BharatKosha
Back to the archive

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

by महाकवि दण्डी

Source: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (origin)

DevanagariHindipublished474 pages

७४ · दशकुमारचरितम् । [ पूर्वपीठिकायां

Page 74Permalink

७४ · दशकुमारचरितम् । [ पूर्वपीठिकायां तदनु दारुवर्मा वाक्यानीत्थंविधानि श्रावं श्रावं तूष्णीं यदि भिया स्थास्यति तर्हि वरम्, यदि वा दौर्जन्येन त्वया सङ्गमङ्गीकरिष्यति, तदा स भवदी- यैरित्थं वाच्यः— ( १६ ) 'सौम्य, दर्पसारवसुधाधिपामात्यस्य भवतोऽस्मन्निवासे साहसं करणमनुचितम्। पौरजनसाक्षिकं भवन्मन्दिरमानीतया अनया तोयजाक्ष्या सह क्रीडन्नायुष्मान्यदि भविष्यति तदा परिणीय तरुणीं मनोरथान्निर्विश' इति । सोऽप्येतदङ्गीकरिष्यति । त्वं सखीवेषधारिणा मया सह तस्य मन्दिरं गच्छ । अहमेकान्तनिकेतने मुष्टिज्ञानुपादाघातैस्तं रभसान्निहत्य पुनरपि वयस्यामिषेण भवतीमनु निःशङ्कं निर्गमिष्यामि ! तदेनमुपायम- ङ्गीकृत्य विगतसाध्वसलज्जा भवज्जनकजननीसहोदराणां पुरत आवयोः असकृत् पुनः पुनः । भिया भयेन । यदि वा पक्षान्तरे । दौर्जन्येन दुर्जन्येनतया हेतु- ना । त्वया सहेति शेषः । सङ्गमासक्तिम् । अङ्गीकरिष्यति स्वीकरिष्यति । स दारु- वर्मा । इत्थं वक्ष्यमाणम् । वाच्यः कथनीयः । ( १९ ) दर्पसारवसुधाधिपस्य दर्पसारनृपतेरमात्यस्य मन्त्रिणः । अस्मन्निवासे अस्माकं गृहे । साहसकरणं साहसिककार्यानुष्ठानम् । पौरजनाः साक्षिणो यस्मिंस्तत्तथा तथेति क्रियाविशेषणम् । पुरजनानां समक्षमित्यर्थः । भवतो मन्दिरं गृहम् । तोयजे कमले इवाक्षिणी यस्यास्तया । क्रीडन् विहरन् । आयुष्मान् कुशली । परिणीय वि- बाह्य । निर्विश उपभुंक्ष्व । सोऽपि दारुवर्माऽपि । एतत् यन्मयोक्तमिति भावः । त्वं बालचन्द्रिका । मया पुष्पोद्भवेनेत्यर्थः । तस्य दारुवर्मणः । एकान्तनिकेतने निर्जने गृहे । मुष्ट्या जानुना पादेन च ये आघाताः प्रहारास्तैः । रभसाद् वेगात् । वयस्या- मिषेण सखीव्याजेन । भवतीमनु तव पश्चात् । विगते अपगते साध्वसलज्जे भयत्रपे चाहिये। यदि दारुवर्मा इस बातसे भयान्र्वित हो जाय तो ठीक है। और यदि वह न मानें तथा उत्पति मचावे तो तुम्हारे घरके लोग उससे यह कह दें— ( १९) हे सौम्य ! आप राजा दर्पसारके अमात्य हैं। हमारे गृहपर आपको ऐसा करना अनुचित है। नगरवासियोंके सामने इस पद्मलोचनाको अपने यहां ले जाकर यदि सुखसे रह सकें तो रहें और इसके साथ परिणय भी वहीं कर लें तथा मनोभिलाष पूर्ण करें। वह अवश्य इस बातको स्वीकार कर लेगा तब उस समय सखीके वेषमें मैं तुम्हारे साथ चलूंगा तुम मेरे साथ उसके यहां चलनेको राजी हो जाना। समय पाकर एकान्तमें मैं उसे मुक्कों-लातों-थप्पड़ों आदिके प्रहारोंसे मार डालूंगा। फिर उसी वेषमें तुम्हारी सखीके रूपमें बाहर चला आऊंगा। मेरी इस युक्तिको तुम स्वीकार कर लो और अपने जननी-जनक-भाई आदिसे अपनी प्रगाढ़

Page 75Permalink

चतुर्थोच्छ्वासः ] व्याख्याद्वयोपेतम् । ७५ प्रेमातिशयमाख्याय सर्वथास्मत्परिणयकरणे ताननुनयेः । तेऽपि वंशसंप- ल्लावण्याढ्याय यूने मह्यं त्वां दास्यन्त्येव । दारुवर्मणो मारणोपायं तेभ्यः कथयित्वा तेषामुत्तरमाख्येयं मह्यम्' इति । (२०) सापि किञ्चिदुत्फुल्लसरसिजानना मामब्रवीत्—'सुभग, क्रूर- कर्माणं दारुवर्माणं भवानेव हन्तुमर्हति । तस्मिन्हते सर्वथा युष्मन्मनो- रथः फलिष्यति । एवं क्रियताम् । भवदुक्तं सर्वमहमपि तथा करिष्ये' इति मामसकृद्विवृत्तवदना विलोकयन्ती मन्दं मन्दमगारमगात् । अहमपि बन्धुपालमुपेत्य शकुनज्ञात्तस्मात् 'त्रिंशदिवसानन्तरमेव भवत्सङ्गः संभवि- ष्यति' इत्यश्रृणवम् । तदनु मदनु मदनुगम्यमानो बन्धुपालो निजावासं प्रविश्य मामपि निलयाय विससर्ज । यस्याः सा । त्वमिति शेषः । प्रेम्णोऽनुरागस्य अतिशयमाधिक्यम् । सर्वथा सर्वप्रका- रेण । तान् जनकादीन् । अनुनयेः प्रीणयेः । वंशसम्पदा कुलगौरवेण लावण्येन सौन्दर्येण चाढ्याय सम्पन्नाय । यूने तरुणाय । तेभ्यो जनकादिभ्यः । तेषामुत्तरं— ते एतत् सर्वं श्रुत्वा यत् कथयिष्यन्ति तत् । आख्येयं कथनीयम् । (२०) किञ्चिदुत्फुल्लमीषद्विकसितं सरसिजं कमलमित्राननं वदनं यस्याः सा । सुभग सौम्येति सम्बोधनम् । युष्मन्मनोरथः मत्पाणिग्रहणरूपः । तथा=यथा भवतो- पदिष्टम् । असकृत्पुनः पुनः । विवृत्तं परावृत्तं वदनं यया सा । पश्चात् स्थितं मामव- लोकयितुमिति भावः । अगारं गृहम् । शकुनज्ञात् निमित्तज्ञानकुशलात् । तस्मात् बन्धुपालात् । भवत्सङ्गः भवता सह मिलनम् । मदनुगम्यमानः मया अनुस्रिय- माणः । निजावासं स्वगृहम् । निलयाय ( मम ) निलयं गन्तुम् । निलयो गृहम् । विससर्ज विसृष्टवान् प्रेषयामासेति यावत् । प्रीतिका वृत्त सुनाकर हम लोगोंमे विवाह हो जाय ऐसी विनती करो । वे लोग तुम्हारी विनयपर तथा मेरी कुलीनता और सौन्दर्यपर प्रसन्न हो जायेंगे और तुम्हारा विवाह मेरे साथ कर देंगे । उन लोगोंसे दारुवर्माके मारनेकी युक्ति भी बतला दो और मेरी इस युक्तिपर जो उनके विचार हों वे भी मुझे बतला देना । (२०) यह सुनकर उसने मुखकमलको विकसित करके कहा—हे सुभग ! उस क्रूरकर्मी दारुवर्माको आप ही मार सकते हैं । आप यदि उस दुराचारीको मार डालें तो सभी मनो- कामनाएँ आपकी पूर्ण होवें । इसी रीतिपर सब कार्य आप करें । मैं भी आपके आदेशानुसार सारे कार्य कर दूँगी । ऐसा कहकर वह विकसित नयनोंसे मुझे अनेकवार अवलोकन करती हुई वहांसे चली गयी । मैं भी वहांसे लौटकर शकुनज्ञ बन्धुपालके समीप आया तथा उसने शुभ शकुन देखकर मुझसे कहा-तीस दिवसोंके पश्चात् आपके सहयोगियोंका आपसे सम्मिलन होने

