अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
१२० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० २ सू० २ काण्डद्वयस्यान्योन्योपकारित्वाय साधारणग्रहणम् । 'यदेव विद्यया करोति' इत्यादिना पूर्वशेषत्वं सर्वस्य । 'तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति' इत्यादिना सर्वस्योत्तरशेषत्वम् । कर्मब्रह्मणोः क्रियाज्ञानयोर्धर्मिपरत्वेनैक्यात् कर्तृवाक्येषु सर्वत्र न विरोधः । तस्माच्छास्त्रयोनित्वं सिद्धम् । भाष्यप्रकाशः । एवं भट्टादिकृतं पूर्वपक्षं परिहृत्य काण्डद्वयसैकवाक्यतावबोधनाय शास्त्रपदप्रयोग इति पर्यवसितं तदर्थमाहुः काण्डेत्यादि । एकवाक्यताप्रकारमाहुः यदेवेत्यादि इदं चतुर्थाध्याये, 'यदेव विद्ययेति हि' इतिसूत्रे व्युत्पादयिष्यते । ऐक्यादिति अभिधेयप्रयोजनयोरैक्यात् । तथाच, 'यज्ञो वै विष्णुः' इति श्रुतेर्धर्मो यज्ञो मदात्मकः, 'मां विध
has a loop on left, vertical line: look at 'चि' in 'केचिदत्र': 'के' has flag, 'चि' has short i matra. In line 18, the first letter has a short i matra! The base letter: is it 'द' with 'व' (द्वि)? Look at 'द्वन्द्वोत्तरं' in line 28: 'द्व' has a loop. Look at line 18: it has a loop with a tail down... wait, 'द्वि' or 'वि'? Wait, 'वि' with 'त' 'यं' 'शं' -> 'वित्यंशं'? What is 'वित्यंशं'? Wait, could it be 'ह्यंशं'? No. Could it be 'द्वितीयांशं'? There is no 'ी'. Could it be 'चित्यंशं'? What is 'चित्यंश'? Wait! Could it be 'द्व्यंशं'? No, there is 'ति': 'द्वित्यंशं'? Wait, could it be 'तृतीयंशं'? Wait! In the previous sentence of Prakash (on the previous page, page 120), what was the sentence? Wait, Prakash line 1 starts: "सर्वत्र कर्तृत्वेनोच्यत इति न पूर्वोत्तरकाण्डयोर्विरोधः ।" Does line 18 say: "[xxx] व्याचक्षुः सर्वत्रेति ।"? Yes! The author
१२२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० २ सू० २ भाष्यप्रकाशः । यन्नैवं तन्नैवमित्यनुमानरूपं सूत्रमित्येकं मतम् । तदसङ्गतम् । जगत्कर्तृसाधकस्य कार्यत्वस्य हेत्वाभासत्वात् । यदाहुर्भास्कराचार्याः । जगत् न बुद्धिमत्कारणपूर्वकं कार्यत्वाद् बीजोत्पन्ना- ङ्कुरवदिति साधारणो हेतुः । किं च जगता सहेश्वरसंबन्धस्यात्यन्तापरिदृष्टत्वेन साध्यस्य पक्षधर्मत्वाभावादयं विरुद्धोऽपि । यस्यकस्यापि बुद्धिमत्तः साधने सिद्धसाधनत्वं च । तथा घटा- दिदृष्टान्तबलेन कार्यत्वसमानाधिकरणस्यानीश्वरासर्वज्ञशरीरेन्द्रियादिमत्कर्तृकत्वस्य