ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
अध्या० १ ख० १] ऐतरेयारण्यकम् । २३५
हे मघवन्धनवन्निन्द्र विद्² वेत्थ सर्वं जानासि । अतोऽस्मद्धितं विद्³ विद्धि जानीहि चित्तेऽवधारय । ॐ, अस्तु श्रेयोऽस्माकमिति शेषः । तदिदं नवसंख्याकानामृचां पुरीषपदानां च प्रतिपादकं ग्रन्थजातं यद्यपि कर्मकाण्डे पठितुं युक्तं तथाऽप्यरण्य एवाध्येतव्यमित्यभिप्रेत्य चतुर्थारण्यकत्वेनात्र पठितम् ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयारण्यकभाष्ये चतुर्थारण्यके प्रथमाध्याये प्रथमः खण्डः ॥ १ ॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे बह्वृचब्राह्मणारण्यककाण्डभाष्ये चतुर्थारण्यके प्रथमोऽध्यायः ॥ १ ॥
इति श्रीमद्विद्यातीर्थमहेश्वरापरावतारस्य वैदिकमार्गप्रवर्तकस्य श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरिपालकेन सायणामात्येन विरचिते माधवीये वेदार्थप्रकाश ऐतरेयारण्यककाण्डे चतुर्थमारण्यकं समाप्तम् ॥ ४ ॥
आदितः समष्ट्यङ्काः—( आर० ४ अध्या० १५ ख० ६१ )
१ ङ. 'वन्बलव' । २ क. ख. ग. विदा । ३ क. ख. ग. विदा ।
अथ पञ्चममारण्यकम् ।
प्रथमोऽध्यायः ।
तत्र प्रथमः खण्डः ।
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे ।
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥ १ ॥
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ २ ॥
ऐतरेयब्राह्मणेऽस्ति काण्डमारण्यकाभिधम् ।
महाव्रतप्रयोगोऽस्मिन्पञ्चमौरण्यकोदितः ॥ ३ ॥
त्रिविधं महाव्रताख्यं कर्म, एकाहरूपं महानाम्न्यवयवरूपं संत्रावयवरूपं चेति । तस्य त्रिविधस्यापि हौत्रप्रयोगं वक्तुमुपक्रमते—
महाव्रतस्य पञ्चविंशतिं सामिधेन्यः, इति ।
ननु प्रथमारण्यकेऽपि—"अथ महाव्रतमिन्द्रो वै वृत्रं हत्वा" [ऐ० आ० १ अ० १ ख० १ ] इत्यादिना महाव्रतप्रयोगोऽभिहितः, पञ्चमेऽपि तस्यैवाभिधाने पुनरुक्तिः स्यात् । नायं दोषः । सूत्रब्राह्मणरूपेण तयोर्विभेदात् । पञ्चमारण्यकमृषिप्रोक्तं सूत्रम् । प्रथमारण्यकं त्वपौरुषेयं ब्राह्मणम् । अत एव तत्रार्थवादप्रपञ्चेन सहिता विधयः श्रूयन्ते । पञ्चमे तु न कोऽप्यर्थवादोऽस्ति । शाखान्तरगताश्च मन्त्रा बहव उपलभ्यन्ते । तस्मात् " अथैतस्य समाम्नायस्य " [ श्रौ० सू० अ० १ ख० १ ] इत्यादिद्वादशाध्यायीवत् " महाव्रतस्य पञ्चविंशतिम् " इत्यादि पञ्चमारण्यकं सूत्रमेव । अरण्य एवैतदध्येयमित्यभिप्रेत्याध्येतारोऽरण्यकाण्डेऽन्तर्भाव्याधीयते । एतस्मिन्पञ्चमारण्यके सूत्रकारेण विधीयमानं महाव्रताख्यं कर्म गवामयने सत्रे समुत्पन्नम् । अत एवाध्वर्युशाखायाम्—"गावो वा एतत्सत्रमासत" इत्यादिके गवामयनप्रकरणे—" देवानां वा अन्तं जगमुषाम् " इत्यादिकेनानुवाकत्रयेण महाव्रतं समाम्नातम् । ननु तस्यामेव शाखायां ग्रन्थान्तरे—"प्रजापतिः प्रजाः सृष्ट्वा वृत्तोऽशयात्"इत्यनुवाकेन तदाम्नातमिति चेदाम्नायतां नाम तस्याप्यनुवाकस्य गवामयनप्रकरणगतत्वात् । "नैवैतान्यहानि
* अत्राऽऽरण्यकपदार्थ एकदेशभूतेऽस्मिन्नित्यस्यानन्वयः । अयं च नातीव समञ्जसः । तथाऽपि भाष्य एतादृशप्रयोगस्यापि सत्त्वात्कथंचिदत्रापि साधुत्वम् ।
१ घ. ङ. सत्र्यवं । २ घ. ङ. ॰पण्यो । ३ ग. छ न चैता ।
[आर० १ अध्या० १ ख० १] ऐतरेयारण्यकम् । २३७
भवन्ति ” इत्यादिके गवामयनप्रतिपादकेऽनुवाकपञ्चके—“ प्रजापतिः प्रजाः सृष्ट्वा ” इत्याद्यनुवाकः पञ्चमत्वेनाऽऽम्नातः। उद्गातृवेदेऽपि “ गावो वै ” इत्यारभ्य समा- म्नाते गवामयनप्रकरणे—“ प्रजापतिः प्रजा असृजत ” इत्यादिना महाव्रताख्यमेकम- हराम्नातम्। तच्च सत्रस्योपान्त्यमहः, उदयनीयाख्यादन्तिमादह्नः समनन्तरपूर्वभावि- त्वात्। तथा चाऽऽपस्तम्बः—“ संतिष्ठते महाव्रतम् ” इत्येतदहः समाप्यानन्तरं व्याख्यात उदयनीय इत्युदयनीयाख्यं चरममहः प्रोवाच। तस्मात्सत्रे समुत्पन्नस्य महाव्र- तस्य वचनबलात्सत्राद्वहिरप्येकाहरूपेणाहीनगतत्वेन च पृथक्प्रयोगो भवति। यथा राजसूयोत्पन्नाया अवेष्टेर्वचनात्पृथगपि प्रयोगः, यथा वा राजसूयोत्पन्नानां चातुर्मास्या- नाम् “ अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवति ” इतिवचनेन पृथक्प्रयोगस्त- द्वत्। एकाहत्वपक्षे स्वातन्त्र्यम्। अहीनत्वपक्षे तु पौण्डरीकनाम्न एकादशरात्रस्येदं दशममहमर्भवति। तथा चाऽऽपस्तम्बः—“अथैकेषामभ्यासाय पञ्चाहश्चत्वारश्छन्दोगा महाव्रतं विश्वजित्सर्वपृष्ठोऽतिरात्रः ” इति पौण्डरीकाहःक्लप्तिमुक्तवान्। अथ सत्रे समु- त्पन्नं महाव्रतं प्रकृतिः। एकाहरूपमहीनरूपं च विकृतिः। अतः सत्रगतस्य महाव्र- तस्य प्राधान्येन प्रयोग इहोपदिश्यते। ननु तस्यापि महाव्रतस्य परम्परयाऽग्निष्टोम- विकृतित्वेन सोमयागरूपत्वम्, सोमयागे च स्तोत्रशस्त्रादिवत्सामिधेनीनामङ्गत्वा- भावात् “ पञ्चविंशतिं सामिधेन्यः ” इति विधानमयुक्तमिति चेत्। नायं दोषः। सोमस्य सामिधेन्यपेक्षाराहित्येऽपि तदङ्गभूतस्य सवनीयपशोस्तदपेक्षत्वात् “ आनर्थ- क्यात्तदङ्गेषु ” [मी० सू० अ० ३ पा० १ सू० १८ अधि० ९] इति न्यायेन प्रधानेनान्वयरहितत्वेऽपि तदङ्गान्वयोपपत्तेः। अतोऽङ्गद्वारा सामिधेनीनां महाव्रतसंब- न्धान्महाव्रतस्येति संबन्धवाचिनी षष्ठी युज्यते। पञ्चविंशतिमिति द्वितीया प्रथमात्वेन परिणेतव्या। सामिधेन्यभिधा ऋचः पञ्चविंशतिसंख्याका इत्यर्थः। सम्यगिध्यते ज्वाल्यतेऽग्निर्याभिर्ऋग्भिस्ताः सामिधेन्यः। तथाचोक्तम्—“ ऋक्सामिधेनी धाय्या च या स्यादग्निसमिन्धने ” [अम० को० ब्र० व० श्लो० २२] इति। सवनीयस्य पशोः प्रोक्षणादूर्ध्वमध्वर्युणा प्रेषितो होता सामिधेनीरनुब्रूयात्। तथाचाऽऽपस्तम्ब आह— “ उपरिष्टादधस्तात्सर्वतश्च प्रोक्ष्य वेदं निधाय सामिधेनीभ्यः प्रतिपद्यते ” इति।
