भारतकोश
संग्रह पर लौटें

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

षष्ठोऽनुवाकः १३३-१४४ पञ्चमः प्रपाठकः.... २१९-२६८

viii तैत्तिरीयब्राह्मणम् विषयाः पृष्ठम् विषयाः पृष्ठम् षष्ठोऽनुवाकः १३३-१४४ पञ्चमः प्रपाठकः.... २१९-२६८ वाजपेयमन्त्रब्राह्मणम् नक्षत्रेष्टकामन्त्राणामभिधानम् सप्तमोऽनुवाकः १४४-१५१ प्रथमोऽनुवाकः २१९-२२५ वाजपेयमन्त्रब्राह्मणम् क्वचिद्विकृतिरूपचयनोपयोगि- अष्टमोऽनुवाकः १५२-१५७ मन्त्राश्च वाजपेयमन्त्रब्राह्मणम् द्वितीयोऽनुवाकः २२५-२३० नवमोऽनुवाकः १५७-१६० कर्मानुष्ठानाय पुण्यकालनि- वाजपेयमन्त्रब्राह्मणम् रूपणम् दशमोऽनुवाकः १६०-१६८ तृतीयोऽनुवाकः २३०-२३३ पिण्डपितृयज्ञः प्रातःसंगवादिदिवसविभागोप- चतुर्थप्रपाठकः...१६८-२१९ जीवनेन शुभकालनिरूपणम् सोमादिब्राह्मणानुक्तस्याभिधानम् चतुर्थोऽनुवाकः २३३-२३५ प्रथमोऽनुवाकः १६८-१७२ सोमविषये विशेषाभिधानम् सोमग्रहाभिधानम् पञ्चमोऽनुवाकः २३५-२३९ द्वितीयोऽनुवाकः १७२-१७६ चातुर्मास्यशेषभूतवपनमन्त्राभिधानम् सौत्रामणिशेषमन्त्रकथनम्, षष्ठोऽनुवाकः २३९-२४३ सोमशेषविधिश्च चतुर्मास्ययाजिनां वपनविधिः तृतीयोऽनुवाकः १७६-१८० सप्तमोऽनुवाकः २४३-२४४ दाहविषयं प्रायश्चित्तम् अग्निचयनशेषभूतसंतत्याख्येष्ट- चतुर्थोऽनुवाकः १८०-१८६ कोपधानमन्त्राः वह्निविषयप्रायश्चित्तम् अष्टमोऽनुवाकः २४४-२४७ पञ्चमोऽनुवाकः १८६-१९० अथर्वशिरोभिधानेष्टकामन्त्राः सोमविषयप्रायश्चित्त विधिः नवमोऽनुवाकः २४७-२५५ षष्ठोऽनुवाकः १९०-१९६ सोमशेषभूतेष्टिविधिः एकग्रामवर्तिबहुसोमयागविषय- दशमोऽनुवाकः २५५-२६० विशेषाभिधानम् त्रिवृदादिसांमरूपाणां सप्तमोऽनुवाकः १९६-२०४ सामाङ्गानां कथनम् यूपविराहणादिप्रायश्चित्तानि एकादशोऽनुवाकः २६०-२६२ अष्टमोऽनुवाकः २०४-२०९ सवनीयपुरोडाशाभिधानम् शुद्धिहेतवः प्रकृतौ विनियोक्तव्या द्वादशोऽनुवाकः २६३-२६८ यजमानेन जपनीया मन्त्राः सप्तानां छन्दसां प्रशंसा नवमोऽनुवाकः २०९-२१२ षष्ठः प्रपाठकः... २६८-२८५ राजसूयगतचातुर्मास्यशेषाभिधानम् राजसूययज्ञस्यानुब्राह्मणम् दशमोऽनुवाकः २१२-२१९ प्रथमोऽनुवाकः २६८-२७० चातुर्मास्यविशेषविधिः, तत्प्रशंसा अनुमत्यादीष्टयः च

द्वितीयोऽनुवाकः २७०-२७२ अष्टमोऽनुवाकः २९६-२९८

तैत्तिरीयब्राह्मणम् ix विषयाः पृष्ठम् विषयाः पृष्ठम् द्वितीयोऽनुवाकः २७०-२७२ अष्टमोऽनुवाकः २९६-२९८ वैश्वदेवहविषां प्रशंसा अभिषेकविधिः तृतीयोऽनुवाकः २७२-२७४ नवमोऽनुवाकः २९८-२९९ वैश्वदेवहविरङ्गविधिः रथारोहणेन विजयविधिः चतुर्थोऽनुवाकः २७४-२७५ दशमोऽनुवाकः २९९-३०१ वरुणप्रघासविधिः विजयादूर्ध्वमासनोपविष्टस्य पञ्चमोऽनुवाकः २७६-२७७ यजमानस्य सर्वैः सेव्यत्ववर्णनम् पूर्वानुवाकोक्तशेषविधिः अष्टमः प्रपाठकः ... ३०१-३११ षष्ठोऽनुवाकः २७७-२७८ साकमेधविधिः राजसूयानुब्राह्मणम् प्रथमोऽनुवाकः ३०१-३०२ सप्तमोऽनुवाकः २७८-२८० संसृपां हविर्विधिः साकमेधपर्वशेषः द्वितीयोऽनुवाकः ३०२-३०३ अष्टमोऽनुवाकः २८०-२८२ दशपेयविधिः पितृयज्ञविधिः तृतीयोऽनुवाकः ३०३-३०४ नवमोऽनुवाकः २८२-२८४ दिशामवेष्टयः, पशुद्वययुक्तकर्म- पितृयज्ञशेषविधिः विधिः, सात्यदूतहविषां दशमोऽनुवाकः २८४-२८५ विधिः त्र्यम्बकहविषां विधिः चतुर्थोऽनुवाकः ३०४-३०५ सप्तमः प्रपाठकः...२८५-२०१ प्रयुजां हविर्विधिः राजसूयानुब्राह्मणम् पञ्चमोऽनुवाकः ३०५-३०६ प्रथमोऽनुवाकः २८५-२८७ सौत्रामणियागविधिः शुनासीरीयेन्द्रतुर्यहविर्विधिः, षष्ठोऽनुवाकः ३०६-३०८ पञ्चेद्धमीययागः, अपामार्गहोमाः सौत्रामणिविधिः द्वितीयोऽनुवाकः २८७-२८९ सप्तमोऽनुवाकः ३०८ देविकाहवींषि आग्नावैष्ण- पवित्राहविधिः वाग्नीषोमीयसोमापौष्णह- अष्टमोऽनुवाकः ३०८-३०९ विर्निर्वपविधिः साममन्त्रयोर्विशेषाभिधानम् तृतीयोऽनुवाकः २८९-२९१ नवमोऽनुवाकः ३१० रत्निनां हविर्विधिः अभिषेकगतविशेषाभिधानम् चतुर्थोऽनुवाकः २९१-२९२ दशमोऽनुवाकः ३१०-३११ देवसुवां हविर्विधिः पञ्चमोऽनुवाकः २९२-२९३ द्वितीयं काण्डम् ३१३-७७७ जलग्रहणजलाहरण विधिः प्रथमः प्रपाठकः...३१३-३५२ षष्ठोऽनुवाकः २९३-२९४ जलसंस्कारः अग्निहोत्रविधिः सप्तमोऽनुवाकः २९५-२९६ प्रथमोऽनुवाकः ३१३-३१५ दिग्विजयध्यानम् अग्निहोत्रोपोद्घातः

