वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
[अ० ३४ श्लो० ६४-९१] वायुपुराणम् । ११३
( जम्बूद्वीपवर्णनम )
यद्यद्यस्य हि यत्पार्श्वं पर्वताधिपतेर्ऋषिः । तत्तद्देवस्य वेदासौ ब्रह्मैवं वेद कृत्स्नशः ॥ ६४
मणिरत्नमयं चित्रं नानावर्णप्रभायुतम् । अनेकवर्णनिचयं सौवर्णमरुणप्रभम् ॥ ६५
कान्तं सहस्रपर्वाणं सहस्रोदककन्दरम् । सहस्रशतपत्रं तं विद्धि मेरुं नगोत्तमम् ॥ ६६
मणिरत्नार्पितस्तम्भैर्मणिचित्रितवेदिकैः । सुवर्णमणिचित्राङ्गं तथा विद्रुमतोरणैः ॥ ६७
विमानयनैः श्रीमाद्भिः शतसंख्यैर्दिवौकसाम् । प्रभादीपितपर्यन्तं मेरुं पर्वणि पर्वणि ॥ ६८
तस्य पर्वप्रहस्रेऽस्मिन्नानाश्रयविभूषिते । सर्वदेवनिकायानि सांनिविष्टान्यनेककः ॥ ६९
तमावसद्धोर्ध्वतले देवदेवश्चतुर्मुखः । ब्रह्मा ब्रह्मविदां श्रेष्ठो वरिष्ठस्त्रिदिवौकसाम् ॥ ७०
महाभुवनसम्पूर्णैः सर्वैः कामफलप्रदैः । महापुरसहस्रैस्तं दिक्ष्वनेकसमाकुलम् ॥ ७१
तत्र ब्रह्मसभा रम्या ब्रह्मर्षिगणसेविता । नाम्ना मनोवती नाम सर्वलोकेषु विश्रुता ॥ ७२
तत्रेशानस्य देवस्य सहस्रादित्यवर्चसम् । महाविमानसंस्थस्य महिम्ना वर्तते सदा ॥ ७३
तत्र सार्षिगणा देवाश्चतुर्वक्त्रस्य ते तदा । तदेव तेजसां राशिर्देवानां तत्र कीर्त्यते ॥ ७४
तत्राऽऽस्ते श्रीपतिः श्रीमान्स साक्षः पुरंदरः । उपास्थानस्त्रिदशैर्महायोगैः सुरर्षिभिः ॥ ७५
तत्र लोकपतेः स्थानमादित्यसमवर्चसः । महेन्द्रस्य महाराजः सर्वसिद्धैर्नमस्कृतम् ॥ ७६
तामिन्द्रलोकं लोकस्य ऋद्ध्या परमया युतम् । दीप्यते त्वमरश्रेष्ठैस्त्रिदशैर्नित्यसेवितम् ॥ ७७
द्वितीयेऽप्यन्तरतटे वैदिश्ये पूर्वदक्षिणे । नानाधातुशतैश्चित्रैः सुरम्यमतितेजसम् ॥ ७८
नैकरत्नार्चिततलमनेकस्तम्भसंयुतम् । जाम्बूनदकृतोद्यानं नानारत्नसुवेदिकम् ॥ ७९
कूटागारैर्विनिक्षिप्तमनेकैरभ्रनोच्चमैः । महाविमानं प्राथितं भास्वरं जातवेदसम् ॥ ८०
सा हि तेजोवती नाम हुताशस्य महासभा । साक्षात्तत्र सुरश्रेष्ठः सर्वदेवमुखोऽनलः ॥ ८१
शिखाशतसहस्राढ्यो ज्वालामाली विभावसुः । स्तूयते हूयते चैव तत्र सार्षिगणैः सुरैः ॥ ८२
अधिदैवकृतं विप्रैर्विशेषः स तु उच्यते । सविभागं च तेजश्च सर्व ए(मे)व न संशयः ॥ ८३
भोगान्तरमनुप्राप्त एकत्रतेजोविभुः स्मृतः । पृथक्त्वं च हि युक्त्या तु कार्यकारणमिश्रितम् ॥ ८४
तमाभं लोकलोकज्ञैस्तद्गीयैस्ततपराक्रमैः । महात्मभिर्महासिद्धैर्महाभागैर्नमस्कृतम् ॥ ८५
तृतीयेऽप्यन्तरतट एवमेव महासभा । वैवस्वतस्य विज्ञेया लोके ख्याता सुसंयमा ॥ ८६
तथा चतुर्थदिग्देशे नैर्ऋत्याधिपतेः सभा । नाम्ना कृष्णाञ्जना नाम विरूपाक्षस्य धीमतः ॥ ८७
पञ्चमेऽप्यन्तरतटे एवमेव महासभा । वैवस्वतस्य विज्ञेया नाम्ना शुभवती सती ॥
उदकाधिपतेः ख्याता वरुणस्य महात्मनः ॥ ८८
परोत्तरे तथा देशे षष्ठेऽन्तरतटे शिवे । वायौर्गन्धवती नाम सभा सर्वगुणोत्तरा ॥ ८९
सप्तमेप्यन्तरतटे नक्षत्राधिपतेः सभा । नाम्ना महोदया नाम शुद्धवैदूर्यवेदिका ॥ ९०
तथाऽष्टमेऽन्तरतट ईशानस्य महात्मनः । यशोवती नाम सभा सप्तकाञ्चनसुप्रभा ॥ ९१
१५
ऋषिभिर्देवगन्धवैरप्सरोभिर्महोरगैः । सेवितानि महाभागैरुपस्थानगतैः सदा ॥ ९३
११४ श्रीमद्वैपायनमुनिप्रणीतम्— [अ० ३४-३५श्लो० ९२ ९६-१-१४] (जम्बूद्वीपवर्णनम् )
महाविमानान्चेतानि दिक्ष्वष्टासु शुभानि हि । अष्टानां देवमुख्यानामिन्द्रादीनां महात्मनाम् ॥ ९२
ऋषिभिर्देवगन्धवैरप्सरोभिर्महोरगैः । सेवितानि महाभागैरुपस्थानगतैः सदा ॥ ९३
नाकपृष्ठं दिवं स्वर्गमिति यैः परिपठ्यते । वेदवेदाङ्गविद्भिर्हि शब्दैः पर्यायवाचकैः ॥ ९४
तदेतत्सर्वदेवानामधिवासे कृतात्मनाम् । देवलोको गिरौ तस्मिन्सर्वश्रुतिषु गीयते ॥ ९५
नियमैर्विविधैर्यज्ञैर्बहुभिर्नियतात्मभिः । पुण्यैरन्यैश्च विविधैर्नैकजातिशताजितैः ॥
प्राप्नोति देवलोकं तं स स्वर्ग इति चोच्यते ॥ ९६
इति श्रीमहापुराणे वायुप्रोक्ते जम्बूद्वीपवर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥
आदितः श्लोकानां समष्ट्यङ्काः—२७३६
अथ पञ्चत्रिंशोऽध्यायः ।
जम्बूद्वीपवर्णनम् ।
सूत उवाच—
यत्तद्वै कर्णिकामूलमिति वै संप्रकीर्तितम् । तद्योजनसहस्राणां सप्ततीनामधः स्मृतम् ॥ १
चत्वारिंशत्तथाऽष्टौ च सहस्राण्यत्र मण्डलम् । शैलराजवृतं रम्यं मेरुमूलमिति श्रुतिः ॥ २
तेषां गिरिसहस्राणामनेकेषु महोच्छ्रिताः । दिक्षु सर्वासु पर्यन्तैर्मर्यादाः पर्वताः स्मृताः ॥ ३
निकुञ्जकन्दरनदीगुहानिर्झरशोभिताः । बहुप्रासादकटकैस्तटैश्च कुसु्मोज्ज्वलैः ॥ ४
नितम्बपुष्पमालौघैः सानुभिर्धातुमण्डितैः । शिखरैर्हेमकपिलैर्नैकप्रस्रवणावृतैः ॥
शोभिता गिरयः सर्वे पृष्टे रत्नसमर्पितैः ॥ ५
विहंगशतसंघुष्टैः कुञ्जरैरुपमौरपि । सिंहशार्दूलशरभैर्नैकैश्चामरवारणैः ॥
नानावर्णाकृतिधरैः सेविता विविधैर्मृगैः ॥ ६
सप्ताधहारिकृष्णाङ्गमौकैकं दशपर्वतम् । बाह्यमाभ्यन्तरा ये तु त्रिवाहास्तु समाः स्मृतः ॥ ७
जठरो देवकूटश्च पूर्वस्यां दिशि पर्वतौ । तौ दक्षिणोत्तरायामावानीलानिषधायतौ ॥ ८
कैलासो हिमवांश्चैव दक्षिणोत्तरपर्वतौ । पूर्वपश्चायतावेतावर्णावान्तव्यवस्थितौ ॥ ९
येऽसौ मेरुर्द्विजश्रेष्ठाः प्रांशुः कनकपर्वतः । विष्कम्भं तस्य वक्ष्यामि तन्मे निगदतः शृणु ॥ १०
महापादास्तु चत्वारो मेरोरथ चतुर्दिशम् । यैर्धृतत्वान्न चलति सप्तद्वीपवती मही ॥ ११
दशयोजनसाहस्र आयामस्तेषु पठ्यते । देवगन्धर्वयक्षाणां नानारत्नोपशोभिताः ॥
नैकनिर्झरवप्राढ्या रम्यकन्दरनिर्मिताः ॥ १२
नितम्बपुष्पकादम्बैः शोभिताश्चित्रसानवः । मनःशिलादरीभिश्च हरितालतलैस्तथा ॥ १३
सुवर्णमणिचित्राभिर्गुहाभिश्च समन्ततः । शुद्धहिङ्गुलकप्रख्यैः काञ्चनेर्धातुमाण्डितैः ॥ १४
[अ० ३५ श्लो० १५-४२] वायुपुराणम् । ११५ (जम्बूद्वीपवर्णनम् ) वरकाञ्चनचितैश्च प्रवालैः समलंकृताः । रुचिराः शतपर्वाणः सिद्धवासा मुदान्विताः ॥ महाविमानैः श्रीमद्भिः समन्तात्परिदीपिताः ॥ १५ पूर्वेण मन्दरो नाम दक्षिणे गन्धमादनः । विपुलः पश्चिमे पार्श्वे सुपार्श्वश्चोत्तरे स्मृतः ॥ १६ तेषां सहस्रशृङ्गेषु वज्रवैदूर्यवेदिकाः । शाखासहस्रकलिताः सुमूलाः सुप्रतिष्ठिता ॥ १७ स्निग्धैर्नीलैर्घनैः पर्णैः संच्छन्नविविधाश्रयाः । अनेकयोजनोत्सेधाः सदा पुष्पफलोपगाः ॥ १८ यक्षगन्धर्वसेवाश्च सेविताः सिद्धचारणैः । महावृक्षाः समुत्पन्नाश्चत्वारो द्वीपकेतवः ॥ १९ मन्दरस्य गिरेः शृङ्गे महावृक्षः स केतुराट् । आलम्बशाखाशिखरः कन्दरश्चैव पादपः ॥ २० महाकुम्भप्रमाणैस्तु पुष्पैर्विकचक्रेसरैः । महागन्धैर्मनोज्ञैश्च शोभितः सर्वकालजैः ॥ २१ सहस्रमधिकं सोऽथ गन्धेनाऽऽपूरयन्दिशः । योजनानां समन्ताद्वै मन्दमारुतवीजितः ॥ २२ वरकेतुरेष प्रथितो भद्राश्वो नाम यो द्विजाः । यत्र साक्षाद्धृषीकेशः सिद्धसंघैर्महीयते ॥ २३ तस्य रुद्रकदम्बस्य तदा श्वेतहरो हरिः । प्राप्तवानमरश्रेष्ठः स तत्र सहितः पुरा ॥ २४ तेन चाऽऽलोकितं सर्वं द्वीपं द्विपदनायकाः । यस्य नाम्ना समाख्यातो भद्राश्वो नाम नामतः ॥ २५ दक्षिणस्यापि शैलस्य शिखरे देवसेविता । जम्बूः सदा पुष्पफला सदा माल्योपशोभिता ॥ २६ महामूलैर्महास्कन्धैः स्निग्धवर्णैर्विभूषिता । नवैः सदापुष्पफलैः शाखाभिश्चोपशोभिता ॥ २७ तस्या ह्यतिप्रमाणानि स्वादूनि च मृदूनि च । फलान्यमृतकल्पानि पतन्ति गिरिमूर्धनि ॥ २८ तस्माद्गिरिवरप्रस्थात्पुनः प्रस्यन्दवाहिनी । नदी जम्बूनादी नाम प्रवृत्ता मधुवाहिनी ॥ २९ तत्र जम्बूनदं नाम सुवर्णं ज्वलनप्रभम् । देवालंकारमतुलं जायते पापनाशनम् ॥ ३० देवदानवगन्धर्वा यक्षराक्षसपन्नगाः । तत्पिबन्त्यमृतप्रख्यं मधु जम्बूरसस्रवम् ॥ ३१ स केतुर्दक्षिणे द्वीपे जम्बूलोकेषु विश्रुता । यस्या नाम्ना स विख्यातो जम्बूद्वीपः सनातनः ॥ ३२ विपुलस्यापि शैलस्य पश्चिमस्य महात्मनः । जातः शृङ्गेऽतिसुमहानश्वत्थश्चैव पादपः ॥ ३३ विलाम्बिवरमालाढ्यः सुवर्णमणिवेदिकः । महोच्चस्कन्धविटपो नैकसत्त्वगुणालयः ॥ ३४ कुम्भप्रमाणैः सुस्वादैः फलैः सर्वर्तुकैः शुभैः । सकेतुः केतुमालानां देवगन्धर्वसेवितः ॥ ३५ केतुमालेति च यथा तस्या नाम प्रकीर्तितम् । तन्निबोधत विप्रेन्द्रा निरुक्तं नाम कर्मतः ॥ ३६ क्षीरोदमथने वृत्ते दैत्यपक्षे पराजिते । महासमरसंमर्दवृक्षक्षोभाविमर्दिता ॥ ३७ सहस्राक्षेण विहिता माला तस्य सुतानता । तस्य स्कन्धे समासक्त्या ह्यश्वत्थस्य वनस्पतेः ॥ ३८ सा तथैव महागन्धा ह्यम्लाना सर्वकामिकी । इज्यते सुमहाभागा विविधैः सिद्धचारणैः ॥ ३९ तस्य केतोः सदा माला देवदत्ता विराजते । पवनेनेरिता दिव्यं वाति गन्धं मनोरमम् ॥ ४० ताभ्यां नामाङ्कितो द्वीपः पश्चिमे बहुविस्तरः । केतुमाल इति ख्यातो दिवि चेह च सर्वशः ॥ ४१ स्वपार्श्वस्योत्तरे चापि शृङ्गे जातो महाद्रुमः । न्यग्रोधो विपुलस्कन्धोऽनेकयोजनमण्डलः ॥ ४२
सनत्कुमारा वरजा मानसा ब्रह्मणः सुताः । सप्त तत्र महाभागाः कुरवो नाम विश्रुताः ॥ ४५
११६ श्रीमहैपायनमुनिप्रणीतम्- [अ०३५-३६श्लो०४३-४७-१-१७] (भुवनविन्यासः)
माल्यदामकलापैश्च विविधैर्गन्धशालिभिः । शाखाविलम्बी शुशुभे सिद्धचारणसेवितः ॥ ४३ प्रवालकुम्भसदृशैर्मधुपूर्णैः फलैः सदा । स ह्युत्तरकुरूणां तु केतुवृक्षः प्रकाशते ॥ ४४ सनत्कुमारा वरजा मानसा ब्रह्मणः सुताः । सप्त तत्र महाभागाः कुरवो नाम विश्रुताः ॥ ४५ तत्र तैरागतज्ञानैः सत्त्वस्थैः पुण्यकीर्तिभिः । अक्षयं हेममपरं लोकं प्राप्तं सनातनम् ॥ ४६ तेषां नामाङ्कितो द्वीपः सप्तानां वै महात्मनाम् । दिवि चेह च विख्याता उत्तराः कुरवः सदा ॥४७
इति महापुराणे वायुप्रोक्ते जम्बूद्वीपवर्णनं नामपञ्चविंशोऽध्यायः । आदितः श्लोकानां समष्ट्यङ्काः-२७८३
अथ षट्त्रिंशोऽध्यायः ।
भुवनविन्यासः ।
सूत उवाच-- तेषां चतुर्णां वक्ष्यामि शैलेन्द्राणां यथाक्रमम् । अनुबन्धानि रम्याणि सर्वकालर्तुकानि च ॥ १ सारिकाभिर्मयूरैश्च चकोरैश्च मदोत्कटैः । शुकैश्च भृङ्गराजैश्च चित्रकैश्च समन्ततः ॥ २ जीवञ्जीवकनादैश्च हेमकानां च नादितैः । मत्तकोकिलनादैश्च वल्गूनां च निनादितैः ॥ ३ सुग्रीवकाञ्चनरवैः कलविङ्करुतैस्तथा । कूजितान्तरशब्दैश्च सुरम्याणि च सर्वशः ॥ ४ मदोत्कटैर्मधुकरैर्भ्रमरैश्च महालसैः । उपगीतवनान्तानि किन्नरैश्च क्वचित्क्वचित् ॥ ५ पुष्पवृष्टिं विमुञ्चन्ति मन्दमारुतकम्पिताः । तरवो यत्र दृश्यन्ते चारुपल्लवशोभिताः ॥ ६ स्तबकैर्मञ्जरीभिश्च ताम्रैः किशलयैस्तथा । मन्दवातवशाल्लोलैर्दोल्यायद्भिर्युतानि च ॥ ७ नानाधातुविचित्रैश्च कान्तरूपैः शिलाशतैः । शैलैः क्वचिद्विजश्रेष्ठा विन्यस्तैः शोभितानि च ॥ ८ देवदानवगन्धर्वैर्यक्षराक्षसपन्नगैः । सिद्धाप्सरोगणैश्चैव सेवितानि ततस्ततः ॥ ९ मनोहराणि चत्वारि देवाक्रीडनकान्यथ । चतुर्दिशमुदाराणि नाम्ना शृणुत तानि मे ॥ १० पूर्वं चैत्ररथं नाम दक्षिणं नन्दनं वनम् । वैभ्राजं पश्चिमं विद्यादुत्तरं सवितुर्व॑नम् ॥ ११ महावनेषु चैतेषु निविष्टानि यथाक्रमम् । अनुबन्धानि रम्याणि विहङ्गैः कूजितानि च ॥ १२ वनैर्विस्तीर्णतीर्थानि महापुण्यवनानि च । महानागाधिवासानि सेवितानि महात्मभिः ॥ १३ सुरसामलतोयानि शिवानि सुसुखानि च । सिद्धे देवासुरवरैरुपस्पृष्टजलानि च ॥ १४ छत्रप्रमाणैर्विकचैर्महागन्धैर्मनोहरैः । पुण्डरीकैर्महापत्रैरुत्पलैः शोभितानि च ॥ महासरांसि चत्वारि तानि वक्ष्यामि नामतः ॥ १५ अरुणोदं सरः पूर्वं दक्षिणं मानसं स्मृतम् । शीतोदं पश्चिमसरो महाभद्रं तथोत्तरम् ॥ १६ अरुणोदं च पूर्वेण ये च शैलास्ततः स्मृताः । तान्कीर्त्यमानांस्तत्त्वेन शृणुध्वं विस्तरान्मम ॥ १७
[अ० ३६-३७श्लो० १८-३३-१-५] वायुपुराणम् । ११७ ( भुवनविन्यासः ) शीतान्तश्च कुमुञ्जश्च सुवीरश्चाचलोत्तमः । विकङ्को मणिशीलश्च वृषभश्चाचलोत्तमः ॥ १८ मRole... महानीलोऽथ रुचकः सविन्दुर्मन्दरस्तथा । वेणुमांश्च सुमेधश्च निषधो देवपर्वतः ॥ १९ इत्येते पर्वतवरा अन्ये च गिरयस्तथा । पूर्वेण मन्दरस्यैते सिद्धवासा उदाहृताः ॥ २० सरसो मानसस्येह दक्षिणा ये महाचलाः । ये कीर्तिता मया ते वै नामतस्तान्निबोधत ॥ २१ शैलस्त्रिशिखरश्चापि शिशिरश्चाचलोत्तमः । कालिञ्जश्च पतङ्गश्च रुचकश्चैव सानुमान् ॥ २२ ताम्राभश्च विशाखश्च तथा श्वेतोदरो गिरिः । समूलो विषधारश्च रत्नधारश्च पर्वतः ॥ २३ एकशृङ्गो महामूलो गजशैलः पिशाचकः । पञ्चशैलोऽथ कैलासो हिमवांश्चाचलोत्तमः ॥ २४ इत्येते देवचरिता ह्युत्कृष्टाः पर्वतोत्तमाः । दिग्भागे दक्षिणे प्रोक्ता मेरोरमरवर्चसः ॥ २५ अपरेण सितोदस्य सरसो द्विजसत्तमाः । उत्तमा ये महाशैलास्तान्प्रवक्ष्ये यथाक्रमम् ॥ २६ सुवक्षाः शिखिशैलश्च कालो वैदूर्यपर्वतः । कपिलः पिङ्गलो रुद्रः सुरसश्च महाचलः ॥ २७ कुमुदो मधुमांश्चैव अञ्जनो मुकुटस्तथा । कृष्णश्च पाण्डरश्चैव सहस्रशिखरश्च ह ॥ २८ पारिजातश्च शैलेन्द्रास्त्रिशृङ्गश्चाचलोत्तमः । इत्येते पर्वतवरा दिग्भागे पश्चिमे स्मृताः ॥ २९ महाभद्रस्य सरस उत्तरपाणि श्रीमतः । ये मया पर्वताः प्रोक्तास्तान्वादिष्ये यथाक्रमम् ॥ ३० शङ्कुकूटो महाशैलो वृषभो हंसपर्वतः । नागश्च कपिलश्चैव इन्द्रशैलश्च सानुमान् ॥ ३१ नीलः कनकशुङ्गश्च शतशृङ्गश्च पर्वतः । पुष्पको मेघशैलश्च विराजश्चाचलोत्तमः ॥ जाराधिश्चैव शैलेन्द्र इत्येते उत्तराः स्मृताः ॥ ३२ एतेषां शैलमुख्यानामन्तरेषु यथाक्रमम् । स्थाल्योऽभ्यन्तरद्रोणश्च सरांसि च निबोधत ॥ ३३ इति श्रीमद्महापुराणे वायुप्रोक्ते भुवनविन्यासो नाम षट्त्रिंशोऽध्यायः ॥ ३६ ॥ आदितः श्लोकानां समष्ट्यङ्काः—२८१६
अथ सप्तत्रिंशोऽध्यायः । भुवनविन्यासः ।
सूत उवाच— शीतान्तस्याचलेन्द्रस्य कुमुञ्जस्यान्तरेण तु । द्रोण्यो विहङ्गसङ्घृष्टा नानासत्त्वनिषेविताः ॥ १ (* त्रियोजनशतायामा विस्तीर्णाः शतयोजनाः । सुरसामलपानीयैरम्यं तत्र सरोवरम् ॥ २ द्रोणायामप्रमाणैस्तु पुण्डरीकैः सुगन्धिभिः ।) सहस्रशतपत्रैर्हि महापद्मैर्लङ्कृतम् ॥ ३ महोरगैरध्युषितं + महाभोगैर्दुरासदैः । देवदानवगन्धर्वैरुपस्पृष्टं जलं शुभम् ॥ ४ पुण्यं तच्छीसरो नाम प्रकाशं दिवि चेह च । प्रसन्नजलसम्पूर्णं शरण्यं सर्वदेहिनाम् ॥ ५
* धनुश्चिह्नान्तर्गतग्रन्थो ड. पुस्तके नास्ति । + महाभोगैरित्यारभ्य सप्तचत्वारिंशाध्यायस्य- षोडशश्लोकस्थब्रह्मपातो निवसतीत्यन्तग्रन्थः ख. पुस्तके नास्ति ।
शाखासहस्रकलितैर्महास्कन्धैः समाकुलम् । फलैः सुवर्णसंकाशैर्हरितैः पाण्डुरैस्तथा ॥ ११
११८ श्रीमद्वैपायनमुनिप्रणीतम्— [अ० ३७ श्लो० ६-३०] (भुवनविन्यासः)
