अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ११५ अन्तवत्त्वमसर्वज्ञता वा ॥ ४१ ॥ ईश्वरः प्रकृतिजीवनियमनार्थमङ्गीकृतः । तच्च तयोः परिच्छेदे संभवति । ततश्च लोकन्यायेन जीवप्रकृत्योरन्तवत्त्वं भवेत् । ततश्चानित्यतायां मोक्षशास्त्र- वैफल्यम् । एतद्दोषपरिहाराय विभुत्वनित्यत्वेऽङ्गीक्रियमाणे संबन्धाभावादसर्व- ज्ञता वा स्यात् । तस्मादसङ्गतस्तार्किकवादः ॥ ४१ ॥ इति द्वितीयाध्याये द्वितीयपादे सप्तमं पत्युरसामञ्जस्यादित्यधिकरणम् ॥ ७ ॥ भाष्यप्रकाशः। अन्तवत्त्वमसर्वज्ञता वा ॥ ४१ ॥ दूषणान्तरादपि तार्किकप्रतिपन्न ईश्वरो न युक्त इत्याशयं स्फुटीकुर्वन्ति ईश्वर इत्यादि । अयमर्थः । न हि तैरिश्वरः श्रुतिभङ्ग्याङ्गीकृतः, किंतु जीवानामनन्तत्वाच्चेतनतया स्वतन्त्रत्वाद्भानास्वभावत्वाच्च जगन्निर्माणं तैरै न भवति तेषां भोगनियमश्च न संभवति । प्रकृतेरुपादानत्वेपि चेतनानधिष्ठिताया अकिंचित्करत्वान्न तथापि केवलया जगन्निर्मितिः । यन्मते न प्रकृतिस्तन्मते परमाण्वादय इति जडचेतनयोः प्रकृतिजीवयोर्नियमनार्थमङ्गीकृतः । तच्च नियमनं तयोर्जडचेतनयोः परिच्छेदे इयत्तायां संभवति । न हीयत्ताशून्याः सर्वे नियन्तुं शक्यन्ते, नापि व्यापकाः । अतो नियमनसिद्धयर्थं तेषामियत्ताङ्गीकार्या । ततश्च यदियत्तापरिच्छिन्नं तदन्तवत् यथा घटपटादिकमिति लोक- न्यायेन जीवप्रकृत्योरन्तवत्त्वं भवेत् । ततश्च जीवानित्यतायां लल्लक्षणस्य मोक्षशास्त्रस्य यदङ्गीक्रियते, तद्वैफल्यम् । यदि चैतस्स शास्त्रवैफल्यदोषस्य परिहाराय विभुत्वनित्यत्वम- ङ्गीक्रियते जीवानां, तदा तस्मिन्नङ्गीक्रियमाणे तेष्वियत्तावच्छेदकदेशसंख्ययोः संबन्धाभावा- दीश्वरस्यासर्वज्ञता स्यात् । यदपरिमितं तत् सर्वमज्ञेयमाकाशादिवदिति नियमात् । रश्मिः। अन्तवत्त्वमसर्वज्ञता वा ॥४१॥ दूषणान्तरादिति अन्तवत्त्वरूपात्, असर्वज्ञतारूपाच्च । योगमते ईश्वरनियामकत्वमाहुः प्रकृतेरिति । अकिंचिदिति । 'अचेतनत्वेपि क्षीरवच्चेष्टितं प्रधानस्य' इति कापिलसांख्यप्रवचनसूत्रवृत्तेः । एतेन चिदुपरागोपि प्रत्यूक्तः । न तयेति सेश्वरसारूय्मते अन्यथे- श्वरवैयर्थ्यप्रसङ्गात् । यन्मत इति नैयायिकमते । नियमनेति परमाणुक्रियोत्पादकेच्छाद्वारा नियमनार्थम्। पूर्वं भाष्यं विवृत्य तच्चेति भाष्यं विवृण्वन्ति स्म तच्चेति । नापीति । नियन्तुं शक्यन्त इत्यन्वयः । ततश्चेति । एतदिति भाष्यं विवृण्वन्ति स्म यदि चेति । विभुस्त्वेति । समाहारद्वन्द्वः । तेष्वित्यादि तेषु व्यापकेषु जीवेषु इयत्ता परिच्छिन्नपरिमाणं तदवच्छेदकयोरन्यूना- धिकदेशवर्तिनोर्द्देशसंख्ययोः । अयमर्थः । देश (ह) विशेषे स्थितो महत्त्वाणुत्वासमानाधिकरणसंख्याव- च्छिन्नो घटादिर्विषयो न तु जीवा इति । जीवस्त्वितरथाङ्गीकृत इति तादृशदेशसंख्ययोरसंबन्धादित्यर्थः । असर्वज्ञतेति । सर्वज्ञत्वं च विषयज्ञानाभावत्वं विषयज्ञानं विषयेन्द्रियसंबन्धमन्तरा न भवति । ब्रह्मजीवयोस्तु विभुत्वात्संयोगः । संयोगस्य जन्यत्वात् । नापि समवायः । अयुतसिद्धत्वाभावात् । विशेष्यविशेषणभावस्त्वभावप्रत्यक्ष एव । एवं च षड्विधलौकिकसन्निकर्षाभावादसर्वज्ञता । लौकिक- सन्निकर्षाभावेप्यलौकिकसन्निकर्षमाशङ्क्य व्याप्तिमाहुः यदिति । अपरिमितं अपरिच्छिन्नम् । अत्रैवं भावः । सामान्यलक्षणा ज्ञानलक्षणा योगजधर्मी चेति त्रिविधा प्रत्यासत्तिः । तत्र नान्त्यो 1287
५५६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० २ अ० ८ सू० ४२ उत्पत्त्यसंभवात् ॥ ४२ ॥ ( २-२-८ ) भागवतमते कंचिदंशं निराकरोति । ते च चतुर्व्यूहोत्पत्तिं वदन्ति । वासुदेवात् संकर्षणस्तस्मात् प्रद्युम्नस्तस्माद- निरुद्ध इति । तत्रैषामीश्वरत्वं सर्वेषामृत संकर्षणस्य जीवत्वम् । अन्यान्यत्वम् । उत्पत्तिपक्षे जीवस्योत्पत्तिर्न संभवति । तथा सति पूर्ववत् सर्वनाशः स्यात् ॥ ४२ ॥ भाष्यप्रकाशः । तस्मादेकदोषवारणे दोषान्तरसंभवादसंगतस्तार्किकाणां वाद इति । माध्वा रामानुजाश्चात्र केवलं माहेश्वरमतनिराकरणमेवाधिकरणप्रयोजनमाहुः । शैवास्तु पूर्वाचार्यव्याख्यां शिवस्य केवलनिमित्तत्वबोधकशिवागमैकदेशदूषणपरामुकत्वा केवलेश्वरनिमित्तत्ववादिहिरण्यगर्भोक्तयोगस्मृतिमात्रनिराकरणपरामित्याहु । तदसङ्गतम् । केषां- चिदाचाराणां शैवपुराणाविरुद्धत्वेपि पूर्वोपदर्शिताचाराणां विरुद्धत्वेनाप्रामाण्यादिति । मिश्रस्तु सांख्याद्युक्तेन विरोधितर्केणानुकूलतर्काभावेन श्रुतिप्रवृत्तेः प्राग्व्याप्तिग्रहाभावेन केवलानुमानैरीश्वरसाधनं निराकर्तुमिदमधिकरणमासमाप्त्येकमित्याह ॥ ४१ ॥ इति सप्तमं पत्युरसामञ्जस्यादित्यधिकरणम् ॥ ७ ॥ उत्पत्त्यसंभवात् ॥ ४२ ॥ अधिकरणप्रयोजनमाहुः भागवतेत्यादि । ननु श्रुत्यविरुद्धा स्मृतिः प्रमाणमिति स्थितिः । पञ्चरात्रे च परमात्मा वासुदेव एव जगत उपादानं निमित्तं चोच्यते । योगश्च तत्प्राप्त्युपाय उपदिश्यते । अभिगमनोपादानेज्यास्वाध्याययोगै- र्भगवन्तं वासुदेवमाराध्य क्षीणक्लेशस्तमेव प्रतिपद्यत इति । अयं च सर्वोपि प्रपञ्चः श्रुति- प्रसिद्ध एवेति कुतो निराकरणमित्याशङ्कायां तमंशं स्फुटीकुर्वन्ति ते चेत्यादि । चतुर्व्यूहो- रश्मिः । गुणत्रयातिरिक्तयोगस्येश्वरेऽनङ्गीकारात् । नाद्या । लक्षणं स्वरूपं तु इन्द्रियसंबद्धविशेष्यकज्ञाने प्रकारीभूतं गृहीतम् । तत्रेन्द्रियसंबद्धेत्यत्रेन्द्रियसंबन्धश्च लौकिको गृहीत इत्यप्रसक्तेः । या द्वितीया सुरभिचन्दनमित्यत्र सौरभस्य सामान्यलक्षणया ग्रहणात्सुरभित्वग्राहिका सा तु भवेत्परं व्याप्तिं प्रति- रुन्ध्यादिति । तस्मादिति भाष्यं विवृण्वन्ति स्म तस्मादिति । अन्तवत्त्वदोषवारणेऽपि विभुत्वनित्यत्वा- भ्यामसर्वज्ञता दोषान्तरसंभवात् । इतीति तर्काप्रतिष्ठानसूत्रात् समाप्तावितिः । केवलेति एतादृश- निराकरणपरां तामाहेतीत्यन्वयः । इतिः शैवोक्तिसमाप्तौ । पूर्वेति पूर्वाचार्योपदर्शितानामाचाराणाम् । सांख्येति रचनानुपपत्तिसूत्रानूदितेन । श्रुतीति 'यतो वा इमानि' इति श्रुतिप्रवृत्तेः प्रागित्यर्थः । व्याप्तीति यत्र यत्र कार्यत्वं तत्र तत्र कर्तृजन्यत्वमिति व्याप्तिस्तस्या ग्रहाभावेन । केवलेति क्षित्यङ्कुरादिकं कर्तृजन्यं कार्यत्वात् घटवदित्याद्यनुमानैरीश्वरसाधनं तन्निराकर्तुम् । आ- समाप्तीति समाप्तिमभिव्याप्येत्यासमाप्ति ॥ ४१ ॥ इति सप्तमं पत्युरसामञ्जस्यादित्यधिकरणम् ॥ ७ ॥ उत्पत्त्यसंभवात् ॥ ४२ ॥ स्थितिरिति पूर्वतन्त्रे मर्यादा । अभीति अभिगमनं ज्ञानं ज्ञानपादे । उपादानेज्या क्रियापादचर्यापादयोः । स्वाध्याययोगो योगपादे । तमिति 1288
त्पत्तिमिति चतुर्भ्यो व्यूहेभ्य उत्पत्तिम् । तथाचायमंशो निराकार्य इत्यर्थः । ननु 'एकोऽहं बहु स्याम्' इति, 'स एकधा भवति' इत्यादिश्रुतावेकस्यानेकव्यूहता 'तस्माद्वा एतस्मात्' इत्यादौ क्रमसृष्टिश्च श्रावितेवेति किमत्र विसंवादस्थानमित्यत आहुः तत्रेत्यादि । अन्यान्यत्वमिति अन्वयोः प्रद्युम्नानिरुद्धयोरन्यत्वं जडत्वम् । तथा च श्रुतौ यत्रानेकव्यूहतोक्ता, न तत्रोच्च- नीचत्वम् । यत्रोच्चनीचत्वं बोधितम्, तन्न नानेकव्यूहता । इह तु साम्यमुच्चनीचत्वं चोच्यते । अथवा यत्रानेकव्यूहता तत्र सा । अत्र तूभयमेकत्रेति विसंवादस्थानमित्यर्थः । ननु 'आसीनो दूरं व्रजति' इत्यादौ विरुद्धधर्माश्रयत्वस्य ब्रह्मणि सिद्धत्वाद्, 'अजायमानो बहुधा विजायते' इति श्रुत्यानेकव्यूहतायामप्युत्पत्तेः श्रावणाच्च नात्रापि श्रुतिविरोध इत्यत आहुः
११८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० २ अ० ८ सू० ४४ न च कर्तुः करणम् ॥ ४३ ॥ कर्तुः संकर्षणसंज्ञकाज्जीवात् प्रद्युम्नसंज्ञकं मन उत्पद्यते इति । तल्लोके न सिद्धम् । न हि कुलालाद्दण्ड उत्पद्यत इति । चकारादग्रिमस्य निराकरणम् ॥४३॥ विज्ञानादिभावे वा तदप्रतिषेधः ॥ ४४ ॥ अथ सर्वे परमेश्वरा विज्ञानादिमन्त इति तथा सति तदप्रतिषेधः । ईश्वराणामप्रतिषेधः । अनेकेश्वरत्वं च न युक्तमित्यर्थः । वस्तुतस्तु स्वातन्त्र्यमेव दोषः ॥ ४४ ॥ भाष्यप्रकाशः । एवं संशोधितो रुद्रो माधवेन मुरारिणा । चकार मोहशास्त्राणि केशवोऽपि शिवेरितः । कापालं लागुडं वामं भैरवं पूर्वपश्चिमम् । पाञ्चरात्रं पाशुपतं तथान्यानि सहस्रशः' इति । साम्बपुराणे च । 'पाञ्चरात्रं भागवतं तन्त्रं वैखानसाभिधम् । वेदभ्रष्टान् समुद्दिश्य कमलापतिरुक्तवान्' इति वाक्यात्तत्तोऽंशस्य बुद्धिपूर्वकमेव तत्र स्थापनात् । अतो न कश्चिद्दोषः ॥ ४२ ॥ न च कर्तुः करणम् ॥ ४३ ॥ अग्रिमस्येति अहंकारस्य । अत्रापि लोकश्रुत्योर्विरोध एव दोषः । स्फुटमन्यत् ॥ ४३ ॥ विज्ञानादिभावे वा तदप्रतिषेधः ॥ ४४ ॥ पक्षान्तरं प्रतिक्षिपतीत्याहुः अथे- त्यादि । विज्ञानादिमन्त इति विज्ञानैश्वर्यशक्तिबलवीर्यतेजःप्रभृतिपारमेश्वरधर्मान्विताः । अप्रतिषेधः अनियमनम् । शेषं स्फुटम् ॥ ४४ ॥ रश्मिः । 'पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम्' इति मोक्षधर्मे वाक्यात् । स्थापनादिति भगवता स्थापनात् । दोष इति अत्र नेत्युत्तरसूत्रादनुकृष्यते मण्डूकप्लुत्या वा पूर्वसूत्रादनुवर्तते । पञ्चरात्रोक्तजीवोत्पत्तिर्न उत्पत्त्यसंभवादिति सूत्रार्थः ॥ ४२ ॥ न च कर्तुः करणम् ॥ ४३ ॥ अहमिति अनिरुद्धरूपस्य मनोभेदत्वात् । लोकेति लोको भाष्योक्तनिमित्तानिमित्तोत्पत्त्यभावः 'एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च' इति श्रुतिः । तयोर्विरोधः । दोष इति । अतो निराकरणमिति भावः । स्फुटमिति भाष्ये मनः इति करणस्य व्याख्यानमित्येवं स्फुटमित्यर्थः ॥ ४३ ॥ विज्ञानादिभावे वा तदप्रतिषेधः ॥ ४४ ॥ पक्षान्तरमिति वासुदेवात्परब्रह्मणः संकर्षणो नाम जीव इत्याद्युक्तपक्षादन्यं पक्षम् । एषामीश्वरत्वं सर्वेषामित्युक्तम् । स चात्र सूत्रे वाशब्देन द्योत्यते । आदिशब्दार्थं वक्तुमाहुः विज्ञानेति । एते तत्र प्रसिद्धाः । शेषमिति । भाष्ये तथा सतीति एवंविधे विज्ञानादिभावे इत्यर्थः । न युक्तमिति 'एकमेवाद्वितीयं ब्रह्म' इति श्रुतेर्न युक्तमित्यर्थः । ननु युक्तं 'निरञ्जनः परमं साम्यमुपैति' इति श्रुतेः सार्ष्ट्यादिश्रुतेश्चेत्याहुः वस्तुतस्त्विति । सत्यं साम्यं न स्वातन्त्र्यं भगवन्नियम्या एवेत्युपपादितमैतरेये । अत्र तु स्वातन्त्र्यमिति दोष इत्यर्थः । एवकारेणेश्वरत्वं न दोष इत्युक्तम् । एवं शेषं स्फुटमित्यर्थः ॥ ४४ ॥ 1290
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ११9 विप्रतिषेधाच्च ॥ ४५ ॥ बहुकल्पनया वेदनिन्दया च विप्रतिषेधः । चकाराद् वेदप्रक्रियाविरोधः ४५ इति द्वितीयाध्याये द्वितीयपादे अष्टमं उत्पत्त्यसंभवादित्यधिकरणम् ॥ ८ ॥ इति श्रीवेदव्यासमतवर्तिश्रीवल्लभाचार्यविरचिते ब्रह्मसूत्राणुभाष्ये द्वितीयाध्यायस्य द्वितीयः पादः ॥ २ ॥ २ ॥ भाष्यप्रकाशः । विप्रतिषेधाच्च ॥ ४५ ॥ बहुकल्पनेत्यादि प्रद्युम्नरूपं मनोऽनिरुद्धोऽहंकार इति करणत्वमहंकारत्वं चाभिधाय सर्व एते वासुदेवा आत्मान एवेति परमेश्वरत्वादिकल्पनया, शाण्डिल्यश्चतुर्षु वेदेषु परं श्रेयोऽलब्ध्वा इदं शास्त्रमधीतवानित्यादिरूपया वेदनिन्दया च स्वोक्त- विरोधो वेदविरोधश्चेत्यर्थः । वेदप्रक्रियाविरोध इति तप्तचक्रादिधारणरूपसाधनप्रकारविरोधः॥८॥ एवं च मोक्षधर्मे नरनारायणीये 'सांख्यं योगः पञ्चरात्रं वेदाः पाशुपतं तथा । ज्ञानान्येतानि राजर्षे विद्धि नानामतानि वै ॥ सांख्यस्य वक्ता कपिलः परमर्षिः स उच्यते । हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः ॥ अपान्तरतमश्चैव वेदाचार्यः स उच्यते । प्राचीनगर्भं तमृषिं प्रवदन्तीह केचन ॥ उमापतिर्भूतपतिः श्रीकण्ठो ब्रह्मणः सुतः । ऊचिवानिदमव्यग्रो ज्ञानं पाशुपतं शिवम् ॥ पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम् । सर्वेष्वपि नृपश्रेष्ठ ज्ञानेष्वेतेषु दृश्यते ॥ यथागमं यथान्यायं निष्ठा नारायणः प्रभुः । न चैनमेवं जानन्ति तमोभूता विशांपते ॥ रश्मिः । विप्रतिषेधाच्च ॥ ४५ ॥ एत इति संकर्षणादयः । इत्यादीति आदिशब्देन पञ्चापि शास्त्राणि रात्रियन्तेऽत्रेति वेदनिन्दा । पञ्च शास्त्राणि तु वेदवेदान्तसांख्ययोगपशुपतिरूपाणि । विप्रति- षेध इत्यस्यार्थमाहुः स्वोक्तेति स्वोक्तस्य सर्व आत्मानः इत्यस्य विरोधे गौरवप्रसङ्गात् । वेदेति वेदेषु परं श्रेयोऽलब्ध्वेति वचनाद्वेदविरोधश्चेत्यर्थः । तप्तेति तच्च 'अतप्ततनूर्न तदामोऽश्नुते' 'गोविन्दु ईप्स आयुधानि बिभ्रत्' 'चरणं पवित्रम्' 'प्रतद्विष्णोः' 'अब्जचक्रे सुतसे' इति श्रुतिषु वर्तते । तत्राद्यास्तिस्रस्तु भगवल्लीलाबोधिकाः । चतुर्थी अप्रसिद्धापि पाद्मवाक्यादस्ति । न च 'शङ्खचक्रादिकं धार्यं मृदा पूजाङ्गमेव तत्' इति निबन्धविरोध इति शङ्क्यम् । तप्तचक्रादिधारणस्यापि पूजामात्राङ्गत्वेन पूजा- व्यक्ततापरिहारार्थत्वात्तस्य मृदा धारणेऽपि सिद्धे ब्राह्मणसाधारणमृदैव धारणात् । तप्तादिधारणे तु द्विजकर्मणि तन्नाशयितुमशक्यत्वेनानधिकारप्रसङ्गात् । एतच्च शङ्खचक्रादिधारणवादे एतैः स्फुट- मुक्तम् ॥ ८ ॥ इति श्रीति । अत्र पादस्तर्कपादः ब्रह्मसूत्रपुस्तके तथोल्लेखात् । भाष्ये-आकस्मिकैच्छिकमतनिराकरणवारणाय प्रमाणान्याहुः एवं चेति । वेदा इति वेदान्ता अपि वेदशब्देन संगृहीताः । तथा च षट् शास्त्राणि व्यवस्थापितानीति नाकस्मिकैच्छिकत्वमिति भावः । नानामतानि भगवत्क्रीडासाधनानि । अन्यानि प्रपञ्चरूपाणीति वा इत्युक्तम् । तेन नानामतानां विरोधनिरकरणं पञ्चसु शास्त्रेषु विचारितेषु भवतीति तानि गृहीतानि । शाक्तत्वाय कर्तृशुद्धिमाहुः सांख्यस्येति अपान्तरतमश्चावान्तरप्रलयाधारत्वमुत्पत्तिमत्त्वं च पुरातन इत्यर्थः । प्राचीनेति वेदगर्भम् । यथागममिति प्रकृत आगमा विषयवाक्यानि । न्यायाः सूत्राणि । निष्ठा 1291