सिद्ध्या विव- क्षितेश्वरासिद्धिश्च । तादृशजीवसिद्ध्याऽर्थान्तरत्वेनापि तदसिद्धिश्च । नचैवं घटादिदृष्टान्तेन शब्दे कृतकत्वादनित्यत्वसाधने दृष्टान्तीयानां पाक्यत्वादीनामप्यापत्याऽनुमानोच्छेदप्रसङ्गः । लिङ्गिनः शब्दस्य प्रमाणान्तरगोचरत्वेन शब्दे पाक्यत्वादीनां निवृत्त्या तदनुच्छेदात् । अत्यन्तापरिदृष्टे ब्रह्मणि त्वन्वयव्यतिरेकपरिशुद्धानां तेषां निवर्तकस्याभावेन तादृशधर्मापत्तेरनिवार्यत्वात् । अतः शास्त्रैकसमधिगम्यं ब्रह्मेति । रामानुजाचार्यास्त्वेतेषु दूषणेषु शैथिल्यं प्रदर्श्य प्रकारान्तरेण शास्त्रैकसमधिगम्यत्वं रश्मिः । भिद्यते गन्धवत्त्वात् इत्यनुमानलिङ्गवदित्यर्थः । यन्नैवं तन्नैवमिति देवदत्तवदित्यर्थः । अनुमान- रूपमिति अस्येति जगतो जन्मादि यत इति 'जनिकर्तुः प्रकृतिः' इतिसूत्रेण पञ्चम्यन्तम् । तस्य लक्ष- णत्वोद्धेतुत्वं तत एव इतरभेदसाधकत्वमित्यनुमानरूपत्वं जगज्जन्मादिकर्तृत्वसिद्धौ हि तेन चेतनांतर- व्यतिरिक्तत्वं साधनीयं तत्सिद्धिरस्तु जगत् बुद्धिमत्कारणपूर्वकं कार्यत्वात् घटवदित्यनुमानसाध्या । तदेवानुमानं दुष्टं किंतरामेतदित्याशयेनाहुः जगत्कर्तृरित्यादि । साधारण इति साध्यवदन्यवृत्तित्वं विपक्षवृत्तित्वं वा साधारणत्वम् । साध्यं बुद्धिमत्कारणपूर्वकत्वतदभावस्तद्वान् बीजोत्पन्नाङ्कुरादिस्तदन्यो घटादिस्तद्वृत्तित्वं कार्यत्व इति । विपक्षो बीजाङ्कुरादिः तद्वृत्तित्वं कार्यत्व इति च लक्षणसंगतिः । तथा- चान्वयव्याप्त्या साध्यतदभावयोः साधकः साधारण इति फलितम् । यथा धूमवान् वह्नेरिति । तप्तायो- गोलके साध्याभावसाधकत्वं बोध्यम् । साध्यस्येति बुद्धिमत्कारणपूर्वकत्वस्येत्यर्थः । विरुद्धोऽपीति विरुद्धत्वं तु साध्यसामानाधिकरण्यं तथाच साध्यानाधिकरणे बीजाङ्कुरादौ कार्यत्वस्य सत्त्वात्तदसामा- नाधिकरण्यम् । दूषकताबीजभेदादुभयोर्भेदः । बाधितोपीति वक्तुं युक्तम् । पक्षे साध्यशून्यत्वस्य तलक्षणत्वात् । यथा जलादिपक्षे वह्न्यभावः जलं वह्निमज्जलत्वात् इत्यत्र बाधवत् साधारणोपि हेतुः । साध्यवान् पर्वतादिः तदन्यो जलह्रदादिस्तद्वृत्ति जलत्वं साध्यवदन्यत्वादिगतो हेतुः । ननु दृष्टोऽन्यबुद्धिमत्संबन्धो जगतीति न विरुद्ध इति चेत्तत्राहुः यस्यकस्यापीति । तथेति यथा घटादि- दृष्टान्तबलेन कार्यत्वलिङ्गेन च बुद्धिमत्कारणपूर्वकत्वसिद्धिरित्येत्यर्थः । सिध्येति जगद् अनी- श्वरासर्वज्ञशरीरेन्द्रियादिमत्कर्तृपूर्वकं कार्यत्वात् घटवदित्येवं सिध्येत्यर्थः । ननु नैवं सिद्धि- र्भवित्री क्षित्यादिवाय्वपर्यन्तानां विचित्राणां महाभूतानां जगत्वेन तदुपादानोपकरणसंप्रदानप्रयो- जनाभिज्ञो