राम्भोज मलय-
जरजश्चातिसुरभि । सजो हृद्यामोदास्तदिदमखिलं रागिणि
जने करोत्यन्तःक्षोभं न तु विषयसंसर्गविमुखे ॥ ५२ ॥
भार्यावन्तः क्रियावन्तः सभार्या गृहमेधिनः । भार्यावन्तः
प्रमोदन्ते भार्यावन्तः श्रियान्विताः ॥ ५३ ॥ मन्त्रे तीर्थे
द्विजे देवे दैवज्ञे भेषजे गुरौ । यादृशी भावना यस्य सिद्धि-
र्भवति तादृशी ॥ ५४ ॥ बाहू द्वौ च मृणालमास्यकमलं
लावण्यलीलाजलं श्रोणी तीर्थशिला च नेत्रशफर धम्मिल्ल-
शैवालकम् । कान्तायाः स्तनचक्रवाकयुगलं कन्दर्पबाणानलै-
र्दग्धानांमवगाहनाय विधिना रम्यं सरो निर्मितम् ॥ ५५ ॥
भार्या पुत्रश्च दासश्च त्रय एवाधनाः स्मृताः । यत्ते समधि-
गच्छन्ति यस्य ते तस्य तद्धनम् ॥ ५६ ॥ प्रिया हिताश्च
ये राज्ञो ग्राह्यवाक्या विशेषतः । आश्रयेत्पार्थिवं विद्वांस्त-
द्वारेण नान्यथा ॥ ५७ ॥ भवारण्यं भीम तनुगृहमिद
छिद्रबहुलं बली कालश्चौरो नियतमसिता मोहरजनी ।
गृहीत्वा ज्ञानासं विरतिफलक शीलकवच समाधानं कृत्वा
स्थिरतरदृशो जाग्रत जनाः ॥ ५८ ॥ प्रत्युपस्थितकालस्य
सुखस्य परिवर्जनम् । अनागतसुखाशा च नैव बुद्धिमता
नयः ॥ ५९ ॥ प्रथमं संस्थिता भार्या पतिं प्रेत्य प्रतीक्षते ।
पूर्व मृतं च भर्तारं पश्चात्सादभ्यनुगच्छति ॥ ६० ॥ प्रथमे
नार्जिता विद्या द्वितीये नार्जितं धनम् । तृतीये नार्जितं
पुण्यं चतुर्थे किं करिष्यति ॥ ६१ ॥ रागी बिम्बाधरोऽसौ
स्तनकलशयुगं यौवनारूढगर्वं नीचा नाभिः प्रकृत्या कुटिल-
कमलकं खल्पकं चापि मध्यम् । कुर्वन्त्वेतानि नाम प्रसम-
मिह मनश्चिन्तितान्याशु खेद यन्मा तस्याः कपोलौ दहत
इति मुहुः स्वच्छकौ तन्न युक्तम् ॥ ६२ ॥ यो नानाश्रुति-
मत्पदार्थरसिकोऽसारेऽपि कायायुषे सप्रेमा स विलोक्य
बर्हिमिह मे किं किं न कुर्यात्प्रियम् । इत्याविष्कृतबर्हराजि
नटते यो बर्हिणोऽम्भोदवान्वान्यन्मुञ्चति तं विहाय जलद
कोऽन्योऽस्ति शून्याशयः ॥ ६३ ॥ शरीरमेवायतन सुखस्य
दुःखस्य चाप्यायतन शरीरम् । यद्यच्छरीरेण करोति कर्म
तेनैव देही समुपानुते तत् ॥ ६४ ॥ विनयेन विना का
श्रीः का निशा शशिना विना । रहिता सत्कवित्वेन कीदृशी
वाग्विदिग्धता ॥ ६५ ॥ शशिना सह याति कौमुदी सह
मेघेन तडित्प्रलीयते । प्रमदाः पतिवर्त्मगा इति प्रतिपन्नं हि
विचेतनैरपि ॥ ६६ ॥ वरं मौन कार्ये न च वचनमुक्तं यद-
नृतं वर क्लीव्यं पुंसा न च परकलत्राभिगमनम् । वरं प्राण-
त्यागो न च पिशुनवाक्येष्वभिरुचिर्वरं भिक्षाशित्वं न च
परधनास्वादनसुखम् ॥ ६७ ॥ पुरो रेवापारे गिरिरतिराडु-
रोहशिखरो धनुर्बाणैः पश्चाच्छबरकवरो धावति भृशम् ।
सरः सव्येऽसव्ये दवदहनदाहव्यतिकरो न गन्तुं न स्थातुं
संकीर्णप्रकरणम् ३७९
हरिणशिशुरिव विलपति ॥ ६८ ॥ लीलावतीना सहजा विलासास्त एव मूढस्य हृदि स्फुरन्ति । रागो नलिन्या हि निसर्गसिद्धस्तत्र भ्रमत्येव सुधा षडंघ्रिः ॥ ६९ ॥ बुद्धिश्च हीयते पुंसा नीचैः सह समागमात् । मध्यमैर्मध्यता याति श्रेष्ठता याति चोत्तमैः ॥ ७० ॥ विस्तीर्णव्यवसायसाध्य- महता स्निग्धप्रयुक्ताशिषा कार्याणा नयसाहसोन्नतिमतो- मिच्छापदारोहिणाम् । मानोत्सेकपराक्रमव्यसनिनः पार न यावद्गताः सामर्षे हृदयेऽवकाशविषया तावत्कथं निर्वृतिः ॥ ७१ ॥ लोको वहति कि राजन्न मूर्द्धा दग्धुमिन्धनम् । क्षालयन्नपि वृक्षाङ्गीन्नदीवेगो निकृन्तति ॥ ७२ ॥ वरु- णेन यथा पाशैर्बद्ध एवाभिदृश्यते । तथा पापान्निगृह्णीया- द्व्रतमेतद्धि वारुणम् ॥ ७३ ॥ लाक्षारूक्षम ललाटघट्टनमितः केयूरमुद्रा गले वक्रे कज्जलकालिमा नयनयोस्ताम्बूल- रागोदयः । दृष्ट्वा कोपविधायि मण्डनमिदं प्रातश्चिरं प्रेयसो लीलातामरसोदरे मृगदृश श्वासा. समाप्ति गता. ॥ ७४ ॥ लज्जा स्नेहः स्वरमधुरता बुद्धयो यौवनश्रीः कान्तासङ्गो यजनसमता दुःखहानिर्विलासः । धर्म. शास्त्रं सुरगुरुमतिः शौचमाचारचिन्ता पूर्णे सर्वे जठरपिठरे प्राणिना सम्भवन्ति ॥ ७५ ॥ पुण्ये ग्रामे वने वा महति सितपटच्छन्नपाली- कपालीमादाय न्यायगम्यं द्विजहुतहुतभुग्धूमधूप्रोपकण्ठम् । द्वार द्वार प्रविष्टो दरसुदरदरीपूरणाय क्षुधार्तो मानी प्राणी सनाथो न पुनरनुदिनं तुल्यकुल्येषु दीनः ॥ ७६ ॥ अदेशकालज्ञमनायतिकक्षमं यदप्रिय ल घवकारि चात्मनः । योऽत्राब्रवीत्कारणवर्जित वचो न तद्वचः स्याद्विषमेव तद्वच. ॥ ७७ ॥ अदृष्टपूर्वान्नादाय भावानपरिशङ्कितान् । इष्टानि- ष्टान्मनुष्याणामस्तं गच्छन्ति रात्रयः ॥ ७८ ॥ सत्क्षेत्रप्रति पादितः प्रियवचोबद्धाालवालवलिर्निर्दोषेण मन.प्रसादपयसा निष्पन्नसेकक्रियः । दातुस्तत्तदभीप्सित किल फलन्कालेऽ- तिबालोऽप्यसौ राजन् दानमहीरुहो विजयते कल्पद्रुमादी- नपि ॥ ७९ ॥ अथ नित्यमनित्यं वा नेह शोचन्ति तद्विदः । नान्यथा शक्यते कर्तुं स्वभाव. शोचतामिति ॥ ८० ॥ अत्यु न्नतिं प्राप्य नरः प्रावार. कीटको यथा । स विनश्यत्य- सद्देहमहिहैवमशुना नृप ॥ ८१ ॥ क्षेत्रग्रामवनाद्रिपत्तनपुरी- द्वीपक्षमामण्डलप्रत्याशाघनसूत्रबद्धमनसा लब्धादिक ध्याय- ताम् । तृष्णे देवि यदि प्रसीदसि तनोष्यङ्गानि तुङ्गानि चेत्तद्भोः प्राणभृता कुत. शमकथा ब्रह्माण्डलक्षैरपि ॥ ८२ ॥ अत्युदात्तगुणेष्वेषा कृतपुण्यैः प्ररोपिता । शतशाखी भवत्येव यावन्मात्रापि सत्क्रिया ॥ ८३ ॥ अत्युत्सेकेन सहसा साहसा- द्व्यवसायिनाम् । श्रीरारोहति सदेहं महतामपि भूभृताम् ॥ ८४ ॥ ज्ञातुं वपुःपरिमितः क्षमते त्रिलोकीं जीवः कथ कथय संगतिमन्तरेण । शक्नोति कुम्भनिहितः सुशिखोऽपि दीपो भावान्प्रकाशयितुमप्युदरे गृहस्य ॥ ८५ ॥ अत्यादरपरो विद्वान्नीहमान. स्थिरा श्रियम् । अग्ने. शेषमृणाच्छेष शत्रोः शेष न शेषयेत् ॥ ८६ ॥ अत्यम्बुपान।द्विषमाशनाच्च दिवाश- याज्जागरणाच्च रात्रौ । सरोधनान्मूत्रपुरीषयोश्च षड्भिः प्रकारैः प्रभवन्ति रोगाः ॥८७॥ आश्रिताश्चैव लोकस्य विवृद्धिं यान्ति विद्विष. । विवृद्धाश्च विनाशाय तस्मान्नोद्वेजयेत्प्रजा. ॥ ८८॥ अत्यन्तचञ्चलस्नेह पारदस्य निबन्धने । कामं विज्ञायते युक्तिर्न स्त्रीचित्तस्य काचन ॥ ८९ ॥ अनुत्थिदान कृतपूर्व- नाशनममानन दुश्चरितानुकीर्तनम् । कथाप्रसङ्गेन च नामविस्मृतिर्विरक्तभावस्य जनस्य लक्षणम् ॥ ९० ॥ दुर्ज- नस्य च सर्पस्य वर सर्पो न दुर्जनः । सर्पो दशति कालेन दुर्जनस्तु पदे पदे ॥ ९१ ॥ अतीव गुणसङ्गन्नो न जातु विनयान्वित. । सुसूक्ष्ममपि भूतानामुपमर्दमपेक्षते ॥ ९२ ॥ अतीतानागता भावा ये च वर्तन्ति सांप्रतम् । तान्काल- निर्मितान्बुद्ध्वा न सज्ञा हातुमर्हसि ॥ ९३ ॥ धनवान्क्रोध- लोभाभ्यामाविष्टो नष्टचेतन. । तिर्यग्गीक्ष. शुष्कमुखः पापको भ्रुकुटीमुख. ॥९४॥ अतिवाँदास्तितिक्षेत नावमन्येत कंचन । क्रुध्यमानः प्रिय ब्रूयादाकृष्टः कुशलं वदेत् ॥ ९५ ॥ अतिक्रेशेन येऽर्था. स्युर्धर्मस्यातिक्रमेण च । अरेर्वा प्रणिपातेन मा स्म तेषु मन कृथा. ॥ ९६ ॥ निर्दशन्नधरोष्ठ च क्रुद्धो दारुणभाषिता । कस्तमिच्छेद्वयरिद्रंहुं दातुमिच्छति चेन्महीम् ॥ ९७ ॥ अज्ञेभ्यो ग्रन्थिनः श्रेष्ठा ग्रन्थिभ्यो धारिणो वराः । धारिभ्यो ज्ञानिन. श्रेष्ठा ज्ञानिभ्यो व्यवसायिनः ॥ ९८ ॥ अज्ञानाद्यदि वा ज्ञानात्कृत्वा कर्म विगर्हितम् । तस्माद्वि- मुक्तिमन्विच्छन्द्वितीयं न समाचरेत् ॥ ९९ ॥ मा कुरु धनजनयौवनगर्वं हरति निमेषात्काल. सर्वम् । मायामय- मिदमखिल हित्वा ब्रह्मपदं प्रविशाशु विदित्वा ॥ १०० ॥ अजालवरखुरोत्सर्गमार्जनैरेणुवज्रनैः । दीपखट्वापच्छायेव त्यज्यते निर्धनो जन. ॥ १०१ ॥ अचोद्यमानानि यथा पुष्पाणि च फलानि च । स्वं कालं नातिवर्तन्ते तथा कर्म पुराकृतम् ॥ १०२ ॥ नाकालतो भानुरुपैति योगं नाकालतोऽस्तं गिरिमभ्युपैति । नाकालतो हीयते वर्धते च चन्द्रः समुद्रोऽपि महोर्मिमाली ॥ १०३ ॥ अघ स केवलं भुङ्क्ते यः पचत्यात्मकारणात् । यज्ञशिष्टाशनं ह्येतत्सतामन्नं विधीयते ॥ १०४ ॥ अध्याधानेन यज्ञेन काषायेण जटा- जिनैः । लोकान्विश्वासयित्वैव ततो लुम्पद्यथा वृकः ॥१०५॥ नाकालतो म्रियते जायते वा नाकालतो व्याहरते च बालः । नाकालतो यौवनमभ्युपैति नाकालतो रोहति बीजमुप्तम् ॥ १०६ ॥ अग्नौ प्रोस्तं तु पुरुषं कर्मान्वेति स्वयंकृतम् ।
१ अप्रियवचनानि. २ हुतम्
३८० सुभाषितरत्नभाण्डागारम् [ ७ प्रकरणम्
तस्मात्तु पुरुषो यत्नाद्धर्मं संचिनुयाच्छनैः ॥१०७॥ अग्निहोत्रं त्रयो वेदास्त्रिदण्डं भस्मगुण्ठनम् । प्रज्ञापौरुषहीनानां जीवि- केति बृहस्पतिः ॥ १०८॥ नाकालमत्ताः खगपन्नगाश्च मृग- द्विपाः शैलमृगाश्च लोके । नाकालतः स्त्रीषु भवन्ति गर्भा नायान्यकाले शिशिरोष्णवर्षा ॥१०९॥ एवमेव कुले जाताः पावकोपमतेजसः । क्षमावन्तो निराकारा काष्ठेऽग्निरिव शेरते ॥११०॥ स एव खलु दारुभ्य यदा निर्मथ्य दीप्यते। तद्दारु च वनं चान्यन्निर्दहत्याशु तेजसा ॥ १११॥ नाक्रोशी स्यान्नाबमानी परस्य मित्रद्रोही नोत नीचोपसेवी । न चाभिमानी न च हीनवृत्तो रूक्षां वाचमुषतीं वर्जयीत ॥११२॥ अग्निस्तेजो महल्लोके गूढस्तिष्ठति दारुषु । न चोपयुङ्क्ते तद्दारु यावन्नोद्दीप्यते परैः ॥११३॥ अग्निं प्राप्य यथा सद्यस्तूलराशिरिविनश्यति । तथा गंगा प्रवाहेन सर्वं पापं विनश्यति ॥ ११४ ॥ व्याधिभिर्मथ्यमानाना त्यजता विपुलं धनम् । वेदना नापकर्षन्ति यतमानाश्चिकित्सकाः ॥ ११५ ॥ अक्षेत्रे बीजमुत्सृष्टमन्तरैव विनश्यति । अबीजकमपि क्षेत्र केवलं स्थण्डिलं भवेत् ॥ ११६ ॥ अक्षमा हीपरित्याग. श्रीनाशो 'धर्मसंक्षयः । अभिध्याप्रस्यता चैव सर्वे लोभा- त्प्रवर्तते ॥११७॥ शमयति गजानन्यानन्गन्धद्विपः कलभोऽपि सन्प्रभवतितरा वेगोदग्र भुजंगशिशोर्विषम्। भुबमधिपति- र्बाला वस्थोऽप्यलं परिरक्षितु न खलु वयसा जात्यैवाय स्वकार्यसहो गणः ॥ ११८ ॥ अक्षमः क्षमतामानी क्रियाया यः प्रवर्तते । स हि हास्यास्पदत्वं च लभते प्राणसंशयम् ॥ ११९॥ अक्रोधेन जयेत्क्रोधमसाधुं साधुना जयेत् । जयेत्कदर्यं दानेन जयेत्सत्येन चानृतम् ॥ १२० ॥ ब्राह्मणः पतनीयेषु वर्तमानो विकर्मसु । दाम्भिको दुष्कृतप्राज्ञः शूद्रेण सदृशो भवेत् ॥ १२१ ॥ अक्रोधनः क्रोधनेभ्यो विशिष्टस्तथा तितिक्षुरतितिक्षोर्विशिष्टः । अमानुषेभ्यो मानु- षाश्च प्रधाना विद्वांस्तथैवाविदुषः प्रधानः ॥ १२२ ॥ अकृतेष्वेव कार्येषु मृत्युर्वै संप्रकर्षति । युवैव धर्मशीलः स्यादनिमित्तं हि जीवितम् ॥ १२३ ॥ यस्तु शूद्रो दमे सत्ये धर्मे च सततोत्थितः । तं ब्राह्मणमहं मन्ये वृत्तेन हि भवेद्द्विजः ॥ १२४ ॥ अकीर्ति विनयो हन्ति हन्त्यनर्थं पराक्रमः । हन्ति नित्यं क्षमा क्रोधमाचारो हन्त्यलक्षणम् ॥ १२५ ॥ अकिंचनस्य शुद्धस्य उपपन्नस्य सर्वतः । अवेक्ष- माणस्त्रील्लोकाश्च तुल्यमिह लक्षये ॥ १२६ ॥ सन्त सच्चरि- तोदयव्यसनिन. प्रादुर्भवन्चलणा- सर्वत्रैव जनापवाद- चकिता जीवन्ति दु खं सदा । अव्युत्पन्नमतिः कृतेन न सता नैवासता व्याकुलो युक्तायुक्तविवेकशून्यहृदयो धन्यो जनः प्राकृतः ॥ १२७ ॥ अकिंचन. परिपतन्सुखमाखादयि- ष्यसि । अकिंचनः सुखं शेते समुत्तिष्ठति चैव ह ॥ १२८ ॥ अकाले कृत्यमारब्धं कर्तुर्नाथीय कल्पते । तदेव काले आरब्धं महतेऽर्थाय कल्पते ॥ १२९ ॥ ह्यः पश्यद्भिरकारण- सितसितं पाथोजकोशाकृति श्मश्रूद्वोधकठोरमद्य रभसादुत्तप्त- ताम्रप्रभम् । प्रातर्जीर्णवलक्षकेशविकृत वृद्धाइशीर्षोपमं वक्तं नः परिहस्यते ध्रुवमिदं भूतैश्चिरस्थायिभिः ॥ १३० ॥ अकालसहमत्यल्पं मूर्खव्यसनिनायकम् । अगुप्त भीरुयोधं च दुर्गव्यसनमुच्यते ॥ १३१ ॥ अकार्याण्यपि पर्याय कृत्वापि वृजिनार्जवम् । विधीयते हितं यस्य स देहः कस्य सुस्थिर. ॥ १३२ ॥ स्तनतटमिदमुत्तुङ्गं निम्नो मध्यः समुन्नतं जघनम् । विषमे मृगशावाक्ष्या वपुषि नवे क इव न स्खलति ॥ १३३ ॥ अकार्यकरणाद्धीतः कार्याणा च विवर्ज- नात् । अकाले मन्त्रभेदाच्च येन माद्येन्न तत्पिबेत् ॥ १३४॥ अकामान्कामयति य कामयानानपरित्यजेत् । बलवन्तं च यो द्वेष्टि तमाहुर्मूढचेतसम् ॥ १३५ ॥ स्तनयोर्घनस्थापि मध्ये मध्यं प्रिये तब । अस्ति-नास्तीति संदेहो न मेऽद्यापि निवर्तते ॥१३६॥ अकामो कामयानस्य शरीरं परिपीड्यते । इच्छन्ती कामयानस्य रतिर्भवति शोभना ॥१३७॥ अकामस्य क्रिया काचिदृश्यते नेह कर्हिचित् । यद्यद्धि कुरुते किंचित्तत्तत्कामस्य चेष्टितम् ॥ १३८ ॥ प्रथमा गतिरात्मैव द्वितीया गतिरात्मजः । सन्तो गतिस्तृतीयाक्ता चतुर्थी धर्मसचयः ॥ १३९ ॥ अकस्मात्प्रक्रिया नृणामकस्माच्चाप- कर्षणम् । शुभाशुभे महत्त्वं च प्रकर्तुं बुद्धिलाघवम् ॥१४०॥ अकर्मशीलं च महाशनं च लोकद्विष्टं बहुमायं नृशंसम् । अदेशकालज्ञमनिष्टवेषमेतान्गृहे न प्रतिवासयेत ॥ १४१ ॥ प्रयोजनेषु ये सक्ता न विशेषेषु भारत । तानहं पण्डिता- न्मन्ये विशेषा हि प्रसङ्गिनः ॥ १४२ ॥ अद्यैव कुरु यच्छ्रेयो मा त्वा कालोऽत्यगादयम् । अकृतेष्वेव कार्येषु मृत्युर्वे सप्रकर्षति ॥ १४३ ॥ अधरः किसलयरागः कोमलविटपानु- कारिणौ बाहू । कुसुममिव लोभनीयं यौवनमङ्गेषु संनद्धम् ॥ १४४ ॥ चत्वार्याहुर्नरश्रेष्ठा व्यसनानि महीक्षिताम् । मृगया पानमक्षाश्च ग्राम्ये चैवातिसक्तता ॥ १४५ ॥ अधर्मेण च यः प्राह यश्चाधर्मेण पृच्छति । तयोरन्यतरः प्रैति विद्वेषं वाधिगच्छति ॥ १४६ ॥ अध्रुवेण शरीरेण प्रतिक्षणविना- शिना । ध्रुवं यो नार्जयेद्धर्म स शोच्यो मूढचेतनः ॥ १४७॥ निबन्धनी रज्जुरेषा या ग्रामे वसतो रतिः । छित्त्वैना सुकृतो यान्ति नैना छिन्दन्ति दुष्कृतः ॥ १४८ ॥ अध्वा जरा देहवता पर्वताना जल जरा । असभोगो जरा स्त्रीणा वाक्- शल्य मनसो जरा ॥ १४९ ॥ अनधिगतमनोरथस्य सर्व शतगुणितेव गता मम त्रियामा । यदि तु तब समागमे
संकीर्णप्रकरणम् ३८१
| स्तम्भ १ | स्तम्भ २ |