१२० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० २ अ० ८ सू० ४५ भाष्यप्रकाशः। तमेव शास्त्रकर्तारः प्रवदन्ति मनीषिणः। निष्ठां नारायणमृषिं नान्येऽस्तीति वचो मम । निःसंशयेषु धर्मेषु नित्यं संवसते हरिः। ससंशये तु बलवान्बाध्यावसति माधवः ॥ पञ्चरात्रविदो ये तु यथाक्रमपरा नृप । एकान्तभावोपगतास्ते हरिं प्रविशन्ति वै ॥ सांख्यं च योगश्च सनातनं वै वेदाश्च सर्वे निखिलेन राजन् । सर्वैः समस्तैऋषिभिर्निरुक्तो नारायणो विश्वमिदं पुराणम्' ॥ इति सर्वेषां भगवत्परत्वं वदतां पञ्चरात्रविदां भगवत्प्राप्तिं च वदताम् । 'सांख्यं योगः पञ्चरात्रं वेदाः पाशुपतं तथा । आत्मप्रमाणान्येतानि न हन्तव्यानि हेतुभिः' इति च वदतामपि वाक्यानां न विरोधः । 'अक्षपादप्रणीते च काणादे सांख्ययोगयोः । त्याज्यः श्रुतिविरुद्धोंशः श्रुत्येकशरणैर्नृभिः । जैमिनीये चे'ति पराशरोपपुराणीयवाक्योक्तस्य श्रुतिविरुद्धांशस्य कौर्मादिवाक्योक्तस्य विमोहनांशस्य च दूषणमुखेनात्र स्फुटीकरणात् । बहुषु भाष्येष्वेवं व्याख्यानदर्शनेन प्राचीन- रश्मिः। पराकाष्ठा भक्तिर्वा । अभेदान्वयात्सर्वात्मभावः । भूमत्वान्नारायणसर्वात्मभावयोरिति भूमत्वेनाभेदात् । ऋषिमिति सप्तर्षिरूपम् । संसंशय इति । संशयान्हेतुबलानिति क्वचित्पाठः । एकान्तेति निश्चितां भक्तिमुपगताः । वेदाश्चेति पूर्ववेदेदान्तसंग्राहकाः । निखिलेनेति अङ्गेन । विश्वमिति सर्वम् । सर्वेषां शास्त्राणाम् । वेदा इति पूर्ववत् । वदतामिति प्रामाण्यं वदताम् । न विरोध इति आकस्मिकैच्छिकतानिवारकत्वात् । श्रुतिविरुद्धांशत्यागः उक्तः तत्र प्रमाणमाहुः अक्षपादेति तेन प्रच्छन्नबौद्धानां स्मृत्युक्तानां बाह्यानां च स्मारणात्तत्रापि श्रुतिविरुद्धोंशस्त्याज्यः सर्वं चेत्सर्वमि- त्युक्तम् । जैमिनीय इति । न चास्य 'जैमिनीये च वैयासे न विरोधोऽस्ति कश्चन' इत्युत्तरान्वयेतेति- वाच्यम् । निरीश्वरजैमिनीयस्य पूर्वान्वयितायाः । जैमिनीये विरुद्धांशो हि शब्दमयी देवता प्रातिपदि- कार्थस्तु यः कश्चिदिति साध्यार्थपरता वेदस्येति च । न च 'भावार्थाः कर्मशब्दा' इत्यत्र व्याख्यानतो विशेषप्रतिपत्तेः कुतो वेदविरोध इति शङ्क्यम् । व्याख्यानस्य निरीश्वरार्थत्वात् । श्रुतिविरुद्धेति इदमुपलक्षणं श्रुतिविरुद्धांशस्य । कौर्मादीति । इमानि वाक्यानि 'उत्पत्त्यसंभवात्' इति सूत्रसभायावुक्तानि । रामानुजाचार्यास्तु पञ्चरात्राप्रामाण्यमाशङ्कयात्र तन्निराक्रियत इत्याहुस्ते च प्राचीनवृत्त्यनुसारिण इत्यमुत्पत्त्यसंभवसूत्रोक्तोंशोऽप्यप्रत्याख्येय इत्यत आहुः बहुष्विति । एतादृशेति प्राचीनवृत्तिरेतादृशव्याख्यानवती बहुषु भाष्येष्वेवं व्याख्यानदर्शनात् । अत्रैतादृश- सूत्रव्याख्यानं साध्यम् । तत्कार्यं दर्शनं हेतुः ।'लाघवात् । साध्यं हेतुविषयः । एतादृशसूत्रव्याख्यान- दर्शनमिति । भाष्यवत् । अत्र पक्षे साध्यहेतुमयाभावाद्वैत्वाभासत्वम् । 'पक्षे साध्याभावो बाधः' । यथा गौरश्वत्वात् । 'पक्षे व्याप्यत्वाभिमतस्याभावः स्वरूपासिद्धिः' । यथा ह्रदो द्रव्यं धूमादिति । तदुभयात्मकोऽयं हेत्वाभासः । अत्रोच्यते । हेतावेतादृशशब्दस्य सूत्रव्याख्यानादिभिः सदृशमित्यन्यथा- व्याख्यानविशेषणं तद्वत्त्वं प्राचीनवृत्तावस्तीति न हेत्वाभासत्वम् । न चास्मिन्ननुमाने साध्यसिद्धिः प्रतिबन्धिकेति वाच्यम् । सिषाधयिषाया उत्तेजिकायाः सत्त्वात् । यथा महानसो वह्निमानित्यनुमितिः । तेनेति । श्रुतिसूत्रस्मृतिविमर्शेन । षट्सु द्वयोरङ्गाङ्गिभाव उक्ते जिज्ञासाधिकरण एवेति चतुर्णां 1292
भाष्यप्रकाश-रश्मि-परिवृंहितम् । १२१ भाष्यप्रकाशः । वृत्तिष्वप्येतादृशव्याख्यानानुमानात् । तेनात्रेर्दं निष्पन्नम् । सांख्ये हि प्रकृतिपुरुषपर्यन्तता निरीश्वरता च श्रुतिविरुद्धा । सेश्वरसांख्ये च तदैश्वर्यस्य प्रधानाधीनता केवलनिमित्तता । तथैव योगेपि । तदननुसंधाय तत्र प्रवृत्तानां जीवन्मुक्तताभवनोत्तरमपि पातः । तयोर्भगवन्निष्ठताया अज्ञानात् । तदत्रैवोक्तं, न चैनमित्यर्द्धेन । दशमस्कन्धे च । 'येन्येऽरविन्दाक्ष विमुक्तमानिनस्त्वय्यस्तभावादविशुद्धबुद्धयः । आरुह्य कृच्छ्रेण परं पदं ततः पतन्त्यधोऽनादृतयुष्मदङ्घ्रयः' इति । तयोर्भगवत्परत्वज्ञाने तु देवहूतिवत्कृतार्थता । तदप्युक्तं द्वितीयस्कन्धे । 'जज्ञे च कर्दमगृहे द्विजदेवहूत्यां स्त्रीभिः समं नवभिरात्मगतिं स्वमात्रे
१२२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० २ अ० ८ सू० ४५ भाष्यप्रकाशः। तुष्टे त्रिलोचने तस्य भक्तिर्भवति केशवे । संपूज्य तं जगन्नाथं वासुदेवाख्यमव्ययम् । ततो भुक्तिं च मुक्तिं च स प्राप्नोति द्विजोत्तमः' इति । एवं पञ्चरात्रेपि यो विरुद्धांशस्तदननुसंधाने विमोहकत्वान्न मुक्तिः । तदनुसंधाय तदंशत्यागे तु तदुक्तसाधनपाकेन साक्षादेव मुक्तिः 'पञ्चरात्रविदः' इति मोक्षधर्मीयवाक्यात् । अतो न कस्यापि वाक्यस्यास्मिन् प्रकारे विरोध इति सर्वं सुस्थम् । रामानुजाचार्यास्तु आद्यं सूत्रद्वयं पूर्वपक्षसूत्रत्वेनाभिधाय, विज्ञानादीति सूत्रद्वयं सिद्धान्तीत्येवनाभिधायैवं व्याचक्रुः । वाशब्दः पक्षविपरिवर्तनार्थः । विज्ञानं च आदि चेति विज्ञानादि परं ब्रह्म । संकर्षणप्रद्युम्नानिरुद्धानां परमब्रह्मभावे परमब्रह्मरूपत्वाङ्गीकारे तदप्रति- षेधः । पञ्चरात्रप्रामाण्याप्रतिषेधः । विप्रतिषेधात् । अस्मिन्नपि तन्त्रे जीवोत्पत्तेर्विशेषेण प्रति- षेधाच्च नास्याप्रामाण्यमिति । एवं व्याख्याने प्रमाणत्वेन पञ्चरात्रस्थवाक्यान्यप्युदाजह्रुः शाण्डिल्याख्यत्वासंबन्धिनीं निन्दां च, 'न हि निन्दा'न्यायेनानुदितहोमनिन्दावत् पञ्चरात्र- प्रशंसातात्पर्यकामूचुः । रश्मिः। वाक्याच्छिवभक्तिः । केशवे इति कभेशश्च केशौ तयोर्वा सुखं यस्मादित्यलौकिकी व्युत्पत्तिः । लौकिकी तु व्याकरणे केशाः सन्त्यस्येति । पञ्चरात्रेति । 