BharatKosha
Back to the archive

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

by महाकवि कालिदास

Source: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (origin)

DevanagariHindipublished735 pages

चतुर्दशः सर्गः ४९३

Page 552Permalink

चतुर्दशः सर्गः ४९३

त्यक्तवतो नृपस्य रामचन्द्रस्य वक्षस्य सङ्घट्टसुखमसंभाव्यसुखं वसन्ती लक्ष्मीः सपत्नीरहितेव रेजे दिदीपे । तस्य स्त्र्यन्तरपरिग्रहो नाभूदिति भावः ।

**भाषार्थ—**राम ने लोकापवाद के भय से अपनी सती साध्वी स्त्री सीता का त्याग कर दिया, इसलिए मानो बिना सीता की होकर राज्यलक्ष्मी ही उनके हृदय में कल्पनातीत सुखपूर्वक निवास करने लगी ॥ ८६ ॥

सीतां हित्वा दशमुखरिपुर्नोपयेमे यदन्यां
तस्या एव प्रतिकृतिसखो यत्क्रतूनाजहार ।
वृत्तान्तेन श्रवणविषयप्रापिणा तेन भर्तुः
सा दुर्वारं कथमपि परित्यागदुःखं विषेहे ॥ ८७ ॥

**अन्वयः—**दशमुखरिपुः सीतां हित्वा अन्यां न उपयेमे यत् तस्या एव प्रतिकृतिसखः ऋतून् आजहार इति यत् तेन श्रवणविषयप्रापिणा भर्तुः वृत्तान्तेन सा दुर्वारं परित्यागदुःखं कथमपि विषेहे ।

सीतामिति । दशमुखरिपू रामः सीतां हित्वा त्यक्त्वाऽन्यां स्त्रियं नोपयेमे न परिणीतवानिति यत् । ‘उपायमः स्वकरणे’ इत्यात्मनेपदम् । किंच तस्याः सीताया एव प्रतिकृतेः प्रतिमाया हिरण्मय्याः सखा प्रतिकृतसखः सन्क्रतूनाजहाराहृतवानिति । ‘सस्त्रीको धर्ममाचरेत्’ इति धर्मशास्त्रात् । यत्तेन श्रवणविषयप्रापिणा श्रोत्रदेशगामिना भर्तुर्वृत्तान्तेन वार्तया हेतुना सा सीता दुवारं दुर्निरोधं परित्यागेन यद्दुःखं तत्कथमपि विषेहे विसोढवती ।

इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीवनीसमाख्यया
व्याख्यया समेतो महाकविकालिदासकृतौ रघुवंशे महाकाव्ये
सीतापरित्यागो नाम चतुर्दशः सर्गः ॥ १४ ॥

**भाषार्थ—**रावण के शत्रु राम ने सीता को त्यागकर किसी दूसरी स्त्री से विवाह नहीं किया, किन्तु अश्वमेध यज्ञ करते समय उन्होंने सीता की स्वर्णमयी मूर्ति को उनका प्रतिनिधि बनाकर अर्द्धांगिनी के रूप में बायें बैठाया था, जब सीताजी ने अपने पति की ये बातें सुनी, तब उनके मन में छोड़े जाने का असह्य दुःख था वह किसी प्रकार सहन हो सका ॥ ८७ ॥

यह त्रिपाठीयुपाह्व पं० श्रीकृष्णमणिशास्त्री द्वारा लिखित
चन्द्रकला नाम की हिन्दी टीका में रघुवंश महा-
काव्य का सीतापरित्याग नामक चतुर्दश
सर्ग समाप्त हुआ ॥ १४ ॥

Page 553Permalink

पञ्चदशः सर्गः

आरश्यकं गृहस्थानं श्वशुरी यद्रजःकणाः ।
स्वयमौद्वाहिकं गेहं तस्मै रामाय ते नमः ॥

कृतसीतापरित्यागः स रत्नाकरमेखलाम् ।
बुभुजे पृथिवीपालः पृथिवीमेव केवलम् ॥ १ ॥

अन्वयः—कृतसीतापरित्यागः सः पृथिवीपालः रत्नाकरमेखलां केवलां पृथिवीम् एव बुभुजे ।

कृतेति । कृतसीतापरित्यागः स पृथ्वीपालो रामो रत्नाकर एव मेखला यस्यास्तां सार्णवामित्यर्थः । केवलाम् एकामित्यर्थः । पृथिवीमेव बुभुजे भुक्तवान् । न तु पार्थिवीमित्यर्थः । साऽपि रत्नखचितमेखला पृथिव्याः कान्तासमाधिर्व्यज्यते । रामस्य स्त्र्यन्तरपरिग्रहो नास्तीति श्लोकाभिप्रायः ।

भाषार्थ—सीता का परित्याग करके पालक ( राजा ) राम समुद्रों से घिरी हुई केवल पृथ्वी का भोग करने लगे; किसी दूसरी स्त्री से विवाह नहीं किया ॥१॥


लवणेन विलुप्तेज्यास्तामिस्रेण तमभ्ययुः ।
मुनयो यमुनाभाजः शरण्यं शरणार्थिनः ॥ २ ॥

अन्वयः—लवणेन तामिस्रेण विलुप्तेज्याः ( अतएव ) शरणार्थिनः यमुनाभाजः मुनयः शरण्यं तम् अभ्ययुः ।

लवणेनेति । लवणेन लवणाख्येन तामिस्रेण तमिस्राचारिणा रक्षसेत्यर्थः । विलुप्तेज्या लुप्तयागक्रिया अतएव शरणार्थिनो रक्षणार्थिनो यमुनाभाजो यमुनातीर-वासिनो मुनयः शरण्यं शरणार्हं रक्षणसमर्थं तं रामं रक्षितारमभ्ययुः प्राप्ताः । यातेर्लङ् ।

भाषार्थ—इसी समय एक दिन यमुना जी के तीर पर रहने वाले कुछ शरणार्थी मुनि लोग शरणागतवत्सल राम के पास आये; क्योंकि उनकी यज्ञ क्रियायें लवणासुर के उपद्रव के कारण बन्द हो गई थीं ॥ २ ॥


अवेक्ष्य रामं ते तस्मिन् प्रजहूः स्वतेजसा ।
त्राणाभावे हि शापास्त्राः कुर्वन्ति तपसो व्ययम् ॥ ३ ॥

अन्वयः—ते रामं अवेक्ष्य तस्मिन् स्वतेजसा प्रजहूः हि त्राणाभावे शापास्त्राः ( सन्तः ) तपसः व्ययं कुर्वन्ति ।

Page 554Permalink

पञ्चदशः सर्गः ४९५

अवेक्ष्येति । ते मुनयो राममवेक्ष्य । रक्षितारमिति शेषः । तस्मिल्लवणे स्वतेजसा शापरूपेण न प्रजह्रुः । तथाहि त्रायते इति त्राणं रक्षकम् । कर्तरि ल्युट् । तद्भावे शाप एवास्त्रं येषां ते शापास्त्राः सन्तस्तपसो व्ययं कुर्वन्ति । शापदानात्तपसो व्यय इति प्रसिद्धेः ।

**भाषार्थ—**उन मुनियों ने राम को अपना रक्षक देख कर उस लवणासुर को शाप देकर नष्ट नहीं किया, क्योंकि जिन लोगों में शाप देकर भस्म कर देने की शक्ति होती है वे तपस्या के एकत्रित तेज को ऐसे काम में तभी लगाते हैं जब कोई दूसरा उनका रक्षक न हो ॥ ३ ॥

प्रतिशुश्राव काकुत्स्थस्तेभ्यो विघ्नप्रतिक्रियाम् ।
धर्मसंरक्षणार्थैव प्रवृत्तिर्भुवि शार्ङ्गिणः ॥ ४ ॥

**अन्वयः—**काकुत्स्थः तेभ्यः विघ्नप्रतिक्रियां प्रतिशुश्राव, भुवि शार्ङ्गिणः प्रवृत्तिः धर्मसंरक्षणार्था एव ।

प्रतीति । काकुत्स्थो रामस्तेभ्यो मुनिभ्यो विघ्नप्रतिक्रियां लवणवधरूपां प्रतिशुश्राव प्रतिजज्ञे । "प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता" इत्यनेन चतुर्थी । तथाहि भुवि शार्ङ्गिणः विष्णोः प्रवृत्ती रामरूपेणावतरणं धर्मसंरक्षणमेवार्थः प्रयोजनं यस्याः सा तथैव ।