तासु सामिधेनीषु पञ्चविंशतिसंख्यापूरणप्रकारं दर्शयति—
एकविंशतौ प्रागुपोत्तमायाः समिधाऽग्निमिति चतस्रः, इति।
समिधाऽग्निम्०—ऋ० सं० म० ८ सू० ४४ ऋ० १।
१ ग. ॰श्च सूत्रं॰ । २ ख. ग. घ. ङ. ॰स्तम्बो यैके॰ । ३ क. ख. ङ. ॰भ्यासां यः प॰ । ४ ग. घ. सत्राग् । ५ ख. ग. ङ. ॰यस्तोत्रस्य तद्॰ । ६ ग. ङ. ॰तत॰ । ७ ग. ङ. ॰बन्धिवा॰ । ८ ग. प्रेक्ष्य । ९ ङ. ॰तिपाद्य॰ ।
२३८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [५पञ्चमारण्यके-
मूलप्रकृतौ दर्शपूर्णमासेष्टौ “ प्र वो वाजाः ” [ ऋ० सं० म० ३ सू० २७ ऋ० १ ] इत्याद्या ऋच एकादशसंख्याकाः सामिधेनीरूपाः शाखान्तर एकस्मिंश्चिदनुवाके समाम्नाताः । बह्वृचानां तु तत्र तत्राऽऽम्नाताः । तासामेकादशानां मध्ये “ त्रिः प्रथमामन्वाह त्रिरुत्तमाम् ” इति वचनानुसारेणाऽऽवृत्तौ सत्यां पञ्चदश संपद्यन्ते । ताश्चातिदेशपरम्परया गवामयनगते विषुवन्नामके मध्यमेऽह्नि सवनीयपशौ प्राप्ताः । तासां पञ्चदशानां मध्ये “ समिध्यमानो अध्वरे ” [ ऋ० सं० म० ३ सू० २७ ऋ० ४ ] “ समिद्धो अग्न आहुत ” [ ऋ० सं० म० ५ सू० २८ ऋ० १ ] इत्यनयोर्ऋचोरन्तराले “ पृथुपाजा अमर्त्यः ” [ ऋ० सं० म० ३ सू० २७ ऋ० ५ ] इत्यादिकाः षडृचः प्रक्षेपणीयाः । तथा चाऽऽश्वलायन आह—पृथुपाजा अमर्त्य इति षड्धाथ्याः सामिधेनीनाम्” इति । सेयमेकविंशतिर्विषुवदर्हगता महाव्रते चोदकेन प्राप्ता । तस्यामेकविंशतौ येयमुपोत्तमा—“समिद्धो अग्न आहुत” इत्येवंरूपा तस्याः पूर्वम् “समिधाऽग्निं दुवस्यत” [ऋ० सं० म० ८ सू० ४४ ऋ० १] इत्याद्याश्चतस्र ऋचः प्रक्षेपणीयाः । तथा च सति पञ्चविंशतिसंख्या पूर्यते ।
ता एताः सामिधेन्यो यस्य पशोरङ्गं तमिमं दर्शयति—
वैश्वकर्मण ऋषभ उपालम्भनीय उपांशु, इति ।
विश्वकर्मा देवता यस्यासौ वैश्वकर्मण<sup>२</sup> ऋषभः समर्थ उप समीप आलम्भनीयः । ऐतरेयिणामयं पशुः समुच्चीयते । इतरशाखिनां तु विकल्पः । तदैताः सामिधेन्यो न भवन्ति । सप्तदशेष्टिप्रश्वाधानमिति सप्तदशैव सामिधेन्यो भवन्ति । तस्मिन्पशौ याज्यादिमन्त्रा उपांशु यथा भवन्ति तथा प्रयोक्तव्याः । उपांशुरूपस्योच्चारणस्य लक्षणं प्रातिशाख्येऽभिहितम्—“ करणवदशब्दं मनःप्रयोगमुपांशु ” इति । करणवदोष्ठव्यापारयुक्तं न तु मनःप्रयोगमात्रम् । तच्च परैरश्रवणादशब्दम् ।
अतः प्रातःसवने होतुः शस्त्रं दर्शयति—
आज्यप्रउगे विश्वजितः, इति ।
यदेतदाज्यनामकं प्रातःसवने होतुः शस्त्रं यच्च प्रउगनामकं तदुभयं विश्वजिन्नाम्न एकाहादस्मिन्महाव्रतेऽतिदिशेत् । स च विश्वजिदाख्य एकोऽहोऽग्निष्टोमस्य विकृतिः । अग्निष्टोमे ऋतुग्रहमक्षणादूर्ध्वं होता निवित्पदान्युच्चार्य “प्र वो देवाय” [ ऋ० सं० म० ३ सू० १३ ऋ० १ ] इत्यादिकमाज्यनामकं शस्त्रं शंसेत् ।
१ ग. °षुवाह° । २ क. ख. घ. ङ. °र्मेणः । तस्मिं । ३ क. ख. भवति । ४ क. °शब्दममनः° । ५ ग. °काहादभि° ।
अध्या० १ ख० १] ऐतरेयारण्यकम् । २३९
तथा चाऽऽश्वलायन आह—“उत्तमेन पदेन प्र वो देवायेत्याज्यमुपसंतनुयात्” इति । वैश्वदेवग्रहणादूर्ध्वम्—“वायुरग्रेगाः” इत्यादिकं प्रउगनामकं शस्त्रं शंसेत् । तदप्या- श्वलायनेनोक्तम्—“वायुरग्रेगा यज्ञप्रीरिति सप्तानां पुरोरुचां तस्यास्तस्या उपरिष्टा- त्तृचं तृचं शंसेद्वायवायाहि दर्शतेति सप्त तृचा द्वितीयां प्रउगे त्रिः” इति । तदिदं शस्त्रद्वयं विश्वजिति चोदकेन प्राप्तम् । तत्र तदाज्यमपोद्यान्यदाज्यं सूत्रेण विहि- तम्—“विश्वजितोऽग्निं नर इत्याज्यम्” इति । प्रउगं तु प्राकृतमेव । तदिदं विश्वजि- द्गतमुभयं महाव्रते शंसनीयम् ।
मैत्रावरुणादीनां शस्त्रविशेषान्दर्शयति—
होत्राश्चतुर्विंशात्, इति ।
मैत्रावरुणो ब्राह्मणाच्छंस्यच्छावाकश्चेति त्रयो होत्रकास्तैः शंसनीयाः शस्त्रवि- शेषा होत्रास्त(स्ते?)त्र चतुर्विंशन्ना(ना)मकादेकाहादतिदेष्टव्याः । मूलप्रकृतौ त्वग्नि- ष्टोमे मैत्रावरुणस्य “आ नो मित्रावरुणा” [ ऋ० सं० म० ३ सू० ६२ ऋ० १६ ] इत्यादिकं शस्त्रम् । ब्राह्मणाच्छंसिनस्तु “आयाहि सुषुमा हि ते” [ ऋ० सं० म० ८ सू० १७ ऋ० १ ] इत्यादिकं शस्त्रम्, अच्छावाकस्य “इन्द्राग्नी आग- तम्” [ ऋ० सं० म० ३ सू० १२ ऋ० १ ] इत्यादिकम् । चतुर्विंशे तु तानि त्रीण्यपोद्यान्यानि विहितानि—“ता नः शक्तं पार्थिवस्य” [ऋ० सं० म० १ सू० ६८ ऋ० ३ ] इत्यादिकं मैत्रावरुणस्य । “सुरूपकृत्नुमूतये” [ ऋ० सं म० १ सू० ४ ऋ० १ ] इत्यादिकं ब्राह्मणाच्छंसिनः, “आ सु ते सिञ्चत श्रियम्” [ ऋ० सं० म० ८ सू० ७२ ऋ० १३ ] इत्यच्छावाकस्य । त एते शस्त्रविशेषा होत्रशब्दाभि- धेया महाव्रते पठनीयाः ।
अथ चतुर्विंशाख्यादेकाहादप्यधिकं विशेषं महाव्रते दर्शयति—
ईङ्खयन्तीरपस्युव इति च ब्राह्मणाच्छंस्यावपेत् प्रातःसवने
तीव्रस्याभिवयसो अस्य पाहीति माध्यंदिनः, इति ।
अत्र प्रातःसवने स एव ब्राह्मणाच्छंसी पूर्वोक्तम् “सुरूपकृत्नुम्” इत्यादिकं पठित्वा पश्चात् “ईङ्खयन्तीः” [ ऋ० सं० म० १० सू० १९३ ऋ० १ ] इत्या- दिकमपि पञ्चर्चमावपेत् । तथा माध्यंदिने सवने स एव ब्राह्मणाच्छंसी चतुर्विंशा- दतिदेशेन प्राप्तम् “आ नो विश्वा सुहव्यः” [ ऋ० स० म० ८ सू० ९० ऋ० १ ] इत्यादिकं पठित्वा पश्चात् “तीव्रस्याभिवयसः” [ ऋ० सं० म० १० सू०
ईङ्खयन्तीरपस्युवः ०—ऋ० सं० म० १० सू० १९३ ऋ० १ । तीव्रस्याभि- वयसः ०—ऋ० सं० म० १० सू० १६ ऋ० १ ]
१ क. ख. ङ. सूत्रे । २ ङ. पठितम् ।
२४० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् । [५पञ्चमारण्यके-