तत्र त्वेकं महापद्मं मध्ये पद्मवनस्य ह । कोटिपत्रप्रचारं तत्तरुणादित्यवर्चसम् ॥ ६ नित्यं व्याकोशमजरं चाञ्चल्याच्चातंमण्डलम् । चारुकेशरजालार्ढचं मत्तषट्पदनादितम् ॥ ७ तस्मिन्पद्मे भगवती साक्षाच्छ्रौर्नित्यमेव हि । लक्ष्म्याः पद्मं तदावासं मूर्तिमत्या न संशयः ॥ ८ सरसस्तस्य पूर्वस्मिंस्तरे सिद्धनिषेविते । सदा पुष्पफलं रम्यं तत्र विल्ववनं महत् ॥ ९ शतयोजनविस्तीर्णं त्रियोजनशतायतम् । अर्धक्रोशोच्चशिखरैर्महावृक्षैः सहस्रशः ॥ १० शाखासहस्रकलितैर्महास्कन्धैः समाकुलम् । फलैः सुवर्णसंकाशैर्हरितैः पाण्डुरैस्तथा ॥ ११ अमृतस्वादुसद्दृशैर्भेरीमात्रैः सुगन्धिभिः । शीर्यमाणैः पतद्भिश्च कीर्णा भूमिरिनरन्तरा ॥ १२ नाम्ना तच्छ्रीवनं नाम सर्वलोकेषु विश्रुतम् । गन्धर्वैः किन्नरैर्यक्षैर्महानागैश्च सेवितम् ॥ १३ सिद्धैश्चैव समाकीर्णं नित्यं विल्वफलाशिभिः । विविधैर्भूतसंघैश्च नित्यमेव निषेवितम् ॥ १४ तस्मिन्वने भगवती साक्षाच्छ्रौर्नित्यमेव हि । देवी संनिहिता तत्र सिद्धसंघैर्नमस्कृता ॥ १५ विकङ्कस्याचलेन्द्रस्य मणिशैलस्य चान्तरे । शतयोजनविस्तीर्णं द्वियोजनशतायतम् ॥ १६ विपुलं चम्पकवनं सिद्धचारणसेवितम् । पुष्पल्क्ष्म्यावृतं भाति ज्वलन्तामिव नित्यदा ॥ १७ अर्धक्रोशोच्चशिखरैर्महास्कन्धैः पलाशिनिः । प्रफुल्लशाखाशिखरैः पिञ्जरं भाति तद्वनम् ॥ १८ द्विबाहुपरिणाहैस्तैस्सिंहस्तायामविस्तरैः । मनःशिलाचूर्णनिभैः पाण्डुकेशरशालिभिः ॥ १९ पुष्पैर्मनोहरैर्व्याप्तं व्याकोशैर्गन्धशालिभिः । विराजते वनं सर्वं मत्तभ्रमरनादितम् ॥ २० तद्वनं दानवैर्देवैर्गन्धर्वैर्यक्षराक्षसैः । किन्नरैरप्सरोभिश्च महानागैश्च सेवितम् ॥ २१ तत्राऽऽश्रमं भगवतः कश्यपस्य प्रजापतेः । सिद्धसाध्यगणाकीर्णं नानाश्रुतिविभूषितम् ॥ २२ महानीलकुमुञ्जाभ्यामन्तरेऽप्यचलावथ ॥ महानद्याः सुखायास्तु तीरे सिद्धानिषेविते । पञ्चाशद्योजनायामं त्रिंशद्योजनविस्तरम् ॥ २३ रम्यं तालवनं तद्धि अर्धक्रोशोच्चमस्तकम् ॥ महामूलैर्महासारैः स्थिरैराविरलैः शुभैः । कुमुदाञ्जनसंस्थानैः परिवृत्तैर्महाफलैः ॥ २४ मृष्टगन्धरसोपेतंरुपेत्तं सिद्धसेवितम् ॥ माहेन्द्रस्य द्विपेन्द्रस्य तत्र वास उदाहृतः । ऐरावतस्य भद्रस्य सर्वलोकेषु विश्रुतम् ॥ २५ वेणुमन्तस्य शैलस्य सुमेधस्योत्तरेण च । सहस्रयोजनायामं विस्तीर्णं शतयोजनम् ॥ २६ वृक्षगुल्मलतागुच्छैः सर्ववीरुद्विवर्जितम् । दूर्वाप्रस्तारमेवाथ सर्वसत्त्वविवर्जितम् ॥ २७ तथा निषधशैलस्य देवशैलस्य चोत्तरे । सहस्रयोजनायामा शतयोजनविस्तृता ॥ २८ सर्वा ह्येकाशिला भूमिवृक्षवीरुद्विवर्जिता । आप्लुता पादमात्रेण ह्युदकेन समंततः ॥ २९ इत्येता ह्यन्तरद्रोण्यो नानाकाराः प्रकीर्तिताः । मेरोः पूर्वेण विपेन्द्रा यथावदनुपूर्वशः ॥ ३० इति श्रीमहापुराणे वायुप्रोक्ते भुवनविन्यासो नाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥ आदितः श्लोकानां समष्ट्यङ्काः--२८४६
[अ० ३८-श्लो० १-२८] वायुपुराणम्। ११९ ( भुवनविन्यासः )
अथाष्टत्रिंशोऽध्यायः। भुवनविन्यासः।
सूत उवाच-- अतः परं प्रवक्ष्यामि दक्षिणां दिशमाश्रिताः। या द्रोण्यः सिद्धचरिताः शृणु ता ह्यनुपूर्वशः॥ १ शिशिरस्याचलेन्द्रस्य पतङ्गस्यान्तरेण च। श्लक्ष्णभूमिःश्रिया युक्तं लतालङ्गितपादपम्॥ २ पृथुक्षेपोच्चशिखरैः पादपैरुपशोभितम्। उदुम्बरवनं रम्यं पक्षिसंघनिषेवितम्॥ ३ पक्वविद्रुमसंकाशैर्मधुपूर्णैर्मनोरमैः। ज्वलितं तद्वनं भाति महाकुम्भोपमैः फलैः॥ ४ तत्सिद्धयक्षगन्धर्वाः किंनरा उरगास्तथा। विद्याधराश्च मुदिता उपजीवन्ति नित्यशः॥ ५ प्रसन्नस्वादुसलिलास्तत्र नद्यो बहूदकाः। सुरसामलतोयास्ताः सरांसि च समन्ततः॥ ६ समन्ताद्योजनशतं तद्वनं परिमण्डलम्॥ ७ ताम्रवर्णस्य शैलस्य पतङ्गस्यान्तरेण तु। शतयोजनविस्तीर्णं द्वियोजनशतायतम्॥ ८ तरुणादित्यसंकाशैः पुण्डरीकैः समन्ततः। सहस्रपत्रैर्विकचैर्महापद्मौरलंकृतम्॥ ९ तथा भ्रमरसंलीनैः शतपत्रैः सुगन्धिभिः। प्रफुल्लैः शोभितजलं रक्तनीलैर्महोत्पलैः॥ १० सरोवरं महापुण्यं देवदानवसेवितम्। महोरगैरध्युषितं नीलजालाविभूषितम्॥ ११ तस्य मध्ये जनपदो ह्यायतः शतयोजनः। त्रिंशद्योजनविस्तीर्णो रक्तधातुविभूषितः॥ १२ तस्योपरि महारथ्या प्रांशुप्राकारतोरणा। नरनारीगणाकीर्णा स्फीता विभवविस्तरैः॥ १३ वलभीकूटनिर्यूहैर्मणिभक्तिविचित्रितैः। रत्नाचित्रार्पिततलैः श्लक्ष्णचित्रोत्तरच्छदैः॥ १४ महाभवनमालाभिर्महापांशुभिरुत्तमैः। विद्याधरपुरं तत्र शोभते भ्राजयच्छुभम्॥ १५ विद्याधरपतिस्तत्र पुलोमा तत्र विश्रुतः। चित्रवेषधरः स्रग्वी महेन्द्रसदृशद्युतिः॥ १६ दीप्तानां चित्रवेषाणां सूर्यप्रतिमतेजसाम्। विद्याधरसहस्राणामनेकेषां स राजराट्॥ १७ विशाखस्याचलेन्द्रस्य पतङ्गस्यान्तरेण च। सरस्ताम्रवर्णस्य पूर्वे तीरे परिश्रुतम्॥ १८ पञ्चवृक्षेपर्णैर्विद्धं सुशाखं वर्णशोभितम्। सर्वकालफलं तत्र स्फीतं चऽऽम्रवनं महत्॥ १९ फलैः कनकसंकाशैर्महास्वादैः सुगन्धिभिः। महाकुम्भप्रमाणैश्चतनुशार्वैः समन्ततः॥ २० गन्धर्वाकिंनरा यक्षा नागा विद्याधरास्तथा। पिबन्त्याम्ररसं तत्र सुस्वादु ह्यमृतोपमम्॥ २१ तत्राऽऽम्ररसपीतानां मुदितानां महात्मनाम्। श्रूयन्ते हृष्टतुष्टानां नादास्तास्मिन्महावने॥ २२ समूलस्याचलेन्द्रस्य वसुधारस्य चान्तरे। समासुरभिपूर्णाढ्या विहङ्गैरुपशोभिता॥ २३ त्रिंशद्योजनविस्तीर्णा पञ्चाशद्योजनायता। तत्र बिल्वस्थली विप्राः शुद्धा निम्नफलद्रुमाः॥ २४ सुस्वादुर्विद्रुमनिभैः फलैर्बिल्वैर्महोपमैः। शीर्यमाणैर्विशीर्णैश्च पक्विन्नतलमृत्तिकाः॥ २५ तां स्थलीमुपजीवन्ति यक्षगन्धर्वकिंनराः। सिद्धा नागाश्च बहुशं नित्यं बिल्वफलाशिनः॥ २६ अन्तरे वसुधारस्य रत्नधारस्य चान्तरे। त्रिंशद्योजनविस्तीर्णमायतं शतयोजनम्॥ २७ सुगन्धं किंशुकवनं नित्यं पुष्पितपादपम्। पुष्पपक्ष्मावृतं भाति प्रदीप्तमिव सर्वतः॥ २८
१२० श्रीमद्द्वैपायनमुनिप्रणीतम्– [अ० ३८ श्लो० २९–५८] ( भुवनविन्यासः )
यस्य गन्धेन दिव्येन वास्यते परिमण्डलम् । समग्रं योजनशतं काननानि समन्ततः ॥ २९ तत्सिद्धचारणगणैरप्सरोभिश्च सेवितम् । रम्यं तत्किंशुकवनं जलाशयविभूषितम् ॥ ३० तत्राऽऽदित्यस्य देवस्य दीप्तमायतनं महत् । मासे मासेऽऽवतरति तत्र सूर्यः प्रजापतिः ॥ ३१ तत्र कालस्य कर्तारं सहस्रांशुं सुरोत्तमम् । सिद्धसंघा नमस्यन्ति सर्वलोकनमस्र्कृतम् ॥ ३२ पञ्चकूटस्य शैलस्य कैलासस्यान्तरेण तु । षट्त्रिंशद्योजनायामं विस्तीर्णं शतयोजनम् ॥ ३३ क्षुद्रसत्त्वैरनाधृष्यं सर्वतो हंसपाण्डुरम् । दुष्पारं सर्वसत्त्वानां दुर्गमं लोमहर्षणम् ॥ ३४ इत्येता ह्यन्तरद्रोण्यो दक्षिणे परिकीर्तिताः । यथानुपूर्वमखिलाः सिद्धसंघनिषेविताः ॥ ३५ पश्चिमायां दिशि तथा येऽन्तरद्रोणिविस्तराः । तान्वर्ण्यमानांस्तत्त्वेन शृणुतेमान्द्विजोत्तमाः ॥ ३६ अन्तराले गिरौ तस्मिन्सुवक्षःशिखिशैलयोः । समन्ताद्योजनशतमेकभूमं शिलातलम् ॥ ३७ नित्यतप्तं महाघोरं दुःस्पर्शं रोमहर्षणम् । अगम्यं सर्वसत्त्वानां मध्वराणां सुदारुणम् ॥ ३८ मध्ये तस्यां शिलास्थल्यां त्रिंशद्योजनमण्डलम् । ज्वालासहस्रकलिलं वह्निस्थानं सुदारुणम् ॥ ३९ अनिन्धनस्तत्र सदा ज्वालामाली विभावसुः । ज्वलत्येष सदा देवः शश्वत्तत्र हुताशनः ॥ ४० अधिदेवकृते योऽसावश्वमेधागो विधीयते । स तत्र ज्वलते नित्यं लोकसंवर्तकोऽनलः ॥ ४१ अन्तरे शैलवरयोर्देवा वाणपि तयोः शुभाः । मातुलङ्गस्थली तत्र ह्यायामाद्दशयोजना ॥ ४२ मधुव्यञ्जनसंस्थानैः सुरसैः कनकप्रभैः । फलैः परिणतैः सर्वा शोभिता सा महास्थली ॥ ४३ तत्राऽऽश्रमं महापुण्यं सिद्धसंघनिषेवितम् । बृहस्पतेः प्रमुदितं सर्वकामगुणैर्युतम् ॥ ४४ तथैव शैलवरयोः कुमुदाञ्जनयोरपि । अन्तरे केसरद्रोणिरनेकायामियोजना ॥ ४५ द्विबाहुपरिणाहैस्तास्त्रिहस्तायतविस्तृतैः । चन्द्रांशुवर्णैर्व्याकोशैर्मत्तषट्पदनादितैः ॥ ४६ मधुसर्पिरजःपृक्तैर्महागन्धैर्मनोहरैः । शबलं तद्वनं भाति कुसुमैः सर्वकालजैः ॥ ४७ तत्र विष्णोः सुरगुरोर्दीप्तमायतनं महत् । प्रकाशं त्रिषु लोकेषु सर्वलोकनमस्र्कृतम् ॥ ४८ अन्तरे शैलवरयोः कृष्णपाण्डुरयोरपि । त्रिंशद्योजनाविस्तीर्णं नवत्यायतयोजनम् ॥ ४९ श्लक्ष्णमेकशिलं देशं वृक्षवीरुद्विवर्जितम् । सुखपादप्रचारं च निम्नोन्नतविवर्जितम् ॥ ५० मध्ये तु सरसस्तस्य रम्या तु स्थलपद्मिनी । सहस्रपत्रैर्व्याकोशैश्छत्रमात्रैरलंकृता ॥ ५१ पुण्डरीकैर्महापद्मैमरुचिरैन्धशालिभिः । शतपत्रैश्च विकचैरुत्पलैर्नीलपत्रकैः ॥ ५२ मदोत्कटैर्मधुकरैर्भ्रमरैश्च मदोत्कटैः । मृदुगद्गदकण्ठानां किंनराणां च निस्वनैः ॥ ५३ उपगीतपद्मखण्डाढ्या विस्तीर्णा स्थलपद्मिनी । यक्षगन्धर्वचरिता सिद्धचारणसेविता ॥ ५४ मध्ये तस्याश्च पद्मिन्याः पञ्चयोजनमण्डलः । न्यग्रोधो विपुलस्कन्धो ह्यनेकारोहपण्डितः ॥ ५५ तत्र चन्द्रप्रभः श्रीमान्पूर्णचन्द्राविभाननः । सहस्रवदनो देवो नीलवासाः सुरारिहा ॥ ५६ पद्मालयधरस्थल्यां महाभागोऽपराजितः । इज्यते यक्षगन्धर्वैर्विद्याधरगणैस्तथा ॥ ५७ तस्मिन्नायतने साक्षादनादिनिधनो हरिः । पद्मोपहारैर्विविधैरीज्यते सिद्धचारणैः ॥ ५८
[अ० ३८-३९श्लो० ५९-७८-१-३] वायुपुराणम् । ८२१ (भुवनविन्यासः)
तदनन्तसदो नाम सर्वलोकेषु विश्रुतम् । पद्ममालाव लम्बाभिर्मालाभिरुपशोभितम् ॥ ५९
तथा सहस्रशिखरकुमुदस्यान्तरेण च । पञ्चाशद्योजनायामं त्रिंशद्योजनविस्तरम् ॥
इषुक्षेपोच्चशिखरं नानाविहगसेवितम् ॥ ६०
महागन्धैर्महास्वादैर्गजदेहनिभैः फलैः । मधुस्रवैर्महावृक्षैरुपेतं तत्समन्ततः ॥ ६१
तत्राऽऽश्रमं महापुण्यं देवर्षिगणसेवितम् । शुक्रस्य प्रथितं तत्र भास्वरं पुण्यकर्मणः ॥ ६२
शङ्कुकूटस्य शैलस्य वृषभस्यान्तरेण च । परूषकस्थली रम्या ह्यनेकाय(यु)तयोजना ॥ ६३
बिल्वप्रमाणैश्च शुभैर्महास्वादैः सुगन्धिभिः । फलैः प्रक्लिद्यते भूमिः पुरुषैर्वृन्तविच्युतैः ॥ ६४
तां स्थलीमपुजीवन्ति किंनरोगसाधवः । परूषकरसोन्मत्ता मानाढ्यास्तत्र चारणाः ॥ ६५
कपिञ्जलस्य शैलस्य नागशैलस्य चान्तरे । द्वियोजनशतायामा विस्तीर्णा शतयोजना ॥ ६६
स्थली मनोहरा सा हि नानावनविभूषिता । नानापुष्पफलोपेता किंनरोगसेविता ॥ ६७
द्राक्षावनानि रम्याणि तथा नागवनानि च । खर्जूरवनखण्डानि नीलाशोकवनानि च ॥ ६८
दाडिमानां च स्वादूनामक्षोटकवनानि च । अतसीतिलकानां च कदलीनां वनानि च ॥ ६९
बदरीणां च स्वादूनां वनखण्डानि सर्वशः । स्वादुशीताम्बुपूर्णाभिर्नदीभिः शोभितानि च ॥ ७०
तथा पुष्पकशैलस्य महामेघस्य चान्तरे । षष्टियोजनाविस्तीर्णा सा भूमिः शतमायता ॥ ७१
समा पाणितलप्रख्या कठिना पाण्डुरा घना । वृक्षगुल्मलतागुल्मैस्तृणैश्चापि विवर्जिता ॥ ७२
वर्जिता विविधैः सत्त्वैर्नित्यमस्मन्निराश्रया । सा काननस्थली नाम दारुणा रोमहर्षणा ॥ ७३
महासरांसि च तथा महावृक्षास्तथैव च । महावनानि सर्वाणि कान्तानीमानि सर्वशः ॥ ७४
सरसां च वनानां च स्थलीनां च प्रजापतेः । क्षुद्राणां सरसां चैव संख्या तत्र न विद्यते ॥ ७५
दश द्वादश सप्ताष्टौ विंशत्त्रिंशच्च योजनाः । स्थल्यो द्रोण्यश्च विख्याताः सरांसि च वनानि च ॥ ७६
केचित्सन्ति महाग्योराः श्यामाः पर्वतकुक्षयः । सूर्याशुजालैरस्पृष्टा नित्यं शीता दुरासदाः ॥ ७७
तथा ह्यनलतप्तानि सरांसि द्विजसत्तमाः । शैलकुक्ष्यन्तरस्थानि सहस्राणि शतानि च ॥ ७८
इति श्रीमहापुराणे वायुप्रोक्ते भुवनविन्यासो नामाष्टात्रिंशोऽध्यायः ॥ ३८ ॥
आदितः श्लोकानां समष्ट्यङ्काः—२९२४
अथैकोनचत्वारिंशोऽध्यायः ।
भुवनविन्यासः ।
सूत उवाच—
अतः परं प्रवक्ष्यामि यस्मिन्यास्मिञ्छिलोच्चये । ये संनिविष्टा देवानां विविधानां गृहोत्तमाः ॥ १
तत्र योऽसौ महाशैलः शीतान्तो नैकविस्तरः । नैकधातुशतैश्चित्रैर्नैकरत्नाकराकरः ॥ २
नितम्बैः पुष्पसाल्मबैर्नैकसत्त्वगुणालयः । महार्हमणिचित्राभिर्हेमवंगैरुलंकृतः ॥ ३
१६
१२२ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० ३९ श्लो० ४-३१] (भुवनविन्यासः)
नितम्बैः षट्पदोद्गीतैः प्रवालैर्हेमचित्रकैः । तटैः कुसुमसंकीर्णैर्मत्तभ्रमरनादितैः ॥ ४ लताभैश्चित्रवद्भिर्विश्वैर्धातुशताचितैः । सानुभी रत्नचितैश्च पुष्पादैश्च विभूषितः ॥ ५ विमलस्वादुपानीयैर्नैकप्रस्रवणैर्युतः । निकुञ्जः कुसुमोत्कीर्णैरनेकैश्च विभूषितः ॥ ६ पुष्पोडुपवहाभिश्च स्रवन्तीभिरलंकृतः । किंनराचरिताभिश्च दरीभिः सर्वतस्ततः ॥ ७ यक्षगन्धर्वचरितैरनेकैः कन्दरोदरैः । शोभितश्च सुखासेव्यैश्चित्रैर्गहनसंकटैः ॥ ८ नानासत्त्वगुणाकीर्णैः सुपानीयैः सुखाश्रयैः । नानापुष्पफलोपेतैः पादपैः समलंकृतः ॥ ९ तस्मिन्गुहाशयाकीर्णे अनेकोदरकन्दरे । क्रीडावनं महेन्द्रस्य सर्वकामनुगैर्युतम् ॥ १० तत्र तद्देवराजस्य पारिजातवनं महत् । प्रकाशं त्रिषु लोकेषु गीयते श्रुतिनिश्चयात् ॥ ११ तरुणादित्यसंकाशैर्महागन्धैर्यमोहरैः । पुष्पैर्भाति नगश्रेष्ठः सुदीप्त इव सर्वशः ॥ १२ समग्रं योजनशतं तं गन्धमनिलो ववौ । पारिजातकपुष्पाणां माहेन्द्रवननिर्गतः ॥ १३ वैदूर्यनालैः कमलैः सौवर्णैर्वज्रकेसरैः । सर्वगन्धजलोपेतैर्मत्तषट्पदनादितैः ॥ १४ व्याकोशैर्विकचैश्चापि शतपत्रैर्मनोहरैः । सुपङ्कणैर्महापत्रैर्वाप्यस्तत्र विभूषिताः ॥ १५ विरेजुरन्तरम्बुस्थाः सौवर्णमणिभूषिताः । परिस्पन्देक्षणा नित्यं मनियूथाः सहस्रशः ॥ १६ कूर्मैश्चानेकसंस्थानैर्हेमरत्नपरिष्कृतैः । चञ्चूर्यमाणैः सलिलैर्भाति चित्रं समन्ततः ॥ १७ नानावर्णैश्च शकुनैर्नानारतनतनूरुहैः । सुवर्णपुष्पैश्चानैकैर्मणितुण्डैर्द्विजातिभिः ॥ १८ वल्गुस्वरैः सदोन्मत्तैः संपतद्भिः समन्ततः । शुशुभे तद्वनं रम्यं सहस्राक्षस्य धीमतः ॥ १९ मत्तभ्रमरसंनादैर्विहङ्गानां च कूजितैः । नित्यमानन्दितवनं तस्मात्क्रीडावनं महत् ॥ २० सुवर्णपार्श्वैश्च नगैर्मणिमुक्तापुरस्कृतैः । मणिशृङ्गणकणापन्नैः पतद्भिश्च समन्ततः ॥ २१ शाखामृगैश्च चित्राङ्गैर्नानारतनतनूरुहैः । नानावर्णप्रकारैश्च सत्त्वैरन्यैः समाकुलम् ॥ २२ मुञ्चन्ति पुष्पवर्षं च तत्र बाललता द्रुमाः । पारिजातकपुष्पाणां मन्दमारुतकम्पिताः ॥ २३ शयनासननिर्व्यूहैः स्तीर्णै रत्नविभूषितैः । विहारभूमयस्तत्र द्विजाः शक्रवने शुभाः ॥ न च शीतो न चाप्युष्णो रविस्तत्र समः सदा ॥ २४ नित्यमुन्मादजननो मधुमाधवसंभवः । वाति चाप्यनिलस्तत्र नानापुष्पाधिवासितः ॥ नित्यं सङ्गसुखाह्लादी श्रमक्लमविनाशनः ॥ २५ तास्मिन्निन्द्रवने शुभ्रे देवदानवपन्नगाः । यक्षराक्षसगुह्याश्च गन्धर्वाश्चामितौजसः ॥ २६ विद्याधराश्च सिद्धाश्च किंनराश्च मुदा युताः । तथाऽप्सरोगणाश्चैव नित्यं क्रीडापरायणाः ॥ २७ तस्य पर्वतराजस्य पूर्वे पार्श्वे महोचितम् । कुमुञ्जं(दं) शैलराजानं नैकानिर्झरकन्दरम् ॥ २८ तस्य धातुविचित्रेषु कूटेषु बहुविस्तराः । अष्टौ पुर्या सुदीर्णाश्च दानवानां महात्मनाम् ॥ २९ वञ्जरके पर्वते चापि अनेकाशिखरोदरैः । उदीर्णा राक्षसावासा नरनारीसमाकुलाः ॥ ३० नलिका नाम ते घोरा राक्षसाः कामरूपिणः । तत्र तेऽभिरता नित्यं महाबलपराक्रमाः ॥ ३१
[अ० ३९श्लो० ३२-६२] वायुपुराणम् । १२३
( भुवनविन्यासः )