नानीश्वरासर्वज्ञादिरियत आहुः तादृशजीवेत्यादि । उपासोपचितसार्वज्ञ्यादिशक्ति- मतो जीवस्य सिध्येत्यर्थः । न चैवमिति दृष्टान्तबलेन दृष्टान्तीयाशेषधर्माणां पक्षवृत्तित्वाङ्गीकारे इत्यर्थः । तेषामित्यादि अनीश्वरासर्वज्ञत्वादीनां श्रवणवन्निवर्तकस्य चक्षुरादिप्रमाणान्तरसामा- न्येनेत्यर्थः । अत इति प्रत्यक्षस्य तन्मूलकानुमानस्य चाप्रवृत्तेः शब्दस्य पराक्रमप्रतिपादनद्वारा ब्रह्म- 122
[Page 123]
भाष्यप्रकाश-रश्मि-परिवृंहितम् । १२३
भाष्यप्रकाशः । साधयन्ति । तथाहि । सावयवत्वादिलिङ्गकैः पूर्वोक्तानुमानैः कृत्वा सिद्धत्वेन जगतः कार्यत्वं न प्रत्याख्यातुं शक्यते । न च जगदकार्यम्, अशक्यक्रियत्वाद् अशक्योपादानादिविज्ञानत्वाच्च, आकाशवदिति प्रतिपक्षसद्भावात् प्रत्याख्यातुं शक्यमिति वाच्यम् । आकाशे निरवयवत्वस्यानु- कूलतर्कस्य सत्त्वेन तस्याकार्यत्वेऽपि जगद्रूपेषु महीमहीधरादिषु वाय्वन्तेषु तदभावेन तयोरप्रयो- जकतयाकाशदृष्टान्तेन तेष्वकार्यत्वस्य साधयितुमशक्यत्वात् । एवं निरवयवत्वेनोपाधिनैव क्षित्यादिवायुपर्यन्तानि अकार्याणि महाभूतशब्दवाच्यत्वाद् आकाशवदित्यपि प्रत्यनुमानं निरस्तम् । एवं सिद्धे कार्यत्वे शक्यक्रियत्वशक्योपादानादिविज्ञानतयोरपि कार्यत्वेनैव सिद्ध्या तयोरपि प्रतिपन्नत्वमेव । तथाहि । घटमणिकादिषु कृतेषु कार्यदर्शनानुगतकर्तृगततन्निर्माणशक्तिज्ञानः पुरुषोऽदृष्टपूर्वं विचित्रसन्निवेशं नरेन्द्रभवनमालोक्य अवयवसन्निवेशविशेषेण तस्य कार्यत्वं निश्चित्य तदानीमेव कर्तुस्तज्ज्ञानशक्तिवैचित्र्यमनुमिनोति । अतस्तु भुवनादेः कार्यत्वे सिद्धे
रश्मिः । तेष्वेत्यर्थः । प्रतिपक्षेति साध्याभावसाधकहेत्वित्यर्थः । सावयवादिहेतूनां सत्प्रतिपक्षत्वमिति भावः । साध्याभावसाधकं हेत्वन्तरं यस्य स सत्प्रतिपक्षः । अनुकूलतर्कस्येति यद्यकार्यं न स्यान्निरवयवो न स्यात् इति शङ्कानिवर्तकस्य निरवयवत्वं यद्यकार्यत्वव्यभिचारि स्यान्निरवय- वत्वमकार्यसाधकं न स्यात् इति व्याप्तिग्राहकस्य चानुकूलतर्कस्य सत्त्वेनेत्यर्थः । तदभावेनेत्यादि निरवयवत्वरूपानुकूलतर्काभावेनाशक्येत्यादिहेत्वोरप्रयोजकतेत्यर्थः । तेष्विति जगद्रूपेषु महीमही- धरादिष्वित्यर्थः । उपाधिनेति साध्यव्यापकत्वे सति साधनाव्यापकत्वमुपाधित्वमत्राकाशमादाय साधनव्यापकत्वमिति चेन्न । यद्धर्मावच्छिन्नसाध्यव्यापकत्वं तद्धर्मावच्छिन्नसाधनाव्यापकत्वमुपा- धिरिति लक्षणस्य विवक्षितत्वात् यद्धर्मः कार्यत्वं¹ तथा चाकार्यत्वावच्छिन्नसाधनं नाकाशमिति नाकाशमादाय साधनव्यापकत्वमिति भावः । यदभावेन यद्वदन्यत्वेन वा साधनवति