**भाषार्थ—**राम ने उन मुनियों से उनके विघ्नों को दूर करने की प्रतिज्ञा की, क्योंकि धर्म की रक्षा करने के लिए ही तो वे संसार में अवतार लेते हैं ॥४॥

ते रामाय वधोपायमाचख्युर्विबुधद्विषः ।
दुर्जयो लवणः शूली विशूलः प्रार्थ्यतामिति ॥ ५ ॥

**अन्वयः—**ते रामाय विबुधद्विषः वधोपायं आचख्युः लवणः शूली दुर्जयः (किन्तु) विशूलः प्रार्थ्यताम् ।

त इति । ते मुनयो रामाय विबुधद्विषः सुरारेर्लवणस्य वधोपायमाचख्युः । लुनातीति लवणः । नन्द्यादित्वाल्ल्युः । तत्रैव निपातनाण्णत्वम् । लवणः शूली शूलवान्दुर्जयोऽजय्यः किन्तु विशूलः शूलरहितः प्रार्थ्यतामभिगम्यताम् । 'याच्ञायामभियाने च प्रार्थना कथ्यते बुधैः' इति केशवः ।

**भाषार्थ—**तब उन मुनियों ने देवताओं के शत्रु उस लवणासुर के वध का उपाय राम को बतलाया कि जब तक उसके हाथ में भाला रहेगा तब तक उसका हारना कठिन है इसलिए उस पर ऐसे समय आक्रमण करना चाहिए कि जब उसके हाथ में भाला न हो ॥ ५ ॥

Page 555Permalink

४९६ | रघुवंशमहाकाव्ये

आदिदेशाथ शत्रुघ्नं तेषां क्षेमाय राघवः ।
करिष्यन्निव नामास्य यथार्थमरिनिग्रहात् ॥ ६ ॥

अन्वयः—अथ तेषां क्षेमाय राघवः शत्रुघ्नम् आदिदेश, अस्य नाम अरिनिग्रहात् यथार्थं करिष्यन् इव ।

आदिदेशेति । अथ तेषां मुनीनां क्षेमकरणाय राघवो रामः शत्रुघ्नमादिदेश । अत्रोत्प्रेक्षते—अस्य शत्रुघ्नस्य नामारिनिग्रहाच्छत्रुहननाद्धेतोः यथाभूतार्थो यस्य तद्यथार्थं करिष्यन्निव । शत्रून्हन्तीति शत्रुघ्नः । “अमनुष्यकर्तृके च” इति चकारात्कृतघ्नशत्रुघ्नादयः सिद्धा इति दुर्गसिंहः । पाणिनीयेऽपि बहुलग्रहणाद्येष्टसिद्धिः । “कृत्यल्युटो बहुलम्” इति ।

भाषार्थ—इसके बाद राम ने उन मुनियों के कल्याण के लिए शत्रुघ्न को आदेश दिया, मानों शत्रुघ्न के हाथों से लवणासुर शत्रु का संहार कराकर उनका शत्रुघ्न नाम यथार्थ करा देना चाहते हों ॥ ६ ॥

रामस्य स्वयमप्रयाणे हेतुमाह—

यः कश्चन रघूणां हि परमेकः परन्तपः ।
अपवाद इवोत्सर्गं व्यावर्तयितुमीश्वरः ॥ ७ ॥

अन्वयः—हि परन्तपः रघूणां यः कश्चन एक अपवादः उत्सर्गम् इव परं व्यावर्तयितुं ईश्वरः ।

य इति । हि यस्मात् पराञ्छत्रूंस्तापयतीति परन्तपः । “द्विषत्परयोस्तापे” इति खच्प्रत्ययः । “खचि ह्रस्वः” इति ह्रस्वः । रघूणां मध्ये यः कश्चनेकः अपवादो विशेषशास्त्रमुत्सर्गं सामान्यशास्त्रमिव परं शत्रुं व्यावर्तयितुं बाधितुमीश्वरः समर्थः । अतः शत्रुघ्नमेवादिदेशेति पूर्वेणान्वयः ।

भाषार्थ—जिस प्रकार व्याकरण शास्त्र के अनुसार कोई अपवाद सूत्र उत्सर्ग को रोक देने में समर्थ होता है उसी प्रकार शत्रु को दबाने वाला रघुवंशियों में कोई भी एक ही पुरुष शत्रु को पराजित करने के लिए समर्थ होता है ॥ ७ ॥

अग्रजेन प्रयुक्ताशीस्ततो दाशरथी रथी ।
ययौ वनस्थलीः पश्यन्पुष्पिताः सुरभीरमीः ॥ ८ ॥

अन्वयः—ततः अग्रजेन प्रयुक्ताशीः रथी अमीः दाशरथिः पुष्पिताः सुरभीः वनस्थलीः पश्यन् ययौ ।

Page 556Permalink

पञ्चदशः सर्गः४९७

अग्रजेनेति । ततोऽग्रजेन रामेण प्रयुक्ताशीः कृताशीर्वादो रथी रथिकोऽभी-निर्भीको दाशरथिः पुष्पाणि संजातानि यासां ताः पुष्पिताः सुरभीरामोदमानाः वनस्थलीः पश्यन्ययौ ।

भाषार्थ—इसके बाद बड़े भाई से आशीर्वाद पाकर दशरथकुमार शत्रुघ्न रथ पर सवार होकर निर्भयतापूर्वक विकसित पुष्पवाली सुगन्धित वनस्थली की छटा देखते हुए चल पड़े ॥ ८ ॥

रामादेशादनुगता सेना तस्यार्थसिद्धये ।
पश्चादध्ययनार्थस्य धातोरधिरिवाभवत् ॥ ९ ॥

अन्वयः—रामादेशात् अनुगता सेना तस्य अध्ययनार्थस्य धातोः पश्चात् अधिः इव अर्थसिद्धये अभवत् ।

रामेति । रामादेशादनुगता सेना तस्य शत्रुघ्नस्य अध्ययनमर्थोऽभिधेयो यस्य तस्य धातोः 'इङ् अध्ययने' इत्यस्य धातोः पश्चादधिरुपसर्ग इव अर्थसिद्धये प्रयोजनसाधनायेत्येकत्र, अन्यत्राभिधेयसाधनाय अभवत् । 'अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु' इत्यमरः । यथा 'इङिकावध्युपसर्गं न व्यभिचरतः' इति न्याये नाध्युपसर्गं स्वयमेवार्थसाधकस्य धातोः सन्निधिमात्रेणोपकरोति सेनापि तस्य तद्वदिति भावः ।

भाषार्थ—राम की आज्ञा से शत्रुघ्न के पीछे चलती हुई सेना वैसे ही व्यर्थ थी जैसे अध्ययनार्थ इङ्-धातु में लगा हुआ अधि उपसर्ग, क्योंकि इङ् का ही अर्थ अध्ययन होता है, अधि उपसर्ग वहाँ व्यर्थ है । उसी प्रकार सेना के बिना भी शत्रुघ्न लवणासुर को अकेले जीत सकते थे उनके साथ सेना जाती या ना जाती ॥ ९ ॥

आदिष्टवर्त्मा मुनिभिः स गच्छंस्तपतां वरः ।
विरराज रथप्रष्ठैर्वालखिल्यैरिवांशुमान् ॥ १० ॥

अन्वयः—रथप्रष्ठैः मुनिभिः आदिष्टवर्त्मा गच्छन् तपतां वरः सः वालखिल्यैः अंशुमान् इव, विरराज ।

आदिष्टेति । रथप्रष्ठै रथाग्रगामिभिः । “प्रष्ठोऽग्रगामिनी” इति निपातः । मुनिभिः पूर्वोक्तैरादिष्टवर्त्मा निर्दिष्टमार्गो गच्छंस्तपतां देदीप्यमानानां मध्ये वरः स शत्रुघ्नः वालखिल्यैर्मुनिभिरंशुमान्सूर्य इव विरराज । तेऽपि रथप्रष्ठा इत्यनुसंधेयम् ।

भाषार्थ—जिस प्रकार रथ पर चढ़े हुए तेजस्वी श्रेष्ठ सूर्य को वालखिल्य नाम के मुनि लोग आगे मार्ग दिखाते चलते हैं उसी प्रकार रथ पर बैठे हुए

३२ र० सम्पू०

Page 557Permalink
४९८रघुवंशमहाकाव्ये

तेजस्वियों में श्रेष्ठ रथ पर चढ़े हुए शत्रुघ्न को भी मुनिलोग आगे-आगे मार्ग दिखलाते चलते थे ॥ १० ॥