१६० ऋ० १] इत्यादिकं पञ्चर्चं पठेत् । अत्रोभयत्र सूक्तप्रतीकाभिप्रायेण पञ्च- र्चमिति कैश्चिद्व्याख्यातम् । अन्ये तु¹ “ऋचं पादग्रहणे” इतिपरिभाषानुसारेणैकैका- मृचं पठेरिति व्याचक्षते ।
अस्मिन्नेव शस्त्रे ब्राह्मणान्तरानुसारेण कंचिद्विशेषं दर्शयति—
त्रिकद्रुकेषु महिषो यवाशिरमिति स्तोत्रिय इन्द्र याह्युप नः परावत इन्द्राय हि द्यौरसुरो अन- म्नत प्रोष्वस्मै पुरोरथमित्यतोऽनुरूपः, इति ।
स्तोत्रसंबन्धी² स्तोत्रियस्तृचः । “एकं साम तृचे क्रियते स्तोत्रियम्” इति साम- गैराम्नानात्तृचस्य स्तोत्रियत्वम् । “त्रिकद्रुकेषु” [ऋ० सं० म० २ सू० २२ ऋ० १] इत्यादिकस्तृचः शस्त्रस्याऽऽदौ प्रयोक्तव्यः । अनु पश्चाद्रूप्यते पठ्यत इति द्वितीयोऽ- नुरूपस्तृचः । तस्मिन् “इन्द्र याहि” [ऋ० सं० म० १ सू० १३० ऋ० १] इत्यृक्प्रथमा । “इन्द्राय हि द्यौः” [ऋ० सं० म० १० सू० १२७ ऋ० १] इति द्वितीया । “प्रोष्वस्मै” [ऋ० सं० म० १० सू० १३३ ऋ० १] इति तृतीया । तावेता द्वौ तृचौ शस्त्रस्याऽऽदौ पठेरित्यर्थः ।
अथ माध्यंदिने³ सवने होतुः शस्त्रे मरुत्वतीये विशेषं दर्शयति—
चतुर्विंशान्मरुत्वतीयस्याऽऽतानोऽसत्सु मे जरितः साभिवेगः पिबा सोममभि यमुग्र तर्दः कया शुभा सवयसः सनीळा मरुत्वाँ इन्द्र वृषभो रणाय, इति ।
त्रिषु मरुत्वतीयग्रहेषु मध्ये तृतीयस्य होमात्पूर्वं पठनीयं मरुत्वतीयं शस्त्रं तद्यन्मू- लप्रकृतौ “आ त्वा रथम्” [ऋ० सं० म० ८ सू० ६८ ऋ० १] इत्यादिकं तस्य विश्वजित्यतिदिष्टस्य सन्त्यन्ये विशेषास्तैर्विशेषैः सह तन्मरुत्वतीयं महाव्रतेऽतिदेष्टु-
त्रिकद्रुकेषु०—ऋ० सं० म० २ सू० २२ ऋ० १। एन्द्र याहि०—ऋ० सं० म० १ सू० १३० ऋ० १ । इन्द्राय हि द्यौः०—ऋ० सं० म० १ सू० १३१ ऋ० १ । प्रोष्वस्मै पुरो०—ऋ० सं० म० १० सू० १३३ ऋ० १ । असत्सु मे जरितः०—ऋ० सं० म० १० सू० २७ ऋ० १ । पिबा सोममभि०—ऋ० सं० म० ६ सू० १७ ऋ० १ । कया शुभा सवयसः—ऋ० सं० म० १ सू० १६९ ऋ० १ । मरुत्वाँ इन्द्र वृषभः०—ऋ० सं० म० ३ सू० ४७ ऋ० १ ।
¹ १ क. ख. न्ये त्वचं । ग. °न्येव तृचं । घ. °न्ये तृचं । ² २ क. ख. °न्धी तृचः स्तोत्रियः । ए° । ³ ३ घ. ङ. °दिनसं° ।
अध्या० १।ख० १] ऐतरेयारण्यकम्। २४१
र्थ्यम्। तस्य चातिदिष्टस्य मरुत्वतीयस्य चतुर्विंशत्यत्राऽऽ(?)स्थितान्मरुत्वतीयादातानः पुनरपि विस्तारो भवति। तस्मिन्विस्तारे प्रथमम् “असतत्सु मे जरितः” [ ऋ०सं०म० १० सू० २७ ऋ० १ ] इत्येकं सूक्तम्। “पिबा सोममभि यम्” [ ऋ० सं० म० ६ सू० १८ ऋ० १ ] इति द्वितीयम्। “ कया शुभा ” [ ऋ० सं० म० १ सू० १६५ ऋ० १ ] इति तृतीयम्। “मरुत्वाँ इन्द्र” [ ऋ०सं०म०३।सू०४७।ऋ०१ ] इति चतुर्थम्। सोऽयमधिको विस्तारः।
तत ऊर्ध्वं प्राकृतेनैव सूक्तेन शस्त्रस्य समाप्तिं दर्शयति—
जनिष्ठा उग्रः सहसे तुरायेति मरुत्वतीयम्, इति।
यथा प्रकृतौ “जनिष्ठाः” [ ऋ० सं० म० १० सू० ७३ ऋ० १ ] इत्यनेन सूक्तेन शस्त्रं समापितं तथाऽत्रापि तेनैव मरुत्वतीयं शस्त्रं समापनीयम्।
तत्समाप्तेरूर्ध्वं होतृकर्तृकं होमं विधत्ते—
संस्थिते मरुत्वतीये होता विसंस्थितसंचरेण निष्क्रम्याऽऽ-
ग्नीध्रीये तिस्र आज्याहुतीर्जुहोत्यौदुम्बरेण स्रुवेण, इति।
संस्थिते समाप्ते। सम्यक्चरन्त्यनेनेति संचरो मार्गः। स च द्विविधः, संस्थितसंचरो विसंस्थितसंचरश्चेति । सवने समाप्ते सदसः पश्चिमद्वारेण निर्गच्छति सोऽयं संस्थितसंचरः। असमाप्ते तु प्राग्द्वारेण [ निर्गच्छति ] सोऽयं विसंस्थितसंचरः। तेन निष्क्रम्योदङ्मुखो गत्वाऽऽग्नीध्रीये धिष्ण्ये जुहुयात्।
तत्र प्रथमाहुतेर्मन्त्रमाह—
अनु मामिन्द्रो अनु मां बृहस्पतिरनु सोमो अनु वाग्देव्यावीत्।
अनु मां मित्रावरुणाविहावतामनु द्यावापृथिवी पूर्वहूतौ, इति।
इन्द्रो देव इह कर्मणि मामनुगम्याऽऽवीत्, अवतु । एवं बृहस्पतिसोमसरस्वतीमित्रावरुणद्यावापृथिव्यो मामवन्तु। पूर्वहूतौ *तदेतस्मिन्मित्रावरुणयोर्विशेषणम्। यद्वा लिङ्गव्यत्ययेन द्यावापृथिव्योर्विशेषणम्।
द्वितीयाहुतेर्मन्त्रमाह—
आदित्या मा विश्वे अवन्तु देवाः सप्त राजानो
य उदाभिषिक्ताः। वायुः पूषा वरुणः सोमो
अग्निः सूर्यो नक्षत्रैरवत्विह माऽनु , इति ॥
जनिष्ठा उग्रः०—ऋ० सं० म० १० सू० ७३ ऋ० १ ।
* एतस्मिन्मन्त्रोक्तदेवतासमूहे।
३१
तृतीयाहुतेर्मन्त्रमाह—
२४२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [१प्रpath/प्रपाठकारण्यके-
अदितेः पुत्रा आदित्यास्ते चाष्टसंख्याकाः। "अष्टौ पुत्रासो अदितेः" [ऋ०सं० म० १० सू० ७२ ऋ० ८] [तै० आ० प्र० १ अ० १३] इति श्रुत्यन्तरात्। तदनुक्रमणं च तत्रैवाऽऽम्नायते—"ताननुक्रमिष्यामः। मित्रश्च वरुणश्च। धाता चार्यमा च। अंशश्च भगश्च। इन्द्रश्च विवस्वाँश्चैत्येते" [तै०आ०प्र०१अ०१३] इति। त एव विश्वे सर्वेऽपि देवा मामवन्तु॑। य उदये चान्ये द्युलोकप्रकाशनार्थमभिषिक्ताः सप्तसंख्याका आरोगादिनामका राजानः सन्ति तेऽपि मामवन्तु। आरोगादयोऽपि श्रुत्यन्तरे समाम्नाताः—"आरोगो भ्राजः पटरः पतङ्गः। स्वर्णरो ज्योतिषीमान्विभासः। ते अस्मै सर्वे दिवमातपन्ति" [तै० आ० प्र० १ अ० ७] इति। तथा वायुरिह कर्मणि मामनुगम्यावतु। एवं पूषादिष्वपि योजनीयम्।
तृतीयाहुतेर्मन्त्रमाह— पितरो मा विश्वमिदं च भूतं पृश्निमातरो मरुतः स्वर्काः। ये अग्निजिह्वा उत वा यजत्रास्ते नो देवाः सुहवाः शर्म यच्छतेति, इति।