महानीलेऽपि शैलेन्द्रे पुराणि दश पञ्च च । हयाननानां विख्याताः किंनराणां महात्मनाम् ॥ ३२ देवसेनो महाबाहुर्बलमिन्द्रादयस्तथा । तत्र किंनरराजानो दश पञ्च च गर्विताः ॥ ३३ सुवर्णपार्श्वाः प्रायेण नानावर्णसमाकुलैः । बिलप्रवेशैर्नगरैः शैलेन्द्रः सोऽभ्यलंकृतः ॥ ३४ अतिदारुणा दृष्टिविषा ह्यग्निकोपा दुरासदाः । महोरगशतास्तत्र सुवर्णवशवर्तिनः ॥ ३५ सुनागेऽपि महाशैले दैत्यावासाः सहस्रशः । हर्म्यप्रासादकालिलाः प्रांशुप्राकारतोरणाः ॥ ३६ वेणुमन्ते महाशैले विद्याधरपुरत्रयम् । त्रिंशद्योजनाविस्तीर्णं पञ्चाशद्योजनायतम् ॥ ३७ उलूको रोमशश्चैव महानेत्रश्च वीर्यवान् । विद्याधरवरास्तत्र शक्रतुल्यपराक्रमाः ॥ ३८ वैकङ्के शैलशिखरे स्रन्तःकन्दरनिर्झरे । महोच्चशृङ्गे रुचिरे रत्नधातुविचित्रिते ॥ ३९ तत्राऽऽस्ते गरुडिर्नित्यमुरगारिर्दुरासदः । महावायुजवश्चण्डः सुग्रीवो नाम वीर्यवान् ॥ ४० महाप्रमाणैर्विक्रान्तैर्महाबलपराक्रमैः । स शैलो ह्यावृतः सर्वः पक्षिभिः पन्नगारिभिः ॥ ४१ करञ्जेऽभिरतो नित्यं साक्षाद्भूतपतिः प्रभुः । वृषभाङ्को महादेवः शंकरो योगिनां प्रभुः ॥ ४२ नानोपषधरैर्भूतैः प्रमथैश्च दुरासदैः । करञ्जे सानवः सर्वे ह्यवकीर्णाः समन्ततः ॥ ४३ वसुधारे वसुमतः वसूनाममितौजसाम् । अष्टावायतनान्याहुः पूजितानि महात्मनाम् ॥ ४४ रत्नधातौ गिरिवरे सप्तर्षीणां महात्मनाम् । सप्ताश्रमाणि पुण्यानि सिद्धावासयुतानि च ॥ ४५ महाप्रजापतेः स्थानं हेमशृङ्गे नगोत्तमे । चतुर्वक्त्रस्य देवस्य सर्वभूतनमस्कृतम् ॥ ४६ गजशैले भगवतो नानाभूतगणावृताः । रुद्राः प्रमुदिता नित्यं सर्वभूतनमस्कृताः ॥ ४७ सुमेधे धातुचित्राढ्ये शैलेन्द्रे मेघसंनिभे । नैकोदरदरीवन्पिनिकुञ्जैश्र्चोपशोभिते ॥ ४८ आदित्यानां वसूनां च रुद्राणां चामितौजसाम् । तत्राऽऽयतनविन्यासा रम्याश्चैवाश्विनोरपि ॥ ४९ स्थानानि सिद्धैर्देवानां स्थापितानि नगोत्तमे । तत्र पूजापरा नित्यं यक्षगन्धर्वकिंनराः ॥ ५० गन्धर्वनगरी स्फीता हेमकक्षे नगोत्तमे । अशीत्यमरपुर्याभा महाप्राकारतोरणा ॥ ५१ सिद्धा ह्यप्तना नाम गन्धर्वा युद्धशालिनः । येषामधिपतिर्देवो राजराजः कपिञ्जलः ॥ ५२ अनले राक्षसावासाः पञ्चकूटेऽपि दानवाः । ऊर्जिता देवरिपवो महाबलपराक्रमाः ॥ ५३ शतशृङ्गे पुरशतं यक्षाणाममितौजसाम् । ताम्राभे काद्रवेयस्य तक्षकस्य पुरोत्तमम् ॥ ५४ विशाखे पर्वतश्रेष्ठे नैकवप्रदरीशुभे । गुहानिरतवासस्य गुहस्याऽऽयतनं महत् ॥ ५५ श्वेतोदरे महाशैले महाभवनमण्डिते । पुरं गरुडपुत्रस्य सुनाभस्य महात्मनः ॥ ५६ पिशाचके गिरिवरे हर्म्यं प्रासादमण्डितम् । यक्षगन्धर्वचरितं कुबेरभवनं महत् ॥ ५७ हरिकूटे हरिर्देवः सर्वभूतनमस्कृतः । प्रभावात्तस्य शैलोऽसा महानामः प्रकाशते ॥ ५८ कुमुदे किंनरावासा अञ्जने च महोरगाः । कृष्णे गन्धर्वनगरा महाभवनशालिनः ॥ ५९ पाण्डुरे चारुशिखरे महाप्राकारतोरणे । विद्याधरपुरं बत्र महाभवनशालिनम् ( ? ) ॥ ६० सहस्रशिखरे शैले दैत्यानामुग्रकर्मणाम् । पुराणि समृद्धीर्णानां सहस्रं हेममालिनाम् ॥ ६१ मुकुटे पन्नगावासा अनेकाः पर्वतोत्तमाः । पुष्पके वै मुनिगणा नित्यमेव मुदा युताः ॥ ६२
१२४ श्रीमद्द्वैपायनमुनिप्रणीतम्– [अ० ३९-४० श्लो० ६३-६४-१-१८] ( भुवनविन्यासः )
वैवस्वतस्य सोमस्य वायोर्नागाधिपस्य च सुपक्षे पर्वतवरे चत्वार्यायतनानि च ॥ ६३ गन्धर्वैः किंनरैर्यक्षैर्नागैर्विद्याधरोत्तमैः । सिद्धैर्हितेषु स्थानेषु नित्यमिष्टः प्रपूज्यते ॥ ६४ इतिश्रीमहापुराणे वायुप्रोक्ते भुवनविन्यासो नामैकोनचत्वारिंशोऽध्यायः ॥ ३९ ॥ आदितः श्लोकानां समष्ट्यङ्काः–२९८८
अथ चत्वारिंशोऽध्यायः । भुवनविन्यासः ।
सूत उवाच— मर्यादापर्वते शुभ्रे देवकूटे निबोधत । विस्तीर्णे शिखरे तस्य कूटे गिरिवरस्य ह ॥ १ समन्ताद्योजनशतं महाभवनमण्डितम् । जन्मक्षेत्रं सुपर्णस्य वैनतेयस्य धीमतः ॥ २ नैकेर्महापक्षिगणैर्गरुडैः शीघ्रविक्रमैः । संपूर्णवीर्यसंपन्नैर्दमनैरुरगारिभिः ॥ ३ पक्षिराजस्य भवनं प्रथमं तन्महात्मनः । महावायुप्रवेगस्य शाल्मलिद्वीपवासिनः ॥ ४ तस्यैव चारुमूर्ध्वंस्तु कूटेषु च महर्षिषु । दक्षिणेपु विचित्रेषु समस्वपि तु शोभिनः ॥ ५ [*संध्याआभाः समुदिता रुक्मप्राकारतोरणाः । महाभवनमालाभिः शोभिता देवनिर्मिताः ॥ ६ त्रिंशद्योजनविस्तीर्णाश्चत्वारिंशत्तमायताः । सप्त गन्धर्वनगरा नरनारीसमाकुलाः ॥ ७ आग्नेया नाम गन्धर्वा महाबलपराक्रमाः । कुबेरानुचरा दीप्तास्तेषां ते भवनोत्तमाः ॥ ८ तस्य चोत्तरकूटेषु भुवनस्य महागिरेः । हर्म्यप्रासादबद्धं च उद्यानवनशोभितम् ॥ ९ पुरमाशीविषैः पूर्णं महाप्राकारतोरणम् ] । वादित्रशतनिर्घोषैरानान्दितवनान्तरम् ॥ १० दुष्प्रसहममित्राणां त्रिंशद्योजनमण्डलम् । नगरं सैंहिकेयानामुदीर्णं देवविद्विषाम् ॥ ११ सिद्धदेवर्षिचरितं देवकूटे निबोधत ॥ द्वितीये द्विजशार्दूला मर्यादापर्वते शुभे । महाभवनमालाभिर्नानावर्णाभिरावृतम् ॥ १२ सुवर्णमणिचित्राभिरनेकाभिरलंकृतम् । विशालरथ्यं दुर्धर्षं नित्यं प्रमुदितं शिवम् ॥ १३ नरनारीगणाकीर्णं प्रांशुप्राकारतोरणम् । षष्टियोजनाविस्तीर्णं शतयोजनमायतम् ॥ १४ नगरं कालकेयानामसुराणां दुरासदम् । देवकूटतटे रम्ये संनिविष्टं सुदुर्जयम् ॥ १५ महाभ्रचयसंकाशं सुनासं नाम विश्रुतम् ॥ तस्यैव दक्षिणे कूटे विंशद्योजनविस्तरम् । द्विषष्टियोजनायामं हेमप्राकारतोरणम् ॥ १६ हृष्टपुष्टावलिप्तानामावासाः कामरूपिणाम् । औत्कचानां प्रमुदितं राक्षसानां महापुरम् ॥ १७ मध्यमे तु महाकूटे देवकूटस्य वै गिरेः । सुवर्णमणिपाषाणैश्चित्रैः श्लक्ष्णतरैः शुभैः ॥ १८ शाखाशतसहस्राढ्यैर्नैकारोहसमाकुलम् ॥
* धनुश्चिह्नान्तर्गतग्रन्थः ग. पुस्तके नास्ति ।
स्निग्धपर्णमहामूलमनेकस्कन्धवाहनम् । रम्यं ह्यविरलच्छायं दशयोजनमण्डलम् ॥ १९
[अ० ४०-४१ श्लो० १९-२६-१-१४] वायुपुराणम् । १२५
( भुवनविन्यासः ) स्निग्धपर्णमहामूलमनेकस्कन्धवाहनम् । रम्यं ह्यविरलच्छायं दशयोजनमण्डलम् ॥ १९ तत्र भूतवटं नाम नानाभूतगणालयम् । महादेवस्य प्रथितं त्र्यम्बकस्य महात्मनः ॥ २० दीप्तमायतनं तत्र सर्वलोकेषु विश्रुतम् ॥ २१ वराहगजसिंहर्क्षशार्दूलकरभाननैः । गृध्रोलूकमुखैश्चैव मेषोष्ट्राजमहामुखैः ॥ २२ कदम्बैर्विकटैः स्थूलैर्लम्बकेशतनूरुहैः । नानावर्णाकृतिधरैर्नानासंस्थानसंस्थितैः ॥ २३ दीप्तैरनेकैरुग्रास्यैर्भूतैरुग्रपराक्रमैः । अशून्यमभवन्नित्यं महापरिषदैस्तथा ॥ २४ तत्र भूतपतेर्भूता नित्यं पूजां प्रयुञ्जते । झर्झरैः शङ्खपटहैर्भेरीडिण्डिमगोमुखैः ॥ राणितालासितोद्गीतैर्नित्यं बलितवर्जितैः । विस्फूर्जितशतैस्तत्र पूजयित्वा गणेश्वराः ॥ २५ प्रीताः पुरारिमप्रथास्तत्र क्रीडापराः सदा ॥ सिद्धदेवर्षिगन्धर्वयक्षनागेन्द्रपूजितः । स्थाने तस्मिन्महादेवः साक्षाल्लोकशिवः शिवः ॥ २६
इति महापुराणे वायुप्रोक्तेऽनुषङ्गपादे भुवनविन्यासो नाम चत्वारिंशोऽध्यायः ॥ ४० ॥
आदितः श्लोकानां समष्ट्यङ्काः—३०१४
अथैकचत्वारिंशोऽध्यायः ।
भुवनविन्यासः ।