द्वितीयोऽनुवाकः ३१५-३२२ इत्यादिदक्षिणाप्रतिग्रहमन्त्रानु-

x तैत्तिरीयब्राह्मणम् विषयाः पृष्ठम् विषयाः पृष्ठम् द्वितीयोऽनुवाकः ३१५-३२२ इत्यादिदक्षिणाप्रतिग्रहमन्त्रानु- अग्निहोत्रनिरूपणम् वाकव्याख्यानम् तृतीयोऽनुवाकः ३२२-३२८ षष्ठोऽनुवाकः ३७६-३७९ अधिश्रयणादिहविः संस्काराः द्वादशाहर्भागगतदशरात्रस्य चतुर्थोऽनुवाकः ३२८-३३४ दशमेऽहनि होतृमन्त्रविधिः उपयुक्तहविः संस्काराः सप्तमोऽनुवाकः ३७९-३८१ पञ्चमोऽनुवाकः ३३४-३४१ काम्यफलसाधनत्वेन सप्तहो अवशिष्टकाम्यद्रव्याङ्गविधिः तृमन्त्रप्रशंसा षष्ठोऽनुवाकः ३४१-३४४ अष्टमोऽनुवाकः ३८१-३८५ अभ्युद्रवणस्य होमाभावप्रती होतृमन्त्राणां सोमयागाङ्गत्वा- कारस्य चाभिधानम् विधानम् सप्तमोऽनुवाकः ३४४ नवमोऽनुवाकः ३८५-३९१ अष्टमोऽनुवाकः ३४५-३४६ होतृमन्त्रोत्पत्तिकथनप्रसङ्गेन दोहनप्रकाराभिधानम् जगत्सृष्टेरभिधानम् नवमोऽनुवाकः ३४७-३४८ दशमोऽनुवाकः ३९२-३९६ अग्निहोत्रमन्त्राभिधानम् देवसृष्टिमध्येऽवस्थितैन्द्रस्य दशमोऽनुवाकः ३४८-३५० देवत्वाधिपत्ववर्णनमाख्यायिकया वह्नेरवस्थाविशेषानुसारेण एकादशोऽनुवाकः ३९६-४०० होमविधिः होतृमन्त्राणां पुरुषार्थाः प्रयोगाः एकादशोऽनुवाकः ३५१-३५२ तृतीयः प्रपाठकः ४००-४३२ सायंप्रातःकालभेदेन पूर्वोक्तशेषाभिधानम् समन्त्रकपरिषेचनविधिः प्रथमोऽनुवाकः ४००-४०३ द्वितीयः प्रपाठकः ... ३५२-४०० सर्वहोतृमन्त्राणां चतुर्होतृशब्देन आरण्यकाण्डगतमन्त्रब्राह्मणम् व्यवहारोपपादनम् प्रथमोऽनुवाकः ३५२-३५८ द्वितीयोऽनुवाकः ४०३-४०६ चित्तिः स्रुगित्यादेर्दशहोत्रा- होतृमन्त्रेण नैमित्तिकयागविधिः ख्यमन्त्रस्य विधानम् तृतीयोऽनुवाकः ४०७-४०८ द्वितीयोऽनुवाकः ३५८-३६४ चतुर्थोऽनुवाकः ४०८-४१० चतुर्होत्रादिमन्त्राणां कृत्वर्थप्रयोगः प्रतिग्रहमन्त्रेषु तृतीयोऽनुवाकः ३६४-३६७ तत्तन्मन्त्राविज्ञानाभिधानम् चतुर्होतृपञ्चहोतृमन्त्रस्थग्रहभागायोः पञ्चमोऽनुवाकः ४१०-४१४ पुरुषार्थप्रयोगविधिः द्वादशाहगतदशरात्रदशमेऽहनि चतुर्थोऽनुवाकः ३६७-३७२ अध्वर्युप्रभृतिप्रष्टॄणां जगत्सृष्टिकथनमुखेन होतृम- गृहपतिरूपप्रवक्तुश्च प्रश्नोत- न्त्रप्रशंसा राभिधानम् पञ्चमोऽनुवाकः ३७२-३७६ षष्ठोऽनुवाकः ४१४-४१७ देवस्य त्वा सवितुः प्रसव होतृमन्त्रप्रशंसार्थं कर्मविशेषेष्व्-

सप्तमोऽनुवाकः ४१७-४२० उपहोमशेषाभिधानम्

तैत्तिरीयब्राह्मणम् xi विषयाः पृष्ठम् विषयाः पृष्ठम् त्विग्विशेषनिर्णयाभिधानम् द्वितीयोऽनुवाकः ५०९-५१३ सप्तमोऽनुवाकः ४१७-४२० उपहोमशेषाभिधानम् सर्वक्रतुसद्भावसंपादनेना- तृतीयोऽनुवाकः ५१३-५१६ ग्निहोत्रप्रशंसा उपहोमशेषाभिधानम् अष्टमोऽनुवाकः ४२०-४२२ चतुर्थोऽनुवाकः ५१६-५२२ होतृमन्त्रसामर्थ्यप्रशंसा उपहोमशेषाभिधानम् नवमोऽनुवाकः ४२२-४२८ पञ्चमोऽनुवाकः ५२२-५२९ वायुरूपत्वज्ञानेन होतृमन्त्रप्र- उपहोमशेषाभिधानम् शंसा षष्ठोऽनुवाकः ५२९-५३४ दशमोऽनुवाकः ४२८-४२९ उपहोमशेषाभिधानम् होतृमन्त्राणां काम्यप्रयोगविधिः सप्तमोऽनुवाकः ५३४-५३९ एकादशोऽनुवाकः ४३०-४३२ उपहोमशेषाभिधानम् दशहोत्रादिनामप्रवृत्तिनिमि- अष्टमोऽनुवाकः ५३९-५५० त्ताभिधानम् उपहोमशेषः चतुर्थः प्रपाठकः...४३३-५०४ षष्ठः प्रपाठकः...५५१-६३२ उपहोमानां पूर्वभागाभिधानम् सौत्रामणेः कौकिल्या अभिधानम् प्रथमोऽनुवाकः ४३३-४४३ प्रथमोऽनुवाकः ५५१-५५६ उपहोममन्त्राः सौत्रामणेः कौकिल्या ग्रहाभिधानम् द्वितीयोऽनुवाकः ४४३-४४९ द्वितीयोऽनुवाकः ५५६-५५९ उपहोममन्त्राः ग्रहोपस्थानम् तृतीयोऽनुवाकः ४४९-४६३ तृतीयोऽनुवाकः ५५९-५६४ उपहोममन्त्राः ग्रहहोमः चतुर्थोऽनुवाकः ४६३-४७० चतुर्थोऽनुवाकः ५६४-५७१ उपहोममन्त्राः उपहोमाभिधानम् पञ्चमोऽनुवाकः ४७०-४७७ पञ्चमोऽनुवाकः ५७१-५७६ उपहोममन्त्राः अभिषेकाभिधानम् षष्ठोऽनुवाकः ४७७-४८८ षष्ठोऽनुवाक ५७६-५८० उपहोममन्त्राः अवभृथाभिधानम् सप्तमोऽनुवाकः ४८९-४९८ सप्तमोऽनुवाकः ५८०-५८४ उपहोमशेषाभिधानम् होतारमुद्दिश्य मैत्रावरुणेन अष्टमोऽनुवाकः ४९८-५०४ पठनीया एकादश प्रयाजप्रैषाः आग्रयणसूक्तम् अष्टमोऽनुवाकः ५८४-५८९ पञ्चमः प्रपाठकः...५०५-५५० प्रयाजानां पुरोरुचामभिधानम् उपहोमशेषाभिधानम् नवमोऽनुवाकः ५८९-५९० प्रथमोऽनुवाकः ५०५-५०८ ऐन्द्रस्य पशोर्वपापुरोडाशहविषां उपहोमशेषाभिधानम् याज्यानुवाक्ययोः क्रमेण कथनम्

xii तैत्तिरीयब्राह्मणम् विषया: पृष्ठम् विषया: पृष्ठम् दशमोऽनुवाक: ५९०-५९५ प्रथमोऽनुवाक: ६३२-६३५ अनूयाजानामेकादश बृहस्पतिसवाभिधानम् मैत्रावरुणप्रैषा: द्वितीयोऽनुवाक: ६३५-६३७ एकादशोऽनुवाक: ५९६-६०३ वैश्यसवाभिधानम् कौकिल्या: प्रकृतिभूत- तृतीयोऽनुवाक: ६३७-६४० सौत्रामण्याम् “आश्विनं ब्राह्मणसवाभिधानम् धूम्रमालभेत सारस्वतं चतुर्थोऽनुवाक: ६४०-६४२ मेषमैन्द्रमृषभम्” इति विहित- सोमसवाभिधानम् पशुत्रये पञ्चमोऽनुवाक: ६४२-६४३ प्रयाजार्थमैत्रावरुणप्रैषाभिधानम् पृथिसवाभिधानम् द्वादशोऽनुवाक: ६०३-६०६ षष्ठोऽनुवाक: ६४३-६४६ प्रयाजयाज्या आप्रीसंज्ञका: गोसवाभिधानम् त्रयोदशोऽनुवाक: ६०६-६०९ गोसवस्वरूपकथनम् वपापुरोडाशहविषां सप्तमोऽनुवाक: ६४६-६५१ याज्यानुवाक्याभिधानम् ओदनसवस्य होमादिमन्त्रा: चतुर्दशोऽनुवाक: ६०९-६१३ अष्टमोऽनुवाक: ६५१-६५३ अनूयाजानां मैत्रावरुण ओदनसवगतरथारोहणमन्त्रा: प्रैषाभिधानम् नवमोऽनुवाक: ६५३-६५६ पञ्चदशोऽनुवाक: ६१३-६१५ ओदनसवाभिधानम् सूक्तवाकप्रैषाभिधानम् दशमोऽनुवाक: ६५६-६५८ षोडशोऽनुवाक: ६१५-६१८ पञ्चशारदीयविध्यभिधानम् पितृयज्ञविषयमन्त्राभिधानम् एकादशोऽनुवाक: ६५८-६६१ सप्तदशोऽनुवाक: ६१८-६२३ पञ्चशारदीयपशुविधिकथनम् “इन्द्राय वयाधसं पशुमालभेत” द्वादशोऽनुवाक: ६६१-६६७ इति सूत्रकारोदाहृतपश्वन्तरविषये अग्निष्टोदाख्यक्रतौ ग्रहाणां प्रयाजार्था मैत्रावरुणप्रैषा: ग्रहकाले पुरोरुचामभिधानम् अष्टादशोऽनुवाक: ६२३-६२६ त्रयोदशोऽनुवाक: ६६८-६७२ आप्रिनामकप्रयाजयाज्या- इन्द्रस्तुत्यागे ग्रहाणां नामभिधानम् पुरोरुचामभिधानम् एकोनविंशोऽनुवाक: ६२६-६२७ चतुर्दशोऽनुवाक: ६७२-६७४ वपापुरोडाशहविषां अप्तोर्यामविधेरभिधानम् याज्यानुवाक्या: पञ्चदशोऽनुवाक: ६७४-६७९ विंशोऽनुवाक: ६२७-६३२ यज्ञसंयुक्तालौकिकराजाभिषेका- वपापुरोडाशहविषामनूयाजानां भिधानम् मैत्रावरुणप्रैषा: षोडशोऽनुवाक: ६७९-६९१ सप्तम: प्रपाठक:... ६३२-६९२ पूर्वोक्ताभिषेकाङ्गत्वेन सवनाम्नामेकाहविशेषाणामभिधानम् रथारोहणाभिधानम्

