वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
Here is the complete and accurate Devanagari transcription of the two pages, line by line:
बायाँ पृष्ठ (Page 212)
२१२ वेदस्वरूप-विमर्शः भ्रातृत्वमुक्तप्रकारेण अत्रापि द्रष्टव्यम् । रात्रौ सवितृतेजोभागस्य हरणात् दिवा स्वकीयतेजसो भागस्य तदर्थमेव भक्तकत्शान् वा भ्रातृत्वम् । अथ एषु भ्रातृषु मध्ये पुरोदेशे वा विशपति प्रजापालयितारं सप्तपुत्रं सर्पण- शीलरश्मिपुत्रोपेतम् । ऐतिहासिकपक्षे अदितिः पुत्रकामा इति प्रस्तुते मित्रावरुणादिषु अदितिपूत्रेषु अस्यादित्यस्य सप्तमपुत्रत्वम् । ईदृशं महा- नुभावमादित्यम् अपश्यम् अद्राक्षं भावनया आत्मत्वेन साक्षात्करोमी- त्यर्थः । 'तद्योऽहं सोऽसौ योऽसौ सोऽहम्' इति श्रुतेः । एवं वा अस्य वामस्य विश्वस्योद्गरितुः स्रष्टुरित्यर्थः । पलितस्य स्वतृप्तं जगत् पालनशीलस्य होतुरोदातुः स्वस्मिन् संहर्तुः परमेश्वरस्य सृष्ट्यादिकर्तृत्वं श्रुत्यादिषु प्रसिद्धम् । तस्य परमेश्वरस्य भ्राता भागहारी वदंशभूतः सूत्रात्मा मध्यमः सर्वत्र मध्ये वर्तमानः जगद्धारकत्वेन वर्तते । स च अश्नः व्यापनशीलः 'वायुना वै गौतमसूत्रेणायं लोको परश्च लोकः सर्वाणि च भूतानि संदृब्धानि' ( बृ० उ० ३. ७. २ ) इति श्रुतेः वक्ष्यमाणविराडपेक्षया वा मध्यमत्वम् । किञ्च—अस्य तृतीयो घृतपृष्ठः । घृतमिति उदकनाम, तेन तत्कार्यं शरीरमित्युच्यते । तदेव पृष्ठं स्पर्शकं वा यस्य तादृशः, पृष्ठं स्पृशतेः ( नि० ४.३ ) । यद्वा—प्रदीप्तपृष्ठः। पृष्ठशब्दः कृत्स्नशरीरोपलक्षकः प्रकाशितशरीरा- भिमानोत्यर्थः। न त्वयं सूक्ष्मशरीराभिमानिसूत्रात्मवत् स्पर्शानां विषयो भवति । अत्र एषु मध्ये विशपति प्रजापतिं सर्वस्य पतिं 'सर्वस्य पतिः सर्वस्येशानः' इति श्रुतेः । सप्तपुत्रं सप्त लोकाः पुत्रा यस्य तादृशम् । स्वमायया सृष्टसर्वलोकम्, अपश्यं पश्येयं साक्षात्करोमि । अयमाशयः—स्वाधीनमायो जगत्कारणभूतः परमात्मा एकः । तत उत्पन्नौ स्थूल-सूक्ष्म-शरीराभिमानिनौ द्वौ विराट्सूत्रात्मानौ । तेषु मध्ये द्वयोः साक्षात्कारेण मोक्षाभावात् सृष्ट्यादिकारणं परमेश्वरं ज्ञेयत्वेन प्रसिद्धं श्रवणादिसाधनेन साक्षात्करोमीत्यर्थः । एवमुत्तरत्रापि अध्यात्म- परतया योजयितुं शक्यम् ; तथापि स्वरसत्वाभावात् ग्रन्थविस्तारभयाच्च
दायाँ पृष्ठ (Page 213)
वेदस्वरूप-विमर्शः २१३ न लिख्यते । यत्र 'द्वा सुपर्णा' इत्यादी स्फुटमाध्यात्मिकोऽर्थः प्रतीयते, तत्र तत्र प्रतिपाद्यामः । अयं मन्त्रो यास्केन व्याख्यातः—'अस्य वामस्य वननीयस्य पलितस्य पालयितुरिति ( नि० ४. २६ ) । 'अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा । अग्निश्च विश्वशम्भुवमापश्च विश्वभेषजीः ॥' ( ऋ० सं० १. २३. २० ) इति मन्त्रेण जलस्य यौगिकता स्फुटीकृता" इति । तदपि न; तेजः- कारणत्वेन पञ्चीकृतप्रक्रियया जलेऽग्निसत्त्वेऽपि तस्य स्वतन्त्रतत्त्व- द्रव्यान्तरनिर्मितत्वसिद्धेः । नन्विदानीं वैज्ञानिकैः 'आक्सिजन-हाइड्रोजन-नामक-पदार्थयोगेन जलं निर्मितं एवेति चेन्न । जलहेतुत्वेन अभिमतस्य पदार्थद्वय- स्यापि सूक्ष्मजलानतिरेकात् । सूक्ष्मजलं तु सूर्यरश्म्यादिषु स्थितमपि नोपलब्धुं शक्यम् । मन्त्रार्थस्तु —अप्सु जलेषु अन्तः मध्ये विश्वानि भेषजा सर्वाणि औषधानि सन्तीति मे मह्यं मन्त्रदर्शिने मुनये सोमो देव अब्रवीत् । तथा विश्वशंभुवं सर्वस्य जगतः सुखकरम् एतन्नामकं च अग्निम् अप्सु वर्तमानं सोमोऽब्रवीत् । तथा च तैत्तिरीयाः—'अग्नेस्त्रयो ज्यायांसः' इत्यनुवाके 'सोऽपः प्राविशत्' ( तै० सं० २. ६. ६. १ ) इति अग्नेः अप्सु प्रवेशमामनन्ति । लता-गुल्म-वृक्ष-मूलादीनाम् औषधानां वृष्टि- जन्यत्वेन जलवर्तित्वं प्रसिद्धम् । विश्वभेषजीः विश्वानि भेषजानि यासु तथाविधाः अप अवि अब्रवीत् । भेषजा 'सुपां सुलुक्' इति आकारः । विश्वशंभुवम्, भवतेरन्तर्भावितण्यन्तात् क्विप् । व्यत्ययेन पूर्वपदप्रकृति- स्वरत्वम् । यद्वा—विश्वे सर्वेऽपि व्यापाराः सुखकरा यस्य, 'बहुव्रीहौ विश्वं संज्ञायाम्' ( पा० सू० ६.२.१०६ ) इति पूर्वपदान्तोदात्तत्वम् । आपः । कर्मणि शपि प्राप्तेव्यत्ययेन जस् । 'अप्तृन्०' ( पा० सू० ६.४.११ ) इत्यादिना उपवादीर्घः । विश्वभेषजीः विश्वशंभुवमितिवत् ।
पृष्ठ २१४
यदप्युक्तम्- "सर्वाणि रूपाणि सूर्य्यरश्मिभिरेव निर्मीयन्ते । शुक्लं कृष्ण- ञ्चेति द्वे एव रूपे मुख्ये । तत्सन्धिगतं रक्तम् , मिश्रणजानि चान्यानीति रूपविषये वैज्ञानिकानां दर्शनम् । तदपि 'इन्द्रो रूपाणि कनिक्रदच्चरन्' 'शुक्रं ते अन्यद् यजतं ते अन्यद् विषुरूपे अहनी द्यौरिवासि । विश्वा हि माया अवसि स्वधावो भद्रा ते पूषन्निह रातिरस्तु ॥' (ऋक् सं० ६. ५८. १) इत्यादिषु स्फुटमाम्नातम्" इति । तदपि न ; मन्त्रस्यान्यपरत्वात् । तथा हि—हे पूषन् ते तव शुक्रं शुक्लवर्णम् अन्यन् एकम् अहर्भवति वासरा- त्मकम् । तथा ते तव सम्बन्धि यजतम् । यजिरत्र सङ्गतिकरणे वर्तते । यजनीयं प्रकाशेन सङ्गमनीयं स्वतः कृष्णवर्णम् अन्यन् एकम् अहर्भवति रात्र्याख्यम् । इत्थं विषुरूपे शुक्लकृष्णतया नानारूपे अहनी तव महिम्ना निष्पद्येते । यद्वा—हे पूषन् त्वदीयमन्यदेकं रूपं शुक्रं निर्मलं दिवसस्योत्पादकम्, त्वदीयमन्यदेवं रूपं यजतं केवलं यजनीयं न प्रकाशकं रात्रेरूत्पादकम् । अत एव विषुरूपे अहनी अहश्च रात्रिश्च भवतः । अहोरात्रयोर्निर्माणे सूर्य एव कर्ता । कथमस्य प्रसक्तिरिति तत्राह—द्यौरिवासि । यथा द्यौः आदित्यः प्रकाशयिता तथा त्वं प्रकाशकोऽसि । कुत इत्यत आह—हे स्वधावः अन्नवन् पूषन् विश्वाः सर्वाः मायाः प्रजाः हि यस्मात्कारणात् अवसि रक्षसि, अतः कारणात् त्वं सूर्य इव भवसीत्यर्थः । तादृशस्य ते तव भद्रा कल्याणी रातिः दानम् इह अस्मासु अस्तु भवतु । यास्कस्तु आह—'शुक्रं ते अन्यल्लोहितं ते अन्यद्यज्ञियं ते अन्यदिति वा विषम रूपे अहनी कर्मणा द्यौरिव चासि । सर्वाणि च प्रज्ञानान्यवस्यन्नवन्' (निरुक्ते ११.१७) इति । यदुक्तम्— 'विपरीते काले स्वार्थबुद्धौ प्राबल्यमागतायाम आभिचा- रिककर्म सुप्रसारं गतेषु जगद्धितबुद्ध्या क्रियमाणानां यज्ञानां विरलता- मापन्ने प्रचारे वैदिकं विज्ञानं क्रमेण शैथिल्यमभजत् । महाभारतयुद्धा- नन्तरं तु चित्रपट इव परिवर्तते स्म। देशविप्लवात् खिन्नेषु लोकेषुका नाम
पृष्ठ २१५