ये पितरोऽग्निष्वात्तादयस्ते मामवन्त्विति शेषः। न केवलं मामेव, किं त्विदं विश्वं प्राणिजातं चावन्तु। पृश्निर्माता येषां मरुतां ते पृश्निमातरः। तथा च मारुतसूक्ते समाम्नातम्—"पृश्नेः पुत्रा उपमासो रभिष्ठाः" [ऋ० सं० म० ५ सू० ५८ ऋ० ९] इति। तथा ब्राह्मणान्तरम्—"पृश्निर्यै वैवै यशो मरुतो हुताः" (?) इति। पृश्निर्गोमूर्तिर्देवता। तदप्यन्यत्राऽऽम्नातम्—"अङ्गिरसो वै सत्रमासत। तेषां पृश्निर्घर्मधुगासीत्" इति। ते च मरुतः स्वर्काः सुष्ठ्वर्चनीयाः। ते हि प्रियंगुचर्वादिभिरर्च्यन्ते। पृश्नये दुग्धे प्रैयंगवं चरुं निर्वपेन्मरुद्भ्यः" इति श्रुतेः। तादृशा मरुतो मामवन्तु। अग्निरेव जिह्वा येषां तेऽग्निजिह्वाः। अग्नौ हुतं हविर्भक्षयन्तीत्यर्थः। तादृशा देवा ये सन्ति। उत वाऽपि चेत्यर्थः। यजत्रा यजनीयाः पीठादौ गन्धपुष्पादिभिरभ्यर्चनीयाः। समर्पितं नैवेद्यं भक्षयन्ति, तादृशाश्च ये सन्तिँ। उभयविधा अपि देवा अन्यत्र स्पष्टमाम्नायन्ते—"हुतादो वा अन्ये देवा अहुतादोऽन्ये" इति। तादृशा देवा यूयं सुहवाः सुखनाऽऽह्वातुं शक्याः सन्तो नोऽस्मभ्यं शर्म सुखं यच्छत। इतिशब्दो मन्त्रत्रयसमाप्त्यर्थः।
होमान्तरं विधत्ते— दक्षिणे मार्जालीये दश स्रुच्युत्तमां चतुर्गृहीतं पूर्वमवदायाोत्तरतोऽग्नेरुपनिधाय विहरणप्रभृति मध्यं-
१ क. ख. घ. ङ. एव ते विं। २ क. ख ०न्तु। उं। ३ घ. ०श्रियेनैष। ४ ङ. ०र्यैनैव। ५ क. ख. ०ष पशो। ६ ग. ०तोद्वातेति। ७ ग. ०न्ति। त उं।
अध्या० १ ख० १] ऐतरेयारण्यकम् । २४३
दिने मार्जालीयो जागरितो भवति तस्मिन्परिवृते
जुहोति प्राग्द्वारे वोदग्द्वारे वा प्रागुदग्द्वारे वा, इति।
सदोहविर्धानयोर्मध्ये योऽयं दक्षिणोत्तरायतः संचरस्तस्योत्तरभागे यथाऽऽग्नीध्रीयो धिष्ण्यस्तथा दक्षिणभागे मार्जालीयनामको धिष्ण्यः। तस्मिन्दशसंख्याका आज्याहुतीर्जुहोतीत्यनुवर्तते। तत्रायं प्रयोगप्रकारः। उत्तमां दशमामाहुतिमुद्दिश्य स्रुचि जुह्वां चतुर्गृहीतमाज्यं प्रथममवदाय तदाज्यविशिष्टां तां स्रुचं मार्जालीयस्याग्नेरुत्तरभागे स्थापयित्वा दशमाहुतेः पूर्वभाविनीर्नवाऽऽहुतीः स्रुवेण तस्मिन्मार्जालीये जुहुयात्। स च मार्जालीयः परिवृतः परितः कटादिभिराच्छादितो भवति। तत्र होमार्थं प्रवेशद्वारं प्राच्यामुदीच्यामैशान्यां वेति त्रेधा विकल्पितम्। यद्यप्येतद्धोमकालात्पूर्वं मार्जालीये विहृतस्याग्नेश्चिरकालं व्यवधानमस्ति तथाऽपि माध्यंदिने सवने विहरणकालमारभ्य मार्जालीयधिष्ण्यगतोऽग्निर्यथा न शाम्यति तथा जागरितः काष्ठप्रक्षेपेण पुनः पुनः प्रज्वलितो भवति।
तस्मिन्होमे प्रथममन्त्रमाह—
अग्निरिवानावृष्यः पृथिवीव सुपदा भूयासम्, इति ।
यथाऽग्निरुग्रत्वान्न केनापि तिरस्कर्तुं शक्य एवमहमप्यतिरस्कार्यो भूयासम्। यथा च पृथिवी सुष्ठु स्थैर्येणावतिष्ठत एवमहमपि भूयासम्। शोभनं सदोऽवस्थानं यस्य मम सोऽहं सुपदाः।
द्वितीयं मन्त्रमाह—
अन्तरिक्षमिवानाप्यं द्यौरिवानाधृष्यो भूयासम्, इति ।
यथाऽन्तरिक्षं पादचारिणा विरोधिना शत्रुना प्राप्तुं न शक्यं यथा च द्युलोको मानुषेण शत्रुना तिरस्कर्तुमशक्य एवमहमपि शत्रुभिरप्राप्तोऽनाधृष्यश्च भूयासम्।
तृतीयं मन्त्रमाह—
सूर्य इवाप्रतिधृष्यश्चन्द्रमा इव पुनर्भूभूयासम्, इति ।
यथा सूर्यः स्वस्मादप्यधिकस्य तेजस्विनः प्रतिकूलस्याभावादतिरस्कार्यो यथा वा चन्द्रमाः कृष्णपक्षे क्षीणोऽपि शुक्लपक्षे पुनः प्रादुर्भवति एवमहमपि तैरतिरस्कार्य एव भूयासम्। केनापि निमित्तेन कदाचित्सत्यपि तिरस्कारे तत्परिहारेण पुनरप्यूर्जितो भूयासम्।
१ ग. घ. ङ. 'धिष्ण्यस्त' । २ क. ख. घ. ङ. 'लीयो धि' । ३ ग. घ. ङ. धिष्णियः । ४ ग. आहुं । ५ ग. घ. ङ. 'तीर्होतेत्य' । ६ घ. ङ. 'च्यामीशा' । ७ ग. घ. ङ. 'लीये धिष्ण्ये ग' । ८ क. ख. 'स्कारो य' ।
चतुर्थं मन्त्रमाह—
२४४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [५प्रपाठकारण्यके-
चतुर्थं मन्त्रमाह— मन इवापूर्वं वायुरिव श्लोकभूयासम् , इति । यथा मन उत्तरोत्तरमभिवृद्धिकाङ्क्षया प्रयतमानं सत्तत्फलप्राप्त्या नूतनं रूपं प्रतिपद्यते, एवमहमप्युत्तरोत्तराभिवृद्ध्या नूतनो भूयासम् । श्लोकः संघः । यथा वायुराषाढादिमासे समुद्रतीरादिदेशे वा स्वयमुत्तरोत्तराभिवृद्ध्या संघरूपो भवति, एवमहमपि पुत्रपौत्रादिसंघरूपेणोत्पन्नो भूयासम् ।
पञ्चमं मन्त्रमाह— अहरिव स्वं रात्रिरिव प्रियो भूयासम् , इति । अहर्यथा प्रकाशेनान्धकारं निवर्त्य वाणिज्यसेवादिना स्वं धनं संपादयति, एवमहमपि धनसंपादको भूयासम् । यथा च रात्रिर्विश्रामादिसुखहेतुतया प्रिया, एवमहमपि सर्वेषां प्रियो भूयासम् ।
षष्ठं मन्त्रमाह— गाव इव पुनर्भुवो मिथुनमिव मरीचयो भूयासम्, इति । यथा गावः संवत्सरे संवत्सरे वत्सरूपेण पुनरुत्पत्तिमन्त्य एवमहमपि पुत्रादिरूपेण पुनः पुनर्भूयासम्। यथा चोमामहेश्वरलक्ष्मीनारायणादिमिथुनं तेजस्वित्वेन प्रसिद्धमेवमहमपि मरीचयो मरीचिमांस्तेजस्वी भूयासम् ।
सप्तमं मन्त्रमाह— आप इव रस ओषधय इव रूपं भूयासम्, इति । आपो यथा रसवत्य एवमहं रसो मधुराम्लादिरससंपन्नो भूयासम् । ओषधयो यथा पक्काः सत्यो रमणीयरूपयुक्ता दृश्यन्ते, एवमहमपि रूपं पुष्टिकान्त्यादिरमणीयरूपयुक्तो भूयासम् ।
अष्टमं मन्त्रमाह— अन्नमिव विभु यज्ञ इव प्रभूभूयासम् , इति । अन्नं यथा भक्ष्यभोज्यलेह्यचोष्यरूपेण विविधं भवति, एवमहमपि विभुर्धनविद्यासंपत्त्या विविधो भूयासम् । यथा यज्ञो ज्योतिष्टोमादिः स्वर्गादिफलप्रदाने समर्थ एवमहमपि प्रभूः पुत्रपौत्रभृत्यादिपोषणे समर्थो भूयासम् ।
नवमं मन्त्रमाह— ब्रह्मेव लोके क्षत्रमिव श्रियां भूयासम् , इति । यथा ब्रह्म ब्राह्मणो लोके श्रेष्ठ एवमहमपि श्रेष्ठो भूयासम् । यथा क्षत्रं राज्यं गजाश्वादिश्रियामधिपतिः, एवमहमपि सर्वसंपदामधिपतिर्भूयासम् ।
अध्या० १ ख० १] ऐतरेयारण्यकम्। २४५