तस्य मार्गवशादेका बभूव वसतिर्यतः ।
रथस्वनोत्कण्ठमृगे वाल्मीकीये तपोवने ॥ ११ ॥

अन्वयः—यतः तस्य मार्गवशात् रथस्वनोत्कण्ठमृगे वाल्मीकीये तपोवने एका वसति बभूव ।

तस्येति । यतो गच्छतः । इण्धातो शतृप्रत्ययः । तस्य शत्रुघ्नस्य मार्गवशा-द्रथस्वन उत्कण्ठा उद्ग्रीवा मृगा यस्मिंस्तस्मिन्वाल्मीकीये वाल्मीकिसम्बन्धिनि । "वृद्धाच्छः" इति छप्रत्ययः । तपोवन एका वसती रात्रिर्बभूव । तत्रैकां रात्रि-मुषित इत्यर्थः । 'वसती रात्रिवेश्मनोः' इत्यमरः ।

भाषार्थ—मार्ग में जाते हुए शत्रुघ्न की पहली रात महर्षि वाल्मीकि जी उस आश्रम में बीती जहाँ के मृग उनके रथ के शब्द को सुनकर बड़े प्रेम से उधर देखने लग गये थे ॥ ११ ॥

तमृषिः पूजयामास कुमारं क्लान्तवाहनम् ।
तपःप्रभावसिद्धाभिर्विशेषप्रतिपत्तिभिः ॥ १२ ॥

अन्वयः—क्लान्तवाहनं तं कुमारं ऋषि तपः प्रभावसिद्धाभिः विशेषप्रति-पत्तिभिः पूजयामास ।

तमिति । क्लान्तवाहनं श्रान्तयुग्यं तं कुमारं शत्रुघ्नम् षिवल्मीकिस्तपःप्रभाव-सिद्धाभिर्विशेषप्रतिपत्तिभिरुत्कृष्टसम्भावनाभिः आसनशयनपानादिभिः पूजयामास ।

भाषार्थ—शत्रुघ्न के घोड़े आदि थक गये थे इसीलिए रुकना आवश्यक हो गया । महर्षि वाल्मीकि जी ने अपनी तपस्या के प्रभाव से आतिथ्य सत्कार की सब सामग्री जुटाकर शत्रुघ्न का बड़ा सत्कार किया ॥ १२ ॥

तस्यामेवास्य यामिन्यामन्तर्वत्नी प्रजावती ।
सुतावसूत सम्पन्नौ कोशदण्डाविव क्षितिः ॥ १३ ॥

अन्वयः—तस्याम् एव यामिन्यां अस्य अन्तर्वत्नी प्रजावती क्षितिः सम्पन्नौ कोशदण्डौ इव सुतौ असूत ।

तस्यामिति । तस्यामेव यामिन्यां रात्रावस्य शत्रुघ्नस्य अस्तीत्यन्तर्वत्नी गर्भिणी । 'अन्तर्वत्नी च गर्भिणी' इत्यमरः । "अन्तर्वत्पतिवतोर्नुक्" इति ङीप् नुगागमश्च । प्रजावती भ्रातृजाया सीता क्षितिः सम्पन्नौ समग्रौ कोशदण्डाविव सुतावसूत ।

Page 558Permalink

पञ्चदशः सर्गः [४९९]

**भाषार्थ—**उसी रात को इस शत्रुघ्न की गर्भवती भाभी सीता ने दो तेजस्वी पुत्रों को उसी प्रकार उत्पन्न किया, जिस प्रकार पृथ्वी अपने राजा के लिए समृद्ध धन और सेना उत्पन्न करती है ॥ १३ ॥

सन्तानश्रवणाद् भ्रातुः सौमित्रिः सौमनस्यवान् ।
प्राञ्जलिर्मुनिमामन्त्र्य प्रातर्युक्तरथो ययौ ॥ १४ ॥

**अन्वयः—**भ्रातुः सन्तानश्रवणात् सोमनस्यवान् सोमित्रिः प्रातः युक्तरथः ( सन् ) प्राञ्जलिः मुनिम् आमन्त्र्य ययौ ।

सन्तानेति । भ्रातुर्ज्येष्ठस्य सन्तानश्रवणाद्धेतोः सौमनस्यवान्प्रीतिमान्सौमित्रिः शत्रुघ्नः प्रातर्युक्तरथः सज्जरथः सन् प्राञ्जलिः कृताञ्जलिर्मुनिमामन्त्र्यापृच्छ्य ययौ ।

**भाषार्थ—**भाई रामचन्द्र जी के पुत्र होने की बात सुन कर शत्रुघ्न बड़े प्रसन्न हुए और अगले दिन सुबह हाथ जोड़कर वाल्मीकि मुनि से आज्ञा लेकर रथ पर चढ़कर आगे बढ़े ॥ १४ ॥

स च प्राप मधूपघ्नं कुम्भीनस्याश्च कुक्षिजः ।
वनात्करमिवादाय सत्त्वराशिसुपस्थितः ॥ १५ ॥

**अन्वयः—**स च मधूपघ्नं प्राप कुम्भीनस्र्याः कुक्षिजः च वनात् करम् इव सत्त्वराशिम् आदाय उपस्थितः ।

स चेति । स शत्रुघ्नश्च मधूपघ्नं नाम लवणपुरं प्राप । कुम्भीनसी नाम रावण-स्वसा तस्याः कुक्षिजः पुत्रो लवणश्च वनात्करं बलिमिव सत्त्वानां प्राणिनां राशि-मादायोपस्थितः प्राप्तः ।

**भाषार्थ—**जिस समय शत्रुघ्न मधूपघ्न नगर में पहुँचे उसी समय रावण की बहन कुम्भीनसी का पुत्र लवणासुर बहुत से पशुओं को मारकर इस प्रकार लौटा चला आ रहा था मानो वन ने उसे यह भेंट दी हो ॥ १५ ॥

धूमधूम्रो वसागन्धी ज्वालाबभ्रुशिरोरुहः ।
क्रव्याद्गणपरीवारश्चिताग्निरिव जङ्गमः ॥ १६ ॥

**अन्वयः—**धूमधूम्रः वसागन्धी ज्वालाबभ्रुशिरोरुहः क्रव्याद्गणपरीवारः ( अतएव ) जंगमः चिताग्निरिव ( स्थितः ) ।

धूमेति । किम्भूतो लवणः ? धूम इव धूम्रः कृष्णलोहितवर्णः । 'धूम्रन्धूमलो कृष्णलोहिते' इत्यमरः । वसागन्धो हृन्मेदोगन्धः सोऽस्यास्तीति वसागन्धी । 'हृन्मेदस्तु वपा वसा' इत्यमरः । ज्वाला इव बभ्रवः पिशङ्गाः शिरोरुहः केशा यस्य स तथोक्तः । 'विपुले नकुले विष्णो बभ्रुः स्यात्पिङ्गले त्रिषु' इत्यमरः । क्रव्यं

Page 559Permalink

५०० रघुवंशमहाकाव्ये

मांसमदन्तीति क्रव्यादो राक्षसाः तेषां गण एव परीवारो यस्य स तथोक्तः । अत एव जङ्गमश्चरिष्णुश्चिताग्निरिव स्थितः कृशानुपक्षे धूम्रधूम्रवर्णा ज्वाला एव शिरोरुहाः । क्रव्यादा गृध्रादयः इत्यनुसंधेयम् ।

**भाषार्थ—**धूँएं के समान काला उसका रङ्ग था उसकी देह से चर्बी की गन्ध निकल रही थी अग्नि की लपटों के समान उसके बाल विखरे हुए थे और कच्चे मांस के खानेवाले राक्षस उसके चारों ओर चल रहे थे । इस प्रकार वह उस चिता की अग्नि के समान लग रहा था और जिसके आस-पास कुत्ते और गीध आदि मांस भक्षी पशु पक्षी घूम रहे हों ॥ १६ ॥

अपशूलं तमासाद्य लवणं लक्ष्मणानुजः ।
रुरोध संमुखीनो हि जयो रंध्रप्रहारिणाम् ॥ १७ ॥

**अन्वयः—**लक्ष्मणानुजः अपशूलं तं लवणम् आसाद्य रुरोध हि रन्ध्रप्रहारिणां जयः सम्मुखीनः (भवति) ।

अपशूलमिति । लक्ष्मणानुजः शत्रुघ्नोऽपशूलं शूलरहितं तं लवणमासाद्य रुरोध । तथा हि रन्ध्रप्रहारिणां रन्ध्रप्रहरणशीलानाम् । अपशूलतैवात्र रन्ध्रम् । जयः सम्मुखीनो हि सम्मुखस्य दर्शनो हि । "यथामुखसम्मुखस्य दर्शनः खः' इति खप्रत्ययः । अधिकारलक्षणार्थस्तु दुर्लभ एव ।