७६ दशकुमारचरितम् । [ पूर्वपीठिकायां

Page 76Permalink

७६ दशकुमारचरितम् । [ पूर्वपीठिकायां ( २१ ) मन्मायोपायवागुरापाशलग्नेन दारुवर्मणा रतिमन्दिरे रन्तुं समाहूता बालचन्द्रिका तं गमिष्यन्ती दूतिकां मन्निकटमभिप्रेषितवती । अहमपि मणिनूपुरमेखलाकङ्कणकटकाताटङ्कहारक्षौमकज्जलं वनितायोग्यं मण्डनजातं निपुणतया तत्तत्स्थानेषु निक्षिप्य सम्यगङ्गीकृतमनोज्ञवेषो चल्लभया तया सह तदागारद्वारोपान्तमगच्छम् । ( २२ ) द्वाःस्थकथितास्मदागमनेन सादरं विहिताभ्युद्गतिना तेन द्वा- रोपान्तनिवारिताशेषपरिवारेण मदन्विता बालचन्द्रिका संकेतागारमनीय- ( २१ ) मन्मायेति—मम मायया कपटेन य उपायः स एव वागुरापाशो बन्ध- नरज्जुस्तत्र लग्नो बद्धस्तेन । मया तस्य विनाशार्थं ये कपटोपाया रचितास्तान् लङ्घि- तुमसमर्थेनेति भावः । तं तत्समीपम् । गमिष्यन्ती प्रस्थास्यमाना । मणिनूपुरो मञ्जीरः, मेखला रशना, कङ्कणकटके वलयभेदौ, ताटङ्कं कर्णभूषणं, हारो मुक्तासरः, क्षौमं दुकूलम्, कज्जलमञ्जनञ्चतत्सर्वं पादादिभूषणम् । वनितायोग्यं स्त्रीजनोचितम् । निपुणतया कौशलेन । तत्तत्स्थानेषु तत्तदङ्गेषु । निक्षिप्य परिधाय । सम्यग् निपुणं यथा स्यात्तथा अङ्गीकृतः स्वीकृतो धृत इति यावत्, मनोज्ञो मनोरमो वेषो येन सः । स्त्रीवेषं विष्टत्येत्यर्थः । वल्लभया प्रियया । तया बालचन्द्रिकया । तदागारेति- तस्य दारुवर्मणः आगारद्वारस्य गृहद्वारस्य उपान्तं समीपम् । (२२) द्वाःस्थेति-द्वास्थैर्द्वारिकः कथितं विज्ञापितं अस्माकमागमनं यस्मै तेन । विहिता कृता अभ्युद्गतिरभ्युत्थानं येन तेन । दारुवर्मणा । द्वारोपान्ते द्वारसमीपे निवारिता रुद्धाः अशेषा निखिलाः परिवाराः परिजना येन तेन । मदन्विता मया अ- न्विता-मत्पुरोवर्त्तिनीत्यर्थः । संकेतागारं पूर्वनिर्दिष्टस्थानम् । अनीयत नीता । अनी- का योग हूं। तत्पश्चात् मेरे पीछे-पीछे बन्धुपाल वहांसे आया और वह अपने घर गया तथा मुझे भी अपने घर जानेकी अनुमति दी। ( २१ ) मेरे युक्तिरूपी मायाजालके पाशोंमें बँधकर वह दारुवर्मा बालचन्द्रिकाके साथ रमण करनेके लिए रतिमन्दिरमें उद्यत हो गया तथा उसने उसे वहांपर बुलाया। जब वह जाने को तैयार हो गयी तब अपनी एक दासी द्वारा उसने मुझे बुलवाया। मैं भी वनि- ताओंके अनुरूप आभूषणोंसे पूर्णरूपेण अलंकृत हो गया अर्थात्—रत्नजटित नूपुर, करधनी, कंकण, विजायत, कनफूल, हार, कण्ठा आदि पहनकर एवं आंखोंमें काजल लगाकर बढ़िया रेशमी वस्त्र धारणकर अपनी सखी बालचन्द्रिकाके साथ मनोज्ञ वेषसे दारुवर्माके विहार- मन्दिरके द्वारतक पहुँचा। ( २२ ) दारुवर्माको द्वारपरसे अपने आनेकी सूचना संकेतसे दे दी। इसपर दारुवर्माने खड़े होकर भीतर-बाहर तथा द्वारके इधर-उधरके लोगोंको वहाँसे हटा दिया। तत्पश्चात् मेरे आगे Nepal Sanskrit University, Balmeeki Campus, Kathmandu

त । नगरव्याकुलां यक्षकथां परीक्षमाणो नागरिकजनोऽपि कुतूहलेन दारु-

Page 77Permalink

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF चतुर्थोच्छ्वासः ] व्याख्याद्वयोपेतम् । ७७ त । नगरव्याकुलां यक्षकथां परीक्षमाणो नागरिकजनोऽपि कुतूहलेन दारु- वर्मणः प्रतीहारभूमिमगमत् । ( २३ ) विवेकशून्यमतिरसौ रागातिरेकेण रत्नखचितहेमपर्यङ्के हंस- तूलगर्भशयनमानीय तरुणीं तस्यै मह्यं तमिस्रासम्यगनवलोकितपुंभावाय मनोरमस्त्रीवेषाय च चामीकरमणिमयमण्डनानि सूक्ष्माणि चित्रवस्त्राणि कस्तूरिकामिलितं हरिचन्दनं कर्पूरसहितं ताम्बूलं सुरभीणि कुसुमानी- त्यादिवस्तुजातं समर्प्य मुहूर्तद्वयमात्रं हासवचनैः संलपन्नतिष्ठत् । यतेति णीञ् प्रापणे इत्यस्य धातोः कर्मणि लङ् । द्विकर्मकत्वाच्च बालचन्द्रिकेत्यत्र मुख्ये कर्मणि प्रथमा । नगरव्याकुलां पुरव्याप्ताम् । परीक्षमाणः सत्या न वेति निर्धा- रयन् । प्रतीहारभूमि द्वारदेशम् । ( २३ ) विवेकेन सदसद्विचारेण शून्या रहिता मतिर्बुद्धिर्यस्यासौ । असौ दारुव- र्मा । रागातिरेकेण अनुरागातिशयेन । रत्नैर्मणिभिः खचितः स्यूतः यो हेम्नः सुव- र्णस्य पर्यङ्कः खट्वा तस्मिन् । हंसवत् स्वच्छतूलः हंसतूलः, स गर्भेऽभ्यन्तरे यस्य तादृशं शयनं शय्याम् । आनीय आरोप्य । तरुणीमिति शेषः । तस्यै तरुण्यै बाल- चन्द्रिकायै । मह्यं स्त्रीवेषधारिणे पुष्पोद्भवायेत्यर्थः । तमिस्रेति—तमिस्रायां तमस्यां रात्रौ सम्यक् स्पष्ट अनवलोकितः अदृष्टः पुम्भाव पुरुषभावो यस्य तस्मै । मनोरमः सुन्दरः स्त्रीवेषो यस्य तस्मै । विशेषणद्वयमेतत् मह्यमित्यस्य सम्प्रदाने चतुर्थी । चा- मीकरमणिमयानि सुवर्णरत्नविकाराणि मण्डनानि भूषणानि । सूक्ष्माणि श्लक्ष्णानि । चित्रवस्त्राणि मनोरमवासांसि । कस्तूरिकामिलितं मृगमदवासितम् । हरिचन्दनं गन्धद्रव्यविशेषः सुरभीणि सुगन्धीनि । वस्तुजातं द्रव्यसमूहम् । समर्प्य दत्त्वा । हासवचनैः हास्ययुक्तवाक्यैः । संलपन् आलापं कुर्वन् । चलती हुई बालचन्द्रिका सहित मुझे भीतर ले गया । मुख्य फाटकपर व्याकुल नागरिकोंकी भीड़ एकत्र थी—यह ज्ञात करनेके लिए प्रेत क्या करता है ? ( २३ ) विवेक शून्यमतिवाले दारुवर्माने मैथुनकी प्रबलेच्छासे उस बालचन्द्रिकाको मणि- योंसे जड़ित एक सुवर्णके पलंगपर बिठाया । जिसपर हंसके पंखोंके भरे गद्दे बिछे थे । पुनः रातमें मुझे ( मैं पुरुष हूँ ऐसा न पहचानकर ) और मेरी सखीको अर्थात्-मनोहर दोनों रमणियोंको अनेक प्रकारके आभूषण, महीन कपड़े, कस्तूरीमिश्रित चन्दन, कर्पूरसे सुवासित ताम्बूल ( पान ), सुगन्धित पुष्प तथा इत्र आदि पदार्थ भेट किये । फिर दो घड़ी तक हास-परिहास करते वहींपर बैठा रहा । Nepal Sanskrit University, Balmeeki Campus, Kathmandu

७८ दशकुमारचरितम् । [ पूर्वपीठिकायां

Page 78Permalink

CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF

७८ दशकुमारचरितम् । [ पूर्वपीठिकायां ( २४ ) ततो रागान्धतया सुमुखीकुचग्रहणे मतिं व्यधत्त । रोषारुणि- तोऽहमेनं पर्यङ्कतलान्निःशङ्को निपात्य मुष्टिज्ञानुपादघातैःप्राहरम् । नियुद्ध- रभसविकलमलंकारं पूर्ववन्मेलयित्वा भयकम्पितां नताङ्गीमुपलालयन्म- न्दिराङ्गणमुपेतः साध्वसकम्पित इवोच्चैरकूजमहम—'हा, बालचन्द्रिका- धिष्ठितेन घोराकारेण यक्षेण दारुवर्मा निहन्यते । सहसा समागच्छत । पश्यतेमम्' इति । ( २५) तदाकर्ण्य मिलिता जनाः समुद्यद्वाष्पा हाहानिनादेन दिशो बधिरयन्तः 'बालचन्द्रिकामधिष्ठितं यक्षं बलवन्तं शृण्वन्नपि दारुवर्मा


( २४ ) तत इति । रागेण कामजनितविषयाभिलाषेण अन्धतया मत्ततया । हेतौ तृतीया । सुमुख्याः सुवदनायाः बालचन्द्रिकायाः कुचयोः स्तनयोः ग्रहणे पीडने । मतिं बुद्धिम अभिलाषमिति यावत् । व्यधत्त अकरोत् । रोषेण क्रोधेन अरुणितः रक्तवर्णः । अहं वक्ता पुष्पोद्भव इत्यर्थः । एनं दारुवर्माणम् । पर्यङ्कतलात् खट्वायाः । मुष्टेः जानुनोः पादयोश्च घातैः प्रहारैः । नियुद्धेति-नियुद्धस्य बाहुयुद्धस्य रभसेन वेगेन विकलं विपर्यस्तम् । अलङ्कारं भूषणम् । मया घृतमिति शेषः । पूर्ववत् प्रा- ग्वि । मेलयित्वा यथास्थानं निवेश्य भयकम्पितां भयेन कम्पवतीम् । नताङ्गीं बालचन्द्रिकाम् । उपलालयन् आश्वासयन् सान्त्वयन् वा । मन्दिरस्य दारुवर्मगृहस्य अङ्गणं चत्वरम् । उपेत उपगतः प्राप्त इत्यर्थः । साध्वसेन भयेन कम्पित इव न तु सत्यमेव कम्पित इति भावः । उच्चैरकूजम्—उच्चैः स्वरेण आक्रन्दम् । आक्रन्दनस्य प्रकार माह—हेत्यादि—हा इति खेदसूचकमव्ययम् । बालचन्द्रिकाम् अधिष्ठितः आक्रम्य स्थितः तेन । घोरो भयङ्करः आकारः स्वरूपं यस्यासौ तेन सहसा सत्वरम् । ( २५ ) मिलिताः तत्र सम्मिलता उपस्थिता इति यावत् । समुद्यद् उद्गच्छद् बाष्पं नेत्रजलं येषां ते । हाहानिनादेन हाहेति शब्देन । दिशः काष्ठाः । द्वितीयाबहु-


(२४) फिर कामपीड़ासे मतवाला वह अन्ध होकर उस सुमुखिके स्तनोंको ग्रहण करनेको उद्यत हुआ । उसकी इस हरकतपर मुझे क्रोध आ गया । निश्शंक होकर मैने लाल-लाल आंखें करके उ ठाकर पलंगके नीचे पटक दिया और घूसों-लातोंके प्रहारोंसे मार डाला । लड़ाईमें मेरे अलंकार अव्यवस्थित हो गये थे उन्हें व्यवस्थित करके भयसे काँपनेवाली उस सखीको प्रीतिसे सान्त्वना देकर मन्दिरके आंगनमें आ पहुँचा । तब भयसे घबरायी हुई आवाजमें मैं चिल्लाने लगा । 'हा, हा, गजब हो गया । बालचन्द्रिकाके सिरपर रहनेवाला भयंकर प्रेत दारुवर्माको मारे डालता है । दौड़ो लोगो, दौड़ो, जल्दी आओ, इस प्रेतको मारो । ( २५ ) मेरी इस चिल्लाहटको सुनकर आँखोंमें आँसुओंको भरे हुए हाहाकार ध्वनिसे दिशाओंको बहिरे करते हुए लोग परस्पर कहने लगे 'इस दारुवर्माके लिए प्रलाप वृथा है। यद्यपि

