भारतकोश
संग्रह पर लौटें

अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)

Abhijnanashakuntalam of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Abhijnanashakuntalam with Sandarbhadipika Tika & Hindi Translation (उद्गम)

DevanagariHindipublished262 पृष्ठ

अभिज्ञानशकुन्तलम् प्रस्तावना 93

इस “तव भवतु बिडौजाः०” श्लोक को देवनागरी और दाक्षिणात्य वाचना में से हटाया गया है। अर्थात् उसमें एक श्लोक का संक्षेप किया गया है। यहाँ इस श्लोक का संक्षेप किया गया है इतना कहने से बात पूरी नहीं होनी चाहिए। वस्तुतः नाटक में उसकी कोई विशेष उपयोगिता भी नहीं है। इस लिए वह प्रक्षिप्त होने की सम्भावना ही अधिक है। और इस सम्भावना का समर्थन इस बात से होता है कि बंगाली वाचना के श्लोक के स्थान में काश्मीरी वाचना में कोई दूसरा ही श्लोक चल रहा है तथा मैथिली वाचना ने बंगाली वाचना के श्लोक को स्वीकार करने के साथ साथ काश्मीरी वाचना का श्लोक भी स्वीकारा है। अतः इन दोनों श्लोकों को प्रक्षिप्त मानना युक्तियुक्त है। इस सन्दर्भ के अलावा बंगाली और देवनागरी वाचनाओं में सप्तमाङ्क का पाठ प्रायः एक समान प्रवर्तमान है।

उपसंहारः—देवनागरी वाचना ही अधिकाधिक श्रद्धेय (एवं मौलिक) है इस प्रकार की मान्यतावाले विद्वानों ने बंगाली पाठ में प्रक्षेप है ऐसा पूर्वाग्रह बनाकर उसकी नितान्त उपेक्षा की है। दूसरी ओर जिन विद्वानों ने अनेक पाण्डुलिपियों का आलोडन करके बंगाली वाचना के पाठ की समीक्षावृत्ति प्रकाशित की है, उन्होंने बंगाली पाठ ही प्राचीनतर (एवं मौलिक) होने का मताग्रह दृढ कर लिया है। परिणामतः बंगाली पाठ प्राचीनतर या मौलिकता के नजदीक होते हुए भी उसमें प्रकट रूप से दिख रहे प्रक्षेपों का अन्वेषण करने का प्रयास हुआ ही नहीं है। निम्न स्तरीय पाठालोचना के फलस्वरूप बंगाली वाचना की समीक्षावृत्ति का पाठ तैयार हो जाने के बाद, उस पाठ की उच्च स्तरीय आलोचना भी अपेक्षित थी जिसकी विस्तृत चर्चा प्रस्तुत आलेख में की गयी है।

तथा च, देवनागरी वाचना का पाठ ही व्यंजना से युक्त है, अतः वही कालिदासीय पाठ हो सकता है ऐसा माननेवालों ने कभी यह सोचा ही नहीं कि देवनागरी के (विशेष रूप से तृतीयांक के) पाठ में समयनिर्देशन की उक्तियों में पूर्वापर विसंगति है, अतः देवनागरी का पाठ संक्षिप्त किया गया पाठ हो सकता है। देवनागरी वाचना में चल रहा पाठ तो कम समय में पूरे नाटक की प्रस्तुति करने के आशय से अनेक स्थानों पर कटौती किया गया पाठ है। लेकिन राघव भट्ट ने उस संक्षिप्त पाठ में भी सभी सन्धि-सन्ध्यङ्ग को सिद्ध होते हुए दिखाया है इस लिए उसका सर्वाधिक प्रचार हो गया। डॉ० बेलवलकर जी के विविध शोधलेखों के प्रकाशन के बावजूद देवनागरी पाठ के पक्षधर विद्वानों ने अपने पूर्वाग्रहों को पहचाना नहीं। कालिदासीय पाठालोचना की उभयथा दुर्भाग्यपूर्ण इस स्थिति में कुछ बदलाव हो यही अभ्यर्थना है।


The provided image is completely blank and contains no text to transcribe.

चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

।। अभिज्ञानशकुन्तलम् ।।

या सृष्टिः स्रष्टुराद्या वहति विधिहुतं या हविर्या च होत्री
ये द्वे कालं विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम्।
यामाहुः सर्वबीजप्रकृतिरिति यया प्राणिनः प्राणवन्तः
प्रत्यक्षाभिः प्रसन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः।। 1-1।।

[नान्द्यन्ते]

सूत्रधारः—अलमतिविस्तरेण। (नेपथ्याभिमुखमवलोक्य) आर्ये, यदि नेपथ्यविधानम् अध्यवसितं तदिहागम्यताम्।

नटी—(प्रविश्य) अज्ज, इमं म्हि। आणवेदु अज्जो, को णिओओ अणुचिट्ठीअदु त्ति। (आर्ये, इयम् अस्मि। आज्ञापयतु आर्यः, कः नियोगः अनुष्ठीयताम् इति।)


।। ॐ नमो गणेशाय।।

श्रीचन्द्रशेखरपदाम्बुरुहे महेन्द्रश्रीचन्द्रशेखरकृतावनती प्रणम्य।
श्रीचन्द्रशेखरकृती वितनोति वृत्तिं शा(श)कुन्तलस्य विलसत्तनुचित्तवृत्तिम्।।

प्रारि(री)प्सितस्य निर्विघ्नपरिसमाप्तिकामः कविकल्पलताराम¹ वाग्देवता-विश्राम (धाम)² श्रीकालिदासः सकलान्तरायोत्सारण-कारण-स्मरणस्य भगवतः शशधरशिरोमणेरष्टमूर्ति-वर्णनरूपाम् आशीर्वादात्मिकां नान्दीं प्रकाशयति।।

या सृष्टिरिति।। (1-1) ईशः परमैश्वर्यवान् महादेवस्ताभिस्तनुभि-र्मूर्तिर्भिर्वो युष्मान् अवतु रक्षतु। ताभिः काभिः? या सृष्टिः स्रष्टुः स्थावर-जङ्गमात्मक-जगद्विधातुराद्या प्रथमा सृष्टिः। प्रथमतॊ या ब्रह्मणा विहितेति भावः। सा तनुर्जलरूपा।। या हविर्हवनीयद्रव्यं घृतादिकं वहति। हविः कीदृशम्? विधिहूतं, वेदविधानेनाग्नौ क्षिप्तम्। साऽग्निरूपा।। या होत्री यजमानरूपा।। ये द्वे तनू कालं दिवारात्रिरूपम् समयं विधत्तः कुरुतः। ते चन्द्रार्क-रूपे। एतेन दिक्कालात्मव्यावृत्तिः³।। या जगद्⁴ व्याप्य, स्थावरजङ्गमात्मकं जगदाक्रम्य स्थिता वर्तमाना। सा कीदृशी? श्रुतेःकर्णस्य⁵ विषयो गोचरो


  1. मातृका 4117 इत्यत्र कविकल्पलताराम-वाग्देवताविश्रामश्रीकालिदासः इति पठ्यते।
  2. मातृका 4118 इत्यत्र फलकाद् बहिः लिखितम्।
  3. वाक्यमेतत् मातृकयोः (4117-4118) “साकाशरूपे”ति प्राक् पठ्यते, किन्तु स्थानपरिवर्तनं द्वयोर्लिपिकारयोः प्रमादः।
  4. मातृका 4117 इत्यत्र “जगत” पाठो न समीचीनः प्रतिभाति।
  5. मातृका 4117 इत्यत्र वर्णस्य इति दृश्यते।

96 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

सूत्रधारः- आर्ये, अभिरूपभूयिष्ठा परिषत्। तस्यां च श्रीकालिदासग्रथितवस्तुना नवेनाभिज्ञानशकुन्तलनाम्ना नाटकेनोपस्थातव्यमस्माभिः। तत्प्रतिपात्रमाधीयतां यत्नः।
नटी- सुविहिदप्पओअदाए अज्जस्स ण किं पि परिहाइस्सादि।
(सुविहितप्रयोगतया आर्यस्य न किमपि परिहास्यते।)
सूत्रधारः- (सस्मितम्) आर्ये, कथयामि ते भूतार्थम्।


गुणः शब्दो यस्याः सा तथा⁶। साऽऽकाशरूपा।। यां तनुं सर्व्वेषां बीजानां व्रीह्यादीनां प्रकृतिरुत्पत्तिस्थानम् इति कृत्वा आहुः। पुराविदः पण्डिताः वदन्तीत्यर्थः। सा पृथिवीरूपा।। निदाने प्रकृतिः स्त्रियामिति व्याडिः। यया मूर्त्या प्राणिनो मनुष्यादयः प्राणवन्तः, सा वायुरूपा।। प्राणोपान इत्यमरः। तनुभिः कीदृशीभिः? प्रत्यक्षाभिः। योग्ययोगीन्द्र-ज्ञानग्राह्याभिरित्यर्थः। ईशः कीदृशः? प्रसन्नः सन्तुष्टः।।

नान्द्यन्त इति। नान्दीलक्षणञ्च आशीर्यरथ नमस्क्रिया तु शशिनः सङ्कीर्तनं, वस्तुनो निर्देशो गुरुसंस्तुतिर्मधुलिहां मोदाय पुष्पाञ्जलिः। उच्चैः द्वादशभिः पदैरथ समैर्याष्टभिस्तूर्य्यकैः सद्वृत्तेन सुगन्धिना च कथिता नान्दीति सर्व्वागमे इति त्रिलोचनमिश्रादयः। नान्दीं पदैर्द्वा(र्द्वा)दशभिरष्ट्याभिः संस्कृताम्, तां षोडशपदम् एके, केचिदाहुश्चतुष्पदाम्(म्)। सुप्-तिङन्तं पदं, श्लोकतुर्य्यांशश्चेति पक्षयोः(पादयोः)।। “न मुनेः स्वरसः, किं तु गतानुगतिकादरः” इति वामदेवादयः। अन्ये तु पत्रावली⁷ माङ्गलिनो तथा सा नमस्कृतिश्चेति वदन्ति नान्दीम्। शो(श्लो)कस्य पादैरथ सुप्तिङन्तैः कार्य्याऽष्टभिर्द्वादशभिः पदैः स्वेति(श्चेति) नान्द्याश्चातुर्विध्यमाहुः।। तदियं नान्दी। एतदन्ते सूत्रधारो वदति, नान्दीं पठित्वाऽन्यद् वदतीति वाक्यार्थः। तल्लक्षणञ्च नर्तनीय-कथासूत्रं प्रथमं येन सूच्यते। रङ्गभूमिं समाक्रम्य सूत्रधारः स उच्यते⁸। सूत्रधारः पठेन्नान्दीं प्रथमं स्वरमाश्रित इति नयेन नान्द्यन्ते सूत्रधारप्रवेशोऽपास्त इति प्राज्ञः। केचित्तु सूत्रधारः पठेद् एनाम् अन्यो वा रङ्गभूमिग इति पठन्ति। तन्मते स्वर्गादौ(रूपकादौ?) सूत्रधारपदेन लक्ष्णया स्थापकनामपात्रमुक्तम्। तेन नान्द्यन्ते सूत्रधारः स्थापकः प्रविशतीत्यर्थः। काव्यार्थस्थापनात् स्थापकं(कः)। तदुक्तम्-

