वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
शिल्प्यादिकरः, करादेरग्रहणेऽन्यायेन ग्रहणे च दोषः।२७५ सैव तेषां वृत्तिः । विशेषान्तरमाह-- गौतमः, एतेनात्मोपजीविनो व्याख्याता, नौचक्रिव- न्तश्च, भक्तं तेभ्योऽपि दद्यात् । इति । एतेन, प्रतिमासमेकाहकर्मकरणेन । आत्मोपजीविनः, भा- रवाहनटनर्त्तकादयः । नौचक्रिवन्तो, नौशकटव्यवहारिणः । भक्तं, दिवाभोजनपर्याप्तमन्नं शिल्प्यादिभ्यो देयम् । विष्णुधर्मोत्तरेऽपि, कर्म कुर्युर्नरेन्द्रस्य मासेनैकेन शिल्पिनः । भक्तमात्रेण ये चान्ये स्वशरीरोपजीविनः ॥ इति । करस्याग्रहणे दोषमाह- मनुः, नोच्छिन्द्यादात्मनो मूलं परेषां चातितृष्णया । उच्छिन्दन्नात्मनो मूलमात्मानं तांश्च नाशयेत् ॥ इति । करशुल्कादेरग्रहणमात्ममूलोच्छेदः । यथोचितादधिकग्र- हणं परमूलोच्छेदः । तथा, अनादेयं नाददीत परिक्षीणोऽपि पार्थिवः । न चादेयं समृद्धोऽपि सूक्ष्ममप्यर्थमुत्सृजेत् ॥ अनादेयस्य चादानादादेयस्य च वर्जनात् । दौर्बल्यं ख्याप्यते राज्ञः स प्रेत्येह विनश्यति ॥ स्वादानाद्वर्णसंसर्गाद्दुर्बलानां च रक्षणात् । बलं सञ्जायते राज्ञः स प्रेत्येह विवर्द्धते ॥ इति । स्वादानात्, स्वस्य न्यायागतस्य करादेरादानात् । वर्णसं- सर्गात्, वर्णानां ब्राह्मणादीनां स्वस्वजातीयैर्वर्णैः सह संस- र्गात् विवाहादिसम्बन्धात्, न तु वर्णान्तरेण संसर्गो येन
२७६ वीरमित्रोदयस्य राजनीतिप्रकाशे सङ्करादिदोषः स्यात् । अन्यायेन करग्रहणे दोषमाह- याज्ञवल्क्यः, अन्यायेन नृपो राष्ट्रात्स्वकोशं योऽभिवर्द्धयेत् । सोऽचिराद्विगतश्रीको नाशमेति सबान्धवः ॥ प्रजापीडनसन्तापात्समुद्भूतो हुताशनः । राज्ञः कुलं श्रियं प्राणान्नादग्ध्वा विनिवर्तते ॥ इति । कात्यायनोऽपि, अन्यायेन हि यो राष्ट्रात्करं दण्डं च पार्थिवः । सस्यभागं च शुल्कं चाप्याददीत स पापभाक् ॥ इति । धर्म्यकरग्रहणे फलमुक्तम्— महाभारते, धर्मार्जितो महाकोशो यस्य स्यात्पृथिवीपतेः । सोऽत्यल्पप्रवरोऽप्यत्र पृथिवीमधितिष्ठति ॥ इति । कात्यायनोऽप्याह, एवं प्रवर्तते यस्तु लोभं त्यक्त्वा नराधिपः । तस्य पुत्राः प्रजायन्ते राष्ट्रं कोशश्च वर्द्धते ॥ इति । इति कोशः । अथ दण्डः । दण्ड्यन्ते अशिष्टा अनेनेति व्युत्पत्त्या दण्डशब्दो बलव- चनः । तत्र- महाभारते, प्रकाशश्चाप्रकाशश्च दण्डोऽत्र परिकल्पितः । प्रकाशोऽष्टविधस्तत्र गुह्यश्च बलवत्तरः ॥ रथा नागा हयाश्चैव पादाताश्चैव भारत । विष्टिर्नाविचराश्चैव दैशिका इति चाष्टमः ॥ अनुरक्तेन हृष्टेन पुष्टेन च महीपते ।
सप्ताङ्गेषु दण्डमित्रे । २७७ स्वल्पेनापि हि सैन्येन महीं जयति पार्थिवः ॥ इति । विष्टिः, बलात्कारेणाकृष्टः कर्मकरः । दैशिका, देशे भवाः पुरुषाः । इति दण्डः । अथ मित्रम् । याज्ञवल्क्यः, हिरण्यभूमिलाभेभ्यो मित्रलब्धिर्वरा यतः । अतो यतेत तत्प्राप्त्यै रक्षेत्सत्यं समाहितः ॥ इति । मनुः, हिरण्यभूमिसम्प्राप्त्या पार्थिवो न तथैधते । यथा मित्रं ध्रुवं लब्ध्वा कृशमप्यायतिकषमम् ॥ धर्मज्ञं च कृतज्ञं च तुष्टप्रकृतिमेव च । अनुरक्तं स्थिरारम्भं लघु मित्रं प्रशस्यते ॥ इति । अस्य त्रैविध्यमुक्तम्- मत्स्यपुराणे, पितृपैतामहं मित्रं सामन्ताश्च तथा रिपोः । कृत्रिमं च महाभाग त्रिविधं मित्रमुच्यते ॥ तत्रापि च गुरुः पूर्वं भवेत्तत्रापि चाहृतः । सामन्तास्तु तस्य पीडया शत्रुत्वमापन्नाः । अत एव विष्णु- धर्मोत्तरे-“अमित्रं च तथा रिपोः” इति पाठः । आहृतः, कृ- त्रिमः । इममेव प्रशंसति- व्यासः, न कश्चित्कस्य चिन्मित्रं न कश्चित्कस्य चिद्रिपुः । सामर्थ्ययोगाज्जायन्ते मित्राणि रिपवस्तथा ॥ इति । महाभारते,