विज्ञानोन्नतिकथा ? विरलतामापन्न उच्छिन्नो वैदिको गुरुसम्प्रदायः, विद्याश्च विरलतामापन्नाः । अस्मिन् व्यतिकरे प्राक्तनाः सामयिका वा वेदाङ्गप्रवक्तारो दर्शनसूत्रकाराणां चैकदेशमवलम्ब्य लोकदृष्टिमाक्रष्टुं कृता अपि प्रयत्ना न साफल्यमभजन् । प्रत्युत अङ्गविस्तारो मतभेद- विस्तारश्च वैदिक-विज्ञान-विरोधानायैव अकल्प्यत । ब्राह्मे क्षात्रे च युगपद्विलयं गते दैवादुपस्थितो बौद्धानां समयः । तदानीं न केवलं सम्प्रदाय एव उच्छिन्नः, अपि तु वेदरहस्यबोधका निदान- रहस्यादिग्रन्था अपि प्रलयं गताः । उच्छिन्ना वेदशाखाः व्युलुप्यन्त बहूनि ब्राह्मणानि । नाममात्राय अवशिष्यन्त विद्याः । ब्रह्मतेजःप्रभावेणैव प्रशान्तः स झञ्झावातः । कर्मकाण्डमुपासना-काण्डं ज्ञानकाण्डञ्च पुनरपि सम्प्रदायबद्धमभूत् । परं विज्ञानशैली तु विलुप्तैवाभवत् । सम्प्रदायस्य विच्छिन्नप्रायत्वात् ग्रन्थानां विलोपाच्च विज्ञानकथा- भिरपि शून्ये ऐन्द्रजालिकमायाप्रधाने कालेऽधिकारिणां विरहान्न तदुद्धाराय समय आसीत् । आचार्यैः आवश्यककर्मसम्प्रदाय- रक्षा कृता । मन्त्र-ब्राह्मणात्मकस्य वेदस्य कर्मावबोधकः साम्प्रदायिकोऽर्थः सुरक्षितोऽभूत् । उपपादकं तु विज्ञानम् अर्थवादशब्दवाच्यतामापाद्य परित्यक्तमभूत् । विज्ञानविरहाच्च इयमार्थविद्या शब्दप्रधानतां गता । तर्क व्याकरण-साहित्यादयः शब्दाडम्बरमात्रसारा लोकेभ्योऽरोचन्त। जल्पप्रक्रिया कवित्वप्रक्रिया च विनोदायालम्भूत् । वेदानां भाष्याणि व्यरच्यन्त, परं कर्मोपयोगिसम्प्रदायप्राप्तो- ऽर्थस्तत्र विवृतः । वैज्ञानिकानां वैदिकानां सङ्केतानां सम्प्रदायविच्छेदाद् विलोप एवाभूत् । तत एवाधुनिकेषु भाष्येषु न वैज्ञानिकी पद्धति- रुपलभामहे । मनुष्योपयुक्ततया मन्त्रा व्याख्याताः । विज्ञान- जीवातूभूता प्राकृतयज्ञपरता तु समुपेक्षितैव । प्राकृतेन यज्ञेनैव जगदुत्पत्ति-स्थिती स्तः । तं प्राकृतं यज्ञमुपजीव्यैव अस्माकं प्रातिस्विकी यज्ञप्रक्रिया प्रचलति । तयोः सम्बन्धोऽपि वेदेषु सङ्केतितः । परं स न भाष्येषु स्पष्टीक्रियते । अध्यात्ममधिभूतमधिदैवतञ्च ये देवपित्राद्याः, तेषां विवेकोऽपि भाष्येषु नोपलभ्यते । तत एवैकस्य धर्मा अपरसम्वन्धि-
२१६ वेदस्वरूप-विमर्शः श्चेन प्रतिबन्धीयमानां बुद्धिं विप्लावयन्ति । तत्र काले तस्या विद्याया अभाव एवापराध्यति, को दोषो भाष्यकृताम् ?' इति । तदत्रोच्यते—महाभारतयुद्धानन्तरं विज्ञानह्रासोऽभ्युपेयते भवता, किन्तु तत्र प्रदर्शितं कारणं नोपपद्यते । यतो महाभारतयुद्धानन्तरमपि व्यासाद्या महर्षयस्तु अवशिष्टा एवासन् । सर्वज्ञः श्रीकृष्णोऽप्यवशिष्ट एवा- सीत् । युधिष्ठिराऽर्जुन-सात्यक्यादयश्चासन् । साक्षाद् बृहस्पतेः शिष्य उद्धवोऽप्यासीत् । विशेषतो म्रियमाणस्य ज्ञानसूर्यस्य भीष्मस्य मुखात् अनेकदिनानि धर्मप्रज्ञ-राजनीत्याद्याश्रयाणि अनेकानि ज्ञानविज्ञानानि श्रीकृष्णेन सार्थं युधिष्ठिरादिभिराकर्णितानि । व्यासादिभिः महाभारत- पुराणोपपुराणादीनि रचितानि । नानासंहितासूत्राणि धर्मशास्त्राणि च प्रवृत्तान्येवासन् । व्यास-जैमिनीभ्याञ्च वेदार्थविचारात्मके पूर्वोत्तर- मीमांसे निर्मिते । ततश्च कश्चनापि वेदार्थसम्प्रदायो लुप्त इति कल्पना निराधारेव । कर्मोपासन-ब्रह्मज्ञानसम्प्रदायः सुरक्षित आसीदिति भवद्भि- रपि अभ्युपगम्यत एव । ततो यदि विज्ञानानुसारी कश्चन सम्प्रदाय आसीत्तदा व्यासादिभिः सोऽज्ञात आसीत् ज्ञातो वा ? ज्ञातश्चेत् तर्हि कुतो न तैः स्वग्रन्थे स वर्णितः ? अज्ञातश्चेन्नतरां तत्संभवः । सायणादिभिः पारम्पर्यप्राप्तकर्म- ज्ञानादिसम्प्रदायानुरोधेनैव व्याख्यानं कृतमित्यपि भवद्भिरुपेयते । सायणस्य महतीं प्रशंसां कृत्वाऽपि तद्भाष्यन्यूनतावर्णनं न वस्तुतोनुरोधि, तदर्थस्य सम्प्रदायसिद्धत्वात् । यदुक्तम्- "विष्णुना विवृते' इति मन्त्रे स्फुटतराकर्षणविज्ञानेऽपि 'दाधर्थ पृथिवीमभितो मयूखैः' इति मन्त्रे मयूखशब्दस्य पर्वतोऽर्थोऽनेन भाष्यकारेण कृतः । किरणैः पृथिवीधारणं कथं संभवेदिति तस्य संशयो- ऽभूत् । पर्वतैस्तु पुराणेषु उक्तमिति तदेव व्याख्यातमिति । तदपिन किञ्चित्; भवद्भिरेव तत्समाहितत्वात् । 'इतिहासपुराणाभ्यां वेदार्थमुपबृंहयेत्' इत्युक्तरीत्या पुराणमेव मुख्यं वेदार्थव्याख्यानम्, तदनु- रोधिव्याख्यानश्चेत् कुतस्तदुपालम्भमर्हति ? किञ्च-किरणा यथा किरण- वेदस्वरूप-विमर्शः २१७ मालिनोऽंशास्तथा पर्वता अपि पृथिव्या अंशा इति त एव मयूखपद- वाच्या भवितुमर्हन्ति, आकर्षणशक्तावसु मयूखशब्दस्याप्रसिद्धत्वात् । 'इरावती धेनुमती हि भूतं सूयवसिनी मनवे दशस्या । व्यस्तभ्ना रोदसी विष्णवेते दाधर्थ पृथिवीमभितो मयूखैः ॥' (ऋ० सं० ७.९९.३) हे द्यावापृथिव्यौ मनवे स्तुवते मनुष्याय दशस्या दित्सया युक्ते युवाम् इरावती अन्नवत्यौ धेनुमती गोमत्यौ सूयवसिनी शोभने यवसे च भूतम् अभूतम् । हि प्रसिद्धौ । विष्णुना विक्रान्तत्वाद्युवाम् एवमेव खलु पूर्वमभूतम् । हे विष्णो एते इमे रोदसी द्यावापृथिव्यौ व्यस्तभ्नाः विविध- मधारयः पृथ्वीमूर्ध्वमुखत्वेन द्यामधोमुखत्वेनेति विविधत्वम् । अपि च- यथा पृथिवी प्रथितामिमां भूमिम् अभितः सर्वतः स्थितैः मयूखैः पर्वतैः दाधर्थ धारितवानसि । यथा न चलति तथा दृढीकृतवानसि । पर्वता हि विष्णोः स्वभूताः । 'विष्णुः पर्वतानामधिपतिः' (तै० सं० ३.४.५.१) इति श्रुतेः । विष्णुदेवताकोऽयं मन्त्र इति विष्णुरेव स्तुत्यो नादित्यः । नहि वैज्ञानिकार्थप्रकाशनलालसया मुख्यार्थत्यागो युक्तः, वैज्ञानिकसिद्धान्तस्य अद्या
२१८ वेदस्वरूप-विमर्शः प्रदानेन विशेषेण वर्तमानमकरोत् । किं कुर्वन् ? दिवि अन्तरिक्षे मेघम् ओपशम् उपेत्य शयानम्, चक्राणः कुर्वन् । यद्वा-आत्मनि समवेतो वीर्य- विशेष ओपशः, तमन्तरिक्षे कुर्वन् । व्यवर्तयन् इत्यस्य विशेषेण वर्तमानाम् (सस्यश्यामलाम्) अकरोत् इत्येवार्थः, न भ्रामणम्, विपूर्वस्य वर्तते- स्त्वर्थाभावात् । तच्च वृष्ट्यादिप्रदानेन तदर्थमेवान्तरिक्षे ओपशं मेघं वीर्यविशेषं वा चक्राणः कुर्वन् इत्येवार्थः । तेन ओपशपदं शृङ्गवाचकम् । किरणानां व्याघातेन वक्रीभावे शृङ्गं भवतीत्यादिकल्पनं निराधारमेव, मन्त्रे तादृगर्थबोधकपदाभावात् । यदप्युक्तम्—"सौरः प्रकाशोऽनुभूयते । स सौररश्मिसम्पर्कात् सर्वत्र व्याप्तस्य सोमस्याभिज्वलनात् निष्पन्न इति च
१२० वेदस्वरूप-विमर्शः शब्दाभ्यां वैद्युतोऽग्निरादित्यो वा गृह्यते । तं देवमुदकधारा अभिप्रवन्त नसन्त च, स ताश्च हर्यति । यदप्युक्तम् - "तिस्रो मातृः तिस्रो भूमीर्धारयत्' इत्यादिभिरपि मन्त्रैः सूर्यकृतं पृथिव्यादिधारणं सिद्धयति" इति । तदपि न ; मन्त्रयो- रनयोरन्यार्थकत्वात् । समग्रौ मन्त्रौ मन्त्रार्थचेत्थम्- 'तिस्रो मातृस्त्रीन् पितॄन् बिभ्रदेक ऊर्ध्वस्तस्थौ नेमव ग्लापयन्ति । मन्त्रयन्ते दिवो अमुष्य पृष्ठे विश्वविदं वाचमविश्वमिन्वाम् ॥' ( ऋ० सं० १.१६४.१० ) अर्थः-एकः प्रधानभूतः असहायो वा पुत्रस्थानीयः आदित्यः संवत्सराख्यः कालो वा तिस्रः मातृः सस्यवृष्ट्याद्युत्पादयित्रीः, क्षित्यादिलोकत्रयमित्यर्थः । तथा त्रीन् पितॄन् जगतां पालयितॄन् लोक- त्रयाभिमानिनः अग्निवायुसूर्याख्यान् बिभ्रत् सन्, ऊर्ध्वस्तस्थौ उन्नतः अत्यन्तदीर्घस्तिष्ठति भूतभविष्यादात्मना । सूर्यपक्षे सर्वेभ्य उन्नतः । ईम् एनं न अवग्लापयन्ति ग्लानिं नैव कुर्वन्ति । नहि कालः आदित्यो वा अन्येन पराभूयते । दिवः पृष्ठे द्युलोकस्योपरि अन्तरिक्षे मन्त्रयन्ते गुप्तं परस्परं भाषन्ते देवाः । किम् ? विश्वविदं विश्ववेदनसमर्थां विश्वै- र्वन्दनीयां अविश्वमिन्वाम् असर्वव्यापिनीं वाचं गर्जितलक्षणाद् अमुष्य आदित्यस्य सम्बन्धिनों मन्त्रयन्ते इत्यर्थः । यथा लोके पुत्रो मातापित्रोः पोषकत्वेन धारको भवति, तथैवात्र सूर्यस्य संवत्सरस्य वा क्षित्यादिधारयितृत्वम् । नात्र आकर्षणविज्ञान- बोधकः कश्चन शब्दोऽस्ति । 'तिस्रो भूमीर्धारयन् त्रीँ रुत द्यून् त्रीणि व्रता विदथे अन्तरेषाम्। ऋतेनादित्या महि वो महित्वं तदर्यमन् वरुणमित्र चारु ॥' (ऋ० सं० २.२७.८ ) अर्थः- तिस्रो भूमीः । अत्र भूमिशब्दो लोकत्रये वर्तते । 