अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
..."
Is there an 'अ' or just 'स्यान्वयः'?
अ - न्द - यः ? No, 'स्यान्वयः'!
Look at the letters:
त - था - च - त - द - व - धे - रि - त्य - स्या - न्व - यः ।
"तथा च तदवधेरित्यस्यान्वयः ।" - YES! "तथा च तदवधेरित्यस्यान्वयः ।" (Thus there is connection of 'तदवधेः'). That makes 100% philosophical sense! In commentary, they show the अन्वय of the sutra word 'तदवधेः'!
Wait, let's check the very first word of line 33:
"तद्व्यवच्छेद" - then what?
Is it:
तद्व्यवच्छेदेति ।
Wait, look at the glyphs:
त (ta)
द्व्य (dvya)
व (va)
च्छे (cche)
द (da)
then is that a 'ज्ञा' or 'वे'?
Wait, look at 'ज्ञा' in 'ज्ञानप्राप्तिः' (line 27): ज्ञ has a loop at top left, curving down and right.
In line 33: after 'च्छे', there is 'द' or 'दे'?
Wait! Could it be:
"तद्व्यवच्छेदेति ।" - wait, there is no 'वे', it
अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ॥ १६ ॥
ननु प्रारब्धं हि प्राचीनम् तन्नाशाय तद्भोग एव कर्तव्यो ब्रह्मविदा, न तु
विहितमन्यदप्यग्निहोत्रादि, प्रयोजनाभावात्, दृश्यते च तादृशानां तत्करणम्,
अत उत्तरस्य कर्मणः संश्लेष आवश्यक इत्याशङ्क्य तत्प्रयोजनमाह । तुशब्दः
शङ्काव्युदासकः । अग्निहोत्रादिविहितकर्मकरणं तत्कार्यायैव, भोगकार्याय
प्रारब्धनाशायैवेत्यर्थः । येषामग्निहोत्रादिकारकं प्रारब्धमस्ति, तैरेव तन्नाशाय
भोगवत्तदपि क्रियते, न स्वतादृशीः, अत एव न सनकादीनां तथात्वम् । कुत एतत् ।
तद्दर्शनात् । 'यथाकारी यथाचारी तथा भवति साधुकारी साधुर्भवति पापकारी
पापो भवति पुण्यः पुण्येन कर्मणा भवति पापः पापेने'ति श्रुतिः पूर्वकर्मणोऽग्रि-
मकर्महेतुत्वं दर्शयतीति नानुपपत्तिः काचित् ।
केचित्तु ज्ञानस्य यत्कार्यं तदेवाग्निहोत्रादेरिति तत्कार्यायैति पदस्यार्थं
वदन्ति । स न साधुः । तदधिगम इत्युपक्रमात् ब्रह्मविदः प्रारब्धात्मकप्रति-
बन्धनाशे मोक्षस्य पूर्वज्ञानेनैव सम्पत्तेः कर्मणो वैयर्थ्यापातात् । 'तमेतं वेदानु-
वचनेने'त्यादिश्रुतिदर्शनं दर्शनपदार्थ इत्यपि पूर्वविरोधादुपेक्ष्यः ॥ १६ ॥
इति षष्ठं चतुर्थाध्याये प्रथमपादे तदधिगमाधिकरणम् ॥ ६ ॥
भाष्यप्रकाशः ।
अन्ये तु, 'तदवधे'रित्यस्य, 'तस्य तावदेव चिरं यावन्न विमोक्ष्येथ सम्पत्स्य' इति प्रारब्धस्य
शरीरपातावधिश्रुतेरित्यर्थमाहुः । तत्रापि प्रवृत्तफलस्य कर्मणोऽनाशे हेतुस्तु मृग्यः । सोत्र
सिद्धान्ते विवृत इति तन्मतोपे नातो विशेष इति बोध्यम् ॥ १५ ॥
अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ॥ १६ ॥ सूत्रमवतार्य विवृण्वन्ति तुशब्द
इत्यादि । केचिदित्यादिना परमतमुपक्षिप्य दूषयन्ति स नेत्यादि । प्रारब्धात्मकप्रतिब-
न्धनाशो इति । 'तस्य तावदेव चिर'मिति श्रुतेस्तस्य नाशे । पूर्वविरोधादिति । एतत्सा-
क्षात्पूर्वं 'मनसैवावाप्तव्यम्, मनसैवानुद्रष्टव्य'मित्यवधारणाभावेन सूत्रकृतापि तदधि-
गमसूत्रे ज्ञानादेव कर्मनिवृत्तिकथनेन उक्तश्रुतो च यज्ञादेर्विविदिषाफलकत्वस्य ज्ञानपर्यन्तत्वस्य
रश्मिः ।
व्यवच्छेदादिति तोरर्थः । तुरिति । लुप्तपञ्चम्यन्तम् । तस्येति । भक्तस्य । तथेच्छेति । पातेच्छा ।
स्वकृतेति । एवं 'जीवेनैतदेतत्कर्म कारयित्वैतदेतत्फलं दास्यामी'ति विद्वन्मण्डनोक्तदिशा स्वकृता-
मर्यादा तस्याः पालनाय । न लधेति । न भक्तस्य पातेच्छा । मर्यादाकारणस्य पापाद्यभावस्य पुष्टी
कारणत्वाभावात् । प्रकृते । प्रवृत्तं प्रवृत्तिः फलं यस्येति विग्रहः, न तु निवृत्तं फलं तस्य, प्रारब्ध-
कर्मण इत्यर्थः । अनाशा इति । शरीरपातात्पूर्वमनाशे । स इति । भगवदिच्छारूपः ॥ १५ ॥
अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ॥ १६ ॥ अवतार्येति । नन्वित्यादि-
भावतार्थं । भाष्यार्थस्तु, प्राचीनमिति । ननु सञ्चितमपि प्राचीनमिति चेन्न । स्वतन्त्रेच्छास्य मुनेः
पर्यनुयोगानर्हत्वात् । प्रारब्धं भोगेन नश्यति । क्रियमाणमकरणेन सञ्चितं देहमुत्पाद्य नश्यतीति ।
आवश्यक इति । कर्मणां प्ररोहैकस्वभावत्वात् तथा । तुशब्द इत्यादिनीति । अग्निहोत्रादीति ।
2164
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ४७
अतोऽन्यापि ह्येकेषामुभयोः ॥ १७ ॥ ( ४-१-७. )
तदेवं पूर्वसूत्रचतुष्टयेन मर्यादामार्गीयभक्तस्य मर्यादयैव मुक्तिप्रतिबन्ध-
सम्भवस्तयैव तन्नाशश्चेति निरूपितम् । अथ पुष्टिमार्गीयस्य विनैव भोगं प्रारब्धं
नश्यति न वेति विचार्यते । तत्र भोगैकनाश्यस्वभावत्वास्य न तं विनास्यापि
तन्नाशयतीति प्राप्ते निर्णयमाह । एकेषां पुष्टिमार्गीयाणां भक्तानामुभयोः प्रारब्धा-
प्रारब्धयोर्भोगं विनैव नाशो भवति । कुत एतत् ? तत्राह । अतः । श्रुतेः
कर्मणो ज्ञाननाश्यत्वनिरूपिकायाः । ब्रह्मविद एव प्रवचनादिनिरूपणेन तद-
नाश्यप्रारब्धाख्यकर्माक्षेपकश्रुतेश्च । अन्यापि श्रुतिः पठ्यते 'तस्य पुत्रा दाय-
मुपयन्ति सुहृदः साधुकृत्यां, द्विषन्तः पापकृत्या'मिति । ज्ञानभोगाभ्यां कर्म-
भाष्यप्रकाशः ।
वा बोधनेन तद्विरोधात् । न च सहकारित्वसूत्रविरोधः । प्रारब्धनाशकत्वेनापि तदुपपत्तेरविरो-
धात् ॥ १६ ॥ इति षष्ठं तदधिगमाधिकरणम् ॥ ६ ॥
अतोऽन्यापि ह्येकेषामुभयोः ॥ १७ ॥ एतस्याधिकरणस्य न पूर्वशेषत्वमिति बोध-
नाय पूर्वोक्तमनुवदन्त एतदवतारयन्ति तदेवमित्यादि । अथेत्यादि च । पूर्वपक्षमाहुः तत्रे-
त्यादि । तस्येति । प्रारब्धस्य । तं विनेति । भोगं विना । अस्यापीति । पुष्टिमार्गीयस्यापि ।
व्याकुर्वन्ति एकेषामित्यादि । तदनाश्येति । ज्ञानानाश्येत्यर्थः । 'तस्य पुत्रा' इतिश्रुतिस्तु
शाख्यायनिनामस्ति । ननु सूत्रे, एकेषामिति पदेन पुष्टिमार्गीया एव विवक्ष्यन्त इत्यत्र
किं गमकमित्याकाङ्क्षायामन्यथानुपपत्तिं तथात्वेनोपपादयन्ति ज्ञानभोगाभ्यामित्यादि ।
अर्थस्तु प्रकटः ।
रश्मिः ।
अन्नादिना विहितकर्म तत्करणं च गृह्यते । अतादृशैरिति । अग्निहोत्रादिकारकप्रारब्धशून्यैः । अत
एवेति । अतादृशत्वादेव । तथात्वं अग्निहोत्रादिकर्तृत्वम् । एतदिति । प्रारब्धतदभावाभ्यामग्नि-
होत्रादिकरणाकरणम् । सहकारित्वेति । तृतीयस्य चतुर्थचरणेऽस्ति । अत्राश्रमधर्माणां ज्ञानाय
सहकारित्वमुक्तमिति तथा । तदुपपत्तेरिति । आश्रमधर्मोपपत्तेः ॥ १६ ॥ इति षष्ठं तदधिग-
माधिकरणम् ॥ ६ ॥
अतोऽन्यापि ह्येकेषामुभयोः ॥ १७ ॥ तदेवमित्यादीति । मर्यादयेति । एतस्मै
जीवायैतदेतत्कर्म कारयित्वैतदेतत्फलं दास्यामीति सृष्ट्यादौ इच्छाविषया मर्यादा तस्याम् । मर्यादाया-
मग्निहोत्रादिकारकं प्रारब्धं निवेश्य मुक्तिप्रतिबन्धसम्भवोऽस्ति । अग्निहोत्रादिनैव प्रारब्धनाशाय भोग-
वदग्निहोत्राद्यपि क्रियत इति कर्मणा मुक्तिप्रतिबन्धसम्भवः । तयैवेति । मर्यादयैव मुक्तेः प्रतिबन्धो-
त्पादस्तस्य नाशश्च सनकादीनामिव । मुक्तिप्रतिबन्धकं कर्मेत्युक्तम् । नश्यतीति । अग्निहोत्रादिना
नश्यति । अत्र संशये पूर्वकोटौ 'कर्मणा कर्मनिर्हार' इतिवाक्यं बीजं, द्वितीयास्यां कोटौ, 'ते नाधीत-
श्रुतिगणा नोपासितमहत्तमा' इतिवाक्यं बीजम् । भाष्ये तन्नाशयति, प्रारब्धं नश्यति ।
ज्ञाननाश्यत्वेति । श्रुतिस्तूक्ता । हेत्वन्तरमाहुः ब्रह्मविद इति । श्रुतिस्तु 'धर्माण्न प्रमदितव्य'-
मिति शिक्षायाम् । 'आचार्यवान् पुरुषो वेदे'ति छान्दोग्ये । 'आचार्यः पूर्वरूपं अन्तेवास्युत्तररूपं
विद्या सन्धिः प्रवचन ४संधान'मिति तैत्तिरीये । प्रवचनं प्रारब्धं विना नेति प्रारब्धाख्यकर्माक्षेपकं
प्रवचनादि । 'येन विना यदनुपपन्नं तत्तेनाक्षिप्यत' इतिन्यायात् । तस्येति । पुष्टिमार्गीयस्येत्यर्थः ।
2165
४८ श्रीब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० १ अ० ७ सू० १७.