'पञ्चरात्रविदो ये तु यथाक्रमपरानृप । एकान्तभावोपगतास्ते हरिं प्रविशन्ति वा' इति । पूर्वपक्षेति स्वसिद्धान्तः । द्वितीयसूत्रार्थोऽपि पूर्वपक्षार्थः । तादृशसूत्रत्वेनेत्यर्थः । द्वितीयसूत्रोपन्यासपूर्वकं व्याख्यानमाहुः विप्रतीति । अस्मि- न्निति पञ्चरात्रे । प्रतिषेधादिति । यथोक्तं परमसंहितायाम् । 'अचेतना परार्था च नित्या सततविक्रिया । त्रिगुणा कर्मिणां क्षेत्रं प्रकृते रूपमुच्यते । व्याप्तिरूपेण संबन्धस्तस्याश्च पुरुषस्य च । स ह्यनादि- रनन्तश्च परमाथैन निश्चितः' इति वाक्यैः पञ्चरात्रस्यैः । एवमिति सर्वांशे प्रामाण्यव्याख्याने । पञ्चरात्रस्येति तान्युक्तानि । अपिशब्देन भारतशास्त्रम् । तद्वाक्यानि तु मोक्षधर्मे ज्ञानकाण्डे 'गृहस्थो ब्रह्मचारी च वानप्रस्थोथ भिक्षुकः । य इच्छेत्सिद्धिमास्थातुं देवतां कां यजेत सः' इत्यारभ्य महता प्रबन्धेन पञ्चरात्रप्रक्रियां प्रतिपाद्य 'इदं शतसहस्राद्धि भारताख्यानविस्तरात् । आविक्ष मति- मन्थानं दध्नो घृतमिवोद्धृतम् । नवनीतं यथा दध्नां द्विपदां ब्राह्मणो यथा । आरण्यकं च वेदेभ्य औषधिभ्यो यथाऽमृतम् । इदं महोपनिषदं चतुर्वेदसमन्वितम् । सांख्ययोगकृतान्तेन पञ्चरात्रानु- शब्दितम् । इदं श्रेय इदं ब्रह्म इदं हितमनुत्तमम् । ऋग्यजुःसामभिर्जुष्टमथर्वाङ्गिरसैस्तथा । भविष्यति प्रमाणं वै एतदेवानुशासनम्' इति । शाण्डिल्येति साङ्गेषु वेदेषु निष्ठामलभमानः शाण्डिल्यः पञ्चरात्रमधीतवानिति वेदनिन्दा ताम् । नहीति नहि निन्दा निन्दितुं प्रवर्ततेपि तु विधेयं स्तोतुमिति न्यायेन । अनुदितेति 'प्रातः प्रातरनृतं ते वदन्ति पुरोदयाज्जुह्वति येऽग्निहोत्रम्' इति श्रुतिः । ऊचुरिति । स्मार्गे तु 'भक्त्या प्रसन्ने तु हरौ तं योगेनैव योजयेत्' इति तृतीयस्कन्ध- निबन्धादुक्त्या प्रसन्ने हरौ सति पश्चादस्मार्थस्म योगः 'आसीज्ज्ञानमयो ह्यर्थः' इति सांख्ये श्रीभागवतात् । सांख्ययोगयोश्चैक्यात् । ज्ञानं सत्यानन्तयोरुपलक्षकम् । अङ्गीचक्रुरिति । सूत्रव्याख्यातुः स्वकिपक्षं दूषयति उत्पत्तीति । नहि पुरुषाननुगृहीतस्त्रीभ्य उत्पत्तिर्दृश्यते । न 1294
भाष्यप्रकाश-रश्मि-परिवृंहितम् । १२३ भाष्यप्रकाशः। मध्वाचार्यास्त्वेतत्सूत्रचतुष्टयं शाक्तमतनिराकरणार्थत्वेनाङ्गीचक्रुः । तथा चात्र वेदविरुद्ध- द्धानां स्मृतीनामप्रामाण्यान्न ताभिः स्वतः किंचित् फलमिति सिद्धम् ॥ ४५ ॥ इत्यष्टममुत्पत्त्यसंभवादित्यधिकरणम् ॥ ८ ॥ इति श्रीमद्वल्लभाचार्यचरणनलिनचञ्चरीकनिरस्तहृदयध्वान्तस्य पुरुषोत्तमस्य कृतौ भाष्यप्रकाशे द्वितीयाध्यायस्य द्वितीयः पादः ॥ २ ॥ २ ॥ रश्मिः । न कर्तुः करणम् । यदि पुरुषोङ्गीक्रियते तत्रापि करणाभावात्तदनुपपत्तिः । विज्ञानादिभाव इति । यदि विज्ञानादिकरणं तत्राङ्गीक्रियते तदा तत एव सृष्ट्याद्युत्पत्तेरीश्वरवादान्तर्भावः । विप्रतिषेधाच्च सकलश्रुत्यादिविरुद्धत्वाच्चासमञ्जसमिति भाष्यम् । अत्रेति संपूर्णपादे । अप्रामाण्यादिति अंशेन सर्वांशेन चेत्यर्थ
प्रस्तुत पृष्ठ पूर्णतः रिक्त (कोरा) है। इसमें कोई पाठ (Text) अथवा सूत्र/भाष्य अंकित नहीं है, केवल एक छोटा-सा बिंदु/चिह्न दिखाई दे रहा है। अतः प्रतिलेखन के लिए कोई सामग्री उपलब्ध नहीं है।
श्रीकृष्णाय नमः । श्रीमद्ब्रह्मसूत्राणुभाष्यम् । शुद्धाद्वैतब्रह्मवादनिर्गुणभक्तिमार्गप्रवर्तकाचार्यचक्रचूडामणि- श्रीमद्वल्लभाचार्यचरणप्रणीतम् । दशदिगन्तविजयिश्रीमद्गोस्वामिश्रीपुरुषोत्तमचरणप्रणीत- भाष्यप्रकाशसम्पूर्णवेत्तृश्रीमद्गोस्वामिश्रीगोपेश्वर- जिचरणप्रणीतभाष्यप्रकाशरश्मिपरिवृंहितम् । द्वितीयाध्यायस्य तृतीय-चतुर्थ-पादौ । 'भगवद्धर्मपरायणसद्गतशेठिगोवर्धनदास सुन्दरदास' इत्यस्य पुष्टिमार्गीय- संस्कृतसाहित्यसमुद्धारार्थं निर्दिष्टद्रव्यसंग्रहतः 'प्राप्तभगवत्पद- मूळचन्द्र तुलसीदास तेलीवाला, बी. ए., एल्एल्. बी., वकील, हाइकोर्ट' इत्येतेषां सुहृद्भिः संशोध्य 'निर्णयसागर' मुद्रणालये मुद्रयित्वा प्रकटीकृतम् । श्रीवल्लभाब्दाः ४५४. संवत् १९८९. मूल्यं रूपकत्रयम् ।
Printed by Ramchandra Yesu Shedge, at the 'Nirnaya-Sagar' Press, 26-28, Kolbhat Lane, Bombay 2. Published by Dhirajlal Vrajdas Sanklia, B. A., LL. B., Advocate, at: Khakhar Building; C. P. Tank, Bombay 4.