२७८ वीरमित्रोदयस्य राजनीतिप्रकाशे वेदितव्यानि मित्राणि बोद्धव्याश्चापि शत्रवः । एतत्सुसूक्ष्मं लोकेऽस्मिन् दृश्यते प्राज्ञसम्मतम् ॥ यो यस्मिन् जीवितस्यार्थे पश्यन् पीडां न जीवति । स तस्य तावन्मित्रं स्याद्यावन्न स्याद्विपर्ययः ॥ नास्ति मैत्री स्थिरा नाम न च चक्रमसौहृदम् । अर्थयुक्त्याभिजायन्ते मित्राणि रिपवस्तथा ॥ मित्रं च शत्रुतामेति कस्मिंश्चित्कालपर्यये । शत्रुश्च मित्रतामेति स्वार्थस्तु बलवत्तरः ॥ इति । याज्ञवल्क्यः, स्वाम्यमात्यजना दुर्गं कोशो दण्डस्तथैव च । मित्राण्येताः प्रकृतयः सप्ताङ्गं राज्यमुच्यते ॥ इति । मनुः, स्वाम्यमात्यौ पुरं राष्ट्रं कोशदण्डौ सुहृत्तथा । सप्त प्रकृतयो ह्येताः समस्ता राष्ट्रमुच्यते ॥ सप्तानां प्रकृतीनां तु राज्यस्यासां यथाक्रमम् । पूर्वं पूर्वं गुरुतरं जानीयाद्व्यसनं नृपः ॥ व्यसनं, व्यसनकारणम् । दोषवदिति शेषः । सप्ताङ्गस्यास्य राज्यस्य विष्टब्धस्य त्रिदण्डवत् ॥ अन्योन्यगुणवैशेष्यान्न किञ्चिदतिरिच्यते । तेषु तेषु हि कृत्येषु तत्तदङ्गं विशिष्यते ॥ येन यत्साध्यते कार्यं तत्तस्मिन् श्रेष्ठमुच्यते । इति । इति मित्रम् । अथोपायाः । तत्र याज्ञवल्क्यः, उपायाः साम दानं च भेदो दण्डस्तथैव च ।
उपायेषु साम । २७९ सम्यक्प्रयुक्ताः सिद्ध्येयुर्दण्डस्त्वगतिका गतिः ॥ इति । तत्र द्वयोर्मुख्यत्वमाह- मनुः, सामादीनामुपायानां चतुर्णामपि पण्डिताः । सामदण्डौ प्रशंसन्ति नित्यं राज्याभिवृद्धये ॥ इति । तत्र साम । तच्च शत्रोस्तदीयानाममात्यादीनां च गुणवर्णनम् उपकारा- दिस्मरणं च विधाय स्वस्य कृतज्ञताख्यापनपुरःसरं स्वा- पराधक्षमापणम् । तदुक्तम्- मत्स्यपुराणे, मनुरुवाच । उपायांस्त्वं समाचक्ष्व सामपूर्वान्महाद्युते । लक्षणं च तथा तेषां प्रयोगं च सुरोत्तम ॥ मत्स्य उवाच । साम भेदस्तथा दानं दण्डश्च मनुजेश्वर । उपेक्षा च तथा माया इन्द्रजालं च पार्थिव ॥ प्रयोगाः कथिताः सप्त तन्मे निगदतः शृणु । द्विविधं कथितं साम तथ्यं चातथ्यमेव च ॥ तत्राप्यतथ्यं साधूनामाक्रोशायैव जायते । तत्र साधुः प्रयत्नेन सामसाध्यो मरोत्तम ॥ महाकुलीना ऋजवो धर्मनित्या जितेन्द्रियाः । सामसाध्या न चातथ्यं तेषु साम प्रयोजयेत् ॥ तथ्यं साम च कर्त्तव्यं कुलशीलादिवर्णनम् । तथा तदुपकाराणां कृतानां चैव वर्णनम् ॥ अनयैव तथा युक्त्या कृतज्ञाख्यापनं स्वकम् ।