भाष्यप्रकाशः।
अन्ये तु, अतोऽग्निहोत्रादेर्नित्यात्मककर्मणोऽन्याप्यस्ति साधुकृत्या या फलमभिसन्धाय
क्रियते । तस्या एष विनियोग उक्त इति व्याकुर्वन्ति । तथा सत्येवं नित्यकाम्यकर्मभेदेन श्रुत्यो-
र्विषयभेदे सिद्धे विरोधाभावात् सूत्रे 'चैकेषा'मिति पदेन शाखिनां परामर्शादुभयोरित्यनेन
जैमिनिबादरायणयोराचार्ययोः परामर्शाच्छ्रुतौ सूत्रे चानुपपत्त्यभावात् कथमधिकारिकृतविषय-
भेदावगमः, कथं च प्रारब्धकर्मणोत्र विषयत्वावगम इत्याकाङ्क्षायां तद् दूषयितुमाहुः न चेत्यादि ।
तथा चैवं नित्याग्निहोत्रादेरस्या विषये भेदितेपि, 'तदधिगमा'दिसूत्राद्विषयो न भिद्यत
इति, 'तद्यथेषीकातूलं' 'यथा पुष्करपलाश आपः', 'उभे ह्येवैष एते' इत्येताभ्यो विषयभेदा-
भावात्तासां विरोधो दुष्परिहरः । न च येषामश्लेषो व्याख्यातः, तेषां विद्यमानत्वादयं तेषां
विनियोग इति विषयभेदात् सुपरिहर इति वाच्यम् । विद्यमानाश्लेषस्य प्रागेव दूषितत्वात् ।
ज्ञानोत्तरं स्वर्गादिलौकिककामनोत्पत्त्यसम्भवेन काम्यायाः साधुकृत्याया उत्पत्तेर्वक्तुमशक्यत्वाच्च
श्रुतौ पापकृत्याविनियोगस्याप्युक्तत्वेन तस्यां च फलाभिसन्धानासम्भवेन काम्यत्वासम्भवाच्च
रश्मिः।
साधुकृत्यापापकृत्यासहितत्वात् । न ब्रह्मविद् इत्यर्थे ज्ञाने न कृत्ययोर्नाशात् । मर्यादाभक्तस्येत्यर्थे
भक्तेः पूर्वमेव तन्नाशात् । साधारणस्येत्यर्थे प्रायपाठविरोधः । अतः पुष्टिमार्गीयसम्बन्धिनीं साधुकृत्यां
भगवदनुग्रहेण सुहृत्सु गच्छन्तीं ते गृह्णन्ति, तथा पापकृत्यां द्विषन्तो गृह्णन्तीत्यर्थः । प्रकृते ।
अन्यथानुपपत्तिमिति । विषयभेदकल्पनमन्तरोक्तरीत्या श्रुत्यर्थासम्भवे 'क्षीयन्ते चास्य कर्माणि
तस्मिन्दृष्टे परावरे' इति, 'नाभुक्तं क्षीयते कर्मे'ति च श्रुत्यास्याः 'तस्य पुत्रा दायमुपयन्ती'त्यस्या
विरोध इत्यर्थापत्तिः । अन्यथानुपपत्तिस्तु जीवन् देवदत्तो गृहे नास्तीत्यत्र जीवनसंसृष्टगृही-
भावबहिर्भावयोः प्रमेययोः संसृष्टबुद्धिरूपप्रमेयं तस्याः कारणमित्यन्यथानुपपत्तिरत्र ताम्, तथा च
ज्ञानभोगाभ्यामिति भाष्ये विरोधेत्यन्तभाष्येणान्यथानुपपत्तिनिरूपणं, परिहारायेत्यादिभाष्येणार्था-
पत्तिनिरूपणमिति ज्ञेयम् । तथा च प्रस्थानरत्नाकरेऽन्यथानुपपत्तिस्त्वर्थान्तरकल्पनया समाधे-
यत्वेनोच्यमानप्रमाणसिद्धयोर्द्वयोर्थयोः परस्परप्रतिघातः, तत्समाधानायार्थान्तरकल्पनमर्थापत्तिरिति ।
तथात्वेनेति । गमकत्वेन । प्रकट इति । विषयभेद इति । पुष्टिमार्गरूपविषयस्य भेदः । अन्यस्तु
अन्यथानुपपत्तिसमर्थने प्रकट इत्यर्थः । तस्या इति । साधुकृत्यायाः काम्यकर्मरूपायाः ।
व्याकुर्वन्तीति । सूत्रं व्याकुर्वन्ति । श्रुत्योरिति । अग्निहोत्रादिनित्यकर्मप्रतिपादिका, 'तस्य पुत्रा'
इत्यस्याः काम्यकर्मप्रतिपादिका, तयोः । अधीति । पौष्टिकमार्यादिकाभ्यामधिकारिभ्यां कृतो यो
विषयस्य पुष्टिमार्गरूपस्य भेदावगमः । अग्रेति । सूत्रे । तदिति । मतं दूषयितुम् । अस्या इति ।
काम्यकर्मप्रतिपादिकायाः 'तस्य पुत्रा' इति श्रुतेः । नित्यत्वकाम्यत्वाभ्यां भेदिते । तदधिगम इत्यादि-
भाष्यफलितार्थमाहुः । तदधिगमादीति । तदधिगमादिसूत्रं प्राप्य यः काम्यकर्मविषयः स न
भिद्यत इत्यर्थः । एताभ्य इति । भाष्यतत्प्रकाशभेदेन तदधिगमसूत्रोक्ताभ्यां द्वाभ्यां 'इतरस्ये'ति-
सूत्रोक्ता तृतीया एताभ्यः । विरोध इति । एताभिरेवैतस्य पुत्रा इति श्रुतेः सहावस्थानसम्भवेपि
पृथक् चिन्तने तया । येषामिति । पुण्यपापानां, अश्लेषो ब्रह्मविदि । अयमिति । तेभ्यः काम्य-
कर्मभ्यः पृथगयं तस्य पुत्रा इति श्रुत्युक्तः । तेषां पुण्यपापानाम् । प्रागेवेति । तदधिगमसूत्र एव,
'अत्रोत्तरस्योत्पन्नस्याश्लेष इति नार्थ' इत्यादिभाष्येण दूषितत्वात् । पापकृत्यायामिति भाष्यं प्रपञ्चयन्ति स्म ।
श्रुतौ पापेति । फलाभीति । कृतीच्छाविषयस्य बलवदनिष्टाननुबन्धीष्टसाधनताज्ञानस्य प्रवर्त-
2166
नाशनिरूपकश्रुत्या अस्याः श्रुतेर्विरोधपरिहारायावश्यं विषयभेदो वाच्यः ।
न च काम्यकर्मविषयेयं श्रुतिरिति वाच्यम् । 'तदधिगम उत्तरपूर्वाघयोरश्लेषवि-
नाशा'दितिसूत्रेण 'इतरस्याप्येव'मितिसूत्रावयवेन चाविशेषेणारब्धातिरिक्तकर्म-
णोरखिलयोर्नाशनिरूपणात् । पापकृत्यायां काम्यत्वासम्भवाच्च । तस्मात्त्वनु-
ग्रहभाजस्य भक्तस्य स्वप्राप्तिविलम्बमसहिष्णुर्भगवान् अस्य प्रारब्धमेतत्सम्व-
न्धिगतं कृत्वा तस्य तेन भोगं कारयति । प्रारब्धं भोगैकनाश्यमिति
स्वोक्तमर्यादापालनाय न नाशयति । न च तयोर्मूर्तत्वेनाकृताभ्यागमप्रसङ्गेन च
नैवं वक्तुमुचितमिति वाच्यम् । ईश्वरत्वेनान्यथापि करणसम्भवात् । मर्यादा-
विपरीतस्वरूपत्वात् पुष्टिमार्गस्य न काचनात्रानुपपत्तिर्भावनीया । तस्या अत्र
भूषणत्वात् । अत एवैकेषामिति दुर्लभाधिकारः सूचितः ॥ १७ ॥
भाष्यप्रकाशः ।
विषयश्रुतिविरोधोपि दुष्परिहरः । अतस्तदभावायावश्यमधिकारिभेदः प्रारब्धात्मककर्मविनियोग-
श्चात्राभ्युपेयः । उभयपदे आचार्यद्वयग्रहणमप्यसङ्गतम् । सन्निधौ जैमिनेरश्रुतत्वात् । सामान्य-
शब्दस्य चोपस्थितार्थकृत्वनियमेन बाधकं विना तच्चागायोगात् । अत उक्तरीत्यैव मन्तव्यमित्यर्थः ।
तदेतच्चतुर्थस्कन्धीये तत्त्वदीपप्रकाशे सम्यग् व्युत्पादितमिति प्रभुचरणैर्नात्रोक्तम् । सिद्ध-
माहुः तस्मादित्यादि । पुनः किञ्चिदाशङ्क्य परिहरन्ति न च तयोरित्यादि । तथा चेदं तवापि
तुल्यमतः परिहारसाम्यान्न पर्यनुयोग उचित इत्यर्थः ॥ १७ ॥
रश्मिः ।
कत्वात् । बलवत् यदनिष्टं तस्याननुबन्ध्यजनकं यदिष्टसाधनताज्ञानं तस्येत्यर्थः । विषयश्रुतिस्तस्य