प्रथमोऽनुवाकः ६९२-६९९ षष्ठोऽनुवाकः ८१६-८२१

तैत्तिरीयब्राह्मणम् xiii विषयाः पृष्ठम् विषयाः पृष्ठम् सप्तदशोऽनुवाकः ६८४-६८७ तृतीयोऽनुवाकः ७९८-८०२ राजाभिषेकाङ्गवपनाभिधानम् चान्द्रमसादीष्टीनां याज्यानु- अष्टादशोऽनुवाकः ६८७-६९२ वाक्याः विघ्नाख्यैकाहविशेषाभिधानम् चतुर्थोऽनुवाकः ८०२-८१० अष्टमः प्रपाठकः... ६९२-७७७ देवनक्षत्रेष्टीनां विधयः काम्यपशूनां याज्यानुवाक्याः पञ्चमोऽनुवाकः ८१०-८१६ यमनक्षत्रेष्टिविधयः प्रथमोऽनुवाकः ६९२-६९९ षष्ठोऽनुवाकः ८१६-८२१ वायव्यादिपशुसूक्ताभिधानम् चन्द्रमःप्रभृतीष्टिविधयः द्वितीयोऽनुवाकः ६९९-७०७ वशादिपशुसूक्तानि द्वितीयः प्रपाठकः...८२२-८४२ तृतीयोऽनुवाकः ७०७-७१५ दर्शपूर्णमासेष्टिविधिः सौम्यादिपशुसूक्तानामभिधानम् चतुर्थोऽनुवाकः ७१५-७२३ प्रथमोऽनुवाकः ८२२-८२३ अभिमातिषाहेन्द्रादिपशुसूक्ता- वत्सापाकरणविधिः भिधानम् द्वितीयोऽनुवाकः ८२३-८२५ पञ्चमोऽनुवाकः ७२३-७३३ बर्हिःसंन्नधिविधिः ऐन्द्राग्नपश्वादिसूक्ताभिधानम् तृतीयोऽनुवाकः ८२५-८२८ षष्ठोऽनुवाकः ७३३-७४२ दोहनसंबन्धिविधिः सावित्रादिपशुसूक्तानामभिधानम् चतुर्थोऽनुवाकः ८२८-८३० सप्तमोऽनुवाकः ७४२-७५२ निर्वापविधिः सौर्यादिपशुसूक्तानामभिधानम् पञ्चमोऽनुवाकः ८३०-८३२ कण्डनविधिः अष्टमोऽनुवाकः ७५३-७६६ षष्ठोऽनुवाकः ८३२-८३३ वेहदादिपशूनां सूक्ताभिधानम् पेषणविधिः नवमोऽनुवाकः ७६६-७७७ सप्तमोऽनुवाकः ८३४-८३५ शुक्लकृष्णपश्वादीनां सूक्ताभिधानम् कपालसंबन्धिविधिः तृतीयं काण्डम् ७७९-१२९३ अष्टमोऽनुवाकः ८३५-८३८ पुरोडाशसंबन्धिविधिः प्रथमः प्रपाठकः... ७७९-८२१ नवमोऽनुवाकः ८३८-८४१ नक्षत्रेष्टियाज्यानुवाक्या वेदिकासंबन्धिविधिः नक्षत्रेष्टिविधयश्च दशमोऽनुवाकः ८४१-८४२ इध्माबर्हिःसादनविधिः प्रथमोऽनुवाकः ७७९-७८९ तृतीयः प्रपाठकः ...८४२-८६१ देवनक्षत्रेष्टीनां याज्यापुरोनुवाक्याः दर्शपूर्णमासेष्टिविधिः द्वितीयोऽनुवाकः ७८९-७९८ प्रथमोऽनुवाकः ८४२-८४३ यमनक्षत्राणामिष्टिसु याज्या स्रुक्संमार्जनसंबन्धिविधिः पुरोनुवाक्याः

द्वितीयोऽनुवाकः ८४३-८४५ षष्ठोऽनुवाकः ८६६-८६७

xiv तैत्तिरीयब्राह्मणम् विषयाः पृष्ठम् विषयाः पृष्ठम् द्वितीयोऽनुवाकः ८४३-८४५ षष्ठोऽनुवाकः ८६६-८६७ मार्जनार्थदर्भाणामग्नौ कुब्जादिप्रश्नविवाकान्तपशूनां प्रक्षेपणविधिः तत्तद्देवताभिः सह विधिः तृतीयोऽनुवाकः ८४५-८४६ सप्तमोऽनुवाकः ८६७-८६८ पत्नीसंहननविधिः स्तेनहृदयादिरजयित्र्यन्तपशूनां चतुर्थोऽनुवाकः ८४६-८४७ तत्तद्देवताभिः सहविधिः आज्योत्पवनविधिः अष्टमोऽनुवाकः ८६८-८६९ पञ्चमोऽनुवाकः ८४८-८४९ दार्वाहारादिपरिवेष्टृन्तपशूनां स्रुक्स्वाज्यस्य ग्रहणसंबन्धिविधिः तत्तद्देवताभिः सह विधिः षष्ठोऽनुवाकः ८४९-८५१ नवमोऽनुवाकः ८६९-८७० स्रुक्सादनसंबन्धिविधिः हस्तिपाद्यनुक्षत्तृन्तपशूनां सप्तमोऽनुवाकः ८५१-८५४ तत्तद्देवताभिः सह विधिः पौरोडाशविधिः दशमोऽनुवाकः ८७० अष्टमोऽनुवाकः ८५४-८५६ अयस्तापाद्यस्वन्तपशूनां इभक्षणादिकम् तत्तद्देवताभिः सह विधिः नवमोऽनुवाकः ८५६-८५९ एकादशोऽनुवाकः ८७०-८७१ प्रस्तरप्रहरणादि यमस्वादिदावापान्तपशूनां दशमोऽनुवाकः ८५९-८६० तत्तद्देवताभिः सह विधिः पत्नीयोक्त्रविमोचनम् द्वादशोऽनुवाकः ८७१-८७२ एकादशोऽनुवाकः ८६०-८६१ धैवरादिकिंपूरुषान्तपशूनां उपवेषप्रहरणविधिः तत्तद्देवताभिः सह विधिः चतुर्थः प्रपाठकः... ८६१-८८९ त्रयोदशोऽनुवाकः ८७२-८७३ मनुष्यपशूनां विधिः ऋतुलादिचर्म्मणान्तपशूनां प्रथमोऽनुवाकः ८६१-८६३ तत्तद्देवताभिः सह विधिः मनुष्यपशुविधिः चतुर्दशोऽनुवाकः ८७३-८७४ द्वितीयोऽनुवाकः ८६३-८६४ पौल्कसादिप्रच्छिदान्तपशूनां सूतादितक्षान्तपशूनां तत्तद्देवताभिः विधिः सह विधानम् पञ्चदशोऽनुवाकः ८७४-८८९ तृतीयोऽनुवाकः ८६४-८७८ पुंश्चल्वादितलवान्तपशूनां कौलालादिश्वनितान्तपशूनां तत्तद्देवताभिः सह विधिः तत्तद्देवताभिः सह विधिः षोडशोऽनुवाकः ८७४-८७५ चतुर्थोऽनुवाकः ८६५ कितवादिगोविकर्तनकर्त्तृन्त- जाराद्यनूरुधान्तपशूनां मनुष्यपशूनां तत्तद्देवताभिः सह तत्तद्देवताभिः सह विधिः विधिः पञ्चमोऽनुवाकः ८६५-८६६ सप्तदशोऽनुवाकः ८७५-८७६ पौञ्जिष्टादिकण्टककारान्तपशूनां अष्टादशोऽनुवाकः ८७६-८७७ तत्तद्देवताभिः सह विधिः पुरुषादिपुरुषान्तपशूनां तत्तद्देवताभिः सह विधिः

