वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
| ३७४ | श्रीमद्द्वैपायनमुनिप्रणीतम्- | [अ०१९श्लो०१०४-१२७] |
|---|---|---|
| (तुर्वस्वादिवंशकथनम्) |
[ *स तु दाशरथिर्वीरश्चतुरङ्गो महामनाः । ऋष्यशृङ्गप्रसादेन जज्ञेऽथ कुलवर्धनः ॥ १०४
चतुरङ्गश्च पुत्रस्तु पृथुलाक्ष इति श्रुतः । पृथुलाक्षसुतश्चापि चम्पो नाम बभूव ह ॥
चम्पस्य तु पुरी रम्या रम्या या मालिनी भवत् ॥ ] १०५
+ चम्पावती पुरी चम्पा चतुर्वर्णा च वै वसत् । षष्टिवर्षसहस्राणि चम्पावत्यां पुराऽवसत् ॥ १०६
ब्राह्मणैः क्षत्रियैर्वैश्यैः सर्वै स्वधर्मनुष्ठिते । सर्वे धर्मं वै तपसा सर्वे विष्णुपरायणाः(?) ॥
पूर्णभद्रप्रसादेन हर्यङ्गोऽस्य सुतोऽभवत् ॥ १०७
जज्ञे वै ताण्डिकरतस्य वारणं शुक्रवारणम् । आनयामास स महीं मन्त्रैर्वाहनमुत्तमम् ॥ १०८
हर्यङ्गस्य तु राजा दायादो भद्ररथः किल । अथ भद्ररथस्याऽऽसीद्बृहत्कर्मा प्रजेश्वरः ॥ १०९
बृहद्रथः सुतस्तस्य यस्माज्जज्ञे बृहन्मनाः । बृहन्मनास्तु राजेन्द्रो जनयामास वै सुतम् ॥ ११०
नाम्ना जयद्रथं नाम तस्माद्दढरथो नृपः । आसीद्दढरथस्यापि विश्वाजिज्जनमेजयः ॥ १११
दायादस्तस्य चाङ्गेभ्यो यस्मात्कर्णोऽभवन्नृपः । कर्णस्य सुरसेनस्तु द्विजस्तस्याऽऽत्मजः स्मृतः ॥११२
ऋषय ऊचुः—
सूतात्मजः कथं कर्णः कथं चाङ्गस्य वंशजः । एतदिच्छाम वै श्रोतुमत्यर्थं कुशलो ह्यसि ॥ ११३
सूत उवाच—
बृहद्भानोः सुतो जज्ञे नाम्ना राजा बृहन्मनाः । तस्य पत्नीद्वयं चाऽऽसीच्चैद्यस्योभे च ते सुते ॥
यशोदेवी च सत्या च ताभ्यां वंशस्तु भिद्यते । जयद्रथस्तु राजेन्द्रो यशोदेव्यां व्यजायत ॥ ११५
ब्रह्मक्षत्रान्तरः सत्यविजयो नाम विश्रुतः । विजयस्य धृतिः पुत्रस्तस्य पुत्रो धृतव्रतः ॥ ११६
धृतव्रतस्य पुत्रस्तु सत्यकर्मा महायशाः । सत्यकर्मसुतश्चापि सूतस्त्वधिरथस्तु वै ॥ ११७
स कर्णं परिजग्राह तेन कर्णस्तु सूतजः । एतद्वः कथितं सर्वं कर्णे यद्वै प्रचोदितम् ॥ ११८
सूत उवाच—
एतेऽङ्गवंशजाः सर्वे राजानः कीर्तिता मया । विस्तरेणाऽनुपूर्व्या च पुरोस्तु शृणुत प्रजाः ॥ ११९
पुरोः पुत्रो महाबाहुराजाऽऽसीज्जनमेजयः । अविद्धस्तु सुतस्तस्य यः प्राचीमजयद्दिशम् ॥ १२०
अविद्धतः प्रवीरस्तु मनस्युरभवत्सुतः । राजाऽथो जयदो नाम मनस्योरभवत्सुतः ॥ १२१
(÷दायादस्तस्य चाप्यासीद्दुन्धुर्नाम महीपतिः । धुन्धोर्बहुगवी पुत्रः संजातिस्तस्य चाऽऽत्मजः ॥ १२२
संजातेरथ रौद्राश्वस्तस्य पुत्रान्निबोधत ) । रौद्राश्वस्य घृताच्यां वै दशाप्सरसि सूनवः ॥ १२३
राजेयुश्च कृतेयुश्च कक्षेयुः स्थण्डिलेयु च । धृतेयुश्च जलेयुश्च स्थलेयुश्चैव सप्तमः ॥ १२४
धर्मेयुः संनतेयुश्च वनेयुर्दशमस्तु सः । रुद्रा शूद्रा च मद्रा च शुभा जामलजा तथा ॥ १२५
तला खला च सम्पैता या च गोपजला स्मृता । तथा ताम्ररसा चैव रत्नकूटी च ता दश ॥ १२६
आत्रेयो वंशतस्तासां भर्ता नाम्ना प्रभाकरः । अनाधृष्टस्तु राजर्षी रिवेयुस्तस्य चाऽऽत्मजः ॥ १२७
* धनुश्चिह्नान्तर्गतग्रन्थः ख. घ. ङ. पुस्तकेष्वेव ।
+ एतच्छ्लोकद्वयं घ. ङ. पुस्तकयोर्न ।
÷ एतच्चिह्नान्तर्गतग्रन्थः ख. पुस्तके नास्ति ।
[अ०९९श्लो०१२८-१५३] वायुपुराणम् । ३७५
( तुर्वस्वादि वंशकथनम् )
रिवेयोर्ज्वलना नाम भार्या वै तक्षकात्मजा । यस्यां देव्यां स राजर्षी रन्तिं नाम त्वजीजनत् ॥ १२८ रन्तिनारः सरस्वत्यां पुत्रानजनयच्छुभान् । त्रसुं तथाऽप्रतिरथं ध्रुवं चैवातिधार्मिकम् ॥ १२९ गौरी कन्या च विख्याता मांधातुर्जननी शुभा । धुर्योऽप्रतिरथस्यापि कण्ठस्तस्याभवत्सुतः ॥ १३० मेधातिथिः सुतस्तस्य यस्मात्काण्ठायना द्विजाः । इतिनानुयम (?) स्याऽऽसीत्कन्या साऽजनयत्सुतान् त्रसोः सुदायितं पुत्रं मलिनं ब्रह्मवादिनम् । उपदान्तं ततो लेभे चतुरस्तिवति साऽऽत्मजान् ॥ १३२ सुष्मन्तमथ दुष्म (ष्य)न्तं प्रवीरमनघं तथा । चक्रवर्ती ततो जज्ञे दौष्म (ष्य)न्तिर्नृपसत्तमः ॥ १३३ शकुन्तलायां भरतो यस्य नाम्ना तु भारतम् । दुष्म (ष्य)न्तं राजानं प्रति वागुवाचाशरीरिणी ॥ १३४ माता भस्त्रा पितुः पुत्रो येन जातः स एव सः । भर स्वपुत्रं दुष्मन्त सत्यमाह शकुन्तला ॥ १३५ रेतोधाः पुत्रं नयति नरदेव यमक्षयात् । त्वं चास्य धाता गर्भस्य माऽवमंस्थाः शकुन्तलाम् ॥ १३६ भरतस्त्विषु स्त्रीषु नव पुत्रानजीजनत् । नाभ्यनन्दच्च तान्राजा नानुरूपान्ममेत्युत ॥ १३७ ततस्ता मातरः क्रुद्धाः पुत्रान्निन्पुर्यमक्षयम् । ततस्तस्य नरेन्द्रस्य वितथं पुत्रजन्म तत् ॥ १३८ ततो मरुद्भिरानीय पुत्रस्तु स बृहस्पतेः । संक्रामितो भरद्वाजो मरुद्भिः क्रतुभिर्विभुः ॥ १३९ तत्रैवोदाहरन्तीदं भरद्वाजस्य धीमतः । जन्मसंक्रमणं चैव मरुद्भिर्भरताय वै ॥ १४० पत्न्यामासन्नगर्भायामुसिजः संस्थितः किल । भ्रातृभार्यां स दृष्ट्वाऽथ बृहस्पतिरुवाच ह ॥ अलंकृत्यो तनुं स्वां तु मैथुनं देहि मे शुभे ॥ १४१ एवमुक्ताऽब्रवीद्दे [* नमन्तर्वत्नी ह्यहं विभो । गर्भः परिणतश्चायं ब्रह्म व्याहरते गिरा ॥ १४२ अमोघरेतास्त्वं चापि धर्मश्चैव विगर्हितः । एवमुक्तोऽब्रवीदेनां ] स्मयमानो बृहस्पतिः ॥ १४३ विनयो नोपदेष्टव्यस्ततया मम कथं चन । हर्षमाणः प्रसभैनां मैथुनायोपचक्रमे ॥ १४४ ततो बृहस्पतिं गर्भो हर्षमाणमुवाच ह । संनिविष्टो ह्यहं पूर्वमिह तात बृहस्पते ॥ १४५ अमोघरेताश्च भवान्नावकाशोऽस्ति च द्वयोः । एवमुक्तः स गर्भेण कुपितः प्रत्युवाच ह ॥ १४६ यस्मान्मामीदृशे काले सर्वभूतोप्सिते सति । प्रतिषेधसि तत्तस्मात्तमो दीर्घं प्रवेक्ष्यसि ॥ १४७ पादाभ्यां तेन तच्छन्नं मातृद्वारं बृहस्पतेः । तदस्तस्तु तयोर्मध्येऽनिवार्यः शिशुकोऽभवत् ॥ १४८ सद्योजातं कुमारं तं दृष्ट्वाथ ममताऽब्रवीत् । गमिष्यामि गृहं स्वं वै भरद्वाजं बृहस्पते ॥ १४९ एवमुक्त्वा गतायां स पुत्रं त्यजति तत्क्षणात् । भरस्व बाढमित्युक्तो भरद्वाजस्ततोऽभवत् ॥ १५० (+मातापितृभ्यां संत्यक्तं दृष्ट्वाऽथ मरुतः शिशुम् । गृहीत्वैनं भरद्वाजं जग्मुस्ते कृपया ततः ॥ १५१ तस्मिन्काले तु भरतो मरुद्भिः क्रतुभिः क्रमात् । ) काम्यनैमित्तिकैर्यज्ञैर्यजतेते पुत्रलिप्सया ॥ १५२ यदा स यजमानो वै पुत्रान्नाऽऽसादयत्प्रभुः । यज्ञं ततो मरुत्सोमं पुत्रार्थे पुनराहरत् ॥ १५३
* धनुश्चिह्नान्तर्गतपन्यः ख. पुस्तके न । + धनुश्चिह्नान्तर्गतपन्थो न घ. पुस्तके ।
३७६ श्रीमद्वैपायनमुनिप्रणीतम्— [अ०१९श्लो०१५४-१८०]
( तुर्वस्वादि वंशकथनम् )
तेन ते मरुतस्तस्य मरुत्सोमेन तोषिताः । भारद्वाजं ततः पुत्रं बार्हस्पत्यं मनीषिणम् ॥ १५४
भरतस्तु भरद्वाजं पुत्रं प्राप्य तदाऽब्रवीत् । प्रजायां संहतायां वै कृतार्थोऽहं त्वया विभो ॥ १५५
पूर्वं तु वितथं तस्य कृतं वै पुत्रजन्म हि । ततः स वितथो नाम भारद्वाजस्तथाऽभवत् ॥ १५६
तस्माद्दिव्यो भरद्वाजो ब्राह्मण्यात्क्षत्रियोऽभवत् । द्विमुखायननामा स स्मृतो द्विपितर(तृक)स्तु वै
ततोऽथ वितथे जाते भरतः स दिवं ययौ । वितथस्य तु दायादो भुवमन्युर्बभूव ह ॥ १५८
महाभूतोपमाश्चाऽऽसंश्चत्वारो भुवमन्युजाः । बृहत्क्षत्रो महावीर्यो नरो गायश्च वीर्यवान् ॥ १५९
नरस्य सांस्कृतिः पुत्रस्तस्य पुत्रौ महौजसौ । गुरुवीर्यस्त्रिदेवश्च सांस्कृत्याववरौ स्मृतौ ॥ १६०
दायादाश्चापि गायस्य शिनिद्वृद्धाबभूव ह । स्मृताश्चैते ततो गार्ग्याः क्षात्रोपेता द्विजातयः ॥ १६१
महावीर्यसुतश्चापि भिमस्तस्मादुभक्षयः । तस्य भार्या विशाला तु सुषुवे वै सुतत्रयम् ॥ १६२
त्रय्यारुणिं पुष्कारणं तृतीयं सुषुवे कपिम् । कपेः क्षत्रवरा ह्येते तयोः प्रोक्ता महर्षयः ॥ १६३
गार्ग्याः सांस्कृतयो वीर्याः क्षात्रोपेता द्विजातयः । संश्रिताऽऽङ्गिरसं पक्षं बृहत्क्षत्रस्य वक्ष्यति ॥