साध्याभाव उन्नीयते स उपाधिः लाघवादिति नव्याः । स श्यामो मित्रातनयत्वादित्यत्र शाकपाकजत्वमुपाधिः शाकपाकजत्वाभाववति घटादौ श्यामत्वसत्त्वाच्छ्यामत्वव्यापकत्वाभावेपि मित्रातनयत्वावच्छिन्न- श्यामत्वव्यापकत्वात् । एवं प्रकृतेपि यद्धर्मावच्छिन्नाकार्यत्वव्यापकं निरवयवत्वमाकाशादौ तद्धर्मावच्छिन्नमहाभूतशब्दवाच्यत्वाव्यापकं निरवयवत्वं पृथिव्यादाविति लक्षणसंगतिः । एवं यथाऽऽर्द्वन्धनाभावेनाऽऽर्द्रेन्धनवत्पर्वताद्यन्यत्वेन साधनवति वह्निमत्ययःपिण्डे धूमाभाव उन्नीयते इत्यार्द्रेन्धनमुपाधिस्तद्वत् निरवयवत्वाभावेन निरवयवत्ववदाकाशाद्यन्यत्वेन वा साधनवत्क्षित्या- दिषु साध्यस्याकार्यत्वस्याभाव उन्नीयत इति । कार्यत्वेनेति कार्यत्वलिङ्गेन घटादिदृष्टान्तसना- थेनेत्यर्थः । तयोरपीति तयोः शक्यक्रियत्वशक्योपादानादिविज्ञानतयोरपि प्रतिपन्नत्वं प्राप्तत्वं प्रागल्भ्यं चैवेत्यर्थः । तथा चाशक्यक्रियत्वाशक्योपादानादिविज्ञानत्वयोर्हेत्वोरप्यसिद्धिरिति भावः । घटमणिकेति मणिकः गुर्जरदेशे गृहे मिष्टजलार्थं स्थलं 'टांका' इत्युच्यते । कार्यदर्श- नेत्यादि कार्यदर्शनेनानुमिते कर्तृगते कार्यनिर्माणस्य शक्तिज्ञाने येनेत्यर्थः । अदृष्टपूर्वमिति न दृष्टं पूर्वं यत्तददृष्टपूर्वम् । विचित्रः स्थलविशेषसन्निवेशो यत्र तथाविधं चेत्यर्थः ।
१. अकार्यत्वपर्याप्त्यवच्छिन्नेत्यर्थः ।
१२४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० २ सू० २ भाष्यप्रकाशः। तावत्सर्वसाक्षात्कारतन्निर्माणादिनिपुणः कश्चित् सिद्धयत्येव । विवादाध्यासितं भूभृधरादिकं स्वनिर्माणसमर्थकर्तृपूर्वकं कार्यत्वात् सार्वभौमसदनवदिति प्रयोगात् । किंच सर्वचेतनानां सुख- दुःखभोगस्य धर्माधर्मसाध्यत्वेऽपि धर्माधर्मयोश्चेतनत्वाच्चेतनाधिष्ठानमन्तरेण तयोः फलहेतुत्वा- नुपपत्तेः सर्वकर्मानुगुणसर्वफलदानचतुरः कश्चिदास्थेयः । वर्धकिनानधिष्ठितस्य वाश्यादेरचेतनस्य देशकालाद्यनेकपरिकरसंविधानेऽपि यूपादिनिर्माणसाधनत्वादर्शनात् । तथाच प्रयोगः । धर्माधर्मौ चेतनाधिष्ठिततयैव फलोपधायकौ अचेतनत्वाद् वाश्यादिवदिति । नच पूर्वानुमाने कार्यत्वस्य हेतोर्बीजोत्पन्नाङ्कुरदृष्टान्तेन साधारणत्वं शङ्क्यम् । अङ्कुरादौ संदेहस्यानन्याहितत्वेन
भाष्यप्रकाश-रश्मि-परिवृंहितम् । १२५
भाष्यप्रकाशः ।