“रङ्गपूजां विधायादौ सूत्रधारे विनिर्गते।
स्थापकः प्रविशेत् तत्र सूत्रधारगुणाकृतिः॥”

इति। त्रिलोचनमिश्रैस्तु(?) सूत्रधार इति क्रियापदमुक्तम्। सूत्रं भूमिकां धारयतीति⁹ सूत्रधारः स्थापक इत्यर्थः। अन्यस्त्वाहुः नान्दी नान्दीपाठकः अन्ते शेषे इदं प्रयोजितवान्। तदुक्तं भरतेन “अथ पात्राणि तत्रादौ नान्दी। नान्दीस्तु यः पठेद्” इति। चतुर्भुजमिश्रास्तु नान्द्यन्त इत्यस्यायमर्थः। इयं नान्दी, नान्दीति ज्ञातव्यम् अन्ते सूत्रधार प्रविशतीत्याहुः। नव्यास्तु नेयं नान्दी, किन्तु पूर्वरङ्गस्य रङ्गत्वयामाख्या(?) रङ्गमिदम्। तदुक्तं यस्मादभिनयो ह्यत्र प्राथमिक्यादेवतार्थयते। रङ्गत्यावमतो ज्ञेयं वागङ्गाभिनयात्मकमिति नान्द्यास्तु रङ्गद्वारात् प्राङ् नित्यमिति कर्तव्यतया न मुनिना निर्देशः कृतः। “वेदान्तेषु यमाहुरित्यादौ नान्दी लक्षणाद्योगात्। नान्दी-लक्षणन्तु द्वादशाष्टपदपरिच्छिन्नाऽऽशीरादिषु


  1. मातृका 4117 इत्यत्र “ग(गो) चराचरागुणः शब्दो यस्याज्ञ(श्च) सा तथा” इति पठ्यते।
  2. मातृका 4117 इत्यत्र “त पात्रावलिनी”, तन्न समीचीनम्।
  3. शिवानन्दकरी नान्दी, नान्दी विघ्नोपशान्तये इति 4117 इत्यात्राधिकं काकपदेन फलकाद् बहिर्लिखितम्।
  4. शब्दोऽयं 4117 इत्यत्र मातृकायां नास्ति।

अभिज्ञानशकुन्तलम् प्रथमोऽङ्कः 97

आ परितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानम्।
बलवदपि शिक्षितानाम् आत्मन्यप्रत्ययं चेतः।।1-2।।

नटी- एवं णेदं। अणन्तरकरणीयं दाणिं आणवेदु अज्जो। (एवं नु एतत्। अनन्तरकरणीयम् इदानीम् आज्ञापयतु आर्यः।)

सूत्रधारः- आर्ये, किमन्यदस्याः परिषदः श्रुतिप्रसादहेतोर्गीतादनन्तरकरणीयमस्ति।

नटी- अध कदरं उण उदुं समस्सइअ गाइस्सं। (अथ कतरम् पुनः ऋतुम् समाश्रित्य गास्यामि।)

सूत्रधारः- आर्ये, नन्विममेव तावन्नातिचिरप्रवृत्तमुपभोगक्षमं ग्रीष्मसमयमाश्रित्य गीयताम्। सम्प्रति हि-

सुभगसलिलावगाहाः पाटलीसंसर्गसुरभिवनवाताः।
प्रच्छायसुलभनिद्रा दिवसाः परिणामरमणीयाः।।1-3।।


युक्तं पदानीति। तदुक्तं रङ्गद्वारमारभ्य कविः कुर्यादिति। तेन नान्द्यन्ते सूत्रधार इदं प्रयोजितवान्। इतः प्रभृति मया नाटकमुपादीयते इति कवेरभिप्रायः। अत एव प्राचीनग्रन्थे विक्रमोर्वश्यां नान्द्यन्त इत्यनन्तरमेव “वेदान्तेषु यमाहुरि” त्यादि पद्यं दृश्यत इत्यर्थः।।

अलमिति। अलं निष्फलम्। तदुक्तं निष्फलपर्यायैर्भर्तृ(?)हरिमिश्रैः। भवति हि तृतीयान्तेन समर्थितमिति। आवश्यके नान्दीकृता अनावश्यकैः प्रत्यहोरात्रादि प्रपञ्चैः फलाभावैः सदस्यवैरस्यादिति भावः। तदुक्तं-

“यद्यप्यङ्गानि भूयांसि पूर्वरङ्गस्य नाटके।
तथाप्यवश्यं कर्तव्या नान्दी विघ्नोपशान्तये।”

पूर्वरङ्गस्तु नाट्यवस्तुनः पूर्वरङ्गविघ्नोपशान्तये। कुशीलवाः प्रकुर्वन्ति पूर्वरङ्गः स उच्यते।। नेपथ्यं भूषणस्थानम् इति कोषः। रङ्गाद् बहिस्तु नेपथ्यमिति मुनिः।।

आर्ये इति नाट्ये नटी-सूत्रधारावार्य्य नाम्ना परस्परमिति भरतः। नेपथ्यवेशः। आकल्पवेषो नेपथ्यम् इत्यमरः। अध्यवसितं निर्व्यूढम्। पाठान्तरे-नेपथ्ये यद् विधीयते तन्नेपथ्यविधानं नृत्यम्। अध्यवसितमिष्टम्। आर्य इयम् अस्मि। आज्ञापयत्वार्य्यः, को नियोगोऽनुष्ठीयतामिति। रसभावदीक्षागुरोः^{10} श्रीसाहसाङ्कस्या-ऽभिरूपभूयिष्ठा परिषदिति क्वचित् पाठः^{11}। अभिरूपः पण्डितः। वस्त्वितिवृत्तं शकुन्तलादुःषन्त^{12} सम्बन्धिरूपम् अभिज्ञायते स्मर्य्यतेऽनेनेत्यैभिज्ञानचिह्नाङ्गुरीयकम्, तेन स्मृता शकुन्तला, अभिज्ञानशकुन्तला। शाकपार्थिवादिः। तामधिकृत्य कृतो ग्रन्थ इत्यर्थेऽपनायकार्य्यं नाटकस्य गृह्यता(गृहीता)र्थप्रकाशनमिति भरतः।।


  1. रसभावदीक्षादीक्षागुरोः इति 4118 अत्र दृश्यते। रङ्गभावः दीक्षा दीक्षागुरोः इति मातृका 4117 इत्यत्र पठ्यते।
  2. मैथिली पाठपरम्परायां “रसभावविशेषदीक्षागुरोः श्रीविक्रमादित्यस्य साहसाङ्कस्याभिरूपभूयिष्ठा परिषत्। “इति वाक्यमुपलभ्यते। उत्कलीय पाठपरम्परायां “श्रीविक्रमादित्यस्य” इत्याधिकं प्राप्यते।
  3. शकुन्तलाम्बः सन्त इति मातृका 4117 इत्यत्र पठ्यते।

98 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

नटी- (गायति)
खणचुम्बिआइँ भमरेहिँ उअह सुउमारकेसरसिहाइँ।
अवअंसअन्ति सदअं सिरीसकुसुमाइँ पमआओ।। 1-4।।
(क्षणचुम्बितानि भ्रमरैः ऊहत सुकुमारकेसरशिखानि।
अवतंसयन्ति सदयं शिरीषकुसुमानि प्रमदाः।।)


ना(नायिके)त्युत्कण्ठातिशयाय$^{13}$। नाटकेति। तल्लक्षणञ्च-
नाटकं ख्यातवृत्तं स्यात् पञ्चसन्धिसमन्वितम्। पञ्चाधिका दशपरास्तत्राङ्काः परिकीर्तिताः।।
प्रख्यातवंशो राजर्षिर्धीरोदात्तः प्रतापवान्। दिव्योऽथ दिव्यादिव्यो वा गुणवान् नायको मतः।।
एक एव भवेद्ङ्गी शृङ्गारो वीर एव वा। अङ्गमन्ये रसाः सर्वे कार्यो निर्वहणेऽद्भुतः।।
इदञ्च रूपकम्। तदुक्तम्- “नाटकम् अथ प्रकरणं भाण-व्यायोग-समरकाव-(समवकार)-डिमाः। ईहामृगाङ्क-वीथ्यः प्रहसनमिति रूपकाणि दशेति”। अपि च, विष्कम्भकादावपि नो बोधो वाच्यविकारिणः। न चातिरसो वस्तु दुरं विच्छिन्नतां नयेत्। रसं वा न तिरोदध्याद्द्रस्तु अलङ्कारलक्षणैः। घटितं त्रिंशल्लक्षणान्यत्र नाट्यालङ्कृतयस्तथा। त्रयस्त्रिंशत् प्रयोज्यानि वीथ्यङ्गानि त्रयोदश।।