पुत्रा इति । तस्या निरोधः काम्यकर्मविषये सूत्रविषयश्रुतिस्वरूपयो नाशः । विषयश्रुतिविरोध
इति पाठो वा । विषयश्रुतिसहानवस्थानं तस्य पुत्रा इत्यस्या इत्यर्थः । तथा च तदधिगम इत्यत्र
सहावस्थानमित्यर्थः । तदभावायेति । तदधिगमाधिकरणे विषयत्वेन प्रवेशाभावाय । अधिकारीति ।
पुष्ट्यधिकारिभेदः । अप्रारब्धेति । सञ्चितक्रियमाणकर्मविनियोगः पुष्टिमार्गीयोक्तः । सामान्येति ।
एकेषामिति शाखिपरत्वेन सामान्यशब्दस्य चोपस्थितार्थो विशेषार्थः पुष्टिमार्गीयाणामिति,
तदर्थकत्वनियमेन । तच्चागेति । पुष्टिमार्गीयाणामित्यर्थत्यागस्य योगाभावात् सामान्यतो विशेषो
बलीयानिति । मन्तव्यमिति । मननं कर्तव्यम् । तदेतदिति । तदधिगम इत्यादिभाष्येणोक्तम् ।
तस्मादित्यादीति । एतत्सम्वन्धीति । यथा पूर्णभगवदीयानां शेषव्यासाभिमतानामाचार्याणां
तत्सम्बन्धिगतकरणम् । तस्य प्रारब्धस्य । तेन सम्बन्धिनो भोगं कारयति । यतः सम्बन्धिनो विरक्ता-
नामग्रेसराः । तत्कार्याणि कुर्वन्तीति णिच् । प्रारब्धमिति । मर्यादास्वरूपं पुष्टिमगतम् । न च
तयोरित्यादीति । तयोः पुण्यपापयोः । अकृतेति । सुहृद्विषत्सु अकृतस्य कर्मणोभ्यागमस्तस्य
प्रसङ्गेन, कृतनाशाभावात् कृतनाशो नोक्तः । नैवं वक्तुमिति । पुष्टिमार्गीयस्य साधुपापयोः सुहृदा-
दिषु प्रापणं वक्तुं नोचितम् । अन्यथापीति । अमूर्तयोः प्रापणमकृताभ्यागमप्रसङ्गनाशनं च ।
अत्रेति । पुष्टिमार्ग इत्यर्थः । तस्या इति । मर्यादामार्गीयानुपपत्तेः । दुर्लभेति । 'मुक्तानामपि
सर्वेषां नारायणपरायणः । सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने' इति वाक्यात् तथा । सूचित
इति । वाच्यार्थस्तु पुष्टिमार्गीया इत्युक्तम् । तवापीति । तयोर्मूर्तत्वेनेत्याद्याशङ्कितुरपि । परि-
१. विषयश्रुतिनिरोध इति रश्मिपाठः । २. अप्रारब्धेति रश्मिपाठः ।
७ ब्र० सू० १० 2167
५० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० १ अ० ७ सू० १८.
यदेव विद्ययेति हि ॥ १८ ॥
ननु 'यदेव विद्यया करोती'ति श्रुत्या विद्यापूर्वकं कर्मकरणे वीर्यातिशयः
फलं श्रूयते । अतो ब्रह्मविद्यावतोपि तथात्वस्योचितत्वा 'दुत्तरस्याश्लेष' इति
यदुक्तम्, तन्नोपपद्यत इति प्राप्ते, आह यदेवेति । हि यस्माद्धेतोस्त्वया 'यदेव
विद्यया करोति श्रद्धयोपनिषदे'ति श्रुतिरेव ब्रह्मविदोपि कर्मोत्पत्तिप्रसञ्जिकात्वे-
नोदाहृता । सा तु न तत्समर्था । तथाहि । 'ॐमित्येतदक्षरमुद्गीथमुपासीते'त्यु-
पक्रम्य तस्य रसतमत्वं मिथुनरूपत्वमनुज्ञाक्षरत्वं त्रयीप्रवृत्तिहेतुत्वं च निरूप्य,
एतदग्रे 'यदेव विद्यये'त्याद्युक्त्वा, 'इति खल्वेतस्यैवाक्षरस्योपव्याख्यानं भवती'-
त्युपसंहारादुद्गीथोपासनाविषयमेव 'यदेव विद्यये'ति वाक्यमिति ज्ञायते ।
तेनोक्तरसतमत्वादिप्रकारकोपासनानां मध्ये यदेव विद्यया करोति, तदेव
वीर्यवत्तरं भवतीति तदर्थ इति न ब्रह्मविद्यागन्धोऽपीति न सा शङ्कात्र
सम्भवतीत्यर्थः ।
भाष्यप्रकाशः।
यदेव विद्ययेति हि ॥ १८ ॥ सूत्रमवतारयन्ति नन्वित्यादि । तथात्वस्येति । कर्मणो
वीर्यवत्त्वस्य । तथा च यदि ब्रह्मविद्यावतः कर्मसंसर्गो न स्यात्, तदेयं श्रुतिर्विद्यया वीर्यवत्त्वं
कर्मणो न श्रावयेत् । अतस्तदन्यथानुपपत्त्याऽश्लेषादिवाक्यानां विद्यास्तावकत्वमेवाङ्गीकार्यमिति
पूर्वोक्तं नोपपद्यत इत्यर्थः । परिहारं वक्तुं सूत्रं व्याकुर्वन्ति हीत्यादि । तेनेति । वाक्यस्य प्रकरणो-
परुद्धत्वेन । तस्या चानुपपत्त्यभावाञ्चैतेषां स्तावकत्वं शक्यवचनमतः पूर्वोक्तं साध्वेवेत्यर्थः ।
अस्मिन् पक्षे सूत्रयोजना तु, यदेव विद्ययेति वाक्यं हि यतो हेतोः इति प्रकरणावरुद्धम्,
तथा च न ब्रह्मविद्यावतः कर्मप्रसञ्जकेत्यर्थः ।
रश्मिः।
हारेति । इदं परिहारसाम्यं प्रहिलतया पुष्टिमार्गानङ्गीकर्तारं प्रत्युक्तं बोध्यम् । स्वमार्गे पुष्टिमार्गाङ्गी-
कारेण परिहारस्य कृतत्वात् । पर्यनुयोग इति । नैवं वक्तुं युक्तमित्यनेनोक्तः पुष्टिमार्गीयस्य साधु-
पापयोः सुहृदादिषु प्रापणं वक्तुं नोचितमित्येवंरूपो नोचित इत्यर्थः । 'यत्रोभयोः समो दोषः परिहारश्च
तत्समः, नैकः पर्यनुयोक्तव्यस्तादृगर्थविचारण' इति वाक्यात् ॥ १७ ॥
यदेव विद्ययेति हि ॥ १८ ॥ तदन्यथेति । अन्यथानुपपत्तिः पूर्वसूत्र उक्ता । अत्रार्था-
न्तरस्य यदेवेतिवाक्यस्य प्रकरणावरुद्धत्वस्य कल्पना तथा समाधेयत्वेनोच्यमानप्रमाणसिद्धयोर्द्वयोर्ब्रह्म-
विद्यावत्कर्मसंसर्गाभावविद्याकर्मवीर्यवत्त्वयोरर्थयोः परस्परप्रतिघातोत्थानुपपत्तिः । पूर्वोक्तमिति ।
अश्लेषादिवाक्योक्तं ब्रह्मविद्यावतः कर्मसंसर्गप्रसञ्जनम् । नोपपद्यत इति । परस्परप्रतिघातरूपान्य-
थानुपपत्तिरुक्ता । अग्रे भाष्ये । इति प्राप्ते नामान्यथानुपपत्तिप्राप्ते । आह अर्थापत्तिरूपं
सूत्रमाहेत्यर्थः । अर्थापत्तिस्तूक्तपरस्परप्रतिघातसमाधानायार्थान्तरस्य यदेवेति वाक्यस्य प्रकरणावरुद्ध-
त्वस्य कल्पना । हीत्यादीति । स्वयेति । कर्मवादिना । तत्समर्थेति । ब्रह्मविदः कर्मोत्पत्ति-
प्रसञ्जनसमर्था । विषयश्रुतेश्छान्दोग्यप्रथमप्रपाठकोपसंहारस्थत्वेन प्रकरणद्योतनार्थं प्रपाठकार्थं स्मार-
यन्ति स्म तथाहीत्यादिना । तदर्थ इति । विषयश्रुत्यर्थः । इत्यक्षरविद्यायाः कर्माङ्गत्वप्रतिपादक-
विषयवाक्ये न ब्रह्मविद्यागन्धोपीति, सा, अनया श्रुत्या ब्रह्मविद्यावतोपि कर्मणो वीर्यवत्त्वस्योचितत्व-
2168
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ५१
यद्वा । उक्ताशङ्कानिरासायैवाह यदेवेति । ब्रह्मविद्धि प्रारब्धक्षयायैव