Nepal Sanskrit University, Balmeeki Campus, Kathmandu

Page 79Permalink

चतुर्थोच्छ्वासः ] व्याख्याद्वयोपेतम् । ७६ मदान्धस्तामेवायाचत । तदसौ स्वकीयेन कर्मणा निहतः । किं तस्य विलापेन' इति मिथो लपन्तः प्राविशन् । कोलाहले तस्मिंश्चटुललोचनया सह नैपुण्येन सहसा निर्गतो निजावासमगाम् । (२६) ततो गतेषु कतिपयदिनेषु पौरजनसमक्षं सिद्धादेशप्रकारेण विवाह्य तामिन्दुमुखीं पूर्वसंकल्पितान्सुरतविशेषान्यथेष्टमन्वभूवम् । बन्धु- पालशकुननिर्दिष्टे दिवसेऽस्मिन्निर्गत्य पुराद्वहिर्वर्तमानो नेत्रोत्सवकारि भवदवलोकनसुखमप्यनुभवामि' इति । (२७) एवं मित्रवृत्तान्तं निशम्याम्लानमानसो राजवाहनः स्वस्य च वचनस्य रूपम् बधिरयन्तः इत्यस्य कर्म। बधिरयन्तः बधिरा इव कुर्वन्तः-अन्यशब्द- ग्रहणेऽसमर्थाः कुर्वन्त इति यावत्-उच्चैराक्रोशन्त इति भावः । बधिरयन्त इति ना- मधातो रूपम् । शृण्वन्नपि जानन्नपि । मदान्धः मदगर्वितः । तामेव बालचन्द्रिका- मेव । स्वकीयेन कर्मणा स्वदोषेण । मिथः परस्परम् । लपन्तः कथयन्तः । कोलाहले कलकले सञ्जाते इति शेषः । चतुले चपले लोचने यस्यास्तया । बालचन्द्रिकये- त्यर्थः । नैपुण्येन दक्षतया । सहसा सत्वरम् । (२६) पौरजनानां नागरिकाणां समक्षं सम्मुखे । सिद्धस्य सिद्धपुरुषस्यादेशः कथनं तस्य प्रकारस्तेन । यथा सिद्धेनादिष्टं तथैवेत्यर्थः । पूर्वसंकल्पितान् प्रागेव मन- स ईप्सितान् । सुरतविशेषान् क्रीडाविशेषान् । यथेष्टं यथाभिलाषम् । अन्वभूवम्- अनुभूतवान् अहमिति शेषः । बन्धुपालस्य तदाख्यमित्रस्य शकुनेन शुभसूचकेन नि- र्दिष्टे कथिते । पुरात् नगरात् । बहिः बहिःप्रदेशे । नेत्रोत्सवकारि नयनानन्दजन- कम् । भवतः तव राजवाहनस्येति शेषः । अवलोकनस्य दर्शनस्य सुखमानन्दम् । (२७) अम्लानेति-अम्लानं स्वच्छं मानसं मनो यस्यासौ प्रफुल्लहृदय इत्यर्थः । यह मदान्ध पूर्वसे ही जानता था कि बालचन्द्रिकाके सिरपर प्रेत रहता है। फिर भी इसने न माना और अपने ही कुकृत्यसे यह फल भोगा-अपने ही काले कृत्यसे यह मारा गया । अब क्यों खेद करें । ऐसा कहते हुए वे लोग अन्दर प्रविष्ट हुए । उसी कोलाहलवाले समुदा- यमें मै भी उस चंचल नयनी के साथ चालाकी से बाहर आकर अपने वासस्थानको चला आया । (२६) कुछ दिवसों के व्यतीत होने के पश्चात् उस तपस्वीके बताये हुए तरीकेसे मैने उस चन्द्रमुखीके साथ विवाह कर लिया । पूर्व संकल्पित मनोभिलाषोंको यथेच्छापूर्वक भोगा- उसके साथ नाना प्रकारके भोग-विलास किये । फिर बन्धुपालके द्वारा उपदेशित शकुनसे आज नगरके बाहर आ गया और नयनाभिराम आपके दर्शनकर सुखका अनुभव किया। (२७) इस प्रकारसे मित्रके वृत्तान्तको श्रवणकर राजवाहनका चित्त प्रमुदित हो गया तथा उसने अपने और सोमदत्त के चरितोंको भी उससे यथावत् कह दिया । तब सोमदत्तसे

चतुर्थ उच्छ्वासः ।

Page 80Permalink

सोमदत्तस्य च वृत्तान्तमस्मै निवेद्य सोमदत्तम् 'महाकालेश्वराराधनानन्तरं भवद्वल्लभां सपरिवारां निजकटकं प्रापय्यागच्छ' इति नियुज्य पुष्पोद्भवेन सेव्यमानो भूस्वर्गायमानमवन्तिकापुरं विवेश । तत्र 'अयं मम स्वामिकु- मारः' इति बन्धुपालादये बन्धुजनाय कथयित्वा तेन राजवाहनाय बहु- विधां सपर्यां कारयन्सकलकलाकुशलो महीसुरवर इति पुरि प्रकटयन्पु- ष्पोद्भवोऽमुष्य राज्ञो मज्जनभोजनादिकमनुदिनं स्वमन्दिरे कारयामास । इति श्रीदण्डिनः कृतौ दशकुमारचरिते पुष्पोद्भवचरितं नाम चतुर्थ उच्छ्वासः ।

अस्मै पुष्पोद्भवाय । महाकालेश्वरस्य उज्जयिनीस्थमहादेवस्याराधनस्य पूजायाः अ- नन्तरं पश्चात् । भवतस्तव सोमदत्तस्येति शेषः । वल्लभां पत्नीम् । सपरिवारां सप- रिजनाम् । निजकटकं स्ववसतिम् । प्रापय्य नीत्वा । नियुज्य आदिश्य सोमदत्तमिति शेषः। भूस्वर्गेति-भुवि पृथिव्यां स्वर्ग इवाचरदिति भूस्वर्गायमाणं=स्वर्गतुल्य- मित्यर्थः । स्वामिकुमारः प्रभुपुत्रः । बन्धुपाल आदियेस्य तस्मै । तेन बन्धुजनेन = प्रयोज्यकर्त्रा । सपर्यां पूजाम् । सकलासु कलासु विद्यासु कुशलः पटुः महीसुरवरः द्विजश्रेष्ठः । इति एतत् । पुरि नगरे । प्रकटयन् प्रकाशयन् । राजवाहनस्य नृपत्वं गोपयन्निति भावः मज्जनभोजनादिकं स्नानाशनादिकम् । अनुदिनं प्रतिदिनसम । स्वमन्दिरे निजगृहे पुष्पोद्भवस्येति शेषः । इति श्रीताराचरणभट्टाचार्यकृतायां बालविबोधिनीसमाख्यायां दशकुमारचरितव्याख्यायां चतुर्थ उच्छ्वासः।

कहा— अपनी पत्नी तथा कुटुम्बी जनोंको महाकालके पूजनके पश्चात्, यथास्थान पहुँचाकर, शीघ्र मेरे पास आओ । इस रीति से सोमदत्तको आदेश देकर राजवाहन, पुष्पोद्भव के साथ-साथ भूमण्डलपर स्वर्गके सदृश सुन्दर अवन्तिकापुरीमें आया । वहाँ आनेपर पुष्पो- द्भवने अपने मित्रों बन्धुपाल आदिसे कहा— ये मेरे स्वामिपुत्र हैं । इस बातको सुनकर उन लोगोंने अनेक प्रकारके पदार्थोंके द्वारा राजवाहन का स्वागत सत्कार किया तथा पूजन किया । अपने नगरमें राजवाहनका परिचय कराते हुए लोगोंसे कहा— ये समस्त कला में प्रवीण ब्राह्मण हैं— ऐसा कहकर राजवाहनको नगरवासियोंसे गुप्त रखा । फिर अपने बृहद् राजमन्दिर में उसे स्नान भोजन नित्य कराने लगा तथा सुखसे निवास करने लगा । इस प्रकारसे चतुर्थोच्छ्वासकी बालक्रोड़ा नामक हिन्दी टीका समाप्त हुई ।