सन्धयश्च [मु]ख$^{14}$-प्रतिमुख-गर्भ-विमर्श-निर्वहणाख्याः। तदङ्गानि चोपक्षेप्यादीनि प्रकारेभ्योऽवसेयानि। एतानि च यथास्थानं किञ्चिदेव वक्ष्यन्ते, विस्तरभयादिति।। आधीयताम् आरोप्यतां यथा कोऽपि स्वर-तालादि-भङ्गो न स्यादिति भावः। स्वविहित-प्रयोगतयाऽभ्यस्तनृत्यतया परिहास्यते। परिहीणं भविष्यति।। सस्मितमिति। सङ्गीतप्राविण्याभिधानात् नटीकृतप्रशंसा जातईर्ष्यादिति शङ्करः। स्मिताख्यहसितश्रोतमानाम्। तल्लक्षणञ्च-ईषद्विकसितैर्गण्डैः कटाक्षैः सौष्ठवान्वितैः। अदृष्ट-दन्तमुकुलैरुतमानां स्मितं भवेत्।।

भूतार्थं सत्यम्।

आपरे०। (1-2) प्रयोगविज्ञानं नृत्यकौशलं बलवत् सुष्ठु की(कि)मुत अत्यतीव च निर्भरे इत्यमरः। शिक्षितानाम् अभ्यस्तविद्यानाम्, अर्थान्तरन्यासः। एवमेतत् अनन्तरकरणीयम् अव्यवधानकर्तव्यम् इदानीम् आज्ञापयत्वार्यः। उत्तरीयानि सरोजेष्विति प्राकृतसूत्रम्। करणिज्जं करणीयमिति द्वयमेव साधु। दानि-शब्द इदानीमर्थे।। ऋतुञ्च कञ्चित्, प्रायेण भारतीं वृत्तिमाश्रित इति नियमाद् आह। कदरमिति कतरम्। पुनर्रृतुम् समाश्रित्य गास्यामि। ननु-शब्दोऽत्रानुज्ञायाम्। ननु-प्रश्नेऽप्यनुनयेऽनुज्ञायामपीति मेदिनी। सम्प्रति हीति, हि-पादपूरणे हेतौ तथा प्रश्नेऽवधारणे इति कोषः।

सुभग०।। (1-3) सुभगं रम्यं, “पाटलैः” पुष्पभेदः। प्रकृष्ट्याच्छाया आतपाभावो यत्र देशे स प्रच्छायः। प्रच्छया प्रच्छायम्। विभाषा सेने (पा. सू. 2-4-25)त्यादिना क्लीबैकत्वमिति शङ्करः, तच्चिन्त्यम्। जात्यलङ्कारः।।

खण०।। (1-4) क्षणचुम्बितानि भ्रमरैः, उअ अपश्यते(दि)त्यर्थः। उअअ (ऊहत)$^{15}$


  1. नायिकोत्कण्ठाः तिशयाय इति मातृका 4118 इत्यत्र पठ्यते।
  2. अस्य स्थाने “सन्धयश्च रथ खप्रतिमुख०” इति 4117 इत्यत्र पठ्यते।
  3. मिथिलातः प्रकाशिते शङ्कर-नरहरीटकाद्वयसहितेनाभिज्ञानशाकुन्तले तु “ऊहत” इति लिखितं वर्तते।

अभिज्ञानशकुन्तलम् \qquad प्रथमोऽङ्कः \qquad 99

सूत्रधारः—आर्ये, साधु गीतम्। असौ हि रागापहृतचित्तवृत्तिरालिखित इव भाति सर्वतो रङ्गः। तत्कतमं प्रयोगमाश्रित्यैनमाराधयामः।

नटी—णं पढमं जेव अज्जेण आणत्तं आहिण्णाणसउन्तलं णाम अउव्वं णाडअं अहिणीअदु त्ति। (ननु प्रथममेव आर्येणाज्ञप्तम् अभिज्ञानशकुन्तलम् नाम अपूर्वम् नाटकम् अभिनीयताम् इति।)

सूत्रधारः—आर्ये, सम्यगवबोधितोऽस्मि। अस्मिन्क्षणे विस्मृतं खलु मयैतत्। कुतः-

तवास्मि गीतरागेण हारिणा प्रसभं हृतः।
एष राजेव दुःषन्तः सारङ्गेणातिरंहसा।।1-5।।

(इति निष्क्रान्तौ)
।। प्रस्तावना ।।


इति शङ्करप्रमादः। सुकुमारकेशरशिखानि। अवतंसयन्ति सदयं शिरीषकुसुमानि प्रमदाः।। पुंस्युत्तंसावतंसौ द्वौ कर्णपूरे च शेखरे इत्यमरः। सदयम् इत्यतिकोमलत्वाद् भङ्गाशङ्कयेति भावः।। रागः स्वरः। रङ्गो रङ्गस्थलम्।। ननु प्रथममेवार्येणाज्ञप्तम् “अभिज्ञानशकुन्तलम्”$^{16}$ नामापूर्वं नाटकम् अभिधी(नी)यतामिति।

सूत्रधारो वदतीति शेषः। एवमन्यत्रापि।

विस्मरणहेतुमाह—तवास्मि०।। (1-5)। प्रसभं बलात् हृतोऽस्वाधीनः कृतोऽस्मि। हारिणा मनोहारिणा। वस्तुस्वरूपं सूचयन्नाह—एष इति। सारङ्गो मृगः। रंहो वेगः। नासूचितस्य पात्रस्य प्रवेशः क्वचिदिष्यत इति भरतः। निष्क्रान्तौ नटी-सूत्रधारावित्यर्थः। इयं प्रस्तावना जातेत्यर्थः। तल्लक्षणञ्च—

“नटी विदूषको वाऽपि पारिपार्श्वक एव वा।
सूत्रधारेण सहिताः संलापं यत्र कुर्वते।।
चित्रैर्वाक्यैः स्वकार्या .... प्रस्तुताक्षेपिभिर्मिथः।
आमुखं तत्तु विज्ञेयं बुधैः प्रस्तावनापि सा।।
उद्घातकः कथोद्घातः प्रयोगातिशयस्तथा।
प्रवर्तकावलगिते पञ्च प्रस्तावनाभेदाः।।

तत्रेयम् अवलगित-नाम्नी प्रस्तावना। तदुक्तम् यत्रैकत्र समावेशात् कार्यमन्यत् प्रसाध्यते। प्रयोगे खलु तज्ज्ञेयं नाम्नाऽवलगितं बुधैरिति। सूचयेद् वस्तुबीजं वा मुखं(मुख्य)पात्रम्, अथापि वेति वचनात् पात्रसूचनमिदम्। धीरोदात्तो धीरोद्ध[त]स्तथा धीरललितः। धीरप्रशान्त इत्ययमुक्तः। प्रथमं चतुर्भेद इति नायकभेदाश्चत्वारः। तत्रायं धीरोदात्तः। तदुक्तं अवि(धि)क-क्षमावान् अतिगम्भीरो महासत्त्वः। स्थेयाननिगूढमानो धीरोदात्तो दृढव्रतः कथित इति। अङ्गी चात्र शृङ्गारः। यद्वा देवा धीरोद्धता ज्ञेया, ललितास्तु नृपादया इति दर्शनाद् धीरललित एवायम्। तल्लक्षणञ्च निश्चितो मृदुरनिशं कलापरो धीरललितः स्यात्। शस्वंति०। तदुक्तं भरतेन, वेशः सांग्रामिकश्चैव भूषणं परिकीर्तितः$^{17}$।


$^{16.}$ अभिज्ञानशकुन्तला नामापूर्वम् इति 4118 इत्यत्र पठ्यते।
$^{17.}$ मातृका 4117 इत्यत्र परिकीर्तितम् इति पठ्यते।

100 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

(ततः प्रविशति रथारूढः सशरचापहस्तो मृगमनुसरन् राजा सूतश्च।)

सूतः- (राजानं मृगं चावलोक्य) आयुष्मन्- कृष्णसारे ददच्चक्षुस्त्वयि चाधित्यकार्मुके। मृगानुसारिणं साक्षात्पश्यामीव पिनाकिनम्।।1-6।।

राजा- सूत ...... सूत ....., दूरममुना सारङ्गेन वयमाकृष्टाः। सोऽयमिदानीं ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने दत्तदृष्टिः पश्चार्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम्। शष्पैरर्धावलीढैः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्त्मा पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्व्यां प्रयाति।।1-7।।

(सविस्मयम्) कथमनुपतत एव मे प्रयत्नप्रेक्षणीयः संवृत्तः।

सूतः- आयुष्मन्, उद्घातिनी भूमिरिति रश्मिसंयमनाद्रथस्य मन्दीभूतो वेगः। तेन मृग एष विप्रकृष्टः संवृत्तः। संप्रति समदेशवर्ती न ते दुरासदो भविष्यति।

राजा- तेन हि विमुच्यन्तामभीषवः।

सूतः- यथाज्ञापयत्यायुष्मान्। (रथवेगं रूपयित्वा) आयुष्मन्, पश्य, एते हि- मुक्तेषु रश्मिषु निरायतपूर्वकायाः स्वेषामपि प्रसरतां रजसामलङ्घ्याः। निष्कम्पचामरशिखाश्च्युतकर्णभङ्गा धावन्ति वर्त्मनि तरन्ति नु वाजिनस्ते।।1-8।।


विचित्र-शस्त्र-कवचो रङ्गगुणो धनुर्धर इति। आयुष्मन्निति वदेद्, राज्ञीं च चेटीज्ञ “भवति!” “इति विदूषकः। “आयुष्मान्” रथिनं सूतो, वृद्धं “तात” इति चेतन इति भरतनियमात्।।

कृष्ण(सारे)०।।(1-6) चक्षुरिति जात्यपेक्षया। साक्षात् प्रत्यक्षं पिनाकिनमिवेत्युत्प्रेक्षालङ्कारः। पिनाकिपदं साभिप्रायम्। “सूत सूते”ति विस्मये। विषादे विस्मये हर्षे कोपे दैन्येऽवधारणे। प्रसादनेऽनुकम्पायां द्वित्रिरुक्तं न दुष्यतीति काव्यमीमांसकाः। संभ्रमे यावद् बोधं वेति च।।