|---|---|
| तथैव प्रसरति सुष्ठु ततः कृती भवेयम् ॥ १५० ॥ मृदुराद्र्रः | द्वारपञ्जरे विहगानिलः । यत्तिष्ठति तदाश्चर्यं वियोगे तस्य |
| कृशो भूत्वा शनैः संङ्गीयते रिपुः । वल्मीक इव वृक्षस्य | का कथा ॥ १७१ ॥ परोक्तमात्र यस्तथ्य मन्यते बुद्धि- |
| पश्चान्मूलानि कृन्तति ॥ १५१ ॥ अनध्वन्याः काव्येष्वलस- | वर्जितः । हसनीय परेषां म शाखारूढो जटी यथा ॥१७२॥ |
| गतयः शास्त्रगहनेष्वदु खज्ञा वाचां परिणतिषु मूकाः परगुणे । | अनिले प्रियसवासे ससारे चक्रवद्गतौ । पथि संगतमेवैत- |
| विदग्धानां गोष्ठीष्वकृतपरिचर्याश्च खलु ये भवेयुस्ते किं वा | द्भाता माता पिता सखा ॥ १७३ ॥ अनिर्वाच्यमनिर्भिन्नामप- |
| परमणितकण्डूतिनिकषाः ॥ १५२ ॥ अनभ्यासेन विद्याना- | रिच्छिन्नमव्ययम् । ब्रह्वेव सुजनप्रेम दु खमूलनिकृन्तनम् |
| मसंसर्गेण धीमताम् । अनिग्रहेण चाक्षाणां जायते व्यसनं | ॥ १७४ ॥ अगूढस्य बुद्धिमतो दूरस्थोऽपीति नाश्वसेत् । |
| नृणाम् ॥ १५३ ॥ मौढ्येन विपदापन्नं मध्यस्थं सुहृदं तथा । | दीर्घौ बुद्धिमतो बाहू याभ्या हिंसति हिंसितः ॥ १७५ ॥ |
| शक्त्या ततः समुद्धृत्य हितार्थं भर्त्सयेत्सुधीः ॥ १५४ ॥ | अनिर्वेदः श्रियो मूलं लामस्य च शुमस्य च । महान्भवत्य- |
| अनर्थकं विप्रवासं गृहेभ्यः पापैः सन्धिं परदाराभिमर्शम् । | निर्विण्णः सुखं चानन्तमश्नुते ॥१७६॥ अनिश्चितैरध्यवसाय- |
| दैन्यं स्तेन्यं पैशुनं मद्यपानं न सेवते यश्च सुखी सदैव | भीरुभिः पदे पदे दोषशतानुदर्शिभिः । फलैर्विस्वादमुपागता |
| ॥ १५५ ॥ अनर्थमर्थतः पश्यन्नर्थं चैवाप्यनर्थतः । इन्द्रियै- | गिर. प्रयान्ति लोके परिहासवस्तुताम् ॥ १७७ ॥ मित्रं |
| रजितैर्बालः सुखं मन्यते सुखम् ॥ १५६ ॥ बन्धुत्याग- | परित्यजति मुञ्चति बन्धुवर्गं शीघ्रं विहाय जननीमपि जन्म- |
| स्तनुत्यागो देशत्याग इति त्रिषु । आद्यन्तावायतक्लेशौ | भूमिम् । ससज्य गच्छति विदेशमनिष्टलोकं वित्ताकुली- |
| मध्यमः क्षणिकज्वरः ॥ १५७ ॥ अनवाप्यं च शोकेन शरीरं | कृतमतिः पुरुषोऽविलम्ब्य ॥ १७८ ॥ अनिष्ठसम्प्रयोगाच्च |
| चोपतप्यते । अमित्राश्च प्रहृष्यन्ति मा स्म शोके मनः | विप्रयोगात्प्रियस्य च । मनुष्या मानसैर्दु.खैर्दह्यन्ते |
| कृथाः ॥ १५८ ॥ अनातुरोत्कण्ठितयोः प्रसिध्यता समा- | स्वल्पबुद्धयः ॥ १७९ ॥ अनीर्ष्युर्गुरुदारश्च सविभागो प्रियं- |
| गमेनापि रतिर्न मा प्रति । परस्परप्राप्तिनिराशयोर्र्वरं शरीर- | वदः । श्लक्ष्णो मधुरवाक् स्त्रीणा न चासा वशगो भवेत् |
| नाशोऽपि समानरागयोः ॥ १५९ ॥ प्रज्ञया मानस दुःखं | ॥ १८० ॥ न पिता नात्मजो नात्मा न माता न सखी- |
| हन्याच्छारीरमौषधैः । एतद्धि ज्ञानसामर्थ्यं न बालैः | जनः । इह प्रेत्य च नारीणा पतिरेको गतिः सदा ॥१८१॥ |
| समतामियात् ॥ १६० ॥ अनात्मवान्नयद्वेषी वर्धयन्नति- | अनुबन्धं च संप्रेक्ष्य विपाकं चैव कर्मणाम् । उत्थानमा- |
| सपदः । प्राप्यापि महदैश्वर्यं सह तेन विपद्यते ॥ १६१ ॥ | त्मनश्चैव धीरः कुर्वीत वा न वा ॥ १८२ ॥ अनुबन्धानुपेक्षेत |
| अनादेयं नाददीत परीक्षीणोऽपि पार्थिवः । न चादेयं | सानुबन्धेषु कर्मसु । सम्प्रधार्य च कुर्वीत न वेगेन समाचरेत् |
| समृद्धोऽपि सूक्ष्ममप्यर्थमुत्सृजेत् ॥ १६२ ॥ न च रात्रौ | ॥ १८३॥ सत्यश्चात्र प्रवादोऽयं लौकिक. प्रतिभाति माम् । |
| सुखं शेते ससर्प इव वेश्मनि । यः कोपयति निर्दोषं | पितृन्समनुजायन्ते नरा मातरम्ङ्गनाः ॥ १८४ ॥ अनुयाति |
| सदोषोऽभ्यन्तर जनम् ॥ १६३ ॥ अनादेयस्य चादानादा- | न भर्तार यदि दैवात्कथंचन । तथापि शीलं सरक्ष्यं शील- |
| देयस्य च वर्जनात् । दौर्बल्य ख्याप्यते राज्ञः स प्रेत्येह | भङ्गात्पतत्यधः ॥ १८५ ॥ अनेकचित्तमन्त्रस्तु द्वेष्यो भवति |
| च नश्यति ॥ १६४ ॥ अनाद्यन्ता तु सा तृष्णा अन्तर्देह- | मन्त्रिणाम् । अनवस्थितचित्तत्वात्कार्ये तैः स उपेक्ष्यते |
| गता नृणाम् । विनाशयति भूतानि अयोनिज इवानिलः | ॥ १८६ ॥ मूढ जहीहि धनागमतृष्णा कुरु तनुबुद्धिमन्तःसु |
| ॥ १६५ ॥ न च शत्रुरवज्ञेयो दुर्बलोऽपि बलीयसा । | वितृष्णाम् । यल्लभसे निजकर्मोपात्तं वित्तं तेन विनोदय |
| अल्पोऽपि हि दहत्यग्निर्विषमल्पं हिनस्ति च ॥१६६॥ अना- | चित्तम् ॥ १८७॥ अन्तर्दुष्टः सदायुकतः सर्वानर्थकरः किल । |
| म्नायमला वेदा ब्राह्मणस्याव्रतं मलम् । मलं पृथिव्या | शकुनिः शकटारश्च दृष्टान्तावत्र भूपते ॥ १८८ ॥ अन्तर्ये |
| बाल्हीकाः पुरुषस्यानृतं मलम् ॥ १६७॥ अनारम्भा भव- | सततं लुठन्त्यगणितास्तानेव पाथोघेरैरात्तानापतितान्तरग- |
| न्त्यर्थाः केचिन्चित्त्यं तथागता । कृतः पुरुषकारो हि भवेद्येषु | वलयैरालिङ्ग्य गृह्णन्त्यसौ । व्यक्त मौक्तिकरल्रता जलकणा- |
| निरर्थकः ॥ १६८ ॥ द्वेषादिवैकृतवतः प्रतिभासतेऽन्यो | न्सप्रापयत्यम्बुधि प्रायोऽन्येन कृतादरो लघुरपि प्राप्तोऽर्च्यते |
| मिथ्यैव चित्रमधिको विशदात्मनोऽपि । चन्द्रादि पश्यति | स्वामिभिः ॥ १८९॥ मूर्खा यत्र न पूज्यन्ते धान्यं यत्र सुसं- |
| पुरो द्विगुण प्रकृत्या तेजोमयं तिमिरदोषहत हि चक्षुः | चितम्। दंपत्योः कलहो नास्तितत्र श्रीःस्वयमागता ॥१९०॥ |
| ॥ १६९ ॥ अनार्यवृत्तमप्राज्ञमसूयकमधार्मिकम् । अनर्थाः | अन्त्येषु रेमिरे धीरा न ते मध्येषु रेमिरे । अन्त्यप्राप्तिं सुखं |
| क्षिप्रमायान्ति वाग्दुष्टं क्रोधन तथा ॥ १७०॥ अनावृतनव- | प्राहुर्दुःखमन्तरमन्त्ययोः ॥१९१॥ मूलमेवादितश्छिन्द्यात्पर- |
| ३८२ | सुभाषितरत्नभाण्डागारम् | [ ७ प्रकरणम् |
|---|
पक्षस्य नित्यशः । ततः सहायास्तत्पक्षान्सर्व्वांच्च तदनन्तरम् ॥ १९२ ॥ अन्योच्छिष्टेषु पात्रेषु भुक्तवैतेषु महीभुजः । कस्मान्न लज्जामवहन् शौचे चिन्ता न वा दधुः ॥ १९३ ॥ अन्यो धनं प्रेतगतस्य भुङ्क्ते वयांसि चाग्निश्च शरीरधातून् । द्वाभ्यामयं गच्छत्यमुत्र पुण्येन पापेन च वेष्ट्यमानः ॥१९४॥ चलस्वभावा दुःसेव्या दुर्ग्राह्या भावतस्तथा । प्राज्ञस्य पुरुषस्येह यथा वाचस्तथा श्रियः ॥ १९५ ॥ अन्योऽन्य- समुत्पम्भादन्योन्यापाश्रयेण च । ज्ञातयः संप्रवर्धन्ते सरसीवोत्पलान्युत ॥ १९६ ॥ अन्यो हि नाश्नाति कृतं हि कर्म मनुष्यलोके मनुजस्य कश्चित् । यत्तेन किंचिद्धि कृतं हि कर्म तदश्नुते नास्ति कृतस्य नाशः ॥ १९७ ॥ उद्योगेन विना नैव कार्यं किमपि सिध्यति । नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥ १९८ ॥ अपकारिणि विश्रम्य यः करोति नराधमः । अनाथो दुर्बलो यद्वन्न चिरं स तु जीवति ॥ १९९ ॥ लोभादेव नरा मूढा धनविद्यान्विता अपि । अकृत्येषु नियोज्यन्ते भ्राम्यन्ते दुर्गमेष्वपि ॥ २०० ॥ अन्यो हि नाश्नाति कृतं हि कर्म मनुष्यलोके मनुजस्य कश्चित् । यत्तेन किंचिद्धि कृतं हि कर्म तदश्नुते नास्ति कृतस्य नाशः ॥ २०१ ॥ अपहृत्य तमस्तीव्रं यथा भात्युदये रविः । तथापहृत्य पापानि भाति गङ्गाजलप्लुतः ॥ २०२ ॥ अगा प्रवाहो गाङ्गो वा समुद्रं प्राप्य तद्रसः । भवत्यपेयस्तद्भिद्वाज्ञाश्रयेदशुभात्मकम् ॥ २०३ ॥ सुखमेव हि दुःखान्तं कदाचिद्दुःखतः सुखम् । तस्मादेतद्द्वयं जह्याद्य इच्छेच्छाश्वतं सुखम् ॥ २०४ ॥ अपि मन्दत्वमापन्नो नष्टो वाऽभीष्टदर्शनात् । प्रायेण प्राणिना भूयो दुःखवेगोऽधिको भवेत् ॥२०५॥ अपि मार्दवभावेन गात्रं संलीय बुद्धिमान् । अनिनाशयेते नित्यं यथा वह्नी महाद्रुमम् ॥ २०६ ॥ सुखार्थी नागारिप्रतिमयशमात्मत्युत सुखं जहौ शेषस्त- ल्पीकृततनु निषेव्यासुररिपुम् । यतस्तेनामुष्मिन्नधिगतवता क्लेशसहता श्रमाद्यायि न्यस्त निरवधि धराधारवहनम् ॥ २०७ ॥ अपुत्रस्य गतिर्नास्ति स्वर्गो नैव कथंचन । तस्मात्पुत्रमुखं दृष्ट्वा पश्चाद्भवति तापसः ॥२०८॥ अपूर्विणा न कर्तव्यं कर्म लोके विगर्हितम् । कृतपूर्वे तु त्यजतो महान्धर्म इति श्रुति ॥ २०९ ॥ सुखदुःखानि भूतानाम- जरो जरयत्यसौ । आदित्यो ह्यस्तमभ्येति पुनः पुनरुदेति च ॥ २१० ॥ अप्युन्मत्तात्प्रलपतो बालाच्च परिजल्पतः । सर्वतः सारमादद्यादश्मभ्य इव काञ्चनम् ॥ २११ ॥ अप्र- सादोऽनधिष्ठानं देयाशहरणं च यत् । कालयापोऽप्रती- कारस्तद्वैराग्यस्य कारणम् ॥ २१२ ॥ सुखदुःखे समे खाता जन्तूना क्लेशहेतुके । मूर्ध्नि स्थिताना केशाना भवेता | स्नेहच्छेदने ॥ २१३ ॥ अप्रियैरपि निष्पिष्टैः कि स्यात्क्लेशा- सहिष्णुभिः । ये तदुन्मूलने शक्ता जिगीषा तेषु शोभते ॥ २१४ ॥ अभयस्य हि यो दाता तस्यैव सुमहत्फलम् । नहि प्राणसमं दानं त्रिषु लोकेषु विद्यते ॥२१५॥ सुखदुःखे हि पुरुषः पर्यायेणोपसेवते । न ह्यनन्तं सुखं कश्चित्प्राप्नोति पुरुषर्षभ ॥ २१६ ॥ अभिन्नवेलौ गम्भीरावम्बुराशिर्भवानपि । असावञ्जनसकाशस्त्व तु चामीकरद्युतिः ॥ २१७ ॥ अभि- प्रायं यो विदित्वा तु भर्तुः सर्वाणि कार्याणि करोत्यतन्द्रीः। वक्ता हितानामनुरक्त आर्यः शक्तिज्ञ आत्मैव हि सोऽनु- कम्प्यः ॥ २१८ ॥ सुखं दुःखान्तमालस्यं दाक्ष्यं दुःखं सुखोदयम् । भूतिः श्रीर्हीर्धृतिः कीर्तिर्दक्षे वसति नालसे ॥ २१९ ॥ वाक्यं तु यो नाद्रियतेऽनुशिष्टः प्रत्याह यश्चापि नियुज्यमानः । प्रज्ञाभिमानी प्रतिकूलवादी त्याज्यः स तादृक् त्वरयैव भृत्य ॥ २२० ॥ अभिमानवता ब्रुवन्त्युक्ता- युक्तविवेकिनाम् । युज्यतेऽवश्यमोज्याना दुःखनामप्रकाशनम् ॥ २२१ ॥ सुत्वमापतित सेवेहु खमापतित वहेत् । काल- प्राप्तमुपासीत सस्यानामिव कर्षकः ॥ २२२ ॥ अभिमान श्रियं हन्ति पुरुषस्याल्पमेधसः। गर्भेण दुष्यते कन्या गृहवासेन च द्विजः ॥ २२३ ॥ अभियुक्तं बलवता दुर्बल हीनसा- धनम् । हतस्व कामिन चौरमाविशन्ति प्रजागराः ॥ २२४ ॥ सुकर सर्वथा मैत्रं दुष्कर प्रतिपालनम् । अनित्यत्वाद्धि चित्ताना प्रीतिरल्पेन भिद्यते ॥ २२५ ॥ अभियोक्ता बलीय- स्वादलब्धा न निवर्तते । उपहाराहते तस्मात्संधिरन्यो न विद्यते ॥ २२६ ॥ अभिलष्य स्थिरं पुण्यं ख्यात सिद्धेर्निषे- वितम् । सेवेत सिद्धिमन्विच्छन् श्लाघ्यं विन्ध्यमिवेश्वरम् ॥ २२७ ॥ यथा शरीरमेवेदं जलबुद्बुदसन्निभम् । प्रवात- दीपचपलास्तथा कस्य कृते श्रियः ॥ २२८ ॥ यथा हि पुरुषः कुर्याच्छरीरे यत्नमुत्तमम् । वसनाद्यैरुपायैस्तु तथा राज्ये नराधिपः ॥ २२९ ॥ अमित्रं नैव मुञ्चेत वदन्तं कारणा- न्यपि । दुःखं तत्र न कर्तव्यं हन्या पूर्वापकारिणम् ॥ २३० ॥ अमित्रादुन्नतिं प्राप्य नोन्नतोऽस्मीति विश्वसेत् । तस्मात्प्राप्योन्नतिं नश्येत् प्रावार इव कीटकः ॥ २३१ ॥ यथा हि भरतो वर्णैर्वर्णयत्यात्मनस्तनुम् । नानारूपाणि कुर्वाणस्तथात्मा कर्मजास्तनूः ॥ २३२ ॥ अमित्रो न विमो- क्तव्यः कृपणो बह्वपि ब्रुवन् । कृपा न तस्मिन्कर्तव्या हन्यादेवापकारिणम् ॥ २३३ ॥ अमित्रो मित्रता याति मित्रं चापि प्रदुष्यति । सामर्थ्ययोगात्कार्याणामनित्या वै सदागतिः ॥ २३४ ॥ बुद्धिः प्रभावस्तेजश्च सत्त्वमुत्थानमेव च । व्यवसायश्च यस्य स्यात्तस्य वृत्तिभयं कुतः ॥ २३५ ॥ अमृतं चैव मृत्युश्च द्वयं देहे प्रतिष्ठितम् । मृत्युरापद्यते
संकीर्णप्रकरणम् ३८३
मोहात्सत्येनापघतेऽमृतम् ॥ २३६ ॥ बुद्धिमन्तं कृतप्रज्ञं शुश्रूषमनसूयकम् । दान्तं जितेन्द्रियं चापि शाको न स्पृशते नरम् ॥ २३७ ॥ बुद्धिमन्तं च मूढं च शूरं भीरुं जडं कविम् । दुर्बलं बलवन्तं च भागिनं भजते सुखम् ॥ २३८ ॥ बुद्धिरूपगुणायुष्मत्पुत्रान्विद्याविशारदान् । प्राप्नुवन्ति नरा. सर्वे सुकृतैः पूर्वजन्मनि ॥ २३९ ॥ बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत । तानि जङ्घाजघन्यानि भारप्रत्यवराणि च ॥ २४० ॥ दिशो वास. पात्रं करकुहरमेनाः प्रणयिनः समाधानं निद्रा शयनमवनी मूलमशनम् । कदैतत्सम्पूर्णं मम हृदयवृत्तेरभिमतं भविष्यत्यत्युग्रं परमपरितोषोपचितये ॥ २४१ ॥ तप सीमा मुक्ति सकलगुणसीमा वितरण कलासीमा काव्यं जननसुखसीमा सुवदना । भियः सीमा मृत्यु. सुकृतकुलसीमा-श्रितभृतिः क्षुधासीमाञ्चान्तः श्रुतिमुखरसीमा हरिकथा ॥२४२॥ यदा विनाशकालो वै लक्ष्यते दैवनिर्मितः । तदा वै विपरीतेषु मनः प्रकुरुते नरः ॥ २४३ ॥ व्यालाश्रयापि विफलापि सकण्टकापि वक्रापि पङ्किलभवापि दुरासदापि । गन्धेन बन्धुरसि केतकि सर्वजन्तोरेको गुणः खलु निहन्ति समस्तदोषान् ॥ २४४ ॥ प्रेयान्सोऽहं त्वमपि च मम प्रेयसीति प्रवादस्त्वं मे प्राणा अहमपि तवासीति हन्त प्रलापः । त्वं मे ते स्यामहर्माप च यत्तच्च नो साधु राधे व्यवहारे नौ नहि समुचितो युष्मदस्मत्प्रयोगः ॥ २४५ ॥ उत्थिता एव पूज्यन्ते जनाः कार्यार्थिभिर्नरैः । शत्रुवत्पतितं को नु वन्दते मानवं पुनः ॥ २४६ ॥ उत्पततोऽन्तरीक्षं वै गच्छतोऽपि महीतलम् । धावत. पृथिवीं सर्वो नादत्तमुपतिष्ठते ॥२४७॥ उत्पन्नमापदं यस्तु समाधत्ते स बुद्धिमान् । वणिजो भार्यया जारः प्रत्यक्षं निहुतो यथा ॥ २४८ ॥ उपशमफलाद्विद्याबीजात्फलान्तरमिच्छता भवति विकलो यत्प्रारम्भस्तदत्र किमद्भुतम् । नियतविषया ह्येते भावा न यान्ति विपर्ययं जनयति यतः शालेर्बीजं न जातु यवाङ्कुरम् ॥ २४९ ॥ एकः स्वादु न भुञ्जीत एकश्चार्थान्न चिन्तयेत् । एको न गच्छेदध्वानं नैकः सुप्तेषु जागृयात् ॥ २५० ॥ एकाकी गृहसत्यक्तः पाणिपात्रो दिगम्बरः । सोऽपि सवाञ्छते लोके तृष्णाया पश्य कौतुकम् ॥ २५१ ॥ एकाकी निःस्पृहः शान्तः पाणिपात्रो दिगम्बरः । कदा शंभो भविष्यामि कर्मनिर्मूलनक्षमः ॥२५२॥ द्वाविमौ न विराजते विपरीतेन कर्मणा । गृहस्थश्च निरारम्भः कार्यवांश्चैव भिक्षुक ॥२५३॥ आहारयति न स्वस्थो विनिद्रो न प्रबुध्यते । वक्ति न स्वेच्छया किंचित्सेवकः कि तु जीवति ॥ २५४ ॥ आयस तुर्यभागेन व्ययकर्म प्रवर्तयन् । अन्यूनतैलदीपोऽपि चिरं भद्राणि पश्यति ॥ २५५ ॥ आयत्यां गुणदोषज्ञस्तदात्वे क्षिप्रनिश्चयः । अतीते कार्यशेषज्ञः शत्रुभिर्नाभिभूयते ॥ २५६ ॥ आयत्या च तदात्वे च यत्स्याद्भावादपेशलम् । तदेव तस्य कुर्वीत न लोकद्विष्टमाचरेत् ॥२५७॥ एतत्कामफल लोके यद्वयोरकचित्तता । अन्यचित्तकृते कामे शवयोरिव सगमः ॥२५८॥ एतस्माद्विरमेन्द्रियार्थगहनादायासकादाश्रय श्रेयोमार्गमशेषदुःखशमनव्यापारदक्षं क्षणात् । आत्मौभावमुपैहि सत्यज निजा कल्लोललोला गतिं मा भूयो भज भङ्गुरा भवरतिं चेतः प्रसीदाधुना ॥ २५९ ॥ धैर्ये हि कार्ये सतत महद्भिः कृच्छ्रेऽपि कष्टेऽप्यतिसकटेऽपि । कृच्छ्राण्यकृच्छ्रेण समुत्तरन्ति धैर्येाच्छ्रिता ये प्रतिपत्तिदक्षाः ॥२६०॥ देहि देहीति जल्पन्ति त्यागिनोऽर्थार्थिनोऽपि च । आलोकयन्ति यावत्स्यादस्ति-नास्तीति न क्वचित् ॥ २६१ ॥ एते सत्पुरुषा. परार्थघटका. स्वार्थं परित्यज्य ये सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोघेन ये । तेऽमी मानुषराक्षसाः परहितं स्वार्थाय विघ्नन्ति ये ये तु घ्नन्ति निरर्थकं परहितं ते के न जानीमहे ॥ २६२ ॥ देवस्याम्बुसुचश्च नास्ति नियमः कोऽप्यानुकूल्यं प्रति व्यञ्जन् यः प्रियसत्कटं घटयते जन्तोः क्षणादप्रियम् । क्षिप्रं दीर्घनिदाघवासरवियत्सतापनिर्वापणा प्रादुष्कृत्य वनस्पतेः प्रकुरुते विद्युद्विसर्गे च यः ॥ २६३ ॥ देवी श्रीर्जनकआत्मजा दशमुखस्यासीद्गृहे रक्षसो नीता चैव रसातल भगवती वेदत्रयी दानवैः । गन्धर्वस्य मदालसा च तनया पातालकेतुच्छलाद्दैत्येन्द्रोऽपजहार हन्त विषमा वामा विधेर्वृत्तयः ॥२६४॥ किमशक्य बुद्धिमता किमसाध्यं निश्चयं दृढं दधताम् । किमशक्यं प्रियवचसा किमलभ्यमिहोद्यमस्यानाम् ॥ २६५ ॥ गन्धाप्यसौ भुवनविदिता केतकी स्वर्णवर्णा पद्माभ्रान्त्या चपलमधुपः पुष्पमध्ये पपात । अन्धीभूतः कुसुममर्जसा कण्टकैरूनपक्षः स्थातुं गन्तु द्वयमपि सखे नैव शक्तो द्विरेफः ॥ २६६ ॥ गवाथें ब्राह्मणार्थे च स्वाम्यर्थे स्त्रीकृतेऽथ वा । स्थानार्थे यस्त्यजेत्प्राणांस्तस्य लोकाः सनातनाः ॥ २६७ ॥ गावो गन्धेन पश्यन्ति वेदैर्नैव द्विजातयः । चारैः पश्यन्ति राजानश्चक्षुर्भ्यामितरे जना ॥ २६८ ॥ त्यागो गुणे गुणशताम्यधिको मतो मे विद्यापि भूषयति तं यदि किं ब्रवीमि । शौर्ये च नाम यदि तत्र नमोऽस्तु तस्मै तच्च त्रयं न च यदीर्घ्यति चित्रमेतत् ॥ २६९ ॥ त्याज्यं सुखं विषयसङ्गमजन्म पुंसा दुःखोपसृष्टमिति मूर्ख विचारणैषा । व्रीहीञ्जिहासति सितोत्तम-तण्डुलाढ्यान्को नाम मोस्तुवकणोपहितानितीर्था ॥२७०॥ दुर्गे त्रिकूटः परिखा समुद्रो रक्षासि योधा धनदाच्च वित्तम् । शास्त्रं च यस्योशनसा प्रणीत स रावणो दैववशाद्विपन्नः
३८४ सुभाषितरत्नभाण्डागारम् [ ७ प्रकरणम्
॥२७१॥ कर्मानुमेयाः सर्वत्र परोक्षगुणवृत्तयः । तस्मात्परोक्ष- वृत्तीना फलैः कर्म विभावयेत् ॥२७२॥ किं गजेन प्रभिन्नेन राजकर्मीण्यकुर्वता । स्थूलोऽपि यदि वाऽस्थूलः श्रेयानृत्यकरः पुमान् ॥२७३॥ किं चन्दनैः शर्करायुक्तैर्हिनैः शीतलैश्च किम् । सर्वे ते मित्रगात्रस्य कला नार्हन्ति षोडशीम् ॥ २७४ ॥ नोपभोक्तुं न च त्यक्तुं शक्नोति विषयाञ्जरी । अस्थि निर्द- शन. श्वेत्र जिह्वया लेढि केवलम् ॥ २७५ ॥ नो सत्येन मृगाङ्क एष वदनीभूतो न चेन्दीवरद्वन्द्वं लोचनता गतं न कनकैरप्यङ्गयष्टिः कृता । किं त्वेवं कविभिः प्रतारितमना- स्तत्त्वं विजानन्नपि त्वन्त्रासास्रियमयं वपुर्मृगदृशां मन्दो जनः सेवते ॥ २७६ ॥ दायादा व्ययभीरुतापहृतारब्धेर्भवेन्त्यु- न्नता भृत्याः प्रत्युपकारकातरमतेः कुर्युर्न केऽपि प्रियम् । राशीभूतधनस्य जीवितहृतौ शश्वद्यतेरन्निजा भूर्भर्तुः क्रियते द्विषेव रमसाल्लोभेन कि नाप्रियम् ॥ २७७ ॥ कोकिलोऽहं भवान्काकः समानः कालिमावयोः । अन्तरं कथयिष्यन्ति काकलीकोविदाः पुनः ॥२७८॥ क्व स दशरथः स्वर्गे भूत्वा महेन्द्रसुहृद्गतः क्व स जलनिधेर्वेला बद्धा नृपः सगरस्तथा । क्व स करतलाज्जातो वैन्यः क्व सूर्यतनुर्मनुर्ननु बलवता कालेनैते प्रबध्य निमीलिताः ॥ २७९ ॥ आदीर्घेण चलेन वक्रगतिना तेजस्विना भोगिना नीलाब्जद्युतिनाहिना वरमहं दष्टो न तच्चक्षुषा । दष्टे सन्ति चिकित्सका दिशि दिशि प्रायेण धर्मार्थिनो मुग्धाक्षीक्षणवीक्षितस्य न हि मे वैद्यो न चाप्यौष- धम् ॥ २८० ॥ आदौ चित्ते ततः काये सतां सञ्जायते जरा । असतां च पुनः काये नैव चित्ते कदाचन ॥२८१॥ अत्युक्तिं रहसि गतं विचित्रमल्पेन भाषमाणं च । उचित- प्रणयमपि नृपं सहसायी नोपसर्पन्ति ॥ २८२ ॥ दुर्जन- सङ्गतिरनर्थपरम्पराया हेतुः सतामधिगतं वचनीयमत्र । लङ्केश्वरे हरति दाशरथे. कलत्रं प्रामोति बन्धमथ दक्षिण- सिन्धुराजः ॥२८३॥ जलौकयोपमीयन्ते प्रमदा मन्दबुद्धिभिः । मृगीदृशा जलाकाना विचारान्महदन्तरम् ॥ २८४ ॥ जलौका केवलं रक्तमाददाना तपस्विनाम् । प्रमदा सर्वमा- दत्ते वित्तं वित्तं बल सुखम् ॥ २८५ ॥ कुलं वृत्तं च शौर्य च सर्वमेतन्न गण्यते । दुर्वृत्तेऽप्यकुलीनेऽपि जनो दातरि रज्यते ॥ २८६ ॥ दाता लघुरपि सेव्यो भवति न कृपणो महानपि समृद्ध्या । कूपोऽन्तःस्वादुजलः प्रीत्यै लोकस्य न समुद्रः ॥ २८७ ॥ निःश्वासोदीर्णहुतभुग्भूधूम्रीकृताननैः । वरमाशीविषैः सङ्गं कुर्यान्न त्वेव दुर्जनैः ॥ २८८ ॥ किं रुद्धः प्रियया कयाचिदथ वा सख्या ममोद्वेजितः किं वा कारण- गौरवं किमपि यन्नाद्यागतो वल्लभः । इत्यालोच्य मृगीदृशा करतले विन्यस्य वक्त्राम्बुजं दीर्घं निःश्वसितं चिरं च रुदितं शिक्षाश्च पुष्पस्रजः ॥ २८९ ॥ कालिदासकविता नवं वयो माहिषं दधि सशर्करं पयः । ऐणमासमबला च कोमला सम्भवन्तु मम जन्मजन्मनि ॥ २९० ॥ उपायो न जयो यादृग्विप्रोस्तादृश हेतिभिः । उपायज्ञोऽल्पकायोऽपि न शूरैः परिभूयते ॥ २९१ ॥ आगतं विग्रहं विद्वानुपायैः प्रशमं नयेत् । विजयस्य ह्यनित्यत्वादभ्रसेन न सपतेत् ॥ २९२ ॥ नैतद्विचित्रं मनुजार्थमाधिनः परावराणा परमस्य वेधसः ॥ अधोऽपि यत्स्पर्शनधौतपातकः प्राप्तार्मसाम्य त्वसता सुदुर्लभम् ॥ २९३ ॥ ये बालभावान्न पठन्ति विद्या ये यौवनस्था ह्यधनात्मदाराः ॥ ते शोचनीया इह जीव- लोके मनुष्यरूपेण मृगाश्चरन्ति ॥ २९४ ॥ दमेन हीनं न पुनन्ति वेदा यद्यप्यधीताः सह षड्भिरङ्गैः ॥ साङ्ख्यं च योगश्च कुलं च जन्म तीर्थाभिषेकश्च निरर्थकानि ॥२९५॥ कालो दैवं कर्म जीवः स्वभावो द्रव्यं क्षेत्रं प्राण आत्मा विकारः ॥ तत्सङ्घातो बीजरोहप्रवाहस्त्वन्मायैषा तन्निषेधः प्रपद्ये ॥ २९६ ॥ शत्रोरपत्यानि प्रियंवदानि नोपेक्षितव्यानि बुधैर्मनुष्यैः ॥ तान्येव कालेषु विपत्कराणि विषस्य पात्राण्यपि दारुणानि ॥ २९७ ॥ ऋतेन जीवेदवृतेन जीन्मिवृतेन जीवेत्प्रमितेन जीवेत् ॥ सत्यानृताभ्यामथवापि जीवेत् श्ववृत्तिमेका परिवर्जयेत्तु ॥ २९८ ॥ अक्रोधनः क्रोधनेभ्यो विशिष्टस्तथा तितिक्षुरतितिक्षोर्विशिष्टः ॥ अमानुषेभ्यो मानुषश्च प्रधानो विद्वांस्तथैवाविदुषः प्रधानः ॥ २९९ ॥ नास्तीदृश सवनन त्रिषु लोकेषु किञ्चन ॥ यथा मैत्री च लोकेषु दान च मधुरा च वाक् ॥ ३०० ॥ न तथा तप्यते विद्धः पुमान्बाणै. सुमर्मगै. ॥ यथा तुदन्ति मर्मस्था हृसता परुषेषवः ॥ ३०१ ॥ शूरस्त्वयुक्ता मृदुमन्दवाक्या जितेन्द्रियाः सत्यपराक्रमाश्च ॥ प्रागेव पश्चाद्विपरीतरूपा ये ते तु भृत्या न हिता भवन्ति ॥३०२॥ यस्यात्मबुद्धिः कुणपे त्रिधातुके स्वधीः कलत्रादिषु भौम इज्यधीः ॥ यत्तीर्थबुद्धिः सलिले न कर्हिचिज्जनेष्व- भिज्ञेषु स एव गोखरः ॥ ३०३ ॥ कं योजयेन्मनुजोऽर्थं लभेत निपातयन्नहृद्ददर्श हि गर्ते ॥ एव नराणा विषयस्पृहा च निपातयन्निरये त्वन्धकूपे ॥ ३०४ ॥ कृत्यं किमत्रास्य खलस्य जीवन न वा अमीषा च सता विहिसनम् ॥ द्वयं कथं स्यादिति संविचिन्त्य तज्ज्ञात्वाऽविशत्तुण्डमशेषदग्धहरिः ॥ ३०५ ॥ लोक. स्वयं श्रेयसि नष्टदृष्टिर्योऽर्थान्समीहेत निकामकामः । अन्योऽन्यवैरः सुखलेशहेतोरनन्तदुःखं न च वेद मूढः ॥ ३०६ ॥ सत्या क्षितौ किं कशिपॊ. प्रयासैर्बाहौ स्वसिद्धे ह्युपबर्हणैः किम् ॥ सत्यञ्जलौ कि पुरुधाऽऽन्नपात्र्या
संकीर्णप्रकरणम्
३८५
[स्तम्भः १]
दिग्वल्कलादौ सति किं दुकूलैः ॥ ३०७ ॥ भूतैराक्रम्य-
माणोऽपि धीरो दैववशानुगैः । तद्विद्वान्न चलेन्मार्गादन्व-
शिक्षं क्षितेर्व्रतम् ॥३०८॥ प्राणवृत्त्यैव संतुष्येन्मुनिर्नेवेन्द्रिय-
प्रियैः । ज्ञानं यथा न नश्येत नावकीर्येत वाङ्मनः ॥३०९॥
गुणैर्गुणानुपादत्ते यथाकाल विमुञ्चति ॥ न तेषु युज्यते देही
गोभिर्गा इव गोपतिः ॥ ३१० ॥ महीयसा पादरजोऽभिषेकं
निष्किञ्चनानां न वृणीत यावत् ॥३११॥ नवनीतोपमा वाणी
करुणाकोमलं मनः । वर्मबीजप्रसूतानामेतत्प्रत्यक्षलक्षणम्
॥ ३१२ ॥ कोकिलानां स्वरो रूपं नारीरूपं पतिव्रता ।
विद्या रूपं कुरूपाणां क्षमा रूपं तपस्विनाम् ॥ ३१३ ॥
किं जीवितेन धनमानविवर्जितेन मित्रेण किं भवति भीति-
सशङ्कितेन । सिंहव्रतं चरत गच्छत मा विषादं काकोऽपि
जीवति चिरं च बलिं च भुङ्क्ते ॥ ३१४ ॥ तन्मङ्गलं यत्र
मनः प्रसन्नं तज्जीवनं यन्न परस्य सेवा । तदर्जितं यत्स्व-
जनेन भुक्तं तद्वर्जितं यत्स्मरे रिपूणाम् ॥ ३१५ ॥ वेदादि-
शास्त्रमखिलं प्रपठन्तु लोका कुर्वन्तु नाम सततं क्षितिपाल-
सेवाम् । उग्रं तपः प्रतिदिनं प्रतिसाधयन्तु न श्रीस्तथापि च
मजत्यतिभाग्यहीनम् ॥ ३१६ ॥ त्यक्त्वात्मानमदैवपराननु-
ध्यान् उत्थानयुक्तान्पुरुषाद्धि लक्ष्मीः । अन्विष्य यत्नाद्वृणुया-
न्नृपेन्द्र तस्मात्सदोत्थानवता हि भाव्यम् ॥ ३१७ ॥ नित्य
छेदस्तृणानां धरणिविलिखनं पादयोश्चापमार्दन्र्दन्तानाम-
ल्पशौचं मलिनवसनता रूक्षता मूर्धजानाम् । द्वैसन्ध्ये चापि
निद्रा विवसनशयनं ग्रासहासातिरेकः स्वर्गे पीठे च वाद्यं
हरति धनपतेः केशवस्यापि लक्ष्मीम् ॥ ३१८ ॥ कुचेलिनं
दन्तमलोपधारिणं बह्वाशिनं निष्ठुरवाक्यभाषिणम् । सूर्योदये
ह्यस्तमयेऽपि शायिनं विमुञ्चति श्रीरपि चक्रपाणिनम् ॥३१९॥
तद्वर्यादधिकं यस्तु पुनरन्यत्स्वशक्तितः । निष्पादयति तं
प्राज्ञा प्रवदन्ति नरोत्तमम् ॥३२०॥ भिक्षार्थी जनमध्यसङ्ग-
रहितः स्वायत्तचेष्टः सदा दानादानविरक्तमार्गनिरतः कश्चि-
त्तपस्वी स्थितः । रथ्याकीर्णविशीर्णजीर्णवसनैरास्यूतकन्थाधरो
निर्मानो निरहंकृतिः शमसुधाभोगैकबद्धस्पृहः ॥ ३२१ ॥
रोहते सायकैर्विद्धं वनं परशुना हतम् । वाचा दुरुक्तं बीभत्स
न संरोहति वाक्क्षतम् ॥ ३२२ ॥ शय्या शैलशिला गृहं
गिरिगुहा वस्त्रं तरूणां त्वचः सारङ्गाः सुहृदो नुं क्षितिरुहा
वृत्तिः फलैः कोमलैः । येषां नैर्झरिणाम्बु पानमुचितं रत्नै
श्च विद्याङ्गना मन्ये ते परमेश्वराः शिरसि यैर्बद्धो न
सेवाञ्जलिः ॥३२३॥ स्वामिनि गुणान्तरज्ञे गुणवति भृत्यऽ-
नुवर्तिनि कलत्रे । मित्रे चानुपचर्ये निवेद्य दुःखं सुखी
भवति ॥ ३२४ ॥ ताम्बूलं कटु तिक्तमिश्रमधुरं क्षारं कषा-
[स्तम्भः २]
यान्वितं वातघ्नं कफनाशनं कृमिहरं दौर्गन्ध्यदोषापहम् ।
वक्त्रस्याभरणं मलापहरणं कामाग्निसंदीपनं ताम्बूलस्य सखे
त्रयोदश गुणाः स्वर्गेऽप्यमी दुर्लभाः ॥ ३२५ ॥ यः पित्रा
समुपात्तानि धनवीर्ययशांसि वै । न्यूनतां नयति भ्रांङ्गस्तमाहुः
पुरुषाधमम् ॥३२६॥ भोगा मङ्गुरवृत्तयो बहुविधास्तैरेव चायं
भवस्तत्कस्नेह कृते परिभ्रमय रे लोकाः कृतं चेष्टितैः ।
आशापाशशतोपशान्तिविशदं चेत समाधीयता काम्यो-
त्पत्तिवशे स्वधामनि यदि श्रद्धेयमस्मद्वचः ॥ ३२७ ॥ लज्जा
गुणौघजननी जननीमिव स्वामत्यन्तशुद्धहृदयामनुवर्तमानाः।
तेजस्विन सुखमसूनपि सत्यजन्ति सत्यव्रतव्यसनिनो न पुनः
प्रतिज्ञाम् ॥ ३२८ ॥ शीघ्रकृत्येषु कार्येषु नरो यदि विल-
म्बते । तत्कृत्यं देवतास्तस्य कोपाद्विघ्नन्त्यसंशयम् ॥ ३२९ ॥
आत्मभाग्यक्षतद्रव्यः स्त्रीद्रव्येणानुकम्पितः । अर्थतः पुरुषो
नारी या नारी माऽर्थत पुमान् ॥ ३३० ॥ दक्षता भद्रता
दार्थ्यं क्षान्तिः क्लेशसहिष्णुता । संतोषः शीलमुत्साहो मण्ड-
यन्त्यनुजीविनाम् ॥ ३३१ ॥ यदुपान्तं यशः पित्रा धनं
वीर्यमथापि वा । तन्न हापयते यस्तु स नरो मध्यमः
स्मृतः ॥ ३३२ ॥ प्रियेमेवाभिघातव्यं नित्यं सत्सु द्विषत्सु
च । शिखीव केकामधुरः प्रियवाक्कस्य न प्रियः ॥ ३३३ ॥
राज्ञो विपद्धन्धुवियोगदुःखं देशच्युतिर्दुर्गममार्गखेदः ।
आस्वाद्यतेऽस्याः कटु निष्फलायाः फल मयैतच्चिरजीवितायाः
॥ ३३४ ॥ वीतव्यसनमश्रान्तं महोत्साहं महामतिम् ।
प्रविशन्ति सदा लक्ष्म्यः सरित्पतिमिवापगाः ॥ ३३५ ॥
स्थानमुत्सृज्य गच्छन्ति सिंहाः सत्पुरुषा गजाः । तत्रैव
निधनं यान्ति काकाः कापुरुषा मृगाः ॥ ३३६ ॥ के वा न
सन्ति तामरसावतंसा हंसावलीवलयिनो जलसन्निवेशाः ।
कि चातकः फलमपेक्ष्य सवज्रपाता पौरदरीमुपगतो नव-
वारिधाराम् ॥३३७॥ मानमुद्वहतः पुंसो वरमापत्पदे पदे ।
मानहीनं सुरैः सार्धं विमानमपि सत्यजेत् ॥ ३३८ ॥
पुनर्दांराः पुनर्विन्तं पुनः क्षेत्रं पुन. पुन: । पुन: शुभाशुभं
कर्म शरीरं न पुनः पुनः ॥ ३३९ ॥ रथः शरीर पुरुषस्य
राजन्नात्मा नियन्तेन्द्रियाण्यस्य चाश्वाः । तैरप्रमत्तः कुशली
सदश्वैर्दान्तैः सुखं याति रथीव धीरः ॥ ३४० ॥ विधात्रा
रचिता रेखा ललाटेऽक्षरमालिका । न ता मार्जयितुं शक्तः
स्वबुद्ध्याप्यतिपण्डितः ॥३४१॥ सत्यं जना वच्मि न पक्ष-
पाताल्लोकेषु सर्वेषु च तथ्यमेतत् । नान्यन्मनोहारि नितम्बि-
नीभ्यो दुःखस्य हेतुर्न च कश्चिदन्यः ॥३४२॥ एकं भूमिपतिः
करोति सचिवं राज्ये प्रधानं यदा त मोहाच्छ्रयते मदः स
च मदाद्दासेन निर्विद्यते । निर्विण्णस्य पदं करोति हृदये
तस्य स्वतन्त्रस्पृहा स्वातन्त्र्यस्पृहया ततः स नृपतेः प्राणेष्वभि-
४० सु. र. भा.