प्रथमोऽनुवाकः ८७८-८७९ चतुर्थोऽनुवाकः ९०३-९०४

तैत्तिरीयब्राह्मणम् xv विषयाः पृष्ठम् विषयाः पृष्ठम् एकोनविंशोऽनुवाकः ८७७-८७८ द्वितीयोऽनुवाकः ८९४-८९९ अतिह्रस्वादि कुमार्यन्तमनुष्यपशूनां प्रयाजविषया मैत्रावरुणप्रैषमन्त्राः तत्तद्देवताभिः सह विधिः तृतीयोऽनुवाकः ८९९-९०३ पञ्चमः प्रपाठकः...८७८-८८९ आप्रीसंज्ञका होत्रा पठनीयाः इष्टिहौत्रस्य मन्त्राणामभिधानम् प्रयाजयाज्याः प्रथमोऽनुवाकः ८७८-८७९ चतुर्थोऽनुवाकः ९०३-९०४ इष्टिहौत्रस्य मन्त्राः होतुर्जपः पर्यग्निकरणीया ऋचः द्वितीयोऽनुवाकः ८७९-८८०. पञ्चमोऽनुवाकः ९०४-९०५ सामिधेन्यः अध्रिगप्रैषवादिनं होतारं प्रति तृतीयोऽनुवाकः ८८० मैत्रावरुणप्रैषः ऋक्संबन्धिनिवित् षष्ठोऽनुवाकः ९०५-९१३ चतुर्थोऽनुवाकः ८८१ होतुर्ध्रिगुं प्रति प्रैषाभिधानम् ऋक्संबन्ध्यादापनम् सप्तमोऽनुवाकः ९१३-९१५ पञ्चमोऽनुवाकः ८८१ स्तोकविषयमैत्रावरुणानु- प्रयाजाः वचनाभिधानम् षष्ठोऽनुवाकः ८८१-८८२ अष्टमोऽनुवाकः ९१५-९१६ आज्यभागौ वपापुरोडाशस्विष्टकृतां सप्तमोऽनुवाकः ८८२-८८४ मैत्रावरुणवक्तृकाः पुरोनुवाक्याः याज्यानुवाक्याः प्रैषाश्च अष्टमोऽनुवाकः ८८४-८८५ नवमोऽनुवाकः ९१७-९१८ इडाह्वानम् वपापुरोडाशस्विष्टकृतां याज्याः नवमोऽनुवाकः ८८५-८८६ दशमोऽनुवाकः ९१८-९२३ अनूयाजाः मनोतासूक्ताभिधानम् दशमोऽनुवाकः ८८५-८८७ एकादशोऽनुवाकः ९२३-९२७ सूक्तवाकः हविर्वनस्पतिस्विष्टकृतां मैत्रा एकादशोऽनुवाकः ८८७ वरुणेन वक्तव्याः पुरोनुवाक्याः शंयुवाकः प्रैषाश्च द्वादशोऽनुवाकः ८८७-८८८ द्वादशोऽनुवाकः ९२७-९२८ पत्नीसंयाजाः हविर्वनस्पतिस्विष्टकृतां याज्याः त्रयोदशोऽनुवाकः ८८८-८८९ त्रयोदशोऽनुवाकः ९२८-९३३ इडाह्वानम् अनूयाजानां मैत्रावरुणप्रैषाभिधानम् षष्ठः प्रपाठकः...८८९-९३६ चतुर्दशोऽनुवाकः ९३३-९३४ पाशु कहौत्र विधिः अनूयाजविषया होतुर्याज्या एकादश प्रथमोऽनुवाकः ८८९-८९४ पञ्चदशोऽनुवाकः ९३४-९३६ यूपसंस्कार सूक्तवाकविषयो मैत्रावरुण प्रैषः

प्रथमोऽनुवाकः ९३६-९४४ चतुर्दशोऽनुवाकः १०३४-१०३९

xvi तैत्तिरीयब्राह्मणम् विषयाः पृष्ठम् विषयाः पृष्ठम् सप्तमः प्रपाठकः... ९३६-१०३८ दध्ना पयसा वा मधुमिश्रेण अच्छिद्रकाण्डाभिधानम् प्रोक्षणे मन्त्राः प्रथमोऽनुवाकः ९३६-९४४ चतुर्दशोऽनुवाकः १०३४-१०३९ दर्शपूर्णमासविषयाणां केषां- अवभृथादिसेचनादिमन्त्राः चित्प्रायश्चित्तानामभिधानम् अष्टमः प्रपाठकः...१०३९-१११२ द्वितीयोऽनुवाकः ९४४-९४९ अश्वमेधब्राह्मणम् अग्निहोत्रसांनाय्यसाधारण- अश्वमेधे प्रथममहः प्रायश्चित्तानामभिधानम् तृतीयोऽनुवाकः ९४९-९५३ प्रथमोऽनुवाकः १०३९-१०४१ मुख्याग्न्यसंभवेऽनुकल्पभूत- अश्वमेधब्राह्मणम् , तत्र होमाधाराणामभिधानम् यजमानसंस्काराः चतुर्थोऽनुवाकः ९५३-९६८ द्वितीयोऽनुवाकः १०४१-१०४४ ऐष्टिकयाजमानमन्त्राभिधानम् ब्रह्मोदनाभिधानम् पञ्चमोऽनुवाकः ९६९-९७९ तृतीयोऽनुवाकः १०४४-१०४९ दर्शपूर्णमासाङ्गभूतकतिपय- रशनयाऽश्वबन्धनाभिधानम् मन्त्राणामभिधानम् चतुर्थोऽनुवाकः १०४९-१०५२ षष्ठोऽनुवाकः ९७९-९९५ रशनया बद्धस्याश्वस्याव- चतुर्थपञ्चमानुवाकयोरनुक्ता गाहनप्रदेशे नीत्वाऽवगाहन- दर्शपूर्णमासेष्टिमन्त्राः स्याभिधानम् सप्तमोऽनुवाकः ९९५-१००३ पञ्चमोऽनुवाकः १०५२-१०५४ सोमाङ्गभूतदीक्षाया अङ्गभूता महर्त्विजामश्वप्रोक्षणाभिधानम् मन्त्राः षष्ठोऽनुवाकः १०५४-१०५८ अष्टमोऽनुवाकः १००३-१००६ अश्वशरीराद्भूभौ पततां पशुविषयप्रायश्चित्तमन्त्राभि- बिन्दूनामनुमन्त्रणाभिधानम् धानम् सप्तमोऽनुवाकः १०५८-१०६१ नवमोऽनुवाकः १००६-१०१४ एकस्याध्वर्योरिव चतुर्दिक्षु अभिषवादिविषयमन्त्राः प्रोक्षणस्याभिधानम् दशमोऽनुवाकः १०१४-१०१९ अष्टमोऽनुवाकः १०६१-१०६३ सौमिकप्रायश्चित्तमन्त्राः अश्वचरितानामश्वरूपाणां च एकादशोऽनुवाकः १०१९-१०२४ होमाः दर्शपूर्णमासप्रायश्चित्तमन्त्राः नवमोऽनुवाकः १०६४-१०६८ द्वादशोऽनुवाकः १०२४-१०२९ अश्वनामवाचनस्याश्वोत्सर्गस्य अग्निष्टोमादावेकविंशत्या चाभिधानम् दर्भपुञ्जीलैः पाव्यमानस्य- दशमोऽनुवाकः १०६८-१०७२ यजमानस्य जपार्था मन्त्राः दीक्षाभिधानम् त्रयोदशोऽनुवाकः १०२९-१०३४ एकादशोऽनुवाकः १०७२-१०७४ अवभृथकर्मणि ऋजीषस्य- पूर्वानुवाकोक्तवैश्वदेवहोमस्प- मन्त्राः