**भाषार्थ—**इस प्रकार लक्ष्मण के छोटे भाई शत्रुघ्न ने देखा कि यह अवसर अच्छा है क्योंकि इसके हाथ में भाला नहीं है बस झट उन्होंने उसे घेर लिया; क्योंकि जो शत्रु के शक्तिहीन होने पर प्रहार करता है वह अवश्य विजयी होता है ॥ १७ ॥

नातिपर्याप्तमालक्ष्य मत्कुक्षेरद्य भोजनम् ।
दिष्ट्या त्वमसि मे धात्रा भीतेनेवोपपादितः ॥ १८ ॥
इति संतर्ज्य शत्रुघ्नं राक्षसस्तज्जिघांसया ।
प्रांशुमुत्पाटयामास मुस्तास्तम्बमिव द्रुमम् ॥ १९ ॥

**अन्वयः—**अद्य मत्कुक्षेः भोजनं नाति पर्याप्तम् (इति) आलक्ष्य इव धात्रा दिष्ट्या मे त्वं उपपादितः (असि) ।

**अन्वयः—**राक्षसः इति शत्रुघ्नं सन्तर्ज्य तज्जिघांसया प्रांशु द्रुमं मुस्ता-स्तम्बम् इव उत्पाटयामास ।

नेति । इतीति । युग्मम् । राक्षसो लवणः अद्य मत्कुक्षेः भुज्यत इति भोजनम् । भोज्यं मृगादिकं नातिपर्याप्तमनतिसमग्रमालक्ष्य दृष्ट्वा भीतेनेव धात्रा दिष्ट्या भाग्येन

Page 560Permalink

पञ्चदशः सर्गः ५०१

मे त्वमुपपादितः कल्पितोऽसि । इति शत्रुघ्नं संतर्ज्य तस्य शत्रुघ्नस्य जिघांसया हन्तुमिच्छया प्रांशुमुन्नतं द्रुमं मुस्तास्तम्बमिव अक्लेशेनोत्पाटयामास ।

भाषार्थ—शत्रुघ्न को देखकर लवणासुर गरज उठा और बोला—आज मेरे भोजन की सामग्री कम थी यह देख ब्रह्मा ने डर कर मेरा भोजन पूरा करने के लिए तुम्हें यहाँ भेज दिया है ॥ १८ ॥

भाषार्थ—यह कह कर उस लवणासुर ने शत्रुघ्न को मारने के लिए एक बड़ा भारी वृक्ष ऐसे धीरे से उखाड़ लिया जैसे मोथा नामक घास के डण्टल को उखाड़ लिया जाता है ॥ १९ ॥

सौमित्रेर्निशितैर्बाणैरन्तरा शकलीकृतः ।
गात्रं पुष्परजः प्राप न शाखी नैर्ऋतेरितः ॥ २० ॥

अन्वयः—नैर्ऋतेरितः शाखी अन्तरा निशितैः वाणैः शकलीकृतः सौमित्रेः गात्रं न प्राप ( किन्तु ) पुष्परजः ( प्राप ) ।

सौमित्रेरिति । नैर्ऋतेरितो रक्षाप्रेरितः शाख्यन्तरा मध्ये निशितैर्बाणैः शकलीकृतः सन्सौमित्रेः शत्रुघ्नस्य गात्रं न प्राप । किंतु पुष्परजः प्राप ।

भाषार्थ—लवणासुर ने ज्योंही शत्रुघ्न पर उस वृक्ष को फेंका त्योंहीं उन्होंने बीच में ही उसे अपने तीक्ष्ण बाणों से टुकड़े कर दिया । इस प्रकार वह वृक्ष तो उनके शरीर तक नहीं पहुँच सका किन्तु केवल उसके पुष्पों का पराग भर पहुँचा ॥ २० ॥

विनाशात्तस्य वृक्षस्य रक्षस्तस्मै महोपलम् ।
प्रजिघाय कृतान्तस्य मुष्टिं पृथगिव स्थितम् ॥ २१ ॥

अन्वयः—रक्षः तस्य विनाशात् महोपलं पृथक्स्थितं कृतान्तस्य मुष्टिम् इव प्रजिघाय ।

विनाशादिति । रक्षो लवणस्तस्य वृक्षस्य विनाशाद्धेतोः महोपलं महान्तं पाषाणं पृथक्स्थितं कृतान्तस्य यमस्य मुष्टिमिव । मुष्टिशब्दो द्विलिङ्गः । तस्मै शत्रुघ्नाय प्रजिघाय प्रहितवान् ।

भाषार्थ—उस वृक्ष के टुकड़े टुकड़े हो जाने पर उस राक्षस लवाणसुर ने एक बहुत बड़ा पत्थर उठाकर शत्रुघ्न पर फेंका मानो वह यमराज का घूंसा हो ॥ २१ ॥

ऐन्द्रमस्त्रमुपादाय शत्रुघ्नेन स ताडितः ।
सिकतात्वादपि परां प्रपेदे परमाणुताम् ॥ २२ ॥

Page 561Permalink
५०२रघुवंशमहाकाव्ये

अन्वयः—सः शत्रुघ्नेन ऐन्द्रम् अस्त्रम् उपादाय ताडितः (सन्) सिकतात्वात् अपि परां परमाणुतां प्रपेदे ।

ऐन्द्रमिति—स महोपलः शत्रुघ्नेनैन्द्रमिन्द्रदेवताकमस्त्रमुपादाय ताडितोऽभिहतः सन् सिकतात्वात्सिकताभावादपि परां परमाणुतां प्रपेदे । यतोऽणुर्नास्ति स परमाणुरित्याहुः ।

भाषार्थ—किन्तु शत्रुघ्न ने इन्द्रास्त्र चलाकर उसे बालू से भी छोटे परमाणु भाव को प्राप्त करा दिया अर्थात् अपने ऐन्द्र अस्त्र से उसे चूर-चूर कर दिया ॥ २२ ॥

तमुपाद्रवदुद्यम्य दक्षिणं दोर्निशाचरः ।
एकताल इवोत्पातपवनप्रेरितो गिरिः ॥ २३ ॥

अन्वयः—निशाचरः दक्षिणं दोः उद्यम्य एकतालः उत्पातप्रेरितः गिरिः इव तं उपाद्रवत् ।

तमिति । निशाचरो राक्षसो दक्षिणं दोः 'ककुद्द्दोषणी' इति भगवती भाष्यकारस्य प्रयोगाद्दोषशब्दस्य नपुंसकत्वं द्रष्टव्यम् । 'भुजबाहू प्रवेष्टो दोः' इति पुँल्लिङ्गसाहचर्यात्पुंस्त्वं च । तथा च प्रयोगः—'दोषं तस्य तथाविधस्य भजतः' इति । सव्येतरं बाहुमुद्यम्य एकतालस्तदाख्यवृक्षो यस्मिन्स एकतालः । उत्पातपवनेन प्रेरितो गिरिरिव तं शत्रुघ्नमुपाद्रवदभिद्रुतः ।

भाषार्थ—वह राक्षस लवणासुर अपना दाहिना हाथ उठाकर शत्रुघ्न के ऊपर झपटा, उस समय वह ऐसा लग रहा था मानो बवण्डर से उड़ाया हुआ कोई बड़ा पहाड़ चला आ रहा हो ॥ २३ ॥

कार्ष्णेन पत्रिणा शत्रुः स भिन्नहृदयः पतन् ।
आनिनाय भुवः कम्पं जहाराश्रमवासिनाम् ॥ २४ ॥

अन्वयः—सः शत्रुः कार्ष्णेन पत्रिणा भिन्नहृदयः पतन् भुवः कम्पं आनिनाय, आश्रमवासिनां कम्पं जहार ।

कार्ष्णेनेति । सः शत्रुर्वणः कार्ष्णेन वैष्णवेन पत्रिणा बाणेन । उक्तं च रामायणे—( एवमेष प्रजनितो विष्णोस्तेजोमयः शरः ) इति । 'विष्णुर्नारायणः कृष्णः' इत्यमरः । भिन्नहृदयः पतन्भुवः कम्पमानिनायानीतवान् देहभारादित्यर्थः । आश्रमवासिनां वनवासिनां कम्पं जहार । तन्नाशादकुतोभयाः बभूवुरित्यर्थः ।