कर्म कुरुते, तत्त्वन्यकृतात् कर्मणः सकाशात् सवासनतन्नाशनाद् वीर्यवत्तरं
भवत्येवेति नानुपपत्तिः काचिदित्यर्थः ।
यद्वा । ननु पुष्टिमार्गीयस्य प्रारब्धस्यापि भोगं विनैव नाश इति श्रुत्वा-
ऽसम्भावनां कुर्वाणं प्रति कैमुतिकन्यायेन तत्परिहारमाह यदेवेत्यादि । जीव-
निष्ठा विद्या हि भगवज्ज्ञानशक्तेरंशभूता । एवं सति यत्र धर्मसम्बन्धिसम्बन्धा-
दन्येभ्योऽतिशयं कर्मणि वदति श्रुतिः, तत्र साक्षाद्धर्मिसम्बन्धेऽतिशयित-
कार्यसम्पत्तौ कथमसम्भावना कर्तुमुचितेति निगूढाशयः । अत एव हेतुवाची
हिशब्दः ॥ १८ ॥
भोगेन त्वितरे क्षपयित्वाथ सम्पद्यते ॥ १९ ॥
पुष्टिमार्गीयफलप्राप्तौ प्रतिबन्धाभावं सोपपत्तिकमुक्त्वा तत्प्राप्तिप्रकारमाह ।
भाष्यप्रकाशः।
श्रद्धोपनिषदोः साधारणत्वात् तत्समभिव्याहृताया विद्याया अपि साधारण्यमेवोचितम्,
न तु सङ्कोचनमिति कश्चिच्छङ्केत, तदर्थं प्रकारान्तरेणार्थमाहुः । यद्वा । उक्ताशङ्केत्यादि ।
सवासनतन्नाशनादिति । सवासनप्रारब्धनाशनात् । तथा च सङ्कोचाभावेपि पूर्वोक्तार्थसिद्धि-
रप्रत्यूहेति न तेषां स्तावकत्वमित्यर्थः । एतेन जन्मादिसूत्रभाष्ये व्युत्पादितं पूर्वोत्तरकाण्डयोः
परस्पराङ्गत्वमपि समर्थितं ज्ञेयम् ।
पूर्वोक्तमर्थं सगृह्णन्त एतत्सूत्रस्य तात्पर्यान्तरमाहुः । यद्वा नन्वित्यादि ॥ १८ ॥
भोगेन त्वितरे क्षपयित्वाथ सम्पद्यते ॥ १९ ॥ भाष्यमत्रातिरोहितार्थम् । अत्र
रश्मिः।
रूपा शङ्केत्यर्थः । एतेषामिति । अश्लेषादिवाक्यानाम् । पूर्वोक्तमिति । पूर्ववत् । श्रद्धेति ।
'यदेव विद्यया करोति श्रद्धयोपनिषदा वे'ति श्रुतावुक्तयोः । साधारणत्वादिति । सकलविद्या-
साधारणत्वात् । तत्समभिव्येति । श्रद्धोपनिषत्समभिव्याहृतायाः 'यदेव विद्यये'त्युक्ताया विद्याया
अप्युद्गीथानुद्गीथसाधारण्यमेवेत्यर्थः । सङ्कोचनमिति । उद्गीथविद्यामात्रपरत्वेन सङ्कोचनम् ।
तेषामिति । अश्लेषादिवाक्यानाम् । जन्मादीति । जन्मपदादिसूत्रं जिज्ञासासूत्रम् । तस्य
भाष्ये इत्यर्थः कर्तव्यः । व्युत्पादितं जिज्ञासासूत्रभाष्य इति । भाष्ये । नानुपपत्तिरिति ।
अनुपपत्तिर्ब्रह्मविदः कर्मणो वीर्यवत्तरत्वस्य । प्रकृते । तात्पर्यान्तरमिति । पूर्वार्थोभिधेयो द्विती-
यार्थस्तात्पर्य्यरूपः, वक्ष्यमाणस्तुतयोर्यस्तात्पर्य्यन्तररूपस्तमाहुरित्यर्थः । यद्वा नन्वित्यादीति ।
तत्परीति । असम्भावनापरिहारम् । अंशभूतेति । अस्तिभातिप्रियत्वेन समन्वयाधिकरणे
समन्वयोक्तेस्तथा । कैमुतिकन्यायं विवृण्वन्ति स्म । यत्र धर्मेति । धर्मो ज्ञानं तस्य सम्बन्धोऽस्या-
स्तीति धर्मसम्बन्धिन आचार्यास्तत्सम्बन्धादित्यर्थः । निगूढेति । संवृततात्पर्यसम्बन्ध्यन्तःकरणम् ।
अत एवेति । उक्ताशङ्कानां सत्त्वादेव, तन्निरासक'यदेव विद्ययेती'तिहेतुप्रतिपादकं सूत्रम् ॥ १८ ॥
भोगेन त्वितरे क्षपयित्वाथ सम्पद्यते ॥ १९ ॥ अतिरोहितार्थमिति ।
2169
Anubhashya on Brahma Sutra 4.1.19 with the Bhashyaprakasha and Rashmi commentaries.
इतरे अग्रे प्राप्यालोकिकदेहाग्रिमे स्थूललिङ्गशरीरे क्षपयित्वा दूरीकृत्य, अथ
भगवल्लीलोपयोगिदेहप्राप्त्यनन्तरं भोगेन सम्पद्यते । 'सोऽश्नुते सर्वान् कामान्
सह ब्रह्मणा विपश्चिते'ति श्रुत्युक्तेन भोगेन सम्पद्यत इत्यर्थः । श्रुत्यर्थस्त्वानन्द-
मयाधिकरणे निरूपितः । अलौकिकत्वं विनोक्तदेहं विना चोक्तफलप्राप्तेर्व्यवच्छेदक-
स्तुशब्दः ॥ १९ ॥
इति सप्तममतोऽन्याधिकरणम् ॥ ७ ॥
इति श्रीवेदव्यासमतवर्तिश्रीवल्लभाचार्यविरचिते श्रीमद्ब्रह्मसूत्राणुभाष्ये
चतुर्थाध्यायस्य प्रथमः पादः ॥ ४ ॥ १ ॥
भाष्यप्रकाशः ।
क्षपणं च कुरुक्षेत्रप्रसङ्गे व्रजभक्तानां जीवकोशध्वंसरूपम् । भोगश्च तदनन्तरदर्शनादिरूपो जीवद्द-
शायामेव भवतीत्यवान्तरफल
भाष्यप्रकाशः ।
इति सप्तममतोऽन्याधिकरणम् ॥ ७ ॥
इति श्रीमद्वल्लभाचार्यचरणनखचन्द्रनिरस्तहृदयध्वान्तस्य श्रीपीताम्बरात्मजस्य
पुरुषोत्तमस्य कृतौ भाष्यप्रकाशे चतुर्थाध्यायस्य प्रथमः पादः ॥ ४ ॥
समाप्तः प्रथमः पादः ॥ १ ॥
रश्मिः ।
तत्रातोऽन्यापीत्येकं सूत्रं विनियोगवाक्यं परेषां तद्विषये तत्रैव प्रकाशे किञ्चिदुक्तम् । 'यदेव विद्यये'-
त्यधिकरणे विद्यासाधनं नित्यं कर्म द्विविधम् । अङ्गावबोधोपास्तिसहितम्, तद्रहितं च । विद्यासा-
धनमङ्गावबोधोपास्तिसहितं तद्रहितं वेति संशये सोपासनस्य कर्मणः प्रशस्तत्वात् तदेव विद्यासाधनं न
तूपास्तिरहितमिति पूर्वपक्षे, सोपासननिरुपासनयोस्तारतम्येन विद्यासाधनत्वं 'यदेव विद्यये'ति श्रुतेः
सिद्धान्त इति व्याख्यानस्य । तथा 'भोगेने'त्यधिकरणे अधिकारिपुरुषाणां मुक्तिरस्ति न वेति
प्रस्तुत पृष्ठ पूर्णतः रिक्त (कोरा/blank) है। इसमें कोई पाठ (टेक्स्ट) विद्यमान नहीं है।
श्रीकृष्णाय नमः ।
श्रीगोपीजनवल्लभाय नमः ।
श्रीमदाचार्यचरणकमलेभ्यो नमः ।
श्रीमद्ब्रह्मसूत्राणुभाष्यम् ।
भाष्यप्रकाश-रश्मि-परिवृंहितम् ।
अथ चतुर्थोऽध्यायः ।
द्वितीयः पादः ।
वाङ्मनसि दर्शनाच्छब्दाच्च ॥ १ ॥ ( ४-२-१ ).
पूर्वपादे लौकिकशरीरे क्षपयित्वा अलौकिकं तत्प्राप्य फलेन सम्पद्यत
इति निरूपितम् ।
अथाग्रेऽवं चिन्त्यते भक्तस्य सूक्ष्मशरीरस्य क्षपणं नाम किं तत्स्वरूपनाश-
नम् , उत मणिसस्पर्शाद्ययसस्त्वामीकरत्वमिव तस्यैवालौकिकत्वसम्पादनं भगवदनु-
ग्रहादिति ।
भाष्यप्रकाशः ।
वाङ्मनसि दर्शनाच्छब्दाच्च ॥ १ ॥ अथ द्वितीयपादं व्याचिख्यासवः पदार्थानां
तत्सङ्गतेश्च पूर्वं कारिकाभिर्निरूपितत्वादहाधिकरणसङ्गतिं वक्त
५६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० २ अ० १ सू० १.