बृहत्क्षत्रस्य दायादः सुहोत्रो नाम धार्मिकः । सुहोत्रस्यापि दायादो हस्ती नाम बभूव ह ॥
तेनेदं निर्मितं पूर्वं नाम्ना वै हस्तिनापुरम् ॥ १६५
हस्तिनश्चापि दायादास्त्रयः परमधार्मिकाः । अजमीढो द्विजामीढः पुरुमीढस्तथैव च ॥ १६६
* अजमीढस्य पत्न्यस्तु शुभाः कुरुकुलोद्वहाः । नीलिनी केशिनी चैव धूमिती च वराङ्गना ॥
अजमीढस्य पुत्रास्तु तासु जाता कुलोद्वहाः । तपसोऽन्ते सुमहतो राज्ञो वृद्धस्य धार्मिकाः ॥ १६८
भरद्वाजप्रसादेन शृणुध्वं तस्य विस्तरम् । अजमीढस्य केशिन्यां कण्ठः समभवत्किल ॥ १६९
मेधातिथिः सुतस्तस्य तस्मात्कण्ठायना द्विजाः । अजमीढस्य धूमिन्यां जज्ञे बृहद्वसुर्नृपः ॥ १७०
बृहद्धसोर्बृहद्विष्णुः पुत्रस्तस्य महाबलः । बृहत्कर्मा सुतस्तस्य पुत्रस्तस्य बृहद्रथः ॥ १७१
विश्वजित्तनयस्तस्य सेनाजित्स्य चाऽऽत्मजः । अथ सेनजितः पुत्राश्चत्वारो लोकविश्रुताः ॥ १७२
रुचिराश्वश्च काव्यश्च रामो दृढधनुस्तथा । वत्सश्चावन्तको राजा यस्य ते परिवत्सराः ॥ १७३
रुचिराश्वस्य दायादः पृथुषेणो महायशाः । पृथुषेणस्य पारस्तु पारान्नीपोऽथ जज्ञिवान् ॥ १७४
यस्य चैकशंतं चाऽऽसीत्पुत्राणामिति नः श्रुतम् । नीपा इति सामाख्याता राजानः सर्व एव ते ॥
तेषां वंशकरः श्रीमान्राजाऽऽसत्कीर्तिवर्धनः । काम्पिल्ये समरो नाम स चेष्टसमरोऽभवत् ॥ १७६
समरस्य परः पारः सत्वदश्च इति त्रयः । पुत्राः सर्वगुणोपेताः पारपुत्रो वृषुर्वभौ ॥ १७७
वृषोस्तु सुकृतिर्नाम सुकृतेनेह कर्मणा । जज्ञे सर्वगुणोपेतो विभ्राजस्तस्य चाऽऽत्मजः ॥ १७८
विभ्राजस्य तु दायादस्त्वणुहो नाम पार्थिवः । बभूव शुकजामाता ऋचीभर्ता महायशाः ॥ १७९
अणुहस्य तु दायादो ब्रह्मदत्तो महातपाः । योगसूनुः सुतस्तस्य विष्वक्सेनोऽभवन्नृपः ॥ १८०
* न विद्यतेऽयं श्लोकः क. पुस्तके ।
[अ० ९९ श्लो० १८१-२०४] वायुपुराणम् । ३७७
( तुर्वस्वादि वंशकथनम् )
विभ्राजपुत्रा राजानः सुकृतेनेह कर्मणा । विश्वक्सेनस्य पुत्रस्तु उदक्सेनो बभूव ह ॥ १८१
भल्लाटस्तस्य दायादो येन राजा पुरा हतः । भल्लाटस्य तु दायादो राजाऽऽसीज्जनमेजयः ॥
उग्रायुधेन तस्यार्थे सर्वे नीपाः प्रणाशिताः ॥ १८२
ऋषय ऊचुः—
उग्रायुधः कस्य सुतः कस्मिन्वंशे च कीर्त्यते । किमर्थं चैव नीपास्ते तेन सर्वे प्रणाशिताः ॥ १८३
सूत उवाच—
द्विमीटस्य तु दायादो विद्वाञ्जज्ञे यवीनरः । धृतिमांस्तस्य पुत्रस्तु तस्य सत्यधृतिः सुतः ॥ १८४
अथ सत्यधृतेः पुत्रो दृढनेमिः प्रतापवान् । दृढनेमिसुतश्चापि सुवर्मा नाम पार्थिवः ॥ १८५
आसीत्सुवर्मणः पुत्रः सार्वभौमः प्रतापवान् । सार्वभौम इति ख्यातः पृथिव्यामेकराड्बभौ ॥ १८६
तस्यान्वये च महति महत्पौरवनन्दनः । महत्पौरवपुत्रस्तु राजा रुक्मरथः स्मृतः ॥ १८७
अथ रुक्मरथस्यापि सुपार्श्वो नाम पार्थिवः । सुपार्श्वतनयश्चापि सुमतिर्नाम धार्मिकः ॥ १८८
सुमेतेरपि धर्मात्मा राजा संनतिमान्प्रभुः । तस्याऽऽसीत्सन्नतिर्नाम कृतस्तस्य सुतोऽभवत् ॥ १८९
शिष्यो हिरण्यनाभेस्तु कौथुमस्य महात्मनः । चतुर्विंशतिधा तेन प्रोक्तास्ताः सामसंहिताः ॥ १९०
स्मृतास्ते प्राच्यनामानः कार्ता साम्नां तु सामगाः । कार्तिरुग्रायुधः सोऽथ वीरः पौरवनन्दनः ॥
बभूव येन विक्रम्य पृषतस्य पितामहः । नीलो नाम महाबाहुः पञ्चालाधिपतिर्हतः ॥ १९२
उग्रायुधस्य दायादः क्षेमो नाम महायशाः । क्षेमात्सुवीरः संजज्ञे सुवीरस्य नृपंजयः ॥
नृपंजयाद्भीररथ इत्येते पौरवाः स्मृताः ॥ १९३
अजमीढस्य नीलिन्यां नीलः समभवन्नृपः । नीलस्य तपसोग्रेण सुशान्तिरभ्यजायत ॥ १९४
पुरुजानुः सुशान्तेस्तु रिक्थस्तु पुरुजानुजः । *ततस्तु रिक्थदायादो भेदाच्च तनयास्त्विमे ॥ १९५
मुद्गलः सृञ्जयश्चैव राजा बृहदिषुस्तथा । यवीयांश्चापि विक्रान्तः काम्पिल्यश्चैव पञ्चमः ॥ १९६
पञ्चानां रक्षणार्थाय पितैतानभ्यभाषत । पञ्चानां विद्धि पञ्चैतान्स्फीता जनपदा युताः ॥ १९७
अलं संरक्षणे तेषां (+पञ्चाला इति विश्रुताः । मुद्गलस्यापि मौद्गल्याः क्षात्रोपेतद्विजातयः ॥ १९८
एते ह्याङ्गिरसः पक्षे संश्रिताः कण्ठमुद्गलाः । मुद्गलस्य सुतो ज्येष्ठो ) बलिष्ठः सुमहायशाः ॥ १९९
इन्द्रसेना यतो गर्भं बध्यश्वं प्रत्यपद्यत । बध्यश्वामिथुनं जज्ञे मेनका इति नः श्रुतिः ॥ २००
दिवोदासश्च राजर्षिरहल्या च यशस्विनी । शारद्वतस्तु दायादमहल्या समसूत ॥ २०१
शतानन्दमृषिश्रेष्ठं तस्यापि सुमहायशाः । पुत्रः सत्यधृतिर्नाम धनुर्वेदस्य पारगः ॥ २०२
अथ सत्यधृतेः शुक्लं दृष्ट्वाऽप्सरसमग्रतः । प्रचस्कन्दे शरस्तम्बे मिथुनं समपद्यत ॥ २०३
कृपया तच्च जग्राह शांतनुर्मृगयां गतः । कृपः स्मृतः स वै तस्माद्गौतमी च कृपी तथा ॥ २०४
* नायं श्लोको घ. पुस्तके । + धनुश्चिह्नान्तर्गतग्रन्थो ङ. पुस्तके नास्ति ।
४८
३७८ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०१९श्लो०२०५-२२९] ( तुर्वस्वादि वंशकथनम् )
एते शारद्वताः प्रोक्ता ऋतथ्या गौतमान्वयाः । अत ऊर्ध्वं प्रवक्ष्यामि दिवोदासस्य संततिम् ॥२०५
दिवोदासस्य दायादो बलिष्ठो मित्रयुर्नृपः । मैत्रेयस्तु ततो जज्ञे स्मृता एतेऽपि संश्रिताः ॥ २०६
एतेऽपि संश्रिताः पक्षं क्षात्रोपेतास्तु भार्गवाः । राजाऽपि च्यवनो विद्वांस्ततोऽपातिरथोऽभवत् ॥२०७
अथ वै च्यवनाद्धीमान्सुदासः समपद्यत । सौदासः सहदेवश्च सोमकस्तस्य चाऽऽत्मजः ॥ २०८
अजमीढः पुनर्जातः क्षीणे वंशे स सोमकः । सोमकस्य सुतो जन्तुर्हते तस्मिञ्शतं विभो ॥ २०९
पुत्राणामजमीढस्य सोमकत्वे महात्मनः । तेषां यवीयान्पृषतो द्रुपदस्य पिताऽभवत् ॥ २१०
धृष्टद्युम्नः सुतस्तस्य धृष्टकेतुश्च तत्सुतः । महिषी चाजमीढस्य धूम्रिनी पुत्रगार्धिनी ॥ २११
पुनर्भवे तपस्तेपे शतं वर्षाणि दुश्चरम् । हुताग्न्यनिद्रा ह्यभवत्पवित्रामितभोजना ॥ २१२
अहोरात्रं कुशेष्वेव सुष्वाप सुमहाव्रता । तस्यां वै धूम्रवर्णायामजमीढश्च वीर्यवान् ॥ २१३
ऋक्षं सा जनयामास धूम्रवर्णं सिताग्रजम् । ऋक्षात्संवरणो जज्ञे कुरुः संवरणादभूत् ॥ २१४
यः प्रयागं पदाऽऽक्रम्य कुरुक्षेत्रं चकार ह । कृष्ट्वैनं सुमहातेजा वर्षाणि सुबहून्यथ ॥ २१५
कृष्यमाणे तदा शक्रस्तत्रास्य वरदो वभौ । पुण्यं च रमणीयं च पुण्यकृद्भिर्निषेवितम् ॥ २१६
तस्यान्ववायाजाः ख्याताः कुरवो नृपसत्तमाः । कुरोस्तु दयिताः पुत्राः सुधन्वा जह्नुुरेव च ॥२१७
परिक्षितो महाराजः पुत्रश्चारिमर्दनः । सुधन्वनस्तु दायादः सुहोत्रो मतिमान्स्मृतः ॥ २१८
च्यवनस्तस्य पुत्रस्तु राजा धर्मार्थकोविदः । च्यवनस्य कृतः पुत्र इष्ट्वा यज्ञैर्महात्मयाः ॥ २१९
विश्रुतं जनयामास पुत्रमिन्द्रसखं नृपः । विद्योपरिचरं वीरं वसुं नामान्तरिक्षगम् ॥ २२०
विद्योपरिचराज्जज्ञे गिरिका सप्त सूनवः । महारथो मगधराड्विश्रुतो यो बृहद्रथः ॥ २२१
प्रत्यग्रहः कुशश्चैव यमाहुर्मणिवाहनम् । प्राथैल्यश्च लालित्यश्च मत्स्यकालस्य सप्तमः ॥ २२२
बृहद्रथस्य दायादः कुशाग्रो नाम विश्रुतः । कुशाग्रस्याऽऽत्मजश्चैव ऋषभो नाम वीर्यवान् ॥ २२३
ऋषभस्यापि दायाद पुष्पवान्नाम धार्मिकः । विक्रान्तस्तस्य दायादो राजा सत्यहितः स्मृतः ॥ २२४
तस्य पुत्रः सुधन्वा च तस्मादूर्जः प्रतापवान् । ऊर्जस्य नभसः पुत्रस्तस्माज्जज्ञे स वीर्यवान् ॥ २२५
शकले द्वे स वै जातो जरया संधितस्तु सः । जरासंधो महाबाहुर्जरया संधितस्तु सः ॥ २२६
सर्वक्षत्रस्य जेताऽसौ जरासंधो महाबलः । जरासंधस्य पुत्रस्तु सहदेवः प्रतापवा ॥ २२७
सहदेवात्मजः श्रीमान्सोमाधिः सुमहातपाः । श्रुतश्रवास्तु सोमाधिर्मागधः परिकीर्तितः ॥ २२८
सूत उवाच—
परिक्षितस्य दायादो बभूव जनमेजयः । *जनमेजयस्य पुत्रस्तु सुरथो नाम भूमिपः ॥
सुरथस्य तु दायादो भीमसेनोऽपि नामतः ॥ २२९
* इदमर्धं न विद्यते क. ख. घ. पुस्तके ।