अथ स्रुचि चतुर्गृहीतेनाऽऽज्येन होतृमन्त्रस्य प्रतीकं दर्शयति— यदङ्ग एषा समितिर्भवातीति, इति। सोऽयं मन्त्रः संहिताग्रन्थे द्रष्टव्यः। इतिशब्दो दशाहुतिमन्त्रसमाप्त्यर्थः। अस्मिन्दशमे मन्त्रे शाखान्तरगतस्य पाठस्यानुपादेयतां दर्शयति— अत्र विभजाथ वीथेति त्रीण्यननृचम्, इति। "यदङ्ग एषा" [ऋ० सं० म० १० सू० ११ ऋ० ८] इत्यस्यामृचि त्रीणि पदानि शाखान्तरेऽन्यथा पठितानि। तान्यननृचमृगमनुसारिणी न भवन्ति। कानि तानि पदानीत्याशङ्क्य प्रदर्श्यन्ते—अत्रेत्येकं विभजायेति द्वितीयं वीथेति तृतीयम्। तस्यामृचि "रत्ना च यद्विभजासि स्वधावः" इति तृतीयः पादः, तस्य चायमर्थः—हे स्वधावोऽन्नवन्नग्ने रत्ना च यद्रत्नान्यपि यानि विभजासि पृथक्क्रोर्षीति। तस्मिन्पादे रत्नानामनुवादद्योतनाय यच्छब्दोऽपेक्षितः। अग्नेरेकस्य संबोध्यमानत्वाद्विभजासीत्येकवचनमपेक्षितम्, अतस्तदुभयमृगनुसारि। शाखान्तरे तु तदुभयं परित्यज्यात्र विभजायेति पदद्वयं पठितम्। तद्वयमृगमनुसारि न भवति, यथोक्तानुवादाभावात्, बहुवचनान्वितत्वाच्च। तथा चतुर्थपाद एवमाम्नायते—"भागं नो अत्र वसुमन्तं वीतात्" इति। तस्यायमर्थः—हेऽग्नेऽत्रास्मिन्कर्मणि नोऽस्माकं वसुमन्तं भागं बहुधनोपेतं भागं वीताद्विशेषेण प्राप्नुहि संपाद्येति। तस्मिन्नपि पादे शाखान्तरीया वीथेति पठन्ति, तदपि पूर्ववदयुक्तम्। सन्ति हि मे(वे)दे तत्र तत्र शाखान्तरपाठदूषणानि बहूनि। तथाहि—"बृहस्पतिर्नो हविषा वृधातु" इत्यस्मिन्मन्त्रे हविषा विधेरिति शाखान्तरपाठः। स च यज्ञे नैष्फल्येन दुष्ट इत्यभिप्रेत्य ब्राह्मणे समाम्नायते—"यद्ब्रूयाद्विधेरिति यज्ञस्थाणुमृच्छेद्वृधात्वित्याह यज्ञस्थाणुमेव परिवृणक्ति" इति। एवं "यदद्भूयोत्सूँपावसानै" इत्यादिकमुदाहार्यम्।
मार्जलीयहोमादूर्ध्वमुपस्थानं विधत्ते— अत्र तिष्ठन्नादित्यमुपतिष्ठते पर्यावृत्ते प्रदक्षिणमावृत्यै- तैश्रैवास्वाहाकारैरैन्नेवा३ इदं मधू३ इदं मधु। इमं तीव्रसुतं पिबा३ इदं मधू३ इदं मध्विति च, इति। अत्र मार्जालीयस्य समीपे तिष्ठन्प्राङ्मुख आदित्यमुपतिष्ठेत। यदा त्वादित्यः पश्चिमायां दिशि पर्यावृत्तस्तदा स्वयमपि प्रदक्षिणं यथा भवति तथा पर्यावृत्य पश्चि-
यदङ्ग एषा०—ऋ० सं० म० १० सू० ११ ऋ० ८।
१ क. ख. ॰न्तरे वी॰। २ ग. ॰यात्सुखाव॰। ३ ङ. ॰त्सूयाव॰। ४ क. ख. घ. ङ. ॰नेया॰।
५ ग. घ. ङ. ॰यस॰।
२४६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [५पञ्चमारण्यके-
माभिमुख एतैः पूर्वोक्तैः “अग्निरिवानाधृष्यः” इत्यादिभिर्दशभिर्मन्त्रैर्होमार्थापादित- स्वाहाकाररहितैरुपतिष्ठेत । प्राङ्मुखोपस्थानेऽप्येत एव मन्त्राः । वक्ष्यमाणमन्त्रान्त- रेण सह समुच्चयार्थश्चकारः । तच्च मन्त्रान्तरम्- “एह्येव” इत्यादिकम् । हे आदि- त्यैह्येवास्मान्प्रति सर्वथैवाऽऽगच्छ । दूरादाह्वानार्था प्लुतिः । आगमनप्रयोजनमुच्यते- इदमस्माभिर्दीयमानं हविर्मधु मधुरम् । प्लुतिर्द्विरुक्तिश्चेत्युभयमादरार्थम् । तदेव हविः पुनर्विशेषाकारेण निर्दिश्यते-इमं पुरतो वर्तमानं तीव्रसुतं तीव्रेण बहुमन्त्रसूक्तप्रयो- गेणाभिषुतं सोमरसं पिव । प्लुतिः पूर्ववाक्यावृत्तिश्चेत्येतदत्यन्तमादरार्थम् । इति- शब्दो मन्त्रसमाप्त्यर्थः । चशब्दः पूर्वमन्त्रैः सह समुच्चयार्थः ।
आदित्योपस्थानादूर्ध्वं दासीविषयं प्रैषं विधत्ते-
प्रेष्याः संशास्ति पूर्णकुम्भास्तिस्रोऽवमाः षडुत्तमाः, इति ।
वक्ष्यमाणकर्मार्थं या दास्यः प्रेषणीयास्ता दासीः प्रेषयेत् । ताश्च दास्य उदकपूर्ण- कुम्भयुक्ता भवन्ति । तासां दासीनां त्रित्वमधमः पक्षः । षट्संख्योत्तमः पक्षः ।
तासां प्रेषणे मन्त्रमाह-
इमं धिष्ण्यमुदकुंभं च त्रिः प्रदक्षिणं परि-
व्रजाथ दक्षिणैः पाणिभिर्दक्षिणानूरूनाघ्नाना
एह्येवा३ इदं मधू३ इदं मध्विति वदत्यः ।
इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके प्रथमाध्याये
प्रथमः खण्डः ॥ १ ॥
अथ द्वितीयः खण्डः ।
उपाकृते स्तोत्रे त्रैधं निनयाथात्रोत्तरे
च मार्जालीये शेषमन्तर्वेदि, इति ।
हे दास्य इमं मार्जालीयाख्यं धिष्ण्यं तत्र स्थापितमेकमुदकुम्भं च त्रिवारं प्रद- क्षिणी कुरुत । किं कुर्वत्यः, प्रदक्षिणीकरणकाले स्वस्वशिरस्यवस्थितानुदकुम्भान्वाम- हस्तैरवष्टभ्य दक्षिणैः पाणिभिः स्वकीयानूरूंस्ताडयन्त्यः । पुनरपि किं कुर्वत्यः, तस्मिन्काल एहीत्यादिमन्त्रभागं वदत्यः पठन्त्यः । अयं च भागो होतुरादित्योपस्थाने व्याख्यातः । अयं चोक्तो मन्त्रार्थरूपः प्रयोगस्तैत्तिरीयैर्विस्पष्टमाम्नातः-“उदकुम्भा- नधिनिधाय दास्यो मार्जालीयं परिनृत्यन्ति पदो निघ्नतीरिदं मधु गायन्त्यः” इति ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक- भाष्ये पञ्चमारण्यके प्रथमाध्याये प्रथमः खण्डः ॥ १ ॥
१ क. ख. 'मार्थे या । २ क. ख. 'घ्नन्तीरि' ।
अध्या०१।ख०२] ऐतरेयारण्यकम् । २४७
' हे दास्यो यूयमेतावत्कृत्वा तत ऊर्ध्वमध्वर्युणा सामगानप्रति स्तोत्रेऽनुज्ञापिते सति स्वस्वकुम्भस्थितमुदकं त्रेधा विभज्य प्रदेशत्रये सिञ्चत । अयं दक्षिणो मार्जालीय एकः प्रदेशः । उत्तरो मार्जालीयो द्वितीयः प्रदेशः । उत्तरमार्जालीयो नामाऽऽग्नीध्रीयो धिष्ण्यः । तत्रोभयत्र सिक्तस्योदकस्यावशिष्टं मार्गं वेदिमध्ये सिञ्चत । इतिशब्द इमं धिष्ण्यमित्यादिमन्त्रसमाप्त्यर्थः । अनेन मन्त्रेण दासीः प्रेषितवतो होतुरुत्तरवेदिस्थानी- यस्य चित्याग्नेरवयवोपस्थानं विधातव्यम् ।
तत्र शिरस उपस्थानं विधत्ते—
प्रदक्षिणमग्निं निष्क्रम्याग्रेण यूपं पुरस्तात्प्रत्यङ्मुखस्तिष्ठन्नग्नेः शिर उपतिष्ठते नमस्ते गायत्राय यत्ते शिर इति, इति ।