सूत उवाच— विविक्तचारुशिखरं पत्रितं शङ्खवर्चसम् । कैलासं देवभक्तानामालयं सुकृतात्मनाम् ॥ १ तस्य कूटतटे रम्ये मध्यमे कुन्दसंनिभे । योजनानां शतायामे पञ्चाशच्च तथाऽऽयतम् ॥ २ सुवर्णमणिचित्राभिरनेकाभिरलंकृतम् । महाभवनमालाभिर्भूषितं नैकविस्तरम् ॥ ३ धनाध्यक्षस्य देवस्य कुबेरस्य महात्मनः । नगरं तदनाधृष्यमृद्धियुक्तं मुदा युतम् ॥ ४ तस्य मध्ये सभा रम्या नानाकनक मण्डिता । विपुला नाम विख्याता विपुलस्तम्भतोरणा ॥ ५ तत्र तत्पुष्पकं नाम नानारत्नविभूषितम् । महाविमानं रुचिरं सर्वकामगुणैर्युतम् ॥ ६ मनोजवं कामगमं हेमजालविभूषितम् । वाहनं यक्षराजस्य कुबेरस्य महात्मनः ॥ ७ तत्रैकपिङ्गलो देवो महादेवसखः स्वयम् । वसति स्म स यक्षेन्द्रः सर्वभूतनमस्कृतः ॥ ८ तत्राप्सरोगणैर्यक्षैर्गन्धर्वैः सिद्धचारणैः । वसति स्म महात्माऽसौ कुबेरो देवसत्तमः ॥ ९ तत्र पद्ममहापद्मौ तथा मकरकच्छपौ । कुमुदः शङ्खनीलस्य नन्दनो निधिसत्तमः ॥ १० अष्टावेतेऽक्षया दिव्या धनेशस्य महात्मनः । महानिधानास्तिष्ठन्ति सभायां रत्नसंचयाः ॥ ११ तथेन्द्राग्निमियादीनां देवानामप्सरोगणैः । तेषां कैलास आवासो यत्र यक्षेश्वरः प्रभुः ॥ १२ कृत्वा पूर्वमुपस्थानं यक्षेन्द्रस्य महात्मनः । पश्चाद्गच्छन्ति ये यस्य विहिताः परिचारिकाः ॥ १३ तत्र मन्दाकिनी नाम सुरम्या विपुलौदका । सुवर्णमणिसोपाना नानापुष्पोत्कटोत्कटा ॥ १४
१२६ श्रीमद्द्वैपायनमुनिप्रणीतम्- [ अ० ४१ श्लो० १५-४५ ] (भुवनविन्यासः)
जाम्बूनदमयैः पद्मैर्गन्धस्पर्शगुणान्वितैः । नीलवैदूर्यपत्रैश्च गन्धोपेतैर्महोत्पलैः ॥ १५ तथा कुमुदखण्डैश्च महापद्मौरलंकृता । यक्षगन्धर्वनारीभिरप्सरोभिश्च शोभिता ॥ १६ देवदानवगन्धर्वैर्यक्षराक्षसपन्नगैः । उपस्पृष्टजला रम्या वापी मन्दाकिनी शुभा ॥ १७ तथा अलकनन्दा च नन्दा च सरितां वरा । एतैरेव गुणैर्युक्ता नद्यो देवर्षिसेविताः ॥ १८ तस्यैव शैलराजस्य पूर्वे कूटे परिश्रुताः । सहस्रयोजनायामास्त्रिंशद्योजनविस्तराः ॥ १९ दश गन्धर्वनगराः समृद्ध्या परया युताः । महाभवनमालाभिरनेकाभिर्विभूषिताः ॥ २० सुबाहुहरिकेशाद्याश्चित्रसेनजरादयः । दश गन्धर्वराजानो दीप्तवह्निपराक्रमाः ॥ २१ तस्यैव पश्चिमे कूटे कुन्देन्दुसदृशप्रभे । नानाधातुशतौघैश्चैः सिद्धदेवर्षिसेविते ॥ २२ अशीतियोजनायामं चत्वारिंशत्प्रविस्तरम् । एकैकयक्षभवनं महाभवनमालिनम् ॥ २३ महायक्षालयान्यत्र त्रिंशादढ्यानि मे शृणु । मुदाऽथ परसद्धर्या च संयुक्तानि समन्ततः ॥ २४ महापालिसुनेत्राद्यास्तथा मणिवरादयः । उदीर्णा यक्षराजानस्तत्र त्रिंशत्सदा बभुः ॥ २५ इत्येते कथिता यक्षा वाय्वग्निसमतेजसः । येषामधिपतिर्देवः श्रीमान्वैश्रवणः प्रभुः ॥ २६ तस्यैव दक्षिणे पार्श्वे हिमवत्यचलोत्तमे । निकुञ्जनिर्झरगुहानैकसानुदरीयुते ॥ २७ अर्णवादर्णवं यावत्पूर्वपश्चायतेऽचले । किंनराणां पुरशतं निविष्टं वै क्वचित्क्वचित् ॥ २८ नैकशृङ्गकलापस्य शैलराजस्य कुक्षिषु । नरनारीप्रमुदितं हृष्टपुष्टजनाकुलम् ॥ २९ द्रुमसुग्रीवसैन्याद्या भगदत्तपुरःसराः । तत्र राजशतं तेषां दीप्तानां बलशालिनाम् ॥ ३० विवाहो यत्र रुद्रस्य महादेव्योमया सह । तपस्तप्तवती चैव यत्र देवी वराङ्गना ॥ ३१ किरातरूपिणा चैव तत्र रुद्रेण क्रीडितम् । यत्र चैव कृतं ताभ्यां जम्बूद्वीपावलोकनम् ॥ ३२ यत्र ताः संमुदा युक्ता नानाभूतगणैर्युताः । चित्रपुष्पफलोपेता रुद्रस्याऽऽक्रीडभूमयः ॥ ३३ हृष्टा गिरिदरीवासाः कृशोदर्यो मनोरमाः । सुन्दर्यो यत्र किंनर्यो रमन्ते स्म सुलोचनाः ॥ ३४ विशालाक्षास्तथा यक्षा अन्याश्चाप्सरसां गणाः । गन्धर्वाश्चाङ्गशालिन्यो यत्र तत्र मुदा युताः ३५ तत्रैवोमावनं नाम सर्वलोकेषु विश्रुतम् । अर्धनारीनरं रूपं धृतवान्यत्र शंकरः ॥ ३६ तथा शरवणं नाम यत्र जातः षडाननः । यत्र चैव कृतोत्साहः क्रौञ्चशैलवनं प्रति ॥ ३७ ध्वजापताकिनं चैव किङ्किणीजालमालिनम् । यत्र सिंहरथं युक्तं कार्तिकेयस्म धीमतः ॥ ३८ चित्रपुष्पनिकुञ्जस्य क्रौञ्चस्य च गिरेस्तटे । देवारिस्कन्दनः स्कन्दो यत्र शक्तिं विमुक्तवान् ॥ ३९ यत्राभिषिक्तश्च गुहः सेन्द्रोपेन्द्रैः सुरोत्तमैः । सेनापत्ये च दैत्यारिर्दीप्तार्कप्रतापवान् ॥ ४० भूतसंवावकीर्णानि एतान्यन्यानि च द्विजाः । तत्र तत्र कुमारस्य स्थानान्रायतनानि च ॥ ४१ तथा पाण्डुशिला नाम साक्रीडा क्रौञ्चघातिनः । नानाभूतगणाकीर्णे पृष्ठे हिमवतः शुभे ॥ ४२ तस्य पूर्वे तटे रम्ये सिद्धवासमुदाहृतम् । कलापग्राममित्येवं नाम्नाऽऽख्यातं मनीषिभिः ॥ ४३ मृकण्डस्य वसिष्ठस्य भरतस्य नलस्य च । विश्वामित्रस्य विप्रर्षेस्तथैवोद्दालकस्य च ॥ ४४ अन्येषां चायतसामृषीणां भावितात्मनाम् । हिमवत्याश्रमाणां च सहस्राणि शतानि च ॥ ४५
[अ० ४१ श्लो० ४६-७२] | वायुपुराणम् । | १२७ (भुवनविन्यासः)
नैकसिद्धगणावासं स्थानायतनमण्डितम् । यक्षगन्धर्वचरितं नानाम्लेच्छगणैर्युतम् ॥ ४६ नानारत्नाकरापूर्णं नानासत्त्वानिषेवितम् । नानानदीसहस्राणां संभवं वरपर्वतम् ॥ ४७ पश्चिमस्याचलेन्द्रस्य निषधस्य यथार्थवत् । कीर्त्यमानमशेषेण विशेषं शृणुत द्विजाः ॥ ४८ विस्तीर्णे मध्यमे कूटे हेमधातुविभूषिते । दीप्तमायतनं विष्णोः सिद्धर्षिगणसेवितम् ॥ यक्षाप्सरःसमाकीर्णं गन्धर्वगणसेवितम् ॥ ४९ तत्र साक्षान्महादेवः पीताम्बरधरो हरिः । वरदः सेव्यते सिद्धैर्लोककर्ता सनातनः ॥ ५० तस्यैवाभ्यन्तरे कूटे नानाधातुविभूषिते । तटे निषधकूटस्य श्लक्ष्णचारुशिलातले ॥ ५१ रुक्मकाञ्चननिर्यूहं तप्तकाञ्चनतोरणम् । अनेकवलभीकूटप्रतोलीशतसंकटम् ॥ ५२ हर्म्यप्रासादमतुलं तप्तकाञ्चनभूषितम् । हर्म्यप्रासादबद्धं च मुदितं चातिविस्तरम् ॥ ५३ उद्यानमालाकालितं त्रिंशद्योजनमायतम् । दुष्प्रसह्यममित्रैस्तत्तूर्णमाशीविषोपमैः ॥ ५४ उलङ्घीनां प्रमुदितं रक्षसां राक्षसं पुरम् ॥ ५५ तस्यैव दक्षिणे पार्श्वे नैकदैत्यगणालये । गुहाप्रवेशं नगरं शैलकुक्षौ दुरासदम् ॥ ५६ तथैव पश्चिमे कूटे पारिजातशिलोच्चये । देवदानवनागानां समृद्धानि पुराणि तु ॥ ५७ तत्र सोमशिला नाम गिरेस्तस्य महातटे । सोमो यत्रावतरति सदा पर्वसु पर्वसु ॥ ५८ उपासतेऽत्र श्रीमन्तं तारापतिमनिन्दितम् । ऋषिकिंन्नरगन्धर्वाः साक्षाद्देवं तमोनुदम् ॥ ५९ तत्रैव चोत्तरे कूटे वलपार्श्वमिति स्मृतम् । स्थानं तत्र सुरेशस्य ब्रह्मणः प्रथितं दिवि ॥ ६० इज्यापूजानमस्कारैस्तत्र सिद्धाः स्वयंभुवम् । उपासते महात्मानं यक्षगन्धर्वदानवाः ॥ तथैवाऽऽयतनं वह्नेः सर्वलोकेषु विश्रुतम् । तत्र विग्रहवान्वह्निः सेव्यते सिद्धचारणैः ॥ ६१ तथैव चोत्तरे रम्ये त्रिशृङ्गे वरपर्वते । ऋषिसिद्धानुचरिते नानाभूतगणालये ॥ पुरं तन्त्रिषु लोकेषु हेमाचित्रं तु विश्रुतम् ॥ ६२ त्रयाणां देवमुख्यानां त्रीण्येवाऽऽयतनानि च । नारायणस्याऽऽयतनं पूर्वकूटे द्विजोत्तमाः ॥ ६३ मध्यमे ब्रह्मणः स्थानं शंकरस्य तु पश्चिमे ॥ ६४ दैत्यदानवगन्धर्वैर्यक्षराक्षसपन्नगैः । इं(ई)जाना अभिपूज्यन्ते देवदेवा महाबलाः ॥ ६५ तथा पुराणि रम्याणि देशे चैव काचित्कचित् । यक्षगन्धर्वपागानां त्रिशृंगे वरपर्वते ॥ ६६ तथैव चोत्तरे देशे जातुधौ देवपर्वते । अनेकशृङ्गकलिते सिद्धसाधुनिषेविते ॥ यक्षाणां किंनराणां च गन्धर्वाणां सहस्रशः । नागानां राक्षसानां च दैत्यानां च महाबले ॥ ६७ कूटे तु मध्यमे तस्य सिद्धसंघनिषेविते । रम्ये देवर्षिचरिते रत्नधातुविभूषिते ॥ ६८ पद्मोत्पलवनैः फुल्लैः सौगन्धिकवनैस्तथा । तथा कुमुदखण्डैश्च विकचैरुपशोभते ॥ ६९ विहङ्गसंघसंघृष्टं नानासत्त्वानिषेवितम् । हंसकारण्डवाकीर्णं मत्तषट्पदसेवितम् ॥ ७० नानासत्त्वगणाकीर्णं विहङ्गैरुपशोभितम् । चारुतीर्थसुसंबोधं त्रिंशद्योजनमण्डलम् ॥ ७१ सिद्धैरुपस्पृष्टजलं जलदोषविवर्जितम् । तत्राऽऽनन्दजलं नाम महापुण्यजलं सरः ॥ ७२
तत्र नागपतिश्चण्डश्चण्डो नाम दुरासदः। शतशीर्षो महाभागो विष्णुचक्राङ्कचिह्नितः ॥ ७३
| १२८ | श्रीमद्वैपायनमुनिप्रणीतम्– [अ०४१-४२श्लो०७३-१०१-५] |
|---|---|
| (भुवनविन्यासः) |