ज्ञानाद्यदर्शनात् । नापरः । सर्वेषु कर्तृषु तत्तद्ज्ञानाशक्त्यनियमेन सर्वेषामज्ञानादीनां व्यभि- चारात् । नच निर्वाहापेक्षाङ्गीकारे ईश्वरेऽपि शरीरेन्द्रियाद्यापत्तिरिति शङ्क्यम् । संकल्पमात्रेण परशरीरगतभूतवेतालगराद्यपगमदर्शनात् । नच कथमशरीरस्य प्रवर्तनरूपः संकल्प इति शङ्क्यम् । संकल्पस्य मनोजन्मत्वेन शरीरानपेक्षत्वात् । मनसस्त्वीश्वरेऽप्युपगमात् । पूर्वोक्तहेतुनैव ज्ञान- शक्तिवन्मनसोऽपि प्राप्तत्वात् । नच मानसोऽपि संकल्पः सशरीरस्यैव, तस्यैव समनस्कत्वादिति वाच्यम् । मनसो नित्यत्वेन देहाद्यपगमेऽपि तत्सद्भावेनानैकान्तिकत्वात् । अत ईदृशस्य विचित्रस्य जगतो निर्माणे पुण्यपापपरवशः परिमितशक्तिज्ञानः क्षेत्रज्ञो न समर्थ इति तद्विलक्षण ईश्वरः संकल्पमात्रेण सर्वकरणसमर्थोऽनुमानेन सिद्ध्य
१२६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० १ अ० २ सू० २ भाष्यप्रकाशः। पक्षान्तर्भूतेषु गुरुतररथशिलामहीरुहादिष्वनेकचेतनसाध्यप्रवृत्तिकत्वेन व्यभिचारात् । नापि चेतनमात्राधीनत्वम् । सिद्धसाधनत्वात् । किं च । उभयवादिसिद्धानां जीवानामेव नियामक- त्वाभ्युपगमो युक्तः । लाघवात् । नच जीवानां पूर्वोक्तरीतिकोपादानादिविज्ञानतन्निर्माणशक्त्य- भावः शङ्कनीयः । तपोयागादिभिस्तेष्वपि तादृशज्ञानसामर्थ्ययोरुपगमे बाधकाभावात् । एतद- पेक्षयेश्वराख्यपुरुषकल्पनस्य तत्र मामर्थ्यविशेषकल्पनस्य चात्यन्तापरिदृष्टत्वेनातिगुरुत्वात् । अतोऽचेतनारब्धत्वलिङ्गकानुमानेन नेश्वरसिद्धिः । नापि कार्यत्वलिङ्गकेन । महीमहार्णवादीनां सावयवत्वेन कार्यत्वेऽप्यनेकत्वात् ते सर्वे एकदैवैकेन निर्मिता इत्यत्र प्रमाणाभावात् । न चैकघटवत् सर्वेषामेककार्यत्वं, येनैकदैवैकः कर्ता स्यात् । पृथग्भूतेषु कार्येषु कालभेदकर्तृभेददर्शनेन कर्तृकालैक्यस्य नियन्तुमशक्यत्वात् । नच जीवानां तादृशनिर्माणशक्त्यदर्शनेन तन्निष्ठात् कार्यत्वबलेनैव तत्सिद्धिरिति वाच्यम् । पूर्वमशक्ता- नामपि पश्चात् पुण्यविशेषोपचयेन शक्तिदर्शनात्, तद्विशेषोपचयेनातिशयितादृष्टसंभावनया च तादृशविलक्षणकार्यकर्तृत्वस्यापि संभवादित्युक्तम् । किं च । युगपत् सर्वोच्छित्तिः सर्वोत्पत्तिश्च न प्रमाणपदवीमधिरोहतः । अदर्शनात् । क्रमेणैवोत्पत्तिविनाशयोः कल्प्यमानयोर्दर्शनानुगुण्येन तथा कल्पनायामपि विरोधाभावाच्च । अतो बुद्धिमदेककर्तृकत्वे साध्ये कार्यत्वस्यानेकान्तिकत्वम् । रश्मिः। व्यभिचारादिति साध्याभाववत्सु गुरुतररथादिषु स्वसमवायारब्धेषु साध्यशून्येषु हेतोर्व्यभिचारादि- त्यर्थः । साधारणो हेतुरित्यर्थः । साध्यं प्रकारान्तरेण लक्षयित्वा दूषयन्ति नापीत्यादि । सिद्धेत्यादि । शरीरादौ तथात्वादित्यर्थः । अयं दोषः पक्षताविघटकः । सिषाधयिषाविरहविशिष्टसिद्धयभावः पक्षता । एतच्च हेत्वाभासान्तरं जगति नायमित्यतो दूषणान्तरमाहुः किंचेत्यादि । कार्यत्वलिङ्गकं स्वरूपासिद्धत्व- मित्याहुः महीत्यादि । तथाच