तत्रोत्तर एव पक्षः साधीयानिति भाति । तथा हि । यथा पूर्वं संसारिण
एव जीवस्य तदनुग्रहात् पूर्वावस्थापगमो मुक्त्यवस्था चोच्यते, तथात्रापि वक्तु-
मुचितत्वात् । 'न तस्मात् प्राणा उत्क्रामन्त्यत्रैव समवनीयन्त' इति श्रुतिस्तु
जीवस्य सायुज्यमुक्तिकाले तत्प्राणादीनामपि तथैवाह, अत एवाग्रे 'ब्रह्मैव
सन् ब्रह्माप्येती'त्युच्यते । पुष्टिमार्गीयस्योक्तमुक्त्यभावाज्ज्ञेयं तद्विषयिणीति
प्राप्ते प्रतिवदामः । ब्रह्मांशत्वेन जीवस्यानन्दात्मकत्वाञ्चिद्दोषस्वरूपत्वान्नित्यत्वाच्च
दोषाणां चागन्तुकत्वात्तदपगमे तस्य तथात्वमुचितम् । प्राणादयस्तु न तादृशा
इति तद्दृष्टान्तेनात्रापि तथात्वं न वक्तुं शक्यम् । 'देहेन्द्रियासुहीनानां वैकुण्ठ-
भाष्यप्रकाशः।
[L
पुरवासिना'मिति श्रीभागवतवाक्याच्च । न च लौकिकत्वविशिष्टदेहादिरत्र निषि-
ध्यत इति वाच्यम् । सामान्यनिषेधे बाधकाभावात् । नच तदनुभव एव बाधक
इति वाच्यम् । भगवत इव तदीयानामपि तेषां तथात्वे बाधकाभावात् । नन्वा-
गन्तुकत्वमेव बाधकमिति चेत् । मैवम् । यथा व्यापिवैकुण्ठस्याक्षरात्मकत्वेनाना-
गन्तुकत्वेन नैसर्गिकतद्गताखिलवस्तुरूपत्वेन सामीप्यादिमुक्तिं प्राप्नुवतां भक्तानां
देहेन्द्रियादिरूपमप्यनागन्तुकमेव वैकुण्ठप्राप्तिमात्रेण शुद्धजीवानां सम्पद्यते,
तदीयत्वेन तत् फलतीति यावत्, तथा पुरुषोत्तमलीलाया अपि पुरुषोत्तमात्मक-
त्वात्तत्राङ्गीकारमात्रेण प्राचीनाशेषप्रावाहिकधर्मनिवृत्तौ शुद्धजीवस्य पुरुषोत्तम-
लीलात्मकदेहादिरपि तदीयत्वेन सम्पद्यत इति नानुषपन्नं किञ्चिदित्यवहितोऽवैहि ।
अयमेवार्थो वाजसनेयिशाखायां 'अथाकामयमान' इत्युपक्रम्य, 'आत्मकाम
भाष्यप्रकाशः।
सीदित्यृषयो वा व तेऽग्रे असदासीत्तदाहुः के ते ऋषय इति प्राणा वा ऋषय' इति वाजिनां श्रुतौ
प्राणा असत्पदेनासाधुतया श्राविता इति पुष्टिसृष्टिस्थत्वाभावाच्च तादृशाः । धर्मान्तरैर्जीवतौल्येऽपि
स्वरूपतो न जीववन्निर्दुष्टा इति जीवदृष्टान्तेन प्राणादिरूपे सूक्ष्मशरीरे लौकिकत्वापगमेनालौकि-
कत्वं न वक्तुं शक्यम् । अयं च पक्षो, 'देहेन्द्रियासुहीनाना' मिति सप्तमस्कन्धवाक्येनोपष्टभ्यते ।
अतस्तस्यागपक्ष एव साधीयानित्यर्थः । उक्तवाक्य एव किञ्चिदाशङ्क्य परिहरन्ति न च लौकि-
केत्यादि । अत्रेति । एतद्वाक्ये । तदनुभव इति । देहाद्यनुभवः । तथात्व इति । ब्रह्मात्मक-
त्वे । पुनः किञ्चिदाशङ्क्य परिहरन्ति नन्वित्यादि । मैवमित्याद्यवेहीत्यन्तं च । अनागन्तु-
कमेवेति । यथा लौकिकेषु देहादिषु प्रकृतिर्मूलकारणतयाऽनुसीव्यति, एवं जीवेऽक्षरमन्वेति ।
'यथा प्रदीप्तात् पावकाद्विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपा' इति, 'यदक्षरे परमे प्रजा' इति च
श्रुतेः । तच्च सर्वत्र सर्वात्मकमिति जीवांशिनस्तस्य आकारो जीवरूपेऽंशे नैसर्गिक एवेत्यना-
गन्तुकम् । तदीयत्वेन तत्फलतीति । अग्रे 'ब्राह्मेण जैमिनि'रित्यत्राङ्गीकरिष्यमाणत्वादावरण-
भूतलीकिकापगमे भगवद्दत्तस्तदीयत्वेन फलतीत्यर्थः । दार्ष्टान्तिके तु बादरायणसूत्रोक्तः पुरुषो-
त्तमात्मकस्तदीयत्वेन सम्पद्यत इति ज्ञेयम् । एतं पक्षं श्रुत्योपष्टभ्नन्ति । अयमेवेत्यादि । श्रुतिं
रश्मिः।
विवरणं धर्मान्तरैरित्यादि । शरीरादिभिः । निर्दुष्टा इति । असत्पदेन श्रुतौ मृत्युत्वस्य नास्तिकत्व-
स्योक्त्या सर्वमारकत्ववेददूषकत्वदोषवन्त इति न निर्दुष्टाः । सूक्ष्मेति । प्राणर्षीणां सूक्ष्मशरीरे ।
तथात्वमित्यस्य व्याख्यानमलौकिकत्वमिति । देहेन्द्रियेति । भाष्यं विवृण्वन्तिस्म । अयं चेति ।
सूक्ष्मशरीरस्य क्षपणपक्षः । तत्यागेति । प्राणादीनां त्यागपक्षः । प्रकृतिरिति । पुराणमतमिदम् ।
मायाद्वारा सृष्टौ ब्रह्मकर्तृ माया समवायिकारणमिति । श्रुतेरिति । दृष्टान्तश्रुतेः । पूर्वश्रुत्येकवाक्य-
तया 'यदक्षर' इत्यत्रापि अक्षरे समवायिनीत्यर्थः । कपालयोर्घट इतिवत् । दार्ष्टान्तिकश्रुतिस्तु 'तथाक्षरा-
द्विविधाः सौम्य भावाः प्रजायन्त' इति मुण्डकस्था । यद्वा, महानारायणस्थं 'यदक्षर'इतिदार्ष्टान्तिकम् ।
तच्चेत्यक्षरम् । 'द्विरूपं तद्धि सर्वं स्या'दिति सिद्धान्तमुक्तावलीवाक्यम् । आकार इति । निराकारस्या-
कारः सर्वात्मभाववतां नित्यलीलाप्रविष्टानां च । छान्दोग्ये नारदसनत्कुमारसंवादे 'तस्य वा एतस्यैवं
पश्यत एवं मन्वानस्यैवं विजानतः आत्मतः प्राण आत्मतः आशात्मतः स्मर आत्मत आकाश आत्म-
४ ब्र० सू० २० 2175
आत्मकामो भवति, न तस्मात् प्राणा उत्क्रामन्त्यत्रैव समवनीयन्ते ब्रह्मैव सन्
ब्रह्माप्येती'त्यन्तेन वाक्येन निगद्यते । अत्र प्राणशब्देन प्राणाः सर्वेन्द्रियाणि
बोध्यन्ते । आत्मकामशब्दे भगवद्वाचकात्मपदग्रहणेन भक्तस्य स्नेहातिशय-
जनितप्रभुदिदृक्षार्त्यतिशयस्तादृशो येन मरणमेव सम्पद्येत, यदि प्रभुप्राकट्ये
क्षणमपि विलम्बः स्यात् । अतो भगवत्प्राकट्येनैवात्मस्थितिरिति ध्वन्यते ।
भक्तिमार्गे प्राकट्यस्यैव परमफलत्वेन तद्दर्शनेनात्मकामो भवति । ततः साक्षादा-
श्लेषादिकामनायां प्राचीनदेहप्राणादेस्तदयो ग्यत्वात्ते तत्रैव लीना भवन्ति ।
भाष्यप्रकाशः।
व्याकुर्वन्ति अत्र प्राणेत्यादि । ध्वन्यत इति । तात्पर्यवृत्त्या बोध्यते । तात्पर्यवृत्तिस्तु
मया प्रस्थानरत्नाकरे व्युत्पादिता ततो ज्ञेया । अत्रैव लीना भवन्तीति । अन्तःप्रकटे
पुरुषोत्तमस्वरूप एव लीना भवन्ति । ननु पुरुषोत्तमात्मकलीलोपयोगिदेहप्राप्त्या ब्रह्मभाव एव श्रुत्य-
रश्मिः।
तस्तेज आत्मत आप आत्मत आविर्भावतिरोभावा'वित्यादि । अत्र तस्येति पूर्वं सर्वात्मभावनिरूपणात्