मार्जालीयमग्निं प्रदक्षिणं कुर्वन्निष्क्रम्याग्निश्चित्यां दक्षिणेन गत्वा यूपस्य पूर्व- भागे चित्याग्नेः पुरस्तात्स्वयं प्रत्यङ्मुखस्तिष्ठन्नमस्त इत्यादिमन्त्रेण तस्याग्नेः शिरो- भागमुपतिष्ठेत । हेऽग्ने ते तव गायत्रं साम शिरोरूपेण वर्तते तस्मै गायत्ररूपाय शिरसे त्वदीयाय नमोऽस्तु । गायत्रसाम्नः शिरोरूपत्वमध्वर्युणा तदुपस्थानादवगन्त- व्यम् । तथा चान्यत्राऽऽम्नायते—‘‘गायत्रेण पुरस्तादुपतिष्ठते’’ इति । नमस्त इत्या- दिमन्त्रसमाप्त्यर्थ इतिशब्दः ।
दक्षिणपक्षस्योपस्थानं विधत्ते—
तेनैव यथेतं प्रत्येत्य दक्षिणमुदङ्मुखः पक्षं नमस्ते राथंतराय यस्ते दक्षिणः पक्ष इति, इति ।
येन मार्गेण पूर्वस्यां दिशि गतस्तेनैव मार्गेण प्रतिनिवृत्य दक्षिणस्यां दिशि स्वयमुद- ङ्मुखस्तिष्ठंश्चित्याग्नेर्दक्षिणं पक्षं मन्त्रेणोपतिष्ठेत । तेनैवेत्यस्य व्याख्यानं यथेतमिति, यथाऽऽगतं तथैवेत्यर्थः । दक्षिणपक्षस्य रथंतरसामसंबन्धोऽध्वर्यूपस्थानादवगन्तव्यः । तथा च तदुपस्थानमाम्नातम्—‘‘बृहद्रथंतराभ्यां पक्षौ’’ इति ।
उत्तरपक्षस्योपस्थानं विधत्ते—
अपरेणाग्निपुच्छमतिक्रम्य प्राङ्मुख उत्तरं नमस्ते बृहते यस्त उत्तरः पक्ष इति, इति ।
पश्चिमदिगवस्थितं यदग्निपुच्छं तस्य पश्चिमभागेन तत्पुच्छमतिक्रम्योत्तरपक्षस्य पश्चिमायां दिशि प्राङ्मुखोऽवस्थायात्तरं पक्षं मन्त्रेणोपतिष्ठेत । तस्य पक्षस्य बृह- त्सामरूपत्वं पूर्ववद्द्रष्टव्यम् ।
१ ख. ग. घ. ङ. °र्युणाऽसा° । २ क. ख. °त्तरमा' । ३ क. ख. ग. °क्षिण ।
२४८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [५पञ्चमारण्यके-
पुच्छस्योपस्थानं विधत्ते— पश्चात्माङ्पुच्छं नमस्ते भद्राय यत्ते पुच्छं या ते प्रतिष्ठेति, इति । चित्याग्नेः पश्चिमदिशि प्राङ्मुखोऽवस्थाय मन्त्रेण पुच्छमुपतिष्ठेत । भद्रसाम्नः पुच्छरूपत्वमुपनिषदि पञ्चविधोपासनायामनुक्रमणादवगम्यते । तत्र पञ्चावयवा एवमनुक्रम्यन्ते—"गायत्रं रथंतरं बृहद्भद्रं राजनमिति सामतः” [ ऐ० आ० २ अ० ३ ख० ४ ] इति । “शिरो दक्षिणः पक्ष उत्तरः पक्षः पुच्छमात्मेत्याख्यानम्” [ ऐ० आ० २ अ० ३ ख० ४ ] इति [च] । यत्ते पुच्छं या ते प्रतिष्ठेति पुच्छस्यैव प्रतिष्ठात्वमुक्तम् । प्रतितिष्ठत्यवयवसंपूर्तिर्भवत्यनयेति प्रतिष्ठा ॥
चित्याग्नेर्मध्यशरीरस्योपस्थानं विधत्ते— दक्षिणतः पुच्छस्याऽऽत्मानं नमस्ते राजनाय यस्त आत्मेति, इति । इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके प्रथमाध्याये द्वितीयः खण्डः ॥ २ ॥
पुच्छस्य दक्षिणभागे प्राङ्मुखः स्थित्वा मध्यदेहमुपतिष्ठेत । आत्मशब्दो मध्यदेहभागं ब्रूते । “मध्यं ह्येषामङ्गानामात्मा ” [ ऐ० आ० २ अ० ३ ख० ५ ] इति श्रुतेः । राजनसाम्नो मध्यदेहरूपत्वं पूर्ववद्द्रष्टव्यम् ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये पञ्चमारण्यके प्रथमाध्याये द्वितीयः खण्डः ॥ २ ॥
अथ तृतीयः खण्डः ।
चित्याग्न्युपस्थानानन्तरं होतुः सदःप्रवेशं विधत्ते— यथेतं सदः प्रसर्पति, इति । पूर्वं चित्याग्निसमीपे मार्जालीयाद्येन प्रकारेण गतं तस्मिन्नेव मार्गे प्रत्यावृत्य मार्जालीयं वामभागेऽवस्थाप्य सदः प्रविशेत् ।
दोलाकल्पनं विधत्ते— पुरस्तात्प्रेङ्ख उपकॢप्तो भवति, इति । होतुः सदःप्रवेशात्पूर्वस्मिन्नेव काले प्रेङ्खो दोलाऽध्वर्युभिः संपादनीया भवति ।
दोलासाधनानां स्थूणादीनां सदस्यानयनं विधत्ते— स्थूणे रज्जू वीवध इत्येतत्प्रक्षाल्य तीर्थेन
१ ग. घ. ङ. मार्गे ।
अध्या० १ ख० ३] ऐतरेयारण्यकम् । २४९
प्रपाद्योत्तरेणाऽऽग्नीध्रीयं परिव्रज्य पूर्वया द्वारा सदः सर्वान्धिष्ण्यानुत्तरेण, इति । स्थूणे द्वौ स्तम्भौ, रज्जुद्वयं फलकबन्धनक्षमं, वीवधः स्तम्भयोरुपरि तिर्यगव- स्थापनीयः काष्ठविशेषः, एतत्रितयं मलापनयाय प्रक्षाल्य तीर्थशब्दवाच्येन मार्गेण नयेत् । उत्करचात्वालयोर्मध्यदेशस्तीर्थम् " एतत्तीर्थमित्याचक्षते " इति परिभाषि- तत्वात् । तत आग्नीध्रीयधिष्ण्यवामभागेऽवस्थाप्योत्तरभागे तत्सर्वमानीय पूर्वद्वारेण सदः प्रवेश्य सदसो मध्ये सर्वान्धिष्ण्यान्वामभागे कृत्वा तेषामुत्तरदेशेनोऽऽनीय होत्री- यधिष्ण्यस्य पश्चाद्भागेऽवस्थापयेत् । तत्र काष्ठानां वृक्षविशेषं विधत्ते- औदुम्बराणि काष्ठानि प्रेङ्खस्य भवन्ति पालाशानि मिश्राणि वा, इति । स्पष्टोऽर्थः । दोलायां होतुरारोहणाय फलकानि विधत्ते- त्रीणि फलकान्युभयतस्तष्टानि द्वे वा सूच्यश्च तावत्यः, इति । अधस्तादुपरिष्टाच्च फलकानां सम्यक्तक्षणं कर्तव्यम् । तानि फलकानि त्रीणीत्येकः पक्षः । द्वे इति पक्षान्तरम् । सूच्यः फलकसंधानहेतवः सूक्ष्माग्राः काष्ठविशेषाः । ताश्च फलकवत्तिस्रो द्वे वा । फलकसंधानेन निष्पन्नस्य स्वरूपं विशदयति- इषुमात्रः प्राङ्प्रेङ्खो निमुष्टिकस्तिर्यङ्गुदगग्रः प्रागग्राभ्यां सूचीभ्यां समुतः, इति । प्रेङ्खस्य [ प्राङ् ] प्राक्पश्चिमविस्तारो बाणमात्रः । तिर्यङ्दक्षिणोत्तरविस्तारो निमुष्टिको मुष्टिन्यूनबाणमात्रः । स च प्रेङ्ख उदगग्रो दक्षिणमूलः स्थापनीयः । स च प्रागग्राभ्यां सूचीशब्दाभिधेयाभ्यां फलकसंधानहेतुभ्यां समुतः संयुक्तः कार्यः । दोलायाः स्थापनप्रकारं विधत्ते- दक्षिणोत्तरे स्थूणे निखायाभितो होतृषदनं वीवधमत्यादधात्यास्यसंमितं कर्तुः, इति । होता सीदति यस्मिन्धिष्ण्ये स्थाने तद्धोतृषदनं तस्य दक्षिणोत्तरयोः स्तम्भद्वयं निखनेत् । तयोः स्तम्भयोरुपरि चतुररत्निमात्रं वीवधनामकं तिर्यक्काष्ठं स्थापयेत् । तच्च काष्ठं कर्तुर्यजमानस्योत्थितस्य मुखसंमितं यथा भवति तथा स्तम्भस्य निखातभा- गादूर्ध्वं यजमानमुखपरिमितै स्तम्भाग्रे स्थापयेत् ।