तत्र नागपतिश्चण्डश्चण्डो नाम दुरासदः। शतशीर्षो महाभागो विष्णुचक्राङ्कचिह्नितः ॥ ७३ इत्येवमष्टौ विज्ञेया विचित्रा देवपर्वताः ॥ पुरैरायतनैः पुण्यैः पुण्योदैश्च सरोबरैः। सुवर्णपर्वतैरनेकस्तथा रजतपर्वतैः ॥ ७४ नानारत्नप्रभासैश्च नैकैश्च मणिपर्वतैः। हरिदालपर्वतैरनैकैस्तथा हिङ्गुलकाध्वनैः ॥ ७५ शुद्धैर्मनःशिलाजालैर्भास्वरैरुणप्रभैः। नानाधातुविचित्रैश्च नैकैश्च मणिपर्वतैः ॥ ७६ पूर्णा वसुमती सर्वा गिरिभिर्नैकविस्तरैः। नदीकन्दरशैलाढ्यैरनेकचित्रसानुभिः ॥ ७७ (*तेषु शैलसहस्रेषु नानावर्णेषु नित्यशः। दैत्यदानवगन्धर्वयक्षाणां च महालयैः।) ७८ इत्येवमचलैर्युक्तैर्दैत्यराक्षससाधुभिः। किंनरौरगगन्धर्वैर्विचित्रैः सिद्धचारणैः ॥ ७९ गन्धर्वैरप्सरोभिश्च सेविता नैकविस्तराः। पुण्यकृद्भिः समाकीर्णाः केसराकृतयो नगाः ॥ ८० गिरिजालं तु तन्मेरोः सिद्धलोकमिति स्मृतम्। चित्रं नानाश्रयोपेतं प्रचारं सुकृतात्मनाम् ॥ ८१ नात्युग्रकर्मसिद्धानां मतिमा मध्यमाः स्मृताः। स हि स्वर्ग इति ख्यातः क्रमस्तेष्वेष प्रकीर्तितः ॥ ८२ चतुर्महाद्वीपवती सेयमूर्वी प्रकीर्तिता। नानावर्णप्रमाणैर्हि नानावर्णबलैस्तथा ॥ ८३ नानाभक्ष्यान्नपानैश्च नानाच्छादनभूषणैः। प्रजाविकारैर्विविधैश्चित्रैरध्युषितैः सह ॥ ८४ चत्वारो नैकवर्णाढ्या महाद्वीपाः परिश्रुताः। भद्राश्व भरताश्चैव केतुमालाश्च पश्चिमाः ॥ उत्तराः कुरवश्चैव कृतपुण्यप्रतिश्रयाः ॥ ८५ सैषा चतुर्महाद्वीपा नानाद्वीपसमाकुला। पृथिवी कीर्तिता कृत्स्ना पद्माकारा मया द्विजाः ॥ ८६ तदेषा सान्तरद्वीपा सशैलवनकानना। पद्मेत्यभिहिता कृत्स्ना पृथिवी बहुविस्तरा ॥ ८७ सब्रह्मसदनं लोकं सदेवासुरमानुषम्। त्रिलोकमिति विख्यातं यत्सत्तैर्व्यवहार्यते ॥ ८८ चन्द्रादित्यावतप्तं यत्तज्जगत्परिगीयते। गन्धवर्णरसोपेतं शब्दस्पर्शगुणान्वितम् ॥ ८९ तं लोकपद्मं श्रुतिभिः पद्ममित्यभिधीयते। एष सर्वपुराणेषु क्रमः सुपरिनिश्चितः ॥ ९० इति श्रीमहापुराणे वायुप्रोक्तेऽनुषङ्गपादे भुवनविन्यासो नाम चत्वारिंशोऽध्यायः ॥ ४१ ॥ आदितः श्लोकानां समष्ट्यङ्काः–३१०४
अथ द्विचत्वारिंशोऽध्यायः।
भुवनविन्यासः।
सूत उवाच– सरोवरेभ्यः पुण्योदा देवनद्यो विनिर्गताः। महौघतोया नद्यश्च ताः शृणुध्वं यथाक्रमम् ॥ १ आकाशाम्भोनिधेर्योऽसौ सोम इत्यभिधीयते। आधारः सर्वभूतानां देवानाममृताकरः ॥ २ तस्मात्प्रवृत्ता पुण्योदा नदी ह्याकाशगामिनी। समेनानिलपथा प्रयाता विमलोदका ॥ ३ सा ज्योतिषि निवर्तन्ती ज्योतिर्गणनिषेविता। ताराकोटिसहस्राणां नभसश्च समायता ॥ ४ माहेन्द्रेण गजेन्द्रेण आकाशपथयायिना। क्रीडिता ह्यन्तरतले या सा विक्षोभितोदका ॥ ५
*धनुश्चिह्नान्तर्गतग्रन्थः क. ग. ङ. पुस्तकेषु नास्ति ।
[अ०४२ श्लो० ६-३५] वायुपुराणम् १२९ (: भुवनविन्यासः ) नैकैर्विमानसङ्घातैः प्रकामद्भिर्नभस्तलम् । सिद्धैरुपस्पृष्टजला महापुण्यजला शिवा ॥ ६ वायुना प्रेर्यमाणा च अनेकाभोगगामिनी । परिवर्तत्यहरहो य(हर्य)था सूर्यस्तथैव सा ॥ ७ चत्वार्यशीतिपतता योजनानां समन्ततः । वेगेन कुर्वती मेरुं सा प्रयाता प्रदक्षिणम् ॥ ८ विभिद्यमाना सलिलैस्तैजसेनानिलेन च । मेरोरुत्तरकूटेषु पतिताऽथ चतुर्ष्वपि ॥ ९ मेरुकूटतटान्तेभ्य उत्कृष्टेभ्यो निवर्तिता । विकीर्यमाणसलिला चतुर्धा संस्रुतोदका ॥ १० षष्टियोजनसाहस्रं निरालम्बनमम्बरम् । निपपात महाभागा [* मेरोस्तस्य चतुर्दिशम् ॥ ११ सा चतुर्ध्वभितश्चैव महापादेषु शोभना । पुण्या मन्दरपूर्वेण पतिता हि महानदी ॥ १२ पूर्वेणांशेन देवानां सर्वसिद्धगणालयम् । सुवर्णचित्रकटकं नैकनिर्झरकन्दरम् ॥ १३ प्लावयन्ती शैलेन्द्रं मन्दरं चारुकन्दरम् । वप्रप्रतापशमनैरनेकः स्फाटिकोदकैः ॥ १४ तथा चैत्ररथं रम्यं प्लावयन्ती प्रदक्षिणम् । प्रविष्टा ह्यम्बरनदी ह्यरुणोदसरोवरम् ॥ १५ अरुणोदान्निवृत्ताऽथ शीतान्ते रम्यनिर्झरे । शैले सिद्धगणावासो निपपात सुगामिनी ॥ १६ सीता नाम महापुण्या नदीनां प्रवरा नदी । सा निकुञ्जनिरुद्धा तु अनेकाभोगगामिनी ॥ १७ शीतान्ताशिखराद्भ्रष्टा मुकुञ्जे पर्रपर्वते । निपपात महाभागा तस्मादपि सुमञ्झसम् ॥ १८ तस्मान्माल्यवतं शैलं भावयन्ती परापगा । वैकङ्कं समनुप्राप्ता वैकङ्कान्मणिपर्वतम् ॥ मणिपर्वतान्महाशैलमृषभं नैककन्दरम् ॥ १९ एवं शैलसहस्राणि दारयन्ती महानदी । पतिताऽथ महाशैले जठरे सिद्धसेविते ॥ २० तस्मादपि महाशैलं देवकूटं तरङ्गिणी । तस्य कुक्षिसमुद्रान्ता क्रमेण पृथिवीं गता ॥ २१ सैवं स्थलीसहस्राणि शैलराजशतानि च । वनानि च विचित्राणि सरांसि विविधानि च ॥ २२ स्रावयन्ती महाभागा ] विस्फारैष्ववलोकदा । नदीसहस्रानुगता प्रवृत्ता च महानदी ॥ २३ भद्रार्थं समहाद्वीपं प्लावयन्ती वरापगा । प्रविष्टा ह्यर्णवं पूर्वं पूर्वे द्वीपे महानदी ॥ २४ दक्षिणेऽपि प्रपन्ना या शैलेन्द्रे गन्धमादने । चित्रैः प्रपातैर्विविधैर्नैकविस्फालितोदका ॥ २५ तद्गन्धमादनवनं नन्दनं देवनन्दनम् । प्लावयन्ती महाभागा प्रयाता सा प्रदक्षिणम् ॥ २६ नाम्ना ह्यलकनन्देति सर्वलोकेषु विश्रुता । प्रविशत्युत्तरसरो मानसं देवमानसम् ॥ २७ मानसाच्छैलराजानं रम्यं त्रिशिखरं गता । त्रिकूटाच्छैलशिखरात्कालिङ्गशिखरं गता ॥ २८ कालिङ्गशिखराद्भ्रष्टा रुचके निपपात सा । रुचकान्निषधं प्राप्ता ताम्राभं निषधादपि ॥ २९ ताम्राभशिखराद्भ्रष्टा गता श्वेतोदरं गिरिम् । तस्मात्सुमूलं शैलेन्द्रं वसुधारं च पर्वतम् ॥ ३० हेमकूटं गता तस्माद्देवशृङ्गे ततो गता । तस्माद्गता महाशैलं ततश्चापि पिशाचकम् ॥ ३१ पिशाचकाच्छैलवरात्पञ्चकूटं गता पुनः । पञ्चकूटात्तु कैलासं देवावासं शिलोच्चयम् ॥ ३२ तस्य कुक्षिषु विश्रान्ता नैककन्दरसानुषु । [÷हिमवत्युत्तमनदी निपपाताचलोत्तमे ॥ ३३ सैवं शैलसहस्राणि दारयन्ती महानदी । ] स्थलीशतान्यनेकानि प्लावयन्त्याशुगामिनी ॥ ३४ वनानां च सहस्राणि कन्दराणां शतानि च । स्रावयन्ती महाभागा प्रयाता दक्षिणोदधिम् ॥ ३५
* धनुश्चिह्नान्तर्गतग्रन्थोः ङ. पुस्तके नास्ति । ÷ धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति ।
१७
१३० श्रीमद्वैपायनमुनिप्रणीतम्-- [अ०४२श्लो०३६-६३] ( भुवनविन्यासः)
रम्या योजनविस्तीर्णा शैलकुक्षिषु संवृता । या धृता देवदेवेन शंकरेण महात्मना ॥ ३६ पावनी द्विजशार्दूल घोराणामपि पाप्मनाम् । शंकरस्याङ्गसंस्पर्शान्महादेवस्य धीमतः ॥ द्विगुणं पवित्रसलिला सर्वलोके महानदी ॥ ३७ अनुशैलं समन्ताच्च निर्गता बहुभिर्मुखैः । अथोऽन्येनाभिधानेन ख्याता नद्यः सहस्रशः ॥ ३८ तस्माद्धिमवतो गङ्गा गता सा तु महानदी । एवं गङ्गेति नाम्ना हि प्रकाशा सिद्धसेविता ॥ ३९ धन्यास्ते सत्तमा देशा यत्र गङ्गा महानदी । रुद्रसाध्यानिलादित्यैर्जुष्टतोया यशोवती ॥ ४० महापादं प्रवक्ष्यामि मेरोरपि हि पश्चिमम् । नानारत्नाकरं पुण्यं पुण्यकृद्भिर्निषेवितम् ॥ ४१ विपुलं शैलराजानं विपुलोदरकन्दरम् । नितम्बकुञ्जकट कैर्विमलैर्मण्डितोदरम् ॥ ४२ अपि या त्र्यवकस्यैषा त्रिदशैः सेवितोदका । वायुवेगा गताभोगा लतेव भ्रमिता पुनः ॥ ४३ मेरुकूटतटाद्भ्रष्टा प्रहतैः खादितोदका । विस्तीर्यमाणसलिला निर्मलांशुकसंनिभा ॥ ४४ तस्य कूटेऽम्बरनदी सिद्धचारणसेविता । प्रदक्षिणमथाऽऽवृत्य पतिता सानुगामिनी ॥ ४५ देवभ्राजं महाभ्राजं संवैभ्राजं महावनम् । प्लावयन्ती महाभागा नानापुष्पफलोदका ॥ ४६ प्रदक्षिणं प्रकुर्वाणा नानावर्नावभूषिता । प्रविष्टा पश्चिमसरः सितोदं विमलोदकम् ॥ ४७ सा सितोदाद्विनिष्क्रान्ता सुपक्षं पर्वतं गता । सुपक्षतस्तु पुण्योदात्ततो देवर्षिसेविता ॥ ४८ सुपक्षकूटतटगा तस्माच्च संशितोदका । निपपात महाभागा रमण्यं शिखिपर्वतम् ॥ ४९ शिखेश्च पर्वतात्कङ्कं कङ्काद्वैदूर्यपर्वतम् । वैदूर्यात्कपिलं शैलं तस्माच्च गन्धमादनम् ॥ ५० तस्माद्गिरिवरात्प्राप्ता पिञ्जरं वरपर्वतम् । पिञ्जरातसरसं याता तस्माच्च कुमुदाचलम् ॥ ५१ मधुमन्तं जनं चैव मुकुटं च शिलोच्चयम् । मुकुटाच्छेलशिखरात्कृष्णं याता महागिरिम् ॥ ५२ कृष्णाच्छ्वेतं महाशैलं महानगनिषेवितम् । श्वेतात्सरहस्राशिखरं शैलेन्द्रं पतिता पुनः ॥ ५३ अनेकाभिः स्रवन्तीभिराप्यायितजला शिवा । एवं शैलसहस्राणि सादयन्ती महानदी ॥ ५४ पारिजाते महाशैले निपपाताऽऽशुगामिनी ॥ अनेकनिर्झरनदी गुहासासु राजते । तस्य कुक्षिश्वनेकासु भ्रान्ततोया तरङ्गिणी ॥ ५५ व्याहन्यमानसंवेशा गण्डशैलैरनेकंशः । संविद्यमानसलिला गता च धरणीतले ॥ ५६ केतुमालं महाद्वीपं नानाम्लेच्छगणैर्युतम् । प्लावयन्ती महाभागा प्रयाता पश्चिमांर्णवम् ॥ ५७ सुवर्णचित्रपार्थे तु सुपार्श्वेऽप्युत्तरे गिरौ । मेरोश्चित्रमहापादे महासत्त्वनिषेविते ॥ ५८ मेरुकूटतटाद्भ्रष्टा पवनेनेरितोदका । अनेकाभोगवक्राङ्गी क्षिप्यमाणे नभस्तले ॥ ५९ षष्टियोजनसाहस्रे निरालम्बेऽम्बरे शुभे । विकीर्यमाणा मालेव निपपात महानदी ॥ ६० एवं कूटतटैर्भ्रष्टा नैकैर्देवर्षिसेवितैः । विकीर्यमाणसलिला नैकपुष्पोडुपोत्कचा ॥ ६१ नानारत्नवनोद्देशमरम्यं सवितुर्वनम् । महावनं महाभागा प्लावयन्ती प्रदक्षिणम् ॥ ६२ सरोवरं महापुण्यं महाभागनिषेवितम् । तत्राऽऽविवेश कल्याणी महाभद्रं सितोदका ॥ ६३
[अ० ४२-४३ श्लो० ६४-८१।१-५] वायुपुराणम् । १३१
( भुवनविन्यासः ) भद्रसोमेति नाम्ना हि महापारा महाजवा । महानदी महापुण्या महाभद्रा विनिर्गता ॥ ६४ नैकानिर्झरप्रपाढा वा शङ्खकूटतटे तु सा । तत्र कूटे गिरितटे निपपाताऽऽशुगामिनी ॥ ६५ शङ्खकूटतटाद्भ्रष्टा पपात वृषपर्वतम् । वृषपर्वताद्वत्सागिरिं नागशैलं ततो गता ॥ ६६ तस्मान्नीलं नगश्रेष्ठं संप्राप्ता वर्षपर्वतम् । नलिनाकपिञ्जलौ चैव इन्द्रनीलं च निम्नगा ॥ ६७ ततः परं महानीलं हेमशृङ्गं च सा ययौ । हेमशृङ्गाद्गता श्वेतं श्वेताच्च सुनगं ययौ ॥ ६८ सुनगाच्छतशृङ्गं च संप्राप्ता सा महानदी । शतशृङ्गान्महाशैलं पुष्करं पुष्पमण्डितम् ॥ ६९ पुष्कराच्च महाशैलं द्विरजं सुमहाबलम् । वराहपर्वतं तस्मान्मयूरं च शिलोच्चयम् ॥ ७० मयूराच्चैकशिखरं कन्दरोदरमण्डितम् । जातुर्धिं शैलशिखरं निपपाताऽऽशुगामिनी ॥ ७१ एवं गिरिसहस्राणि दारयन्ती महानदी । त्रिशृङ्गं शृङ्गकालिलं मर्यादापर्वतं गता ॥ ७२ त्रिशृङ्गतटविभ्रष्टा महाभागनिषेविता । मेरुकूटतटाद्भ्रष्टा पवनेनेरितोदका ॥ ७३ वीरुधं पर्वतवरं पपात विमलोदका । प्लावयन्ती महाभागा प्रयाता पश्चिमार्णवम् ॥ ७४ सुवर्णभुवि पार्श्वे तु सुपार्श्वेऽप्युत्तरे गिरौ । मेरोश्चित्रे महापादे महासत्त्वानिषेविते ॥ ७५ कन्दरोदरविभ्रष्टा तस्मादपि तरङ्गिणी । नैकभोगा पपातोर्वी विचित्रपुष्पोडुपोतकचा ॥ ७६ प्लावयन्ती प्रमुदिता उत्तरान्सा कुरूञ्छिवा । महाद्वीपस्य मध्येन प्रयाता सोत्तरार्णवम् ॥ ७७ एवं तास्तु महानद्यश्चतस्रो विमलोदकाः । महागिरितटभ्रष्टाः संपयाताश्चतुर्दिशम् ॥ ७८ तत्सेयं कथितप्राया पृथिवी बहुविस्तरा । मेरुशैलमहाकीर्णाऽविशच्च सर्वतोदिशम् ॥ ७९ चतुर्महाद्वीपवती चतुराक्रीडकानना । चतुष्केतुमहावृक्षा चतुर्वरसरस्वती ॥ ८० चतुर्महाशैलवती चतुरोरगसंश्रया । अष्टात्तरमहाशैला तथाऽष्टवरपर्वता ॥ ८१
इति श्रीमहापुराणे वायुप्रोक्ते भुवनविन्यासो नाम द्विचत्वारिंशोऽध्यायः ॥ ४२ ॥ आदितः श्लोकानां समष्ट्यङ्काः—१३८५
अथ त्रिचत्वारिंशोऽध्यायः । भुवनविन्यासः ।
सूत उवाच— गन्धमादनपार्श्वे तु स्फीता चोपरि गण्डिका । द्वात्रिंशतं सहस्राणि योजनैः पूर्वपश्चिमा ॥ १ अस्याऽऽयामश्चतुस्त्रिंशत्सहस्राणि प्रमाणतः । तत्र ते शुभकर्माणः केतुमालाः परिश्रुताः ॥ २ तत्र काला नराः सर्वे महासत्त्वा महाबलाः । स्त्रियश्चोत्पलपत्राभाः सर्वास्ताः प्रियदर्शनाः ॥ ३ तत्र दिव्यो महावृक्षः पनसः षड्रसाश्रयः । ईश्वरो ब्रह्मणः पुत्रः कामचारी मनोजवः ॥ तस्य पीत्वा फलरसं जीवन्ति हि समायुतम् ॥ ४ पार्श्वे मन्दरवतश्चापि पूर्वे पूर्वा तु गण्डिका । आयामतोऽथ विस्ताराद्यथैवापरगण्डिका ॥ ५
| १३२ | श्रीमद्वैपायनमुनिप्रणीतम्— | [अ० ४३ श्लो० ६-३२] |
|---|---|---|
| (भुवनविन्यासः) |
भद्राश्वास्तत्र विज्ञेया नित्यं मुदितमानसाः । भद्रं सालवनं तत्र कालाग्नाश्च महाद्रुमाः ॥ ६
तत्र ते पुरुषाः श्वेता महासत्त्वा महाबलाः । स्त्रियः कुमुदवर्णाभाः सुन्दर्यः प्रियदर्शनाः ॥ ७
चन्द्रप्रभाश्चन्द्रवर्णाः पूर्णचन्द्रनिभाननाः । चन्द्रशीतलगात्र्यश्च स्त्रियोञ्चोत्पलगन्धिकाः ॥ ८
दश वर्षसहस्राणि तेषामायुर्निरामयम् । कालाग्राम्रस्य रसं पीत्वा सर्वदा स्थिरयौवनाः ॥ ९
ऋषय ऊचुः—
प्रमाणं वर्णमायुश्च याथातथ्येन कीर्तितम् । चतुर्णांपि द्वीपानां समासान्न तु विस्तरात् ॥ १०
सूत उवाच—
भद्राश्वानां तथा चिह्नं कीर्तितं कीर्तिवर्धनः । तच्छृणुध्वं तु कात्स्न्र्येन पूर्वसिद्धैरुदाहृतम् ॥ ११
देवकूटस्य सर्वस्य प्रथितस्येह यत्परम् । पूर्वेण दिक्षु सर्वासु यथावच्च प्रकीर्तितम् ॥ १२
कुलाचलानां पञ्चानां नदीनां च विशेषतः । तथा जनपदानां च यथादृष्टं यथाश्रुतम् ॥ १३
शैवालो वर्णमालाग्रः कोरञ्जश्चाचलोत्तमः । श्वेतवर्णश्च नलिश्च पञ्चैते कुलपर्वताः ॥ १४
तेषां प्रसूरितन्येऽपि पर्वता बहुविस्तराः । कोटिकोटिः क्षितौ ज्ञेयाः शतशोऽथ सहस्रशः ॥ १५
तैर्विमिश्रा जनपदर्नानासत्त्वसमाकुलाः । नानाप्रकारजातीयास्त्वनेकनृपपालिताः ॥ १६
नामधेयैश्च विक्रान्तैः श्रीमद्भिः पुरुषर्षभैः । अध्यासिता जनपदाः कीर्तनीयाश्च शोभिताः ॥ १७
तेषां तु नामधेयानि राष्ट्राणि विविधानि च । गिर्यन्तरनिविष्टानि समेषु विषमेषु च ॥ १८
तथा सुमङ्गलाः शुद्धाश्चन्द्रकान्ताः सुनन्दनाः । व्रजका नलिमौलायाः सौवीरा विजयस्थलाः ॥ १९
महास्थलाः सुकामाश्च महाकेशाः सुधूर्धजाः । वातरंहाः सोपसङ्गाः परिवायाः पराचकाः ॥ २०
संभवक्त्रा महानेत्राः सैवालास्तनपास्तथा । कुमुदाः शाकमुण्डाश्च उरःसंकीर्णभौमकाः ॥ २१
सोदका वत्सकाश्चैव वाराहा हारवामकाः । शङ्खाख्या भाविचन्द्राश्च उत्तरा हेमभौमकाः ॥ २२
कृष्णभौमाः सुभौमाश्च महाभौमाश्च कीर्तिताः । एते चान्ये च विख्याता नानाजनपदा मया ॥ २३
ते पिबन्ति महापुण्यां महागङ्गां महानदीम् । आदौ त्रैलोक्यविख्याता शीता शीताम्बुवाहिनी ॥ २४
तथा च हंसवसतिर्महाचक्रा च निम्नगा । चक्रा वक्त्रा च काञ्ची च सुरसा चापगोत्तमा ॥ २५
शाखावती चन्द्रनदी मेघा मङ्कारवाहिनी । कावेरी हरितोया च सोमावर्ता शतह्रदा ॥ २६
वनमाला वसुमती पम्पा पम्पावती शुभा । सुवर्णा पञ्चवर्णा च तथा पुण्या वपुष्मती ॥ २७
माणिवा सुप्रा च ब्रह्मभागा शिलाशिनी । कृष्णतोया च पुण्योदा तथा नागपदी शुभा ॥ २८
शैवालिनी मणितटा क्षारोदा चारुणावती । तथा विष्णुपदी चैव महापुण्या महानदी ॥ २९
हिरण्यवाहिनीला च स्कन्दमाला सुरावती । वामोदा च पताका च वेताली च महानदी ॥ ३०
एता गङ्गा महानद्यो नायिकाः परिकीर्तिताः । क्षुद्रनद्यस्त्वसंख्याताः शतशोऽथ सहस्रशः ॥ ३१
पूर्वद्वीपस्यः वाहिन्यः पुण्यवत्यश्च कीर्तिताः । कीर्तनेनापि चैतासां पूतः स्यादिति मे मतिः ॥ ३२