पक्षे व्याप्यत्वाभिमतस्येश्वर साधकस्य कार्यत्वस्य विरहात् स्वरूपासिद्धत्व- मित्यर्थः । सावयवत्वं लिङ्गमपि बाधितमिति कार्यं सावयवत्वादित्यनुमानमपि दुष्टमिति भावः । पक्षे साध्याभावो बाधः इति तल्लक्षणात् । प्रतिज्ञान्तररूपं निग्रहस्थानं वा व्याख्येयम् । सर्वेषामित्यादि महीमहार्णवादीनामेकस्य कार्यत्वमित्यर्थः । तत्सिद्धिरिति स्वनिर्माणसमर्थकर्तृपूर्वकत्वसिद्धिरित्यर्थः । संभवादिति यथा प्रियव्रतः 'प्रियव्रतकृतं कर्म कोनु कुर्याद्विनेश्वरम्' इतिवाक्यात् । दर्शनेति न्याय- शास्त्रानुगुण्येन । तथाकल्पनायामिति पुण्यविशेषोपचयेनातिशयितादृष्टसंभावनया च तादृशविलक्षण- कार्यकर्तृत्वकल्पनायाम् । अत इति विवादाध्यासितं भूभूधरादिकं बुद्धिमदेककर्तृपूर्वकं कार्यत्वात् । घटादिवदित्यनुमाने तथेत्यर्थः । अनैकान्तिकत्वमिति सार्वभौमसद्मनेति च विवादाध्यासितं भूभूधरादिकं बुद्धिमदनेककर्तृपूर्वकं कार्यत्वात् सार्वभौमसदनवदित्यनेन बुद्धिमदनेककर्तृकत्वे सिद्धे एतत्साध्याभाववति भूभूधरादिके कार्यत्वरूपहेतोर्वृत्तेः साधारणानैकान्तिकत्वमित्यर्थः । तथाच सार्वभौमसदनदृष्टान्तेन बुद्धिमदनेककर्तृत्वे सिद्धे एतत्साध्याभाववति भूभूधरादिके कार्यत्वरूपहेतो- र्वृत्तेस्तस्याप्यवगमात् साधारण्यानैकान्तिकत्वावगमादिति सार्वभौमेतिपङ्क्त्यर्थः । कार्यत्वं बुद्धि- मदेककर्तृकत्वसाधकं घटनिष्ठत्वात् पटनिष्ठकार्यत्ववदित्यनुमानमपि । कार्यत्वं न बुद्धिमदेककर्तृकत्व- बाधकं मठादिभूतसमूहनिष्ठत्वात् घटपटस्तम्भसमूहनिष्ठकार्यत्ववदित्यनुमानेन सत्प्रतिपक्षमित्याहु 126
। भाष्यप्रकाश-रश्मि-परिवृंहितम् । १२७
भाष्यप्रकाशः । सार्वभौमसदनदृष्टान्तेन तथाऽवगमात् । महादिभूतसमूहनिष्ठत्वाच्च घटपटलस्तम्भसमूहनिष्ठकार्य- त्ववत् । साध्यतावच्छेदकराहित्येन दृष्टान्तस्य साध्यविकलत्वं च । सर्वनिर्माणचतुरस्यैकस्या- प्रसिद्धेः । पक्षस्याप्रसिद्धविशेषणत्वं च । तादृशसाध्याप्रसिद्ध्या विवादाध्यासाभावात् । बुद्धिम- त्कर्तृकत्वमात्रे साध्ये सिद्धसाध्यत्वं च । किं च । सर्वज्ञस्यसर्वशक्तियुक्तस्य कस्यचिदेकस्य साधक- मिदं कार्यत्वं, युगपदुत्पद्यमानसर्ववस्तुगतं वा, क्रमेणोत्पद्यमानसर्ववस्तुगतं वा । आद्ये, आश्रया- सिद्धत्वम् । द्वितीयेऽनेककर्तृकत्वसाधनाद् विरुद्धत्वम् । अपिच । सर्वेषां कार्याणां शरीराणां सुखाद्यन्वयदर्शनेन तन्मूलभूतं सत्त्वादिकमवश्याभ्युपनीयम् । पुरुषस्य तयोश्च कर्मभिरन्तःकरण-
रश्मिः । महादीत्यादि । तथाचा