'यो द्विती- यस्यां तृतीयस्यां पृथिव्याम्' इत्यत्र यथा पृथिवीशब्दः । भूम्यन्तरिक्ष- स्वर्गां स्त्रीन् लोकान् आदित्याः धारयन् वृष्टिप्रदानादिना धारयन्ति । वेदस्वरूप-विमर्शः २२१ उत अपि च द्यून दीप्तान् तत उपरितानान् महरादिकानपि त्रीन् लोका धारयन्ति । यद्वा-दीप्तान् अग्नि वायुं सूर्यंञ्च धारयन्ति । अपि च - एषामादित्यानां विदथे यज्ञे अन्तः मध्ये त्रीणी व्रता सवनत्रयनिष्पाद्यानि त्रीणि कर्माणि सन्ति । यद्वा - एषां लोकानामन्तर्मध्ये विदथे यज्ञे निमित्त- भूते सति एषामादित्यानां त्रीणि कर्माणि रसादान-धारण-विसर्जन- लक्षणानि सन्ति । उत्तरोऽर्धर्चः प्रत्यक्षकृतः । हे आदित्याः ऋतेन सत्येन यज्ञेन वा महि महत् प्रभूतं वः युष्माकं महित्वं महत्त्वं यन्महाभाग्यं हे अर्यमन् वरुण मित्र तन्महाभाग्यं चारु शोभनम्, सर्वोत्कृष्ट- मित्यर्थः। यदप्युक्तम्- "आकृष्णेन रजसा' इत्यत्रापि रजसो लोकस्य कथं कृष्णत्वमिति शङ्का 'सूर्योदयात् पूर्वं लोकः कृष्ण एव भवती'ति तेन समाहिता । सूर्यमण्डलस्य कृष्णत्वं तु न तद्बुद्धावुपारूढम् । तस्मिन्काले एवंविधानां विज्ञानानामत्यन्ताभाव एवात्रापि निदानम् । न खलु अश्रुतादृष्टचरेऽर्थे बुद्धिः प्रसरति" इति । तदप्युक्तोपालम्भनम्; मन्त्रेणानेन सवितुः कृष्णवर्णात्वानुक्तेः । अमुकेन ग्रामेण गन्तव्यमिति यथा ग्रामस्य मार्गरूपेण निर्देशस्तथैवा- त्रापि रजसा लोकेन वर्तमानेति मार्गनिर्देशः । तस्य चान्तरिक्षलोकस्य न स्वाभाविकं कृष्णत्वमिति युक्तमेव । सूर्योदयात् प्राक् तस्य कृष्णत्व- प्रतीतिः । श्रुतिषु त्वादित्यस्य अनेकानि रूपाणि वर्
(v -) सि (v) य-तः (v -) सु-त-राम् (v v -) -> 11 syllables! Now line 18: _ _ _ _ _ _ _ _ _ _ _ (11 syllables) _ _ _ _ _ _ _ _ _ _ _ (11 syllables) First quarter: 1 2 3 4 5 6 7 8 9 10 11: भ व ति मि रा स्र व पा न म दात् -> Wait! भ(1) व(2) ति(3) मि(4) रा(5) स्र(6) व(7) पा(8) न(9) म(10) दात्(11)! Wait, if it is "भवतिमिरास्रवपानमदात्": Let's count:
- भ
- व
- ति
- मि
- रा
- स्र
- व
- पा
- न
- म
- दात् That is exactly 11 syllables!! Second quarter:
- भ
- व
- ति
- वि
- लो
- हि
- त
- वि
- ग्र
- ह
- वान् That is exactly 11 syllables!! Third quarter (Line 19):
- मि
२२४ वेदस्वरूप-विमर्शः काग्निरूपस्य आदित्यस्य प्रस्तावः । इदमेवाभिप्रेत्य 'ऋग्वेद एवाग्ने- रजायत यजुर्वेदो वायोः सामवेद आदित्यात्' इति ब्राह्मणश्रुतौ अग्न्या- दिभ्य ऋग्वेदादीनामुत्पत्तिराम्नाता, विषयस्य ज्ञानकारणतया निरुढ- त्वात् । यद्यस्त्यग्निः ततः एव ऋग्वेदो जायते । न भवेच्चेन्न कं वर्णयितुमृग्वेदः प्रवर्तेतेति तस्य कारणत्वमुपपादयति । अयमेवाभि- प्रायो इति मनुनाऽपि शब्दान्तरैरुपदिष्टः । यथा— 'अग्निवायुरविभ्यस्तु त्रयं ब्रह्म सनातनम् । दुदोह यज्ञसिद्ध्यर्थमृग्यजुःसामलक्षणम् ॥' इति । परमशेषशेमुषीसम्पन्नैः विद्वत्प्रवरै रचितासु मनुस्मृतिटीकासु नैकत्राप्यस्यार्थस्य स्पष्टीकरणमुपलभामहे । 'पूर्वोक्ता श्रुतिरपि प्रायेण सर्वैः समुद्धृता । अग्न्यादिभ्यश्च कथं वेदानाम्
२२६ वेदस्वरूप-विमर्शः
कणादेनापि सामान्यं विशेष इति बुद्धयपेक्षमेव सामान्यं वदता काल्पनिकमेव तदित्यङ्गीकृतम् इति, तन्न, सूत्रार्थानवबोधात् । तत्रैवो- पस्कारकारादिभिर्बौद्धादिपक्षनिरसनपुरःसरं सामान्यव्यवस्थापनात् । सूत्रार्थस्तु—सामान्यं सत्तारूपं परसामान्यम् । अपरं सत्ता द्रव्यत्वा- दिकम् । बुद्धिलक्षणम् । तेनोभयविधस्य सामान्यस्य बुद्धिरेवलक्षणम् । इतिना तद्व्यवच्छिद्य परामृश्यते । तेन बुद्धयपेक्षमिति नपुंसक- निर्देशः । वृत्तिकारस्तु—विशेषान्वयमाह । 'नपुंसकमनपुंसकेनेकवच्चास्यान्यतरस्या- मित्यनेनैकवद्भावो नपुंसकता चेत्याह । बुद्धिरपेक्षालक्षणं लिङ्गं यस्य तद्बुद्धयपेक्षम् । नित्यमनेकवृत्ति सामान्यम् । परन्तु सामान्यं विशेषसंज्ञामपि लभते । यथा द्रव्यमिदमित्यनुवृत्तप्रत्यये सत्येव नायं गुणो, नेदं कर्मेति विशेष- प्रत्ययः । तथा च द्रव्यत्वादीनां सामान्यानामेव विशेषत्वम् । सामान्यं नित्यं व्यापकञ्च । व्यापकत्वमपि स्वरूपतो न सर्वदेश- सम्बद्धत्वम्, तत एव न देशानां गोव्यवहारापत्तिः । समवायेन तद्व्यवहा- रस्यानभ्युपगमात् । कालस्य रूपादिमत्त्वेऽपि कालो रूपवानिति प्रतीति- व्यवहारवत् । तथा च यत्र पिण्ड उत्पद्यते तत्रस्थमेव गोत्त्वं तेन सम्बध्यते । जातः सम्बद्धश्चेत्येकः काल इत्यभ्युपगमात् । कीदृशे आश्रये वर्तत इत्यत्र यत्र प्रतीयत इत्युत्तरम् । कुत्र प्रतीयत इत्यत्र यत्र वर्तत इत्युत्तरम्, गोत्ववृत्तेः पूर्वं स पिण्डः कीदृगासीदित्यत्र नासीदित्येवोत्तरम् । अत- द्व्यावृत्तिरेव गोत्वमित्यत्र गौरयमिति विधिसुखः प्रत्यय एव बाधको ऽनुभवस्य प्रत्याख्यातुमशक्यत्वात् । एतेन 'न याति न च तत्रासीदिति परिदेवनमात्रम् । सामान्यं विशेष इति द्वैविध्यं यदुक्तं तदुपपादयन्नाह—भावोऽनु वृत्तेरेव हेतुत्वात् । सामान्यमेव भावः सत्ता अनुवृत्तेरेव हेतुः; न व्यावृत्ते- रपि । तथा च विशेषसंज्ञां न लभते । केषां सामान्यानां विशेषसंज्ञा इत्यपेक्षायामाह—द्रव्यत्वं गुणत्वं कर्मत्वं च सामान्यानि विशेषाश्च ।
वेदस्वरूप-विमर्शः २२७
सत्तासामान्यविप्रतिपत्तिनिरासाय सदिति । यतो द्रव्यगुणकर्मसु सा सत्ता इत्युक्तम् । अपि च 'द्रव्यगुणकर्मभ्योऽर्थान्तरं सत्ता' इति सूत्रेण स्पष्टमेव सत्ताया द्रव्यादिभ्योऽर्थान्तरमुक्तम् । यत्तु तेभ्योऽन्यत्र नोपलभ्यम् तद्युतसिद्धिवलात् । घटपटयोस्तु युतसिद्धत्वेन पृथगुप- लब्धिः । तस्मात् सूत्रानुयायिनां भाष्यानुसार्यैव सूत्रार्थ इति मन्तव्यम् । यदुक्तम् संस्त्यानप्रसवौ लिङ्गमास्थेयौ स्वकृतान्ततः । संस्त्यानेस्त्यायतेर्दू ट् स्त्री सूतेः स प्रसवे पुमान् ॥ इति वार्तिकव्याख्यानमहाभाष्येणाप्यादानप्रदानयज्ञप्रक्रियाविधया आदानविवक्षया स्त्रीलिङ्गं, प्रदानविवक्षया पुंल्लिङ्गं, ताटस्थ्यविवक्षया तु नपुंसकलिङ्गम् इति सिद्धयति । तन्न; भाष्यविरोधात् । तथाहि अधि- करणसाधनास्त्यायतेर्गर्भा गर्भ इति स्त्री । कर्तृसाधनश्च पुमान् सूतेः पुमान् । इह पुनरुभयं भावसाधनम् । संस्त्यानम् स्त्रीप्रवृत्तिर्या पुमान् शब्दादिगुणानां संस्त्यानविवक्षायां स्त्री, तेषामेव प्रवृत्त्यपेक्षायां पुमान्, उभयविवक्षायां नपुंसकमित्येव तु महाभाष्यवचनात् सिद्धयति । अत्र संस्त्यानं तिरोभावरूपोऽपचयः, प्रवृत्तिश्चाविर्भावरूपलक्षण उपचयः । केषां ? गुणानां शब्दस्पर्शादीनां, शब्दादीति सत्त्वादिकार्यमात्र- स्योपलक्षणम् ज्ञेयम् । सर्वाश्च मूर्त्तय एवमात्मिका इति भाष्येणैव तद् ध्वनितम् । मूर्त्तय इति पदार्था ग्राह्याः । आत्मनि प्रकृतौ महति अहङ्कारे च लिङ्गव्यवहारो दृश्यते । न च तत्र शब्दादिगुणोपचयादिकं सम्भवति शब्देऽपि वाच्याभावात्तु नोपपद्यते । आत्मनि परिणामवदन्यतादात्म्याध्यासेन तत्परिणामानुयायित्वेन लिङ्गव्यवहारः । शब्दादिप्रदानापेक्षया पुंस्त्वं बाष्पाद्यादानापेक्षया महदादौ पुंस्त्वादिव्यवहारो नोपपद्यत एव महदादिषु शब्दादिसम्बन्धाभावात् । पारम्पर्येण तत्सत्त्वे तूपलक्षणमेवा- यातम् । केष्वित्तु सात्त्विकांशाधिक्येन परिणामे पुमान्, राजसांशा- धिक्येन परिणामे स्त्री, तामसांशाधिक्येन नपुंसकम् एतत्त्रितयं व्यक्तिमात्रवृत्तितया केवलान्वयि । वस्तुमात्रस्य क्षणपरिणामितया वृद्धिह्रास-