श्रीकृष्णाय नमः । श्रीगोपीजनवल्लभाय नमः । श्रीमदाचार्यचरणकमलेभ्यो नमः । श्रीमद्ब्रह्मसूत्राणुभाष्यम् । भाष्यप्रकाश-रश्मि-परिवृंहितम् । अथ द्वितीयोऽध्यायः । तृतीयः पादः । न वियदश्रुतेः ॥ १ ॥ (२-३-१) श्रुतिवाक्येषु परस्परविरोधः परिह्रियते विप्रतिषेधपरिहाराय । मीमांसाया- भाष्यप्रकाशः । न वियदश्रुतेः ॥ १ ॥ तृतीयपादं व्याख्यास्यामस्तत्प्रयोजनं संगतिं चाहुः श्रुती- त्यादि । द्वितीयपादे श्रुतिविरुद्धस्मृतिनिराकरणेन तद्विरोधस्याकिंचित्करत्वस्थापनात् तासामेव प्रमेयाविरोधो न श्रुतेः सः, इत्येवं प्रमेयाविरोधः स्थापितः । तृतीये पादे श्रुतिवाक्येषु परस्पर- विरोधः परिह्रियते विप्रतिषेधपरिहाराय, विरोधकृतो यः प्रामाण्यप्रतिषे
तदर्थं प्रवृत्तत्वात् शक्त्यविरोधाभ्याम् । तथा च ब्रह्मवादे जडजीवयोर्विरुद्धांश- निराकरणाय तृतीयपादारम्भः । द्विविधा हि वेदान्ते सृष्टिः । भूतभौतिकं सर्वं ब्रह्मण एव विस्फुलिङ्ग- भाष्यप्रकाशः। यदा हि लोकानां मौढ्यकृतसंदेहवशाद् वेदार्थानवगमसामर्थ्याभाव आचार्येण दृष्टस्तदा वेदा- र्थभूतस्य ब्रह्मणः सामर्थ्यं वेदवाक्यानां परस्परविरोधाभावं च स्वयमाकलय्य ताभ्यां कृत्वा प्रमेयाविरोधार्थे मीमांसां प्रवर्तितवानिति, न च प्रथमपाद एवाविरोधस्य विचारितत्वादस्य गतार्थत्वं शङ्क्यम् । यथा तत्र शक्त्यविरोधाभ्यां ब्रह्मणि विरुद्धांशं परिहृतवांस्तथा च तेन प्रकारेणैव, चोऽवधारणे। ब्रह्मवादे 'सर्वं ब्रह्म' इतिवादे। जडानां जीवानां च ब्रह्मत्वाज्जडजीवयोः संबन्धी यो विरुद्धांशस्तन्निराकरणाय तृतीयपादारम्भ इत्येवं सार्थक्यात्, तथा- चेदं पादस्य प्रयोजनम्, प्रासङ्गिकं पूर्वपादे परिहृत्य पुनः प्रस्तुतस्य श्रुत्यविरोधस्यैव विचारा- दवसरः संगतिरित्यर्थः । ननु यद्यपि ब्रह्मवादे जडजीवयोर्ब्रह्मत्वं तथापि गौणमुख्यभाव- स्तत्संदिग्धः, पूर्वं तथा निर्णीतत्वात्, अतो मुख्यविचारमतिहाय किमित्येष आरभ्यत इत्याकाङ्क्षायामाहुः द्विविधेत्यादि । तथा च जन्माद्यधिकरणविषयपरिशोधार्थ एवायं प्रपञ्च इति नास्य गौणत्वमित्यर्थः । एकः, अपर इति पुँल्लिङ्गपाठे तु प्रकारो विशेष्यत्वेन व्याख्येयः । प्रातिपदिकात्परायाः सुपो लुगुच्यत इति महाभाष्यादौ विभक्तिपदाध्याहारेण योजनया प्राचीन- रश्मिः । यदेति । मौढ्येति यथार्थसंदेहे दूरत्वं कारणं तथा मौढ्यं मोहः भगवत्सादाजन्यवेदार्थज्ञाने संदेहं करोति विरुद्धकोटिसंपादनेन । सा च वेदार्थानवगमसामर्थ्याभावरूपा । संदेहस्तु वेदार्था- वगमसामर्थ्यं वर्तते न वेति, मौढ्यमुक्तसामर्थ्यज्ञानमावृणोति । आचार्येणेति भगवता व्यासेन । सामर्थ्यमिति शक्तिम् । ताभ्यामिति शक्त्यविरोधाभ्याम् । प्रमेयेति परस्परं श्रुतिप्रमेयावि- रोधार्थं प्रवर्तितवानिति । अत्र वाक्यानि स्कान्दानि 'नारायणाद्विनिष्पन्नम्' इत्यादीनि जिज्ञासा- धिकरण उक्तानि । तथा चेति भाष्यं विवरीतुमाहुः न चेति । विरुद्धेति समवायित्वाभावा- दिरूपं श्रुतिविरुद्धांशं शक्तिर्ब्रह्मसामर्थ्यं निमित्तोपादानत्वयोरविरोधस्ताभ्यां परिहृतवान् । तथा चेति भाष्यं विवृण्वन्ति स्म तथा चेति । सर्वमिति भावाद्वैते । विरुद्धेति उत्पत्त्यनुत्पत्ति- रूपः । अणुत्वं व्यापकत्वं जीवविषय एव । इदमग्रे स्फुटम् । इदमिति जडजीवयोर्विरुद्धांश- निराकरणम् । प्रासङ्गिकमिति । स्मृत्यनवकाशसूत्रोक्तस्मृत्यविरोधस्तदात्वानुमानिकस्मृत्युपेक्षानर्हत्वं प्राप्तं प्रासङ्गिकं स्मृतिविरोधम् । पूर्वेति द्वितीयपादे । प्रस्तुतस्येति द्वितीयाध्याय्यार्थत्वेन प्रस्तुता- विरोधान्तर्गतस्य प्रस्तुतस्य श्रुत्यविरोधस्य । अवसर इति प्रतिबन्धकीभूतजिज्ञासाद्वितीयपादोक्त- स्मृत्यविरोधजिज्ञासा, सर्वैः कृतत्वात् । तस्याः निवृत्तौ सत्यां जडजीवयोर्विरुद्धांशनिराकरणमवश्यं कर्तव्यमिति तदुक्तमित्यवसरः संगतिरित्यर्थः । पूर्वमिति समन्वयसूत्रे जडजीवान्तर्यामिष्वित्यर्थः । जन्मादीति 'यतो वा इमानि' इति 'तस्माद्वा एतस्मात्' इति विषयवाक्यद्वयम् । व्याख्येय इति । एकाऽपरेति पाठमङ्गीकृत्य पूर्वं व्याख्यातम् । अत्र द्विविधा हि वेदान्ते सृष्टिर्भवति तच्चे- त्यध्याहार्यं भाष्यं व्याख्येयम् । सृष्टेर्विशेष्यत्वत्यागेऽध्याहारे चाप्यदोषमाहुः प्रातीति । विभक्तीति 'प्रातिपदिकात्पराया विभक्तेः सुपः' इति योजना तया । ननु पदाध्याहारोऽर्थाध्याहारो वेति चेन्न लाघवेऽपि पदजन्यपदार्थोपस्थितेः पदाध्याहार इत्याहुः विभक्तिपदेति । जीवेति नाम्नो कर्तृत्व-