भाषार्थ—तब शत्रुघ्न ने उसके ऊपर नारायणास्त्र चलाया उसके लगते ही वह राक्षस पृथ्वी पर जा गिरा उससे ऐसी धमक हुई कि पृथ्वी काँप उठी

Page 562Permalink

पञ्चदशः सर्गः ५०३

आश्रमवासियों का काँपना दूर हो गया अर्थात् नारायणास्त्र लगते ही वह पृथ्वी पर गिर कर मर गया उसके मरने से मुनि लोग निर्भय हो गये ॥ २४ ॥

वयसां पंक्तयः पेतुर्हंतस्योपरि विद्विषः । तत्प्रतिद्वन्द्विनो मूर्ध्नि दिव्याः कुसुमवृष्टयः ॥ २५ ॥

अन्वयः—हतस्य विद्विषः उपरि वयसां पङ्क्तयः पेतुः । तत्प्रतिद्वन्द्विनः मूर्ध्नि दिव्याः कुसुमवृष्टयः ( पेतुः ) ।

वयसामिति । विद्वेष्टीति विद्विट् तस्य विद्विषो राक्षसस्योपरि वयसां पक्षिणां पङ्क्तयः पेतुः । तत्प्रतिद्वन्द्विनः शत्रुघ्नस्य मूर्धिन तु दिव्याः कुसुमवृष्टयः पेतुः ।

भाषार्थ—मरे हुए उस लवणासुर के ऊपर गिद्ध आदि पक्षी टूट पड़े और उसके प्रतिद्वन्द्वी शत्रुघ्न के ऊपर स्वर्ग से दिव्य पुष्पों की वर्षा होने लगी ॥ २५ ॥

स हत्वा लवणं वीरस्तदा मेने महौजसः । भ्रातुः सोदर्यमात्मानमिन्द्रजिद्वधशोभिनः ॥ २६ ॥

अन्वयः—स वीरः लवणं हत्वा तदा आत्मानं महौजसः इन्द्रजिद्वधशोभिनः भ्रातुः सोदर्यं मेने ।

स इति । स वीरः शत्रुघ्नो लवणं हत्वा तदात्मानं महौजसो महाबलस्येन्द्रजिद्वधेन शोभिनो भ्रातुर्लक्ष्मणस्य समानोदरे शयितं सोदर्यमेकोदरं मेने । "सोदराद्यः" इति यप्रत्ययः ।

भाषार्थ—शूरवीर शत्रुघ्न ने लवणासुर को मारकर उस समय अपने को इन्द्रविजयी मेघनाद को मारने से शोभा सम्पन्न लक्ष्मण का सच्चा सहोदर भाई समझा ॥ २६ ॥

तस्य संस्तूयमानस्य चरितार्थैस्तपस्विभिः । शुशुभे विक्रमोदग्रं व्रीडयाऽवनतं शिरः ॥ २७ ॥

अन्वयः—चरितार्थैः तपस्विभिः संस्तूयमानस्य तस्य विक्रमोदग्रं व्रीडया अवनतं शिरः शुशुभे ।

तस्येति । चरितार्थैः कृतार्थैः कृतकार्यैस्तपस्विभिः संस्तूयमानस्य तस्य शत्रुघ्नस्य विक्रमेणोदग्रमुन्नतं व्रीडया लज्जयाऽवनतं नम्रं शिरः शुशुभे । विक्रान्तस्य लज्जैव भूषणमिति भावः ।

भाषार्थ—जब तपस्वियों का काम पूरा हो गया तब वे शत्रुघ्न की बड़ाई

Page 563Permalink
५०४रघुवंशमहाकाव्ये

करने लगे पर अपनी प्रशंसा सुनकर शत्रुघ्न ने शील के मारे लजा कर अपना शिर नीचे कर लिया ॥ २७ ॥

उपकूलं स कालिन्द्याः पुरीं पौरुषभूषणः ।
निर्ममे निर्ममोऽर्थेषु मथुरां मधुराकृतिः ॥ २८ ॥

अन्वयः— पौरुषभूषणः अर्थेषु निर्ममः मधुराकृतिः कालिन्द्याः उपकूलं मथुरां पुरीं निर्ममे ।

उपेति । पौरुषभूषणः अर्थेषु विषयेषु निर्ममो निस्पृहः मधुराकृतिः सौम्यरूपः स शत्रुघ्नः कालिन्द्या यमुनाया उपकूलं कूले । विभक्त्यर्थेऽव्ययीभावः । मथुरां नाम पुरीं निर्ममे निर्मितवान् ।

भाषार्थ— तब महापराक्रमी विषयों में ममता रहित और प्रियदर्शन शत्रुघ्न ने यमुना के तट पर मथुरा नाम की नगरी बसाई ॥ २८ ॥

या सौराज्यप्रकाशाभिर्बभौ पौरविभूतिभिः ।
स्वर्गाभिष्यन्दवमनं कृत्वेवोपनिवेशिता ॥ २९ ॥

अन्वयः— या सौराज्यप्रकाशाभिः पौरविभूतिभिः स्वर्गाभिष्यन्दवमनं कृत्वा उपनिवेशिता इव बभौ ।

येति । या पूः शत्रुघ्नः शोभनो राजा यस्याः पुरः सा सुराज्ञी । सुराज्ञ्या भावः सौराज्यं तेन प्रकाशाभिः प्रकाशमानाभिः पौराणां विभूतिभिरैश्वर्यैः स्वर्गस्याभिष्यन्दोऽतिरिक्तजनः तस्य वमनमाहरणं कृत्वोपनिवेशितोऽवस्थापितेव बभौ । अत्र कौटिल्यः—"भूतपूर्वमभूतपूर्वं जनपदं परदेशप्रवाहेण स्वदेशाभिष्यन्दवमनेन वा निवेशयेत्" इति ।

भाषार्थ— शत्रुघ्न को अच्छा राजा पा जाने के कारण उस मथुरापुरी के लोग प्रकाशशील नागरिक ऐश्वर्यों से ऐसे धनी और सुखी हो गए मानो स्वर्ग में जन-संख्या बढ़ जाने के कारण वहाँ के कुछ लोग यहाँ लाकर बसा दिये गये हों ॥ २९ ॥

तत्र सौधगतः पश्यन्यमुनां चक्रवाकिनीम् ।
हेमभक्तिमतीं भूमेः प्रवेणीमिव पिप्रिये ॥ ३० ॥

अन्वयः— तत्र सौधगतः ( सः ) चक्रवाकिनीं यमुनां हेमभक्तिमतीं भूमेः प्रवेणीं इव पश्यन् पिप्रिये ।

तत्रेति । तत्र मथुरायां सौधगतो हर्म्यारूढः स चक्रवाकिनीं चक्रवाकवतीं

Page 564Permalink

पञ्चदशः सर्गः
५०५

यमुनां हेमभक्तिमतीं सुवर्णरचनावतीं भूमेः प्रवेणीं वेणीमिव । 'वेणिः प्रवेणी' इत्यमरः । पश्यन्पिप्रीये । प्रीतः । 'प्रीङ् प्रीणने' इति धातोर्देवादिकाल्लट् ।

**भाषार्थ—**शत्रूघ्न ने उस मथुरा के एक ऊँचे भवन पर चढ़कर उस नीले जलवाली यमुना को देखा, जिसमें बहुत से चकवा-चकवी चहचहा रहे थे और जो पृथिवी की स्वर्णमयी रचना युक्त चोटी के समान मालूम पड़ती थी ॥ ३० ॥

सखा दशरथस्यापि जनकस्य च मन्त्रकृत् ।
संचस्कारोभयप्रीत्या मैथिलेयौ यथाविधि ॥ ३१ ॥

**अन्वयः—**दशरथस्य जनकस्य च सखा मंत्रकृत् (स वाल्मीकिः) अपि उभयप्रीत्या मैथिलेयौ यथाविधि संचस्कार ।

सखेति । दशरथस्य जनकस्य च सखा मन्त्रकृन्मन्त्रद्रष्टा स वाल्मीकिरपि । “सुकर्मपापमन्त्रपुण्येषु कृञः” इति क्विप् । उभयोर्दशरथजनकयोः प्रीत्या स्नेहेन मैथिलेयौ मैथिलीपुत्रौ यथाविधि यथाशास्त्रं संचस्कार संस्कृतवान् । जातकर्मादिभिरिति शेषः ।

**भाषार्थ—**उधर मन्त्रद्रष्टा वाल्मीकि जी ने दशरथ और जनक दोनों के मित्र होने के नाते सीता जी के पुत्रों के जातकर्म आदि सब संस्कार बड़ी विधि से किये ॥ ३१ ॥