[ अ०९९श्लो०२३०-२५४ ] वायुपुराणम् । ३७५
( तुर्वस्वादिवांशकथनम् ) जह्नूस्त्वजनयत्पुत्रं सुरथं नाम भूमिपम् । सुरथस्य तु दायादो वीरो राजा विदूरथः ॥ २३० विदूरथसुतश्चापि सार्वभौम इति श्रुतिः । सार्वभौमाज्जयत्सेन आराधिस्तस्य चाऽऽत्मजः ॥ २३१ आराधितो महासत्त्व अयुतायुस्ततः स्मृतः । अक्रोधनोऽयुतायोस्तु तस्माद्देवातिथिः स्मृतः ॥ २३२ देवातिथेस्तु दायाद् ऋक्ष एव बभूव ह । भीमसेनस्तथा ऋक्षाद्दिलीपस्तस्य चाऽऽत्मजः ॥ २३३ दिलीपसूनुः प्रतिपस्तस्य पुत्रास्त्रयः स्मृताः । देवापिः शांतनुश्चैव बाह्लीकश्चैव ते त्रयः ॥ २३४ बाह्लीकस्य तु विज्ञेयः सप्तवाह्लीधरो नृपः । बाह्लीकस्य सुतश्चैव सोमदत्तो महायशाः ॥ जज्ञिरे सोमदत्तात्तु भूरिभूरिश्रवाः शलः ॥ २३५ दैवापिस्तु प्रवव्राजे वनं धर्मपरीप्सया । उपाध्यायस्तु देवानां देवापिरभवन्मुनिः ॥ २३६ च्यवनोऽस्य हि पुत्रस्तु इष्टकक्ष महात्मनः । शांतनुस्त्वभवद्राजा विद्वान्वै स महाभिषः ॥ २३७ इमं चोदाहरन्त्यत्र श्लोकं प्रति महाभिषम् । यं यं राजा स्पृशति वै जीर्णं समयतो नरम् ॥ २३८ पुनर्युवा स भवति तस्मान्ते शांतनुं विदुः । ततोऽस्य शांतनुत्वं वै प्रजास्विह परिश्रुतम् ॥ स तूपयेमे धर्मात्मा शांतनुर्जाह्नवीं नृपः ॥ २३९ तस्यां देवव्रतं भीष्मं पुत्रं सोऽजनयत्प्रभुः । स च भीष्म इति ख्यातः पाण्डवानां पितामहः ॥२४० काले विचित्रवीर्यं तु दासेय्यजनयत्सुतम् । शांतनोर्दयितं पुत्रं प्रजाहितकरं प्रभुम् ॥ कृष्णद्वैपायनश्चैव क्षेत्रे वैचित्रवीर्यके ॥ २४१ धृतराष्ट्रं च पाण्डुं च विदुरं चाप्यजीजनत् । धृतराष्ट्रात्तु गान्धारी पुत्राणां सुषुवे शतम् ॥ २४२ तेषां दुर्योधनो ज्येष्ठः सर्वक्षत्रस्य स प्रभुः । माद्री राज्ञी पृथा चैव पाण्डोर्भार्ये बभूवतुः ॥ २४३ देवदत्ताः सुतास्ताभ्यां पाण्डोरर्थे विजज्ञिरे । धर्माद्युधिष्ठिरो जज्ञे वायोर्जज्ञे वृकोदरः ॥ २४४ इन्द्राद्धनंजयो जज्ञे शक्रतुल्यपराक्रमः । अंश्विभ्यां सहदेवश्च नकुलश्चापि माद्रिजौ ॥ २४५ पञ्चैव पाण्डवेभ्यश्च द्रौपद्यां जज्ञिरे सुताः । द्रौपद्यजनयज्ज्येष्ठं प्रतिविन्ध्यं युधिष्ठिरात् ॥ २४६ हिडिम्बा भीमसेनात्तु जज्ञे पुत्रं घटोत्कचम् । काश्या पुनर्भीमसेनाज्जज्ञे सर्ववृकं सुतम् ॥ २४७ सुहोत्रं विजया माद्री सहदेवादजायत । कमेरेण्यां तु वैश्यायां निरामित्रस्तु नाकुलिः ॥ २४८ सुभद्रायां रथी पार्थादभिमन्युरजायत । उत्तरायां तु वैराटां परिक्षिदभिमन्युजः ॥ २४९ परिक्षितस्तु दायादो राजाऽऽसीज्जनमेजयः । ब्राह्मणान्स्थापयामास स वै वाजसनेयिकान् ॥ २५० असपत्नं तदामर्षाद्वैशम्पायन एव तु । न स्थास्यतीह दुर्बुद्धे तवैतद्वचनं भुवि ॥ २५१ यावत्स्थास्याम्यहं लोके तावन्नेतत्प्रशस्यते । अभितः संस्थितश्चापि ततः स जनमेजयः ॥ २५२ [*पौर्णमास्येन हविषा देवमिष्ट्वा प्रजापतिम् । विज्ञाय संस्थितोऽपश्यत्तदधीष्टं (तदिष्टं) विभोर्भखे ॥ परिक्षित्तनयश्चापि पौरवो जनमेजयः ] । द्विरश्वमेधमाहृत्य ततो वाजसनेयकम् ॥ प्रवर्त्तयित्वा तद्ब्रह्म त्रिखर्वी जनमेजयः ॥ २५४
* एतोच्चिह्नान्तर्गतग्रन्थः ख पुस्तके नास्ति ।
३८० | श्रीमद्द्वैपायनमुनिप्रणीतम्- | [अ०९९श्लो२५५-२७९] (तुर्वस्वादि वंशकथनम्)
खर्वमन्धकममुख्यानां खर्वमङ्गनिवासिनाम्। खर्वं च मध्यदेशानां निखर्वी जनमेजयः ॥
विषादाद्गलणैः सार्धमभिशस्तः क्षयं ययौ ॥ २५५
तस्य पुत्रः शतानीको बलवान्सत्यविक्रमः । ततः सुतं शतानीकं विप्रास्तमभ्यषेचयन् ॥ २५६
पुत्रोऽश्वमेधदत्तोऽभूच्छतानीकस्य वीर्यवान् । पुत्रोऽश्वमेधदत्ताद्वै जातः पुरपरंजयः ॥ २५७
अधिसामकृष्णो धर्मात्मा सांप्रतोऽयं महायशाः । यस्मिन्प्रशासति महीं युष्माभिरिदमाहृतम् ॥ २५८
दुरापं दीर्घसत्रं वै त्रीणि वर्षाणि दुश्चरम् । वर्षद्वयं कुरुक्षेत्रे दृषद्वत्यां द्विजोत्तमाः ॥ * २५९
ऋषय ऊचुः--
श्रोतुं भविष्यमिच्छामः प्रजानां वै महामते । सूत सार्थं नृपैर्भाव्यं व्यतीतं कीर्तितं त्वया ॥ २६०
यत्तु संस्थास्यते कृत्यमुत्पत्स्यन्ति च ये नृपाः । वर्षायतोऽपि प्रब्रूहि नामतश्चैव तान्नृपान् ॥ २६१
कालं युगप्रमाणं च गुणदोषान्भविष्यतः । सुखदुःखं प्रजानां च धर्मतः कामतोऽर्थतः ॥ २६२
एतत्सर्वं प्रसंख्याय पृच्छतां ब्रूहि तत्त्वतः । स एवमुक्तो मुनिभिः सूतो बुद्धिमतां वरः ॥
आचचक्षे यथावृत्तं यथादृष्टं यथाश्रुतम् ॥ २६३
सूत उवाच--
यथा मे कीर्तितं सर्वं व्यासेनाद्भुतकर्मणा । भाव्यं कलियुगं चैव तथा मन्वन्तराणि तु ॥ २६४
अनागतानि सर्वाणि ब्रुवतो मे निबोधत । अतः ऊर्ध्वं प्रवक्ष्यामि भविष्यन्ति नृपास्तु ये ॥ २६५
ऐलाश्चैव तथैक्ष्वाकूसौद्युम्नाश्चैव पार्थिवान् । येषु संस्थाप्यते क्षत्रमैक्ष्वाकवमिदं शुभम् ॥ २६६
तान्सर्वान्कीर्तयिष्यामि भविष्ये पठितान्नृपान् । तेभ्यः परे च ये चान्ये उत्पत्स्यन्ते महीक्षितः २६७
क्षन्त्राः पारशवाः शूद्रास्तथा ये च द्विजातयः । अन्ध्राः शकाः पुलिन्दाश्च तूलिका पवनैः सह ॥
कैवर्ताभीरशबरा ये चान्ये म्लेच्छजातयः । वर्षायतः प्रवक्ष्यामि नामतश्चैव तान्नृपान् ॥ २६९
अधिसामकृष्णः सोऽयं सांप्रतं पौरवान्नृपः । तस्यान्ववाये वक्ष्यामि भविष्ये तावतो नृपान् ॥ २७०
आधिसामकृष्णपुत्रो निर्वक्तो भविता किल । गङ्गायाऽपहृते तस्मिन्नगरे नागसाह्वये ॥
त्यक्त्वा च तं सवासं च कौशम्ब्यां स निवत्स्यति ॥ २७१
भविष्यदुष्णस्तत्पुत्र उष्णाच्चित्ररथः स्मृतः । शुचिद्रथाश्चित्ररथाद्धृतिमांश्च शुचिद्रथात् ॥ २७२
सुषेणो वै महावीर्यो भविष्यति महायशाः । तस्मात्सुषेणाद्भाविता सुतीर्थो नाम पार्थिवः ॥ २७३
रुचः सुतीर्थाद्भाविता त्रिचक्षो भविता ततः । त्रिचक्षस्य तु दायादो भविता वै सुखी बलः ॥ २७४
सुखीबलसुतश्चापि भाव्यो राजा परिप्लवः । परि तत्सुश्चापि भविता सुनयो नृपः ॥ २७५
मेधावी सुनयस्याथ भविष्यति नराधिपः । मेधाविनः सुतश्चापि दण्डपाणिर्भविष्यति ॥ २७६
दण्डपाणेर्निरामित्रो निरामित्राच्च क्षेमकः । पञ्चविंशन्नृपा होते भविष्याः पूर्ववंशजाः ॥ २७७
अत्रानुवंशश्लोकोऽयं गीतो विप्रैः पुराविदैः । ब्रह्मक्षत्रस्य यो योनिर्वंशो देवर्षिसत्कृतः ॥ २७८
क्षेमकं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ । इत्येष पौरवो वंशो यथावदनुकीर्तितः २७९
* अत्राध्यायसमाप्तिर्दृश्यते ख पुस्तके ।
[अ० ९९ श्लो० २८०-३०६] वायुपुराणम् । ३८१
(तुर्वस्वादिवंशकथनम्)
धीमतः पाण्डुपुत्रस्य अर्जुनस्य महात्मनः । अत ऊर्ध्वं प्रवक्ष्यामि इक्ष्वाकूणां महात्मनाम् ॥ २८०
बृहद्रथस्य दायादो वीरो राजा बृहत्क्षयः । ततः क्षयः सुतस्तस्य वत्सव्यूहस्ततः क्षयात् ॥ २८१
वत्सव्यूहात्प्रतिव्यूहस्तस्य पुत्रो दिवाकरः । यश्च सांप्रतमध्यास्ते अयोध्यां नगरीं नृपः ॥ २८२
दिवाकरस्य भविता सहदेवो महायशाः । सहदेवस्य दायादो बृहदश्वो भविष्यति ॥ २८३
तस्य भानुरथो भाव्यः प्रतीताश्वश्च तत्सुतः । प्रतीताश्वसुतश्चापि सुप्रतीतो भविष्यति ॥
सहदेवः सुतस्तस्य सुनक्षत्रश्च तत्सुतः ॥ २८४
किंनरस्तु सुनक्षत्राद्भविष्यति परंतपः । भविता चान्तरिक्षस्तु किंनरस्य सुतो महान् ॥ २८५
अन्तरिक्षात्सुपर्णस्तु सुपर्णाच्चाप्यमित्रजित् । पुत्रस्तस्य भरद्वाजो धर्मी तस्य सुतः स्मृतः ॥ २८६
पुत्रः कृतंजयो नाम धर्मिणः स भविष्यति । कृतंजयसुतो व्रातो तस्य पुत्रो रणंजयः ॥ २८७
भविता संजयश्चापि वीरो राजा रणंजयात् । संजयस्य सुतः शाक्यः शाक्याच्छुद्धोदनोऽभवत् ॥
शुद्धोदनस्य भविता शाक्यार्थे राहुलः स्मृतः । प्रसेनाजित्ततो भाव्यः क्षुद्रको भविता ततः ॥ २८९
क्षुद्रकात्क्षुलिको भाव्यः क्षुलिकात्सुरथः स्मृतः । सुमित्रः सुरथस्यापि अन्त्यश्च भवति नृपः ॥
एत ऐक्ष्वाकवाः प्रोक्ता भवितारः कलौ युगे । बृहद्वलान्वये जाता भवितारः कलौ युगे ॥