२२८ वेदस्वरूप-विमर्शः साम्यानामावश्यकत्वात् । अत एव एकैव व्यक्तिः सात्त्विकेन धर्मेण कञ्चित् सुखयति, राजसेन धर्मेण कञ्चित् क्लेशयति, तामसेन कञ्चिन्मोह- यति । तस्मात् सत्त्वोपचये पुमान्, रजस उपचये स्त्री, तमसस्तथात्वे नपुंसकमिति व्यवहारः । कैश्चित्तु सकलगुणानामुपचये पुंस्त्वमपचये स्त्रीत्वम् साम्ये नपुंसकत्वम् । अन्यैस्तु अन्यापेक्षयोपचयादौ पुंस्त्वादिक- मुच्यते । यद्यपि 'स्तनकेशवती नारी लोमशः पुरुषः स्मृत'इति लौकिकमेव पुलिङ्गादिलक्षणम् तथापि व्याकरणशास्त्रे तद्धितखट्वावृक्षादिशब्दानां पुल्लिङ्गत्वादिव्यवहाराय पारिभाषिकोऽयं लिङ्गव्यवहारोऽभ्युपेयते । हरिरप्याह— आविर्भावतिरोभावस्थितिचेत्यव्यपायिनः । धर्मा मूर्तिषु सर्वासु लिङ्गत्वेन व्यवस्थिताः ॥ हरिरपि वैज्ञानिकं लिङ्गं न जानाति भवांस्तु जानातीति न संभव- दुक्तिकमिति । तथाहि सति संभवे सामानाधिकरण्यसम्बन्धेन लौकिकपुंस्त्वादि- विशिष्टशास्त्रीयलिङ्ग एव पुमादिशब्दानां शक्तिः, न केवले शास्त्रीये, नापि लौकिके, असंभवे तु शास्त्रीय एव । अत एव 'पशुना यजेत' इत्यादौ पशुस्त्रिया कृते यागे वैगुण्यम् । लौकिके पुंस्त्वादि-विशिष्टशास्त्रीय- पुंस्त्वस्यैव शब्देन प्रतिपादनात् । तस्मान्नादानप्रदानलक्षणयज्ञप्रक्रिययैव स्त्रीत्वं पुंस्त्वञ्च । गीतायां हि—'ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तु मिहार्हसी'ति शास्त्रविधानेनोक्त- मेव कर्म कर्तव्यत्वेनोक्तम्, न तु स्वाभाविकानान्तेषामशनपानमैथुना- दीनामनुकरणमेव कर्तव्यमित्याद्युक्तम् । 'द्रव्यं देवता त्यागः, (कात्या- यनश्रौतसूत्रे १ अध्यायः) इति सूत्रानुसारेण देवतोद्देश्येन क्रियमाण- स्वस्वत्वनिवृत्त्यनुकूलो व्यापार एव यागः । इति १६४ पृष्ठे निरूपितमेव । यदुक्तमियमग्नौ सोमाहुतिप्रक्रिया शिवशक्त्युपासनाऽनुकृता शवरूपस्य शिवस्य हृदि विराजमाना आद्या शक्तिः ध्येया मूर्तिष्वपि तदाकारा पूज्यते । तेन ब्रह्मरूपस्य शिवस्य हृदि मध्यकेन्द्रे शक्तिरनवरतं वेदस्वरूप-विमर्शः २२९ विराजते । शक्तिहीनः शिवः कदापि न भवति । अग्निः शिवः तस्योपरि मध्यभागे शक्तिरूपः सोम आगच्छति । उपर्य्यन्तरिक्षे सर्वत्र सोमो व्याप्तः । स सङ्घीभूयाग्नौ निपतति । सोमः कृष्णवर्णः शक्तिरपि कृष्णवर्णैव । अग्निरूपः शिवस्तूज्ज्वलः । उः शिवस्तस्य माया शक्तिः उमा उमया सहितः शिवः सोमः । तदपि नाभीष्टसाधनम्, ब्रह्मरूपे शिवे शक्तेर्ध्येयत्वेऽपि विहितध्यानस्यैव तत्र पुण्यजनकत्वात् । एवं होमेऽग्न्यादिषु शिवादिबुद्धयोऽपि तन्त्रेषु विहिता एव । तत्रैव बृहज्जाबालोपनिषदो निम्नोक्तानि वचनानि सङ्गच्छन्ति । अग्नीषोमात्मकं विश्वमित्यग्निराचक्षते । रौद्री घोरा या तैजसी तनुः सोमशक्त्यमृतमयः शक्तिरतितनुः । “अमृतं या प्रतिष्ठा सा तेजोविद्या कला स्वयम् । स्थूलसूक्ष्मेषु भूतेषु स एव रसतेजसी । द्विविधा तेजसो वृत्तिः सूर्यात्मा चानलात्मिका । तथैव रसशक्तिश्च सोमात्मा चानलात्मिका ॥ वैद्युदादिमयं तेजो मधुरादिमयो रसः । तेजोरसविभेदैस्तु वृत्तमेतच्चराचरम् ॥ अग्नेरमृतनिष्पत्तिरमृतेनाग्निरेधते । अत एव हविः सन्तमग्नीषोमात्मकं जगत् ॥ ऊर्ध्वशक्तिमयः सोम अधः शक्तिमयोऽनलः । ताभ्यां सम्पुटितस्तस्माच्छश्वद्विश्वमिदं जगत् ॥ अग्नेरूर्ध्वं भवत्येषा यावत्सौम्यं परामृतम् । यावदग्न्यात्मके सौम्यममृतं विसृजत्यधः ॥ अत एव हि कालाग्निरधस्ताच्छक्तिरूर्ध्वगा । यावद्दाहनदग्धोर्ध्वमधस्तत्पावनं भवेत् ॥ आधारशक्त्यावधृतः कालाग्निरयमूर्ध्वगः । तथैव निम्नगः सोमः शिवशक्तिपदास्पदः ॥ शिवश्चोर्ध्वमयः शक्तिरूर्ध्वशक्तिमयः शिवः । तदित्थं शिवशक्तिभ्यां नाव्यातमिह किञ्चन ॥
२३० वेदस्वरूप-विमर्शः असकृच्चाग्निनादग्धं जगत्तद्भस्मसात्कृतम् । अग्नेर्वीर्यमिदं प्राहुस्तद्वीर्यं भस्म यत्ततः ॥ यश्चेत्थं भस्मसद्भावं ज्ञात्वाभिनत्ति भस्मना । अग्निरित्यादिभिर्मन्त्रैर्दग्धपापः स उच्यते ॥ अग्नेर्वीर्यं च तद्भस्म सोमेनाप्लावितं पुनः । अयोगयुक्त्या प्रकृतेरधिकाराय कल्पते ॥ योगयुक्त्या तु तद्भस्म प्लाव्यमानं समन्ततः । शाक्तेनामृतवर्षेण ह्यधिकारान्निवर्त ते ॥ अतो मृत्युञ्जयायेत्थममृतप्लावनं सताम् । शिव शक्त्यमृतस्पर्शो लब्ध एव कुतो मृतिः ॥ यो वेद गहनं गुह्यं पावनञ्च तथोदितम् । अग्निषोमपुटं कृत्वा न स भूयोऽभिजायते । शिवाग्निना तनुं दग्ध्वा शक्तिसोमामृतेन यः ॥ प्लावयेद्योगमार्गे
नाऽग्नौ यथा कथञ्चित् सोमदधिघृतादिनिक्षेप एव याग इति वक्तुं शक्यते, अनीप्सितवद्दाहादावतच्छब्दप्रयोगात् । सर्वत्र विधेरेव प्राधा- न्यम् । अत एव "विधिहीनस्य यज्ञस्य सद्यः कर्ता विनश्यतीति" "छिद्रं- हि मृगयन्त्येते विद्वांसो ब्रह्मराक्षसा' इत्यादिभिः विधिहीनयज्ञस्य विपरीतफलकत्वमवगम्यते । अत एवाग्निहोत्रदर्शपूर्णमासचातुर्मास्या- दीनामङ्गोपाङ्गप्रभेदविधानवन्न प्राकृतयागत्वेनाभिमतेष्वधिदैवतेषु सोमहोमेषु तथाविधप्रभेदवर्णनमुपलभ्यते । निरुक्तादिषु तु भाव- विकारविवरणे यमेन विच्छिन्नतया अल्पा गतिर्यत्र तज्जीर्णं भूत्वा नश्यति इति वस्तुगत्यां सत्यामपि तत्र तदेतन्न चर्चितम् । गार्हपत्या- हवनीयदक्षिणाग्निषु लोकत्रयदृष्टिरुपासनाथैव न वस्तुस्थित्यनुरोधेन योषादिष्वग्निदृष्टिवत् । 'अयं वै लोको गार्हपत्यः' इति श्रुत्या न पृथिवीलोकस्य गार्हपत्या- ग्नित्वं, न च तत्र सोमहोमो बोध्यते तथात्वाश्रुतेः । "अथोषान्निवपति" इति गार्हपत्य ऊषायाः क्षारमृत्तिकाया निवापस्तु विहितः । तस्य प्रशंसार्थं गार्हपत्ये पृथिवीलोकत्वमुषायाञ्च पशुत्वमारोप्यते । ऊषरप्रदेशस्य पशु- भिरुपजीव्यत्वादूषाणां पशुत्वव्यपदेशः । यस्मादूषाणां निवपने न पशवोऽ- स्मिन् लोके स्थापितास्तस्मादेव इदानीमपि पशवो गवाद्या अस्मिँल्लोके समृद्धा उपलभ्यन्ते तदनुगुणान्येव श्रुत्यक्षराणि "अथोषान्निवपति अयं वै लोको गार्हपत्यः पशवऽऊषा अस्मिँल्लोके पशूनुपदधाति तस्मादिमे अस्मिँल्लोके पशव इति श्रुतेः (श० ७।१।१।१) सर्वथाऽपि नानया पृथिव्या गार्हपत्याग्नित्वं प्रबोध्यते । किञ्च नहि यज्ञे गार्हपत्ये दक्षि- णाग्नौ वा सोमहोमेन यज्ञपूर्तिः, आहवनीय एव प्रधानहोमविधानात् । तस्मात्किञ्चिदेतत् । एवं "संवत्सरोऽग्नि" रित्यनेनापि न संवत्सरस्याग्नित्वं बोध्यते किन्तु द्वादशकपालोऽग्निर्भवति इति विधाय तत्प्रशंसा क्रियते । कपालानि द्वादश भवन्ति, अग्निश्च द्वादशमासरूपसंवत्सरात्मकः । अतस्तत्सं- मितेनाग्निं प्रीणाति । हिरण्यगर्भस्य सूर्यात्मकत्वेन निरूपितत्वेन च वर्णनात् संवत्सरव्यवहारस्य सूर्यमूलकत्वेनाग्नेः संवत्सररूपत्व-