सर्वात्मभाववत इत्यर्थात् । नलकुबरादेरिति, आदिर्गजेन्द्रः । 'सच्चिदानन्दता तत' इत्यानन्दस्य
साकारत्वात् । नलकुबरमणिग्रीवगजेन्द्रादिमुक्तीनामौडुलोमिमतसिद्धत्वादानन्दाकारस्य श्यामत्वाद्यदि
विभाव्येत तदा तु तदीयत्वेन तत्फलतीति प्रतीकসহিতग्रन्थो ज्ञेयः। तत्रत्योग्रे ब्राह्मेण जैमिनिरित्यत्राङ्गी-
करिष्यमाणत्वाच्चेति चकारं पूरयित्वा हेतुर्ग्राह्यः । उपष्टम्भन्तीति । क्र्यादिरयं प्रयुक्तः । स्वरवर्णा-
नुकमर्हैमधातुपाठे तु ष्टुभ् स्तम्भे, भ्वा. आ. सेट्, उदिदन्तमिति भ्वादिरयं तदनुसारेण शब्विक-
रणम् । अत्र प्राणेत्यादीति । भक्तस्येति । आत्मकामशब्दे काम इच्छा सा च 'अलमन्यविचारेण
प्रेमेच्छेति स्थितं मत'मिति विश्वनाथः प्रेमरसायनकारः ततश्चात्मस्नेह इत्यर्थो भवति, अत उक्तं
भक्तस्येति । मुख्यवाचकात्मशब्दग्रहणेन तत्र कामरूपप्रेम्णा गोपालतापिन्योक्तरीत्यानाविष्कुर्वन्
कामप्रेमविनियोगात् । स्नेहातिशयेत्यादिः परानुरक्तिर्भक्तिर्धर्मिनाहुः स्नेहातिशयेति । आर्तिश्शब्दा-
दार्तत्वं चतुर्विधविकारेष्वासां व्रजस्त्रीप्रभृतीनामुक्तम् । भ्रमरगीते स्फुटं यत्तदाहुः । येन मरणमि-
त्यादि । ननु वृत्तेर्द्वैविध्यमत आहुः भगवत्प्राकट्येनेति । इदं त्रिचत्वारिंशाध्याये 'आगमिष्यत्य-
दीर्घेण कालेने'तिश्लोकव्याख्याने 'नन्दं दृष्टुं समागत एव भगवा'निति सुबोधिन्योक्तम् । नन्दोद्धवसंवाद-
समये भगवतस्तिरोहितत्वेप्येवमुक्तेः । ननु वृत्तेर्द्वैविध्यमत आहुः तात्पर्यवृत्तिरिति । भाष्ये ।
प्राकट्यस्येति । निबन्धोक्तप्रणाल्या प्राकट्यं तस्य । 'भगवान्नेव हि फलं स ययाविर्भवेद्भुवी'ति
निरोधलक्षणग्रन्थात्परमफलत्वं तेन । आप्ताः कामा येनेत्याप्तकामः । काम्यन्त इति कामा अनन्त-
कल्याणगुणास्तन्नात्मदर्शनस्यापि सत्त्वात् । 'एकदा हि व्रजस्त्रियः सकामाः शर्वरीमुषित्वा सर्वेश्वरं गोपालं
कृष्णं हि ता ऊचिरे' इति गोपालतापिन्यारम्भः 'गान्धर्वी गच्छ त्वं खाल्वान्तिक'मित्युपसंहारस्ता-
भ्यामाप्तकामत्वं व्रजस्त्रीणाम् । 'आत्मा वा अरे द्रष्टव्यः श्रोतव्य' इति श्रुतेश्च । पूर्वपादान्ते सूत्रोक्तरीत्या
मननं प्रभुचरणैर्नात्रोक्तम् । चतुर्थस्कन्धीये तत्त्वदीपप्रकाशे सम्यग्व्युत्पादितत्वादित्युक्तमतः ऋषिरूपाणां
स्वेषां चानुरोधेन सायुज्यकामनामाहुः ततः साक्षादिति । भ्रमरगीते लौकिकभाषया श्रुतिरूपाणामपि
कामनिरूपणात् सायुज्यकामना बोध्या । सर्वदा तु भक्तौ तात्पर्याद्भक्ता एव व्रजस्त्रियः ।
१. अनेति प्रकाशे । ३. पुष्टिमार्गमर्यादाम्रम्भादिति स्यात् ।
बहिःप्रकटस्यैवान्तरपि प्राकट्यादुत्क्रमणाभाव उच्यते । आत्मातिरिक्तस्य गति-
मुक्त्वा तस्य तामाह 'ब्रह्मैव सन् ब्रह्माप्येती'त्यनेन । उक्तरीत्या पुरुषोत्तमात्मक-
तल्लीलोपयोगिदेहेन्द्रियादिसम्पत्त्या ब्रह्मैव सन्, न तु ब्रह्मातिरिक्तदेहाभिमानपि,
तादृशः सन्, ब्रह्म बृहत्त्वात् बृंहणवत्त्वात् पुरुषोत्तमस्वरूपं प्राप्तो भवतीत्यर्थः ।
अन्यथा जीवस्य ब्रह्मांशत्वेनानन्दांशाविर्भावेन च ब्रह्मत्वे प्राणादियोक्त्या
तदितरव्यवच्छेदे चानुक्तसिद्धे सति 'ब्रह्मैव स'न्निति न वदेत् । अत
एवैतदग्रे श्लोकोक्तिः 'अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुत' इति । मृतिधर्म-
वच्छरीरं हि मर्त्यम्, तद्वत्त्वेन जीवोपि तथोच्यते । तथाचायं पूर्वं तादृश एव,
अथ पुष्टिलीलाप्रवेशानन्तरममृत उक्तलक्षणशरीरवान् भवति, ततोत्र अस्मिन्नेव
शरीरेब्रह्म सम्यगश्नुते । भगवता क्रियमाणलीलारसमनुभवतीत्यर्थः ।
भाष्यप्रकाशः ।
मिप्रेत इत्यत्र किं गमकमित्यत आहुः अन्यथेत्यादि । तथाच 'ब्रह्मैव स'न्नित्यस्यान्यथावैयर्थ्या-
पत्तिरेव गमिकेत्यर्थः । उक्तोपष्टम्भाय गमकान्तरमाहुः अत एवेत्यादि । तथा चात्र 'ब्रह्मभूतः
प्रसन्नात्मे'त्युक्तरीतिको ब्रह्मभावो यदि 'ब्रह्मैव स'न्नित्यत्राभिप्रेतः स्यात्, तदास्मिन् श्लोके
'अथ मर्त्योऽमृतो भवती'त्येतावदेव वदेत्, न तु तुरीयं पादम् । अतो यथोक्त एव श्रुत्यर्थ
इत्यर्थः । एवमुपोद्घातेन पुष्टिमार्गीयस्य लौकिकदेहक्षपणं नाम प्राणादीनां ब्रह्मणि लय इति
सिद्धम् । तदेतत्पूर्वपादान्तसूत्रे एव विचारणीयम् । तथाप्येतत्सूत्रप्रणयनं प्रति तस्य हेतुत्वं न
स्फुटं भवेदिति तत्रानुक्त्वा अत्र विचारितमिति ज्ञेयम् । तदेतत् हृदि कृत्वाचार्यः प्रकृतं विचा-
रश्मिः ।
बहिरिति । सद्योमुक्त्यर्थं, आत्मस्थित्यर्थं वा बहिःप्रकटस्य । उत्क्रमणेति । छान्दोग्यीयाष्टमोप-
देशोक्तरीत्या प्राणेन्द्रियादीनां लयस्थानेन्तःप्रकटे लयादुत्क्रमणाभाव उच्यत इत्यर्थः । आत्माति-
रिक्तस्येति । सूक्ष्मदेहस्य । तस्येति । भक्तस्य । तां गतिं, ननु विरहं विना पूर्णभक्त्यभावाद्विरहे च ब्रह्मण-
मान्तरत्वेन बहिःप्राकट्याभावात् कथं पुरुषोत्तमप्राप्तिरत आहुः। ब्रह्म बृहत्त्वादिति। अत एव बृहत्त्वात्
बृंहणत्त्वाच्च ब्रह्मेति लक्षणमादृतं न स्वरूपलक्षणं नापि कार्यलक्षणमिति बोध्यम् । तदितरेति ।
ब्रह्मातिरिक्तयोगव्यवच्छेदे । तद्वत्त्वेनेति । मर्त्यशरीरवत्त्वेन । तथोच्यत इति । मर्त्यत्वेनोच्यते ।
तादृश इति । मर्त्यः । ब्रह्मसम्यगिति । सायुज्ये परमात्मन एव ब्रह्माशनम् । सन्दिग्धमुक्तौ तु
निर्णीतायां सम्यगन्तरात्मबाह्यात्मनोरपि ब्रह्माशनमिति सम्यगश्नुत इत्यर्थः । अश्नुत इत्यस्य न व्याप्नो-
तीत्यर्थ आनन्दमयाधिकरणे दूषणात्, नाप्यश्नातीत्यर्थः । द्वितीयलाभावात्
५० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ४ पा० २ अ० १ सू० १.