Page 81Permalink

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF पञ्चमोच्छ्वासः (१) अथ मीनकेतनसेनानायकेन मलयगिरिमहीरुहनिरन्तरावासि- भुजङ्गमभुक्तावशिष्टेनेव सूक्ष्मतरेण धृतहरिचन्दनपरिमलभरेणेव मन्दग- तिना दक्षिणानिलेन वियोगिहृदयस्थं मन्मथानलमुज्ज्वलयन्, सहकारकि- सलयमकरन्दास्वादनरक्तकण्ठानां मधुकरकलकण्ठानां काकलीकलकलेन दिक् चक्रं वाचालयन्, मानिनीमानसोत्कलिकामपनयन्, माकन्दसिन्दुवार- (१) अथेति । अथानन्तरं वसन्तसमयः समाजगामेत्यग्रिमेणान्वयः। मीनेति- मीनकेतनस्य कामस्य सेनायाः सैन्यस्य नायकः प्रधानवीरः सेनापतिरित्यर्थः, तेन । मलया निलस्य अत्यन्तकामोद्दीपकत्वाद्नायकत्वमुक्तम् । मलयगिरेर्मलयपर्वतस्य म- हीरुहेषु वृक्षेषु निरन्तरं निरवच्छिन्नं निबिडमिति यावत्, आवासिनां वासं कुर्वतां भुजङ्गमानां सर्पाणां भुक्तस्य खादितस्यावशिष्टेन अतिरिक्तनेव, अत एव सूक्ष्मतरेण मन्दतरेण । भुजङ्गमानां पवनाशनत्वाद् यावान् वायुर्मलयाचलाच्चलितस्तस्य प्रचु- रोंऽशस्तैः खादितस्ततोऽवशिष्टः अत एव मन्दतर इति भावः । मन्दतरत्वे हेतुरुत्प्रेक्षि- तः । धृतेति- धृतः स्वीकृतो हरिचन्दनस्य वृक्षविशेषस्य परिमलभर आमोदातिशयो येन तेनेव मन्दगतिना धीरेण । भाराक्रान्तत्वं मन्दगतित्वे हेतुः स चोत्प्रेक्षितः । गृ- हीतभारस्य मन्दगतित्वञ्च स्वभावसिद्धम् । दक्षिणानिलेन मलयवायुना करणेन । वि- योगिनां विरहिणां हृदयेषु चित्तेषु तिष्ठतीति वियोगिहृदयस्थं विरहिहृद्गतम् । म- न्मथानलं कामाग्निम् । उज्ज्वलयन् उद्दीपयन्-उज्ज्वलयन्नित्यादि शत्रन्तपदानि वसन्तसमय इत्यस्य विशेषणानि, सहकारेति - सहकाराणामाम्रतरूणां किसलयम- करन्दयोः पल्लवपुष्परसयोः स्वादनेन भक्षणेन रक्तो मधुररागयुक्त इति यावत् कण्ठ- स्वरो येषां तेषाम् । मधुकरा भ्रमराश्च कलकण्ठाः कोकिलाश्च ते तेषाम् । काकली- कलकलेन काकलीकोलाहलेन । दिशां चक्रं मण्डलम् । वाचालयन् मुखरयन् । मानि- नीनां मानवतीनां मानसस्य मनस उत्कलिकामुकण्ठामू । अपनयन् प्रापयन् । माक- न्दः सहकारश्च सिन्दुवारो निर्गुण्डी च रक्ताशोकश्च किंशुकः पलाशश्च तिलकस्तिल- (१) अनन्तर कुछ समय बाद वसन्त ऋतु आकर उपस्थित हो गयी जिसका सेनाधिप स्वयं मीनकेतन कामदेव था । मलय पर्वतपरके चन्दनके वृक्षोंपर निवास करनेवाले साँपोंके पीनेसे अवशिष्ट तथा चन्दनकी सुगन्धसे मिश्रित पवन शनैः शनैः चलता हुआ दक्षिण पवन के साथ विरहियोंके अन्तःकरणोंमें कामोद्दीपन कर रहा था। आमकी मञ्जरियोंके परागोंका आस्वादन कर लाल कण्ठवाले कोकिलोंकी मधुर ध्वनिसे तथा भ्रमरोंकी गुञ्जारोंसे कामदेवने दिशाओंको मुखरित कर दिया था और मानिनी अंगनाओंके हृदयोंको उत्कण्ठित कर दिया था । आम, निर्गुण्डी, रक्ताशोक, पलाश तथा तिलकादि वृक्षोंको अंकुरित करके मदन- ६ द० कृ० पू० Nepal Sanskrit University, Balmeeki Campus, Kathmandu

८२ दशकुमारचरितम् । [ पूर्वपीठिकायां

Page 82Permalink

८२ दशकुमारचरितम् । [ पूर्वपीठिकायां रक्ताशोककिंशुकतिलकेषु कलिकामुपपादयन्, मदनमहोत्सवाय रसिकम- नांसि समुल्लासयन्, वसन्तसमयः समाजगाम । (२) तस्मिन्नतिरमणीये कालेऽवन्तिसुन्दरी नाम मानसारनन्दिनी प्रियवयस्यया बालचन्द्रिकया सह नगरोपान्तरम्योद्याने विहारोत्कण्ठया पौरसुन्दरीसमवायसमन्विता कस्यचिच्चूतपोतकस्य छायाशीतले सैकत- तले गन्धकुसुमहरिद्राक्षतचीनाम्बरादिनानाविधेन परिमलद्रव्यनिकरेण मनोभवमर्चयन्ती रेमे । (३) तत्र रतिप्रतिकृतिमवन्तिसुन्दरीं द्रष्टुकामः काम इव वसन्त- सहायः पुष्पोद्भवसमन्वितो राजवाहनस्तदुपवनं प्रविश्य तत्र-तत्र मलयमा- वृत्तश्च ते तेषु । कलिकां कोरकम् । उपपादयन् जनयन् । मदनमहोत्सवाय मदनम- होत्सवार्थम् । रसिकानां कामिजनानां मनांसि मानसानि । उल्लासयन् उत्साहयन् । (२) तस्मिन् पूर्वोक्ते । काले वसन्त इत्यर्थः । मानसारस्य तदाख्यमालवेश्व- रस्य नन्दिनी कन्या । अवन्तिसुन्दरीति नामधेया । प्रियवयस्यया प्रियसख्या । नगरस्योपान्ते सीमायां यद् रम्यं मनोहरमुद्यानमुपवनं तत्र । विहारार्थं क्रीडार्थमु- त्कण्ठया व्याकुलतया । पुरे भवाः । पौराश्च ताः सुन्दर्यस्तासां पौराङ्गनानां समवायेन मण्डलेन समन्विता युक्ता । चूतपोतकस्य शिशुसहकारस्य । छायया शीतलं तस्मिन् । सैकततले सिकतामयप्रदेशे । गन्धश्चन्दनं, कुसुमं पुष्पं, हरिद्रा, अक्षतास्तण्डुलाः, चीनाम्बरं सूक्ष्मवस्त्रं इत्यादिनानाविधेन अनेकप्रकारेण । परिमलद्रव्यनिकरेण गन्ध- द्रव्यसमूहेन । मनोभवं कामम् । रेमे चिक्रीड । (३) तत्र तस्मिन् समये । रतेः कामपत्न्याः प्रतिकृतिः प्रतिमा ताम् । वसन्तः सहायो यस्य स वसन्तद्वितीय इत्यर्थः । मलयेति-मलयमारुतेन दक्षिणानिलेन महोत्सव मनानेके निमित्त कामदेवने रसिकोंके हृदयोंमें एक विशेष रीतिकी उल्लास ला दिया । इस तरहसे वसन्त काल जब आ पहुँचा तब- (२) ऐसी सुखदायी ऋतुमें राजा मानसारकी कन्या अवन्तिसुन्दरी अपनी प्रिय सहचरी बालचन्द्रिकाके साथ विहार करनेकी अभिलाषासे नगरके समीप उपवनमें आयी । उसके साथ नगरकी महिलाएँ भी थीं। उस उपवनमें आकर उसने एक छोटे आमके वृक्षोंके नीचे, रोरी, चन्दन, फल, फूल, हल्दी, अक्षत तथा चीनदेशीय रेशमी वस्त्रोंके द्वारा सुगन्धित द्रव्योंके सहित विधिवत् आनन्दके साथ कामदेवका पूजन किया और क्रीड़ा करने लगी- सखियोंसे विनोद करने लगी। (३) कामदेवके समान मनोज्ञ राजवाहन भी पुष्पोद्भवके साथ उसी समय कामदेवकी पत्नी के समान मनोहर अवन्तिसुन्दरीको देखने जब वहाँपर आ गये तब ऐसा मालूम होता था

Page 83Permalink

पञ्चमोच्छ्वासः ] व्याख्याद्वयोपेतम् । ८३ रुतान्दोलितशाखानिरन्तरसमुद्भिन्नकिसलयकुसुमफलसमुल्लसितेषु रसा- लतरुषु कोकिलकीरालिकुलमधिकराणामालापाञ्श्रावं श्रावं किञ्चिद्विकसदि- न्दीवरकह्लारकैरवराजीवराजीकेलिलोलकलहंससारसकारण्डवचक्रवाकच- क्रवालकलरवव्याकुलविमलशीतलसलिलललितानि सरांसि दर्शंदर्शं- मन्दलीलया ललनासमीपमवाप । (४) बालचन्द्रिकया 'निःशङ्कमित आगम्यताम्' इति हस्तसंज्ञया समाहूतो निजतेजोनिर्जितपुरहूतो राजवाहनः कृशोदर्या अवन्तिसुन्दर्या अन्तिकं समाजगाम । आन्दोलितासु कम्पितासु शाखासु निरन्तरं निरवच्छिन्नं समुद्भिन्नैर्विकसितैः किस- लयकुसुमफलैः पल्लवपुष्पफलैः समुल्लसितेषु शोभितेषु । रसालतरुषु आम्रवृक्षेषु । कोकिलेति-कोकिलाः पिकाश्च कीराः शुकाश्च अलिकुलं भ्रमरसमूहश्च मधुकरा भ्रम- राश्च ते तेषाम् । आलापान् शब्दान् । श्रावं श्रावं वारं वारं श्रुत्वा । आभीक्ष्ण्ये णमुल् किञ्चिदिति-किञ्चिदीषद् विकसन्तीषु प्रस्फुटन्तीषु इन्दीवराणां, कह्लाराणां सौगन्धि- कानां, कैरवाणां कुमुदानां राजीवानां कमलानां च राजीषु श्रेणिषु केलिलोलाः क्रीडा- सक्ता ये कलहंसाः कादम्बाः सारसाः पुष्कराह्वाः कारण्डवा मद्गवः-(मद्गुः कारण्डवः प्लव इत्यमरः) चक्रवाकाश्चक्राह्वाश्च तेषां यच्चक्रवालं मण्डलं तस्य कल- रवेण अव्यक्तमधुरध्वनिना व्याकुलानि व्याप्तानि विमलानि स्वच्छानि शीतलानि शिशिराणि यानि सलिलानि जलानि तैर्ललितानि मनोरमाणि । सरांसि सरोवराणि दर्शं दर्शं वारं वारं दृष्ट्वा । अत्रापि पूर्ववण्णमुल् । ललनासमीपं अवन्तिसुन्दरी- निकटम् । अवाप प्राप्तवान् राजवाहन इति शेषः । (४) निःशङ्कं निर्भयम् । हस्तसंज्ञया करचेष्टया । समाहूत आकारितः । निज- तेजसा स्वप्रतापेन निर्जितः पराजितः पुरहूत इन्द्रो येन सः । कृशमुदरं यस्याः सा कृशोदरी तस्याः क्षीणमध्याया इत्यर्थः । मानो बसन्तके साथ कामदेव अपनी स्त्री रतिको देखने आया हो । मलय पवनके झोकोंसे झूमते और नवीन-नवीन कोंपलोंके पुष्पोंके, और फलोंके भारसे दबे आमोंके पेडोंपर बैठी कोयलों और सुग्गों की ध्वनियाँ तथा भ्रमरोंकी सुरीली तानोंसे कर्णोंको सुख देते हुए एवं अधखिले नीले तथा सफेद कमलों-कुमुदिनियों और साधारण पद्मोंपर केलि करते हुए राजहंस, सारस, चक्रवाकोंके समुदायके मधुर मधुर गानोंसे व्याकुल निर्मल तथा शीतल जल- वाले तालावोंकी शोभाको बार-बार निरखते हुए वे लोग अवन्तिसुन्दरीके समीप जा पहुँचे । (४) दूरसे ही बालचन्द्रिकाने हाथके संकेतसे राजवाहनको पुकारकर कहा-निडर होकर चले आइये । उसके इशारेपर अपने तेजसे इन्द्रको पराजित करनेवाले राजवाहन उस Nepal Sanskrit University, Balmeeki Campus, Kathmandu