स तौ कुशलवोन्मृष्टगर्भक्लेदौ तदाख्यया ।
कविः कुशलवावेव चकार किल नामतः ॥ ३२ ॥

**अन्वयः—**सः कविः कुशलवोन्मृष्टगर्भक्लेदौ तौ तदाख्यया नामतः कुशलवौ एव चकार किल ।

स इति । स कविर्वाल्मीकिः कुशैर्दभैर्लवैर्गोपुच्छलोमभिः ‘लवो लवणकिञ्जल्कपक्ष्मगोपुच्छलोमसु’ इति वैजयन्ती । उन्मृष्टो गर्भक्लेदो गर्भोपद्रवो ययोस्तौ कुशलवोन्मृष्टक्लेदौ मैथिलेयौ तेषां कुशानां च लवानां चाख्यया नामतो नाम्ना यथासंख्यं कुशलवावेव चकार किल । कुशोन्मृष्टः कुशः लवोन्मृष्टो लवः ।

**भाषार्थ—**उधर ज्येष्ठ लड़के लव के उत्पन्न होते समय सीताजी की प्रसव पीड़ा आश्रम सुलभ गाय की पूंछ कीं बाल से दूर की गयी थी और छोटे बालक के समय गर्भजन्य उपद्रव कुश से इसलिए वाल्मीकि जी ने दोनों बालकों का नाम उन्हीं दोनों वस्तुओं के नाम पर लव और कुश रखा ॥ ३२ ॥

साङ्गं च वेदमध्याप्य किंचिदुत्क्रान्तशैशवौ ।
स्वकृतिं गापयामास कविप्रथमपद्धतिम् ॥ ३३ ॥

Page 565Permalink
५०६रघुवंशमहाकाव्ये

अन्वयः—किञ्चिदुत्क्रान्तशैशवौ साङ्गं च वेदम् अध्याप्य कविः प्रथमपद्धति स्वकृतिं गापयामास।

साङ्गमिति। किञ्चिदुत्क्रान्तशैशवातिक्रान्तबाल्यौ तौ साङ्गं च वेदमध्याप्य कवीनां प्रथमपद्धति कविताबीजमित्यर्थः। स्वकृतिं काव्यं रामायणाख्यं गापयामास। गापयतेर्लिट्। शब्दकर्मकत्वात्। "गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ" इत्यनेन द्विकर्मकत्वम्।

भाषार्थ—उनके बचपन का समय बीत जाने पर महर्षि वाल्मीकि ने उन दोनों को वेदवेदाङ्ग पढ़ाया और फिर अपनी रचना आदि काव्य रामायण का गान सिखाया ॥ ३३ ॥


रामस्य मधुरं वृत्तं गायन्तौ मातुरग्रतः।
तद्वियोगव्यथां किंचिच्छिथिलांचक्रतुः सुतौ ॥ ३४ ॥

अन्वयः—सुतौ रामस्य वृत्तं मातुः अग्रतः मधुरं गायन्तौ तद्वियोगव्यथां किञ्चित् शिथिलीचक्रतुः।

रामस्येति। तौ सुतौ रामस्य वृत्तं मातुरग्रतो मधुरं गायन्तो तद्वियोगव्यथां रामविरहवेदना किञ्चिच्छिथिलांचक्रतुः लघूकृतवन्तौ।

भाषार्थ—उन दोनों बालकों ने अपनी माता सीता के आगे राम की मधुर कथा गा-गा कर राम के वियोग को कुछ कम कर दिया। बालकों द्वारा गाई हुई राम कथा सुन कर रामविरह से उत्पन्न सीता का दुःख कुछ दूर हो जाता था ॥ ३४ ॥


इतरेऽपि रघोर्वंश्यास्त्रयस्त्रेताग्नितेजसः।
तद्योगात्पतिवत्नीषु पत्नीष्वासन् द्विसूनवः ॥ ३५ ॥

अन्वयः—रघोः वंश्याः त्रेताग्नितेजसः इतरे त्रयः तद्योगात् पतिवत्नीषु पत्नीषु द्विसूनवः आसन्।

इतरेऽपीति। रघोर्वंश्या वंशे भवाः त्रेतेत्यग्नस्त्रेताग्नयः तथा तेज इव तेजो येषां ते त्रेताग्नितेजसः। इतरे रामादन्ये त्रयो भरतादयोऽपि यद्योगात्तेषां योगाद्भू-रतादिसम्बन्धात्पतिवत्नीषु भर्तृमतीषु जीवत्पतिकासु ख्यातिमतीष्वित्यर्थः। 'पतिवत्नी सभर्तृका' इत्यमरः। "अन्तर्वत्पतिवतोर्नुक्" इति ङीप्प्रत्ययो नुगागमश्च। पत्नीषु द्विसूनव आसन्। द्वौ द्वौ सूनू येषां ते द्विसूनव इति विग्रहः। क्वचित्संख्याशब्दस्य वृत्तिविषये वीप्सार्थत्वं सातपर्णादिवत्।

भाषार्थ—गार्हपत्य, दाक्षिणात्य और आहवनीय इन तीन अग्नियों के समान

Page 566Permalink

पञ्चदशः सर्गः ५०७

तेजस्वी भरत लक्ष्मण और शत्रुघ्न इन तीनों भाइयों ने भी अपनी-अपनी पत्नियों के साथ सम्बन्ध करके दो दो पुत्र उत्पन्न किये ॥ ३५ ॥

शत्रुघातिनि शत्रुघ्नः सुबाहौ च बहुश्रुते ।
मथुराविदिशे सून्वोर्निदधे पूर्वजोत्सुकः ॥ ३६ ॥

**अन्वयः—**पूर्वजोत्सुकः शत्रुघ्नः बहुश्रुते शत्रुघातिनि सुबाहौ च सून्वोः मथुरा विदिशे च निदधे ।

शत्रुघातिनीति । पूर्वजोत्सुको ज्येष्ठप्रिय शत्रुघ्नो बहुश्रुते शत्रुघातिनि सुबाहौ च तन्नामकयोः सून्वोर्मथुरा च विदिशा च ते नगर्यौ निदधे । निधाय गत इत्यर्थः ।

**भाषार्थ—**शत्रुघ्न अपने बड़े भाइयों से मिलने के लिए बहुत आतुर थे इसलिए उन्होंने शत्रु-संहारक अपने दो पुत्र सुबाहु और बहुश्रुत को क्रमशः मथुरा और विदिशा का राज्य सौंप दिया ॥ ३६ ॥

भूयस्तपो व्ययो मा भूद्वाल्मीकेरिति सोऽत्यगात् ।
मैथिलीतनयोद्गीतनिःस्पन्दमृगमाश्रमम् ॥ ३७ ॥

**अन्वयः—**सः मैथिली तनयोद्गीतनिःस्पन्दम् मृगं वाल्मीकेः आश्रमं भूयः तपोव्ययः माभूत् इति अत्यगात् ।

भूय इति । स शत्रुघ्नो मैथिलीतनयोः कुशलवयोरुद्गीतेन निःस्पन्दमृगं गीतप्रियतया निश्चलहरिणं वाल्मीकेराश्रमं भूयः पुनरपि तपोव्ययः सम्विधानकरणार्थं तपोहानिर्माभूदिति हेतोः अत्यगात् । अतिक्रम्य गत इत्यर्थः ।

**भाषार्थ—**लौटते समय शत्रुघ्न जी वाल्मीकि के उस तपोवन में नहीं गये जहाँ के मृग शान्त होकर लव और कुश के गीत सुना करते थे; क्योंकि शत्रुघ्न ने यह सोचा कि मेरे जाने पर वाल्मीकि जी अपनी सिद्धियों के बल से मेरे सत्कार की सामग्री जुटाने लगेंगे जिससे व्यर्थ ही उनकी तपस्या की हानि होगी ॥ ३७ ॥

वशी विवेश चायोध्यां रथ्यासंस्कारशोभिनीम् ।
लवणस्य वधात्पौरैरीक्षितोऽत्यन्तगौरवम् ॥ ३८ ॥

**अन्वयः—**वशी लवणस्य वधात् पौरैः अत्यन्तगौरवं ईक्षितः रथ्यासंस्कारशोभिनीम् अयोध्यां विवेश ।

वशीति । वशी स लवणस्य वधाद्धेतोः पौरैः पौरजनैरत्यन्तं गौरवं यस्मिन्कर्मणि तत्तथेक्षितः सन् रथ्यासंस्कारैस्तोरणादिभिः शोभते या तामयोध्यां विवेश च ।