ग्रीवा(भङ्गाभिरामम्) ।।(1-7) अनुपतति पश्चादागच्छति। मुहुः प्रेरितनयनः। पश्चार्धम् अपरार्द्धे अर्धार्च्छरीरस्य अर्द्धोत्तरपदस्य दिग्वाच्यपरस्य पश्चभावो वक्तव्य इत्यपरपदस्य पश्चभावः। शष्पं बालतृणम्। पश्येति वाक्यार्थ-कर्मकम्। उदग्रं विपुलं प्लुतम् गतिभेदः। अत्र भङ्गपदस्यासभ्य-स्मारकत्वेनाभिरामपदस्य समभिव्याहारत्वे विप्रतिपत्तिः, जातिरलङ्कारः। उद्घातिनी निम्नोन-नत्वात्पादस्खलनवती। उद्घातस्तु पुमान् पादस्खलने समुपक्रमे इति मेदिनी। रश्मीति रज्जुसमाकर्षणात्, विप्रकृष्टो दूरस्थः।

अभीषुः प्रग्रहे रश्मावित्यमरः।।

मुक्तेषु।। (1-8) निरायतेति अतिदीर्घशरीराग्रभागाः। स्वेषां निजखुरोद्धूतानां प्रसरतां पुरोगच्छताम् अन्यथा निर्वेगस्याप्यश्वस्य वाताल्लङ्घनाभावाद् गुणाभावः। इदानीञ्जानुकुलो वातः

अभिज्ञानशकुन्तलम्प्रथमोऽङ्कः101

राजा—(सहर्षम्) कथमतीत्य हरिणं हरयो वर्तन्ते। तथा हि-

यदालोके सूक्ष्मं व्रजति सहसा तद्विपुलतां यदर्थे विच्छिन्नं भवति कृतसंधानमिव तत्। प्रकृत्या यद्वक्रं तदपि समरेखं नयनयो- र्न मे दूरे किं चित्क्षणमपि न पार्श्वे रथजवात्।। 1-9।।

(नेपथ्ये) भो भो राजन्, आश्रममृगोऽयं, न हन्तव्यो न हन्तव्यः।

सूतः—(आकर्ण्यावलोक्य च) आयुष्मन्, अस्य खलु ते बाणपातपथवर्तिनः कृष्णसारस्यान्तरायौ तपस्विनौ संवृत्तौ।

राजा—(ससंभ्रमम्) तेन हि निगृह्यन्तामभीशवः।

सूतः—यथाज्ञापयत्यायुष्मान्। (इति तथा करोति) (ततः प्रविशति सशिष्यो वैखानसः)

तापसः—(हस्तमुद्यम्य) भो भो राजन्, आश्रममृगः खल्वयम्।

न खलु न खलु बाणः सन्निपात्योऽय- मस्मिन्मृदुनि मृगशरीरे पुष्पराशाविवाग्निः। क्व बत हरिणकानां जीवितं चातिलोलं क्व च निशितनिपाताः सारपुङ्खाः शरास्ते।। 1-10।।


शङ्क्यते। तेन वा कविरेवम् अवादीदिति केचित्। कीदृशाः कम्पशून्यचामराग्रभागाः, तथा उन्नोनीत उचोलितकर्णाः तरन्ति उत्पल्वन्ते।। नु वितर्के, उभयोः समानाधिकरणाद्। वितर्क इति वेगातिशयोक्तिः। किरणप्रग्रहौ रश्मी इत्यमरः।

अतिशयोक्तिरलङ्कारः। हरयो घोटकाः। त्वक्-केशवाल-लोमानि सुवर्णभानि यस्य तु। हरिर्नामतो वाजी पीतकौशेय समन्वित^18 इत्यश्वभेद इत्यन्ये।

यदा०।।(1-9) मम पार्श्वे दूरे वा क्षणमपि न किञ्चिद् विद्यत इति शेषः। तदेवाह दर्शनविषये यद्दूरदोषात् सूक्ष्मं प्रतिभातमित्यर्थः। एवमग्रेऽपि। तत्कालमेव तद्वस्तु विपुलत्वं याति। आलोके दर्शने सतीति शङ्करः। अर्द्धे विच्छिन्नं द्विधाकृतम्। कृतसन्धानमेकीभूतमिव भवति। स्वभावतो यदुक्तं तदपि समलेखम् अवक्रमिव नयनयोरश्व-वेगादिति च सम्बन्धः। सर्वत्र प्रकृत्येत्यवक्रं नयनयोरिति सम्बन्धः इति शङ्करः। अतिशयोक्तिरलङ्कारः। न हन्तव्य इति। द्विरुक्तिः संभ्रमात्। बाणपातस्य पथि वर्तमानस्य। शङ्करस्तु बाणपात-समवर्तिनः सायकपात-तुल्यदेशस्थितस्य, यद्वा बाणपातसमवर्ती, समः झटिति लक्ष्यहरत्वादिति पाठान्तरमाह। अन्तरायौ विघ्नभूतौ। सम्भ्रमस्त्रासः। सम्भ्रमं त्रयमिच्छन्ति- “भयम् उद्वेगमादरमिति कोषः। उद्यम्य उत्तोल्य।।

न खलु न खलु०।। (1-10) शब्दो निषेधे। द्विरुक्तिरत्यन्तान्निषेधाय। मृदुनि कोमले। बत खेदे। हरिणकानां क्षुद्रहरिणानाम्। लोलं चञ्चलम्। निशित-निपातास्तीक्ष्णप्रहाराः। निपातयतीति निपातः।


  1. संनिभ इति शङ्करेण पठ्यते। (शङ्कर-नरहरीतकयोः सम्पादनं मिथिलाविद्यापीटेन प्रकाशितं (1957) वर्तते।)

102 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

तदाशु कृतसन्धानं प्रतिसंहर सायकम्। आर्तत्राणाय वः शस्त्रं न प्रहर्तुमनागसि।।1-11।।

राजा-(सप्रणामम्) एष प्रतिसंहतः। (इति यथोक्तं करोति।)

तापसः-(सहर्षम्) सदृशम् एवैतत्पुरुवंशप्रभवस्य नरेन्द्रप्रदीपस्य भवतः। सर्वथोभयचक्रवर्तिनं पुत्रमाप्नुहि।

राजा-(सप्रणामम्) प्रतिगृहीतं ब्राह्मणवचः।

तापसौ-राजन्, समिदाहरणाय प्रस्थितावावाम्। एष चास्मद्गुरोः कण्वस्य साधिदैवत इव शकुन्तलयानुमालिनीतीरमाश्रमो दृश्यते। न चेदन्यकार्यातिपातः प्रविश्यात्र गृह्यतामतिथिसत्कारः। अपि च-

धर्म्यास्तपोवनानां प्रतिहतविघ्नाः क्रियाः समभिवीक्ष्य। ज्ञास्यसि कियद्भुजो मे रक्षति मौर्वीकिणाङ्क इति।।1-12।।

राजा-अथ सन्निहितस्तत्र कुलपतिः।

तापसौ-इदानीमेव दुहितरमतिथिसत्कारायादिश्य दैवमस्याः प्रतिकूलं शमयितुं सोमतीर्थं गतः।

राजा-यद्येवं तामेव द्रक्ष्यामि। सैव विदितभक्तिर्मां महर्षये निवेदयिष्यति।

तापसौ-एवं साधयावस्तावत्। (इति सशिष्यो वैखानसो निष्क्रान्तः)

राजा-सूत, प्रेरयाश्वान्। पुण्याश्रमदर्शनेनात्मानं पुनीमहे तावत्।

सूतः-यथाज्ञापयत्यायुष्मान्। (इति भूयो रथवेगं निरूपयति)

राजा-(समन्तादवलोक्य) अकथितोऽपि ज्ञायत एव यथायमाभोगस्तपोवनस्य।

सूतः-कथमिव।

राजा-किं न पश्यसि। इह हि-


शल्यमित्यन्यः। सारो दृढः। पूङ्खः शराधो भागो येषाम्। अत्यन्तासम्भवेऽर्थे क्व-द्वयन्तु प्रयुज्यते। अहो बतानुकम्पायां खेदे सम्बोधनेऽपि चेति मेदिनी। अत्र पुष्पराशावित्यनेनात्यन्तासामञ्जस्यमुक्तम्। ततस्तदेवोपपादयति क्व-बतेति इति पौनरुक्त्या समाधानमाह शङ्करः। गुरवस्तु धन्विनां हि द्वयं पौरुषं दुर्भेद्यस्य भेदनं, दुर्मर्मस्य झटिति मरणं च। तदत्र पुष्पेत्यनेन दुर्भेदत्वं निरस्य, क्व-बतेत्यनेन दुर्मर्मत्वं निरस्तमिति। न कदाचिद् विप्रतिपत्तिः, तेनैतन्मृगमारणेन भवतो न किमपि पौरुषमिति भावः इति सुष्ठु समादधिरे। यत्तु विस्मय-विषादादिषु पौनरुक्त्यं न दोषायेति-तत् कुव्याख्यानम्। तदाशु। (1-11)। आशु शीघ्रं प्रतिसंहरेत्यन्वयः। आर्तत्राणाय दुःखितरक्षणाय अनागसि निरपराधे प्रतिसंहारः संहार एव। तदुक्तम्-धात्वर्थं बाधते कश्चित् कश्चित्तमनुवर्तते। तमेव विशिनष्ट्यन्य उपसर्ग-गतिस्त्रिधेति।। सहर्षमिति। वाचा मात्रेणैवाभिमतसम्पादनात् सर्वथा निर्विघ्नम्। चक्रवर्तिनं

अभिज्ञानशकुन्तलम्प्रथमोऽङ्कः103

नीवाराः शुककोटरार्भकमुखभ्रष्टास्तरूणामधः
प्रस्निग्धाः क्वचिदिङ्गुदीफलभिदः सूच्यन्त एवोपलाः।
विश्वासोपगमादभिन्नगतयः शब्दं सहन्ते मृगा-
स्तोयाधारपथाश्च वल्कलशिखानिष्यन्दलेखाङ्किताः।।1-13।।

अपि च-

कुल्याम्भोभिः पवनचपलैः शाखिनो धौतमूला
भिन्नो रागः किसलयरुचामाज्यधूमोद्गमेन
एते चार्वागुपवनभुवि च्छिन्नदर्भाङ्कुरायां
नष्टाशङ्का हरिणशिशवो मन्दमन्दं चरन्ति।।1-14।।