मौपचारिकमेव । एवं कथञ्चित् प्रतीकोपादानेन प्राकृतयज्ञसिद्धि दुर्घटैव । विहितयज्ञसादृश्येन क्वचित् तादृक्षे व्यवहारे यज्ञकल्पना भवतु तथापि तेन विहितयागस्यैव स्तुत्यादिर्विवक्षितमिति तद्बोधने तात्पर्याभाव एव, 'यत्परः शब्दः स शब्दार्थ' इति न्यायात् । एतेनाधिदैवताध्यात्मिकाधिभौतिकयागप्रक्रियापि व्याख्यातैव । प्राणाग्निहोत्रादिव्यवस्था तु विहितत्वाद्युक्तैव । यदप्युक्तम् "सूक्ष्मविचारे त्वग्नीषोमावपि यज्ञेनैवोत्पाद्येते यज्ञेनैव च स्वस्वरूपेऽवतिष्ठेते अन्यानि च देवभूतादीनि तत्त्वानि यज्ञादेवो- त्पद्यन्ते तेनैव च पाल्यन्ते चे"त्याद्यपि श्रुतिभ्यः सिध्यति । अग्नौ सोम आयाति सोमं गृह्णन्नग्निश्च स्वात्मरूपतां प्रापयति । अनयैव च दिशा पदार्थेषु गत्यागती । या च देवानां भूतानां द्वयोः सम्बन्धेन रूपान्तरता- प्राप्तिः सा सर्वापि यज्ञपदेन तत्र तत्र श्रुतिषु व्याख्यायते । तथाहि- पृथिव्युत्पत्तिस्तावदेवं ब्राह्मणेषु ( श० ६।१।३।२-४ ) आपः फेनः मृत्स्ना सिकता शर्करा अश्मा अयः हिरण्यमित्यष्टावस्थाः क्रमेणोद्भवन्ति । तासां समुदायः पृथ्वीत्याख्यायते । प्रस्रुतावप्सु सूक्ष्मेऽवकाशे वायुः प्रविशति निष्क्रामति चेति क्रियानवरतं प्रवर्त्तते । यदा वायुनोत्थापितानामपां सूक्ष्मः स्तरो वायुमावृणोति । आवृतश्च वायुर्न निष्क्रमितुं प्रभवति, तदा बुद्बुदो जायते, क्षणानन्तरं जलस्तरं त्रोटयित्वा वायुर्निष्क्राम्यति, बुद्बुदं विलीयते । यदा च वायुनोत्थापितानामपां स्तरो घनीभवति वायुवेगेन सहसा न त्रुट्यति । तदा वायोश्चापाञ्च चिरसंघर्षाद् द्वयोरपि स्वरूपं विलीयते, द्विसंसर्गजञ्च फेनरूपं भवति । सेयं द्वाभ्यामभिनवपदार्थो- त्पत्तिरपि यज्ञ एव । एवं फेनेऽपि वाय्वादेस्तत्त्वान्तरस्य संघर्षान्मृत्स्ना जायते । तदनन्तरमश्मा । तत्र सूर्यरश्म्यादिनिष्ठस्याग्नेः प्रभावातिशया- दयादयश्च धातवो जायन्ते । सर्वान्ते सुवर्णम् । सर्वतो गुरुभूतं सुवर्णं जायते । ता एता अष्टावस्था अष्टाक्षररूपेण निरूपिताः ।" इयञ्चाष्टाक्षरा गायत्री चयनप्रकरणे व्याख्याता । तदपि न समीहितसाधनम् । तात्पर्यान्तरस्य विवक्षितत्वात् - तथाहि-यदि द्वाभ्यां जायमानत्वमेव यज्ञत्वं तदा प्रकृतिपुरुषाभ्यां
पृष्ठ २३४
सर्वस्य जायमानत्वात् सर्वस्य यज्ञत्वं स्पष्टमेवेति पृथक्-पृथक् तत्समर्थनं व्यर्थमेव । यदि तस्यैव यज्ञनामकरणमिष्यते तर्ह्रीष्यताम् । न तावता याज्ञिकप्रसिद्धयज्ञत्वं तत्र सम्भवति, तस्य भवदभ्यूहमात्रत्वात् । तस्मान्न द्वयोः सम्बन्धेन रूपान्तरतापत्तिरेव यज्ञः । द्विसंयोगेषु बहुषु पदार्थेषु यज्ञत्वव्यवहाराभावात् । उद्धृतशतपथप्रमाणेनापि तन्न सिद्ध्यति, तत्र पृथिव्यास्तदवस्थानाञ्च वर्णनेऽपि पृथिव्या यज्ञत्वानुक्तेः । अतएव द्वाभ्याज्ञातानामभिनवपदार्थरूपफेनादीनामपि यज्ञत्वं नाम्नातम् । वस्तुतस्तु इष्टकाचयनप्रसङ्गे इष्टकायाः केनचित्साम्येन पृथिवीत्वमुक्तम् । सेयं चतुःस्रक्तिर्दिशो ह्यस्यै स्रक्तयस्तस्माच्चतुःस्रक्तयः इष्टका भवन्तीति । भूमेर्दिक्षूपचतुःस्रक्तियुक्तत्वाद्दिदानीन्तनेः चतुःस्रक्तय इष्टकाः कार्या इत्युक्तम् । ततश्चैकेष्टकत्वे पञ्चेष्टकत्वमन्त्रैः प्रसिद्धिरिति तद्विरोधमा- शङ्क्य पञ्चेष्टकाश्चीयन्ते इत्युक्तम् । तत्र भूमिः प्रथमेष्टिका, यत्किञ्चि- न्मृन्मयपात्रादिकमुपदध्यात् सा मृण्मयी । पुरुषाश्वादि पञ्च पशूशीर्षो- पधानेन पश्विष्टका । रुक्मं हिरण्यम् । तत्र पुरुषं स्वर्वनिर्मितमुपदधाति । उपहित्वा इष्टका स्वर्णसकलैः प्रोक्षति । अतोऽत्र हिरण्यस्पर्शादेषा हिरण्येष्टका । स्रुगाद्युपधानेन चानस्पत्येष्टका वनस्पतिविकारत्वा- त्स्रुगादीनाम् । पुष्करपर्णाद्युपधानेन अन्नेष्टका । तत्र दधिघृतादीनामन्न- त्वात् । पञ्चेष्टकाश्चेतव्याः, मार्तिक्यश्च इष्टकाः पश्वादिसम्बन्धान् पञ्च भवन्ति । तत्र च पृथिव्याः स्तुतये तस्याः प्रजापतेरुत्पत्तिस्तस्याश्च अष्टावस्थासु अष्टाक्षरत्वसाम्येन गायत्रीत्वञ्चोपपद्यते । तदेतत्सर्वं "प्रजापतिर्वा इदमग्र आसीत्" 'सोऽश्राम्यत तपोऽतप्यत तस्मादापो जायन्ते आपो अब्रुवन् क्व वयं भवामः ताः फेनमस्सृजन्त फेनोऽब्रवीत् मृदेव भवति तद्यदसृज्यन्ताक्षरत् तद्यदक्षरत् तस्मादक्षरं यदष्टौ कृत्वा- ऽक्षरत्सैवाष्टाक्षरा गायत्र्यभवत् । प्रजापतिः अष्टौ कृत्वाऽक्षरत् सैव संख्या साम्यादष्टाक्षरा गायत्री सम्पन्ना । (सा० भा०) । नात्र कचिदपि द्विसंयोगजस्याभिनवपदार्थस्य यज्ञत्वमुक्तम् ।
पृष्ठ २३५
यच्चोक्तं "द्वयोः सम्बन्धरूपो यज्ञः सृष्टेरारम्भादेव प्रवृत्तः । द्वयोः सम्बन्धे प्रधानः पुरुषः अग्निरिति चाख्यायते, अप्रधानस्तु योषा सोम इति च परिभाष्यते; अग्नीषोमयोर्यन्नान्नादरूपो वृष-योषा- रूपश्च सम्बन्धः । द्वयोः सम्बन्धे एकस्य वृषत्वम्; अर्थात् पुरुषत्वम् अपरस्य योषात्वम् । तत्राप्यग्नित्वं सोमत्वञ्चारोप्यते । तयोः सम्बन्धश्च यज्ञशब्देनैव व्यपदिश्यते । यथा अनन्तकोटिब्रह्माण्डामलकस्य जगत एकमेव मूलतत्त्वं सत्पदवाच्यम्, "सदेव सोम्य इदमग्र आसीदेकमेवा- द्वितीय" मित्यादि श्रुतिषूक्तम् । अविकृतं चित्सु सृष्टिं रचयितुं न शक्नोतीति तत्रैका शक्तिः स्वाभाविका कल्प्यते । "आनीदवातं स्वध- या तदेकम् परास्य शक्तिर्विविधैव श्रूयते।" सोऽयं शक्तेर्ब्रह्मणश्च सम्बन्धः प्रथमो यज्ञः सर्वजगदुत्पादक इति तदपि न प्राकृतयज्ञसाधकम् । एकं ब्रह्मशक्तिसंश्लिष्टं सज्जगद्रचयतीति तु सत्यम् । तयोः सम्बन्धस्तु भवदुक्तरीत्या स्वाभाविक एवेति कुतस्तन् सम्बन्धस्यागन्तुकत्वं यज्ञत्वञ्च ? सृज्यमानप्राण्यदृष्टवशात् सम्पन्नस्सम्बन्धः विशेषस्यागन्तु- कत्वेऽपि यज्ञत्वं तु तस्य कुतस्त्यम् ? प्रधानस्याग्नित्वे योषायामप्रधानभूतायां कुतोऽग्नित्वञ्च ? हूयमान- सोमापेक्षया प्राधान्ये तु वस्तुतो योषायामप्राधान्यमवस्थितमेव । पञ्चाग्निविद्यायां तु होमादिकमारोपितमेव केनचित्साम्येन । तथाहि पञ्चाग्निविद्यायां शरीरारम्भणाग्निहोत्रपूर्वपरिणामलक्षणं श्रद्धादि- रूपेण पञ्चधा विभज्य द्युप्रभृतिष्वग्निषु होतव्यत्वेनोपासनमुत्तरमार्गं प्रति साधनत्वेनोच्यते— "असौ वा व लोको गौतमाग्निः" तत्र सायं प्रातरग्निहोत्राहुती हुते पय आदि साधने श्रद्धा पूर्वमाहव- नीयाग्निसमिद्धमार्चिरङ्गारविस्फुलिङ्गभाविते कर्त्रादिकारक- भाविते चान्तरिक्षं क्रमेणोत्क्रम्य द्युलोकं प्रविशन्त्यौ सूक्ष्मभूते द्रव-द्रव्य प्रभृत्यप्सम्बन्धादपशब्दवाच्ये श्रद्धाहेतुकत्वाच्च श्रद्धा- शब्दवाच्ये तयोरधिकरणमग्निः । अन्ये च समिद्धूमार्चिरङ्गारविस्फुलिङ्गा- रूपत्वेन निर्दिश्यन्ते "असौ वा व द्युलोको गौतमाग्निः तत्रादित्यः समित् रश्मयो धूमाः अहरर्चिः चन्द्रमा अङ्गारः नक्षत्राणि विस्फुलिङ्गाः ।"
पृष्ठ २३६
तत्राग्नौ देवा यजमानः प्राणा अग्न्यादिरूपा अधिदैवं श्रद्धां जुह्वति ततो वृष्ट्युपकरणाभिमानिनि देवताविशेषे पर्जन्येऽग्नौ देवाः सोमं राजानं जुह्वति । तत्र वायुः समित्, अभ्रं धूमः, विद्युदर्चिः, अशनिरङ्गाराः, गर्जितं विस्फुलिङ्गाः, श्रद्धाख्या आपः, द्युलोकमाहुतित्वेन प्रविश्य चन्द्राकारेण परिणताः सत्यो द्वितीये पर्याये पर्जन्याग्नौ हुता वृष्टित्वेन परिणमन्ते । ततस्तृतीये पर्याये पृथिव्यग्नौ श्रद्धा सोम परिणाम- क्रमेणागता आपो वृष्टिरूपेण परिणता देवा जुह्वति तस्या आहुतेरन्नं व्रीहियवादिकं जायते । व्रीह्यादिरूपेण परिणतास्ता आपः पुरुषाग्नौ हूयन्ते । तत्र तासां परिणामो रेतो भवति ततो योषाग्नौ देवा रेतो जुह्वति तस्या आहुतेर्गर्भो भवति । एवं श्रद्धा सोमवर्षान्नरेतोवहनक्रमेण योषाग्निम्प्राप्यापो गर्भाख्या भवन्ति । तदेवोक्तं “पञ्चम्यामाहुतावापः पुरुष वचसो भवन्ति ।” तथा च तत्र तदुदाहरणेन यज्ञत्वान्वेषणं मुधैव ।” विश्वमूलशक्तिशिवयोः संयोगेऽपि यज्ञत्वकल्पनमपि तथाभूतमेव । वैधस्यैव होमादेर्यज्ञत्वमित्यसकृदुक्तम् । अन्यथा विधिविरुद्धयोषापृष- सम्बन्धे यज्ञत्वापत्त्याऽनायासेनैव स्वर्गादिफलप्राप्तिः स्यात् । तथा च सति यज्ञादिविधायकशास्त्रवैयर्थ्यापातः स्यात् । यच्च 'शक्तिविशिष्टः पुरुषः प्रजापतिर्भवति । अस्मात् परं ब्रह्मणः परमेश्वराज्जीवाविर्भावोऽपि यज्ञप्रक्रिययैव भवति । व्यापकस्य प्रजापति- पदाभिधेयस्य महेश्वरस्यांशो योगमायायां प्रवृत्त्येभूत एव जीवो भवति महतः कश्चिदंशो यदा तस्मात्पृथग्भूय पृथक् स्वीयं तन्त्रं प्रवर्तयति स्वतंत्र इव भवति । तदा ऋग्वेदपरिभाषायाम् 'प्रवर्ग्य' इति, अथर्व- परिभाषायाम् 'उच्छिष्ट' इत्युच्यते । यथा अग्नीषोमसूर्यकिरणैस्तापः पाषाणादिषु प्रवेक्ष्यते । अस्तङ्गतेऽपि सूर्ये तत्र सोऽनुभूयते । [L2