तैत्तिरीयब्राह्मणम् xvii विषयाः पृष्ठम् विषयाः पृष्ठम् द्वादशोऽनुवाकः १०७५-१०७६ पूर्वस्मिन्नौपवसथ्यदिने यूपाः पूर्वोक्तदीक्षायाः पूर्वं प्रयाक्तव्यास्तेषामन्त्राभिधानम् प्रमुक्तोऽश्वश्रुतःशतैः पालितः विंशोऽनुवाकः १०९९-११०३ सन्सवेच्छया संवत्सरमेकं यूपानां स्थापनाद्यभिधानम् संचरति, तस्मिन्संवत्सरे एकविंशोऽनुवाकः ११०३-११०६ देवयजनदेशे प्रतिदिनं चेतव्याग्न्यादेर्विशेषाभिधानम् कर्तव्येष्टित्रयस्याभिधानम् द्वाविंशोऽनुवाकः ११०६-११०८ त्रयोदशोऽनुवाकः १०७७-१०७९ अश्वमेध उक्थ्याख्यस्य दीक्षायाः प्राचीने संवत्सरे द्वितीयस्याह्नो बहिष्पवमाने प्रतिदिनं कालत्रयेऽनुष्ठेयेष्टीनां विशेषाभिधानम् कर्तव्यत्वं पूर्वानुवाकेऽभिहितम् , त्रयोविंशोऽनुवाकः ११०८-१११२ तस्मात्संवत्सरादूर्ध्वं दीक्षाकाल अश्वे पर्यंग्न्यानां पशूनां उखासंभरणं कृत्वा नियोजनम् तस्यांखारव्यस्याग्नेरा नवमः प्रपाठकः...१११२-११८० ब्रह्मन्नित्यादिमन्त्रैरुपस्थानं कर्तव्यम् , तत्राऽऽब्रह्मन्नित्य- अश्वमेधब्राह्मणम् नुवाके द्वादश वाक्यानि तेषां (द्वितीयमहस्तृतीयं चाहः) वाक्यानामत्र क्रमेण व्याख्यानम् प्रथमोऽनुवाकः १११२-१११५ चतुर्दशोऽनुवाकः १०७९-१०८१ अश्वमेधप्रकरणम् , अन्नहोमाभिधानम् तत्राष्टादशिनां पञ्चदशोऽनुवाकः १०८१-१०८४ पशूनामा लम्भविधिप्रकारः अन्नहोमप्रकारविशेषाभिधानम्... द्वितीयोऽनुवाकः १११६-१११९ षोडशोऽनुवाकः १०८४-१०८८ चातुर्मास्यादिपशूनां प्रयोगः अन्नहोममन्त्रविधानाय तृतीयोऽनुवाकः १११९-११२० पूर्वानुवाकेऽन्नहोममन्त्राद्यन्तानु- रोहितादिपशूनां वपाहोमसा- वाक्यौः संक्षेपेण हित्याभिधानम् व्याख्यातायोरेवात्र विस्तरेण चतुर्थोऽनुवाकः ११२१-११२७ व्याख्यानम् अश्वस्य रथयोजनालंकारादीनां सप्तदशोऽनुवाकः १०८८-१०९३ विधिः सप्तदशाष्टादशयोरनुवाकयोः पञ्चमोऽनुवाकः ११२७-११३१ सप्तमकाण्डगतद्वितीयप्रपाठ- ब्रह्मोद्यनामकानां जगत्स्थितहेतोः कव्यतिरिक्तप्रपाठकगताना- परब्रह्मणो विषये होतृब्रह्मणोः मन्नहोममन्त्राणां च व्याख्यानम् संवादाना मभिधानम् अष्टादशोऽनुवाकः १०९३-१०९७ षष्ठोऽनुवाकः ११३१-११३५ अन्नहोमानुवाकेष्ववशिष्टा- मृताश्वोपचाराभिधानम् नामनुवाकानां व्याख्यानम् सप्तमोऽनुवाकः ११३५-११४० एकोनविंशोऽनुवाकः १०९७-१०९९ मृताश्वोपचारमन्त्राणामवशिष्टानां त्रिरात्ररूपस्याश्वमेधस्य व्याख्याम् प्रथमदहः

xviii तैत्तिरीयब्राह्मणम् विषयाः पृष्ठम् विषयाः पृष्ठम् अष्टमोऽनुवाकः ११४०-११४२ तत्राऽऽदौ बहुविधानामनिर्वच- अश्वमेधस्य तदीयपशुविधीनां च नेनाश्वस्तुतिः प्रशंसा द्वाविंशोऽनुवाकः ११७५-११७८ नवमोऽनुवाकः ११४२-११४५ ऋषभालम्भाभिधानम् अश्वमेधसंबन्धित्रिरात्रस्योत्तमेऽहनि त्रयोविंशोऽनुवाकः ११७८-११८० पशूनामभिधानम् , अश्वावयवेषूपासनाभिधानम् दशमोऽनुवाकः ११४५-११४७ दशम प्रपाठकः ... ११८०-१२१३ महिमाख्यग्रहयोरभिधानम् सावित्रचयनाभिधानम् एकादशोऽनुवाकः ११४७-११४८ शरीरहोमानां स्विष्टकृदाहुतीनां प्रथमोऽनुवाकः ११८०-११८४ चाभिधानम् सावित्रचयन इष्टकोपधानादिमन्त्राः द्वादशोऽनुवाकः ११४९-११५२ द्वितीयोऽनुवाकः ११८४-११८६ शरीरहोमस्विष्टकृद्धोमोभयमध्यव- सावित्रचयने स्वयमातृण्णानामु- र्त्यश्वस्तोमीयहोामविधि पधानाभिधानम् त्रयोदशोऽनुवाकः ११५२-११५४ तृतीयोऽनुवाकः ११८६-११८७ सावित्रमष्टाकपालं प्रातर्निर्वपती- निष्पन्नायाश्चितेरध्वर्युकर्तृको- त्याद्यनुवाकोक्तास्विष्टिषु पस्थानाभिधानम् संवत्सरानुष्ठानरूपवशेषाभिधानम् चतुर्थोऽनुवाकः ११८८-११८९ चतुर्दशोऽनुवाकः ११५४-११५७ निष्पन्नायाश्चितेर्यजमानकर्तृ- सावित्रमष्टाकपालं कोपस्थानाभिधानम् प्रातर्निर्वपतीत्याद्यनुवाकोक्तेष्टिषु पञ्चमोऽनुवाकः ११९० गानस्याभिधानम् होतरनुशंसनाभिधानम् पञ्चदशोऽनुवाकः ११५७-११६० षष्ठोऽनुवाकः ११९१ अवभृथविषयहोमविशेषाभिधानम् शतरुद्रीयादिमन्त्रसाध्यवद्वाहुतीनां षोडशोऽनुवाकः ११६०-११६३ संस्रावेणाऽऽज्येन यजमानक- उपाकरणमन्त्रव्याख्यानाद्यभिधानम् र्तृकमुखशोधनाभिधानम् सप्तदशोऽनुवाकः ११६३-११६६ सप्तमोऽनुवाकः ११९१-११९२ अश्वमेधीयाश्वस्य होमानामाभिधानम् रोगादिनिमित्तप्रायश्चित्ताभिधानम् अष्टमोऽनुवाकः ११९२-११९६ अष्टादशोऽनुवाकः ११६६-११६८ मृत्युग्रहाभिधानम् ब्रह्मोदनाभिधानम् नवमोऽनुवाकः ११९६-१२०५ एकोनविंशोऽनुवाकः ११६८-११७० ध्यानरूपसावित्राग्निविद्याया विभूत्वादिभर्द्वादशभिर्गुणैरश्व- अभिधानम् मेधस्य प्रशंसा दशमोऽनुवाकः १२०५-१२०८ विंशोऽनुवाकः ११७०-११७२ सावित्राग्निविद्यावयवविशे- अश्वस्य संज्ञपनप्रकाराभिधानम् षवेदनामाभिधानम् एकविंशोऽनुवाकः ११७२-११७५ एकादशोऽनुवाकः १२०९-१२१३ उत्तरवेद्युपवापाभिधानम्, अन्वयव्यतिरेकाभ्यां

प्रथमोऽनुवाकः १२१४-१२२१ प्रथमोऽनुवाकः १२४७-१२४९

तैत्तिरीयब्राह्मणम् xix विषयाः पृष्ठम् विषयाः पृष्ठम् सावित्राग्निविद्यायाः प्रशंसा द्वादशः प्रपाठकः...१२४७-१२९३ एकादशः प्रपाठकः...१२१४-१२४७ चातुर्होत्राग्निचयनवैश्व- नाचिकेताग्निचयनविधिः सृजाग्निचयनप्रयोगः प्रथमोऽनुवाकः १२१४-१२२१ प्रथमोऽनुवाकः १२४७-१२४९ नाचिकेताग्निचयनप्रकरणम्, वैश्वसृजचयनाङ्गभूतासु दिवः- तत्रेष्टकोपधानमन्त्राणामभिधानम्, श्येन्यारुण्यापाद्याख्येष्टिषु दिवः- द्वितीयोऽनुवाकः १२२१-१२२३ श्येन्यारुण्येष्टिसंबन्धिनीनामनु- नाचिकेताग्निचयनसंबन्धि- वाक्यानां याज्यानां च प्रतीकानि होममन्त्राभिधानम् द्वितीयोऽनुवाकः १२४९-१२५६ तृतीयोऽनुवाकः १२२३-१२२४ वैश्वसृजचयनाङ्गभूतदिवः- नाचिकेताग्निचयनहोमोपयोगिनो श्येनेष्टिविधिः वसोर्धारायाः तृतीयोऽनुवाकः १२५६-१२६० प्रतिनिधिरूपमन्त्रस्याभिधानम् चतुर्थीनुवाके विधास्यमानवैश्व- चतुर्थोऽनुवाकः १२२४-१२२५ सृजचयनाङ्गभूतापाद्याख्येष्टीना- नाचिकेताग्निचयनेऽन्नहोम- मनुवाक्या याज्याश्च मन्त्राभिधानम् चतुर्थोऽनुवाकः १२६०-१२६४ पञ्चमोऽनुवाकः १२२५-१२२७ अपाद्याख्येष्टीनामभिधानम् नाचिकेताग्निचयने पञ्चमोऽनुवाकः १२६४-१२७४ विश्वप्रीनामकहोममन्त्राभिधानम् चातुर्होत्रचयनाभिधानम् षष्ठोऽनुवाकः १२२७-१२३० षष्ठोऽनुवाकः १२७४-१२७७ नाचिकेताग्निचयन वैश्वसृजचयनाभिधानम्, तत्र उपस्पर्शादिमन्त्राभिधानम् वैश्वसृजचयनोपयोगिनस्तिसृषु सप्तमोऽनुवाकः १२३१-१२३३ लेखासूत्तमलेखायामुपधानार्था नाचिकेताग्निदेवतोपासनाभिधानम् मन्त्राः अष्टमोऽनुवाकः १२३४-१२३९ सप्तमोऽनुवाकः १२७८-१२८१ नाचिकेताग्न्युपासकस्य वैश्वसृजचयनाभिधानम्, तत्र नाचिकेताग्निं चिन्वानस्य च वैश्वसृजचयनोपयोगिनो मध्य- ब्रह्मलोकप्राप्तिलक्षणं यत्फलं तस्य मलेखायामपधानार्था मन्त्राः मृत्युराहित्यदर्शनार्थमुद्दालक- अष्टमोऽनुवाकः १२८१-१२८३ नचिकेतसोःपितापुत्र- वैश्वसृजचयनाभिधानम्, योराख्यायिका तत्राऽऽभ्यन्तरलेखायामुपधाना- नवमोऽनुवाकः १२३९-१२४४ र्थमन्त्राः नाचिकेताग्निचयनप्रयोगाभिधानम् नवमोऽनुवाकः १२८३-१२९३ दशमोऽनुवाकः १२४५-१२४७ वैश्वसृजचयनाभिधानम्, तत्र नाचिकेताग्निचयनप्रशंसा ब्रह्मणा पठनीयानां मन्त्राणामभिधानम् समाप्तेयं तैत्तिरीयब्राह्मणस्य विषयानुक्रमणी ।