सूतः- सर्वम् उपपन्नम्।


सार्वभौमम्। गृहीतमिति, एवं भवती(त्वि)त्यर्थः। प्रस्थितौ गन्तुमुद्यतौ। अयञ्चोल्लेखनामा नाट्यालङ्कारः। यदुक्तं कार्यदर्शनमुल्लेख इति। साधिदैवत इत्यनेन शकुन्तलायाः सौन्दर्यातिशय उक्तः। मालिनी नदीभेदः। तस्यास्तीरमनु समीपे। अतिपातः प्रत्यूहः।

धर्म्या०।।(1-12) धर्मानपेताः। धर्मे साधैवारा,(साधिकाराः?) क्रिया यज्ञादिकाः। किणः संघर्षजो $^{19}$ व्रणः, अङ्कश्चिह्नं यस्य।। अथ प्रश्ने। कुलपतिर्बहूनां तापसानां मुख्यः। इदानीमिवेत्यनेन कुलपतिश्चिरात् प्रत्यागमिष्यतीति गम्यम्। अतिथित्यनेन सुलभमेव तत्कन्यादर्शनमिति च। तेन च नृपस्याश्रमप्रवेशनौपयिकं रूपमुक्तम्। दैवमिति विवाहप्रतिबन्धकं दूरदृष्टम्। विदितभक्तिरिति क्रियाविशेषणेन समासः। एवम् अङ्गीकारे, साधयामो गहारः। प्रायेण न्यन्तकः(?) सार्धिर्गमे प्रस्थाने प्रयुज्यत इति भरतः। तावच्छब्दः परिच्छेदे। यावत्-तावत् परिच्छेदे इति शाश्वतः। आभोगो विस्तारः। कथमिवेति वाक्यालङ्कारे। परिचायकं रूपमुपदर्शयन्नाह-“इह ही”ति, हिरत्र हेतूपदेशे। प्रश्ने हेतूपदेशे हि इति मेदिनी।

नीवाराः०।।(1-13) नीवारा उडीति ख्याता धान्यभेदा दृश्यन्त इत्यन्वयः। शुकानां कोटरेषु काष्ठविवरेषु येऽर्भकाः शावाः(वकाः)। क्वचित् प्रदेशे स्निग्धा अतिचिक्कणाश्चेद् अत इङ्गुदीफलभिदः प्रस्तराः सूच्यन्ते बुध्यन्ते दृश्यन्ते इत्यन्ये। इङ्गुदी तापसतरुरित्यमरः। एवकारोऽन्ययोगव्यवच्छेदे। अभिन्नगतयोऽविकृतगतयः। बन्धनेति बन्धनाग्रात् क्षरन्तीति लेखाभिश्चिह्निताः। स्निग्धो वत्सलचिक्कणाविति शाश्वतः। अन्यदस्याह।।

कुल्या०।।(1-14) कुल्या कृत्रिमनदी, प्रसुतानि विस्तार{य्}शीलानि दन्तिचपलानि। पवनेति च पाठः। किसलयेन रुचो येषां, तेषां वृक्षाणां रागो लोहित्यम्। हूतं घृतादिषु धूमानामुर्ध्वगमनेन भिन्नोऽन्यथा भूत इति शङ्करः। अन्ये तु “कृदभिहितो $^{20}$ भावो द्रव्यवत् प्रकाशत” इति रूक् सहित किसलयानामित्यर्थः। यथा मालत्यां०। यद्वा “नेन्दुकलोदयाद् अवचितै”रित्यादीत्याहुः। नव्यास्तु रागोऽनुरागः। तथा च किसलय-रुग् विषये योऽनुरागः सोऽपगत इत्यर्थः। धूमैः किसलयस्य मालिन्यात्


  1. सहर्षयो इति 4117 इत्यत्र पठ्यते।
  2. विहितो इति 4117 इत्यत्र पठ्यते।

104 चन्द्रेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

राजा—(स्तोकमान्तरं गत्वा) सूत, आश्रमोपरोधो मा भूत्तदिहैव रथं स्थापय यावदवतरामि।

सूतः—धृताः प्रग्रहाः। अवतरत्वायुष्मान्।

राजा—(अवतीर्यात्मानमवलोक्य च) सूत, विनीतवेषप्रवेश्यानि तपोवनानि। तदिदं तावद्गृह्यतामाभरणं धनुश्च। (इति सूतस्यार्पयति) यावदाश्रमवासिनः प्रत्यवेक्ष्य निवर्तिष्ये तावदार्द्रपृष्ठाः क्रियन्तां वाजिनः।

सूतः—यथाज्ञापयसि (इति निष्क्रान्तः)

राजा—(परिक्रम्यावलोक्य च) इदमाश्रमपदम्, यावत्प्रविशामि। (प्रविष्टकेन निमित्तं सूचयित्वा) अये—

शान्तमिदमाश्रमपदं स्फुरति च बाहुः कुतः फलमिहास्य।
अथवा भवितव्यानां द्वाराणि भवन्ति सर्वत्र।।1–15।।

(नेपथ्ये)
इदो इदो पियसहीओ। (इतः इतः प्रिय सख्यौ।)

राजा—(कर्णं दत्त्वा) अये, दक्षिणेन वृक्षवाटिकायामालाप इव श्रूयते। भवतु अवगच्छामि। (परिक्रम्यावलोक्य च) अये, एतास्तपस्विकन्यकाः स्वप्रमाणानुरूपैः सेचनघटैर्बालपादपेभ्यः पयो दातुमिव एवाभिवर्तन्ते। अहो, चित्रमासां दर्शनम्।

तद्विषये च। नानामनुरागो नास्तीति भाव इत्याहुः। रागोऽनुरागे मात्स्र्ये क्लेशादौ लोहितादिष्विति कोषः। अर्वाक् शब्दोऽव्ययोऽग्रतो वाची। अग्रत एते दृश्यमाना हरिणशावका विश्वासात् त्यक्तभया मन्दं मन्दं चरन्ति, धावन्ति, भक्षयन्ति तृणानीत्यर्थादित्यन्ये। छिन्नेति। अर्थाद् ऋषिभिः अयमपि तपोवनाभोगोऽस्वतन्त्रो हेतुः। श्लोकद्वये(1-13,14) प्यनुमानाख्योऽलङ्कारः। तदुक्तं-लिङ्गाद् यल्लिङ्गिनो ज्ञानम् अनुमानं तदिष्यत इति। उपरोधो बाधा मा भूत्, न भवतु।

“माङि लुङ्” (पा.सू. 3-3-175) इति कालसामान्ये लुङ्। हयरश्मौ तुलासूत्रे प्रग्रहः सद्द्भिरिष्यत इति शाश्वतः। विनीत। तथा च मनुः—“विनीतात्मा हि नृपतिर्न विनश्यति कर्हिचित्”। नीतिनामा नाट्यालङ्कारोऽयम्।

यदुक्तम्-नीतिः शास्त्रानुवर्त{मा}नमिति। निष्क्रान्तो रङ्गभूमेरित्यर्थः। प्रविष्टकं प्रवेशोचित-गतिभेदः। निमित्तं कुशलम्। अये सम्बोधने। अये कोपे सम्भ्रमे च सम्बुद्धौ स्मरणेऽपि चेति विश्वः।

शान्तम्। (1-15) शान्तं विकारशून्यम् रागिजनशून्यं वा। पदं स्थानम्। चकारः पुनरर्थे, बाहु-र्ममेत्यर्थात् फलं वराङ्गनालाभः। स इह निर्विकाराश्रमे कुतोऽस्ति {क्ष} वर्तते। यद्वा वर्तमानसामीप्ये भविष्यति लट्,। यद्वाक्षेपेऽवष्टम्भे इति शङ्करः। अवष्टम्भे तथाक्षेपे पक्षान्तरेऽथवा स्मृतमिति कोषः। भवितव्यानां विधिविलसितानां द्वाराण्यागमनपथाः। सव्येतरभुजस्पन्दो वरस्त्रीलाभसूचक इत्यद्भुतसारः²¹। आक्षेपालङ्कारः। अनुमानालङ्कार इति शङ्करः। नेपथ्य इति वाक्यस्यार्थतया यत्र


²¹ इत्यद्भुतसागरः इति 4117 इत्यत्र पठ्यते। मिथिलातः प्रकाशितायां शङ्करटीकायां “अद्भुतसारः” इति प्राप्यते।

अभिज्ञानशकुन्तलम् \qquad\qquad प्रथमोऽङ्कः \qquad\qquad 105

शुद्धान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य।
दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः॥ 1-16 ॥

यावदेताश्छायामाश्रितः प्रतिपालयामि। (इति विलोकयन् स्थितः)

(ततः प्रविशति यथोक्तव्यापारा सह सखीभ्यां शकुन्तला)

एका—हला सउन्तले, तत्तो वि तादकण्वस्स अस्समरुक्खआ पिअ त्ति तक्केमि जेण णोमालिआ कुसुमपरिपेलवा वि तुमं एदेसुं आलवालपूरणेसुं णिउत्ता। (सखि शकुन्तले, त्वत्तः अपि तातकण्वस्याश्रमवृक्षकाः अतिप्रियाः इति तर्कयामि। येन नवमालिका कुसुमपरिपेलवा अपि त्वम् एतेषु आलवालपूरणेषु नियुक्ता।)

शकुन्तला—हला, अणसूए, ण केवलं तादस्स णिओओ ममावि सहोअरसिणेहो एदेसुं। (सखि अनसूये, न केवलं तातस्य नियोगः, ममापि सहोदरस्नेहः एतेषु।)

(इति वृक्षसेचनं नाटयति)

प्रियंवदा—सहि सउन्तले, उदअं लम्भिदा एदे गिम्हआलकुसुमदइणो अस्समरुक्खआ। इदाणिं अदिक्वन्तकुसुमसमए वि रुक्खए सिञ्चम्हे। तेण हि अणहिसंधिगरुओ धम्मो भविस्सदि। (सखि शकुन्तले, उदकम् लम्भिताः एते ग्रीष्मकालकुसुमदायिनः आश्रमवृक्षकाः इदानीम् अतिक्रान्तकुसुमसमयान् अपि वृक्षकान् सिञ्चामः। तेन हि अनभिसन्धिगुरुः धर्मः भविष्यति।)

शकुन्तला—सहि पिअंवदे, रमणीअं मन्तेसि। (इति भूयो वृक्षसेचनं नाटयति।) (सखि प्रियंवदे, रमणीयं मन्त्रयसे।)