२८० वीरमित्रोदयस्य राजनीतिप्रकाशे एवं सान्त्वेन कर्त्तव्या वशगा धर्मतत्पराः ॥ साम्ना यद्यपि रक्षांसि गृह्णन्तीति परा श्रुतिः । तथाप्येतदसाधूनां प्रयुक्तं नोपकारकम् ॥ गृह्णन्ति, वशीकुर्वन्ति । अतिशङ्कमित्येवं पुरुषं सामवादिनम् । असाधवोऽवजानन्ति तस्मान्नत्तेषु वर्जयेत् ॥ अतिशङ्कम्, अतिशयिता शङ्का यस्मिन् तादृशम् । सा- मवादिनं, सामप्रयोक्तारम् । ये शुद्धवंशा ऋजवः प्रणीता धर्मे स्थिताः सत्यपरा विनीताः। ते सामसाध्याः पुरुषाः प्रदिष्टा मानोन्नता ये सततं च राजन् ॥इति। अग्निपुराणे, चतुर्विधं स्मृतं साम उपकारानुकीर्त्तनम् । मिथःसम्बन्धकथनं मृदुपूर्वं च भाषणम् ॥ आयतेर्दर्शनं वाचा तत्राहमिति चार्पणम् । इति । इति साम । अथ भेदः । स च शत्रुवर्गे परस्परं वैमत्योत्पादनम् । तदुक्तम्— मत्स्यपुराणे, मत्स्य उवाच । परस्परं तु ये द्विष्टाः क्रुद्धा भीतावमानिताः । तेषां भेदं प्रयुञ्जीत भेदसाध्या हि ते मताः ॥ ये तु येनैव दोषेण परस्मात्नाम बिभ्यति । ते तु तद्दोषपातेन भेदनीया भृशं ततः ॥ आत्मीयां दर्शयेदाशां परस्माद्दर्शयेद्भयम् । १ आत्मीयं दर्शयेद्दोषम् इति मात्स्ये पाठः ।
उपायेषु भेदः । २८१ एवं हि भेदयेद्भिन्नान् यथावद्वशमानयेत् ॥ संहता हि विना भेदं शक्रेणापि सुदुःसहाः । भेदमेव प्रशंसन्ति तस्मान्नयविशारदाः ॥ स्वमुखेनाश्रयेद्भेदं भेदं परमुखेन च । परीक्ष्य साधुं मन्येत भेदं परमुखाच्छ्रुतम् ॥ सद्यः स्वकार्यमुद्दिश्य कुशलैर्ये हि भेदिताः । भेदितास्ते विनिर्दिष्टा नैव राजार्थवादिभिः ॥ अन्तःकोपोबहिःकोपौ यत्र स्यातां महीक्षिताम् । अन्तःकोपो महांस्तत्र नाशकः पृथिवीक्षिताम् ॥ सामन्तकोपो बाह्यस्तु कोपः प्रोक्तो महीभृतः । महिषीयुवराजाभ्यां तथा सेनापतेर्नृप ॥ अमात्यमन्त्रिणां चैव राजपुत्रे तथैव च । अन्तःकोपो विनिर्दिष्टो दारुणः पृथिवीक्षिताम् ॥ बाह्यकोपे समुत्पन्ने सुमहत्यपि पार्थिवः । शुद्धान्तस्तु महाभाग शीघ्रमेव जयी भवेत् ॥ शुद्धान्तः, अन्तःप्रकोपरहितः । अपि शक्रसमो राजा अन्तःकोपेन नश्यति । सोऽन्तःकोपः प्रयत्नेन तस्माद्रक्ष्यो महीक्षिता ॥ परान्तःकोपमुत्पाद्य भेदेन विजिगीषुणा । ज्ञातीनां भेदनं कार्यं परेषां विजिगीषुणा ॥ रक्ष्यश्चैव प्रयत्नेन ज्ञातिभेदस्तथाऽऽत्मनः । ज्ञातयः परितप्यन्ते सततं परितापिताः ॥ तथापि तेषां कर्त्तव्यं सुगम्भीरेण चेतसा । ग्रहणं दानमानाभ्यां भेदस्तेभ्यो भयङ्करः ॥ न ज्ञातिमनुगृह्णन्ति नाज्ञातिं विश्वसन्ति च । ३६
२८२ वीरमित्रोदयस्य राजनीतिप्रकाशे ज्ञातिभिर्भेदनीयास्तु रिपवस्तेन पार्थिवैः । भिन्ना हि शक्या रिपवः प्रभूताः स्वल्पेन सैन्येन निहन्तुमाजौ। सुसंहतैश्चापि ततस्तु भेदः कार्यो रिपूणां नयशास्त्रविद्भिः॥इति। स्वपक्षभेदनिषेधस्तूक्तो— ब्रह्मपुराणे, स्वपक्षभेदो यत्नेन न कर्तव्यः कदाचन । दुर्गं कोशश्च दण्डश्च परराष्ट्रभयं विना ॥ स्वभेदेनैव नश्यन्ति बद्धमूला अपि प्रजाः । स्वभेदेन, स्वपक्षभेदेन, परराष्ट्रभयं विनापि दुर्गादिकं नश्यतीत्यर्थः । इति भेदः । अथ दानम् । तच्च स्वस्वत्वनिवृत्तिपूर्वकपरस्वत्वोत्पादनानुकूलो व्यापा- रः। तस्य दानस्य पञ्चविधत्वमुक्तम्— . अग्निपुराणे, यः सम्प्राप्तधनोत्सर्ग उत्तमाधममध्यमः । प्रतिदानं तदा तस्य गृहीतस्यानुमोदनम् ॥ द्रव्यदानमपूर्वं च तथैवेष्टप्रवर्तनम् । देयं च प्रतिमोक्षश्च दानं पञ्चविधं स्मृतम् ॥ इति । तस्य प्रशंसा चोक्ता— मत्स्यपुराणे, मत्स्य उवाच । सर्वेषामप्युपायानां दानं श्रेष्ठतमं मतम् । सुदृत्तेनेह भवति दानेनोभयलोकजित् ॥ न सोऽस्ति राजन् दानेन वशगो यो न जायते ।