भगवान् बादरायण इमामेव श्रुतिं विषयीकृत्य तत्रोक्तप्राणानां लय
एकत्रैव, उत क्रमनियमोऽस्तीति संशये निर्णयमाह वाङ्मनसीति । तत्र हेतु-
र्दर्शनादिति ।
एतदुक्तं भवति । भक्तेः स्नेहात्मकत्वास्य प्रभुप्राकट्यरूपफलकत्वात्तदौत्कण्ठ्ये
तस्यावश्यकत्वात् ‘अयं मां पश्यत्वि’ति प्रभ्विच्छया तस्मिन् सम्पन्ने, चक्षुर्भ्यां
मनसा च तद्रूपामृतमनुभवतः स कोप्युत्कटो भावः समजनि, येन प्रभुणा सह
भाष्यप्रकाशः।
श्यतीत्याशयेन सूत्रमवतारयन्ति भगवानित्यादि । निर्णयमाहेति । उक्तश्रुतौ सामान्यतो
लयश्रावणाल्लयो युगपदेव युक्त इति पूर्वपक्षनिरासाय निर्णयमाहेत्यर्थः । सूत्रं व्याकुर्वन्तः
क्रमनियमे दर्शनस्य कथं हेतुत्वमित्यतो व्युत्पादयन्ति एतदित्यादि । तदौत्कण्ठ्य इति ।
भक्तसोत्कण्ठायाम् । तदौत्कण्ठ्य इति पाठे तु स्नेहौत्कण्ठ्य इत्यर्थो बोध्यः । तत्रैव सङ्गता
इति । मनसैव सर्वे प्राणाः समागताः । शेषं स्फुटम् ॥ १ ॥
रश्मिः।
न स्फुटं भवेदित्यपि बोध्यम् । प्रकृतमिति । म्रियमाणस्याग्रिमावस्थानम् । क्रमनियम इति । एतेन
तन्नेतिभाष्यस्योक्तस्स क्रम इत्यर्थो बोधितः । एतदित्यादीति । अकामयमानप्रकरणाद् ब्रह्मसम-
शनकथनाद्विषयवाक्ये एतद्वक्ष्यमाणमुक्तं भवति । न च प्रकरणानुरोधेपि ‘यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च
मानवः । आत्मनैव च सन्तुष्टस्तस्य कार्यं न विद्यते’ इतिवाक्योक्ताकामयमानस्य छान्दोग्यीयाष्टमोप-
देशोक्तब्रह्मसमनस्य सर्वसाधारणस्य सम्भवः ‘तद्यथा हि निर्व्वयिनी वल्मीके मृता प्रत्यस्ता
शयीतैव मेवेदं ५ शरीर ५ शेत’ इति श्रुतेरत एव ‘धारयन्त्यतिकृच्छ्रेण प्रायः प्राणान् कथञ्चने’ति
वाक्याविषयत्वमिति वाच्यम् । गौणमुख्ययोर्मुख्ये कार्यसम्प्रत्यय इति न्यायेन वक्ष्यमाणस्य
निरुक्तेः । एतेनैव सर्वसाधारणब्रह्मसमनसापि सिद्धेः । किञ्च ‘तमेवैकं जानथात्मानमन्या वाचो
विमुञ्चथ धर्मस्यैष सेतु’रिति श्रुत्यन्तरोक्को गुणः । अत उक्तमेतदुक्तं भवतीति । अत एव ‘गूढं
ब्रह्मणि वाङ्मय’ इति तृतीयस्कन्धवाक्यम् । वाङ्मये वेदे गूढम् । गुहू संवरणे । संवरणं भक्ति-
स्तद्विषय इत्यर्थः । स्वार्थे ष्यञमभिप्रेत्याहुः उत्कण्ठायामिति । भाष्ये । तस्येति । प्रभुप्राक-
ट्यस्य । न विषयसन्निधिमात्रेण पुरुषोत्तमप्रत्यक्षमलौकिकत्वव्याहतेरत आहुः अयं मामिति ।
तस्मिन्निति । दर्शने । चक्षुर्भ्यामिति प्रभ्विच्छयेत्यन्वेति तया विशेषाधानं, एवमग्रेपि । स विशेषः क
इति चेत् ? शृणु । सप्तान्नब्राह्मणे बृहदारण्यके आत्मने त्रीण्यकुरुतेति मनो वाचं प्राणं तान्यात्मने
कुरुतेति व्याख्यायात्र आह । ‘विज्ञातं विजिज्ञास्यमविज्ञातमेत एव यत् किञ्च विज्ञातं वाचस्तद्रूपं,
वाग्धि विज्ञाता वागेनं तद्भूत्वावती’त्युक्तम् । अत्रात्मने स्वस्मै । एत इति वाङ्मनःप्राणाः । एनमित्यादि ।
एनं वाग्विंदं भगवदिच्छया कृतवाग्विाशेषविदं तद्भूत्वा विज्ञातस्वरूपं भूत्वावतीति । अत्रार्था उक्ता
अस्माभिर्ग्रन्थान्तरेतस्ततोवेद्याः । एवमग्रेपि, यत् किञ्च विजिज्ञास्यम् । मनसस्तद्रूपं मनो हि विजि-
ज्ञास्यं मन एनं तद्भूत्वावति । यत् किञ्चाविज्ञातम् । प्राणस्य तद्रूपं प्राणो ह्यविज्ञातः प्राण एनं तद्भू-
त्वावतीत्यनयोरर्थो ज्ञेयः । अत उक्तं तद्रूपामृतमनुभवत इति । तद्रूपं चक्षुर्विषयं अमृतमानन्दरूपम् ।
‘आनन्दरूपममृतं यद्विभाती’ति श्रुतेः । ननु विरहे सर्वोपमर्दे कथमानन्दानुभव इति चेत् ? न । विरहे
ये भावा रसस्वभावादानन्दरूपास्तेषामनुभवे बाधकाभावात् । ‘भवतीनां वियोगो मे नहि सर्वात्मना
१. ‘स्फुटोचे संमक्ता’ इति हस्ताक्षरादर्शः, ‘स्फुटोचेस्तंमला’ इत्यन्यादर्शेषु; ‘स्फुटोपेतं मत्वा’ इति रश्मौ ।
2178
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ६१
सर्वेन्द्रियव्यापारकृतीच्छा समभूत् । तत्र तेषामसामर्थ्यात् भगवदानन्दसम्ब-
न्धिमनःसम्बन्धेन तं प्राप्स्याम इति तत्रैव सक्ताः तेनानन्देन सम्पन्ना जाताः ।
अयमेवार्थोऽनेन सूत्रेणाग्रिमेण च 'अत एव सर्वाण्यन्वि'ति सूत्रेण निरूप्यते ।
दर्शनानन्तरमादौ सह सम्भाषणेच्छैव जन्यत इति, 'वाङ्मनसि सम्पद्यत' इति
छान्दोग्ये स्फुतोक्ते संमत्या चादौ सैवोक्ता । एवं सति वाङ्मनसि सक्ता सती
भगवदानन्देन सम्पद्यत इति सूत्रार्थः सम्पद्यते । 'दर्शनाभावेपि वेणुवादिशब्दा-
दपि तथा सम्पद्यत इति हेत्वन्तरमाह शब्दाच्चेति ॥ १ ॥
अत एव सर्वाण्यनु ॥ २ ॥
अत एव दर्शनाच्छब्दाच्च हेतोः सर्वाणीन्द्रियाणि, अनु सान्निध्यात्
वाचः पश्चान् मनसि सक्तानि भगवदानन्देन सम्पद्यन्त इत्यर्थः ।
६२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० २ अ० १ सू० २.
केचित्त्वत्र छान्दोग्यस्थं 'वाङ्मनसि सम्पद्यते, मनः प्राणे, प्राणस्तेजसि,
तेजः परस्यां देवताया'मिति वाक्यं विषयत्वेन उक्त्वा, सूत्रे वाक्पदस्य तद्वृत्ति-
परत्वं वदन्ति, सम्पत्तिं तन्नाशं च ।
तन्न साधीयः । तथाहि । वाक्पदस्य वृत्तिपरत्वं चेच्छुत्यभिमतं स्यात्,
सूत्रकारस्तदा तथैव वदेत्, न तु तत्स्वरूपमेव वाक्यम् । तन्निर्णयार्थमेव प्रवृत्तेः ।
मुख्यार्थत्यागो लक्षणापत्तिश्च । किञ्च, एवं 'मनसी'ति पदवैयर्थ्यं स्यात्, विषय-
वाक्योक्तक्रमत्यागानुपपत्तिश्चेति ॥ २ ॥
भाष्यप्रकाशः ।
ननु या छान्दोग्यश्रुतिरत्र सम्मतित्वेन दर्शिता, सैवात्र सर्वाहृतत्वाद्विषयवाक्यत्वेना-
दरणीया, ततश्च कथं भवदुक्तस्यार्थस्याभिसंहितत्वमित्याकाङ्क्षायामन्यमते तेषां बोधयितुं मतान्तर-
मनुवदन्ति केचिदित्यादि । ते हि हिरण्यगर्भादिविद्यास्वपरासु च विद्यासु फलप्राप्तये देवयानं
पन्थानमवतारयिष्यन्तो यथाशास्त्रमुत्क्रान्तिक्रमकथनं विद्वदविदुषोरुत्क्रान्तौ प्रकारसाम्यं च
व्यासाभिमतमङ्गीकुर्वन्त उक्तरीत्या वदन्तीत्यर्थः । तन्न तथेति बोधनाय दूषयन्ति तन्नेत्यादि ।
ननु सत्यमस्तीदं दूषणत्रयम्, तथाप्यग्रे 'अविभागो वचना'दित्यनेन तत्त्वप्रलयस्य वक्ष्यमाण-
त्वादत्र वृत्तिप्रलय आद्रियत इति व्यासाशयस्य तैर्बोधनाददोष इत्यत आहुः किञ्चेत्यादि ।
यद्यपि तत्सूत्रमन्यार्थम्, तथापि खोक्तसमर्थनाय तथार्थादरेपि सम्पत्तिपदस्य वृत्त्युपसंहारार्थ-
[L18
यहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्ति-दर-पंक्ति लिप्यन्तरण दिया गया है:
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ६३
तन्मनः प्राण उत्तरात् ॥ ३ ॥