८४ दशकुमारचरितम् । [ पूर्वपीठिकायां

Page 84Permalink

८४ दशकुमारचरितम् । [ पूर्वपीठिकायां (५) या वसन्तसहायेन समुत्सुकतया रतेः केलीशालभञ्जिकाविधि- त्सया कञ्चन नारीविशेषं विरच्यात्मनः क्रीडाकासारशारदारविन्दसौन्द- र्येण पादद्वयम् , उद्यानवनदीर्घिकामत्तमरालिकागमनरीत्या लीलालसग- तिविलासम् , तूणीरलावण्येन जङ्घे, लीलामन्दिरद्वारकदलीलालित्येन मनोज्ञमूरुयुगम्, जैत्ररथचातुर्येण घनं जघनम्, किञ्चिद्विकसल्लीलाव- तंसकह्लारकोरककोटरानुवृत्त्या गङ्गावर्तसनाभिं नाभिम् , सौधारोहणपरि- ( ५ ) या अवन्तिसुन्दरी निर्मितेव रराजेत्यग्रिमेणान्वयः । वसन्तः सहायो यस्य तेन कामेनेत्यर्थः । समुत्सुकतया रत्यर्थमुत्कण्ठिततया । रतेः स्वपत्न्याः । केली क्री- डा तदर्थं या शालभञ्जिका कृत्रिमपुत्रिका तस्याः विधित्सा निर्मातुमिच्छा तया । क- ञ्चनेति अनिर्वचनीयमित्यर्थः । विरच्य निर्माय । आत्मनः स्वस्य । क्रीडाकासारे वि- हारसरसि यत् शारदं शरत्कालसम्बन्धि अरविन्दं कमलं तस्य सौन्दर्येण कान्त्या । कासारारविन्देति पाठान्तरम् । तत्र सारं सारभूतं यदरविन्दमित्यर्थः । तेन पादद्वयं च- रणयुगलं नारीविशेषस्येति शेषः । विधायेत्यग्रिमेणान्वयः । एवमग्रेऽपि सर्वत्र । उ- द्यानवने उपवने या दीर्घिका वापी तस्यां या मत्तमरालिका हंसी तस्याः गमनरीति- र्गतिपरिपाटी तया । लीलया विलासेनालसं मन्दं गतिविलासं गमनप्रकारम् । मरा- लवन्मन्दगमनेति भावः । तूणीराविषुधो तयोर्लावण्येन सौन्दर्येण जङ्घे—तूणाकारं जङ्घाद्वयमित्यर्थः । लीलामन्दिरस्य मदनक्रीडागृहस्य द्वारे या कदली रम्भातरुस्त- स्या लालित्येन सौन्दर्येण जैत्रो जयनशीलो रथो जैत्ररथः कामस्येति शेषः । तस्य चातुर्येण निर्माणपरिपाट्या । घनं निविडम् । किञ्चिद्दीपद् विकसन् प्रस्फुटन् लीलाव- तंसः विलासकर्णभूषणं यः कह्लारकोरकः सौगन्धिककलिका तस्य कोटर मध्यदेशस्त- कृशोदरी अवन्तिसुन्दरीके सन्निकट जाकर उपस्थित हो गये । (५) अवन्तिसुन्दरीकी शोभा उस समय निम्नरीत्या थी। जैसे कामदेवने अपनी प्रिया रति देवीके क्रीडनार्थ एक पुत्तलिका रची हो-उस पुत्तलिकाके बनानेमें कामदेवने ऐसी दक्षता की कि उसके दोनों चरण उसने अपने क्रीडासरोवरके शरत्कालिक कमलोंकी शोभासे निर्मित किये—अर्थात् उसके दोनों पैर शारदीय कमलके सदृश थे । अपनी वाटिकाकी बावलीमें मदोन्मत्ता होकर भ्रमणशीला हंसिनीकी गतिसे उसकी अलासायी चाल रची-वह अलसाकर हंसकी चालसे चलनेवाली थी । उसकी दोनों जाँघें अपने तूणीर (तरकस) की छविके सदृश बनायीं । अपने लीलामन्दिरके दरवाजेपर लगे हुए केलोंकी छटाको एकत्र कर दोनों घुटने रचे तथा जैत्ररथकी कान्तिसे युक्त उसके जघनस्थल । कामदेवकी स्त्री रतिके कानोंमें अलंकृत कमलोंकी कलिकाके समान शोभाशाली थोड़े थोड़े विकसित लीलावत्तंस कर्णभूषण। गङ्गाजीके आवर्त्त (भौरों) के समान गम्भीर उसकी नाभि रची। ऊपर अट्टालिकापर चढ़नेके लिए सो-

Page 85Permalink

पञ्चमोच्छ्वासः ] व्याख्याद्वयोपेतम् । ८५

पाट्या वलित्रयम्, मौर्वीमधुकरपङ्क्तिनीलिमलीलया रोमावलिम्, पूर्ण- सुवर्णकलशशोभया कुचद्वन्द्वम्, (लतामण्डपसौकुमार्येन बाहू), जयश- ङ्खाभिख्यया कण्ठम्, कमनीयकर्णपूरसहकारपल्लवरागेण प्रतिबिम्बीकृत- बिम्बं रदनच्छदम्, बाणायमानपुष्पलावण्येन शुचि स्मितम्, अग्रदूति- काकलकण्ठिकाकलालापमाधुर्येण वचनजातम्, सकलसैनिकनायकमल- यमारुतसौरभ्येण निःश्वासपवनम्, जयध्वजमीनदर्पेण लोचनयुगलम्,

स्याऽनुवृत्त्या सादृश्येन । गङ्गाया आवर्तो भ्रमितस्तस्य सनाभि सदृशम् । आरुह्यतेऽ- नेनेति आरोहणम् । करणे ल्युट् । सौधस्य प्रासादस्य यदारोहणं सोपानं तस्य परि- पाट्या अनुक्रमेण । सोपानपङ्क्तितुल्यं वलित्रयमित्यर्थः । मौर्वी ज्यैव मधुकरपङ्क्तिः रोलम्बमाला तस्या यो नीलिमा नैल्यं तस्य लीलया सौन्दर्येण रोमावलि रोमपङ्कि- म् । पूर्णो जलपूर्णो यः सुवर्णकलशः स्वर्णघटस्तस्य शोभया कान्त्या कुचद्वन्द्वं स्त- नयुगम् । कुचौ तस्याः कामस्य द्वारदेशस्थितशुभसूचककनककलशाकारावित्यर्थः । लतामण्डपस्य सौकुमार्येण कोमलतया बाहू हस्तद्वयम् । जयशङ्खस्याभिख्यया शोभ- या कण्ठं ग्रीवाम् । सा कम्बुग्रीवेति भावः । कमनीयः सुन्दरो यः कर्णपूरः कर्ण- भूषणीभूतः सहकारपल्लवो रसालकिसलयं तस्य रागेण रक्तिम्ना, प्रतिबिम्बीकृतं प्रतिबिम्बवत्कृतं बिम्बं बिम्बफलं येन तादृशं, यत्पूर्वं बिम्बमासीत्तदेवास्या अधरनि- र्माणानन्तरं प्रतिबिम्बं जातमित्यर्थः । प्रसिद्धबिम्बफलापेक्षयाऽप्यस्या अधरोष्ठयो रागोऽधिक इति तात्पर्यम् । रदनच्छदमोष्ठम् । बाणवदाचरतीति बाणायमानं यत् पुष्पं तस्य लावण्येन सौन्दर्येण । शुचि शुद्धम् । स्मितं हास्यम् । अग्रदूतिका प्रथम- दूती कामस्येति शेषः । या कलकण्ठिका कोकिलवधूस्तस्या यः कलो मधुर आलापो ध्वनिस्तस्य माधुर्येण मधुरतया । वचनजातं वाक्यसमूहम् । सकलसैनिकानां निखि- लभटानां कामस्येति शेषः । नायको नेता सेनापतिरिति यावत् यो मलयमारुतो मल- यवायुस्तस्य सौरभ्येण सौगन्ध्येन । निःश्वासपवनं श्वासवायुम् । जयसूचको ध्वजो

पान (सीढ़ियों) के सदृश उसकी त्रिवली। धनुषके ऊपर मडराती भ्रमरावलिकी कालिमासे सुशोभित रोमावली। पूर्ण स्वर्णकलशकी छविको धारण करनेवाले उसके कुचद्वय बनाये। लतामण्डपकी शोभाके समान उसके दोनों हाथ रचे। जयशंखकी ग्रीवाके समान उसका कण्ठ। सुन्दर कनफूलके ऊपर रखी हुई आम्रमंजरीकी लालिमाके सदृश एवं पके कुंदरू (बिम्बा फल) के समान लाल लाल उसके ओंठ। बाणोंके समान आकारवाले फूलोंकी शोभाके समान सुन्दर मुसकान तथा पहले-पहल प्रेषित की जानेवाली कामदूतिका (अर्थात् कोयल) की वाणीके समान मधुर उसकी वाणी तथा कामदेवकी सम्पूर्ण सेनाके सेनापति मलय पवनकी सुगन्धिसे उसके श्वासोच्छ्वास एवं जयसूचिका पताकामें लगी मीनाकार (मछलीके समान)