उपायेषु दानम् । .. २८३ दानेन वशगा देवां भवन्तीह सदा, नृणाम् ॥ दानमेवोपजीवन्ति प्रजाः सर्वा नृपोत्तम । प्रियो हि दानवांल्लोके सर्वस्यैवोपजायते ॥ दानवानचिरेणैव तथा राजा परान् जयेत् । दानवानेव शक्नोति संहतान् भेदितुं परान् ॥ यद्यप्यलुब्धगम्भीराः पुरुषाः सागरोपमाः । न गृह्णन्ति तथाऽप्येते जायन्ते पक्षपातिनः ॥ अन्यत्रापि कृतं दानं करोत्यन्यान् यथा वशे । उपायेभ्यः प्रशंसन्ति दानं श्रेष्ठतमं जनाः ॥ दानं श्रेयस्करं पुंसां दानं श्रेष्ठतमं परम् । दानवानेव लोकेषु पुत्रत्वे ध्रियते सदा ॥ न केवलं दानपरा जयन्ति भूलोकमेकं पुरुषप्रवीराः । जयन्ति ते राजसुरेन्द्रलोकं सुदुर्जयो यो विबुधाधिवासः ॥ इति । तैत्तिरीयश्रुतिरपि, दानं यज्ञानां वरूथं दक्षिणा, लोके दातारं सर्वभूतान्यु- पजीवन्ति, दानेनारातीरपानुदन्त, दानेन द्विषन्तो मित्रा भव- न्ति, दाने सर्वं प्रतिष्ठितं, तस्माद्दानं परमं वदन्तीति । इति दानम् । अथ दण्डः । स च वित्तस्य शरीरस्य वा पीडनम् । दमयतीति दण्ड इति व्युत्पत्तेः । तत्र— मनुः, तदर्थं सर्वभूतां गोप्तारं धर्ममात्मजम् । ब्रह्मतेजोमयं दण्डमसृजत्पूर्वमीश्वरः ॥
२८४ वीरमित्रोदयस्य राजनीतिप्रकाशे तदर्थं, राज्ञः प्रयोजनसिद्धये । प्रजानां रक्षणं राजधर्मः स च दण्डं विना कर्तुमशक्य इति दण्ड एव रक्षक इत्युच्यते । तस्य स्तुतिर्धर्ममिति । तस्य सर्वाणि भूतानि स्थावराणि चराणि च । भयाद्भोगाय कल्पन्ते स्वधर्मान्न चलन्ति च ॥ तस्य, दण्डस्य। ननु दण्डस्य भयहेतुत्वात् “भीत्रार्थानां भय- हेतुः” इति पञ्चमी युक्ता? उच्यते । सम्बन्धमात्रविवक्षाया भय- हेतुत्वं नास्तीति षष्ठी । तस्य चरमोपायत्वमुक्तम्— मत्स्यपुराणे, मत्स्य उवाच । न शक्या ये वशे कर्त्तुमुपायत्रितयेन तु । दण्डेन तान् वशीकुर्याद्दण्डो हि वशकृन्नृणाम् ॥ सम्यक्प्रणयनं तस्य तथा कार्यं महीक्षिता । धर्मशास्त्रानुसारेण सुसहायेन धीमता ॥ तस्यासम्यक्प्रणयनं त्रिदशानपि पीडयेत् । इति । तत्र विशेषमाह मनुः, तं देशकालौ शक्तिं च विद्यां चावेक्ष्य तत्त्वतः । यथार्हतः सम्प्रणयेन्नरेष्वन्यायवर्त्तिषु ॥ शक्तिं, सहनशक्तिम् । समीक्ष्य स धृतः सम्यक् सर्वा रञ्जयति प्रजाः । असमीक्ष्य प्रणीतस्तु विनाशयति सर्वतः ॥ यदि न प्रणयेद्राजा दण्डं दण्ड्येष्वतन्द्रितः । शूले मत्स्यानिवापक्ष्यन् दुर्बलान् बलवत्तराः ॥ इति । यथा शूले मत्स्यान् पक्त्वा भक्षयन्ति, तथा बलिनोऽल्प-
उपायेषु दण्डः । २८५ बलान् हिंसित्वा तद्धनादिकं भक्षयेयुरित्यर्थः । मात्स्येऽपि, वानप्रस्थांश्च धर्मज्ञान्निर्ममान्निष्परिग्रहान् ॥ स्वदेशे परदेशे वा धर्मशास्त्रविशारदान् । समीक्ष्य प्रणयेद्दण्डं सर्वं दण्डे प्रतिष्ठितम् ॥ आश्रमी यदि वा वर्णी पूज्यो वाऽथ गुरुर्महान् । नादण्ड्यो नाम राज्ञोऽस्ति यः स्वधर्मे न तिष्ठति ॥ अदण्ड्यान् दण्डयन् राजा दण्ड्यांश्चाप्यदण्डयन् । इह राज्यात्परिभ्रष्टो नरकं च प्रपद्यते ॥ तस्माद्राज्ञा विनीतेन धर्मशास्त्रानुसारतः । दण्डप्रणयनं कार्यं लोकानुग्रहकाम्यया ॥ यत्र श्यामो लोहिताक्षो दण्डश्चरति पापहा । प्रजास्तत्र न मुह्यन्ति नेता चेत्साधु पश्यति ॥ बालवृद्धातुरयतिद्विजस्त्रीविधवाबलाः । अबलाः, बलरहिताः । मात्स्यन्यायेन भक्षयेरन् यदि दण्डं न पातयेत् ॥ देवदैत्योरगनराः सर्वे भूतपतत्रिणः ॥ उत्क्रामेयुश्च मर्यादां यदि दण्डो न पालयेत् । एष ब्रह्माभिशापेषु सर्वप्रहरणेषु च ॥ सर्वविक्रमकोषेषु व्यवसाये च तिष्ठति । पूज्यन्ते दण्डिनो देवा न पूज्यन्ते त्वदण्डिनः ॥ न ब्राह्मणं विधातारं न पूषार्यमणावपि । यजन्ते मानवाः केचित्प्रशान्ताः सर्वकर्मसु ॥ रुद्रमग्निं च शक्रं च सूर्याचन्द्रमसौ तथा । विष्णुं देवगणांश्चान्यान् दण्डिनः पूजयन्ति च ॥ इति ।
२८६ वीरमित्रोदयस्य राजनीतिप्रकाशे मनुरपि, सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्नरः । दण्डस्य हि भयात्सर्वं जगद्भोगाय कल्पते ॥ स्वभावाच्छुचिर्नरो दुर्लभः, किन्तु दण्डेनैव जितः पथि स्थाप्यते। देवदानवगन्धर्वाः पिशाचोरगराक्षसाः । तेऽपि भोगाय कल्पन्ते दण्डेनैव निपीडिताः ॥ भोगाय कल्पन्ते, स्वपथप्रवृत्ता भवन्ति । तथा च- श्रुतिः, भयात्सूर्यः प्रतपति भयात्तपति चन्द्रमाः । भयादग्निश्च वायुश्च मृत्युर्धावति पञ्चमः ॥ इति । मनुः, दुष्येयुः सर्ववर्णाश्च भिद्येरन् सर्वसेतवः । सर्वलोकप्रकोपश्च भवेद्दण्डस्य विभ्रमात् ॥ इति । दुष्येयुरिति । नीचवर्णा उत्तमवर्णस्त्रीगमनेन सङ्करं प्रा- प्नुयुरित्यर्थः । अत एव शास्त्रोक्तमर्यादा भिद्येरन् । मत्स्यपुराणे, दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति । दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर्बुधाः ॥ राजदण्डभयादेव पापाः पापं न कुर्वते ॥ यमदण्डभयादेके परस्परभयादपि । एवं सांसिद्धिके लोके सर्वं दण्डे प्रतिष्ठितम् ॥ अन्धे तमसि मज्जेयुर्यदि दण्डो न पालयेत् । यस्माद्दण्डो दमयति अदण्ड्यान् दण्डयत्यपि ॥ दमनाद्दण्डनाच्चैव तस्माद्दण्डं विदुर्बुधाः । दण्डस्य भीतैस्त्रिदशैस्समेतै —
उपायेषु दण्डः । २८७ भागो धृतः शूलधरस्य यज्ञे । चक्रुः कुमारं ध्वजिनीपतिं च वरं शिशूनां च भयाद्वलस्थम् ॥ इति । शिशूनां वरं,श्रेष्ठम्,अतिशिशुमित्यर्थः। तं कुमारं कार्त्तिकेयं बलस्थं सैन्यमध्यस्थं सन्तं ध्वजिनीपतिं सेनापतिं चक्रुरित्यर्थः । महाभारते अर्जुनवाक्यम्- धर्मं संरक्षते दण्डस्तथैवार्थं नराधिप । कामं च रक्षते दण्डस्त्रिवर्गो दण्ड उच्यते ॥ दण्डेन रक्ष्यते धान्यं धनं दण्डोऽभिरक्षति । तथा, वाचा दण्डो ब्राह्मणानां क्षत्रियाणां भुजार्पणम् । दानदण्डः स्मृतो वैश्यो निर्दण्डः शूद्र उच्यते ॥ असम्मोहाय मर्त्यानामर्थसंरक्षणाय च । मर्यादा स्थापिता लोके दण्डसंज्ञा विशाम्पते ॥ यत्र श्यामो लोहिताक्षो दण्डश्चरति सूद्यतः । प्रजास्तत्र न मुह्यन्ते नेता चेत्साधु पश्यति ॥ ब्रह्मचारी गृहस्थश्च वानप्रस्थोऽथ भिक्षुकः । दण्डस्यैव भयादेते मनुष्या वर्त्मनि स्थिताः ॥ नाभीतो यजते राजन् नाभीतो दातुमिच्छति । नाच्छित्त्वा परमर्माणि नाकृत्वा कर्म दुष्करम् ॥ नाहत्वा मत्स्यघाती च प्राप्नोति महतीं श्रियम् । नाघ्नतः कीर्त्तिरस्तीह न वित्तं न पुनः प्रजाः ॥ इन्द्रो वृत्रवधेनैव महेन्द्रः समपद्यत । य एव देवा हन्तारस्ताँल्लोकोऽर्चयते भृशम् ॥ हन्ता रुद्रस्तथा स्कन्दः शक्रोऽग्निर्व्वरुणो यमः ।