राजा—(आत्मगतम्) कथमियं सा कण्वदुहिता शकुन्तला। (सविस्मयम्) अहो असाधुदर्शी तत्रभवान् कण्वो य इमां वल्कलधारणे नियुङ्क्ते।


पात्रं नैव प्रशस्यते। नेपथ्य इति वाकाशे प्रयोक्तव्यम्। तत्र नाटक इति भरतः इति शङ्करः। इत इतः प्रियसख्यौ। द्विवचनस्य बहुवचनमिति प्राकृतसूत्राद् बहुवचनम्। दक्षिणेन वृक्षवाटिकायां दक्षिणभागे इत्यर्थः। अत्र लक्षणया वृक्षवाटिकाशब्द उपवनमात्रे। संलापो भाषणं मिथः इत्यमरः। अयेति कोमलानुमन्त्र....(?) अहो सुकन्यका एता सेचनघटैर्नवीनवृक्षेभ्यो जलं दातुमत्रागच्छन्ति। अहो चित्रम् आसां दर्शनम्, एतेन रत्युत्पत्तिरुक्ता।

शुद्धान्त० (1-16) ।। शुद्धान्तेऽन्तःपुरम् अवरोधस्य राजस्त्रिया दुर्लभं दर्शनमेव ज्ञातव्यम्। अन्तः शब्दोऽव्ययम्। स्त्रीणां तु प्राकृतमिष्टत्वाच्च, यदाह भरतः संस्कृतात् प्राकृतं श्रेष्ठम् इति। भाषा चेयं सौरसेनी नायिकादीनां प्रशस्ता। यदाह भरतः नायिकानां सखीनाञ्च सौरसेनी प्रयुज्यते इति। सखि शकुन्तले, त्वत्तोऽपि तातकण्वस्याश्रमवृक्षका अतिप्रिया इति तर्कयामि। कः स्वार्थे। स्वार्थे को वेति प्राकृतसूत्रम्। येन नवमालिका कुसुमपरिपेलवापि त्वमेतेषु आलवालपूरणेषु नियुक्ता। श्रेष्ठनायिकेयं, यदाह भरतः। दिव्या च भूपपत्नी च कुलस्त्री गणिका तथा। चतस्रो नायिकाः श्रेष्ठा वेश्याद्या मध्यमाधमाः। सखि, न केवलं तातस्य नियोगो ममापि सहोदरस्नेह एतेषु। अनसूया-प्रियंवदेति

106 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

इदं किलाव्याजमनोहरं वपुस्तपःक्लमं साधयितुं य इच्छति।
ध्रुवं स नीलोत्पलपत्रधारया शमीलतां छेत्तुमृषिर्व्यवस्यति।। 1-17।।

भवतु, पादपान्तरितो विश्‍वस्तां तावदेनां पश्यामि। (इत्यपवार्य स्थितः)

शकुन्तला-हला, अणसूए, अदिपिणद्धेण एदिणा वक्कलेण पिअंवदाए दढं पीडिद म्हि। ता सिढिलेहि दाव णं। (अनुसूया शिथिलयति), (सखि अनसूए, अति पिनद्धेनैतेन वल्कलेन प्रियंवदया दृढं पीडितास्मि। तत् शिथिलय तावदेनम्।)

प्रियंवदा-(विहस्य)-एत्थ दाव पओहरवित्थारइत्तअं अत्तणो जोव्वणारम्भं उवालहसु।
(अत्र तावत् पयोधरविस्तारयितृकमात्मनो यौवनमुपालभस्व।)

राजा-सम्यगियमाह-
इदमुपहितसूक्ष्मग्रन्थिना स्कन्धदेशे
स्तनयुगपरिणाहाच्छादिना वल्कलेन।
वपुरभिनवमस्याः पुष्यति स्वां न शोभां
कुसुममिव पिनद्धं पाण्डुपत्रोदरेण।। 1-18।।


सख्यौ, एते अनुनायिके च। यदाह भरतः-सखी प्रव्रजिता दासी प्रेष्या धात्रेयिका तथा। अन्याश्च शिल्पकारिण्यो विज्ञेया ह्यनुनायिका इति। सखि शकुन्तले, उदकं लम्भिता एते ग्रीष्मकालकुसुमादायिन, आश्रमवृक्षान् सिञ्चामः। शनय(शमन) इति शमः। स्थाने श्र आदेशः। तेन हि अनभिसन्धिगुरुधर्मो भविष्यति। सखि, रमणीयं मन्त्रयसि। आत्मगतमिति तत् प्रीत्यै यद्वस्तु तदिह स्वगतं मतमिति भरतः। कथमिति हर्षे। कथं हर्षे च गर्हायामिति मेदिनी। सा शकुन्तलेति या तपस्विना कथितेति भावः। अहो विषादे। विषादे विस्मयेऽप्यहो इति कोषः। तत्रभवान् श्लाघ्यः। श्लाघ्ये तत्रभवान् मुख्या इति भरतः। असाधुदर्शी अनभिज्ञः। तदेव प्रकटयन्नाह। इदं। (1-17) किल निश्चये। अव्याजेति। स्वाभावरम्यम् इदं शरीरम्। तपः तपोयोग्यं साधयितुं कर्तुं य इच्छतीत्यन्वयः। ध्रुवं निश्चितं शमीदृढतर लताभेदः। एतस्यातिमधुरस्य शरीरस्य तपाक्षमत्वकरणं नीलोत्पलपत्रधारया शमीलता-कर्त्तनं यथा न भवति, तथैतदपि। वपुः क्षमं तपः साधयितुं भविष्यतीति पाठान्तरश्चेत्याह। अभिप्रायाख्यं नाट्यलक्षणमिति। तदुक्तं अभिप्रायस्तु सामर्थ्याद् भूतार्थस्य कल्पनेति। सखि अनसूये, अतिपिनद्धेनौमुना वल्कलेन प्रियम्वदया²² दृढं पीडितास्मि, तस्माच्छिथिलय तावद् इदम्। इदं बन्धनमित्यर्थः। विहस्येति। विहसितमाह भरतः। आकुञ्चिताक्षि गन्तङ्ग निःश्वनं मधुरं तथा। कालागतं सानुरागं नृणां विहसितं भवेदिति।। सखि, अत्रतावत् पयोधरभार-विस्तारयुक्तमात्मनो यौवनारम्भम् यौवनोद्यममुपालम्भस्व। निन्द हेतुकशब्दः प्राकृते मतुबर्थः। शङ्करस्तु पयोधरभार-विस्तारयितार-बन्धकम् इत्याह। इदं० ।। (1-18)। परिणाहो विशालता। अभिनवं तारुण्यमारूढम्। स्वामात्मीयां शोभां कान्तिम् अभिख्यामिति पाठेऽपि शोभैवार्थः। पिनद्धमालिङ्गितम्। पाण्डु धूसरं यत् पत्रं तदन्यन्तरेण। अतस्तु नाभोगदर्शनादुद्दीपनविभावात्।


²² मातृका 4117 इत्यत्र सर्वत्र प्रियंवदेति शब्दः "प्रियमुदा" इत्येवं रीत्या लिखितम्।

अभिज्ञानशकुन्तलम्प्रथमोऽङ्कः107

अथवा काममप्रतिरूपमस्य वयसो वल्कलं न पुनरलङ्कारश्रियं न पुष्णाति। कुतः–

सरसिजमनुविद्धं शैवलेनापि रम्यं मलिनपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति। इयमधिकमनोज्ञा वल्कलेनापि तन्वी किमिव हि मधुराणां मण्डनं नाकृतीनाम्॥१-१९॥

[अपि च–

कठिनमपि मृगाक्ष्या वल्कलं कान्तरूपं न मनसि रुचिभंगं स्वल्पमप्यादधाति। विकचसरसिजायाः स्तोकनिर्मुक्तकण्ठं निजमिव कमलिन्याः कर्कशं वृन्तजालम्॥१-२०॥]²³

शकुन्तला–(अग्रतोऽवलोक्य) सहीओ, एस वादेरिदपल्लवाङ्गुलीहिं किं पि वाहरेदि विअ मं चूदरुक्खओ। ता जाव णं संभावेमि। (इति तथा करोति) (सख्यौ, एषः वातेरितपल्लवाङ्गुलीभिः किमपि व्याहरतीव मां चूतवृक्षकः। तद्यावदेनम् सम्भावयामि)

प्रियंवदा–हला सउन्तले, इध ज्जेव मुहुत्तअं चिट्ठ। (सखि शकुन्तले, इहैव मुहूर्त्तकं तिष्ठ।)

शकुन्तला–किं णिमित्तं। (किं निमित्तम्।)


उर्दनरूप/तद्बर्धनरूप वाग्-व्यापाराच्च निरन्तरोत्पन्न-सात्त्विक-व्यभिचारिभावाच्च रसपुष्टिः। स्वोक्तम् आक्षिपति-अथवेति। अप्रतिमरूप(म्) मन्तव्यं अस्य वयसो यौवनस्येत्यर्थः। शङ्करस्तु वयो यौवनमित्याह। वयो यौवनमात्रके इति विश्वः। न पुष्णाति [इति] न, अपि तु पुष्णात्येव। निषेधस्य निषेधेन स्वायोगव्यवच्छेद इति चातुर्यम्, एवमना(न्य)त्र। अतुल्य सम्बन्धेऽपि शोभात्वे दृष्टेत्याह। सर०। (1-19)। मधुराणां निसर्गसुन्दरीणाम् आकृतीनां समर्थनामाह-किमिव हि इति।। सामान्येन विशेषसमर्थन-रूपो-ऽर्थान्तरन्यासः। स च शकुन्तला-सरसिजयोः सादृश्य-प्रतीतिहेतुकदीपकेन सङ्कीर्णः। स(श)ङ्करस्तु तुल्ययोगितामाह। इदञ्च माधुर्यं नाम यौवनालङ्कारः। तदुक्तम्-सर्ब्वावस्थाविशेषेण माधुर्यं रमणीयतेति।

कठिन०।। (1-20)। कान्तरूपमेतत् सङ्गादिति भावः। रुचिरिच्छा स्तोकेति ईषद्-दूखित/(विकच?)पुष्याऽधोभागम्। पद्यमिदं दाक्षिणात्य-तीरभुक्तीय ग्रन्थेषु न दृश्यते।।