सहज आत्मा तत्राप्तेस्तैस्तस्य विनियोगात् । येनाहङ्कारेनेन्द्रियरूपतया- परिणतेन कारणभूतेन क्षेत्रज्ञः प्रतिजन्म सुखं दुःखञ्चानुभवति । अत एव पैङ्गीरहस्योपनिषदि सर्व्वक्षेत्रज्ञावेव द्वौ सखायौ सुपर्णावुक्तौ । तावुभौ भूतसंपृक्तौ महान् क्षेत्रज्ञ एव च उच्चावचेषु भूतेषु स्थितं तं व्याप्य तिष्ठतः ॥ अत्र तौ द्वौ महत् क्षेत्रज्ञौ पृथिव्यादिपञ्चभूतसंपृक्तौ उच्चावचेषु भूतेषु स्थितं तं सर्वलोकवेदस्मृतिपुराणादिप्रसिद्धतया तमिति निर्दिष्टं परमात्मानं व्याप्याश्रित्य तिष्ठतः तस्य परमात्मनः शरीरात् स्वरूपात् असंख्या मूर्तयो 'जीवरूपा क्षेत्रज्ञाश्चेनोक्ताः लिङ्गशरीरावाच्छिन्ना वेदान्तोक्तप्रकारेणाग्नेरिव विस्फुलिङ्गा निःसरन्ति या उच्चावचानि चेष्टयन्ति । एतेन शान्तात्मादि भेदेनाष्टादशात्मप्रभेदवर्णनमपि निरर्थकमेव । [L1
यहाँ प्रस्तुत पृष्ठों का पूर्ण एवं शुद्ध देवनागरी रूपान्तरण पंक्ति-दर-पंक्ति दिया जा रहा है:
[पृष्ठ २४०]
२४० वेदस्वरूप-विमर्शः तत्र क्षेत्र क्षेत्रज्ञज्ञानेनैव मोक्षावाप्तिरुक्ता, क्षेत्रज्ञस्य परमात्मरूपत्व- श्चोक्तम्- "क्षेत्रज्ञं चापि मां विद्धि।" "क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा भूतप्रकृतिमोक्षञ्च ये विदुर्यान्ति ते परम्।" इत्यादिबचनेभ्यः । मनुवचनानांस्तूक्त एव । यदुक्तं 'महन् क्षेत्रज्ञौ भूतात्मसंपृक्तौ उच्चावचेषु भूतेषु स्थितमात्मानं व्याप्य तिष्ठतः" इति। तदपि न; तत्र तमित्यस्य वेदादिप्रसिद्धतया तत्पुन- र्निर्दिष्टस्य परमात्मन एव ग्रहणात् । तस्यैव शरीरात् स्वरूपान्जीवानां प्रसरणोक्तिः संगता भविष्यति । तदेतत्सर्वं तमिति जीवात्मग्रहणे नोपप- द्यते। तस्यैकस्य सर्वभूतेषु स्थितिरपि नोपपद्यते । क्षेत्रज्ञातिरिक्तश्च जीवात्मा सर्वथा नोपपद्यते 'एतद्यो वेत्ति तम्प्राहुः क्षेत्रज्ञमिति तद्विदः' इत्यादिभिर्वचनैः क्षेत्रज्ञस्यैव जीवत्वोक्तेः। प्रज्ञानात्मप्रायात्मनोभूतात्मन्य- न्तर्भावः शान्तात्मनस्तु महत्यात्मनि निवेश इत्यादिकमन्यापि निःसारं निष्प्रमाणञ्च । मनुवचनस्यान्यथा व्याख्यातत्वात् । यच्चोक्तम्- "वैश्वानरस्य शरीरावयवसंघटनरक्षणे कार्य्यम् । स च चेतनाचेतनेषु सर्वत्र पार्थिवेषु, व्याप्तः तेनैव लोष्टपाषाणादिष्वपि तत्सङ्घटनं दृश्यते । तैजसस्य वर्धनादिकार्य्यम् । प्राज्ञस्तु ज्ञानेच्छासुख- दुःखादीनामाश्रयो भवति । अग्निवायुसूर्यांशभूतान्येतेषामायतनानि । प्राज्ञश्च पुनरपि कर्मात्मचिदाभास-चिदात्मभेदेन त्रिविधः । शुभाशुभेषु कार्येषु शरीरात्मप्रवर्तकस्य चैतन्यांशस्य कर्मात्मत्वं कर्मजनितसंस्कारा- श्रयत्वात् । स च कर्मात्मा भूतात्मन एव काचिदवस्था स्वच्छत्वात्तत्र चैतन्यं प्रतिविम्बते, तेन कार्यक्षमता भवति । चैतन्याभासस्यैव चिदा- भासत्वम् । स एव व्यावहारिको जीवः । शरीरादिषु चैतन्यसञ्चार एव तत्कार्य्यम् चिदाभासस्योत्पादको बिम्बभूतश्चिदात्मा स चेश्वर्रांशः । स एव प्रत्यगात्मा । स एव स्वमायया यन्त्रारूढानि भूतानि भ्रमयति । स एवान्तर्यामी । सोऽपि विभूतिमच्छ्रीमदूर्जितोति त्रिधा व्यवस्थिता भवति।" इति । इदमपि निःसारं निष्प्रमाणञ्च । प्रत्युपस्थापितप्रमाणानाम- न्यार्थत्वात्, माण्डूक्य्यादिश्रुतिविरोधाच्च । माण्डूक्योपनिषदि 'जागरित-
[पृष्ठ २४१]
वेदस्वरूप-विमर्शः २४१ स्थानो बहिः प्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग् वैश्वानरः सोपाधिक आत्मा उक्तः । स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्गः एकोनविंशति- मुखः प्रविबिक्तभुक् तैजस उक्तः । यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत्सुषुप्तम् । सुषुप्तस्थानः एकीभूतः प्रज्ञानघन एवा- नन्दमयो ह्यानन्दभुक्चेतोमुखः प्राज्ञस्तृतीयः पादः । ब्रह्मण एवेमा उपाधिप्रयुक्ता अवस्थाः तस्यैव च समष्टिरूपेणेश्वरत्व- सर्वज्ञत्व-सर्वान्तर्यामित्वादिकं व्यष्टिरूपेण जीवत्वम् । "एष सर्वेश्वरः एष सर्वज्ञः एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूताना- मिति" श्रुतेः । तस्यैव सर्वोपाधिरहितस्य नान्तःप्रज्ञं न बहिःप्रज्ञमित्यादि- भिस्तुरीयत्वमुक्तम् । एकात्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थ मन्यन्ते" इति श्रुतेः । स्थावरजङ्गमादिषु जीवस्वरूपायैश्वेऽपि उपाधिस्वच्छत्वतारतम्येनाभिव्यक्तितारतम्यन्विवद्यत एव । यदा न कञ्चन कामं कामयते प्राज्ञस्तदा कथं तस्येच्छाद्याश्रयत्वं यदा स आनन्द- भुगेव भाति तदा कथं दुःखश्रयत्वम् । छान्दोग्येऽपि प्रजापतिविद्याया- मिन्द्रः विरोचनामुद्दिश्य तिसृणामवस्थानां संसर्गेण त्रयोप्येत आत्मानो बोधिताः शुद्धात्मप्रतिपिपादयिषयैव । य आत्मा अपहतपाप्मा विजरो विमृत्युर्विशोक इति शुद्धस्यैवोपक्रान्तत्वात् शुद्ध एव । "य एषोऽक्षिणि पुरुषो दृश्यते एष आत्मा जाग्रदवस्थोपलक्षितत्वेनोपदिष्टः । ताभ्यान्व- क्षिणि दृश्यत इत्यस्य तात्पर्य्यमनवबुद्धय शरीररूपभूतात्मैव प्रतिपन्नः । "एतदमृतमभयमेतद्ब्रह्मेति" प्रजापतिवाक्यैरादर्शोदशरावादिषु भूषणा- लङ्कारपरिस्करणादिराहित्यासाहित्याभ्यां देहस्य विकारित्वमवगमय्य अनात्मत्वे बोधितेऽपि विरोचनो देहमेवात्मानमवगतवान् । इन्दुस्तु पुनः प्रत्यावृत्तः । "एतं त्वेव ते भूयोऽनुवक्ष्यामि वसापराणि द्वात्रिंशद्वर्षाणि इति प्रजापतिवाक्येन ब्रह्मचर्यमुषित्वा "य एष स्वप्ने महीयमानश्चरत्येष आत्मा" इति देहाद्विभिन्नं तैजसं वियेद । चतसृष्ववस्थासु एक एव आत्मा उपदिष्टः "स एतन्त्वेव ते भूयोऽनुवक्ष्यामीति निर्देशांत् । चतुर्थे पर्याये तमेवात्मानमिन्द्रो विवेद । वे० वि०-१६