पूर्वोक्तसर्वेन्द्रियवैशिष्ट्यवन्मनः प्राणे सम्पद्यते, न तु केवलम् । तत्र हेतुः ।
उत्तरादिति । 'स यथा शकुनिः सूत्रेण प्रबद्धो दिशं दिशं पतित्वान्यत्रायतन-
मलब्ध्वा बन्धनमेवोपश्रयते, एवमेव खलु सौम्य तन्मनो दिशं दिशं पति-
त्वान्यत्रायतनमलब्ध्वा प्राणमेवोपश्रयत' इत्युक्त्वा, तत्र हेतुमुत्तरेण वाक्ये-
नाह 'प्राणबन्धनं हि सौम्य मन' इति । तस्माद्धेतोस्तथेत्यर्थः ॥ ३ ॥
सोऽध्यक्षे तदुपगमादिभ्यः ॥ ४ ॥
सर्वेन्द्रियविशिष्टमनोविशिष्टः प्राणोऽध्यक्षे पुरो हृदि वा प्रकटे भगवति
भाष्यप्रकाशः।
हु'रित्यादिरूपायां च श्रुतौ लक्षणापस्या श्रुतिपीडाया दुर्वारत्वापत्तेः । अत एतेषु सूत्रेषूत्क-
मिष्यद्व्यवस्थामात्रकथनयुक्तम्, किन्तु मुख्यतया सद्योमुच्यमानव्यवस्थायामिन्द्रियलयक्रमः,
प्रासङ्गिकस्तूत्क्रमिष्यद्वृत्तान्तः । 'ओकोऽग्रज्वलन' सूत्रादिभिस्तस्यापि वक्ष्यमाणत्वादिति ।
यदपि भामतीनिबन्धे, वाचस्तूपसंहारमदृष्टं नागमोपि गमयितुमर्हति । आगमप्रभव-
युक्तिविरोधात् । आगमो हि दृष्टानुसारतः प्रकृतौ विकाराणां लयमाहेत्युक्तम् ।
तदपि व्याख्याेयग्रन्थपूजामात्रम् । आगमस्य सर्वत्र दृष्टानुसारित्वादर्शनेन युक्तेः शिथिल-
त्वादिति । तस्मादेतस्य विषयवाक्यत्वमयुक्तमेवेति पूर्वोक्तमेव विषयवाक्यम्, तस्यैवार्थश्चा-
भिप्रैत इति ध्येयम् ॥ २ ॥
तन्मनः प्राण उत्तरात् ॥ ३ ॥ अत्र भाष्यमुत्तानार्थम् । श्रुतिस्तु छान्दोग्ये श्वेत-
केतूपाख्यानस्था ॥ ३ ॥
सोऽध्यक्षे तदुपगमादिभ्यः ॥ ४ ॥ अत्रापि भाष्यमुत्तानार्थम् ।
अत्रेदमर्थात् सम्पद्यते । अत्यनुग्रहभाजनस्य पुष्टिमार्गीयस्योक्तप्रकारेण वागादिप्राणान्तानां
रश्मिः।
न्यजनकभावरूपलक्षणापत्त्या । नाशार्थेति । निरन्वयध्वंसार्थताङ्गीकारे च । बृहदिति । 'न तस्मात्
प्राणा उत्क्रामन्त्यत्रैव समवनीयन्त' इत्यस्याम् । लक्ष्णेति । समवनयस्यैकीभावस्य च निरन्वय-
ध्वंसत्वाभावेन सान्वयध्वंसवाचकयोर्निरन्वयध्वंसे लक्षणा विपरीतलक्षणा, तस्या आपत्त्या । तस्या-
पीति । उत्क्रमिष्यद्वृत्तान्तस्यापि । उपसंहारमिति । मनस्तूपसंहारम् । आगमः पञ्चरात्रम् ।
इत्युक्तमिति । भामतीनिबन्ध इत्यनेनान्वेति ॥ २ ॥
तन्मनः प्राण उत्तरात् ॥ ३ ॥ उत्तानेति । पूर्वोक्तेति । मतुबन्तम् । तथेति ।
मनः प्राणे सम्पद्यते । एवमुत्तानार्थम् ॥ ३ ॥
सोध्यक्षे तदुपगमादिभ्यः ॥ ४ ॥ उत्तानेति । मुण्डकोपनिषदनुरोधेनाडुः । उपगम
इति । मर्यादामार्गसासन्दिग्धत्वाहाडुः । पुष्टीति । 'यमेवैष वृणुत' इति श्रुतेः । प्रवचनादिनिषेधा-
2181
सम्पद्यत इत्यर्थः । अत्र हेतुः । उपगमादिभ्य इति । उपगमोऽभ्युपगमः पुष्टि-
मार्गेऽङ्गीकार इति यावत् । ततस्तथेत्यर्थः । आदिपदाद् भगवद्वशीकरणसमर्थः
स्नेहः प्रध्वनिङ्गिताद्यर्थत्यागस्तदनुरूपं भजनं च । अभ्युपगमे सिद्धे स्नेहादयो-
ऽवश्यं भवन्त्येवेत्याशयेन, तदादित्वमुक्तम्, नोद्देशः कृतः । मर्यादामागें-
ऽङ्गीकृतानां तु मुक्तिपर्यवसायित्वेन मुमुक्षुत्वादुत्कटस्नेहासम्भवेन प्रभुप्राकट्या-
सम्भवात् स्वप्रकृतौ सङ्घातलये शुद्धजीवस्य भगवदनुग्रहेण श्रवणादिरूपया
तथाविधस्नेहरूपया च भक्त्या मुक्तिः सम्पद्यत इति बह्वेव तारतम्यमिति निगू-
भाष्यप्रकाशः ।
ष्ठये तदानीमेव पुरुषोत्तमात्मकदेहप्राप्त्या लीलात्मकभोगसम्पत्तिः । ततो न्यूनस्य तस्य तु
पुरुषोत्तमे लयः, ततः सम्पद्याविर्भावाधिकरणोक्तरीत्या भगवता तस्य स्वरूपाविष्कासने पुरुषो-
त्तमात्मकदेहसम्पत्त्या लीलानुभव इति बोध्यम् ।
अन्ये तु, अध्यक्षपदे करणाध्यक्षं जीवम्, उपगमादिपदे च ज्योतिर्ब्राह्मणे 'एवमेवेममा-
रश्मिः।
दस्याः पुष्टिमार्गीयत्वम् । तथेति । प्राणो भगवति सम्पद्यते । भगवद्वशीति । 'नायमात्मा बल-
हीनेन लभ्यः' इति श्रुतेः । बलं भक्तिरिति भाष्यम् । भक्तौ बलपदप्रयोगेन तात्पर्यार्थः वशीकरण-
समर्थ इति विशेषणम् । प्रध्विति । 'इङ्गितं गतिचेष्टयो'रिति विश्वात्, भगवतः सेवायामकालत्यागः,
अर्थस्य त्यागो व्ययः । तनुवित्तजे उक्ते । 'न च प्रमादादि'ति श्रुतेः । उभयमप्यप्रमादरूपम् ।
तदनुरूपं भगवदनुरूपभजनं महाराजोपचारकरणरूपम् । 'एतैरुपायैर्यतते यस्तु विद्वांनि'तिश्रुतेः ।
नोद्देश इति । पुष्टिमार्गेङ्गीकारादीनामुद्देशो नाम्ना पदार्थसङ्कीर्तनम् । अत्र पुष्टिमार्गाङ्गीकारे बीजं वक्तुं
मर्यादायां स्पष्टत्वं मुक्तिपर्यवसायिनीत्वं न तु नित्यलीलाभावे पर्यवसायिनीत्वम् । स तु मर्यादास्थे-
नाल्यन्तानुग्रहवता लब्धपुष्टिना लभ्य इति तारतम्यमाहुः । मर्यादेति । मुक्तीति । 'मार्गास्त्रयो मया
प्रोक्ता' इति 'भजतां भगवान् मुकुन्दो मुक्तिं ददाति कर्हिचित्स्म न भक्तियोग'मिति मुक्तिपर्यवसा-
यित्वं भक्तेः । साधनचतुष्टयसम्पत्त्यन्तर्गतं मुमुक्षुत्वम् । तस्मात् । तथा च श्रुतिर्गोपालतापनीये
'मुमुक्षुर्वै शरणमनुव्रजे'दिति । तदुक्तं 'शुद्धाश्च सुखिनश्चैव ब्रह्मविद्याविशारदाः । भगवद्भजने योग्या नान्य
इत्यर्थतः फल'मिति सुबोधिन्याम् । उत्कटेति । मर्यादामार्गाङ्गीकारस्वभावात्, स्नेहासम्भवो नास्त्यत उत्क-
टेति विशेषणम् । स्नेहत्वेन सायुज्यत्वेन कार्यकारणभावात् प्रभुप्राकट्यासम्भवावरूपफलाभाव उक्तः।
न च भगवदाविर्भावाभावेन न सद्योमुक्तिः, किन्तु ज्ञानविलक्षणचरणमुक्तिस्तु स्यादिति वाच्यम् ।
सङ्घातस्य प्रतिबन्धकत्वात् । अतस्तल्लयं विदुष आहुः । स्वप्रकृताविति । स्वयोनौ । श्रुतिस्तु, अग्रिमा-
धिकरणेस्ति । शुद्धेति । शुद्धबुद्धमुक्तस्वभावनिराकारजीवस्य । 'मुक्तिर्हित्वान्यथारूपं स्वरूपेण व्यव-
स्थिति'रित्येकादशस्कन्धात् । ननु सङ्घातद्वयरहितस्य करणादिः कुत इत्यत आहुः । भगवदनुग्र-
हेणेति । तथा च भगवत्सन्निधानस्यावर्जनीयत्वान्मर्यादायां महापुरुषाङ्गीकाराच्च 'सर्वैन्द्रियगुणाभासं
सर्वैन्द्रियविवर्जित'मिति गीतायां ब्रह्मलक्षणनिविष्टवाक्याद् भगवदनुग्रहेण सर्वेन्द्रियासफलनात् । अत
आहुः । श्रवणादिरूपयेति । नापि पुष्टिमार्गीयप्रमेयबलेन सर्वेन्द्रियगुणाभासत्वम् । भाष्ये भगव-
दनुग्रहेणेत्यत्रालन्तानुग्रहपदाभावात् । अत्यन्तानुग्रहत्वेन पुष्टित्वेन कार्यकारणभावात् । 'आश्चर्यो
वक्ता कुशलोस्य लब्धे'ति काठकादाश्चर्यं च । तदुक्तं 'आश्चर्यवत्पश्यति कश्चिदेनमाश्चर्यवद्वदति तथैव
चान्य'इति गीतायाम् । तथाविधेति । श्रवणादिजन्यस्नेहरूपया । भक्त्येति । मर्यादामक्त्या ।
2182