शूराश्च कृतविद्याश्च सत्यसंधा जितेन्द्रियाः ॥ २९१
अत्रानुवंशश्लोकोऽयं भविष्यज्ञैरुदाहृतः । इक्ष्वाकूणामयं वंशः सुमित्रान्तो भविष्यति ॥ २९२
सुमित्रं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ । इत्येन्मानवं क्षत्रमैलं च समुदाहृतम् ॥ २९३
अत ऊर्ध्वं प्रवक्ष्यामि मागधेपान्बृहद्रथान् । जरासंधस्य ये वंशे सहदेवान्वये नृपाः ॥ २९४
अतीता वर्तमानाश्च भविष्याश्च तथा पुनः । प्राधान्यतः प्रवक्ष्यामि गदतो मे निबोधत ॥ २९५
सङ्ग्रामे भारते तस्मिन्सहदेवो निपातितः । सोमाधिस्तस्य तनयो राजर्षिः स गिरिव्रजे ॥ २९६
पञ्चाशतं तथाऽष्टौ च समा राज्यमकारयत् । श्रुतश्रवाश्चतुःषष्टिसमास्तस्य सुतोऽभवत् ॥ २९७
अयुतायुस्तु षड्विंशं राज्यं वर्षाण्यकारयत् । समाः शतं निरामित्रो महीं भुक्त्वा दिवं गतः ॥
पञ्चाशतं समाः षट् च सुंक्षत्तः प्राप्तवान्महीम् । त्रयोविंशं बृहत्कर्मा राज्यं वर्षाण्यकारयत् ॥ २९९
सेनाजित्सांप्रतं चापि एता वै भोक्ष्यते समाः । श्रुतंजयस्तु वर्षाणि चत्वारिंशद्भविष्यति ॥ ३००
महाबलो महाबाहुर्महाबुद्धिपराक्रमः । पञ्चविंशत्तु वर्षाणि महीं पालयिता नृपः ॥ ३०१
अष्टपञ्चाशतं चाब्दान्राज्ये स्थास्यति वै शुचिः । अष्टाविंशत्समाः पूर्णाः क्षेमो राजा भविष्यति ॥
भुवतस्तु चतुःषष्टी राज्यं प्राप्स्यति वीर्यवान् । पञ्चवर्षाणि पूर्णानि धर्मनेत्रो भविष्यति ॥ ३०३
भोक्ष्यते नृपतिश्चैव अष्टपञ्चाशतं समाः । अष्टत्रिंशत्समा राज्ये सुव्रतस्य भविष्यति ॥ ३०४
[* चत्वारिंशदष्टाष्टौ च दृढसेनो भविष्यति । त्रयस्त्रिंशत्तु वर्षाणि सुमतिः प्राप्स्यते ततः ॥ ३०५
द्वाविंशतिसमा राज्यं सुचलो भोक्ष्यते ततः] । चत्वारिंशत्समा राजा सुनेत्रो भोक्ष्यते ततः ॥ ३०६
* एतच्चिह्नान्तर्गतग्रन्थो न विद्यते ख. ग. पुस्तकयोः ।
३८२ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०१९श्लो०३०७-३३२] ( तुर्वस्वादिवांशकथनम् )
सत्यजित्पृथिवीराज्यं त्र्यशीतिं भोक्ष्यते समाः । प्राप्येमां वीराजिञ्चापि पञ्चात्रिंशद्भवष्यिति ॥ ३०७ अरिंजयस्तु वर्षाणि पञ्चाशत्प्राप्स्यते महीम् । द्वात्रिंशच्च नृपा ह्येते भवितारो बृहद्रथात् ॥ ३०८ पूर्णं वर्षसहस्रं वै तेषां राज्यं भविष्यति । बृहद्रथेष्वतीतेषु वीतहोत्रेषु वर्तिषु ॥ ३०९ मुनिकः स्वामिनं हत्वा पुत्रं समाभिषेक्ष्यति । मिषतां क्षत्रियाणां हि प्रद्योतो मुनिको बलात् ॥ ३१० स वै प्रणतसामन्तो भविष्येऽनयवर्जितः । त्रयोविंशत्समा राजा भविता स नरोत्तमः ॥ ३११ चतुर्विंशत्समा राजा पालको भविता ततः । विशाखयूपो भविता नृपः पञ्चाशतीं समाः ॥ ३१२ एकविंशत्समा राज्यमजकस्य भविष्यति । भविष्यति समा विंशत्तत्सुतो वर्तिवर्धनः ॥ ३१३ अष्टत्रिंशच्छतं भाव्याः प्रद्योताः पञ्च ते सुताः । हत्वा तेषां यशः कृत्स्नं शिशुनाको भविष्यति ॥ वाराणस्यां सुतस्तस्य संस्थाप्स्यति गिरिव्रजम् । शिशुनाकस्य वर्षाणि चत्वारिंशद्भवष्यिति । ३१५ शकवर्णः सुतस्तस्य षट्त्रिंशच्च भविष्यति । ततस्तु विंशतिं राजा क्षेमवर्मा भविष्यति ॥ ३१६ अजातशत्रुर्भविता पञ्चविंशत्समा नृपः । (* चत्वारिंशत्समा राज्यं क्षत्रौजाः प्राप्स्यते ततः ॥ ३१७ अष्टाविंशत्समा राजा विविसारो भविष्यति । पञ्चविंशत्समा राजा दर्शकस्तु भविष्यति ॥ ३१८ उदायी भविता यस्मात्त्रयस्त्रिंशत्समा नृपः । वै स पुरवरं राजा पृथिव्यां कुसुमाह्वयम् ॥ गङ्गाया दक्षिणे कूले चतुर्थेऽब्दे करिष्यति ॥ ३१९ द्वाचत्वारिंशत्समा भाव्यो राजा वै नन्दिवर्धनः । चत्वारिंशत्रयं चैव महानन्दी भविष्यति ॥ ३२० इत्येते भवितारो वै शैशुनाका नृपा दश । शतानि त्रीणि वर्षाणि द्विषष्ट्यभ्यधिकानि तु ॥ ३२१ शैशुनाका भविष्यन्ति राजानः क्षत्रबान्धवाः । एतैः सार्धं भविष्यन्ति तावत्कालं नृपाः परे ॥ ३२२ ऐक्षाकवाश्चतुर्विंशत्पञ्चालाः पञ्चविंशतिः । कालकास्तु चतुर्विंशच्चतुर्विंशत्तु हैहयाः ॥ ३२३ द्वात्रिंशद्वै कलिङ्गास्तु पञ्चविंशत्तथा शकाः । (+कुरवश्चापि षट्त्रिंशदष्टाविंशतिमैथिलाः ॥ ३२४ शूरसेनास्त्रयोविंशद्वीतिहोत्राश्च विंशतिः । तुल्यकालं भविष्यन्ति सर्व एव महीक्षितः ॥ ) ३२५ महानन्दिसुतश्चापि शूद्रायां कालसंवृतः । उत्पत्स्यते महापद्मः सर्वक्षत्रान्तरे नृपः ॥ ३२६ ततः प्रभृति राजानो भविष्याः शूद्रयोनयः । एकराट् स महापद्म एकछत्रो भविष्यति ॥ ३२७ अष्टाविंशतिवर्षाणि पृथिवीं पालयिष्यति । सर्वक्षत्रहरोद्धृत्य भाविनोऽर्थस्य वै बलात् ॥ ३२८ सहस्रास्तत्सुता ह्यष्टौ समा द्वादश ते नृपाः । महापद्मस्य पर्याये भविष्यन्ति नृपाः क्रमात् ॥ ३२९ उद्धरिष्यति तान्सर्वान्कौटिल्यो वै द्विरष्टभिः । भुक्त्वा महीं वर्षशतं नन्देन्दुः स भविष्यति ॥ ३३० चन्द्रगुप्तं नृपं राज्ये कौटिल्यः स्थापयिष्यति । चतुर्विंशत्समा राजा चन्द्रगुप्तो भविष्यति ॥ ३३१ भविता भद्रसारस्तु पञ्चविंशत्समा नृपः । षड्विंशत्तु समा राजा अशोको भविता नृषु । ३३२
* इत आरभ्य पञ्चविंशत्समा नृप इत्यन्तः पाठो ङ. पुस्तके नास्ति । +धनुश्चिह्नान्तर्गतग्रन्थो ग. पुस्तके नास्ति ।
[अ०९९श्लो० ३३३-३५४] वायुपुराणम् । ३८३
(तुर्वस्वादि वंशकथनम्)
तस्य पुत्रः कुनालस्तु वर्षाण्यष्टौ भविष्यति । कुनालसूनुरष्टौ च भोक्ता वै बन्धुपालितः ॥ ३३३
बन्धुपालितदायादो दशमानीन्द्रपालितः । भविता सप्त वर्षाणि देववर्मा नराधिपः ॥ ३३४
राजा शतधरश्चाष्टौ तस्य पुत्रो भविष्यति । बृहदश्वश्च वर्षाणि सप्त वै भविता नृपः ॥ ३३५
इत्येते नव भूपा ये भोक्ष्यन्ति च वसुंधराम् । सप्तत्रिंशच्छतं पूर्णं तेभ्यः शुङ्गान्र्गमिष्यति ॥ ३३६
पुष्पमित्रस्तु सेनानीरुद्धृत्य वै बृहद्रथम् । कारयिष्यति वै राज्यं समाः षष्टि सदैव तु ॥ ३३७
पुष्पमित्रसुताश्चाष्टौ भविष्यन्ति समा नृपाः । भविता चापि तज्ज्येष्ठः सप्त वर्षाणि वै ततः ॥ ३३८
वसुमित्रः सुतो भाव्यो दश वर्षाणि पार्थिवः । ततोऽन्धकः समा द्वै तु भविष्यति सुतश्च वै ॥ ३३९
भविष्यन्ति समास्तस्मात्तिस्र एव पुलिन्दकाः । राजा घोषसुताश्चापि वर्षाणि भविता त्रयः(?) ॥
ततो वै विक्रमित्रस्तु समा राजा ततः पुनः । द्वात्रिंशद्भाविता चापि समा भागवतो नृपः ॥ ३४१
भविष्यति सुतस्तस्य क्षेमभूमिः समा दश । दशैते तुङ्गराजाना भोक्ष्यन्तीमां वसुंधराम् ॥ ३४२
शतं पूर्णं दश द्वे च तेभ्यः किं वा गमिष्यति । अपार्थिवसुदेवं तु बाल्याद्व्यसनिनं नृपम् ॥ ३४३
देवभूमिस्ततोऽन्यश्च शृङ्गेषु भविता नृपः । भविष्यति समा राजा नवकण्ठायनस्तु सः ॥ ३४४
भूतिमित्रः सुतस्तस्य चतुर्विंशद्गविष्यति । भविता द्वादश समा तस्मान्नारायणो नृपः ॥ ३४५
सुशर्मा तत्सुतश्चापि भविष्यति समा दश । चतु(त्वा)रस्तुङ्गकृत्यास्ते नृपाः कण्ठायना द्विजाः ॥
भाव्याः प्रणतसामन्ताश्चत्वारिंशच्च पञ्च च । तेषां पर्यायकाले तु तरन्धा तु भविष्यति ॥ ३४७
कण्ठायनमथोत्यद्धृ सुशर्माणं प्रसह्म तम् । शुङ्गानां चापि यच्छिष्टं क्षपयित्वा बलं तदा ॥
सिन्धुको ह्यन्ध्रजातीयः प्राप्स्तीमां वसुंधराम् ॥ ३४८
त्रयोविंशत्समा राजा सिन्धुको भविता त्वथ । अष्टौ भातश्च वर्षाणि तस्माद्दश भविष्यति(?) ॥
श्रीशातकर्णिर्भविता तस्य पुत्रस्तु वै महान् । पञ्चाशतं समाः षट् च शातकर्णिर्भविष्यति* ॥३५०
आपादबद्धो दश वै तस्य पुत्रो भविष्यति । चतुर्विंशत्तु वर्षाणि षट् समा वै भविष्यति ॥ ३५१
भविता नेमिकृष्णस्तु वर्षाणां पञ्चविंशतिम् । ततः संवत्सरं पूर्णं हालो राजा भविष्यति ॥ ३५२
पञ्चसप्तकराजाना भविष्यन्ति महाबलाः । भाव्यः पुत्रिकषेणस्तु समाः सोऽप्येकाविंशतिम् ॥ ३५३
सातकर्णिर्वर्षमेकं भविष्यति नराधिपः । +चकार शातकर्णिस्तु षण्मासान्वै नराधिपः ॥