Digitized by Madhuban Trust, Delhi CC-0. Shri Vipin Kumar Col. Deoband. In Public Domain.

प्रपाठकेऽग्न्याधानविधिरुच्यते । यद्यपि 'कृत्तिकास्व- ग्निमादधीत'

ॐ तत्सद्ब्रह्मणे नमः । कृष्णयजुर्वेदीयं तैत्तिरीयब्राह्मणम् श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् । आदिमं काण्डम् । तत्र प्रथमप्रपाठके प्रथमोऽनुवाकः वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे । यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥ १ ॥ यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ २ ॥ तत्कटाक्षेण तद्रूपं दधद् बुक्कमहीपतिः । आदिशन्माधवाचार्यं वेदार्थस्य प्रकाशने ॥ ३ ॥ ये पूर्वोत्तरमीमांसे ते व्याख्यायातिसंग्रहात् । कृपालुर्माधवाचार्यो वेदार्थं वक्तुमुद्यतः ॥ ४ ॥ व्याख्याता सुखबोधाय तैत्तिरीयकसंहिता । तद्ब्राह्मणं व्याकरिष्ये सुखेनार्थविबुद्धये ॥ ५ ॥ यद्यपि संहिताया 'इषे त्वोर्जे त्वा' इत्यादीनां दर्शपूर्णमासमन्त्राणामादौ समाम्नातत्वात्तद् व्याख्यानरूपे ब्राह्मणे पौरोडाशिककाण्डमादौ पठितव्यं तथाऽपि दर्शपूर्णमासयोराहवनी- याद्यग्निसापेक्षत्वादग्नीनांचाऽऽधानसाध्यत्वात्प्रथम- काण्डस्याऽऽद्ये प्रपाठकेऽग्न्याधानविधिरुच्यते । यद्यपि 'कृत्तिकास्व- ग्निमादधीत' इत्ययमेवाऽऽधानब्राह्मणस्योपक्रमस्तथाऽपि संहितायां ग्रहकाण्डे शुक्रामन्थिग्रहप्रचारार्थानां मन्त्राणामनुक्तत्वेनात्र वक्तव्यत्वात्तेषां चाऽऽशासनीयफलप्रतिपादकत्वेन मङ्गलरूपत्वादाद्येऽनुवाके तान्परिशिष्टान्मन्त्रानभिदधानोऽर्थान्मङ्गलाचरणं संपादयति- ब्रह्म॒ संध॑त्तं॒ तन्मे॑ जिन्वतम् । क्ष॒त्र ँ संध॑त्तं॒ तन्मे॑ जिन्वतम् । इष॒ ँ संध॑त्तं॒ तां मे॑ जिन्वतम् । ऊर्ज॒ ँ संध॑त्तं॒ तां मे॑ जिन्वतम् । र॒यिं ँ संध॑त्तं॒ तां मे॑ जिन्वतम् । पुष्टि॒ ँ संध॑त्तं॒ तां मे॑

२ (१.१.१) तैत्तिरीयब्राह्मणम् जिन्वतम् । प्र॒जा ᳪ संध॑त्तं॒ तां मै॑ जिन्वतम् । प॒शून्संध॑त्तं॒ तान्मै॑ जिन्वतम् । ब्रह्म संधत्तमित्यादिना । ब्रह्मशब्दो जगत्कारणे परमात्मनि मुख्यतया-ऽवेदे प्रयुज्यते । तथा चैतरेयिणः स्वकीयोपनिषदि समामनन्ति- ‘प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म’ इति तैत्तिरीयाश्च-‘सत्यं ज्ञानमनन्तं ब्रह्म’ इति । वाजसनेयिनश्च-‘विज्ञानमानन्दं ब्रह्म’ इति । एवं सति ब्रह्मशब्दस्य तत्प्रतिपादकवर्णमात्रपरत्वेऽपि परब्रह्मणः सहसा बुद्धिस्थत्वादर्थान्मङ्गलाचरणं संपद्यते । तस्य ब्रह्मणः प्रतिपादकत्वेन वेदोऽपि ब्रह्मशब्दस्यार्थः । ततो ग्रन्थादौ वेदपुरुषोऽप्यनुस्मृतो भवति । तादृशवेदाध्ययनाध्यापनयोर्मुख्या-धिकारसंपादिका ब्राह्मणजातिरपि ब्रह्मशब्दस्यार्थः । सोऽयमत्र मन्त्रे विवक्षितः । उत्तरवाक्यगतक्षत्रशब्दसाहचर्यात् । एवं सत्यत्र प्रतिपाद्यत्वेनाविवक्षितोऽपि परमात्मा सहसा प्रतीयमानो विघ्नपरिहारादिरूपं माङ्गल्यं संपादयति । यथा ब्राह्मण- भोजनार्थमानीयमानस्य दधिकुम्भस्य दर्शनेन ग्रामान्तरे जिगमिषूणां माङ्गल्यं तद्वत् । तस्मादाद्यानुवाके ‘ब्रह्म संधत्तम्’ इत्यादि मन्त्राणामाम्नानं युक्ततरम् । मन्त्रविनियोगं चाऽऽपस्तम्बो दर्शयति--‘अपरेणोत्तरवेदिं ग्रहावरत्नी वा संधत्तः-ब्रह्म संधत्तं तन्मे जिन्वतं क्षत्रं संधत्तं तन्मे जिन्वतमिरं संधत्तं तां मे जिन्वतमूर्जँ संधतं तां मे जिन्वतं रयिँ संधतं तां मे जिन्वतं पुष्टिँ संधतं तां मे जिन्वतं प्रजँ संधत्तं तां मे जिन्वतं पशून्संधतं तान्मे जिन्वतम् ” इति । अथाध्वर्युः शुक्रपात्रं प्रतिप्रस्थाता मन्थिपात्रं चाऽऽदायोत्तरवेदेः पश्चाद्भागेऽवस्थाय परस्परसंसृष्टे कुरुतः । यद्वा स्वकीयावरत्नी परस्परसंसृष्टे कुरुतः । हे ग्रहौ युवां ब्रह्म यजमानसबन्धिनीं ब्राह्मणजातिं संधत्तं स्वोचितधर्मराहित्यं यथा न भवति तथा संपादयतम् । किंच मे तद्ब्रह्म मदीयां ब्राह्मणजातिं जिन्वतं प्रीणयतम् । एवमग्रेऽपि सर्वत्र योज्यम् । क्षत्रं देशाधिपतिस्वामिगता क्षत्रियजातिः। इडित्यन्नम् । ऊर्कक्षीरादिरसः। रयिर्धनम् । पुष्टिः शरीरपोषः। प्रजा पुत्रपौत्रादिः । पशव गवादयः। स्तु॒तोऽसि॑ जन॒धाः दे॒वास्त्वा शुक्र॒पाः प्रण॑यन्तु (१) कल्पः--“स्तुतोऽसि जनधा देवास्त्वा शुक्रपाः प्रणयन्त्विति शुक्रमध्वर्युरादत्ते” इति । पूर्वोक्तग्रहसंधानात्प्रागेवेदमूपादनम् । पाठक्रमादर्थक्रमस्य बलवत्त्वात् । हे शुक्रग्रह त्वमस्माभिः स्तुतोऽसि ।