८६ दशकुमारचरितम् । [ पूर्वपीठिकायां

Page 86Permalink

८६ दशकुमारचरितम् । [ पूर्वपीठिकायां चापयष्टिश्रिया भ्रूलते, प्रथमसुहृदः सुधाकरस्यापनीतकलङ्कया कान्त्या वदनम् , ( लीलामयूरबर्हभङ्गया केशपाशं ) च विधाय समस्तमकरन्द- कस्तूरिकासम्मितेन मलयजरसेन प्रक्षाल्य कर्पूरपरागेण सम्मृज्य निर्मि- तेव रराज । ( ६) सा मूर्त्तिमतीव लक्ष्मीर्मालवेशकन्यका स्वेनैवाराध्यमानं सङ्क- ल्पितवरप्रदानायाविर्भूतं मूर्त्तिमन्तं मन्मथमिव तमालोक्य मन्दमारुता- न्दोलिता लतेव मदनावेशवती चकम्पे । तदनु क्रीडाविश्रम्भात्निवृत्ता जयध्वजस्तथाभूतो यो मीनो मत्स्यस्तस्य दर्पेणाहङ्कारेण । मीनाकारं नयनयुगमिति भावः । चापयष्टिर्धनुर्लता तस्याः श्रिया कान्त्या । वक्रे भ्रूलते इत्यर्थः । प्रथमसुहृदः प्रधानमित्रस्य कामस्येति शेषः । अपनीतो दूरीकृतः कलङ्को लाञ्छनं यस्यास्तया । निष्कलङ्कसुधाकरसदृशं वदनमिति भावः । लीलार्थो मयूरः लीलामयूरः क्रीडामयूरः कामस्येति शेषः । तस्य बर्हं पिच्छं तस्य भङ्गया रचनया-तत्सदृशमिति भावः । केशपाशं केशकलापम् । विधाय कृत्वा । समस्ताभ्यामेकीकृताभ्यां मकरन्द-कस्तूरि- काभ्यां पुष्परसमृगमदाभ्यां संमितेन युक्तेन मिलितेनेत्यर्थः । मलयजरसेन चन्दन- द्रवेण । प्रक्षाल्य आर्दीकृत्य । कर्पूरपरागेण कर्पूरचूर्णेन । संमृज्य सर्वतः समीकृत्य । निर्मितेव रचितेव कामेनेति शेषः । (६) मूर्त्तिमतीव शरीरिणीव, साक्षादित्यर्थः । स्वेनैव स्वयमेव । आराध्यमान- मुपास्यमानम्, अत एव सङ्कल्पितवरप्रदानाय सङ्कल्पितस्य अभिलषितस्य अवन्ति- सुन्दर्येति शेषः । वरस्य प्रदानाय प्रदानार्थमाविर्भूतमुपस्थितम् । तं राजवाहनम् । मन्दमारुतेन धीरसमीरेणान्दोलिता कम्पिता । मदनस्य कामस्यावेश आविर्भाज- स्तद्वती । चकम्पे यथा समीरसम्पर्केण लता कम्पिता भवति तथा सापि कामावेश- वशात् कम्पिताऽभवत् । एतेन तस्या राजवाहने रतिरुत्पन्नेति ज्ञायते, सात्त्विकभा- वस्य कम्पनस्यानुभावरूपत्वात् । तदनु एतदवस्थाप्राप्त्यनन्तरम् । क्रीडायां विश्रम्भो उसकी दोनों आँखें निर्मित कीं । उसकी भृकुटियाँ अपने धनुषके समान तिरछी तथा अपने मित्र चन्द्रमाकी निष्कलंक छविके समान उसका सुन्दर मुख और क्रीड़ा करनेवाले अपने मयूरके समान उसके केशपाश रचकर एवं सभी तरहकी सुगन्धियोंसे-कस्तूरी-कर्पूर-चन्दन आदिसे मिश्रित जलसे उसे नहला-धुलाकर पुनः कर्पूरके चूर्णसे ( सुगन्धित पाउडर से ) उसकी देह सजा दी-ऐसी सुन्दरी वह, उस समय दीख रही थी । ( ६ ) मानो साक्षात् मूर्त्तिमती लक्ष्मी, सुन्दरीके समान मालवनाथकी पुत्री अपने ही द्वारा उपास्यमान तथा पूर्वसंकल्पित वरप्रदानार्थ आए हुए साक्षात् मूर्त्तिमान कामदेव के समान सुन्दर राजवाहनको देखकर कामवशीभूता होकर मन्द-मन्द बहती हवासे काँपती Nepal Sanskrit University, Balmeeki Campus, Kathmandu

Page 87Permalink

लज्जया कानि कान्यपि भावान्तराणि व्यधत्त । (७) 'ललनाजनं सृजता विधात्रा नूनमेषा घुणाक्षरन्यायेन निर्मि- ता । नो चेदब्जभूरेवंविधो निर्माणनिपुणो यदि स्यात्तर्हि तत्समानलाव- ण्यामन्या तरुणीं किं न करोति' इति सविस्मयानुरागं विलोकयतस्तस्य समक्षं स्थातुं लज्जिता सती किञ्चित्सखीजनान्तरितगात्रा तन्नयनाभिमुखैः किञ्चिदाकुञ्चितैरञ्चितभ्रूलतैरापाङ्गवीक्षितैरात्मनः कुरङ्गस्यानायमानलावण्यं

विश्वासोऽनुरागविशेषस्तस्मात् । कानि कान्यपि अनिर्वचनीयानीत्यर्थः । भावान्त- राणि तदवस्थासमुचितान् नानाभावान् । (७) ललनाजनमित्यादि न करोतीत्यन्तं विलोकयतः इत्यस्याः क्रियायाः कर्म । न करोतीत्येतत्पर्यन्ता राजवाहनस्य चिन्ता । एषा अवन्तिसुन्दरी । घुणाक्षरन्यायेन काकतालीयसंयोगन्यायेन । घुणः प्रसिद्धः काष्ठकीटो यदृच्छया काष्ठं भिन्दन् सञ्च- रति—तथा तस्य सञ्चारेण काष्ठे कदाचिदक्षराकाराणि चिह्नानि जायन्ते । अयमेव घुणाक्षरन्यायः । यथा घुणः अविद्वित्वैव अक्षराणि निर्माति तथैव इयमपि अविदि- त्त्वैव विधातृहस्तान्निर्गता । नो चेत्—अन्यथा । अब्जाद्भवतीति अब्जभूब्ब्रह्मा । एवं- विधाय। अवन्तिसुन्दरीसदृश्या निर्मागे सृष्टौ निपुणः कुशलः । तस्याः समानं तुल्यं लावण्यं सौन्दर्य यस्यास्ताम् । अन्यामपराम् । किं कथम् । सविस्मयानुरागं विलो- कयत इति क्रियाया विशेषणम् । विस्मयेनानुरागेण चेत्यर्थः । तस्य राजवाहनस्य । समक्षं पुरस्तात् । किञ्चिददीषत् सखीजनेन सहचर्य्या अन्तरितं व्यवहितं गात्रं शरीरं यस्याः सा तथाभूता । तस्य राजवाहनस्य नयनयोर्न्नेत्रयोरभिमुखैः सम्मुखवर्त्तिभिः किञ्चिदाकुञ्चितैर्रीषत्संक्षिप्तैः । अञ्चिते शोभिते भ्रूलते यैस्तैः । अपाङ्गवीक्षितैः कटा- क्षैः । आत्मनः कुरङ्गस्य कुरङ्गभूतस्य आत्मनः इत्यर्थः । आनयो जालं तदिबाचर- तीति आनायमानं लावण्यं यस्येति विग्रहः । यथा कश्चिद् आनाये कुरङ्गं बध्नाति

हुई लताके सदृश कांपने लगी । फिर लज्जाके कारण उसने अपनी सखियोंके साथ-खेला बन्द कर दिया तथा न मालूम एक ओर बैठकर क्या क्या सोच-विचार करने लगी । (७) उसकी ऐसी प्रतिमा देखकर ऐसा ज्ञात हुआ कि, जब ब्रह्मदेव, सृष्टिमें स्त्रियोंकी रचना करने लगे तब घुणाक्षरन्यायसे यह सुन्दरी बन गयी, अन्यथा इसके समान और स्त्रियां क्यों नहीं उन्होंने रचीं । यदि वे ऐसी रचना कर सकनेमें प्रवीण होते, तब न करते ! यह तो धोखेसे बन गयी, ब्रह्माजीने जानकर नहीं रची । नहीं तो और तरुणियां वे अवश्य बनाते । आश्चर्य और प्रीतिपूर्वक बार-बार राजवाहनको अवलोकित करनेवाली वह राजकुमारी वहां- पर अधिक न बैठ सकी । बल्कि कुछ दूर हटकर अपनी सखियोंके पीछे आड़में होकर राज- वाहनकी भुकुटियोंको देखती हुई बैठी । उस समय उसे ऐसा मालूम होता था कि राजवा-

Page 88Permalink

राजवाहनं विलोकयन्त्यतिष्ठत् । (८) सोऽपि तस्यास्तदोत्पादितभावरसानां सामग्र्या लब्धबलस्येव विषमशरस्य शरव्यायमाणमानसो बभूव । (६) सा मनसीत्थमचिन्तयत्—'अनन्यसाधारणसौन्दर्येणानेन क- स्यां पुरि भाग्यवतीनां तरुणीनां लोचनोत्सवः क्रियते । पुत्ररत्नेनामुना पु- रन्ध्रीणां पुत्रवतीनां सीमन्तिनीनां का नाम सीमन्तमौक्तिकीक्रियते । कास्य देवी । किमत्रागमनकारणमस्य । मन्मथो मामपहसितनिजलावण्यमेनं विलोकयन्तीमसूययेवातिमात्रं मथ्नन्निजनाम सान्वयं करोति । किं करोमि तथा राजवाहनः स्वलावण्येन अवन्तिसुन्दरीं समाचकर्षेति इति भावः । (८) सोऽपि राजवाहनोऽपि । तस्या अवन्तिसुन्दर्याः । तदा तस्मिन् काले उत्पादिता जनिता ये भावा विकारास्त एव रसास्तेषां सामग्र्या समग्रतया पूर्णतये- त्यर्थः लब्धं प्राप्तं बलं सामर्थ्यं येन तस्य । अन्योऽपि रसायनोपयोगाल्लब्धबलो भवतीति प्रसिद्धमेव । विषमा अयुग्मसंख्यकाः पञ्च शरा बाणा यस्य तस्य, कामस्ये त्यर्थः । शरव्यं लक्ष्यं तदिवाचरत् शरव्यायमाणं मानसं यस्य सः । सोऽपि तदा मद- नबाणवेध्यो बभूवेत्यर्थः । (९) अनन्यसाधारणम् अद्वितीयं सौन्दर्यं यस्य तेन । पुरि नगर्याम् । लोच- नोत्सवो नयनानन्दः । कुत्रायं निवसतीति भावः । पुत्रेषु रत्नमिव, पुत्रश्रेष्ठ इत्यर्थ- स्तेन । सीमन्तिनीनां कामिनीनां मध्ये सीमन्तमौक्तिकीक्रियते शिरोभूषणीक्रियते । या खल्वस्य जननी सा तु सर्वसीमन्तिनीनां शिरोमणिरिति भावः । देवी महिषी । अपहसितं उपहासविषयं कृतं निजं स्वकीयं लावण्यं सौन्दर्यं कामस्येति शेषः येन तम् । एनमित्यस्य विशेषणम् । असूयया अक्षमया। मथ्नन् पीडयन् । निजनाम इनके कटाक्ष विक्षेप उस हिरणी (अवन्तिसुन्दरी) को फंसानेके लिये जाल बिछा रहे हैं और उसी मोहजालमें वह फंस गयी—अर्थात् राजवाहनकी शोभा खूब देखने लगी । (८) कुमार राजवाहनका चित्त भी अवन्तिसुन्दरीके भावमय रसोंसे-कटाक्षविक्षेपों से-वर्द्धित होकर कामदेवके बाणोंसे विद्ध हो गया । (९) वह अपने मनमें सोचने लगी—ये अनन्यसाधारण शोभाशाली राजकुमार किस पुरकी सौभाग्यवती नारीके होंगे जो इन्हें देखकर प्रमुदित होगी । वे रमणियां धन्य होंगी जो इन्हें देखकर नेत्र सफल करती होंगी । वह धन्य-धन्य पुत्रवती है जिसने इन्हें पुत्ररूपमें प्राप्त किया है । अवश्य ही वह अंगना सर्वश्रेष्ठ होगी जो इन्हें पुत्र कहकर आनन्दित होती होगी । न जाने इनकी वल्लभा कौन है ? ये इस उपवनमें क्यों आए ? हा, वह मन्मथ भी इनके सौन्दर्यसे निर्जित ईर्ष्याके साथ देखनेवाली मुझ कुमारीको मथता है तथा