अष्टाविंशत्तु वर्षाणि शिवस्वामी भविष्यति ॥ ३५४
* इत उत्तरमेतदर्थमधिकम्— 'आपीलवा द्वादश वै तस्य पुत्रो भविष्यति' इति ख. ङ. पुस्तकयोः । + एतदर्धं क. ग. घ. पुस्तकेषु नास्ति ।
३८४ श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ०१९श्लो०३५५-३७८] ( तुर्वस्वादिवंशकथनम् )
राजा च गौतमीपुत्र एकविंशस्तभा नृपु । एकोनविंशतिं राजो यज्ञश्रीः सातकर्ण्यथ ॥ ३५५ षडेव भविता तस्माद्द्विजयस्तु समा नृपः । दण्डश्रीः सातकर्णी च तस्य पुत्रः समास्त्रयः ? ) ॥ पुलोवाऽपि समाः सप्त अन्येषां च भविष्यति । इत्येते वै नृपास्त्रिंशदन्धा भोक्ष्यन्ति ये महीम् ॥ समाः शतानि चत्वारि पञ्च षड्वै तथैव च । अन्ध्राणां संस्थिताः पञ्च तेषां वंशाः समाः पुनः ॥ सप्तैव तु भविष्यन्ति दशाऽऽभीरास्ततो नृपाः । सप्त गर्दभिनश्चापि तताऽथ दश वै शकाः ॥ ३५९ भवनाष्टौ भविष्यन्ति तुषारास्तु चतुर्दश । त्रयोदश मेनष्टाश्च मौना ह्यष्टादशैव तु ॥ ३६० अन्ध्रा भोक्ष्यन्ति वसुधां शते द्वे च शतं च वै । *शतानि त्रीण्यशीतिं च भोक्ष्यन्ति वसुधा शकाः अशीतिं चैव वर्षाणि भोकारो यवना महीम् [ पञ्चवर्षशतानीह तुषाराणां मही स्मृता ॥ ३६२ शतान्यर्धचतुर्थानि भवितास्त्रयोदश । मरुण्डा वृषलैः सार्धं भव्याऽन्या म्लेच्छजातयः ॥ ३६३ शताणि त्रीणि भोक्ष्यन्ति म्लेच्छा एकादशैव तु । तच्छन्नेन च कालेन ततः । कोलिकिला नृपाः ततः कोलिकिलेभ्यश्च विन्ध्यशक्तिर्भविष्यति । समाः षण्णवतिं ज्ञात्वा पृथिवीं च समेष्यति ॥ वृपान्वै दिशकांश्चापि भविष्यांश्च निबोधत । शेषस्य नागराजस्य पुत्रः स्वरपुरंजयः ॥ ३६६ भोगी भविष्यते राजा नृपो नागकुलोद्वहः । सदाचन्द्रस्तु चंद्रांशो द्वितीयो नखवांस्तथा ॥ ३६७ धनधर्मा ततश्चापि चतुर्थो विंशजः स्मृतः । भूतिनन्दस्ततश्चापि वैदेशे तु भविष्यति ॥ ३६८ +अज्ञानां नन्दनस्यान्ते मधुनान्दिर्भविष्यति । तस्य भ्राता यवीयांस्तु नाम्ना नन्दियशाः किल । तस्यान्वये भविष्यन्ति राजानस्ते त्रयस्तु वै । दौहित्रः शिशुको नाम पुरिकायां नृपोऽभवत् ॥३७० विन्ध्यशक्तिसुतश्चापि प्रवीरो नाम वीर्यवान् । भोक्ष्यन्ति च समाः षष्टिं पुरीं काञ्चनकां च वै । यक्ष्यन्ति वाजपेयैश्च समाप्तवरदक्षिणैः । तस्य पुत्रास्तु चत्वारो भविष्यन्ति नराधिपाः ॥ ३७२ विन्ध्यकानां कुलेऽतीते नृपा वै बाह्लिकास्ययः । सुप्रतीको नभीरस्तु समा भोक्ष्यति त्रिंशति (त) म् शक्यमा नाम वै राजा माहिषीणां महीपतिः । x पुष्पमित्रा भविष्यन्ति पटुमित्रास्त्रयोदश ॥ ३७४ मेकलायां नृपाः सप्त भविष्यन्ति च सत्तमाः । कोमलायां तु राजानो भविष्यन्ति महाबलाः ॥ मेघा इति समाख्याता बुद्धिमन्तो नवैव तु । नैषधाः पार्थिवाः सर्वे भविष्यन्त्यामनुक्षयात् ॥ ३७६ नलवंशप्रसूतास्ते वीर्यवन्तो महाबलाः । मागमावां महावीर्यो विश्वस्फानिर्भविष्यति ॥ ३७७ उत्साद्य पार्थिवान्सर्वान्सोऽन्यान्वर्णान्करिष्यति । कैवर्तान्पञ्चकांश्चैव पुलिन्दान्ब्राह्मणांस्तथा ॥३७८
* एतदनन्तरं ख. ग. घ. पुस्तकेष्वधिकः श्लोक उपलभ्यते स यथा ' सप्तषष्टि च वर्षाणि दशाऽऽभीरास्ततो नृपाः । सप्तगर्दभिनश्चैव भोक्ष्यन्तीमां द्विसप्ततिः' । इति । + एतदधं न ग.पुस्तके ।
×एतदर्थस्थान पुत्रमित्रा भविष्यन्ति षणिमत्रास्त्रयोदशति पाठो ङ पुस्तके ।
| [अ० ९९-श्लो०-३७९-४०४] | ।वायुपुराणम् | ३८५ |
|---|
( तुर्वस्वादिवांशकथनम् )
स्थापयिष्यन्ति राजानो नानादेशेषु तेजसा । विश्वस्फणिर्महासत्त्वो युद्धे विष्णुसमो बली ॥ ३७९
विश्वस्फानिर्नरपतिः क्लीबाकृतिरिवोच्यते । उत्सादयित्वा क्षत्रं तु क्षत्रमन्यत्करिष्यति ॥ ३८०
*देवान्पितॄंश्च विप्रांश्च तर्पयित्वा सकृत्पुनः । जाह्नवीतीरमासाद्य शरीरं यस्यते बली ॥ ३८१
संन्यस्य स्वशरीरं तु शुक्रलोकं गमिष्यति । नवनाकास्तु भोक्ष्यन्ति पुरीं चम्पावतीं नृपाः ॥ ३८२
मथुरां च पुरीं रम्यां नागा भोक्ष्यन्ति सप्त वै । अनुगङ्गं प्रयागं च साकेतु मगधांस्तथा ॥
एताञ्जनपदान्सर्वान्भोक्ष्यन्ते गुप्तवंशजाः ॥ ३८३
निषधान्यदुकांश्चैव शैशीतान्कालतोपकान् । एताञ्जनपदान्सर्वान्भोक्ष्यन्ति मणिधान्यजाः ॥ ३८४
कोशलांश्चान्ध्रपौण्ड्रांश्च ताम्रलिप्तान्ससागरान् । चम्पां चैव पुरीं रम्यां भोक्ष्यन्ति देवराक्षिताम् ॥ ३८५
कलिङ्गा महिषाश्चैव महेन्द्रानिलयाश्च ये । एताञ्जनपदान्सर्वान्पालयिष्यति वै गुहः ॥ ३८६
स्रीराष्ट्रं भक्ष्यकांश्चैव भोक्ष्यते कनकाह्वयः । तुल्यकालं भविष्यन्ति सर्वे ह्येते महीक्षितः ॥ ३८७
अल्पप्रसादा ह्यनृता महाक्रोधा ह्यधार्मिकाः । भविष्यन्तीह यवना धर्मतः कामतोऽर्थतः ॥ ३८८
नैव मूर्धाभिषिक्तास्ते भविष्यन्ति नराधिपाः । युगदोषादुराचारा भविष्यन्ति नृपास्तु ते ॥ ३८९
स्त्रीणां बालवधेनैव हत्वा चैव परस्परम् । भोक्ष्यन्ति कलिशेषे तु वसुधा पार्थिवास्तथा ॥ ३९०
उदितोदितवंशास्ते उदितास्तमितास्तथा । भविष्यन्तीह पर्याये कालेन पृथिवीक्षितः ॥ ३९१
विहीनास्तु भविष्यन्ति धर्मतः कामतोऽर्थतः । तैर्विमिश्रा जनपदा म्लेच्छाचाराश्च सर्वशः ॥ ३९२
विपर्ययेण वर्तन्ते नाशयिष्यन्ति वै प्रजाः । लुब्धानुतरताश्चैव भवितारस्तदा नृपाः ॥ ३९३
तेषां व्यतीते पर्याये बहुस्त्रीके युगे तदा । ल्वालवं भ्रश्यमाना आयूरूपवलश्रुतैः ॥ ३९४
तथा गतास्तु वै काष्ठां प्रजासु जगतीश्वराः । राजानः संप्रणश्यन्ति कालेनोपहतास्तदा ॥ ३९५
कल्किनोपहताः सर्वे म्लेच्छा यास्यन्ति सर्वशः । अधार्मिकाश्च तेऽत्यर्थं पाषण्डाश्चैव सर्वशः ॥
प्रनष्टे नृपशब्दे च संध्याश्लिष्टे कलौ युगे । किंचिच्छिष्टाः प्रजास्ता वै धर्मे नष्टेऽपरिग्रहाः ॥ ३९७
असाधना हतास्वाश्च व्याधिशोकेन पीडिताः । अनावृष्टिहसाश्चैव परस्परवधेन च ॥ ३९८
अनाथा हि परित्रस्ता वार्तीमुत्सृज्य दुःखिताः । त्यक्त्वा पुराणि ग्रामांश्च भविष्यन्ति वनौकसः ॥
एवं नृपेषु नष्टेषु प्रजास्त्यक्त्वा गृहाणि तु । नष्टे स्नेहे दुरापन्ना भ्रष्टस्नेहाः सुहृज्जनाः ॥ ४००
वर्णाश्रमपरिव्रष्टाः संकरं घोरमास्थिताः । सरित्पर्वतसेविन्यो भविष्यन्ति प्रजास्तदा ॥ ४०१
सरितः सागरानूपान्सेवन्ते पर्वतानि च । अङ्गान्रकालिङ्गान्वङ्गांश्च काश्मीरान्काशिकोशलान् ॥४०२
ऋषिकान्तगिरिद्रोणीः संश्रयिष्यन्ति मानवाः । कृत्स्नं हिमवतः पृष्ठं कूलं च लवणाम्भसः ॥ ४०३
अरण्यान्याभिपत्स्यन्ति आर्या म्लेच्छजनैः सह । मृगैर्मीनैर्विहङ्गैश्च श्वापदैस्तक्षुभिस्तथा ॥
× मधुशाकफलैर्मूलैर्वर्तयिष्यन्ति मानवाः ॥ ४०४
*इतः प्रभृति सार्धश्लोको नास्ति ग. पुस्तके × इतः प्रभृति सार्धश्लोको नास्ति घ. पुस्तके ।
४९
३८६ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०१९श्लो०४०५-४२९] ( तुर्वस्वादिवांशकथनम् )
चीरं पर्णं च विविधं वल्कलान्याजिनानि च । स्वयं कृत्वा निवत्स्यन्ति यथामुनिजनास्तथा ॥४०५
बीजान्यानि तथा निम्नेष्वीहन्तः काष्ठशङ्कुभिः । अजैडकं खरोष्ट्रं च पालयिष्यन्ति यत्नतः ॥
नदीर्वत्स्यन्ति तोयार्थे कूलमाश्रित्य मानवाः । पार्थिवान्यव्यवहारेण विवादन्तः परस्परम् ॥ ४०७
बहपत्याः प्रजाहीनाः शौचाचारविवर्जिताः । एवं भविष्यन्ति नरास्तदाऽधर्मे व्यवस्थिताः ॥ ४०८
हीनाङ्गीनांस्तथा धर्मान्प्रजा समनुवर्तते । आयुस्तदा त्रयोविंशं न कश्चिदतिवर्तते ॥ ४०९
दुर्बला विषयग्लाना जरया संपरिप्लुताः । पत्रमूलफलाहाराश्चीरकृष्णाजिनम्बराः ॥ ४१०
वृत्त्यर्थमभिलिप्सन्तश्चरिष्यन्ति वसुंधराम् । एतत्कालत्रनुप्राप्ताः प्रजाः कलियुगान्तके ॥ ४११
क्षीणे कलियुगे तस्मिन्दिव्ये वर्षसहस्रके । निःशेषास्तु भविष्यन्ति सार्धं कलियुगेन तु ॥
ससंध्यांशे तु निःशेषे कृतं वै प्रतिपत्स्यते ॥ ४१२
यदा चन्द्रश्च सूर्य्यश्च तथा तिष्यबृहस्पती । एकरात्रे भविष्यन्ति तदा कृतयुगं भवेत् ॥ ४१३