**भाषार्थ—**यहाँ से चल कर जितेन्द्रिय शत्रुघ्न जी उस अयोध्या नगरी में

Page 567Permalink
५०८रघुवंशमहाकाव्ये

पहुँचे जहाँ की सड़कें उनके स्वागत में बड़ी सुन्दरता से सजाई गई थी, वे लव-णासुर को मार कर लौटे थे; इसलिए पुरवासी उन्हें बड़े आदर से देख रहे थे ॥ ३८ ॥

स ददर्श सभामध्ये सभासद्भिरुपस्थितम् ।
रामं सीतापरित्यागादसामान्यपतिं भुवः ॥ ३९ ॥

अन्वयः— सः सभामध्ये सभासद्भिः उपस्थितं सीतापरित्यागात् भुवः असामान्यपतिं रामं ददर्श ।

स इति । शत्रुघ्नः सभामध्ये सभासद्भिः । सभायां सीदन्ति ये तैः सभ्यैरुपस्थितं सेवितं सीतापरित्यागाद्भुवोऽसामान्यपतिमसाधारणपतिं रामं ददर्श ।

भाषार्थ— राजसभा में प्रवेश कर शत्रुघ्न ने देखा कि राम बैठे हुए हैं और बहुत से सभासद उनकी सेवा कर रहे हैं और सीता जी को छोड़ देने पर अब वे एकमात्र पृथ्वी के ही पति रह गये हैं ॥ ३९ ॥

तमभ्यनन्दत्प्रणतं लवणान्तकमग्रजः ।
कालनेमिवधात्प्रीतस्तुराषाडिव शार्ङ्गिणम् ॥ ४० ॥

अन्वयः— अग्रजः लवणान्तकं प्रणतं तं कालनेमिवधात् प्रीतः तुराषाड् शार्ङ्गिणमिव अभ्यनन्दत् ।

तमिति । अग्रजो रामो लवणस्यान्तकं हन्तारं प्रणतं तं शत्रुघ्नं कालनेमिर्नाम राक्षसः तस्य वधात्प्रीतः । तुरां वेगं सहत इति तुराषाडिन्द्रः । “छन्दसि सहः” इति ण्विः । यद्वा सहतेर्णिचि कृते साहयतेः क्विप् । ‘अन्येषामपि दृश्यते’ इति पूर्वपदस्य दीर्घः । “सहेः साडः सः” इति षत्वम् । शार्ङ्गिणमुपेन्द्रमिव अभ्यनन्दत् ।

भाषार्थ— जिस प्रकार कालनेमि के वध से प्रसन्न होकर इन्द्र ने अपने छोटे भाई विष्णु का अभिनन्दन किया था उसी प्रकार जब लवणासुर को मारने वाले शत्रुघ्न जी प्रणाम करने को झुके तब राम ने भी उनका अभिनन्दन किया ॥ ४० ॥

स पृष्टः सर्वतो वार्त्तामाख्याद्राज्ञे न संततिम् ।
प्रत्यर्पयिष्यतः काले कवेराद्यस्य शासनात् ॥ ४१ ॥

अन्वयः— सः पृष्टः ( सन् ) सर्वतः वार्तं राज्ञे आख्यत् ( किन्तु ) काले प्रत्यर्पयिष्यतः आद्यस्य कवेः शासनात् सन्ततिम् न ( आख्यत् ) ।

स इति । स शत्रुघ्नः पृष्टः सन् सर्वतो वार्तं कुशलं राज्ञे रामायाख्यदाख्यातवान् । चक्षिङो लुङ् । “चक्षिङः ख्याञ्” इति ख्याञादेशः । “अस्यतिवक्तिख्यातिभ्योऽङ्” इत्यङ् । “आतो लोप इटि च” इत्याकारलोपः । ख्यातेर्वा लुङ् । संतति

Page 568Permalink

पञ्चदशः सर्गः ५०९

कुशलवोत्पत्तिं नाख्यत् । कुतः कालेऽवसरे प्रत्यर्पयिष्यत आद्यस्य कवेर्वाल्मीकेः । शासनात् ।

भाषार्थ— राम के पूछने पर शत्रुघ्न ने और सब बातें तो कहीं, किन्तु पुत्र होने की बात नहीं कही; क्योंकि वाल्मीकि जी ने उनसे कह दिया था कि समय आने पर मैं स्वयं दोनों पुत्र राम को सौंप दूंगा, तुम न कहना ॥ ४१ ॥

अथ जानपदो विप्रः शिशुम्प्राप्तयौवनम् ।
अवतार्याङ्कशय्यास्थं द्वारि चक्रन्द भूपतेः ॥ ४२ ॥

अन्वयः— अथ जानपदः विप्रः अप्राप्तयौवनं शिशुं भूपतेः द्वारि अङ्कशय्यास्थं अवतार्य चक्रन्द ।

अथेति । अथ जनपदे भवो जानपदो विप्रः । कश्चिदिति शेषः । अप्राप्तयौवनं शिशुम् । मृतमिति शेषः । भूपते रामस्य द्वार्यङ्कशय्यास्थं यथा तथाऽवतार्याङ्कस्थत्वेनैवावरोप्य चक्रन्द चुक्रोश ।

भाषार्थ— इसके बाद एक दिन उसी राज्य का रहने वाला एक ब्राह्मण मरे हुए बालक पुत्र को राजद्वार पर गोद से उतार कर यह कहते हुए फूट-फूट कर रोने लगा ॥ ४२ ॥

शोचनीयाऽसि वसुधे ! या त्वं दशरथाच्च्युता ।
रामहस्तमनुप्राप्य कष्टात्कष्टतरं गता ॥ ४३ ॥

अन्वयः— हे वसुधे ! दशरथात् च्युता या त्वं रामहस्तम् अनुप्राप्य कष्टात् कष्टतरं गता (सती) शोचनीया असि ।

शोचनीयेति । हे वसुधे ! दशरथाच्च्युता भ्रष्टा या त्वं रामहस्तमनुप्राप्य कष्टात्कष्टतरं गता सती शोचनीयाऽसि ।

भाषार्थ— हे वसुधे ! तुम दशरथ से हीन होकर राम के हाथ में पड़कर दयनीय दशा को प्राप्त हो गई हो, इससे बढ़ कर क्या कष्ट हो सकता है ॥ ४३ ॥

श्रुत्वा तस्य शुचो हेतुं गोप्ता जिहाय राघवः ।
न ह्यकालभवो मृत्युरिक्ष्वाकुपदमस्पृशत् ॥ ४४ ॥

अन्वयः— गोप्ता राघवः तस्य शुचः हेतुं श्रुत्वा जिह्राय । हि अकालभवः मृत्युः इक्ष्वाकुपदं न अस्पृशत् ।

श्रुत्वेति । गोप्ता रक्षको राघवस्तस्य विप्रस्य शुचः शोकस्य हेतुं पुत्रमरणरूपं श्रुत्वा जिह्राय लज्जितः । कुतः ? हि यस्मादकालभवः अप्रस्तावोत्पन्नः मृत्युरिक्ष्वाकूणां पदं राष्ट्रं नास्पृशत् । वृद्धे जीवति यवीयान्न म्रियत इत्यर्थः ।

Page 569Permalink

५१० रघुवंशमहाकाव्ये

भाषार्थ— प्रजापालक राम ने जब उसके शोक की बात सुनी, तब उन्हें बड़ी लज्जा आई, क्योंकि इक्ष्वाकुवंशी राजाओं के राज्य में किसी की अकाल मृत्यु नहीं होती थी। अर्थात् पिता के सामने पुत्र की या वृद्ध के सामने युवक की मृत्यु नहीं होती थी ॥ ४४ ॥

स मुहूर्तं क्षमस्वेति द्विजमाश्वास्य दुःखितम् ।
यानं सस्मार कौबेरं वैवस्वतजिगीषया ॥ ४५ ॥

अन्वयः— स दुःखितं द्विजं मुहूर्तं क्षमस्व इति आश्वास्य वैवस्वतजिगीषया कौबेरं यानं सस्मार।

स इति। स रामो दुःखितं द्विजं मुहूर्तं क्षमस्वेत्याश्वास्य वैवस्वतस्यान्त-कस्यापि जिगोषया जेतुमिच्छया कौबेरं यानं पुष्पकं सस्मार ।

भाषार्थ— राम ने उस दुःखी ब्राह्मण को यह कह कर आश्वासन दिया कि आप क्षमा करें और थोड़ी देर तक ठहरिये। मैं अभी आपके शोक को दूर करता हूँ। यह कह कर यमराज को जीतने की इच्छा से उन्होंने पुष्पक विमान को स्मरण किया ॥ ४५ ॥