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ३ न्यायेनैका, अपरा वियदादिक्रमेण, सा चानामरूपात्मनो नामरूपवत्त्वेनाभि- व्यक्तिः। सजडस्यैव कार्यत्वात् तस्य जीवस्य त्वंशात्वेनैव न नामरूपसंबन्धः। 'अनित्ये जननं नित्ये परिच्छिन्ने समागमः । नित्यापरिच्छिन्नतनौ प्राकट्यं चेति सा त्रिधा' ॥ तत्र क्रमसृष्टौ सन्देहः । छान्दोग्ये हि, 'सदेव सोम्येदमग्र आसीदेकमेवा- द्वितीयम्' इत्युपक्रम्य 'तदैक्षत तत् तेजोऽसृजत' इति तेजोऽन्नसृष्टिरुक्ता, न भाष्यप्रकाशः। श्मैस्यास्तथात्वावगमात् । ननु सर्वस्य ब्रह्मरूपत्वे सृष्टिरेवासंगता, तस्या उत्पत्तिरूपत्वाद्, ब्रह्मणश्चाजत्वादित्याकाङ्क्षायामाहुः सा चेत्यादि । न नामरूपसंबन्ध इति न प्रतिनियत- नामरूपसंबन्धः। तथा च प्रलयदशायां कार्यस्य कारणे लयानन्तरं तस्य परमकारणेन ब्रह्मनै- कीभावात् प्रतिनियतनामरूपशून्यत्वेनानामरूपत्वं तादृशस्य या प्रतिनियतनामरूपत्वेना- भिव्यक्तिः प्रकाशः सैव सृष्टिर्न तु नैयायिकादीनामिकासतः सत्तास्पा, अतस्तस्या अजत्वावि- रोधित्वाद्भासंगतमित्यर्थः । एतेन कालविशेषे प्रतिनियतनामरूपशालित्वं कार्यत्वमित्यपि व्याख्यातम् । अत एव कटककुण्डलादौ सुवर्णकार्यत्वव्यवहारो न सुवर्णशकले, तथात्रापि जडजीवयोर्बोध्यम् । नन्वेवं सति ब्रह्मणो जीवकारणता न स्यात् तथा सति तत्र जीव- नियामकतापि भज्येतेत्यत आहुः अनित्य इत्यादि । सेति अभिव्यक्तिः । तथा च त्रिविधाया अप्यभिव्यक्तेर्ब्रह्माधीनत्वात् तिसृष्वपि ब्रह्मणः कारणत्वमक्षुण्णमिति नियामकताऽप्यक्षुण्णेत्यर्थः । एवं प्रासङ्गिकं परिहृत्य प्रस्तुतं व्याकर्तुं तदावश्यकताबीजमाहुः तत्र क्रमेत्यादि । तथा चैवं सत्यामेकवाक्यतायामेकत्रोक्तत्वादन्यत्रानुक्तत्वाच्च संदेह इत्यर्थः । यदि च छान्दोग्ये तेजसः सृष्टिकर्मत्वेन कथनादसृजतेत्यादिसृष्टिवाचकपदोपादानादीक्षापूर्वकत्वाच्च मुख्यतया रश्मिः। रूपस्य च सत्त्वाद्विशेषपरतामाहुः न प्रतीति प्रतिनियतनाम्नां देवदत्तादीनां प्रतिनियतरूपाणां करचरणादीनामित्यर्थः । तस्या इति अङ्गीकृताया अभिव्यक्तेः । तदुक्तमेकादशस्कन्धे 'जन्म स्वात्म- तया' इति द्वाविंशे भगवता । कालेति कालविशेषे सृष्टिकाले । व्याख्यातमिति विशेषेणोक्तम् । विशेषशब्दकृत्यमाहुः अत एवेति अस्माद्विशेषशब्दघटितलक्षणादेव । न सुवर्णेति कालवि- शेषाभावात् । न चाभावप्रतियोगित्वरूपकार्यलक्षणसत्त्वात्सुवर्णशकलेपि कार्यत्वमिति वाच्यम् । सुवर्णशकलेति नाम एकरूपदीर्घादिरूपस्य प्रतिनियतत्त्वाविवक्षणात् । जडजीवयोरिति तयो- र्जडस्यैव कार्यत्वं बोध्यम् । जडस्यैवोक्तकार्यलक्षणकत्वात् । तेन कार्यलक्षणान्तरे श्रुत्यनुकूलस्व- रूपो गुण उक्तः । एवं सतीति जीवस्य कार्यलक्षणानक्रान्तत्वे सति । जीवेति कारणलक्षणस्य कार्यघटितत्वात् । अनन्यथासिद्धत्वे सति कार्यनियतपूर्ववृत्तित्वं कारणत्वमिति । जीवेति 'य आत्मानमन्तरो यमयति' इत्यन्तर्यामिब्राह्मणोक्ता । तिसृष्विति अनित्यघटादौ जननरूपायां, नित्ये जीवादाँ परिच्छिन्नेऽण्वादिपरिमाणविशिष्टे देहे समागमरूपायां, नित्यापरिच्छिन्नतनौ ब्रह्मणि प्राकट्यमाविर्भावस्तासु । कारणत्वमिति आद्य उत्पादकत्वम्, द्वितीये विभाजकत्वम्, तृतीये दर्शकत्वमिति विभागः । तदेति श्रुतिविरोधरूपप्रस्तुतावश्यकतायां बीजं संदेहरूपमाहुरित्यर्थः । छान्दोग्य इत्यादि भाष्यं विवरीतुं शङ्कामाहुः यदि चेति । ईक्षेति । चकारात्तदभ्यध्यायत् जायत १. कार्यकाले । 1299
: It is: अ - श्र - व - णा - त् - [नो] - Wait, is that a 'त्' with a virama? Look at "अश्रवणात्": त् with virama, and then न with ो = "नो-"! Wait, look at the glyph: अ (a) श्र (shra) व (va) णा (naa) त् (ta with virama? No, it looks like 'त्' or 'त्र'? Wait, in old prints, त् followed by न is sometimes printed as त्न or त् separate). Wait, look at the letter: it's त् and then न with ो: "त्नो-"! Wait, look at the two characters: It is त् and then नो? Wait, line 21 begins: "त्पत्तिरादरणीयेत्यर्थः ॥ १ ॥" So the word is "नोत्पत्तिरादरणीयेत्यर्थः"! Because the Bhashya says: "नोत्पद्यत इति, कुतः, अश्रुतेः ।" So Prakash says: "...अश्रवणात् नोत्पत्तिरादरणीयेत्यर्थः ॥ १ ॥" Wait, does it say "अश्रवणात्रो-" or "अश्रवणात् नो-"? Look at the character: it is 'त्' then 'नो', with a hyphen '-'! Wait, or is it "अश्रवणात्रो
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ५ अस्ति तु ॥ २ ॥ तुशब्दः पक्षं व्यावर्तयति । तैत्तिरीयके वियदुत्पत्तिरस्ति । यद्यपि मुख्ये नास्ति तथापि विरोधाभावान्न्यत्रोक्तमप्यङ्गीकर्तव्यमेकवाक्यत्वाय, एक- विज्ञानेन सर्वज्ञानानुरोधाच्च ॥ २ ॥ गौण्यसंभवात् ॥ ३ ॥ वियदुत्पत्तिर्गौणी भविष्यति, कुतः। असंभवात् । न ह्याकाशस्योत्पत्तिः भाष्यप्रकाशः। अस्ति तु ॥ २ ॥ सिद्धान्तं वदतीत्याहुः तुशब्द इत्यादि । विरोधाभावादिति वियदुत्पत्त्यादेरपि मुख्यवाक्येऽनुपपत्त्यभावात् । एकवाक्यतायां को वा आग्रह इत्यत आहुः एकेत्यादि । तथा चैतत्प्रतिज्ञानुरोधात् तैत्तिरीयवाक्यं सृष्ट्यर्थमीक्षासाकाङ्क्षम्, छान्दोग्यवाक्यं च सृज्यर्थमाकाशादिसाकाङ्क्षम्, क्रमसृष्टिस्तूमयत्राप्यर्थ इत्येक
? Look at line 35: गविति गावश्चाश्वाश्चेति द्वन्द्वः! Wait! If line 35 says गविति गावश्चाश्वाश्चेति द्वन्द्वः, then the word in line 13 MUST contain गौorगोandअश्व! Look at line 13: अतो (ato) गो (go) ऽश्व (ashva) -> गोऽश्वा एव! Wait, look at line 13: अतो गोऽश्वा एव पञ्चमोऽन्ये! Wait, is that गोऽश्वाorगोजश्वाorगोअश्वा? Let's look at line 13: अ (a) तो (to) गो (go) [avagraha?] no, it looks like: ज (ja) or अ (a)? Wait, look at the character: ग (ga) with ओ (o) matra -> गोNext character: look at it:जाorऽश्वा`?