एष वंशक्रमः कृत्स्नं कीर्तितो वो यथाक्रमन् । अतीता वर्तमानाश्च तथैवानागताश्च ये ॥ ४१४
महादेवाभिषेकात्तु जन्म यावत्परीक्षितः । एतद्वर्षसहस्रं तु ज्ञेयं पञ्चाशदुत्तरम् ॥ ४१५
प्रमाणं वै तथा चोक्तं महापद्मान्तरं च यत् । अन्तरं तच्छतान्यष्टौ षट्त्रिंशच्च समाः स्मृताः ॥
एतत्कालान्तरं भाव्या अन्ध्रान्ता ये प्रकीर्तिताः । भविष्यैस्तत्र संख्याताः पुराणज्ञैः श्रुतर्षिभिः ॥
*सप्तर्षयस्तदा प्रादुः प्रतीपे राज्ञि वै शतम् । सप्तविंशैः शतैर्भाव्या अन्ध्राणां ते त्वया पुनः ॥४१८
सप्तविंशतिपर्यन्ते कृत्स्ने नक्षत्रमण्डले । सप्तर्षयस्तु तिष्ठन्ति पर्यायेण शतं शतम् ॥
सप्तर्षीणां युगं ह्येतद्दिव्यया संख्यया स्मृतम् ॥ ४१९
सा सा दिव्या स्मृता षष्टिर्दिव्याह्नाश्चैव सप्तभिः । तेभ्यः प्रवर्तते कालो दिव्यः सप्तर्षिभिस्तु तैः ॥
सप्तर्षीणां तु ये पूर्वां दृश्यन्ते उत्तरादिशि । ततो मध्येन च क्षेत्रं दृश्यते यत्समं दिव ॥ ४२१
तेन सप्तर्षयो युक्ता ज्ञेया व्योम्नि शतं समाः । नक्षत्राणामृषीणां च योगस्यैतन्निदर्शनम् ॥ ४२२
सप्तर्षयो मघायुक्ताः काले पारिक्षिते शतम् । अन्ध्रांशे सचतुर्विंशे भविष्यन्ति मते मम ॥ ४२३
इमास्तदा तु प्रकृतीर्व्यापत्स्यन्ति प्रजा भृशम् । अनृतोपहताः सर्वा धर्मतः कामतोऽर्थतः ॥ ४२४
श्रौतस्मार्ते प्रशिथिले धर्मे वर्णाश्रमे तदा । संकरं दुर्बलात्मानः प्रतिपत्स्यन्ति मोहितः ॥ ४२५
संसक्ताश्च भविष्यन्ति शूद्राः सार्धं द्विजातिभिः । ब्राह्मणाः शूद्रयष्टारः शूद्रा वै मन्त्रयोनयः ॥
उपस्थास्यन्ति तान्विप्रास्तदा वै वृत्तिलिप्सवः । लवं लवं भ्रश्यमानाः प्रजाः सर्वा क्रमेण तु ॥४२७
क्षयमेव गमिष्यन्ति क्षीणशेषा युगक्षये । यस्मिन्कृष्णे दिवं यातस्तस्मिन्नेव तदा दिने ॥ ४२८
प्रतिपन्नः कलियुगस्तस्य संख्यां निबोधत । सहस्राणां शतानीह त्रीणि मानुषसंख्यया ॥
षष्टिं चैव सहस्राणि वर्षाणामुच्यते कलिः ॥ ४२९
* इतः प्रभृति पर्यायेण शतं शतमित्यन्तग्रन्थो ग. पुस्तके न विद्यते ।
[अ०९९श्लो०४३०-४५७] वायुपुराणम् । ३८७
( तुर्वस्वादि वंशकथनम् )
दिव्यं वर्षसहस्रं तु तत्संध्यांशं प्रकीर्तितम् । निःशेषे च तदा तस्मिन्कृतं वै प्रतिपत्स्यते ॥ ४३० ऐल इक्ष्वाकुवंशश्च सह भेदैः प्रकीर्तितौ । इक्ष्वाकोस्तु स्मृतः क्षत्रः सुमित्रान्तं विवस्वतः ॥ ४३१ ऐलं क्षत्रं क्षेमकान्तं सोमवंशाविदो विदुः । एते विवस्वतः पुत्राः कीर्तिता कीर्तिवर्धनाः ॥ ४३२ अतीता वर्तमानाश्च तथैवानागताश्च ये । ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैवान्वये स्मृताः ॥ ४३३ युगे युगे महात्मानः समतीताः सहस्रशः । बहुत्वान्नामधेयानां परिसंख्या कुले कुले ॥ ४३४ पुनरुक्तबहुत्वाच्च न मया परिकीर्तिताः । वैवस्वतेऽन्तरे ह्यस्मिन्निमिर्वंशः समाप्यते ॥ ४३५ एतस्यां तु युगारूढायां यतः क्षत्रं पप्स्यते । तथा हि कथयिष्यामि गदतो मे निबोधत ॥ ४३६ देवापिः पौरवो राजा इक्ष्वाकोश्चैव यो मतः । महायोगबलोपेतः कलापग्राममास्थितः ॥ ४३७ देवापिः पौरवो राजा इक्ष्वाकोस्तु भविष्यति । एतौ क्षत्रप्रणेतारौ चतुर्विंशे चतुर्युगे ॥ ४३८ न च विंशे युगे सोमवंशस्याऽऽदिर्भविष्यति । देवापिरसपत्नस्तु ऐलादिर्भविता नृपः ॥ ४३९ क्षत्रप्रवर्तकौ ह्येतौ भविष्येते चतुर्युगे । एवं सर्वत्र विज्ञेयं संतानार्थे तु लक्षणम् ॥ ४४० क्षीणे कलियुगे तस्मिन्भविष्ये तु कृते युगे । सप्तर्षिभिस्तु तैः सार्धमाद्ये त्रेतायुगे पुनः ॥ ४४१ गोत्राणां क्षत्रियाणां च भविष्यते प्रवर्तकौ । द्वापरांशे न तिष्ठन्ति क्षत्रिया ऋषिभिः सह ॥ ४४२ काले कृतयुगे चैव क्षीणे त्रेतायुगे पुनः । बीजार्थं ते भविष्यन्ति ब्रह्मक्षत्रस्य वै पुनः ॥ ४४३ एवमेव तु सर्वेषु तिष्ठन्तीहान्तरेषु वै । सप्तर्षयो नृपैः सार्धं संतानार्थे युगे युगे ॥ ४४४ क्षत्रस्यैव समुच्छेदः संबन्धो वै द्विजैः स्मृतः । मन्वन्तराणां सप्तानां संतानाश्च सुताश्च ते ॥ ४४५ परम्परा युगानां च ब्रह्मक्षत्रस्य चोद्भवः । यथा प्रवृत्तिस्तेषां वै प्रवृत्तानां तथा क्षयः ॥ ४४६ सप्तर्षयो विदुस्तेषां दीर्घायुष्टाक्षयास्तु ते (?) । एतेन क्रमयोगेन ऐलेक्ष्वाकन्वया द्विजाः ॥ ४४७ उत्पद्यमानास्त्रेतायां क्षीयमाणे कलौ पुनः । अनुयान्ति युगारूढां तु यावन्मन्वन्तरक्षयः ॥ ४४८ जामदग्न्येन रामेण क्षत्रे निरवशेषिते । कृते वंशकुलाः सर्वाः क्षत्रियैर्वसुधाधिपैः ॥ द्विवंशकरणांश्चैव कीर्तयिष्ये निबोधत ॥ ४४९ ऐलस्येक्ष्वाकुनन्दस्य प्रकृतिः परिवर्तते । राजानः श्रेणिबद्धास्तु तथाऽन्ये क्षत्रिया नृपाः ॥ ४५० ऐलवंशस्य ये ख्यातास्तथैवेक्ष्वाकवा नृपाः । तेषामेकशतं पूर्णं कुलानामाभिषेकिणाम् ॥ ४५१ तावदेव तु भोजानां विस्तरो द्विगुणः स्मृतः । भजते त्रिंशकं क्षत्रं चतुर्था तद्यथादिशम् ॥ ४५२ तेष्वतीताः समाना ये ब्रुवतस्तान्निबोधत । शतं वै प्रतिविन्ध्यानां शतं नागाः शतं हयाः ॥ ४५३ धृत(धार्त)राष्ट्राश्चैकशतमशीतिर्जनमेजयाः । शतं च ब्रह्मदत्तानां शीरिणां वीरिणां शतम् ॥ ४५४ ततः शतं तु पौलानां श्वेतकाशाकुशादयः । ततोऽपरे सहस्रं वै येऽतीताः शतबिन्दवः ॥ ४५५ ईजिरे चाश्वमेधैस्ते सर्वे नियतदक्षिणैः । एवं राजर्षयोऽतीताः शतशोऽथ सहस्रशः ॥ ४५६ मनोर्वैवस्वतस्यास्मिन्वर्तमानेऽन्तरे तु ये । तेषां निबोधतोत्पन्ना लोके संततयः स्मृताः ॥ ४५७
३८८ श्रीमद्द्वैपायनमुनिप्रणीतम्-[अ०९९-१००श्लो०४५८-४६४।१-१३] ( मन्वन्तरनिसर्गादिकथनम् )
न शक्यं विस्तरं तेषां संतानानां परम्परा । तत्पूर्वापरयोगेन वक्तुं वर्षशतैरपि ॥ ४५८ अष्टाविंशद्युगाख्यास्तु गता वैवस्वतेऽन्तरे । एता राजर्षिभिः सार्धं शिष्टा यास्ता निबोधत ॥ ४५९ चत्वारिंशच्च ये चैव भविष्याः सह राजभिः । युगाख्यानां विशिष्टास्तु ततो वैवस्वतक्षये ॥ ४६० एतद्वः कथितं सर्वं समासव्यासयोगतः । पुनरुक्तं बहुतवाच्च न शक्यं तु युगैः सह ॥ ४६१ एते ययातिपुत्राणां पञ्चविंशा विशां हिताः । कीर्तिता ह्यमिता ये ये लोकान्वै धारयन्त्युत ॥ ४६२ लभते च वरान्पञ्च दुर्लभानिह लौकिकान् आयुः कीर्तिं धनं पुत्रान्स्वर्गं चाऽऽनन्त्यमश्नुते ॥ ४६३ धारणाच्छ्रवणाच्चैव ते लोकान्धारयन्त्युत । इत्येष वो मया पादस्तृतीयः कथितो द्विजाः ॥ विस्तरेणाऽऽनुपूर्व्या च किं भूयो वर्तयान्महम् ॥ ४६४
इति श्रीमहापुराणे वायुप्रोक्ते तुर्वस्वादि वंशवर्णनं नाम नवनवतितमोऽध्यायः ॥ ९८ ॥ आदितः श्लोकानां समष्ट्यङ्काः-९५१४ इत्युपोद्घातपादस्तृतीयः ।
अथ उपसंहारपादः । अथ शततमोऽध्यायः । मन्वन्तरनिसर्गवर्णनम् ।
श्रुत्वा पादं तृतीयं तु क्रान्तं सूतेन धीमता । ततश्चतुर्थं पप्रच्छुः पादं वै ऋषिसत्तमाः ॥ १ ऋषय ऊचुः- पादः क्रान्तस्तृतीयोऽयमनुषङ्गेण यस्त्वया । चतुर्थं विस्तरात्पादं संहारं परिकीर्तय ॥ २ मन्वन्तराणि सर्वाणि पूर्वाण्येवापरैः सह । सप्तर्षीणामथैतेषां सांप्रतस्यान्तरे मनोः ॥ ३ विस्तरावयवं चैव निसर्गस्य महात्मनः । विस्तरेणाऽऽनुपूर्व्या च सर्वमेव ब्रवीहि मे ॥ ४ सूत उवाच- भवतां कथयिष्यामि सर्वमेतद्यथातथम् । पादं त्विमं ससंहारं चतुर्थं मुनिसत्तमाः ॥ ५ मनोर्वैवस्वतस्येमं सांप्रतस्य महात्मनः । विस्तरेणाऽऽनुपूर्व्या च निसर्गं शृणुत द्विजाः ॥ ६ मन्वंतराणां संक्षेपं भविष्यैः सह सप्तभिः । प्रलयं चैव लोकानां ब्रुवतो मे निबोधत ॥ ७ एतान्युक्तानि वै सम्यक्सप्तसप्तसु वै मया । मन्वन्तराणि संक्षेपाच्छृणुतानागतानि मे ॥ ८ सावर्ण्यस्य प्रवक्ष्यामि मनोर्वैवस्वतस्य ह । भाव्यष्यस्य भविष्यन्ति समासात्तन्निबोधत ॥ ९ अनागताश्च सप्तैव स्मृतास्त्विह महर्षयः । कौशिको गालवश्चैव जामदग्न्यश्च भार्गवः ॥ १० द्वैपायनो वसिष्ठश्च कृपः शारद्वतस्तथा । आत्रेयो दीप्तिमांश्चैव ऋष्यशृङ्गस्तु काश्यपः ॥ ११ भारद्वाजस्तथा द्रोणिरश्वत्थामा महायशाः । एते सप्त महात्मानो भविष्याः परमर्षयः ॥ १२ सुतपाश्चामिताभाश्च सुखाश्चैव गणास्त्रयः । तेषां गणास्तु देवानामेकैको विंशकः स्मृतः ॥ १३