तैत्तिरीयब्राह्मणम् (१.१.१) ३ हे जनधा जनानां धारयितः शुक्रग्रहा (पा ) ये देवाः शुक्रपात्रस्थस्य सोमस्य पातारस्ते त्वां प्रकर्षेणाऽऽहवनीयसमीपे नयन्तु । सु॒वीराः॑ प्र॒जाः प्र॒जन॑यन्परी॑हि शु॒क्रः। शु॒क्रशो॑चिषा । कल्पः-“सुवीराः प्रजाः प्रजनयन्परीहि शुक्रः शुक्रशोचिषा, इति दक्षिणेनाध्वर्युः प्रतिपद्यते ” इति । पात्रं हस्ते गृहीत्वा हविर्धानस्य पूर्वद्वारि निर्गत्योत्तरवेदेर्दक्षिणेन मार्गेण पूर्वस्यां दिश्यध्वर्युर्गच्छति । हे शुक्रग्रह शुक्रशोचिषा भास्वरदीप्त्या युक्तः सुवीराः शोभनवीरभृत्ययुक्ताः प्रजाः पुत्रपौत्रादिकाः प्रजनयन्नुत्पादयन्नुत्तरवेदेः परितो गच्छ । स्तु॒तोऽसि॑ जन॒धाः । दे॒वास्त्वा॑ मन्थि॒पाः प्रण॑यन्तु । कल्पः-“स्तुतोऽसि जनधा देवास्त्वा मन्थिपाः प्रणयन्तु, इति मन्थिनं प्रतिप्रस्थाता ” इति । आदत्त इत्यनुवर्तते । हे मन्थिग्रह त्वमस्माभिः स्तुतोऽसि । हे जनधा जनानां धारयितर्मन्थिपात्रस्थस्य सोमस्य पातारो ये देवास्ते त्वां प्रकर्षेणाऽऽहवनीयसमीपे नयन्तु । सु॒प्र॒जाः प्र॒जाः प्र॒जन॑यन्परी॑ हि । म॒न्थी म॒न्थिशो॑चिषा । कल्पः-“सुप्रजाः प्रजाः प्रजनयन्परीहि मन्थी मन्थिशोचिषा , इत्युत्तरेण प्रतिप्रस्थाता ” इति । प्रतिपद्यत इत्यनुवर्तते । हे ग्रह त्वं मन्थी मन्थिनामको ग्रहो भूत्वा मन्थिशोचिषा मन्थ्याख्यस्य तव तेजसा युक्तः सुप्रजाः शोभनापत्योपेताः प्रजा भ्रातृबन्ध्वादिकाः । प्रजनयन्नुत्पादयन्परीहि, उत्तरवेदेरुत्तरभागे परीत्य पूर्वस्यां दिशि गच्छ । सं॒ज॒ग्मा॒नौ दिव॒ आ पृ॑थि॒व्याऽऽयु॑ः। संध॑त्तं॒ तन्मै॑ जिन्वतम् । प्रा॒णं *संध॑त्तं॒ तं मै॑ जिन्वतम् । अ॒पान *संध॑त्त॒ तं मै॑ जिन्वतम् (२) व्या॒न *संध॑त्तं॒ तं मै॑ जिन्वतम् । चक्षु॑ः संध॑त्तं॒ तन्मै॑ जिन्वतम् । श्रोत्रं॑ * संध॑त्तं॒ तन्मै॑ जिन्वतम् । मनः॒ संध॑त्तं॒ तन्मै॑ जिन्वतम् । वाचं॒ *संध॑त्तं॒ तां मै॑ जिन्वतम् । कल्पः-“अग्रेणोत्तरवेदिं ग्रहावरत्नी वा संघत्तः- संजग्मानौ दिव आ पृथिव्याऽऽयुः संघत्तं तन्मे जिन्वतं प्राण *संधत्तं तं मे जिन्वतमपान * संघत्तं तं मे जिन्वतं व्यान *संधत्तं तं मे जिन्वतं चक्षुः संघत्तं तन्मे जिन्वतं

श्रोत्रँ संधत्तं तन्मे जिन्वतं मनः संधत्तं तन्मे जिन्वतं वाचँ संधत्तं तां मे जिन्वतम्, इति । हे शुक्रामन्थिनौ युवां संजग्मानौ परस्परं संगतावेकमत्यं गता वा दिवो द्युलोकसहितया पृथिव्या च संगतावस्मदीयमायुः संधत्तं सम्यग्धारयतमभिवर्धयतमित्यर्थः । प्राण ऊर्ध्वगामी वायुः । अपानोऽधोगामी वायुः। व्यानो मध्यवायुः चक्षुः श्रोत्रे मनो वाक्चैत्येतानीन्द्रियाणि । एतेषु सर्वेषु पूर्ववद्व्याख्येयम् । ब्रह्म संधत्तमित्यत्रोत्तरवेदेः पश्चात्संधानम् । इह तु पुरस्तादिति विशेषः। आयु॑ः स्थ॒ आयु॑र्मे धत्तम् । आयु॒र्य॒ज्ञाय॑ धत्तम् । आयु॑र्य॒ज्ञप॑तये धत्तम् । प्रा॒णः स्थ॑: प्रा॒णं मे॑ धत्तम् । प्रा॒णं य॒ज्ञा ' धत्तम् (३) प्रा॒णं य॒ज्ञप॑तये धत्तम् । चक्षु॑: स्थ॒श्चक्षु॑र्मे धत्तम् । चक्षु॑र्य॒ज्ञाय॑ धत्तम् । चक्षु॑र्य॒ज्ञप॑तये धत्तम् । श्रोत्रँ॑ ̐ स्थः श्रोत्रं॑ मे धत्तम् । श्रोत्रं॑ य॒ज्ञाय॑ धत्तम् । श्रोत्रं॑ य॒ज्ञप॑तये धत्तम् । तौ दे॑वौ शुक्रामन्थिनौ । क॒ल्पय॑तं॒ दैवी॑र्विश॑: कल्प- य॑तं॒ मानु॑षीः (४) इष॒मूर्ज॑म॒स्मासु॑ धत्तम् । प्रा॒णान्प॒शुषु॑ । प्र॒जां मयि॑ च॒ यज॑माने च । कल्पः-“अथेनावध्वर्यु॑रभिमन्त्रयते-आयुःस्थ आयुर्मे धत्तमायुर्यज्ञाय धत्तमायुर्यज्ञपतये धत्तं प्राणः स्थः प्राणं मे धत्तं प्राणं यज्ञाय धत्तं प्राणं यज्ञपतये धत्तं चक्षुः स्थश्चक्षुर्मे धत्तं चक्षुर्यज्ञाय धत्तं चक्षुर्यज्ञपतये धत्तं श्रोत्र ̐ स्थः श्रोत्रं मे धत्तं श्रोत्रं यज्ञाय धत्तं श्रोत्रं यज्ञपतये धत्तं तौ देवौ शुक्रामन्थिनौ कल्पयतं दैवीर्विशः कल्पयतं मानुषीरिषमूर्जमस्मासु धत्तं प्राणान्पशुषु प्रजां मयि च यजमाने च” इति । हे शुक्रामन्थिनौ युवामायुःस्थ आयुषः स्वामिनौ भवथः । अतो मे ममाध्वर्योरायर्धत्तमभिवर्धयतम् । तथा यज्ञस्याप्यायुर्धत्तम् । समाप्तिरेव यज्ञस्याऽऽयुः । तथा यज्ञपतये यजमानस्याप्यायुरभिवर्धयतम् । एवं प्राणादिषु योज्यम् । तौ युवां प्राणादिस्वामिनौ शुक्रामन्थिनौ ग्रहद्वयाधिपती दैवी दैवीर्विशो देवसम्बन्धिनीः प्रजाः कल्पयतमस्मदनुकूलाः कुरुतम । तथा मनुष्यजातियुक्ताः प्रजाश्चास्मदनुकूलाः कुरुतम । किंचैतं व्रीह्याद्यन्नमूर्जं क्षीरादिरसं चास्मासु स्थापयतम् । पशुषु गवादिषु चिरजीवनहेतून्प्राणान्स्थापयतम् । मय्यध्वर्यौ चास्मिन्यजमाने च प्रजां पुत्रपौत्रादिरूपां स्थापयतम् । निर॑स्तः॒ शण्ड॑: निर॑स्तो॒ मर्क॑: ।