२८८ वीरमित्रोदयस्य राजनीतिप्रकाशे हन्ता कालस्तथा वायुर्मृत्युर्वैश्रवणो रविः ॥ वसवो मरुतः साध्या विश्वेदेवाश्च भारत । एतान् देवान्नमस्यन्ति प्रतापप्रणता जनाः ॥ न ब्रह्माणं न धातारं न पूषाणं कथञ्चन । मध्यस्थान् सर्वभूतेषु दान्तान् श्रमपरायणान् ॥ यजन्ते मानवाः केचित्प्रशस्ताः सर्वकर्मसु । न हि पश्यामि जीवन्तं लोके कञ्चिदहिंसया ॥ सत्त्वैः सत्त्वानि जीवन्ति दुर्बलैर्बलवत्तराः । नकुलो मूषकानत्ति बिडालो नकुलं तथा ॥ बिडालमत्ति श्वा राजन् श्वानं व्यालमृगस्तथा । व्यालमृगो, व्याघ्रः । तानत्ति पुरुषः सर्वान् पश्य धर्मो यथागतः ॥ प्राणस्यान्नमिदं सर्वं जङ्गमं स्थावरं च यत् । विधानं वेदविहितं तत्र विद्वान्न मुह्यति ॥ यथा सृष्टोऽसि राजेन्द्र तथा भवितुमर्हसि । नावधेन हि कुर्वन्ति तापसाः प्राणयापनम् ॥ उदके बहवः प्राणाः पृथिव्यां पर्वतेषु च । न च कश्चिन्न तान् हन्ति किमन्यत्प्राणयापनात् ॥ सूक्ष्मयोनीनि भूतानि तर्कगम्यानि कानि चित् । पक्ष्मणोऽपि निपातेन येषां स्यात्स्कन्धपर्ययः ॥ ग्रामान्निष्क्रम्य मुनयो विनीतक्रोधमत्सराः । वने कुटुम्बधर्माणो दृश्यन्ते परिमोहिताः ॥ भूमिं भित्त्वौषधीश्छित्त्वा वृक्षादीनण्डजान् पशून् । मनुष्यास्तन्वते यज्ञांस्ते स्वर्गं प्राप्नुवन्ति च ॥ १ देहविपर्ययः ।
उपायेषु दण्डः । २८९ दण्डनीत्यां प्रणीतायां सर्वे सिद्ध्यन्त्युपक्रमाः । कौन्तेय सर्वभूतानां तत्र मे नास्ति संशयः ॥ दण्डश्चेन्न भवेल्लोके विनश्येयुरिमाः प्रजाः । जले मत्स्यानिवाभक्ष्यन्दुर्बलान् बलवत्तराः ॥ सत्यं चेदं ब्रह्मणा पूर्वमुक्तं दण्डः प्रजा रक्षति साधु नीतः । पश्याग्नयश्च प्रतिशाम्यभीताः सन्तर्जिता दण्डभयाज्ज्वलन्ति॥ अन्धन्तम इवेदं स्यान्न प्रज्ञायेत किञ्चन । दण्डश्चेन्न भवेल्लोके विभजन्साध्वसाधुनी ॥ येऽपि सम्भिन्नमर्यादा नास्तिका वेदनिन्दकाः । तेऽपि भोगाय कल्पन्ते दण्डेनाशु निपीडिताः ॥ सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्जनः । दण्डस्य हि भयाद्भीतो भोगायैव प्रवर्त्तते ॥ चातुर्वर्ण्यप्रमोदाय सुनीतिनयनाय च । दण्डो विधात्रा विहितो धर्मार्थौ चानुरक्षितुम् ॥ यदि दण्डान्न लभ्येयुर्वयांसि श्वापदानि च । अद्युः पशून्मनुष्यांश्च यज्ञार्थानि हवींषि च ॥ अद्युः, भक्षयेयुः । न ब्रह्मचर्य्यधीयीत कल्याणीं१ न दुहेत२ गाम् । न कन्योद्वहनं गच्छेदयदि दण्डो न पालयेत् ॥ चरेयुर्नाश्रमे धर्मं यथोक्तं विधिमाश्रिताः । न विद्यां प्राप्नुयात्कश्चिद्यदि दण्डो न पालयेत् ॥ विष्वग्लोपः प्रवर्त्तेत भिद्येरन्सर्वसेतवः । ममत्वं न प्रजानीयुर्यदि दण्डो न पालयेत् ॥ १ अपत्यवतीम् । २ लोक इति शेषः । ३७