२४० वेदस्वरूप-विमर्शः तत्र क्षेत्रक्षेत्रज्ञज्ञानेनैव मोक्षावाप्तिरुक्ता, क्षेत्रज्ञस्य परमात्मरूपत्व- श्रोक्तम्- "क्षेत्रज्ञं चापि मां विद्धि ।” “क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा भूतप्रकृतिमोक्षञ्च ये विदुर्यान्ति ते परम् ।” इत्यादिवचनेभ्यः । मनुवचनार्थस्तूक एव । यदुक्तं 'महत् क्षेत्रज्ञौ भूतात्मसंपृक्तौ उच्चावचेषु भूतेषु स्थितमात्मान व्याप्य तिष्ठतः' इति । तदपि न; तत्र तमित्यस्य वेदाविप्रसिद्धतया तत्पुन- र्निर्दिष्टस्य परमात्मन एव ग्रहणात् । तस्यैव शरीरात् स्वरूपाज्जीवानां प्रसरणोक्तिः संगता भविष्यति । तदेतत्सर्वं तमिति जीवात्मग्रहणे नोपप- द्यते । तस्यैकस्य सर्वभूतेषु स्थितिरपि नोपपद्यते । क्षेत्रज्ञातिरिक्तश्च जीवात्मा सर्वथा नोपपद्यते 'एतद्यो वेत्ति तम्प्राहुः क्षेत्रज्ञमिति तद्विदः' इत्यादिभिर्वचनैः क्षेत्रज्ञस्यैव जीवत्वोक्तेः । प्रज्ञानात्मप्रायात्मनोर्भूतात्मन्य- न्तर्भावः शान्तात्मनस्तु महत्यात्मनि निवेश इत्यादिकमव्यापि निःसारं निष्प्रमाणञ्च । मनुवचनस्यान्यथा व्याख्यातत्वात् । यच्चोक्तम् - "वैश्वानरस्य शरीरावयवसंघटनरक्षणे कार्य्यम् । स च चेतनाचेतनेषु सर्वत्र पार्थिवेषु, व्याप्तः तेनैव लोष्टपाषाणादिष्वपि तत्सङ्घनं दृश्यते । तैजसस्य वर्धनादिकार्य्यम् । प्राज्ञस्तु ज्ञानेच्छासुख- दुःखादीनामाश्रयो भवति । अग्निवायुसूर्याश्चभूतान्येतेषामायतनानि । प्राज्ञश्च पुनरपि कर्मात्मचिदाभास-चिदात्मभेदेन त्रिविधः । शुभाशुभेषु कार्येषु शरीरात्मप्रवर्त्तकस्य चैतन्यांशस्य कर्मात्मत्वं कर्मजनितसंस्कारा- श्रयत्वात् । स च कर्मात्मा भूतात्मन एव काचिदवस्था स्वच्छत्वात्तत्र चैतन्यं प्रतिबिम्बते, तेन कार्यक्षमता भवति । चैतन्याभासस्यैव चिदा- भासत्वम् । स एव व्यावहारिको जीवः । शरीरादिषु चैतन्यसञ्चार एव तत्कार्य्यम् चिदाभासस्योत्पादको बिम्बभूतश्चिदात्मा स चेश्वरांशः । स एव प्रत्यगात्मा । स एव स्वमायया यन्त्रारूढानि भूतानि भ्रमयति । स एवान्तर्यामी । सोऽपि विभूतिमच्छ्रीमदूर्जितमिति त्रिधा व्यवस्थिता भवति ।” इति । इदमपि निःसारं निष्प्रमाणञ्च । प्रत्युपस्थापितप्रमाणनाम- न्थार्थत्वात्, माण्डूक्यादिश्रुतिविरोधाच्च । माण्डूक्योपनिषदि 'जागरित-
वेदस्वरूप-विमर्शः २४१ स्थानो बहिः प्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग् वैश्वानरः सोपाधिक आत्मा उक्तः । स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्गः एकोनविंशति- मुखः प्रविविक्तभुक् तैजस उक्तः । यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत्सुषुप्तम् । सुषुप्तस्थानः एकीभूतः प्रज्ञानघन एवा- नन्दमयो ह्यानन्दभुक्चेतोमुखः प्राज्ञस्तृतीयः पादः । ब्रह्मण एवेमा उपाधिप्रयुक्ता अवस्थाः तस्यैव च समष्टिरूपेणेश्वरत्व- सर्वज्ञत्व-सर्वान्तर्यामित्वादिकं व्यष्टिरूपेण जीवत्वम् । "एष सर्वेश्वरः एष सर्वज्ञः एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूताना- मिति” श्रुतेः । तस्यैव सर्वोपाधिरहितस्य नान्तःप्रज्ञं न बहिःप्रज्ञमित्यादि- भिस्तुरीयत्वमुक्तम् । एकात्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते” इति श्रुतेः । स्थावरजङ्गमादिषु जीवस्वरूपाविशेष्येऽपि उपाधिरुस्वच्छत्वतारतम्येनाभिव्यक्तितारतम्यन्विवक्ष्यत एव । यदा न कञ्चन कामं कामयते प्राज्ञस्तदा कथं तस्येच्छाद्याश्रयत्वं यदा स आनन्द- भुगेव भाति तदा कथं दुःखश्रयत्वम् । छान्दोग्येऽपि - प्रजापतिविद्याया- मिन्द्रः विरोचनामुद्दिश्य तिस्रणामवस्थानां संसर्गेण त्रयोप्येत आत्मानो बोधिताः शुद्धात्मप्रतिपिपादयिषयैव । य आत्मा अपहतपाप्मा विजरो विमृत्युर्विशोक इति शुद्धस्यैवोपक्रान्तत्वात् शुद्ध एव । "य एषोऽक्षिणि पुरुषो दृश्यते एष आत्मा जाग्रदवस्थोपलक्षितत्वेनोपदिष्टः । ताभ्यामन्व- क्षिणि दृश्यत इत्यस्य तात्पर्य्यमनबुबुद्ध्य शरीररूपभूतात्मैव प्रतिपन्नः । “एतदमृतमभयमेतद्ब्रह्मेति" प्रजापतिवाक्यैरदर्शोदशरावादिषु भूषणा- लङ्कारपरिस्करणादिराहित्यसाहित्याभ्यां देहस्य विकारित्वमवगमय्य अनात्मत्वे बोधितेऽपि विरोचनो देहमेवात्मानमवगतवान् । इन्द्रस्तु पुनः प्रत्यावृत्तः। "एत त्वेव ते भूयोऽनुवक्ष्यामि बसापराणि द्वात्रिंशद्वर्षाणि इति प्रजापतिवाक्येन ब्रह्मचर्यमुषित्वा "य एष स्वप्ने महीयमानश्चरस्येष आत्मा" इति देहादिभिन्नं तैजसं विवेद । अतस्सुष्वावस्थासु एक एव आत्मा उपदिष्टः "स एतन्वेव ते भूयोऽनुवक्ष्यामीति निर्देशात् । चतुर्थे पर्याये तमेवात्मानमिन्द्रो विवेद । वे० वि०-१६
Here is the complete, line-by-line transcription of the text from the provided image into pure Devanagari Markdown:
[पृष्ठ २४२]
२४२ वेदस्वरूप-विमर्शः तेन शरीराख्यस्य भूतात्मनो वैश्वानरत्वायुक्तिः सर्वथाऽपि प्रमाणविधुरा तद्विरुद्धा च । यच्च "स्वप्नेन शरीरमभिप्रहत्यासुप्तः सुप्तानभिचाकशीति शुक्र- मादाय पुनरेति स्थानम् । हिरण्मयः पुरुषः एक हंसः प्राणेन रक्षन्नवरं कुलायम् बहिष्कुलायादमृतश्चरित्वा स ईयतेऽमृतो यत्र कामम् हिरण्मयः पुरुष एक हंसः" इति श्रुतिवचनैः सूर्यमण्डलात्प्राप्तज्योतिषा विज्ञान- सम्पन्नो भूत्वा हंसात्मा भूतात्मना सहैव तिष्ठति । स च शरीरासृङ्- मांसादिभिरसंस्पृष्टः कर्मसंस्कारैश्चासम्पृक्तः जाग्रदाद्यवस्थातीतः स्वय- मसुप्तः सुप्तान् देहेन्द्रियादीन् पश्यति रक्षति च । स एव भयहेतूपस्थितेषु जीवात्मानं प्रबोधयति । संकल्प्य विशेषेण स एव संकल्पिते समये प्रबोधयति । सूर्याल्लब्धविज्ञानत्वाद्विरण्मयः स देहाद्वहिरुच्चन्द्रादि- मण्डलपर्यन्तं गन्तुं प्रभवति परलोकविद्यावेदिभिः स एवाकाथ्यैते शरीरे नष्टेऽपि वायुदेहेन विचरति यथेष्टं रूपञ्च गृह्णाति इत्याद्युक्तम् । तदपि वेदान्तसम्प्रदायाज्ञानविजृम्भितम् । सोपाधिकनिरुपाधिकात्म- व्यतिरिक्तस्य तादृशस्यात्मनोऽप्रसिद्धत्वात् । यदि स कर्मसंस्कारैः सर्वथा असंस्पृष्टस्तदा अवस्थात्रयान्वयिना भूतात्मना सहैव कथं तिष्ठति । किञ्च यदि भूतात्मना सहैव तिष्ठति तर्हि बहिः कथं गच्छति ? बहिः जीवात्मानमादाय गच्छति एकल एव वा ? एकलश्चेत् कथं तेन सहैव तिष्ठति ? किञ्च स जीवो वा ? ईश्वरो वा। जीवश्चेत्कथं कर्मसंस्कारशून्यः ? कथञ्च स्वतन्त्रः ? ईश्वरश्च कथं भूतात्मनैव सह तिष्ठति ? तस्य सर्वव्यापकत्वात् । किञ्च यदि व्यापकस्तर्हि चन्द्रमडलादिपर्य्यन्तं गमनं कथमुपपद्यते । परिच्छिन्नस्यैव गमनादिसंभवात् । यथेष्टरूपग्रहणञ्च कर्मबलात् स्वतो वा ? प्रथमे कथं कर्मासंस्पृष्टः ? स्वतश्चेत्कथन्न सर्वदा तद् गृह्णीयात् ? किञ्च तन्निर्मितं रूपं कोपलम्यते ? किञ्च तत्र मानम् ? परलोक- विद्यया यदि स एवाकाथ्यैते, तदा तस्य तु निर्लेपत्वात् सुखदुःखानुभूति- वर्णनं कथं संगच्छते । तस्य प्रबोधकत्वे कथं सुप्ता एव सर्पादिदष्टाः
[पृष्ठ २४३]
वेदस्वरूप-विमर्शः २४३ जलाद्यापूरेण वा जना म्रियन्ते ? तस्मात् मृषैव युक्तिवाक्याभासै- रेकालम्बनम् । मन्त्रार्थस्तु-श्रीशङ्कराचार्यादिभिः स्वप्नद्रष्टृवर्णनपरत्वेन व्याख्यातः। तदेते श्लोका भवन्ति इति वचनान्तरं मन्त्रा एते बृहदारण्यके चतुर्थेऽध्याये उक्ताः । तेन पूर्वोक्तेऽर्थे एते मन्त्रास्तत्समर्थनाय प्रवृत्ताः । पूर्वप्रकृतं तु स्वप्नवर्णनम् । पूर्वस्मिन् प्रसङ्गे आत्मनो जाग्रत्स्वप्नादिप्रसङ्गेन शुद्धत्वम- वस्थाद्वितयवतोऽपि वस्तुतस्तद्राहित्यं स्वयंज्योतिष्ट्वञ्च, अलुप्तदृक्स्व- रूपत्वं निरतिशयानन्दस्वाभाव्यञ्चैतत्सर्वं प्रदिदर्शयिषितम् । तत्र जनक- याज्ञवल्क्यसंवादेनात्मनः स्वयंज्योतिष्ट्वसिद्धये आदित्यचन्द्रवागा- दिषु ज्योतिःषु सत्सु प्रबोधकाले तेषां ज्योतिषां साङ्कर्यादात्मनः स्वयं ज्योतिष्ट्वं न दर्शयितुं शक्यम् । सुषुप्तौ व्यवहाराभावाज्ज्योतिः कार्या- भावादात्मनो ज्योतिष्ट्वं नावगन्तुं शक्यमिति तदर्थं स्वप्नावस्थोपन्यासः । तत्रादित्यादीनामभावेऽपि व्यवहारो भवति । तत्र व्यवहारहेतुना ज्योति- षा भाव्यमिति स्वाप्निकव्यवहारहेतुत्वेनात्मन असाङ्कर्येण स्वयञ्ज्योति- ष्ट्रं च बोधयितुं शक्यम् । आदित्यादिज्योतिर्विलक्षणस्तदभौतिकं ज्योतिः । 