१ घ. ङ. ॰नामीय' ।
३२
२५० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [१प्रपाठकारण्यके-
तत्र फलकबन्धनप्रकारं दर्शयति-
कुष्ठासु च्छिद्राणि प्रेङ्खस्य भवन्ति रज्जूभ्यामूर्ध्वमुद्दयति
दक्षिणतो दक्षिणयोत्तरतः सव्यया दार्भ्यौ त्रिगुणे
स्यातां सव्यदक्षिणे पञ्चव्यायामे द्विगुणे वीवधे त्रिः
प्रदक्षिणं पर्यस्योर्ध्वग्रन्थि निष्पर्क्यं बध्नाति, इति ।
कुष्ठाः फलकस्य चत्वारः कोणविशेषाः । प्रेङ्खस्य फलकस्य तेषु चतुर्षु कोणेषु च्छिद्राणि कुर्यात् । दक्षिणच्छिद्रद्वयो रज्जवा द्विगुणीकृताया एकस्या अग्रद्वयं स्यूत्वा तां रज्जुमूर्ध्वमुन्नमयेत् । एवमुत्तरच्छिद्रद्वये रज्ज्वन्तरं द्रष्टव्यम् । तत्र दक्षिणरज्जुः प्रदक्षिणावृत्कार्या । उत्तररज्जुः सव्यावृत्कार्या । ते च रज्जू दर्भमय्यौ त्रैगुण्ययुक्ते सव्यदक्षिणावृतौ *पञ्चव्यायामदीर्घे कृत्वा द्विगुणे यथा भवति तथा बध्नीयात् । पञ्चव्यायामा रज्जुर्द्विगुणीकृता सार्धद्वियामा भवति । तस्याश्च मध्यभागे बाणमात्रं फलकस्याधस्तादुपक्षेप॑णम् । अवशिष्टोऽशश्छिद्रद्वयादूर्ध्वमुन्नीतं उपरितने वीवधे तदग्रमेकैकं त्रिः प्रदक्षिणीकृत्याग्रद्वयेन संयुक्तेनोर्ध्वग्रन्थिः कर्तव्यः । स च निष्पर्क्यः । शिखाबन्धनवत्सहसा मोचितुं( मोचयितुं ) शक्यत्वं निष्पर्क्यत्वम् ।
निखातयोः स्तम्भयोर्दृढीकरणं विधत्ते—
शाखाभिर्वृसीभिर्वा पर्युपन्त्यप्रकम्पि, इति ।
यथा स्तम्भस्य कम्पनो न भवति तथा पर्युपन्ति स्तम्भमूलस्य परितस्तस्मिन्नवटे पांसुं प्रक्षिपन्ति । हस्तेन प्रक्षेपणं न कर्तव्यं किं तु वृक्षशाखाभिर्वृसीभिर्वा पांसून्यूहेत् । तपस्विनामासनार्थं तृणवल्लीतालपत्रवेणुदलादिभिर्निर्मिता अल्पकटविशेषा वृस्यः ।
फलकंभूम्योर्मध्ये व्यवधानप्रमाणं दर्शयति—
चतुरङ्गुलेनैष विभूमः प्रेङ्खः स्यान्मुष्टिमात्रेण वा, इति ।
भूमेर्विशिष्टो विभूमोऽङ्गुलिचतुष्टयमित्येकः पक्षः । तस्योपर्यूर्ध्वाङ्गुष्ठयुक्ता मुष्टिर्भवति तावद्व्यवधानमित्यपरः पक्षः ।
दक्षिणभागे फलकस्योन्नत्यं विकल्पेन विधत्ते—
दक्षिणत उदाहिततरः समो वा, इति ।
* 'पञ्चव्यायामे' इत्यस्य व्याख्यानमेतत् ।
१ ग. घ. ङ. ॑क्षीणाम् । २ क. ख. ॑भिर्वा बृसी॑ । ३ घ. ङ. ॑कवृस्योर्म॑ ।
अध्या० १।ख० ४] ऐतरेयारण्यकम् । २५१
' होतुर्धिष्ण्यस्य पश्चाद्भागे लम्बमानस्य फलकस्य च व्यवधाने प्रमाणं दर्शयति— पदमात्रे धिष्ण्यात्, इति ॥ इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके प्रथमाध्याये तृतीयः खण्डः ॥ ३ ॥ धिष्ण्यात्पश्चिमभागे पदमात्रे फलकमवतिष्ठत इति शेषः ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये पञ्चमारण्यके प्रथमाध्याये तृतीयः खण्डः ॥ ३ ॥
अथ चतुर्थः खण्डः ।
अथ होतुर्वाणधारणं विधत्ते— निष्ठिते प्रेङ्खे होता॑ वाणमौदुम्बरं शततन्तुमुभाभ्यां परिगृह्योत्तरत उपोहते यथा वीणाम्, इति । यथोक्तप्रकारेणाध्वर्युभिरुपकल्पिते कृते प्रेङ्खे समाप्ते सति ततो होता चित्याग्निप्र- देशादारभ्य सदः प्रविश्य पश्चादासीन औदुम्बरं शततन्तुं वाणमुभाभ्यां हस्ताभ्या- मादायोत्तरपार्श्वे वीणावद्धारयेत् । यथा लोके काण्डवीणा द्वित्रादितन्तुयुक्ता तथा विस्तृतफलकैःसंपादिता शततन्तुबन्धनपर्याप्ता महती वीणा वाणशब्देनोच्यते । वामभागे धारितस्य बा(वा)णस्य मन्त्रैः स्वरस्थानकल्पनं विधत्ते— सप्तभिश्चन्दोभिश्चतुरुत्तरैः स्थाना- न्यस्योध्वर्मुद्गृह्णीयाद्दशभिर्वा, इति । गायत्र्युष्णिगनुष्टुब्बृहतीपङ्क्तिस्त्रिष्टुब्जगत्यः सप्त च्छन्दांसि । विराड्द्विपदाऽति- च्छन्दः किंचिदन्यच्छन्दोन्तरमित्येतानि चत्वार्युत्तराणि च्छन्दांसि । तथाविधच्छन्दः- प्रतिपादकैर्मन्त्रैर्बा(वा)णस्याधोभागमारभ्योत्तरोत्तरमूर्ध्वं स्वरस्थानानि केनचिल्लाञ्छने- नोपकल्पयेत् । अन्तिमच्छन्दोन्तरपरित्यागेन दशभिर्वेति पक्षान्तरम् । इदानीं क्रमेण च्छन्दोमन्त्रानाह— गायत्रेण त्वा छन्दसोद्द्हाम्यौष्णिहेन ॰त्वाऽऽनुष्टुभेन त्वा बार्हतेन त्वा पाङ्क्तेन त्वा त्रैष्टुभेन त्वा जागतेन त्वा वैराजेन त्वा द्वैपदेन त्वाऽतिच्छन्दसा त्वेति, इति । हे बा(वा)ण त्वां गायत्राख्येन(ण) च्छन्दसोद्द्हामि परिज्ञातस्वरस्थानविशेषयुक्तं
१ क. ग. घ. ङ. ॰तुर्वाण॰ । २ क. घ. ञ. ॰ता वाण॰ । ३ क. ख. घ. ङ. ॰न्तुं बाण॰ । ख. ग. घ. ङ. ॰लसं॰ । ५ क. ख. ॰णा वाण॰ ।
२६२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [५पञ्चमारण्यके-
करोमि। एवमुत्तरेष्वपि मन्त्रेषु च्छन्दसोदूहामित्येतं भागमनुषज्य योजनीयम्। इति- शब्दो मन्त्रसमाप्त्यर्थः।
ध्वन्युत्पादनाय तन्तूनामुन्मार्जनं विधत्ते—
छन्दांस्यनुक्रम्य स्थानानामनुपरिक्रमण-
मौदुम्बर्याऽऽर्द्रेया शाखया सपलाशया
मूलदेशेन वाणं त्रिरूर्ध्वमुल्लिखति, इति।
यथोक्तच्छन्दोवाचकमन्त्राननुक्रमेण पठित्वा तैर्मन्त्रैः स्वरस्थानविशेषाणामनुक्रमेणो- पकल्पनं संपाद्य ततः पर्णयुक्तया कयाचिदार्द्रोदुम्बरशाखया तं वाणं त्रिवारमूर्ध्वमुन्मृ- ज्यात्। येयमुदुम्बरशाखा तस्या अग्रेणोन्मार्जनं न कुर्यात्किं तु मूलदेशेन कुर्यात्।
उन्मार्जनत्रयार्थं मन्त्रत्रयं दर्शयति—
प्राणाय त्वाऽपानाय त्वा व्यानाय त्वोल्लिखामीति, इति।
हे वाण त्वामस्मत्प्राणवृत्तिरक्षणार्थमुन्मृजामि। एवमुत्तरत्रापि पूर्वयोर्मन्त्रयोरुल्लि- खामीत्यनुषज्यते। इतिशब्द ईदृशे स्थाने सर्वत्र मन्त्रसमाप्त्यर्थः।
शाखान्तराभिमतं मन्त्रप्रयोगं निषेधति—