| ३८६ | सुभाषितरत्नभाण्डागारम् | [ ७ प्रकरणम् ] |
|---|
| वामभागः | दक्षिणभागः |
|---|---|
| द्रुह्यति ॥ ३४३ ॥ सत्यमेव व्रतं यस्य दया दीनेषु सर्वथा ।<br>कामक्रोधौ वशे यस्य तेन लोकत्रयं जितम् ॥ ३४४ ॥ परं<br>क्षिपति दोषेण वर्तमानः स्वयं तथा । यश्च क्रुध्यत्यनीशानः<br>स च मूढतमो नरः ॥ ३४५ ॥ धनानि जीवितं चैव परार्थे<br>प्राज्ञ उत्सृजेत् । सन्निमित्तं वरं त्यागो विनाशे नियते सति<br>॥३४६॥ सनियच्छति यो वेगमुत्थितं क्रोधहर्षयोः। स श्रियो<br>भाजनं राजन् यश्चापत्सु न मुह्यति ॥ ३४७ ॥ परिचरि-<br>तव्याः सन्तो यद्यपि कथयन्ति नो सदुपदेशम् । यास्तेषां<br>स्वैरकथास्ता एव भवन्ति शास्त्राणि ॥ ३४८ ॥ श्रीमङ्गल्य-<br>त्प्रभवति प्रागल्भ्यात्सप्रवर्धते । दाक्ष्यात्तु कुरुते मूलं संयमा-<br>त्प्रतितिष्ठति ॥ ३४९ ॥ पञ्चभिः सम्भृतः कायो यदि पञ्चत्व-<br>मागतः । कर्मभिः स्वशरीरोत्थैस्तत्र का परिदेवना ॥ ३५०॥<br>धनहेतोर्य ईहेत तस्यानीहा गरीयसी । भूयान्दोषो हि<br>वित्तस्य यश्च धर्मस्तदाश्रयः ॥ ३५१ ॥ वाचाशौचं च मनसः<br>शौचमिन्द्रियनिग्रहः । सर्वभूतदयाशौचमेतच्छौचं परार्थिनाम्<br>॥ ३५२ ॥ हृष्यन्ति देवताः सर्वा गायन्ति ऋषयस्तथा ।<br>नृत्यन्ति पितरः सर्वे ह्यतिथौ गृहमागते ॥ ३५३ ॥ दुर्वृत्तं<br>वा सुवृत्तं वा सर्वपापरतं तथा । भर्तारं तारयेत्त्वेव भार्या<br>धर्मेषु निष्ठिता ॥ ३५४ ॥ न भिक्षा दुष्प्रापा पथि मम<br>महारामचरिते फलैः सम्पूर्णा भूरपि मृगसुचर्मापि वसनम् ।<br>सुखैर्वा दुःखैर्वा सदृशपरिपाकः खलु सदा त्रिनेत्रं कस्यक्त्वा<br>धनलवमदान्धं प्रणमति ॥ ३५५ ॥ यद्यपि भ्रातरः क्रुद्धा<br>भार्या वा कारणान्तरे । स्वभावतस्ते प्रीयन्ते नेतरः प्रीयते<br>जनः ॥ ३५६ ॥ ललाटदेशे रुधिरं सवेद्यच्छूरस्य यस्य<br>प्रविशेच्च वक्त्रे। तत्सोमपानेन समं भवेच्च संग्रामयज्ञे विधिवत्प्र-<br>दिष्टम् ॥३५७॥ मीनः स्नानपरः फणी पवनभुङ् मेषश्च पर्णा-<br>शनो गर्ते तिष्ठति मूषिकोऽपि विपिने सिंहो बको ध्यानवान् ।<br>शश्वद्भ्राम्यति चक्रिगौः परिचरन्देवैः सदा देवलः कि तेषा<br>फलमस्ति तेन तपसा तद्भावशुद्धि कुरु ॥ ३५८ ॥ बाहुवीर्ये<br>बलं राज्ञो ब्राह्मणो ब्रह्मविद्वली । रूपयौवनमाधुर्यं स्त्रीणा बल-<br>मनुत्तमम् ॥३५९॥ नश्यतो युध्यतो वापि तावद्भवति जीवि-<br>तम् । यावद्धाताऽसृजत्पूर्वे न यावन्मनसेप्सितम् ॥ ३६० ॥<br>पतिर्भार्यां संप्रविश्य गर्भो भूत्वेह जायते । जायायास्तद्धि<br>जायात्वं यदस्या जायते पुनः ॥ ३६१ ॥ दग्धं दग्धं त्यजति<br>न पुनः काञ्चनं कान्तिवर्णं छिन्नं छिन्नं त्यजति न पुनः<br>स्वादुतामिक्षुदण्डम् । घृष्टं घृष्टं त्यजति न पुनश्चन्दनं चारु-<br>गन्धं प्राणान्तेऽपि प्रकृतिविकृतिर्जायते नोत्तमानाम् ॥३६२॥<br>नाल्पीयसि निबध्नन्ति पदमुन्नतचेतसः । येषा भुवनलाभेऽपि<br>निःसीमानो मनोरथाः ॥ ३६३ ॥ छादयित्वात्मभावं हि<br>चला हि शठबुद्धयः । प्रहरन्ति च रन्ध्रेषु सोऽनर्थः | सुमहान्भवेत् ॥ ३६४ ॥ नात्यक्त्वा सुखमाप्नोति नात्यक्त्वा<br>विन्दते परम् । नात्यक्त्वा चाभयः शेते त्यक्त्वा सर्व सुखी<br>भव ॥ ३६५ ॥ तर्षच्छेदो न भवति पुरुषस्येह कल्पशत् ।<br>निवर्तते तदा तर्षः पापमन्तगतं यदा ॥ ३६६ ॥ दिवसे<br>सनिधानेन पिशुनप्रेरणा प्रभोः । ईर्ष्यालुना खरैणीव<br>रक्षितुं यदि पार्यते ॥३६७॥ कर्मणः फलनिर्वृत्तिं स्वयमश्नाति<br>कारकः । प्रत्यक्षं दृश्यते लोके कृतस्यापकृतस्य च ॥३६८॥<br>कं पृच्छामः सुराः स्वर्गे निवसामो वयं भुवि । कि वा<br>काव्यरसः स्वादुः कि वा स्वादीयसी सुधा ॥ ३६९ ॥ उर्वी-<br>पतेश्च स्फटिकाश्मनश्च शीलोञ्झितस्त्रीहृदयस्य चान्तः । अस-<br>निधानान्तसतस्थितीनामन्योन्चरागं कुरुते प्रवेशम् ॥३७०॥<br>आत्मोत्कर्षे न मार्गेत परेषा परिनिन्दया । खगुणेरैव<br>मार्गेत विप्रकर्षं पृथग्जनात् ॥३७१॥ कृतिनोऽपि प्रतीक्ष्यन्ते<br>सहायं कार्यसिद्धये । चक्षुष्मानपि नालोकाद्विना वस्तु न<br>पश्यति ॥ ३७२ ॥ किं देवकार्याणि नराधिपस्य कृत्वा विरोधं<br>विषयस्थितानाम् । तद्देवकार्यं जपयज्ञहोमा यस्याश्रुपाता न<br>पतन्ति राष्ट्रे ॥ ३७३ ॥ देयमार्तस्य शयनं स्थितश्रान्तस्य<br>चासनम् । तृषितस्य च पानीयं क्षुधितस्य च भोजनम्<br>॥ ३७४ ॥ राजन्नजन्यपाध्यायौ देवी यच्छिष्येद्रहः । तत्र<br>प्रजागरः कर्तुमसर्वज्ञैर्न शक्यते ॥३७५॥ किं ते धनैर्बान्धवै-<br>र्वापि किं ते किं ते दारैर्ब्राह्मण यो मरिष्यसि । आत्मानम-<br>न्विच्छ गुहा प्रविष्टं पितामहस्ते क गतः पिता च ॥३७६॥<br>न व्याधयो नापि यमः प्राप्तं श्रेयः प्रतीक्षते । यावदेव<br>भवेत्कल्पस्तावच्छ्रेयः समाचरेत् ॥ ३७७ ॥ न व्याधिर्न विषं<br>तापस्तथान्याऽपि भूतले । दुःखाय स्वशरीरोत्थं मौर्ख-<br>मेतद्यथा नृणाम् ॥ ३७८ ॥ सुखाद्बहुतरं दुःखं जीविते<br>नास्ति संशयः । स्निग्धस्य चेन्द्रियार्थेषु मोहान्मरणमप्रियम्<br>॥ ३७९ ॥ सामुद्रास्तििमयो नृपाश्च सदृशा एके हृतानम्भस-<br>स्वसादेव कणाध्वनस्स जहतो जानन्ति ये दातृताम् ।<br>सर्वस्सास्फुटलुष्ठिताद्वितरतो लेशान्तिक्लान्येऽपि ये दुष्का-<br>यस्यकुलस्स हन्त कलयन्त्यन्तर्हिताधायिताम् ॥ ३८० ॥<br>सुखं च दुःख च भवाभवौ च लाभालाभौ मरणं जीवित च ।<br>पर्यायशः सर्वमेते स्पृशन्ति तस्माद्धीरो न च हृष्येन्न शोचेत्<br>॥ ३८१ ॥ कृषिका रूपनाशाय अर्थनाशाय वाजिनः ।<br>शालको गृहनाशाय सर्वनाशाय पावकः ॥ ३८२ ॥<br>एको बहूना मूर्खाणा मध्ये निपतितो बुधः । पद्मः पय-<br>स्तरङ्गाणामिव विप्लवते ध्रुवम् ॥ ३८३ ॥ निजात्सुपततः<br>शत्रून्पञ्च पञ्चप्रयोजनान् । यो मोहान्न निगृह्णाति<br>तमापद्ग्रसते नरम् ॥ ३८४ ॥ ज्ञानं सता मानमदादिनाशनं<br>केषांचिदेतन्मदमानकारणम् । स्थानं विविक्तं गमिना |
संकीर्णप्रकरणम् ३८७
विमुक्तये कामातुगणमतिकामकारणम् ॥ ३८५ ॥ तद्भोजन यद्विजभुक्तशेषं तन्मोहदं यत्क्रियते' परस्मिन् । सा प्राज्ञता या न करोति पाप दम्भं विना य. क्रियते स धर्म. ॥ ३८६ ॥ धर्मात्पैजवनो राजा चिराय बुभुजे भुवम् । अधर्माच्चैव नहुष प्रतिपेदे रसातलम् ॥ ३८७ ॥ कः स्वभावगभीराणा लक्षयेद्वहिरापदम् । वालापत्येन भृत्येन यदि सान प्रकाश्यते ॥३८८॥ नास्ति धर्मसमो बन्धुर्नास्ति धर्मसमा क्रिया । नास्ति धर्मसमो देव. सत्य सत्यं वदाम्यहम् ॥३८९॥ नास्ति सत्यात्परो धर्मो नानृतात्पातक परम् । श्रुतिर्हि सत्यं धर्मश्च तस्मात्सत्य न लोपयेत् ॥३९०॥ एष ते विद्रुमच्छाया मारुमार्ग इवाधर । कस्य नो तनुते तन्वि पिपासाकुलित मन. ॥ ३९१ ॥ नावज्ञया प्रदातव्यं किचिद्वा केनचित्क्वचित् । अवज्ञा हि यद्दत्त दातुस्तद्दोष- मावहेत् ॥ ३९२ ॥ एकीभूय स्फुटमिव किमप्याचचद्भिः प्रलीनैरैविर्भूतै. खग कति कृता. स्वान्त ते विप्रलम्भा । तस्मादेषा त्यज परिचय चिन्तय म्वव्यवस्थामा- भाषस्ते किमु न विदितः पण्डितः खण्डित. स्यात् ॥३९३॥ नाश्रमः कारण धर्मे क्रियमाणो भवेद्धि स । अतो यदात्मनोऽपथ्यं परेषा न तदाचरेत् ॥ ३९४ ॥ जलाहतौ विशेषेण विद्युतामिव द्युतिः । आपदि स्फुरति प्रज्ञा यस्य धीरः स एव हि ॥ ३९५ ॥ नाभूतिकालॆषु फलं ददन्ति शिल्पानि मन्त्राश्च तथौषधानि । तान्येव कालेन समाहितानि सिद्ध्यन्ति वर्धन्ति च भूतिकाले ॥ ३९६ ॥ देशकालविहीनानि कर्माणि विपरीतनन् । क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव ॥ ३९७ ॥ ऐश्वर्यमदपापिष्ठा मदा पानमदादय । ऐश्वर्यमदमत्तो हि नापतित्वा विबुध्यते ॥३९८॥ कुलोद्गत सत्यमुदारविक्रम स्थिर कृतज्ञ धृतिमन्त- मूर्जितम् । अतीव दातारमुपेतवत्सल सुदुष्प्रसाध्य प्रवदन्ति विद्विषम् ॥ ३९९ ॥ ऐश्वर्यात्सङ्घसम्बन्धं न कुर्याच्च कदा- चनं । गते च गौरव नास्ति आगते च धनक्षय. ॥४००॥ कन्या वरयते रूपं माता वित्तं पिता श्रुतम् । बान्धवा कुलमिच्छन्ति मिष्टान्नमितरे जना. ॥ ४०१ ॥ नारभेतान्य- सामर्थ्यात्पुरुष. कार्यमात्मन. । मतिसाम्य द्वयोर्नास्ति कार्येषु कुरुनन्दन ॥ ४०२ ॥ एष स्वभावो नारीणामनुभूय पुरा सुखम् । अल्पामप्यापद प्राप्य दुष्यन्ति प्रजहत्यपि ॥४०३॥ धनेन वाससा प्रेम्णा श्रद्धयामृतभाषणैः । सततं तोषये- द्दारान्नाप्रिय क्वचिदाचरेत् ॥ ४०४ ॥ का तव कान्ता कस्ते पुत्र. संसारोऽयमतीव विचित्र । कस्य त्वं वा कुत आया- तस्तत्त्वं चिन्तय तदिदं भ्रातः ॥ ४०५ ॥ ते चापि निपुणा वैद्याः कुशलाः सम्भृतौषधाः । व्याधिभि. परिक्लिश्यन्ते मृगा व्याधैरिवार्दिता ॥ ४०६ ॥ काले महिष्णुर्गिरिवदमहिष्णुश्च वह्नित् । स्कन्धेनापि वहेच्छत्रुन्प्रियाणि समुदाहरन् ॥ ४०७ ॥ ऐन्द्रादर्चिष. कामी शिशिर हव्यवाहनम् । अबलाविरहदशविह्वलो गणयत्ययम् ॥ ४०८ ॥ पुनर्विन्तं पुनर्मित्रं पुनर्भार्या पुनर्मही । एतत्सर्वं पुनर्लभ्यं न शरीर पुन. पुन. ॥ ४०९ ॥ कश्चिद्राम्रवणं छित्त्वा पलाश्राश्च निषिञ्चति । पुष्प दृष्ट्वा फले गृद्ध न शोचति फलागमे ॥ ४१० ॥ देवो गजा गुरुर्भार्या वैद्यनक्षत्रपाठका. । रिक्तहस्ता न गच्छन्ति गते कार्ये न सिध्यति ॥ ४११॥॥ त्वन्मुखं कमलं चेति द्वयोरप्यनयोर्भिदा । कमलं जलसरोहि त्वन्मुखं त्वद्वपुःश्रयम् ॥ ४१२ ॥ परोऽप्यपत्य हितकृद्यथो- षधा स्वदेहोऽप्यायमयत्सुतोऽहित. । छिन्द्यात्तदङ्ग यदुता- त्मनोऽहितं शेषं सुखं जीवति यद्विवर्जनात् ॥ ४१३ ॥ क श्रद्धास्यति भूताथ सर्वो मा तुलयिष्यति । शङ्कनीया हि लोकेऽस्मिन्निष्प्रतापा दरिद्रता ॥ ४१४ ॥ पूर्व वयसि कर्माणि कृत्वा पापानि ये नराः । पश्चाद्गङ्गा निषेवन्ते तेऽपि यान्त्युत्तमा गतिम् ॥ ४१५ ॥ तरुणिसमारम्भे तस्या शरीरसरोवर मरभस मनोईस श्रीमन्प्रयासि कथं पुन. । श्रवणलतिकापाशौ पाश्चे प्रसारितपातितौ हतविधि- वशाद्वन्धायान्धो न पश्यति कि भवान् ॥ ४१६ ॥ पीतः क्रुद्धेन तातश्चरणतलगहतो वल्लभोऽन्येन रोषादाऽऽस्वाल्य्या- द्विप्रवर्यैः स्ववदनविवरे धार्यते वैरिणी मे । गेह मे छेद- यन्ति प्रतिदिवसमुमाकान्तपूजा निमित्तत्तात्तस्मात्खिन्ना सदाहं द्विजकुलनिलय नाथ युक्त त्यजामि ॥ ४१७ ॥ दूर्वाया भूषणं पत्र वृक्षाणा भूषण सुमम् । स्ववृत्तिर्भूषणं पुंसा नारीणा भूषणं पति ॥ ४१८ ॥ कृतवैरे न विश्वासः कार्यस्त्विह सुहृद्यपि । छन्न सतिष्ठते वैर गूढोऽग्निरिव दारुषु ॥ ४१९ ॥ द्विजातिपूजाभिरतो दाता ज्ञातिषु चार्जवी । क्षत्रिय. शीलमाञ्श्चिर पाल्यते महीम् ॥ ४२० ॥ धनहीनो न हीनश्च धनिक. स सुनिश्चयात् । विद्यारत्नेन यो हीनः स हीन सर्ववस्तुषु ॥ ४२१ ॥ परकाव्येन कवय. परद्रव्येण चेश्वराः । निर्लोठितेन स्वकृतिं पुष्णन्त्यद्यतने क्षणे ॥ ४२२ ॥ धननाशोऽधिक दुःखं मन्ये सर्वमहत्तरम् । ज्ञातयो ह्यवमन्यन्ते मित्राणि च धनाच्युतम् ॥ ४२३ ॥ तीर्थसेवनमौनभागपि तिमि. सक्तः स्वकुल्याशने वाताशान्न्यसते शिखी घनपयोमात्राशनोऽप्यन्वहम् । विश्व- स्ताञ्चलचारिण प्रकटितध्यानाऽपि बुद्धे बक सत्कर्माचरणे- ऽपि दोषविकृतौ न प्रत्यय. पापिनाम् ॥ ४२४ ॥ कृतविद्योऽपि वलिना व्यक्त रागेण रज्यते । रागानुरक्त चित्तस्तु कि न कुर्यादसाम्प्रतम् ॥ ४२५ ॥ त्वया
३८८ सुभाषितरत्नभाण्डागारम् [ ७ प्रकरणम्
नीलोत्पलं कर्णे खरेणास्त्रं शरासवे । मयापि मरणे चेतन्मयमेतत्समं कृतम् ॥ ४२६ ॥ धनक्षयः शिष्टगर्हा सदाचारविवर्जनम् । ज्ञातिभिः पीडनं चैव धूतासक्तधिया नृणाम् ॥ ४२७ ॥ त्रासहेतोर्विनीतिस्तु क्रियते जीविता- शया । पञ्चत्वं चेद्गमिष्यामि कि सिंहानुनयेन मे ॥ ४२८ ॥ निर्दहति कुलशेषं ज्ञातीना वैरसंभवः क्रोधः । वनमिव घनपवनाहततरुवरसंघर्षसंभवो दहनः ॥ ४२९ ॥ पयोमुचः परीतापं हरन्त्येव शरीरिणाम् । नन्वात्मलाभो महता परदुःखोपशान्तये ॥ ४३० ॥ त्यजेद्धर्मं दयाहीनं विद्याहीन गुरुं त्यजेत् । त्यजेत्क्रोधमुखी भार्या निःस्नेहान्बान्धवांस्त्य- जेत् ॥ ४३१ ॥ त्यजेत सचयान्साक्षात्तज्ज्ञानेक्षान्वहेत वा । नहि सचयवान्कश्चिद्दृश्यते निरुपद्रवः ॥ ४३२ ॥ नौका च खलजिह्वा च प्रतिकूलप्रवर्तिनी । प्रतारणाय लोकाना दारुणा केन निर्मिता ॥ ४३३ ॥ तलवद्दृश्यते व्योम खद्योतो हव्यवाडिव । न चैवास्ति तलं व्योम्नि खद्योते न हुताशनः ॥ ४३४ ॥ नोपभोगो न वा दानं बन्धुना भरणं न वा । तथापि गुरुता धत्ते नृणा सरक्षितं धनम् ॥ ४३५ ॥ द्वावेव कथितौ सद्भि पन्थानौ वदता वर । अहिंसा चैव सत्य च यत्र धर्म प्रतिष्ठित ॥ ४३६ ॥ तृणोल्कया जायते जातरूपं वृत्तेन भद्रो व्यवहारेण साधुः । शूरो भयेष्वर्थकृच्छ्रेषु धीरः कृच्छ्रास्वापत्सु सुहृदश्चारयश्च ॥ ४३७॥ निर्गुणस्य हतं रूपं दुःशीलस्य हतं कुलम् । असिद्धस्य हता विद्या अभोगेन हतं धनम् ॥ ४३८ ॥ दोग्ध्री धान्य हिरण्य च मही राज्ञा सुरक्षिता । नित्यं स्वेभ्यः परेभ्यश्च तृप्ता माता यथा पयः ॥ ४३९ ॥ मितं भुङ्क्ते संविभज्याश्रितेभ्यो मितं स्वपित्यमितं कर्म कृत्वा । ददात्यमित्रेष्वभियाचितः सं तमात्मवन्तं प्रजहत्यनर्थाः ॥ ४४० ॥ यत्र सूक्तं दुरुक्तं च समं स्यान्मधुसूदन । न तत्र प्रलपेत्प्राज्ञो बधिरेष्विव गायकः ॥ ४४१ ॥ भिषजो भेषजं कर्तुं कस्मादिच्छन्ति रोगिणाम् । यदि कालेन पच्यन्ते भेषजैः कि प्रयोजनम् ॥ ४४२ ॥ मूर्खस्तु परिहर्तव्यः प्रत्यक्षो द्विपदः पशुः । भिनत्ति वाक्यशल्येन अदृशं कण्टको यथा ॥ ४४३ ॥ यत्रोदकं तत्र वसन्ति हंसास्तथैव शुष्कं परिवर्जयन्ति । न हंसतुल्येन नरेण भाव्यं पुनस्त्यजन्ते पुनराश्रयन्ते ॥ ४४४ ॥ भूतानामपरः कश्चिद्धिंसायां सततोत्थितः । वञ्चनाया च लोकस्य स सुखेष््वेव जीर्यते ॥ ४४५ ॥ मृत्योर्वा गृहमेतद्वै या ग्रामे वसतो रतिः । देवानामेष वै गोष्ठो यदारण्यमिति श्रुतिः ॥ ४४६ ॥ यः सर्वकालमबुधैः परिहस्यमानो मूलाङ्कुराद्यपि न जातु पुरस्करोति । व्यापत्सु शाखविटपी स फलं प्रसूय पुंसः किलैकपद एव लुनात्यलक्ष्मीम् ॥ ४४७ ॥ भेषज्यमेतद्दुःखस्य यदेतन्नानु- चिन्तयेत् । चिन्त्यात्मानं हि न व्येति भूयश्चापि प्रवर्धते ॥ ॥ ४४८ ॥ पुष्पं पुष्प विचिन्वीत मूलच्छेदं न कारयेत् । मालाकार इवारामे न यथाङ्गारकारकः ॥ ४४९ ॥ भक्त द्वेषो जडे प्रीतिः सुरुचिर्गुरुसङ्गने । मुखे कटुकता नित्यं धनिना ज्वरिणामिव ॥ ४५० ॥ यत्सग्रहो रत्नमहौषधीना करोति सर्वव्यसनावसानम् । त्यागेन तद्यस भवेन्नमोऽस्तु चित्रप्रभावाय धनाय तस्मै ॥ ४५१ ॥ उपकार करोम्यस्य ममाप्येष करिष्यति । अय चापि प्रतीकारो रामसुग्रीव- योरिव ॥ ४५२ ॥ महाबलान्वयस्य महानुभावान्वयशास्य भूमि धनधान्यपूर्णाम् । राज्यानि हित्वा विपुलाश्च भोगान्गतान्नरेन्द्वान्वशमन्तकस्य ॥ ४५३ ॥ यथा खरश्चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य । एवं हि शास्त्राणि बहून्यधीत्य चार्थेषु मूढा खरवद्वहन्ति ॥ ४५४ ॥ फेनमात्रोग्रमे देहे जीवे शकुनिवत्स्थिते । अनित्ये प्रियसवासे कथं स्वपिषि पुत्रक ॥ ४५५ ॥ यदा विनाशो भूताना दृश्यते कालचोदितः । तदा कार्ये प्रमाद्यन्ति नराः कालवशं गताः ॥ ४५६ ॥ प्रिया वा मधुरा वा तु स्वाम्येष्वेव विराजते । क्षीरक्षणे प्रमाणं तु वाचः सुनयर्ककशाः ॥ ४५७ ॥ महादेवो देवः सरिदपि च सैवामरसरिद्गुहा एवागार वसनमपि ता एव हरितः । सुहृद्वा कालोऽयं व्रतमिदमदैन्यव्रतमिदं कियद्वा वक्ष्यामो वटविटप एवास्तु दयिता ॥ ४५८ ॥ यथा तैलक्षयाद्दीषः प्रह्रासमुपगच्छति । तथा कर्मक्षयाद्दैव प्रह्रासमुपगच्छति ॥ ४५९ ॥ प्राप्य कार्य गरीयस्तु प्रियसमुत्सृज्य दूरतः । हितमेव हि बक्तव्यं सुहृदा मंत्रिणा सदा ॥ ४६० ॥ मत्या परीक्ष्य मेधावी बुद्ध्या सपांच चासकृत् । श्रुत्वा दृष्ट्वाथ विज्ञाय प्राज्ञैर्मैत्रीं समाचरेत् ॥ ४६१ ॥ यस्या यस्यामवस्थाया यत्करोति शुभाशुभम् । तस्या तस्यामवस्थाया तत्फलं समुपानुते ॥ ४६२ ॥ भर्तारं किल या नारी छायेवानुगता सदा । अनुगच्छति गच्छन्तं तिष्ठन्तं चानुतिष्ठति ॥ ४६३ ॥ महान्तमप्यर्थम- धर्मयुक्तं यः सत्यजत्यनपकृष्ट एव । सुखं सुदुःखान्यवमुच्य शेते जीर्णां त्वचं सर्प इवावमुच्य ॥ ४६४ ॥ यस्य चित्तं द्रवीभूतं कृपया सर्वजन्तुषु । तस्य ज्ञानेन मोक्षेण कि जटाभस्मलेपनैः ॥ ४६५ ॥ मदरक्तस्य हंसस्य कोकिलस्य शिखण्डिन । हरन्ति न तथा वाचो यथा साधु-