'कतम आत्मा' इत्यादिना देहेन्द्रियप्राणमनःसु यस्त्वयोक्तः आत्मा स कः ? सर्वे प्राणा विज्ञानमया इव भवन्ति ! योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः स समानः सन्नुभौ लोकावनुसञ्चरति ध्यायतीव लेलायतीव स हि स्वप्नो भूत्वेमं लोकमतिक्रामति मृत्यो रूपाणि, 'य अयमिति' प्रत्यक्षत्वादात्मनो निर्देशः । स विज्ञानमयः विज्ञानप्रायः बुद्धिविज्ञानोपाधिसंपर्काच्चन्द्रादित्यसम्पृक्तराहुवदुप- लभ्यते । बुद्धिविज्ञानालोकविशिष्टमेव हि सर्वविषयजातमुपलभ्यते, 'सधी'रिति चोत्तरत्र पाठात् । प्राणेषु इत्युक्त्या प्राणेभ्यो व्यतिरिक्तः । यो हि येषु भवति स तेभ्यो व्यतिरिक्तः । यथा पाषाणेषु वृक्षः । तत्रापि हृदि बुद्धौ 'अन्तः' इति ततो व्यतिरिक्तः सूच्यते । यथादित्यप्रकाशस्थो घटो यथा वा मरकतादिमणिः क्षीरद्रव्ये प्रक्षिप्तः परीक्षणायात्मरूछायामेव तत्क्षीरादिद्रव्यं करोति ताह्गेतदात्मज्योतिर्बुद्धेरपि सूक्ष्मत्वात् हृद्यन्त- स्थमपि हृदयादिकार्यकरणसंघातञ्चैकीकृत्यात्मच्छायां करोति ।
२४४
“यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः। क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥” “तमेव भान्तमनुभाति सर्वम्” इत्यादिश्रुतिस्मृतिभ्यः । सोऽयं दृष्टन्तः ज्योतिः पुरुषः निरतिशयञ्चास्य स्वयञ्ज्योतिष्ट्वम् सर्वावभासकत्वात् स्वयमनन्यावभास्यत्वाच्च । स एवात्मा करणानु- ग्राहको जामदवस्थायामपि आदित्यादिज्योतिषामपि स एव भासकः । तथापि सर्वकरणागोचरत्वात् बुद्ध्यादिबाह्याभ्यन्तरकार्यकारणव्यवहार- संनिपातव्याकुलत्वान्मुञ्जादिषीकेव निष्कृष्य दर्शयितुमशक्य इति स्वप्ने दिदर्शयिषितः । स समानः सन् हृच्छब्दवाच्यया बुद्ध्या सदृशः सन् यथा रक्तमवभासयन्रक्तसदृशो रक्ताकारः प्रकाशो भवति तथा बुद्धिमवभासयन् बुद्धिद्वारेण कृत्स्नं क्षेत्रं प्रकाशयतीति तेन बुद्धिस सादृश्येनेव बुद्धिव्यापारमनुसरतीव । स्वतस्तु निष्क्र्यापारः कूटस्थ एव बुद्धौ ध्यायन्त्यां लेलायन्त्याम् ध्यायतीव लेलायतीच । धिया समानत्वादेव धीधर्मैद्भवति तत्तत्सदृशो भवति । धीर्यदा स्वापवृत्तिं प्रतिपद्यते तदायं स्वप्नो भवति । स्वप्नो भूत्वा इमं लोकं जागरितव्यवहारलक्षणं कार्यकारणसंघातं सर्वव्यवहारास्पद- मतीत्य स्वात्मज्योतिषा स्वप्नात्मिकां धीवृत्तिमवभासयन् स्वयंज्योतिः- स्वभावो भवति । धिया समानः सन्नेव स इमञ्चामुं च लोकं सञ्चरति बुद्धिरादात्म्यापन्न एव । इदं स्थानं परलोकं च पश्यति स्वप्नस्य सन्ध्यस्थानत्वात् । अस्य दृष्टस्य लोकस्य जागरितलक्षणस्य सर्व्ववतो विषयवेदना- संयुक्तस्य कार्यकारणसंघातस्य मात्रां वासनामादाय दृष्टजन्मवासनावासितः जाग्रत्कल्पप्रकर्मोपरमे स्वयमात्मनैव देहं विहत्य पातयित्वा निःसंबोधमा- पाद्य आत्मकर्मापरमकृतत्वाद्देहनिष्टफलोपभोगशून्यत्वाद्वा तत्प्रसु- प्तोच्यते । स्वयं निर्माय मायामयमिव वासनामयं देहं निर्माय निर्माणमपि तत्कर्मापेक्षत्वात् स्वयं कर्तृकमुक्तम्, स्वीयेनात्मीयेन भासामात्रोपादान- लक्षणेन भासा दीप्त्या सर्ववासनात्मकेनाऽन्तःकरणवृत्तिप्रकाशेन, इत्थंभावे तृतीया, सर्ववासनामयी वृत्तिस्तत्र विषयभूता सा तत्र स्वयं
२४५
स्वयम्भा उच्यते । तेन स्वभासा विषयभूतेन स्वेन च ज्योतिषा तद्विप- यिणा विविक्तरूपेणाऽलुप्तदृक्स्वभावेन तद्भारूपं वासनात्मकं विषयीकुवन् स्वपिति । अत्र बाह्याध्यात्मिकभूतभौतिकज्योतिः संसर्गराहतज्योति- र्भवति । यद्यपि स्वप्ने ऽपि जागर इव विषया उपलभ्यन्ते तथापि न ते तत्र सन्ति । तथा च श्रुतिः-न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान् रथयोगान् पथः सृजते । न तत्रानन्दाः मुदः प्रमुदो भवन्त्यथा- नन्दान् मुदः प्रमुदः सृजते वेशान्तान् पुष्करिणीः स्रवन्तीः सृजते संहितश्च कर्ता ।' रथाश्वादयः स्वतन्त्रा न सन्ति किन्तु तदानीमेव तत्र सृजते लोकमात्रां वासनामादाय तदुपलब्धिनिमित्तेन कर्मणा चोद्यमाना रथादिवासनासरूपान्तःकरणवृत्तिर्दृश्यत्वेन व्यवतिष्ठते । न तत्र करणानि तदनुग्राहकाण्यादित्यादीनि ज्योतींषि तद्वारा वा रथादयः सन्ति । तद्यस्य ज्योतिषा दृश्यतेऽलुप्तदृशस्तदात्मज्योतिः । मोदः प्रमोदः पल्वलाः पुष्करिण्यः स्रवन्त्यो नद्यो वासनारूपाः सृज्यन्ते स्वप्न हेतुभूतकर्मनिमित्ताः न वस्तुतस्तत्रात्मा कर्त्ता, ध्यायतीवेत्युक्तेः । तदेतदेव सर्वं “स्वप्ने न शारीरमभिप्रहत्ये” त्यादिनोक्तम् । स्वप्नेन स्वप्नभावेन शरीरं शरीर- मभिप्रहृत्य निश्चेष्टमापाद्य असुप्तः स्वयमसुप्तगादिशक्तिस्वभावत्वात् सुप्तान् वासनाकारोद्गतान्तःकरणवृत्त्याश्रयान् बाह्यानाध्यात्मिकान् सर्वानैव भावान् स्वेन रूपेण प्रत्यस्तमितान् अभिचाकशीति अलुप्तात्म- दृष्ट्या पश्यति अवभासयति । शुक्रं शुद्धं ज्योतिष्मदिन्द्रियमात्रारूपमादाय गृहीत्वा पुनः कर्मणे जागरितस्थानमेत्यागच्छति । हिरण्मय इव चैतन्यज्योतिस्वभावः पुरुष एक एव जाग्रत् स्वप्ने इहलोकपरलोकादीन् गच्छति । प्राणेन पञ्चवृत्तिना रक्षणं परिपालयनन्यथा मृतभ्रान्तिः स्यात् । अवरं निकृष्टमनेकाशुचि- संघातत्वादत्यन्तबीभत्सं कुलायं नीडं स्वयं बहिश्चरित्वा यद्यपि शरीरस्थ एव स्वप्नं पश्यति तथापि तत्सम्बन्धाभावात् बहिश्चरित्वे- त्युच्यते। अमृतः स्वयममरणधर्मा ईयते गच्छति यत्र कामं विषयेषूद्ग त्- वृत्तिर्भवति तं तं कामं वासनांरूपेशोऽहं तं गच्छति ।
पि? No, wait: यदि तत्रापि? Look at तत्रापि: above त्राthere is a tiny speck or is itतत्रापि? Look at line 19: यदि तत्रापि रथादिसृष्टिर्वस्तुभूता- it isतत्रापि, that dot is just stray ink or nothing. Wait, look closely: is it तत्रापि? Yes, तत्रापि. Line 20: स्यात् । स्वयं विहत्य स्वयं विनिर्माय स्वेन भासा स्वेन ज्योतिषा प्रस्वपिति Line 21:(बृ० ४।३।९) इति जीवव्यापारश्रवणात् । नात्र प्राज्ञस्य निर्मातृत्वम् । Line 22:तस्यैव जीवस्य वाक्यशेषेण जीवभावं व्यावर्त्य ब्रह्मभावोपदेशाभिप्रायेण Line 23:तु तदेव ब्रह्मेत्यादि वाक्यशेषः संगच्छते । प्राज्ञस्य सर्वेश्वरत्वात् Line 24:सर्वावस्थास्वधिष्ठातृत्वं तु न विरुद्ध्यते । Line 25:यदपि “महतात्मनोत्पादितेभ्य इन्द्रियेभ्यः सम्पन्नतो भूत्वाऽयं-> wait! Let's check line 25: सम्पन्नतो भूत्वाऽयंorसम्प
यज्ञ एव जीवभावजनकस्तद्रक्षकश्च । जनकः प्रारम्भिकयज्ञरक्षकस्तूत्तर- यज्ञः प्रथमेनास्य शरीरेन्द्रियसम्बन्धो द्वितीयेन तत्पालनम्”, तदपि न जीवस्वातन्त्र्यस्य परमात्मतन्त्रायत्तत्वावगमात्, 'य आत्मनि तिष्ठन् आत्मनोऽन्तरः आत्मा यं न वेद आत्मा यस्य शरीरम् एष ते आत्मा अन्तर्याम्यमृतः, इति श्रुतेः । पतिस्तु यज्ञैरिज्यत्वाद्यज्ञपदव्यपदेश्यः 'यज्ञेन यज्ञमयजन्त' 'यज्ञो वै विष्णुः' इत्यादि श्रुतिभ्यः। जीवानां यज्ञत्वं तु यज्ञां (ईश्वरशं) शत्वान् यज्ञफलभोक्तृत्वेन तद्विशिष्टत्वाच्च । जीवानां जन्मान्तरीययज्ञादिकर्तृत्वेनैव तत्फलोपभोगतदुपयोगिदेहेन्द्रियादि- प्राप्तिः तेनैव च जीवनोपकरणादिप्राप्त्या तद्रक्षणञ्च लब्धदेहादिकृतै- र्यज्ञैस्तु प्रायेण जन्मान्तरेष्वेव फलप्राप्तिः, जीवानां यज्ञफलत्वे यज्ञफल- वदेव हि नश्वरत्वापत्तिश्च । '