Wait, look at the loop:
It has a 'ज' shape, and below it 'श्व'? No, it's:
'ज' or 'ऽ'?
Wait, look at line 35:
"गविति गावश्चाश्वाश्चेति द्वन्द्वः"
Wait, why does it say "
. Look at 'र' in 'आकाश' or 'परमफलम्' (line 30): 'र' has a curved top and diagonal leg. 'रा' has 'र' followed by a vertical line!
Here, there is only ONE vertical line! And connected to it on the left is a downward hook. That is unequivocally 'त'!
Wait, so it is त (ta), not रा!
Wait, but does it have an aa-matra? No, it's just 'त'.
Wait, then what is the letter after it? 'व' (va) or 'पा'? 'व'!
Then 'र' (ra).
Then 'ण' (ṇa).
Wait, could the word be: च्छिदु... wait, is it च्छि?
Look at the first character: च्छि (cchi).
Then दु (du).
Then ता or त?
Wait! Could it be च्छिद्रं तदावरण? No, no anusvara.
Could it be च्छिदुरावरण? If it were छिदुरावरण, why would it have त?
Wait! Look at च्छिवुतावरण or च्छिदुतावरण... wait, could it be च्छिद्रे तदावरण?
Wait, what about च्छिद्र? Is the second letter द्र?
Wait, what if it is `विद्युता
Here is the complete line-by-line transcription of the text from the image into pure Devanagari Markdown:
८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० ३ अ० १ सू० ५ स्याच्चैकस्य ब्रह्मशब्दवत् ॥ ५ ॥ ननु कथं वियदुत्पत्तिर्गौणी भविष्यति । तत्र हि संभूत इत्येकमेव पद्मुत्तरत्रावर्त्तते । तथा सत्युत्तरत्र मुख्या आकाशे गौणीति युगपद् वृत्ति- द्वयविरोध इतिचेन्न । एकस्यापि स्यात् कचिन्मुख्या कचिद् गौणीति । ब्रह्मशब्दो यथा, 'तपसा ब्रह्म विजिज्ञासस्व' 'तपो ब्रह्म' इति । प्रथमवाक्ये मुख्या, द्वितीये गौणी । न चात्र प्रयोगभेदोऽस्तीति वाच्यम् । संभूतशब्दोऽप्यावर्त्तते न तु तादृशार्थयुक्तोऽपि । आत्मसत्त्वेनैव तत्सत्त्वमिति सत्त्वगुणो वचनहेतुः । भाष्यप्रकाशः। स्याच्चैकस्य ब्रह्मशब्दवत् ॥ ५ ॥ पुनरपि गौणत्वानुपपत्तिमाशङ्क्य परिहरति स्यादित्या- त्यादि । तद् व्याकुर्वन्ति नन्वित्यादि । एकस्येति शब्दस्य । ननु ब्रह्मशब्दस्य दृष्टान्तता न युक्ता, तपोवाक्ये तस्य प्रयोगभेदेन वृत्तिद्वययौगपद्याभावात्, 'तस्माद्वा' इति वाक्ये तु सं- भूतशब्दस्य सकृत्प्रयोगेन यौगपद्यस्य दुर्वारत्वाद्विलक्षणां न चेत्यादिनानूद्य परिहरति संभूते- त्यादि । तथा चात्राप्यावृत्त्या शब्दव्यक्तिभेदान्न यौगपद्यमिति न दृष्टान्तत्वायौग, इत्यर्थः । नन्वेवमेवं वृत्तिद्वयोपपत्तावपि गोत्वशक्यफलासाधकत्वरूपमपभ्रंशसादृश्यं छागादिषु यथा गौणीवचनहेतुस्तथाऽऽकाशे किं वा संभूतसादृश्यं गौणीवचनहेतुर्येनात्र साऽऽद्रियत इत्यत आह आत्मत्वेत्यादि । सत्कार्यवाद उत्पत्तेःपूर्वदशायां कारणभावेनैव कार्यं तिष्ठति, आत्मा चात्र कारणम् । अत उत्पत्तिपूर्वदशायां यथा कार्यमात्मभावेन तिष्ठत्येवमाकाशोऽप्यात्माश्रुतत्वा- दात्मभावेनैव तिष्ठतीत्यात्मसत्त्वेनैव तत्सत्त्वमाकाशसत्त्वं, न तु पृथक्त्वेन, अतः सृष्टिदशायां कार्यवद् ब्रह्मणः सकाशादाकाशस्य पृथक् सत्त्वरूपो य आकाशनिष्ठः सत्त्वगुणः स एव कार्य- सादृश्यरूप आकाशे गौणीवचनहेतुरतः साद्रियत इत्यर्थः । ननु भवत्वेवं तथाप्याकाशं प्रति ब्रह्मणः कारणतानङ्गीकारे वाय्वादिवाक्येष्वत्मनः कारणत्वाकथनादाकाशादीनामेव तत्कथनाद् वायुकारणता आकाशासाधारणा अभ्रिकारणता च वाय्वसाधारणेत्येवं कारणता रश्मिः । स्याच्चैकस्य ब्रह्मशब्दवत् ॥ ५ ॥ परीति सूत्रकारः । तदिति तत्सूत्रमाचार्या व्या- कुर्वन्ति । भाष्ये उत्तरत्रेति 'आकाशः संभूतः' इतिवद्वायुः संभूतोऽग्निः संभूत इत्येवं 'तस्माद्वा एतस्मात्' इति श्रुतावुत्तरत्रावर्त्तते । प्रकृते शब्दस्येति संभूतशब्दस्य । वृत्तिद्वयेति 'ब्रह्म विजिज्ञासस्व' इत्यत्र मुख्याभिधा, तपसि गौणी, जगज्जन्मादिकर्तृत्वचतुर्मुखत्वतपस्त्वादिगुणयोगाद् अतो यौगपद्याभावात् । परीति मीमांसकः परिहरति । संभूतेत्यादीति । अयमर्थः । शब्दस्य शक्त्या गौणार्थेष्वनुगयेप्यर्याः । एतादृशः संभूतशब्दः आकाशाद्वायुरित्यानावर्त्तते न तु तादृशार्थयुक्तः । उभ- येषामेकतमार्थयुक्तस्त्वार्थलँते । एतादृशे आवृत्ते शब्देऽपि शब्दसान्यस्य संनिषेद्यमयेषामेकतमस्यार्थस्य निर्णयः । यथा देवस्य त्रिपुरारातेरित्यत्र त्रिपुरारातिशब्दसंनिधिः । अपभ्रंशेति अपशू घटादि सादृश्यम् । अत्रेति आकाशे गौणीत्यर्थः । सादृश्यरूप इति संभूतपदस्याकाशे गौणीवचनहेतु- रित्यर्थः । वाय्वादीति 'तस्माद्वा एतस्मात्' इति 'वायुश्चान्तरिक्षम्' इति एवमन्यत् तेषु । असाधारणेति 'बजाद्यतश्छाए' इति सूत्रेण 'यत्' । साधारणीनां परिग्रह इति सुबोधिन्यां तु 1304