सख्यौ, एष वातेरितपल्लवाङ्गुलीभिः किमपि मां व्याहरतीव वृक्षः, तस्मादेनं सम्भावयामि जन(ल)दानादिना पुरस्करोमि, प्राप्नोमि वा। सखि शकुन्तले, इहैव मुहूर्तं तिष्ठ। किं निमित्तम्। किमर्थम् मया स्थातव्यमित्यर्थः। त्वया समीपस्थितया लतासनाथ इवायं चूतवृक्षः प्रतिभाति। अत एव प्रियम्वु(यंव)देति, त्वम् उच्यसे।


२३. अंशोऽयं रिचार्ड पिशेलेन सम्पादिते बंगदेशीयपाठे न स्वीकृतः।

108 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

प्रियंवदा-तए समीवट्ठिदाए लदासणाधो विअ अअं चूदरुक्खओ पडिभादि। (त्वया समीपस्थितया लतासनाथः इव अयं चूतवृक्षकः प्रतिभाति।)

शकुन्तला-अदो ज्जेव पिअंवद त्ति तुमं वुच्चसि। (अतः एव प्रियंवदा इति त्वम् उच्यते।)

राजा-अवितथमाह प्रियंवदा, तथा ह्यास्याः

अधरः किसलयरागः कोमलविटपानुकारिणौ बाहू।
कुसुममिव लोभनीयं यौवनमङ्गेषु सन्नद्धम्।।1-21।।

अनुसूया-हला सउन्तले, इअं सअंवरवहू सहआरस्स तए किदणामहेआ वणदोसिणि त्ति णोमालिआ। (हला शकुन्तले, इयं स्वयंवरवधूः सहकारस्य त्वया कृतनामधेया वनतोषिणी इति नवमालिका।)

शकुन्तला-(उपगम्यावलोक्य च सहर्षम्) हला अणसूए, रमणीओ क्खु इमस्स पादवमिधुणस्स वदिअरो संवुत्तो। इअं णवकुसुमजोव्वणा णोमालिआ, अअं पि बद्धफलदाए उवभोअक्खमो सहआरो त्ति। (इति पश्यन्ती तिष्ठति)

(सखि अनसूए, रमणीयः खल्वस्य पादपमिथुनस्य व्यतिकरः संवृत्तः। इयम् नवकुसुमयौवना नवमालिका, अयमपि बद्धफलतया उपभोगक्षमः सहकारः इति।)

प्रियंवदा-(सस्मितम्) अणसूए, जाणासि किं णिमित्तं सउन्तला वणदोसिणिं अदिमेदं पेक्खदि त्ति। (अनसूये, जानासि किंनिमित्तं शकुन्तला वनतोषिणीमतिमात्रं प्रेक्षते इति।)

अनुसूया-ण क्खु विभावेमि। कधेहि। (न खलु विभावयामि। कथय।)

प्रियंवदा-जधा वणदोसिणी सरिसेण पादवेण संगदा तथा अवि णाम अहं पि अत्तणो अणुरूवं वरं लहेअं ति। (यथा वनतोषिणी सदृशेन पादपेन सङ्गता, तथापि नामाहम् अप्यात्मनोऽनुरूपं वरं लभेयेति।)


अधरः०।। (1-21)। विटपः शाखी। शाखा तु विटपोऽस्त्रियामिति कोषः। लोभनीयं लोभजनकम्। कर्त्तव्यनीयः। पदोच्चयाख्यम् नाट्यलक्षणमिदम्। स योऽर्थानुरूपो यः पदानां, स पदोच्चय इत्युक्तेः। अत्र हि पद-पदार्थयोः सौकुमार्यं तुल्यमेव। उपमालङ्कारः।

सखि शकुन्तले, इयं स्वयंवरवधूः सहकारस्य त्वया कृतनामधेया “वनतोषिणी”ति नवमालिका तिष्ठतीत्यर्थः। स्वयंम्वरवधूः स्वातन्त्र्यविहितवल्लभा। एतेन तवापि स्वातन्त्रेण वल्लभलाभ इति सूचनमिति शङ्करः। रमणीयः खलु एतस्य पादपमिथुनस्य व्यतिकरः संपर्कः संवृत्तः। व्यतिकर इति स्थाने, काल इति पाठः क्वचित्। रमणीयत्वमेवाह, इयं नवकुसुमयौवना नवमालिका, अयमपि बद्धफलतया उपभोगक्षमः सहकारः। अनसूये, जानासि किं निमित्तं शकुन्तला वनतोषिणीम् अतिमात्रं पश्यति। दृशेः पुलअ-पेच्छ-निअहा इति प्राकृतसूत्रम्। न खलु विभावयामीत्यर्थात्। यथा वनतोषिणी सदृशेन पादपेन सङ्गता, तथाऽहमपि नामानुरूपं वरं लभेयमिति। वरं जामातारम्।

अभिज्ञानशकुन्तलम् प्रथमोऽङ्कः 109

शकुन्तला— एस अत्तणो दे चित्तगदो मणोरधो। (एषः आत्मनः ते चित्तगतः मनोरथः।)
(इति कलशमावर्जयति।)

अनुसूया— हला सउन्तले, इअं तादकण्णेण तुमं विअ सहत्थसंवड्ढिदा माहवीलदा। इमं विसुमरिदा सि। (सखि शकुन्तले, इयम् तातकण्वेन त्वमिव स्वहस्तसंवर्धिता माधवीलता। इमां विस्मृतासि।)

शकुन्तला— तदो अत्ताणं पि विसुमरिस्सं। (लतामुपेत्यावलोक्य च सहर्षम्) अच्छरीअं अच्छरीअं। पिअंवदे, पिअं दे णिवेदमि। (ततः आत्मानमपि विस्मरिष्यामि। आश्चर्यम् ... ... आश्चर्यम् ....... प्रियंवदे, प्रियं ते निवेदयामि।)

प्रियंवदा— सहि, किं मे पिअं। (सखि, किं मे प्रियम्।)

शकुन्तला— असमए क्खु एसा आ मूलादो मउलिदा माहवीलदा। (असमये खल्वेषा आमूलात् मुकुलिता माधवीलता।)

उभे— (सत्वरमुपगम्य) सहि,सच्चं सच्चं। (सखि, सत्यं सत्यम्।)

शकुन्तला— सच्चं, किं ण पेक्खध। (सत्यम्। सखि, किं न प्रेक्षेथे।)

प्रियंवदा— (सहर्षम् निरूप्य) तेण हि पडिप्पिअं दे णिवेदेमि। आसण्णपाणिग्गहणा सि तुमं। (तेन हि प्रतिप्रियं ते निवेदयामि। आसन्नपाणिग्रहणासि त्वम्।)

शकुन्तला— (सासूर्यम्) णूणं एस दे अत्तगदो मणोरधो। (नूनम् एषः ते आत्मगतः मनोरथः।)

प्रियंवदा— ण क्खु परिहासेण भणामि। सुदं खु मए तादकण्णस्स मुहादो तुए कल्लाणसूअअं इदं णिमित्तं ति। (न खलु परिहासेन भणामि। श्रुतं खलु मया तातकण्वस्य मुखात्त्व कल्याणसूचकम् इदं निमित्तम् इति।)

अनुसूया— पिअंवदे, अदो ज्जेव सउन्तला ससिणेहा माहवीलदं सिञ्चदि। (प्रियंवदे, अतः एव शकुन्तला सस्नेहा माधवीलतां सिञ्चति।)

शकुन्तला— जदो मे बहिणिआ भोदि तदो किं ति ण सिञ्चिस्सं। (यतः मे भगिनी भवति ततः किमिति न सेक्ष्यामि। (इति कलशमावर्जयति)


एष आत्मनस्ते चित्तगतो मनोरथः। सखि शकुन्तले, इयं तातकण्वेन त्वमिव स्वहस्तसंवर्द्धिता माधवीलता, तत्कथमेनां विस्मृतासि। गत्यार्थादि-सूत्रे चकारात् कर्तरि क्तः। अतः आत्मानमपि विस्मरिष्यामि। सहर्षम् इति। अस्याः कुसुमोद्गमोऽयं मम विवाहसूचक इति भावात्। आश्चर्यम् आश्चर्यम् द्विरुक्ती(किरि)व सावेशेन अकालकुसुमदर्शनाद् आश्चर्यम्। प्रियंवदे, प्रियं ते निवेदयामि। सखि, किम् मे प्रियम्। असमये खल्वेषा आमूलान्मुकुलिता माधवीलता। क्खु-शब्दः खल्वर्थः इति साहित्यरत्नाकरः। सखि, अपि सत्यं, सत्यं किं न पश्यथ। तेन हि प्रतिप्रियं ते निवेदयामि।

110 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

राजा- अपि नाम कुलपतेरियमसवर्णक्षेत्रसम्भवा भवेत्। अथवा कृतं सन्देहेन,

असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः।
सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः ॥ 1-22 ॥

तथापि तत्त्वत एनामुपलप्स्ये ।

शकुन्तला- (ससंभ्रमम्) अम्मो, णोमालिअं उज्झिअ वअणं मे महुअरो अहिलसदि।
(अम्भो, नवमालिकामुज्झित्वा वदनं मे मधुकरः अभिलषति।) (इति भ्रमरबाधां रूपयति)

राजा- (सस्पृहम्)

यतो यतः षट्चरणोऽभिवर्तते ततस्ततः प्रेरितवामलोचना।
विवर्तितभ्रूरियमद्य शिक्षते भयादकामापि हि दृष्टिविभ्रमम् ॥ 1-23 ॥

अपि च (सासूयमिव)

चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं
रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकचरः।