अन्येष्योऽपि कामेभ्यः पुनरपि न तूल्लिखामीति ब्रूयात्, इति।
शाखान्तरे हि प्राणादिरक्षार्थोल्लेखनादूर्ध्वं कामान्तरसिद्धयर्थं पुनरप्युल्लिखामीति मन्त्रप्रयोगोऽभ्युपगतः, तत्तु न कुर्यात्। प्राणादिमन्त्रत्रयेणैवाशेषकामानां सिद्धेः।
वाणस्य दानं विधत्ते—
अथैनं सशार्वं छन्दोगेभ्यः प्रयच्छति, इतिँ।
वाणदानादूर्ध्वं प्रेङ्खमारुरुक्षोर्होतुः प्रथमं मन्त्रैः प्रेङ्खस्य चालनं विधत्ते—
भूतेभ्यस्त्वेति पश्चार्धे फलके पाणी प्रतिष्ठापयति
प्राणमनु प्रेङ्खस्वेति प्राञ्चं प्रेङ्खं प्रणयति व्यानमन्वी-
ङ्खस्वेति तिर्यञ्चमपानमन्वीङ्खस्वेत्यभ्यात्मम्, इति।
असौ होता प्रेङ्खस्यापरफलके भूतेभ्यस्त्वेति पाणिद्वयं प्रतिष्ठापयति। हे प्रेङ्ख सर्वभूतोपकारार्थं त्वां पाणिभ्यां स्पृशामीति शेषः। ततः प्राणमनु प्रेङ्खस्वेति मन्त्रेण तं प्रेङ्खं पूर्वदिग्गमितत्वेन चालयेत्। हे प्रेङ्ख त्वमस्मदीयं प्राणमनुसृत्य प्रकर्षेण चलि- तो भव। यथा प्राणः पुरस्ताद्गच्छति तथा त्वमपि पूर्वस्यां दिशि गच्छेदित्यर्थः। ततो व्यानमन्वीङ्खस्वेति मन्त्रेण प्रेङ्खं तिर्यञ्चं दक्षिणोत्तरदिगनुसारेण चालयेत्। हे प्रेङ्ख
१ क. वाणं। २ ख. वाणं। घ. ङ. बाणं। ३ ख. ग. घ. वाण। ४ ख. ग. ङ. वाणस्य। ५ ख. ङ. ᵒति। वाणं। ६ घ. ङ. पूर्वादिगामिᵒ।
अध्या० १ ख० ४ ] ऐतरेयारण्यकम् । २५३
त्वमस्मदीयं व्यानमनुसृत्य दक्षिणोत्तरदिशोर्विशेषेण चलितो भव । ततोऽपानमन्वी- ङ्क्षस्वेति मन्त्रेण स्वात्माभिमुख्येन चालयेत् । हे प्रेङ्ख त्वमस्मदीयम्पानवायुमन्तःसंचा- रिणमनुसृत्यास्मदाभिमुख्येन चलितो भव ।
त्रिविधचालनादूर्ध्वं व्याहृतिजपं विधत्ते—
भूर्भुवः स्वरिति जपति, इति ।
प्रेङ्खस्य दार्ढ्यपरीक्षार्थं यदेतच्चालनत्रयं कृतं तेन पृथिव्यादिलोकत्रयं दृढं भवत्वित्यर्थः ।
जपादूर्ध्वं पुनरपि त्रेधा चालनं विधत्ते—
प्राणाय त्वेति प्राञ्चमेव व्यानाय त्वेति
तिर्यञ्चमपानाय त्वेत्यभ्यात्मम् , इति ।
हे प्रेङ्ख त्वामस्मदीयप्राणादित्रयपरिरक्षार्थं चालयित्वा दाढर्यं पश्यामीति शेषः । अत्र मन्त्रविशेष एव न तु क्रियाविशेष इति द्योतनार्थमेवकारः ।
प्रेङ्खस्य दार्ढ्यपरीक्षणानन्तरं समारोहणप्रकारं विवक्षुरादौ कूर्पराग्रारत्निस्थापनं विधत्ते—
वसवस्त्वा गायत्रेण च्छन्दसाऽऽरोहन्तु तानन्वा-
रोहामीति पश्चार्धे फलकेऽरत्नी प्रतिष्ठापयति, इति ।
वसवस्त्वेत्यादिः स्थापनमन्त्रः । हे प्रेङ्ख त्वामष्टसंख्याका वसवो देवा गायत्र- च्छन्दोरूपेण साधनेन प्रथममारोहन्तु । तान्वसूननुसृत्य पश्चादारोहामि ।
अरत्निस्थापनानन्तरमूर्ध्वाङ्गुलिभ्यां पाणिभ्यां पूर्वफलकस्पर्शनं विधत्ते—
अथ पूर्वं फलकं नानापाणिभ्यामभि-
पद्येत यथा हि सृप्स्यन् , इति ।
लोके सर्पणं करिष्यन्पन्नगः शिर उन्नमयति, तथाऽयं पाणी उन्नतौ कृत्वा ताभ्यामभिमृशेदित्यर्थः ।
कूर्पराभ्यां पश्चिमफलकमग्राभ्यां पूर्वं फलं च स्पृष्टवतो मुखस्याधोभागेन चुबु- कनाम्ना मध्यमफलकस्पर्शनं विधत्ते—
मध्यमं चुबुकेनोपस्पृशेद्वयोर्वा संधिम्, इति ।
फलकस्य त्रयपक्षे मध्यमस्पर्शः । द्वयपक्षे संधिस্পর্শः ।
अथ मन्त्रत्रयेण क्रमाद्दक्षिणवामसक्थिभ्यां कृत्स्नशरीरेण च प्रेङ्खारोहणं विधत्ते—
रुद्रास्त्वा त्रैष्टुभेन च्छन्दसाऽऽरोहन्तु तानन्वारो-
१ ग. ॰यर॰ ।
२६४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१पञ्चमारण्यके-
हामीति दक्षिणं सव्यत्यतिहरत्यादित्यास्त्वा जागतेनं च्छन्दसाऽऽरोहन्तु तानन्वारोहामीति सव्यं विश्वे त्वा देवा आनुष्टुभेन च्छन्द- साऽऽरोहन्तु तानन्वारोहामीति समारोहति, इति ।
उक्तप्रकारेण प्रेङ्खामन्वारूढस्य भूमौ पादस्थापनप्रकारं विधत्ते— पश्चात्स्वस्य धिष्ण्यस्य दक्षिणं पादं प्राचं प्रतिष्ठापयत्यथ सव्यं यदेतरः श्राम्येद्येतरं यदेतरोऽथेतरं नोभौ विभूमौ कुर्यात्, इति ।
स्वकीयधिष्ण्यस्य पश्चाद्भागे प्रथमं दक्षिणपादः प्रागग्रः स्थापनीयः । ततः सव्यः पादः स्थापनीयः । यदा दक्षिणस्य पादस्य श्रमस्तदानीं सव्यं स्थापयेत् , यदा तु सव्यस्य श्रमस्तदा दक्षिणमित्येवं पर्यायेण तयोः स्थापनं न त्वेकदा द्वौ पादौ भूमिस्पर्शरहितौ कुर्यात् ।
इतरेषामृत्विजां तत्तदारोहणं विधत्ते— कूर्चान्होत्रकाः समारोहन्ति ब्रह्मा चौदुम्बरीमासन्दीमुद्गाता, इति । प्रशास्ता ब्राह्मणाच्छंसी पोता नेष्टाऽऽग्नीध्रोऽच्छावाकश्चेति होत्रका दर्भमयान्कूर्चा- नारोहेयुः । तथा ब्रह्माऽपि कूर्चमारोहेत् । उद्गातोदुम्बरनिर्मितामासन्दीमारोहेत् ।
प्रेङ्खादिष्वारूढानां होतृहोत्रकब्रह्मोद्गातॄणां शौचाचमनौद्यर्थं गमने कंचिद्विशे- षमाह— यदि कस्मैचिदवश्यकर्मिणो जिगमिषेद्रादिश्य पालं प्राङ- वरुह्य चरित्वा तमर्थमेवमेवाजपया वृताऽऽरोहेत् , इति ॥ इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके प्रथमाध्याये चतुर्थः खण्डः ॥ ४ ॥
कर्मिशब्द आचमनादिक्रियामाचष्टे । तदर्थं यो जिगमिषुः सोऽयं पालमादिश्य पालकं यजमानमनुज्ञाप्य स्वासनात्प्रेङ्खादेः प्राङ्मुखोऽवरुह्य यदर्थं निर्गच्छति तमर्थं चरित्वा समागत्य पूर्वोक्तेनैव प्रकारेण स्वं स्वमासनमारोहेत् । तत्र होतुरेतावान्वि- शेषः । अजपया वृता भूर्भुवः स्वरित्येतज्जपशून्येनैतरेण सर्वेण प्रकारेणेति ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक- भाष्ये पञ्चमारण्यके प्रथमाध्याये चतुर्थः खण्डः ॥ ४ ॥
१ ग. ‘पनं वि’ । २ ग. ॰व्यध्र’ । ३ ख. ग. घ. ङ. ॰रोहेयुः । ४ ग. घ. ङ. ॰रोहयेत् । ५ घ. ङ. ॰नार्थं । ६ ख. घ. ङ. ॰शेष्यमा’ । ७ ग. रामागम्य । ८ ग. ॰न्येन प्र’ ।