Page 89Permalink

पञ्चमोच्छ्वासः ] व्याख्याद्वयोपेतम् । ८६ कथमयं ज्ञातव्य' इति । (१०) ततो बालचन्द्रिका तयोरन्तरङ्गवृत्ति भावविवेकैर्ज्ञात्वा का- न्तासमाजसन्निधौ राजनन्दनोदन्तस्य सम्यगाख्यानमनुचितमिति लोक- साधारणैर्वाक्यैरभाषत—'भर्तृदारिके, अयं सकलकलाप्रवीणो देवतासा- न्निध्यकरण आहवनिपुणो भूसुरकुमारो मणिमन्त्रौषधिज्ञः परिचर्यार्हो भवत्या पूज्यताम्' इति । (११) तदाकर्ण्य निजमनोरथमवदन्त्या [अनु] बालचन्द्रिकया सन्तुष्टा- न्तरङ्गा तरंगावली मन्दानिलेनेव सङ्कल्पजेनाकुलीकृता राजकन्या जितमारं कुमारं समुचितासनासीनं विधाय सखीहस्तेन शस्तेन गन्धकुसुमाक्षतघन-

सन्मथेति स्वनाम सान्वयं सार्थकम् । (१०) तयोरवन्तिसुन्दरीराजवाहनयोः । अन्तरङ्गवृत्ति मनोवृत्तिम् । भावानां मानसविकाराणां विवेकैर्र्विज्ञानैः । राजनन्दनोदन्तस्य राजवाहनवृत्तान्तस्य । सम्य- गाख्यानं विशेषेण कथनम् । लोकसाधारणैः लौकिकैः । भर्तृदारिके ! प्रभुपुत्रि ! राजनन्दिनोत्यर्थः, सकलासु कलासु नृत्यगीतादिषु प्रवीणः कुशलः । देवतानां सा- न्निध्यं साक्षात्कारं करोतीति तथा मन्त्रादिसाधनज्ञ इत्यर्थः । आहवनिपुणो युद्ध- कुशलः । परिचर्यार्हः सत्कारयोग्यः । (११) निजमनोरथमनुवदन्त्या स्वाभिलाषानुरूपं कथयन्त्या । तरङ्गावली कल्लोलमाला । सङ्कल्पजेन मनोभवेन । जितोः विजितो मारः कन्दर्पो येन तम् । शस्तेन प्रशस्तेन मनोहारिणा वस्तुनिचयेनेत्यस्य विशेषणम् । नूनं निश्चयेन । एषा

अपना मन्मथ नाम सार्थक करता है, क्या करूँ, कैसे जान सकूँ कि ये कौन व्यक्ति हैं । (१०) उस कुमारी बालचन्द्रिकाने उन दोनों की अङ्गवृत्तियोंसे यह जान लिया कि उनके मनमें अनुराग उत्पन्न हो गया है । परन्तु स्त्रीसमुदायमें यह बात उसने प्रकट न की क्योंकि, ऐसा करना उसे योग्य न मालूम पड़ा कि वह उन सबके समक्ष उनका परिचय देती । अर्थात् राजवाहनको राजकुमार-रूपमें भी कहना उसने वहाँ ठीक न समझा । वार्तालापके प्रसंगमें उसने बताया कि, हे अवन्तिसुन्दरी ! ये (राजवाहन) मणि-मन्त्र-औषधके परिज्ञाता हैं तथा समस्त कलाओंमें प्रवीण हैं और देवताओं से साक्षात्कार करनेमें अति दक्ष हैं साथ ही विप्रसुत भी हैं । अतः आप इनकी पूजा करें-क्योंकि ये आपसे पूजार्ह हैं । (११) राजकुमारी अवन्तिसुन्दरी इस बातपर अति हर्षित हुई तथा अपनी मनोऽनुकूल बातको बालचन्द्रिकासे सुनकर जैसे वायु के मन्द पड़नेसे जलाशयोंकी तरंगें क्षीण हो जाती हैं वैसे ही उसकी बातोंको सुननेसे कामतरंगोंसे व्यथित राजकुमारीका अन्तःकरण क्षीण (सन्तुष्ट)

६० दशकुमारचरितम् । [ पूर्वपीठिकायां

Page 90Permalink

६० दशकुमारचरितम् । [ पूर्वपीठिकायां सारताम्बूलादिनानाजातिवस्तुनिचयेन पूजां तस्मै कारयामास । राजवा- हनोऽप्येवमचिन्तयत्—'नूनमेषा पूर्वजन्मनि मे जाया यज्ञवती । नो चेदेतस्यामेवंविधोऽनुरागो मन्मनसि न जायेत । शापावसानसमये तपो- निधिदत्तं जातिस्मरत्वमावयोः समानमेव । तथापि कालजनितविशेष- सूचकवाक्यैरस्या ज्ञानमुत्पादयिष्यामि' इति । (१२) तस्मिन्नेव समये कोऽपि मनोरमा राजहंसः केलीविधित्सया तदुपकण्ठमगमत् । समुत्सुकया राजकन्यया मरालग्रहणे नियुक्तां बालच- न्द्रिकामवलोक्य समुचितो वाक्यावसर इति सम्भाषणनिपुणो राजवाहनः सलीलमलपत्-'सखि, पुरा शाम्बो नाम कश्चिन्महीवल्लभो मनोवल्लभया सह विहारवाञ्छया कमलाकरमवाप्य तत्र कोकनदकदम्बसमीपे निद्राधीन- अवन्तिसुन्दरी । जाया पत्नी । शापावसानसमये—यदा शापस्य समाप्तिर्भविष्यति तदा। तपोनिधिना तापसेन येन पूर्वं शापो दत्तस्तेन दत्तं विहितम् । जातिस्मरत्वं पूर्वजन्मस्मरणम् । कालेन दीर्घसमयेन जनित उत्पादितो यो विशेषस्तस्य सूचकानि प्रकाशकानि यानि वाक्यानि तैः । (१२) तस्या अवन्तिसुन्दर्या उपकण्ठं समीपम् । समुचितो योग्यः । वाक्या- वसरः अस्मिन्नेव समये किञ्चिद्वक्तव्यमित्यर्थः । महीवल्लभो राजा । मनोवल्लभया स्वप्रियया । कमलाकरं सरोवरम् । कोकनदानां रक्तोत्पलानां कदम्बं समूहस्तस्य समीपे । निद्राधीनमानसं निद्रया आक्रान्तम् । विसगुणेन मृणालतन्तुना । तस्य हुआ और कामदेवके जीतनेवाले राजवाहनको योग्य आसन पर बैठाया तथा सखियोंके हाथोंसे गन्ध, पुष्प, माला, चन्दन, कर्पूर, ताम्बूल आदि विविध प्रकारकी वस्तुओंसे पूजा करायी। कुमार राजवाहनने अपने मनमें विचार किया—यह कुमारी पूर्व जन्ममें अवश्य ही मेरी भार्या यज्ञवती थी यदि वह न होती तो मेरे मनमें इतना प्रेमांकुर न उत्पन्न होता । यद्यपि पूर्व जन्ममें मुनिप्रदत्त शापके अन्तमें मुनि का वरदान था कि हम लोगोंको पूर्ववृत्तकी स्मृति रहेगी । वे बातें भी इसमें घटती है, मुझमें और इस कुमारीमें समान भावसे पूर्व जन्म स्मृति है तथापि मैं बात-चीतके सिल-सिलेमें इसे पूर्व जन्मकी स्मृति दिलाना उचित सम- झता हूँ । क्योंकि हम लोगोंमें यह ज्ञान बहुत दिनोंके पश्चात् आया है—न इसके दर्शन होते न ज्ञान उत्पन्न होता । (१२) इतनेमें ही क्रीड़ा करते-करते एक मनोहर राजहंस हंसिनीके पीछे-पीछे अवन्ति- सुन्दरीके पास आ गया । जिसे देखकर राजकुमारी उत्सुक हो गयी और बालचन्द्रिकाको उसे पकड़नेके लिए भेजा। वार्तालापमें प्रवीण राजवाहनने एकान्त पाकर बात करनेका अवसर