आत्तशस्त्रस्तदध्यास्य प्रस्थितः स रघूद्वहः ।
उच्चचार पुरस्तस्य गूढरूपा सरस्वती ॥ ४६ ॥

अन्वयः— स रघूद्वहः आत्तशस्त्रः तत् अध्यास्य प्रस्थितः । तस्य पुरः गूढरूपा सरस्वती उच्चचार ।

आत्तेति। स रघूद्वहो राम आत्तशास्त्रः सन् तत्पुष्पकमध्यास्य प्रस्थितः । अथ अस्य पुरो गूढरूपा सरस्वत्यशरीरा वागुच्चचारोद्बभूव ।

भाषार्थ— जब राम अस्त्र-शस्त्र लेकर पुष्पक विमान पर बैठकर चलने लगे तब उनके सामने आकाश वाणी हुई ॥ ४६ ॥

राजन् प्रजासु ते कश्चिदपचारः प्रवर्तते ।
तमन्विष्य प्रशमयेर्भवितासि ततः कृती ॥ ४७ ॥

अन्वयः— हे राजन् ! ते प्रजासु कश्चित् अपचारः प्रवर्तते तं अन्विष्य प्रशमयेः ततः कृतीः भवितासि ।

राजेति। हे राजन् ! ते प्रजासु कश्चिदपचारो वर्णधर्मव्यतिकरः प्रवर्तते । तमपचारमन्विष्य प्रशमयेः । ततः कृती कृतकृत्यो भवितासि भविष्यसि ।

भाषार्थ— हे राजन् ! आपकी प्रजाओं में कुछ वर्णाश्रमधर्म के प्रतिकूल

Page 570Permalink

पञ्चदशः सर्गः ५११

व्यवहार हो रहा है उसका पता लगाकर दूर कीजिए ! तभी आपका उद्देश्य सफल होगा ॥ ४७ ॥

इत्याप्तवचनाद्रामो विनेष्यन् वर्णविक्रियाम् ।
दिशः पपात पत्रेण वेगनिष्कम्पकेतुना ॥ ४८ ॥

**अन्वयः—**इति आप्तवचनात् वर्णविक्रियां विनेष्यन् वेगनिष्कम्पकेतुना पत्रेण दिशः पपात ।

इतीति । इत्याप्तवचनाद्रामो वर्णविक्रियां वर्णापचारं विनेष्यन्नपनेष्यन्वेगेन निष्कम्पहेतुना पत्रेण वाहनेन पुष्पकेण । 'पत्र वाहनपक्षयोः' इत्यमरः । दिशः पपात धावति स्म ।

**भाषार्थ—**इस विश्वास योग्य वचन को सुनकर वेग से चलने के कारण कम्पन रहित पताका वाले पुष्पक विमान पर चढ़कर राम यह देखने के लिए दिशाओं में घूमने लगे कि कहाँ वर्णाश्रमधर्म के प्रतिकूल व्यवहार हो रहा है ॥४८॥

अथ धूमाभिताम्राक्षं वृक्षशाखावलम्बिनम् ।
ददर्श कञ्चिदैक्ष्वाकस्तपस्यन्तमधोमुखम् ॥ ४९ ॥

**अन्वयः—**अथ ऐक्ष्वाकः धूमाभिताम्राक्षं वृक्षशाखावलम्बिनम् अधोमुखं तपस्यन्तं कञ्चित् ददर्श ।

अथेति । अथैक्ष्वाकुवंशप्रभव ऐक्ष्वाको रामः “कोपधादण्” इत्यणि कृते “दाण्डिनायन” इत्यादिनाकारलोपनिपातः । धूमेन पीयमानेनाभिताम्राक्षं वृक्षशाखावलम्बिनमधोमुखं तपस्यन्तं तपश्चरन्तं कञ्चित्पुरुषं ददर्श ।

**भाषार्थ—**घूमते-घूमते राम ने क्या देखा कि एक वृक्ष की शाखा पर उलटा लटका हुआ एक मनुष्य नीचे जलती हुई अग्नि के धूआँ को पी-पीकर तप कर रहा है और धूआँ लगने से उसकी आँखें लाल हो गई हैं ॥ ४९ ॥

पृष्टनामान्वयो राज्ञा स किलाचष्ट धूमपः ।
आत्मानं शम्बुक नाम शूद्रं सुरपदार्थिनम् ॥ ५० ॥

**अन्वयः—**राज्ञा पृष्टनामान्वयः धूमपः सः आत्मानं सुरपदार्थिनं शम्बूकं नाम शूद्रं आचष्ट किल ।

पृष्टेति । राज्ञा नाम चान्वयश्च तौ पृष्टौ नामान्वयौ यस्य स तथोक्तः धूमं पिबतीति धूमपः । “सुपि” इति योगविभागात्कप्रत्ययः । स पुरुष आत्मानं सुरपदार्थिनं स्वर्गार्थिनम् । अनेन प्रयोजनमपि पृष्टमिति ज्ञेयम् शम्बुकं नाम शूद्रमाचष्ट बभाषे किल ।

Page 571Permalink

५१२ रघुवंशमहाकाव्ये

भाषार्थ— राम ने उससे पूछा—आप किस वंश में उत्पन्न हुए हैं और आपका क्या नाम है ? तब वह तपस्वी बोला—मैं स्वर्ग पाने के लिए तप कर रहा हूँ मेरा नाम शम्बूक है और मैं शूद्र हूँ ॥ ५० ॥

तपस्यनधिकारित्वात्प्रजानां तमघावहम् । शीर्षच्छेद्यं परिच्छिद्य नियन्ता शस्त्रमाददे ॥ ५१ ॥

अन्वयः— तपसि अनधिकारित्वात् प्रजानां अघावहं तं शूद्रं शीर्षच्छेद्यं परिच्छिद्य नियन्ता शस्त्रं आददे ।

तपसीति । तपस्यनधिकारित्वात्प्रजानामघावहं दुःखावहं तं शूद्रं शीर्षच्छेद्यम् । "शीर्षच्छेदाद्यच्च" इति यत्प्रत्ययः । परिच्छिद्य निश्चित्य नियन्ता रक्षको रामः शस्त्रमाददे जग्राह ।

भाषार्थ— शूद्रों को तपस्या करने का अधिकार नहीं है। इसी अनधिकृत कार्य से प्रजा में पाप फैलता है। इसलिए राम ने निश्चय कर लिया कि इसका वध करना ही होगा उन्होंने हाथ में अस्त्र उठा लिया ॥ ५१ ॥

स तद्वक्त्रं हिमक्लिष्टकिञ्जल्कमिव पङ्कजम् । ज्योतिष्कणाहतश्मश्रु कण्ठनालादपातयत् ॥ ५२ ॥

अन्वयः— स ज्योतिष्कणाहतश्मश्रु तद्वक्त्रं हिमक्लिष्टकिञ्जल्कं पङ्कजम् इव कण्ठनालात् अपातयत् ।

स इति । स रामो ज्योतिष्कणैः स्फुलिङ्गैः रहितानि दग्धानि श्मश्रूणि यस्य तत्तस्य वक्त्रं हिमक्लिष्टकिञ्जल्कं पङ्कजमिव कण्ठ एव नालं तस्मादपातयत् ।

भाषार्थ— और रामने शम्बूक का शिर उसी प्रकार काट कर गले से अलग कर दिया, जिस प्रकार कमल डण्ठल से उतार कर पृथक् कर दिया गया हो, आग की चिनगारियों से झुलसी हुई दाढ़ी वाला उसका शिर ऐसा लगा था जैसे पाला से जला केशर वाला कमलनाल हो ॥ ५२ ॥

कृतदण्डः स्वयं राज्ञा लेभे शूद्रः सतां गतिम् । तपसा दुश्चरेणापि न स्वमार्गविलङ्घिना ॥ ५३ ॥

अन्वयः— शूद्रः राज्ञा स्वयं कृतदण्डः ( सन् ) सतां गतिं लेभे । दुश्चरेण अपि स्वमार्गविलङ्घिना तपसा न ( लेभे ) ।

कृतेति । शूद्रः शम्बुको राज्ञा स्वयं कृतदण्डः कृतशिक्षः सन् सतां गतिं लेभे । दुश्चरेणापि स्वमार्गविलङ्घिना अनधिकारदुष्टेनेत्यर्थः । तपसा न लेभे । अत्र मनुः