२९० वीरमित्रोदयस्य राजनीतिप्रकाशे न संवत्सरसत्राणि तिष्ठेयुरकुतोभयाः । विधिवद्दक्षिणावन्ति यदि दण्डो न पालयेत् ॥ न प्रेष्या वचनं कुर्युर्न बाला जातु कस्य चित् । न तिष्ठेद्युवती धर्मे यदि दण्डो न पालयेत् ॥ दण्डे स्थिताः प्रजाः सर्वा भयं दण्डे विदुर्बुधाः । दण्डे स्वर्गो मनुष्याणां लोकोऽयं च प्रतिष्ठितः ॥ न तत्र कूटं पापं वा वञ्चना वापि दृश्यते । यत्र दण्डः सुविहितश्चरते रिपुबाधनः ॥ हविः श्वापि लिहेद्दृष्ट्वा दण्डश्चेन्नोद्यतो भवेत् । हरेत्काकः पुरोडाशं यदि दण्डो न पालयेत् ॥ अर्थे सर्वे समारम्भाः समायत्ता न संशयः । स च दण्डसमायत्तः पश्य दण्डस्य गौरवम् ॥ इति । स च दुर्वृत्तेषु निपात्य इत्याह— याज्ञवल्क्यः, तदवाप्य नृपो दण्डं दुर्वृत्तेषु निपातयेत् । धर्मो हि दण्डरूपेण ब्रह्मणा निर्मितः पुरा ॥ स नेतुं न्यायतोऽशक्यो लुब्धेनाकृतबुद्धिना । सत्यसन्धेन कृतिना सुसहायेन धीमता ॥ नेतुं, प्रणेतुम् । न्यायतः, यथाशास्त्रम् । सत्यसन्धेन, सत्य- प्रतिज्ञेन । यथाशास्त्रं प्रयुक्तः सन्न्सदेवासुरमानुषम् । जगदानन्दयेत्सर्वमन्यथा तु प्रकोपयेत् ॥ अधर्मदण्डनं स्वर्गकीर्त्तिलोकविनाशनम् । सम्यक्तु दण्डनं राज्ञः स्वर्गकीर्त्तिजयावहम् ॥ अपि भ्राता सुतोऽर्च्यो वा श्वशुरो मातुलॊऽपि वा ।
उपायेषु दण्डः । २९१ नादण्ड्यो नाम राज्ञोऽस्ति धर्माद्विचलितः स्वकात् ॥ अर्घ्यः, पूज्यः । यो दण्ड्यान्दण्डयेद्राजा सम्यग्वध्यांश्च घातयेत् । इष्टं स्याच्छुतिभिस्तेन समाप्तवरदक्षिणैः ॥ इति सञ्चिन्त्य नृपतिः क्रतुतुल्यफलं पृथक् । व्यवहारान् स्वयं पश्येत्सभ्यैः परिवृतोऽन्वहम् ॥ कुलानि जातीः श्रेणीश्च गणान् जनपदानपि । स्वधर्माच्चलितात्राजा विनीय स्थापयेत्पथि ॥ इति । कुलानि, कुटुम्बादीनि । जातीः, ब्राह्मणादीन् । श्रेणीः, सुवर्णकारादेः। गणान्,मठब्राह्मणादीन् । जनपदान्, राष्ट्राणि । दण्ड्यश्च द्विविधः-विहिताननुष्ठाता निषिद्धानुष्ठाता च । तदाह- नारदः, यो यो वर्णोऽपहीयेत यथोद्रेकमनुव्रजेत् । तं तं दृष्ट्वा स्वतो मार्गात्प्रच्युतं स्थापयेत्पथि ॥ अशास्त्रोक्तेषु चान्येषु पापयुक्तेषु कर्मसु । प्रसमीक्ष्यात्मना राजा दण्डं दण्ड्येषु पातयेत् ॥ इति । अपहीयेत,स्वधर्माच्च्युतो भवेदित्यर्थः। उद्रेको,निषिद्धं कर्म। मनुरपि, पिताऽऽचार्यः सुहृन्माता भार्या पुत्रः पुरोहितः । नादण्ड्यो नाम राज्ञोऽस्ति यः स्वधर्मे न तिष्ठति ॥ इति । एतच्च मातापित्रादिव्यतिरेकेण । “अदण्ड्यौ मातापितरौ स्नातकपुरोहितपरिव्राजकवानप्रस्थाः श्रुतशीलशौचाचारवन्तस्ते- हि धर्माधिकारिण” इति विज्ञानेश्वरलिखितस्मृतेः । मातापितृत्व- द्वहुश्रुतोऽपि न दण्ड्यः । “स एष बहुश्रुतो भवति” इत्युपक्रम्य- “षड्भिः परिहार्यो राज्ञा अवध्यश्चावन्ध्यश्चादण्ड्यश्चाबहि-
२९२ वीरमित्रोदयस्य राजनीतिप्रकाशे ष्कार्यश्चापरिवाद्यश्चापरिहार्य्यश्च" इतिगौतमोक्तेः। अन्यः पुनर्ब्रा- ह्मणो दण्ड्य एव । सचिह्नं ब्राह्मणं कृत्वा स्वराष्ट्राद्विप्रवासयेत्- इति याज्ञवल्क्योक्तेः । मनुः, तस्यार्थे सर्वभूतानां गोप्तारं धर्ममात्मजम् । ब्रह्मतेजोमयं दण्डमसृजत्पूर्वमीश्वरः ॥ तस्य सर्वाणि भूतानि स्थावराणि चराणि च । भयाद्भोगाय कल्पन्ते स्वधर्म्मान्न चलन्ति च ॥ तं देशकालौ शक्तिं च विद्यां चावेक्ष्य तत्त्वतः । यथार्हतः सम्प्रणयेन्नरेष्वन्यायवर्त्तिषु ॥ स राजा पुरुषो दण्डः स नेता शासिता च सः । चतुर्णामाश्रमाणां च धर्मस्य प्रतिभूः स्मृतः ॥ दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति । दण्डः सुप्तेषु जागर्त्ति दण्डं धर्मं विदुर्बुधाः ॥ समीक्ष्य स धृतः सम्यक् सर्वा रञ्जयति प्रजाः । असमीक्ष्य प्रणीतस्तु विनाशयति सर्वतः ॥ यदि न प्रणयेद्राजा दण्डं दण्ड्येष्वतन्द्रितः । शूले मत्स्यानिवापक्ष्यन्दुर्बलान् बलवत्तराः ॥ अद्यात्काकः पुरोडाशं श्वाऽवलिह्याद्धविस्तथा । स्वाम्यं च न स्यात्कस्मिश्चित्प्रवर्त्तेताधरोत्तरम् ॥ सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्नरः । दण्डस्य हि भयात्सर्वं जगद्भोगाय कल्पते ॥ देवदानवगन्धर्वा रक्षांसि पतगोरगाः । तेऽपि भोगाय कल्पन्ते दण्डेनैव निपीडिताः ॥
उपायेषु दण्डः । २९३ दुष्येयुः सर्ववर्णाश्च भिद्येरन्सर्वसेतवः । सर्वलोकप्रकोपश्च भवेद्दण्डस्य विभ्रमात् ॥ इति । स च दण्डो द्विविधः । तदाह— नारदः, शारीरश्चार्थदण्डश्च दण्डश्च द्विविधः स्मृतः । शारीरस्ताडनादिस्तु मरणान्तः प्रकीर्त्तितः । काकिण्यादिस्त्वर्थदण्डः सर्वस्वान्तस्तथैव च ॥ इति । यत्तु मनुना— धिग्दण्डं प्रथमं कुर्याद्वाग्दण्डं तदनन्तरम् । तृतीयं धनदण्डं तु वधदण्डमतः परम् ॥ इति चतुर्विधत्वमुक्तम् । तत्राद्यं द्वयमल्पापराधविषयम् । वधदण्डः, शारीरो दण्डः । स च ब्राह्मणव्यतिरिक्तस्य कर्त्तव्य इति तत्स्थानानि वदतोक्तं मनुना । दश स्थानानि दण्डस्य मनुः स्वायम्भुवोऽब्रवीत् । त्रिषु वर्णेषु यानि स्युरक्षतो ब्राह्मणो व्रजेत् ॥ उपस्थमुदरं जिह्वा हस्तौ पादौ च पञ्चमम् । चक्षुर्नासा च कर्णौ च धनं देहस्तथैव च ॥ इति । एतेषां यन्निमित्तोऽपराधस्तत्रैवोपस्थादौ निग्रहः कार्यः । धनदानाशक्तस्य दण्डद्वयमाह— कात्यायनः, धनदानासहं बुद्ध्वा स्वाधीनं कर्म कारयेत् । अशक्तौ बन्धनागारं प्रवेश्यो ब्राह्मणादृते ॥ इति । यत्त्वापस्तम्बः, चक्षुर्निरोधो ब्राह्मणस्येति । तत् पुरान्निर्वासनकाले वस्त्रादिना चक्षुर्निरोधः कार्य इति व्याख्येयम् । निरोधपदस्वारस्यात्पूर्वोदाहृतवचनाविरोधाच्च ।
२९४ वीरमित्रोदयस्य राजनीतिप्रकाशे शारीरदण्डवच्चार्थदण्डोऽप्युत्तमसाहसादिभेदेनानेकधेति त- दुपयोगिकृष्णलादिनिरूपणम् । तत्र— याज्ञवल्क्यः, जालसूर्य्यमरीचिस्थं त्रसरेणू रजः स्मृतम् । तेऽष्टौ लिक्षास्तु तास्तिस्रो राजसर्षप उच्यते ॥ गवाक्षप्रविष्टादित्यकिरणेषु यत्सूक्ष्मं वैशेषिकोक्तरीत्या द्य- णुकत्रयारब्धं रजो दृश्यते तत् त्रसरेणुरिति मन्वादिभिः स्मृतम् । गौरस्तु ते त्रयः षट् ते यवो मध्यस्तु ते त्रयः । कृष्णलः पञ्च ते माषास्ते सुवर्णस्तु षोडश ॥ पलं सुवर्णाश्चत्वारः पञ्च वापि प्रकीर्त्तितम् । इति । इदं तु कनकपरिमाणम् । रजतपरिमाणमपि— तेनैवोक्तम् , द्वे कृष्णले रौप्यमाषो धरणं षोडशैव ते । शतमानं तु दशभिर्धरणैः पलमेव तु ॥ निष्कं सुवर्णाश्चत्वारः-इति । कृष्णलद्वयपरिमितो रौप्यस्य माषो भवति। ते षोडश माषा रौप्यस्य धरणम् । दशभिर्धरणैः शतमानसंज्ञकं रौप्यस्य परि- माणम्, तदेव च पलम् । चत्वारः सुवर्णा रौप्यस्य निष्कः । ताम्रपरिमाणमपि — तेनैवोक्तम् , कार्षिकस्ताम्रिकः पणः । इति । सुवर्णपलस्य चतुर्थोऽंशः कर्षः तेन सम्मितः कार्षिकः स ताम्रिकः पणो भवति । ताम्रस्यायं ताम्रिकः । साशीतिः पणसाहस्रो दण्ड उत्तमसाहसः । तदधं मध्यमः प्रोक्तस्तदर्धमधमः स्मृतः ॥