तदेवाह-आसन्नपाणिग्रहणा त्वम्। सासूयमिति। असूया दोषेष्वपि गुणारोपः। नूनमेष ते आत्मगतो मनोरथः। न खलु परिहासेन भणामि। श्रुतं खलु मया तातकण्वस्य मुखात् तव कल्याणसूचकमेतन्निमित्तमिति। खलु वाक्यालङ्कारे। प्रियंवदे, अत एव शकुन्तला सस्नेहा माधवीलतां सिञ्चति। यतो भगिनी भवति, ततः किं न सिञ्चामि। “अपि नामे”ति निपातसमुदायः सम्भावनायाम्। असं(शयम्)०।। (1-22) परिग्रहः परिणयनं, आर्यम् समर्यादं, न सर्वगामीत्यर्थः आकाङ्क्षा मात्रेण कथं सस्नेहाभाव इत्याह-सतां हि इति। सन्देहाश्रयेषु मनोव्यापारा एव प्रमाणम्। अर्थान्तरन्यासः। अनुमानमिति शङ्करः। मतिर्नाम व्यभिचारीति भावः। तदुक्तं शास्त्रोक्तार्थानुसन्धानाद् अर्थनिर्धारणम् मतिः। इयं च प्रथमकामावस्था। तदुक्तं-प्रथमेऽभिलाषश्च स्यादिति।। सम्भ्रमस्त्रासः। अम्मो आश्चर्यम्। तदुक्तं भरतेन, विस्मये हे स्महे अम्मे(म्मो?) नित्यं स्त्रीभिः प्रयुज्यत इति।। नवमालिकामुज्झित्वा म(व)दनं मे मधुकरो मेऽभिलषति। शङ्करस्तु-सलिलसेकसम्भ्रान्तो मधुकरो वदनं मे अभिलषति पीडयतीति पाठान्तरम् आह। भ्रमराबाधां भ्रमरकृतपीडाम्। यतो०। (1-23) यतो यत्राभिवर्तते संमुखमागच्छति। ततस्तु एतस्माद् वा प्रेरितो लोचनाञ्चलः कटाक्षो यया। वामेति पाठे वाम सुन्दरं, विवर्तितभ्रूश्चालितभ्रूः, अकामाऽप्यननुभूतकामभावापीत्यर्थः। विभ्रमं विलासः, दृष्टिरियं शृङ्गारे, तदुक्तं सभ्रूक्रेपकटाक्षा च शृङ्गारे दृष्टिरिष्यत इति।।

चला(पाङ्गां)। (1-24)। रहस्याख्यायी सङ्गोऽप्यकथकः(?) रतिसर्वस्वं रतिनिधानं मधु सर्वस्वमिति क्वचित् पाठः। हताः शोच्या, ब्राह्मणी न वेति सन्देहे, नाहमेनां न कामये, त्वं पुनरसन्दिग्ध एनां कामयसे इति तव कृतार्थत्वम्। अन्योऽपि नागरो लोचनचुम्बनं, कर्णान्तिके लघुभाषणं, अधरपानञ्च करोति। अभिलाषरूपा प्रथमावस्थेयमिति शङ्करः। वाक्यार्थहेतुः काव्यलिङ्गालङ्कारः।

अभिज्ञानशकुन्तलम् प्रथमोऽङ्कः 111

करं व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरं
वयं तत्त्वान्वेषान्मधुकर हतास्त्वं खलु कृती ।। 1–24 ।।

शकुन्तला—हला, परित्ताअध मं इमिणा दुट्ठमहुअरेण अभिभूअमाणं। (सख्यौ, परित्रायेथाम् मामनेन दुष्टमधुकरेणाभिभूयमानाम्।

उभे—(सस्मितम्) काओ अम्हे परित्ताणे। एत्थ दाव दुस्सन्तं सुमर, जदो राउरक्खिदाईं तवोवणाईं। (के आवाम् परित्राणे। अत्र तावत् दुःषन्तं स्मर, यतः राजरक्षितानि तपोवनानि।)

राजा—अवसरः खल्वयम् आत्मानं दर्शयितुम्। न भेतव्यम् ...............। (इत्यर्धोक्ते) (अपवार्य) एवं राजाहमिति परिज्ञानं भवेत्। भवतु, अतिथिसमाचारमवलम्बिष्ये।

शकुन्तला—ण एसो दुव्विणीदो विरमदि। ता अण्णदो गमिस्सं। (पादान्तरे सदृष्टि-विक्षेपम्) हद्धी हद्धी। कधं इदो वि मं अणुसरदि। ता परित्ताअध मं।

(नैषः दुर्विनीतः विरमति, तदन्यतः गमिष्यामि। हा धिक्, हा धिक्, इतोऽपि मामनुसरति। तत्परित्रायेथाम् माम्।)

राजा—(सत्वरमुपगम्य) आः—

कः पौरवे वसुमतीं शासति शासितरि दुर्विनीतानाम्।
अयमाचरत्यविनयं मुग्धासु तपस्विकन्यासु ।। 1–25 ।।

(सर्वा राजानं दृष्ट्वा किं चिदिव सम्भ्रान्ताः।)


सख्यौ, परित्रायेथां मां मधुकरेणाऽभिभूयमानाम्। के आवां परित्राणे। अत्र तावद् दुःस्व(ष)न्तम् स्मर, यतो राजरक्षितानि तपोवनानि।। नैष दुर्विनीतो विरमति। तत्तस्माद् अन्यतोऽन्यत्र गमिष्यामि। हन्धी खेदे, हा धिगित्यर्थे वा। हन्धीत्यव्ययं खेदे इति प्राकृत-साहित्यरत्नाकरः। हन्धीति हा धिगित्यर्थे नित्यं स्त्रीभिः प्रयुज्यत इति नाट्यलोचनः। शङ्करस्तु आवेगाद् द्विरुक्तिः। प्राकृते हा धिगित्यर्थे "हन्धी" नित्यं द्विरुच्यत इति भरत इत्याह। कथमितोऽपि माम् अनुसरति, तत् परित्रायेथाम्।

आः कोपे। कः पौ०। मुग्धासु (1-25) निरपराधास्विति यावत्। कोऽयम् अज्ञातशीलः। अध्यवसाय नामा नाट्यालङ्कारोऽयम्। यदाह कार्येष्वध्यवसायो यश्च लनागर्भितं वचः इति शङ्करः। आर्य, न किञ्चिदत्याहितं महाभीतिः। किन्तु इयं नः प्रियसखी मधुकरेणाकुलीक्रियमाणा कातरीभूता अस्तीति शेषः। इदानीम् अतिथिविशेषलाभेन। तपो वर्धत इत्यनुषङ्गः च अनुवृत्तिर्नाम नाट्यालङ्कारोऽयम्।

112चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

अनुसूया—अज्ज, ण किं पि अच्चाहिदं। किं तु इमं णो पिअसही महुअरेण आउलीअमाणा कादरीभूदा। (आर्य, न किमप्यत्याहितम्। किन्तु, इयम् नौ प्रियसखी मधुकरेणाकुलीक्रियमाणा कातरीभूता।) (इति शकुन्तलां दर्शयति।)

राजा—(शकुन्तलामुपेत्य) अयि तपो वर्धते। (शकुन्तला ससाध्वसम् अवनतमुखी तिष्ठति।)

अनुसूया—इदाणिं अदिधिविसेसलम्भेण। (इदानीमतिथिविशेषलाभेन।)

प्रियंवदा—साअदं अज्जस्स। हला सउन्तले, गच्छ उडआदो फलमिस्सं अग्घं उवहर। इदं पि पादोदअं भविस्सदि। (स्वागतमार्यस्य, सखि शकुन्तले, गच्छ कुटजात्फलमिश्रम् अर्घमुपहर। इदमपि पादोदकम् भविष्यति।)

राजा—भवति, सूनृतयैव वाचा कृतमातिथ्यम्।

अनुसूया—तेण हि इमस्सिं सहावसीदलाए सत्तवण्णवेदिआए उवविसिअ परिस्समं अवणेदु अज्जो। (तेन ह्यस्याम् स्वभावशीतलायां सप्तपर्णवेदिकायामुपविश्य परिश्रमम् अपनयतु आर्यः।)

राजा—ननु यूयमप्यनेन धर्मकर्मणा परिश्रान्ताः। तन्मुहूर्त्तमुपविशत।

प्रियंवदा—(जनान्तिकम्) हला सउन्तले, उइदं णो अदिधिपज्जुवासणं। ता एहि उवविसम्ह। (सखि शकुन्तले, उचितं नः अतिथिपर्युपासनम्। तत् एहि उपविशामः। (इति सर्वा उपविशन्ति।)

शकुन्तला—(आत्मगतम्) किं णु क्खु इमं जणं पेक्खिअ तवोवणविरोहिणो विआरस्स गमणीअ म्हि संवृत्ता। (किन्नु खलु इमं जनं प्रेक्ष्य तपोवनविरोधिनः विकारस्य गमनीया अस्मि संवृत्ता।)

राजा—(सर्वा अवलोक्य) अहो, समानवयोरूपरमणीयं सौहार्दमत्रभवतीनाम्।


तदुक्तं अत्र... दनुवर्तनमनुवृत्तिरिति। स्वागतमार्यस्य। सखि शकुन्तले, गच्छ कुटजात् फलमिश्रमर्घमस्मै उपहर। इदमपि पादोदकं भविष्यति। तेन हि अस्यां स्वभाव-शीतलायां सप्तपर्णवेदिकायाम् उपविश्य परिश्रममुपनयत्वार्यः। प्रच्छायशीतलायाम् इति शङ्करधृतः पाठः। सप्तपर्णतले या वेदिः परिष्कृतभूमि-विश्रामस्थानमिति यावत्।

जनान्तिकमिति। त्रिपताककरेणाऽन्यम् अपवार्यान्तरा कथाम् अन्योन्यामन्त्रणं यत् स्यात्, जनान्ते तज्जनान्तिकमिति। हस्तेन त्रिपताकेन संज्ञया यदुदीर्यते, बहूनां पुरतो मध्ये तज्जनान्तिकमुच्यते इत्यन्यत्र। सखि शकुन्तले, उचितं नोऽतिथि-पर्युपासनं, तदेह्युपविशामि(मः)।

किन्नु खलु इमं जनं प्रेक्ष्य तपोवन-विरोधिनो विकारस्य गमनीयाऽस्मि संवृत्ता। नु-शब्दो वितर्के। खलु-शब्दो निश्चये। अत्रभवतीनां श्लाघ्यानां भवतीनामित्यर्थः। सखि अनुसूये, क एष मधुरगम्भीरा-कृतिर्मधु[र] समालेपन प्रभुत्वदाक्षिण्यं विस्तारयति। गाम्भीर्य्यमाह भरतः। विकाराः