[अ० १०० श्लो० १४-३७] वायुपुराणम् । ३८९
( मन्वन्तरनिसर्गादिकथनम् )
नामतस्तु प्रवक्ष्यामि निबोधध्वं समाहिताः । रितस्तपश्च शुक्रश्च द्युतिर्ज्योतिःप्रभाकरौ ॥ १४
प्रभासो भासकृद्धर्मस्तेजोरश्मिर्क्रतुर्विराट् । अर्चिष्मान्द्योतनो भानुर्यशः कीर्तिर्बुधो धृतिः ॥ १५
विंशतिः सुतपा ह्येते नामाभिः परिकीर्तिताः ॥
*प्रभुर्विभुर्विभासश्च जेता हन्तारिहा रितुः । सुमतिः प्रमतिर्दीप्तिः समाख्यातो महो महान् ॥ १६
देहो मुनिर्नयो ज्येष्ठः समः सत्यश्च विश्रुतेः । इत्येते ह्यमिताभास्तु विंशतिः परिकीर्तिताः ॥ १७
दमोदाता विदः सोमो वित्तवैद्यौ यमो निधिः । होमं हव्यं हुतं दानं देयं दाता तपः शमः ॥ १८
ध्रुवं स्थानं विधानं च नियमश्चेति विंशतिः । मुख्या ह्येते समाख्याताः सावर्णेः प्रथमेऽन्तरे ॥ १९
मारीचस्यैव ते पुत्राः कश्यपस्य महात्मनः । सांप्रतस्य भविष्यन्ति सावर्णस्यान्तरे मनोः ॥ २०
तेषामिन्द्रो भविष्यस्तु बलिर्वैरोचनः पुरा । वीरवांश्वावरीयांश्च निर्मोहः सत्यवाक्क्रुती ॥ २१
चरिष्णुराज्यौ विष्णुश्च वाचः सुमतिरेव च । सावर्णस्य मनोः पुत्रा भविष्यन्ति नवैव तु ॥ २२
नव चान्येषु वक्ष्यामि सावर्णेष्वान्तरेषु वै । सावर्णमनवश्चान्ये भविष्या ब्रह्मणः सुताः ॥ २३
मेरुसावर्णिनस्ते वै दृष्टा वै दिव्यदृष्टिभिः । दक्षस्य ते हि रोहिन्नाः प्रियाया दुहितुः सुताः ॥ २४
महता तपसा युक्ता मेरु पृष्ठे महौजसः । ब्रह्मादिभिस्ते जनिता दक्षेणैव च धीमता ॥ २५
महर्लोकगताऽऽवृत्त्य÷ भविष्या मेरुमाश्रिताः । महाभावास्तु ते पूर्वं जज्ञिरे चाक्षुषेऽन्तरे ॥ २६
ऋषय उवाच—
दक्षेण जनिताः पुत्राः कन्यायामात्मनः कथम् । भवेन ब्रह्मणा चैव धर्मेण च महात्मनः ॥ २७
सूत उवाच—
अतो भविष्यान्वक्ष्यामि सावर्णमनवस्तु ये । तेषां जन्म प्रभावं च नमस्कृत्य प्रचेतसे ॥ २८
वैवस्वते ह्युपस्पृष्टे किंचिच्छिष्टे च चाक्षुषे । जज्ञिरे मनवस्ते हि भविष्यानागतान्तरे ॥ २९
प्राचेतसस्य दक्षस्य दौहित्रा मनवस्तु ये । सावर्णा नामतः पञ्च चत्वारः परमार्षजाः ॥ ३०
संज्ञापुत्रस्तु सावर्ण एको वैवस्वतस्तथा । ज्येष्ठः संज्ञासुतो नाम मनुर्वैवस्वतः प्रभुः ॥ ३१
वैवस्वतेऽन्तरे प्राप्ते समुत्पत्तिस्तयोः शुभा । चतुर्दशैते मनवः कीर्तिताः कीर्तिवर्धनाः ॥ ३२
वेदे श्रुतो पुराणे च सर्वे ते प्रभुविष्णवः । प्रजानां पतयः सर्वे भूतानां पतयः स्थिताः ॥ ३३
तैरियं पृथिवी सर्वा सप्तद्वीपा सपर्वता । पूर्णं युगसहस्रं वै परिपाल्या नरेश्वरैः ॥ ३४
प्रजाभिस्तपसा चैव विस्तरं तेषु वक्ष्यते । चतुर्दशैव ते ज्ञेयाः सर्वाः स्वायंभुवादयः ॥ ३५
मन्वन्तराधिकारेषु वर्तन्तेऽत्र सकृत्सकृत् । विनिवृत्ताधिकारास्ते महर्लोकं समाश्रिताः ॥ ३६
समतीतास्तु ये तेषामष्टौ षष्ठास्तथाऽपरे । पूर्वेषु सांप्रतश्चायं शान्तिर्वैवस्वतः प्रभुः ॥ ३७
* इतः प्रभृति श्लोकद्वयं न विद्यते घ. पुस्तके । ÷ अत्र संधिरार्षः ।
कुले कुले निसर्गास्तु तस्माद्द्वयो विभागाः । तेषामेव हि सिद्ध्यर्थं विस्तरेण क्रमेण च ॥ ४१
३९० श्रीमद्वैपायनमुनिप्रणीतम्- [अ० १०० श्लो० ३८-६१] ( मन्वन्तरनिसर्गादिकथनम् )
ये शिष्टास्तान्प्रवक्ष्यामि सह देवर्षिदानवैः । सह प्रजाविसर्गेण सर्वांस्त्वनागतान्द्विजान् ॥ ३८ वैवस्वतान्निसर्गेण तेषां ज्ञेयस्तु विस्तरः । अन्यूना नातिरिक्तास्ते यस्मात्सर्वे विवस्वतः ॥ ३९ पुनरुक्ता बहुत्वात्तु न वक्ष्ये तेषु विस्तरम् । मन्वन्तरेषु भव्येषु भूतेष्वपि तथैव च ॥ ४० कुले कुले निसर्गास्तु तस्माद्द्वयो विभागाः । तेषामेव हि सिद्ध्यर्थं विस्तरेण क्रमेण च ॥ ४१ दक्षस्य कन्या धर्मिष्ठा सुव्रता नाम विश्रुता । सर्वकन्यावशिष्टा तु श्रेष्ठा धर्मपरा सुता ॥ गृहीत्वा तां पिता कन्यां जगाम ब्रह्मणोऽन्तिके ॥ ४२ वैराजस्तमुपासीनं धर्मेण च भवेन च । मेवधर्मसमीपस्थं दक्षं ब्रह्माऽभ्यभाषत ॥ ४३ दक्ष कन्या तवेयं वै जनयिष्यति सुव्रत । चतुरो वै मनून्पुत्रांश्चातुर्वर्ण्यकराञ्छुभान् ॥ ४४ ब्रह्मणो वचनं श्रुत्वा दक्षो धर्मो भवस्तदा । तां कन्यां मनसा जग्मुस्त्रयस्ते ब्रह्मणा सह ॥ ४५ सत्याभिध्यायिनां तेषां सद्यः कन्या व्यजायत । सदृशानुरूपांस्तेषां चतुरो वै कुमारकान् ॥ ४६ सांसिद्धा कार्यकारणे संभूतास्ते श्रियाऽन्विताः । उपभोगसमर्थैश्च सद्योजातैः शरीरकैः ॥ ४७ ते दृष्ट्वा तान्सुद्यं बुद्ध्वा ब्रह्म व्याहारिणस्तदा । संरब्धा वै व्यकर्षन्त मम पुत्रो ममेत्युत ॥ ४८ आभिध्यानान्मनोत्पन्नानुचुर्वे ते परस्परम् । यो यस्य वपुषा तुल्यो भजतां स तु तं सुतम् ॥ ४९ यस्य यः सदृशश्चापि रूपे वीर्ये च नामतः । तं गृह्णातु सुभद्रं वो वर्णतो यस्य यः समः ॥ ५० ध्रुवं रूपं पितुः पुत्रः सोऽनुरुध्यति सर्वदा । तस्मादात्मसमः पुत्रः पितुर्मातुश्च वीर्यतः ॥ ५१ एवं ते समयं कृत्वा सुवर्णा जगृहुः सुतान् । * यस्मात्सवर्णास्तेषां वै ब्रह्मादीनां कुमारकाः ॥ ५२ सवर्णा मनवस्तस्मात्सवर्णात्वं हि ते यतः । मननान्माननाच्चैव तस्मात्ते मनवः स्मृताः ॥ ५३ चाक्षुषस्यान्तरेऽतीते प्राप्ते वैवस्वतस्य ह । रुचेः प्रजापतेः पुत्रौ रौच्यो नामाभवत्सुतः ॥ ५४ भूत्यामुत्पादितो यस्तु भौत्यो नामाभवत्सुतः । वैवस्वतेऽन्तरे राजा द्वौ मनू तु विवस्वतः । ५५ वैवस्वतो मनुर्यश्च सावर्णी यश्च विश्रुतः । ज्येष्ठः संज्ञासुतो विद्वान्मनुर्वैवस्वतः प्रभुः ॥ ५६ सवर्ण्णायाः सुतश्चान्यः स्मृतो वैवस्वतो मनुः । सवर्णा मनवो ये च चत्वारस्तु महर्षिजाः ॥ ५७ तपसा संभृतात्मानः त्वेषु मन्वन्तरेषु वै । भविष्येषु भविष्यन्ति सर्वकार्यार्थसाधकाः ॥ ५८ प्रथमं मेरुसावर्णेर्दक्षपुत्रस्य वै मनोः । पुत्रा मरीचिगर्भाश्च सुशर्माणश्च ते त्रयः ॥ संभूताश्च महात्मानः सर्वे वैवस्वतेऽन्तरे ॥ ५९ दक्षपुत्रस्य पुत्रास्ते रोहितस्य प्रजापतेः । भविष्यस्य भविष्यस्तु एकैको द्वादशो गणः ॥ ६० ऐश्वर्यसंग्रहो राहो बाहुवशस्तथैव च । पारा द्वादश विज्ञेया उत्तरांस्तु निबोधत ॥ ६१
* इतःप्रभृति मनवः स्मृता इत्यन्तग्रन्थो ग पुस्तके नास्ति ।
[अ० १०० श्लो० ६२-८६] वायुपुराणम् । ३९१
( मन्वन्तरनिसर्गादिकथनम् )
वाजयो वाजिजिच्चैव प्रभूतिश्च ककुद्यथा । दधिक्रावायपक्काश्च प्रणीतो विजया मधुः ॥ ६२ तेजस्मान्नथवो (?) द्वौ तु द्वादशैते मरीचयः । सुशर्मा ( र्म )णस्तु वक्ष्यामि नामतस्तु निबोधत ॥६३ वर्णस्तथाऽप्यञ्जग्विर्श्वौ मरण्यो व्रजनो मतः । अमितो द्रवकेतुश्च जम्भोस्थाजस्रशक्रकाः ॥ ६४ सुनेमिर्धुतपाश्चैव सुशर्माणः प्रकीर्त्तिताः । तेषामिन्द्रस्तदा भाव्यो ह्यद्भुतो नाम नामतः ॥ ६५ स्कन्दः सोमप्रतीकाशः कार्तिकेयस्तु पावकः । मेधातिथिश्च पौलस्त्यो वसुः काश्यप एव च ॥ ६६ ज्योतिष्मान्भागर्वश्चैव द्युतिमानाङ्गिरस्तथा । वसितश्चैव वासिष्ठ आत्रेयो हव्यवाहनः ॥ ६७ सुतपाः पौलवश्चैव सप्तैते रोहितान्तरे । धृतिकेतुर्दीप्तिकेतुश्चापहस्ता निरामयः ॥ ६८ पृथुश्रवास्तथाऽनीको भूरिद्युम्नो बृहद्रथः । प्रथमस्य तु सावर्णैर्नव पुत्राः प्रकीर्तिताः ॥ ६९ दशमे त्वथ पर्याये धर्मपुत्रस्य वै मनोः । द्वितीयस्य तु सावर्णैर्भाव्यस्यैवान्तरे मनोः ॥ ७० सुवामना विरुद्धाश्च द्वावेव तु गणौ स्मृतौ । त्विषिवन्तश्च ते सर्वे शतसंख्याश्च ते समाः ॥ ७१ प्राणानायच्छतः प्रोक्ता ऋषिभिः पुरुषेषु वै । देवास्ते वै भविष्यन्ति धर्मपुत्रस्य वै मनोः ॥ ७२ तेषामिन्द्रस्तथा विद्वान्भविष्यः शान्तिरुच्यते । हविष्मान्पौलहः श्रीमान्सुकीर्तिश्चापि भार्गवः ॥ ७३ आपोमूर्तिस्तथाऽऽत्रेयो वसिष्ठश्चापि यः स्मृतः । पौलस्त्यः प्रतिपश्चापि नाभागश्चैव काश्यपः ॥ अभिमन्युश्चाङ्गिरसः सप्तैते परमर्षयः ॥ ॥ ७४ सुक्षेत्रश्चोत्तमौजाश्च भूरिषेणश्च वीर्यवान् । शतानीको निरमित्रो वृषसेनो जयद्रथः ॥ ७५ भूरिद्युम्नः सुवर्चाश्च दशैते मानवाः स्मृताः । एकादशे तु पर्याये सावर्णे वै तृतीयके ॥ ७६ र्निमाणरतयो देवाः कामजा वै मनोजवाः । गणास्वेते त्रयः ख्याता देवतानां महात्मनाम् ॥ ७७ एकैकस्त्रिंशतस्तेषां गणास्तु त्रिदिवौकसाम् । मासस्याहानि त्रिंशत्तु यानि वै कवयो विदुः ॥ ७८ र्निमाणरतयो देवा रात्रयस्तु विहंगमाः । गणास्ते वै त्रयः प्रोक्ता देवतानां भविष्यति ॥ ७९ मनोजवा मुहुर्तास्तु इति देवाः प्रकीर्तिताः । एते हि ब्रह्मणः पुत्रा भविष्या मनवः स्मृताः ॥ ८० तेषामिन्द्रो वृषो नाम भविष्यः सुरराट्तातः । तषां सप्तर्षयश्चापि कीर्त्यमानान्निबोधत ॥ ८१ हविष्मान्काश्यपश्चापि वपुष्मान्यश्च भार्गवः । वारुणिश्चैव चाऽऽत्रेयो वासिष्ठो भग एव च ॥ ८२ पुष्टिश्चाङ्गिरसो ज्ञेयः पौलस्त्यो निश्चरस्तथा । पौलहो ह्यभितेजाश्च देवा ह्येकादशेऽन्तरे ॥ ८३ सर्ववेगः सुधर्मा च देवानीकः पुरोवहः । क्षेमधर्मा गृहेषुश्च आदर्शः पौण्ड्रको मतः ॥ ८४ सावर्णस्य तु ते पुत्राः प्राजापत्यस्य वै मनोः । द्वादशे त्वथ पर्याये रुद्रपुत्रस्य वै मनोः ॥ ८५ चतुर्थे ऋतुसावर्णे देवास्तस्यान्तरे शृणु । पञ्चैव तु गणाः प्रोक्ता दे (दै) वतानामनागताः ॥ ८६
३९२ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०१००श्लो०८७-११०] ( मन्वन्तरनिसर्गादिकथनम् )
हरिता रोहिताश्चैव [ + देवाः सुमनसस्तथा । सुकर्माणः सुपाराश्च पञ्च देवगणाः स्मृताः ॥ ८७ ब्रह्मणो मानसा ह्येत एकैको दशको गण । अरुन्तिजो हविश्चैव ] विद्वान्यश्च सहस्रशः ॥ ८८ पर्वतानुचरश्चैव अपोंऽशुश्च मनोजवः । ऊर्जा स्वाहा स्वधा तारा दशैते हरिताः स्मृताः ॥ ८९ तपोजानिभृतिश्चैव वाचा बन्धुश्च यः स्मृतः । रजश्चैव तु राजश्च स्वर्णपादस्तथैव च ॥ ९० व्युष्टिर्विधिंश्च वै देवो दशैते रोहिताः स्मृताः । उषिताद्यास्तु ये देवास्त्रयस्त्रिंशत्प्रकीर्तिताः ॥ ९१ देवान्सुमनसां विद्धि सुकर्माणो निबोधत । सुपर्वा वृषभः पृष्टः कृषिद्युम्नो विपश्चितः ॥ ९२ विक्रमश्च क्रमश्चैव निभृतः कान्त एव च । एते सुकर्माणो देवा सुतांश्चैषां निबोधत ॥ ९३ वर्णोदितस्तथा जिष्णो वर्चस्वी द्युतिमान्हविः । शुभो हविष्कृतारत्नाप्तिर्व्यापृथो वशमस्तथा ॥ ९४ सुपारा मानतो (श्च गणा) स्त्वेते देवा वै संमकीर्तिताः । तेषामिन्द्रस्तु विज्ञेय ऋतधामा महायशाः ॥ ९५ धृतिर्वसिष्ठपुत्रस्तु शास्त्रेयः सुतपातस्तथा । तपोमूर्तिश्चाङ्गिरसस्तपस्वी काश्यपस्तथा ॥ ९६ तपोऽशयानः पौलस्त्यः पुलहश्च तपोरतिः । भार्गवः सप्तमस्तेषां विज्ञेयस्तु तपोमतिः ॥ ९७ एते सप्तर्षयः सिद्धा अन्ये सावर्णीकेऽन्तरे । देववानुपदेवश्च देवश्रेष्ठो विदूरथः ॥ ९८ मित्रवान्मित्रबिन्दुश्च मित्रसेनो ह्यमित्रहा । मित्रबाहुः सुतर्चाश्च द्वादशैते मनोः सुताः ॥ ९९ त्रयोदशे तु पर्याये भाव्या रौच्यान्तरे पुनः । त्रय एव गणाः प्रोक्ता देवानां तु स्वयंभुवा ॥ १०० ब्रह्मणो मानसाः पुत्रास्ते हि सर्वे महात्मनः । सुत्रामाणः सुधर्माणः सुकर्माणश्च ते त्रयः ॥ १०१ त्रिदशानां गणाः भोक्ता भविष्याः सोमपायिनः । त्रयस्त्रिंशद्देवतायाः प्राभविष्यन्त याज्ञिकैः ॥ १०२ आज्येन पृषदाज्येन ग्रहश्रेष्ठेन चैव हि । देवैर्देवास्त्रयस्त्रिंशत्पृथक्त्वेन निबोधत ॥ १०३ सुत्रामाणः प्रयाज्यास्तु आज्यपा नाम सांप्रतम् । सुकर्मणोऽनुयाज्यास्तु पृषदाज्याशिनस्तु ये ॥ १०४ उपयाज्याः सुधर्माण इति देवाः प्रकीर्तिताः । दिवसपतिर्महासत्त्वस्तेषामिन्द्रो भविष्यति ॥ १०५ पुलहात्मजपुत्रास्ते विज्ञेयास्तु रुचे सुताः । अङ्गिराश्चैव धृतिमान्पौलस्त्यः पथ्यवांस्तु सः ॥ १०६ पौलहस्तत्त्वदर्शी च भार्गवश्च निरुत्सकः । निष्पकस्तथाऽऽत्रेयो निर्मोहः कश्यपस्तथा ॥ १०७ स्वरूपश्चैव वासिष्ठः सप्तैते तु त्रयोदशे । चित्रसेनो विचित्रश्च तपोधर्मधृतो भवः ॥ १०८ अनेकक्षश्चबद्धश्च सुरसो निर्भयः पृथः । रौच्यस्यैते मनोः पुत्रा ह्यन्तरे तु त्रयोदशे ॥ १०९ चतुर्दशे तु पर्याये भौतस्याप्यन्तरे मनोः । देवतानां गणाः पञ्च प्रोक्ता ये तु भविष्यति ॥ ११०
- धनुश्चिह्नान्तर्गतग्रन्थो ग. पुस्तके नास्ति !
[अ० १०० श्लो० १११-१३२] वायुपुराणम् ३९५
( मन्वन्तरनिसर्गादिकथनम् )
चाक्षुपाश्च कनिष्ठाश्च पवित्रा भ्राजरास्तथा । * वाचावृद्धाश्च इत्येते पञ्च देवगणाः स्मृताः ॥ १११
+अपरा (परांश्चा)पि मनोः सूनून्सप्तैतान्विद्धि चाक्षुषान् । बृहदाद्यानि सामानि कनिष्ठान्सप्त तान्विदुः
सप्त लोकाः परित्रास्ते भ्राजिराः सप्त सिन्धवः ॥ ११२
वाचावृद्धानृषीन्विद्धि मनोः स्वायंभुवस्य वै । सर्वे मन्वन्तरेन्द्राश्च विज्ञेयास्तुल्यलक्षणाः ॥ ११३
तेजसा तपसा बुद्ध्या बलश्रुतपराक्रमैः । त्रैलोक्ये यानि सत्त्वानि गतिमन्ति ध्रुवाणि च ॥
सर्वशः स्वैर्गुणैस्तानि इन्द्रास्तेऽभिभवन्ति वै ॥ ११४
भूतापवादिनो दृष्टा मध्यस्था भूतवादिनः । भूतानुवादिनः सन्तास्त्रयो वेदाः प्रवादिनाम् ॥ ११५
अग्निध्रः काश्यपश्चैव पौलस्त्यो मागधश्च यः । भार्गवो ह्यग्निबाहुश्च शुचिराङ्गिरसस्तथा ॥
ओजस्वी सुबलश्चैव भौत्यस्यैते मनोः सुताः ॥ ११६
सावर्णा मनवो ह्येते चत्वारो ब्रह्मणः सुताः । एकौ वैवस्वतश्चैव सावर्णी मनुरुच्यते ॥ ११७
रौच्यो भौतश्च यौ तौ तु मनोः पौलहभार्गवौ । भौत्यस्यैवाऽऽधिपत्ये तु पूर्णः कल्पस्तु पूर्यते ×
सूत उवाच—
निःशेषेषु च सर्वेषु तदा मन्वन्तरेष्विह । अन्तेऽनेकयुगे तस्मिन्क्षीणे संहार उच्यते ॥ ११९
सप्तैते भार्गवा देवा अन्ते मन्वन्तरे तदा । भुक्त्वा त्रैलोक्यमध्यस्था युगाख्यां ह्येकसप्ततिम् ॥
पितृभिर्मनुभिश्चैव सार्धं सप्तर्षिभिस्तु ये । यज्वानश्चैव तेऽप्यन्ये तद्भक्ताश्चैव तैः सह ॥ १२१
महर्लोकं गमिष्यन्ति त्यक्त्वा त्रैलोक्यमीश्वराः । ततस्तेषु गतेषूर्ध्वं क्षीणे मन्वन्तरे तदा ॥ १२२
ततः स्थानानि शून्यानि स्थानिनां तानि वै द्विजाः । प्रभ्रम्यन्ति विमुक्तानि ताराऋक्षग्रहैस्तथा ॥
ततस्तेषु व्यतीतेषु त्रैलोक्यस्येश्वरेष्विह । सेन्द्रास्तेषु महर्लोकं यस्मिंस्ते कल्पवासिनः ॥ १२४
जिताद्याश्च गणा ह्यत्र चाक्षुषान्ताश्चतुर्दश । मन्वन्तरेषु सर्वेषु देवास्ते वै महौजसः ॥ १२५
ततस्तेषु गतेषूर्ध्वं सायो (यु) ज्यं कल्पवासिनाम् । समेत्य देवास्ते सर्वे प्राप्ते संकलने तदा ॥ १२६
महर्लोकं परित्यज्य गणास्ते वै चतुर्दश । सशरीराश्च श्रूयन्ते जनलोकं सहानुगाः ॥ १२७
एवं देवेष्वतीतेषु महर्लोकाज्जनं प्रति । भूतादिष्ववशिष्टेषु स्थावरान्तेषु चाप्युत ॥ १२८
शून्येषु लोकस्थानेषु महान्तेषु भूरादिषु । देवेषु च गतेषूर्ध्वं सायो(यु) ज्यं कल्पवासिनाम् ॥ १२९
संहृत्य तांस्तथा ब्रह्मा देवर्षिपितृदानवान् । संस्थापयति वै सर्गे महद्दृष्ट्वा युगक्षये ॥ १३०
चतुर्युगसहस्रान्तमहर्यद्ब्रह्मणो विदुः । = रात्रिं युगसहस्रान्तामहोरात्रविदो जनाः ॥ १३१
नैमित्तिकः प्र कृतिको यश्चैवाऽऽत्यन्तिकोऽर्थतः । त्रिविधः सर्वभूतानामित्येष प्रतिसंचरः ॥ १३२
* इत आरभ्य विद्धि चाक्षुषानित्यन्तग्रन्थो घ पुस्तके नास्ति । + एतदर्थस्थाने सप्त तांस्तान्भागा-
न्विद्धि चाक्षुषसंज्ञकानिति क. पुस्तके । ग. ङ्. पुस्तकयेरेतदर्थं त्रुटितमस्ति । × अत्राध्यायसमाप्तिः
ख. पुस्तके । = इत शारभ्य प्रतिसंचर इत्यन्तग्रन्थो ङ् पुस्तके नास्ति ।
५०