Page 91Permalink

पञ्चमोच्छ्वासः ] व्याख्याद्वयोपेतम् । ६१ मानसं राजहंसं शनैर्गृहीत्वा बिसगुणेन तस्य चरणयुगलं निगडयित्वा कान्तामुखं सानुरागं विलोकयन्मन्दस्मितविकसितैककपोलमण्डलस्ताम- भाषत—'इन्दुमुखि, मया बद्धो मरालः शान्तो मुनिवदास्ते । स्वेच्छयानेन गम्यताम्' इति । (१३) सोऽपि राजहंसः शाम्बमशपत्—'महीपाल, यदस्मिन्नम्बुज- खण्डेऽनुष्ठानपरायणतया परमानन्देन तिष्ठन्तं नैष्ठिकं मामकारणं राज्यगर्वे- णावमानितवानसि तदेतत्पाप्मना रमणीविरहसन्तापमनुभव' इति । वि- षण्णवदनः शाम्बो जीवितेश्वरीविरहमसहिष्णुर्भूभौ दण्डवत्प्रणम्य सवि- नयमभाषत—'महाभाग, यदज्ञानेनाकरवं तत्क्षमस्व' इति । स तापसः हंसस्य । निगडयित्वा बद्ध्वा । मन्दस्मितेन ईषद्धसितेन विकसितं प्रफुल्लमेकं कपोलमण्डलं गण्डस्थलं यस्य सः । तां स्वकान्ताम् । अनेन हंसेन । (१३) अम्बुजखण्डे कमलसमुदाये । अनुष्ठाने ध्यानादिकरणे परायणः प्रवृत्तः तस्य भावस्तया । नैष्ठिकं ब्रह्मचारिणम् । अवमानितवान् अवज्ञावान् । पाप्मना पापेन अपराधेनेति यावत् । रमण्या दयिताया विरहस्य विच्छेदस्य सन्तापं क्लेशम् । असहिष्णुः सोढुमशक्नुवन् । करुणया आकृष्टं चेतो यस्य सः दयापरवशचित्तः । शा- पफलाभावः—शापस्य फलं न भविष्यतीत्यर्थः । अमोघतया अन्यर्थतया । भाविनि उचित समझकर बात-चीत छेड़ दी । उन्होंने लीलापूर्वक कहा—हे प्रिये ! प्राचीन कालमें शाम्ब नामका एक महीपति अपनी जायाके साथ जलविहार करनेकी अभिलाषासे एक सरो- वरके तटपर गया । वहांपर कमलोंके मध्यमण्डलमें सोता हुआ एक राजहंस दीख पड़ा । उसे पकड़कर उसने धीरेसे उसके चरणोंमें कमलदण्डका सूत्र बाँध दिया। प्रेमसे प्रफुल्लित कपोलमण्डल करके अपनी प्रियतमाके मुखको मन्दस्मितके साथ देखकर बोला- हे चन्द्रमुखि ! मैंने इस राजहंसको बाँध दिया है। यह मुनिके समान स्थिरचित्त हो गया है । अच्छा अब इसे छोड़ ही देता हूँ ! यह चाहे जहाँ विचरे । यह कहकर उसने उसे छोड़ दिया । (१३) उस राजहंसने राजा शाम्बको उसी समय शाप दिया कि, हे राजन् ! इस कमलवनमें राजहंसके रूपमें मैं परब्रह्मके ध्यानमग्न समाविस्थ था और परमानन्द सुखभोग रहा था । ऐसे नैष्ठिक तथा निरपराधी मुनिका राज्यमदसे अपमान तुमने स्व-प्रियाके अनुरं- जनार्थ किया है अतः इस अपराधका दण्ड तुम्हें अपनी 'भार्याका वियोग' भोगना पड़ेगा । इसपर राजाका मुख म्लान हो गया और अपनी प्रियाके विरहको सहन करनेमें अशक्त होकर उसने ऋषिवरके चरण छुए तथा प्रार्थना की कि, हे महाभाग ! अज्ञानवश मुझसे यह अप- राध हो गया, कृपया क्षमा करें । करुणाद्रंचित्त उन तपस्वीने राजा शाम्बसे कहा-हे राजन् ! मेरी वाणी सत्य है । अतः तुम्हें यह शाप इस जीवनमें न होकर अन्य जीवनमें अवश्य प्राप्त

६२ दशकुमारचरितम्। [ पूर्वपीठिकायां

Page 92Permalink

६२ दशकुमारचरितम्। [ पूर्वपीठिकायां करुणाकृष्टचेतास्तमवदत्—'राजन्, इह जन्मनि भवतः शापफलाभावो भवतु । मद्वचनस्यामोघतया भाविनि जनने शरीरान्तरं गतायाः अस्याः सरसिजाक्ष्या रसेन रमणो भूत्वा मुहूर्त्तद्वयं मच्छरणयुगलबन्धकारितया मासद्वयं शृङ्खलानिगडितचरणो रमणीवियोगविषादमनुभूय पश्चादनेक- कालं वल्लभया सह राज्यसुखं लभस्व' इति । (१४) तदनु जातिस्मरत्वमपि तयोरन्वगृह्णात् । 'तस्मान्मरालबन्धनं न करणीयं त्वया' इति । सापि भर्तृदारिका तद्वचनाकर्णनाभिज्ञातस्वपुरा- तनजननवृत्तान्ता 'नूनमयं मत्प्राणवल्लभः' इति मनसि जानती रागपल्ल- वितमानसा समन्दहासमवोचत्—'सौम्य, पुरा शाम्बो यज्ञवतीसन्देशपरि- पालनाय तथाविधं हंसबन्धनमकार्षीत् । तथा हि लोके पण्डिता अपि दाक्षिण्येनाकार्यं कुर्वन्ति' इति । कन्याकुमारावेवमन्योन्यपुरातनजनन- भविष्यति । जनने जन्मनि । ( जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भव इत्यमरः ) । शरीरान्तरङ्गतायाः अन्यदेहं प्राप्तायाः। रसेन अनुरागेण । रमणो वल्लभः। मुहू- र्त्तैति-त्वया तु मुहूर्त्तद्वयमेव मच्छरणयुगलस्य बन्धनं कृतं तेन पुनर्मासद्वयं तत्फलं त्वया भोक्तव्यमित्यर्थः । शृङ्खलया निगडितौ बद्धौ चरणौ यस्य सः । अनेककालं दीर्घकालं यावत् । (१४) अन्वगृह्णात् अनुज्ञातवान् । तद्वचनस्य राजवाहनवाक्यस्य आकर्णनेन श्रवणेन अभिज्ञातः स्मृतः स्वपुरातनजननस्य निजपूर्वजन्मनो वृत्तान्तो यया सा । रागेणानुरागेण पल्लवितं प्रफुल्लं मानसं यस्याः सा । दाक्षिण्येन परच्छन्दानुरोधेन । अकार्यमनुचितम् । कन्याकुमारौ अवन्तिसुन्दरीराजवाहनौ । एवमित्थम् । अन्यो- होगा । उस समय तुम दोनोंको इस जीवनकी स्मृति भी बनी रहेगी तथा मुझे दो मुहूर्त्त बाँधा है अतः तुम्हें दो मास शृङ्खलाबद्ध होकर रमणीवियोग अवश्य सहना पड़ेगा । तत्पश्चात् उस रमणीके साथ अति कालतक राज्यसुख भोगोगे । (१४) फिर तुरत ही उन तपस्वीने एक और वरदान देकर कहा 'जाओ तुम लोगोंको जाति-स्मरत्व' रहे ( पूर्वजन्मकी बात याद रहे )। अतः हे राजपुत्री ! आपसे कहता हूँ कि आप राजहंसको न बाँधें । राजकुमारीको भी राजकुमारकी बातें सुन- कर पूर्व जीवनकी स्मृति हो आई और दृढ़ प्रतीति हो गयी कि ये ही मेरे प्राणप्रिय उस जीवनके हैं । निश्चयानन्तर उसका मुख-कमल विकसित हो गया तथा वह प्रेमसे हँसकर कहने लगी-हे सौम्य ! उस समय राजा शाम्बने रानी यज्ञवतीके आदेशानुसार राजहंसको पकड़कर बाँधा था । इससे विदित होता है कि

Page 93Permalink

CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF

पञ्चमोच्छ्वासः ] व्याख्याद्वयोपेतम् । ६३ नामधेये परिचिते परस्परज्ञानाय साभिज्ञमुक्त्वा मनोजरागपूर्णमानसौ बभूवतुः । (१५) तस्मिन्नवसरे मालवेन्द्रमहिषी परिजनपरिवृता दुहितृकेली- विलोकनाय तं देशमवाप । बालचन्द्रिका तु तां दूरतो विलोक्य ससम्भ्रमं रहस्यनिर्भेदभिया हस्तसंज्ञया पुष्पोद्भवसेव्यमानं राजवाहनं वृक्षवाटिका- न्तरितगात्रमकरोत् । सा मानसारमहिषी सखीसमेताया दुहितुर्नानाविधां विहारलीलामनुभवन्ती क्षणं स्थित्वा दुहित्रा समेता निजागारगमनायो- द्युक्ता बभूव । मातरमनुगच्छन्ती अवन्तिसुन्दरी 'राजहंसकुलतिलक, विहारवाञ्छया केलिवने यदन्तिकमागतं भवन्तमकाण्ड एव विसृज्य मया समुचितमपि जनन्यनुगमनं क्रियते-तदनेन भवन्मनोरागोऽन्यथा मा न्येति-परस्परपूर्वजन्मनामनी । परस्परज्ञानाय परस्परप्रतिबोधनाय । साभिज्ञं सप्रमाणम् । मनोजः कामः रागोऽनुरागस्ताभ्यां पूर्णं मानसं ययोस्तौ । (१५) तां महिषीम् । ससम्भ्रमं सत्वरम् । रहस्यनिर्भेदभिया राजमहिषी यदि तथाविधं राजपुत्रं पश्येत्तदा रहस्यं निर्भिद्येतेति शङ्कया । हस्तसंज्ञया हस्तचेष्टया । वृक्षवाटिकायां गृहोद्याने अन्तरितं गोपितं गात्रं शरीरं यस्य तथाविधम् । राजहंस- कुलतिलकेति सम्बोधनं श्लिष्टं, राजहंसस्य पक्षिविशेषस्य कुले मण्डले तिलक इवेति, पक्षे-राजहंसस्य तदाख्यनृपस्य कुले वंशे तिलको भूषणभूत इवेति चार्थद्वययोगात् । विहारवाञ्छया विहर्तुमिच्छया । अकाण्डे असमये सहसेति यावत् । समुचितमिति कर्त्तव्यमिति हेतोः । भवन्मनोरागः भवतो मनोवृत्तिः । अन्यथा विपरीतं । मयि हैं कि पण्डित लोग भी संसारमें कभी कभी भोलेपनसे अनुचित कर्म कर बैठते हैं। फिर पूर्वजन्मकी अन्य बातोंका स्मरण करते-कराते वे दोनों कामदेवके वशीभूत हो गये । (१५) इसी अवसरपर मालवेशकी पटरानी अपने बहुतसे परिजनोंसे परिवृत होकर अपनी राजसुताके खेलोंको देखनेके लिए उस उपवनमें पधारीं । दूरसे ही बालचन्द्रिकाने उन्हें आते देख लिया और रहस्य-भेदन न हो इस भयसे जल्दीसे राजवाहनके समीप दौड़कर आयीं और हाथके संकेतसे पुष्पोद्भवके साथ-साथ राजकुमार राजवाहनको घने वृक्षोंके निकुं- जोंमें छिप जानेको कह दिया । राजा मानसारकी पटरानी वहाँपर कुछ देर रहीं और बालि- काकी क्रीड़ाएँ देखकर उसे साथ लेकर राजमहल जाने लगीं । माताकी अनुवर्त्तिनी होकर जाती हुई राजकुमारी अवन्तिसुन्दरीने कहा-हे राजहंस-कुलतिलक ! तुम इस उपवनमें मेरे साथ रमणके लिए आये थे किन्तु मैं असमयमें ही तुम्हें छोड़कर जा रही हूँ । परन्तु यह जाना उचित और अनिवार्य है क्योंकि माताकी आज्ञा अलङ्घनीय होती है परन्तु मेरे इस

Nepal Sanskrit University, Balmeeki Campus, Kathmandu