प्रथमोऽनुवाकः ॥ १ ॥

तैत्तिरीयब्राह्मणम् (१.१.१) ५ कल्पः-“अप्रो॑क्षितौ शकलौ बहिर्वेदि निरस्यतो निरस्तौ षण्डामर्को सहामुनेति निरस्तः षण्ड इति वाऽ ध्वर्युर्द्वेष्यं मनसाः ध्यायन्निरस्तो मर्क इति प्रति प्रस्थाता ” इति । अत्र द्विवचनान्तो मन्त्रः शाखान्तरगतः । योऽयं षण्डाख्योऽसुरपुरोहितः सोऽयं यज्ञभूमेर्वेदेर्बहिर्निष्कासितः । यश्च मर्काख्योऽसुरपुरोहितः सोऽपि बहिर्निष्कासित इत्याभ्यां मन्त्राभ्यामुभाव- प्रोक्षितौ काष्ठशकलौ बहिर्निरस्यतः । अप॑नुत्तौ षण्डा॒मर्का॑व॒सहा॒मुना॑ । कल्पः-“तौ प्रोक्षिताभ्यां शकलाभ्यामपिधायाप्रोक्षिताभ्याम- धस्तात्पांसुनपध्वंसयत । अपनूत्तौ षण्डामर्को सहामुना” इति । अयं च मन्त्रोऽर्थक्रमानुसारेण शकलनिरसनमन्त्रात्प्रागेव द्रष्टव्यः । पात्रयोरधस्तनपांसुरूपेणावस्थितौ षण्डामर्कावसुरावमुनाऽस्मद्द्वेष्येण सहापनुत्तौ निराकृतौ । शु॒क्रस्य॑ स॒मिद॑सि । म॒न्थि॒नः स॒मिद॑सि । कल्पः-“प्रो॑क्षितावाधत्तः । शुक्रस्य समिदसीत्यध्वर्युर्मन्थिनः समिदसीति प्रतिप्रस्थातेत्यप्रोक्षितौ शकलौ बहिर्निरस्य प्रोक्षितौ शकलावन्यावाधत्तः” (इति) । हे शकल त्वं शुक्रग्रहस्य समिन्धनहेतुरसि। तथा हे शकल त्वं मन्थिग्रहस्य समिन्धनहेतुरसि । स प्र॑थ॒मः सं॒कृति॒र्विश्वकर्म॑ा । स प्र॑थ॒मो मि॒त्रो वरु॑णो अ॒ग्निः । स प्र॑थ॒मो बृह॒स्पति॑श्चकि॒त्वान् । तस्मा॒ इन्द्रा॑य सु॒तमाजु॑होमि (५) न॒य॒न्त्व॒पान ँसंध॑त्तं॒ तं मे॑ जिन्वतं॒ प्रा॒णं य॒ज्ञाय॑ धतं॒ मानु॑षीर॒ग्निर्दू॒- र्च॑ । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमकाण्डे प्रथम प्रपाठके प्रथमोऽनुवाकः ॥ १ ॥ कल्पः-“शुक्रामन्थिनोः प्रतिनिगद्य होमः-स प्रथमः संकृतिर्विश्वकर्मा स प्रथमो मित्रो वरुणो अग्निः स प्रथमो बृहस्पतिश्चिकित्वांस्तस्मा इन्द्राय सुतमाजुहोमि” इति । इतरग्रहेषु होतृप्रयुक्तवषट्कारेणैव होमः । न त्वध्वर्योर्मन्त्रपाठोऽस्ति । इह त्वेनं मन्त्रं प्रतिनिगद्य होमः कर्तव्यः । स इन्द्रः प्रथमो देवानां मध्ये मुख्यः। संकृतिः

६ (१.१.२) तैत्तिरीयब्राह्मणम् समीचींना कृतिर्जगद्रक्षणरूपव्यापारो यस्यासौ संकृतिः। विश्वानि कर्माणि जगद्रक्षणहेतुभूतान्यसुरयुद्धादीनि यस्यासौ विश्वकर्मा । स एव मुख्य इन्द्रो मूर्तिविशेषान्धृत्वा मित्रादिरूपः संपन्नः । स एवेन्द्रश्चिकित्सान्सर्वज्ञानकुशलो बृहस्पतिरपि संपन्नः । तस्मै तादृशायेन्द्राय सुतमपिषुतमिमं सोममा सर्वतो जुहोमि । अत्र विनियोगसंग्रहः- अध्वर्युश्च प्रतिप्रस्थाता चाऽऽदाय ग्रहावुभौ । ब्रह्म शुक्रामन्थिपात्रं संधत्ते वेदिपश्चिमे ।। स्तुतौ ग्रहावाददीत सुवीर्यातो दिशोर्द्वयोः । संजग्म वेदेः पुरतः संधत्तः पूर्ववद् ग्रहौ ।। आयुर्मन्त्रयतेऽध्वर्युर्निरस्तः शकलौ त्यजेत् । अथ पांसुमपध्वस्य शुक्रामन्थिद्वयादुभौ ।। प्रोक्षितौ शकलौ क्षिप्त्वा स प्रेति ग्रहयोर्हुतिः । स्तुतः स्तुतो निरस्तेति द्वयं द्वयमुदीरितम् । आद्यानुवाके कथिता मन्त्रा एत त्रयोदश । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमकाण्डे प्रथमप्रपाठके प्रथमोऽनुवाकः ।। १ ।। अथ द्वितीयोऽनुवाकः । प्रथमानुवाके सोमयागशेषभूताः शुक्रामन्थिग्रहप्रचारमन्त्रा उक्ताः । अथाऽऽधानप्रकरणमारभ्यते । तत्रास्मिन्ननुवाके कालविशेषं विधत्ते-- कृत्तिकास्व॒ग्निमाद॑धीत । ए॒तद्वा अ॒ग्नेर्नक्ष॑त्रम् । यत्कृत्ति॑काः स्वाया॑मे॒वैनं॑ दे॒वता॑या॒माधा॑य॒ ब्र॒ह्म॑व॒र्च॒सी॒ भ॑वति, इति । अग्निचयनकाण्डेऽम्बादुला नितल्लिरित्याद्याः कृत्तिकास्ता यस्मिन्दिने चन्द्रेण संयुज्यन्ते तस्मिन्दिने तासु कृत्तिकासु चन्द्रयोगं प्राप्तास्वग्न्याधानं कुर्यात् । यदेतत्कृत्तिकासंपातरूपं तदेतदग्निसंबन्धि नक्षत्रम् । अत एवान्यत्राऽऽ म्नातम्-“कृत्तिका नक्षत्रमग्निर्देवता” इति ।

तैत्तिरीयब्राह्मणम् (१.१.२) ७ अत आधेयस्याग्नेः कृत्तिकास्वाधाने सति स्वरूपभूतायामेव देवतायामाधानं कृतं भवति । अग्नेर्ब्राह्मणाभिमानित्वात्तत्प्रसादेनाधीतश्रुताध्ययनरूपब्रह्मवर्चससंपन्नो भवति । प्रकारान्तरेण प्रशंसति- मुखं॒ वा ए॒तन्नक्ष॑त्राणाम् । यत्कृत्ति॑काः यः कृत्ति॑कास्व॒ग्निमा॑ध॒त्ते । मु॒ख्य॑ ए॒व भ॑वति, इति । कृत्तिका इति यत्तदेतन्नक्षत्राणां मध्ये मुखं प्रथमं नक्षत्रम् । अत एव नक्षत्रप्रतिपादकेऽप्यनुवाक आदौ पठ्यते “कृत्तिका नक्षत्रमग्निर्देवता ” इत्येकत्र । “अग्नेः कृत्तिकाः शुक्रं परस्तात् ” इत्यन्यत्र । “अग्निर्नः पातु कृत्तिकाः । नक्षत्रं देवमिन्द्रियम्” इत्यन्यत्र । तदेतत्सर्वं मन्त्रानुवाकेष्टिप्रविधायकेऽप्यनुवाक एतदीयैवेष्टिरादावाम्नाता “अग्निर्वा अकामयत । अन्नादो देवाना ँस्यामिति । स एतमग्नये कृत्तिकाभ्यः पुरोडाशमष्टाकपालं निरवपत्” इति । अतो सुखभूतासु कृत्तिकास्वाधानः पुमान्सर्वेषु स्वयं मुख्यो भवति । अस्मिन्यक्षे गुणमुक्त्वा दोषमपि कंचिद्दर्शयति- अथो॒ खलु॑ (१) अ॒ग्निनक्ष॑त्रमित्यप॑चा यन्ति । गृ॒हान्ह॑ दा॒हुको भवति, इति । पूर्वोक्तगुणवैलक्षण्यद्योतनायाथोशब्दः । अभिज्ञाः खल्वग्निदेवता- कमिदं नक्षत्रमित्येवं निन्दन्ति तस्मिन्नक्षत्र आधानस्य यजमानस्य गृहान्सोऽग्निर्दाहुको दहनशीलो भवति । अथ निर्दोषं नक्षत्रं विधत्ते- प्र॒जाप॑ती रोहि॒ण्याम॒ग्निम॑सृजत । तं दे॒वा रोहि॑ण्यामाद॑धत । ततो॒ वै ते सर्वा॒न्रोहा॑नरोहन् । तद्रो॑हि॒ण्यै रो॑हिणि॒त्वम् । यो रो॑हि॒ण्याम॒ग्निमा॑ध॒त्ते । ऋ॒ध्नोत्ये॒व । सर्वा॒न्रोहा॑न्रोहति, इति । रुह्यन्ते प्राप्यन्त इति रोहाः कामास्ते च यस्यां रुह्यन्ते सा रोहिणी । ऋध्नोत्येव समृद्धो भवत्येव । समृद्धिरेव सर्वानित्यनेन विशदीकृता । नक्षत्रान्तरं विधत्ते-