विकारद्वारेण भवतीति विचित्रकार्यविशेषारम्भायैव ज्ञानशक्तिवत् कर्मसम्बन्धोऽप्यवश्याभ्युपमेयः । ज्ञानशक्तिवैचित्र्यस्यापि कर्ममूलत्वाच्च । इच्छायाः कर्मारम्भहेतुत्वेऽपि विषयविशेषितायास्तस्याः सत्त्वादिमूलत्वेन कर्मसम्बन्धोऽवर्जनीयः । एवं सिद्धे कर्मसम्बन्धे क्षेत्रज्ञा एव कर्तारः सिद्ध्यन्ति, न तु तद्विलक्षणः कश्चिदनुमानात् सिद्ध्यति । भवन्ति चात्र प्रयोगाः । तनुभवनादिकं क्षेत्रज्ञकर्तृकं, कार्यत्वात् घटवत् । ईश्वरः कर्ता न भवति प्रयोजनशून्यत्वात् मुक्तात्मवत् । तथा, अशरीरत्वात् तद्वदेव । न च क्षेत्रज्ञानां स्वशरीरा- धिष्ठाने व्यभिचारः । तत्राप्यनादेः सूक्ष्मशरीरस्य भावात् । विमतिविषयः कालो न लोकशून्यः कालत्वात् वर्तमानकालवत् । किंच । ईश्वरः किमशरीरः सशरीरो वा कार्यं करोति । नाद्यः । मनसो नित्यत्वेऽपि अशरीरेषु मुक्तेषु मानसकार्यादर्शनादीश्वरेऽप्यकर्तृत्वापत्तेः । नेतरः । विकल्पासहात्वात् । तन्नित्यमनित्यं वा । न तावन्नित्यम् । सावयवस्य नित्यत्वे जगतोऽपि नित्यत्वाविरोधादीश्वरासिद्धेः । नाप्यनित्यम् । तद्व्यतिरिक्तस्य तच्छरीरहेतोस्तदानीमभावात् । नच स्वयमेव हेतुरिति युक्तम् । अशरीरस्य तदयोगात् । नाप्यन्यच्छरीरेण शरीरवान् । अनवस्थानात् । किंच । सव्यापारो निर्व्यापारो वा । नाद्यः । अशरीरस्य तदसंभवात् । धवलकर्तुरीशस्य साक्षिणो निर्गुणात्मनः ॥ कार्यकारणकर्तृत्वे कारणं प्रकृतिं विदुः । भोक्तृत्वे सुखदुःखानां पुरुषं प्रकृतेः परम्' ॥ 'प्रकृतिस्थोपि पुरुषो नाज्यते प्राकृतैर्गुणैः । अविकारादकर्तृत्त्वान्निर्गुणत्वान्जलार्कवत्' ॥ 'यत्तत्त्रिगुणमव्यक्तं नित्यं सदसदात्मकम् । प्रधानं प्रकृतिं प्राहुर्विशेषं विशेषवत्' ॥ 'एतद्भगवतो रूपं ब्रह्मणः परमात्मनः । परं प्रधानं पुरुषं दैवं कर्म विचेष्टितम्' ॥ इत्यादि पुराणप्रामाण्यादवश्यमाश्रयणीयमित्यर्थः । सत्त्वाद्याश्रयेण यद्भवति तदाहुः पुरुषस्ये- त्यादि । ईश्वरस्याप्यात्मनः सत्त्वादियोग इत्यर्थः । अवश्येत्यादि लोके तथा दर्शनादित्यर्थः । विचित्र- कार्यारम्भो न ज्ञानवैचित्र्यात् किं तु इच्छावैचित्र्यात् तस्याश्चाकर्ममूलत्वाददोष इत्यत आहुः इच्छाया इत्यादि । इच्छाया हेतुत्वेऽपि न सामान्यरूपेण तथा सति सृष्टीच्छया प्रलयः स्यादतः सृष्टिविषयिणीच्छात्वेन सृष्टिहेतुत्वमेवमन्यत्रेत्येवं आत्मप्रसादजसुखं स्यादित्येवं विषयविशेषिताया- स्तस्या हेतुभूतायाः सत्त्वादिरूपप्रधानानामपिचित्तमूलत्वेनेति सत्त्वादिहेतुकर्मसंबन्धो वर्जनीय इत्यर्थः । ननु सृष्ट्यादौ शरीराणामनुत्पन्नत्वात्क्षेत्रज्ञानां स्वशरीराधिष्ठानासंभवे कर्तृत्वव्यभिचार इत्याशङ्क्य पराकुर्वन्ति न च क्षेत्रज्ञानामित्यादि । प्रवाहानादित्वमभिप्रेत्य स्थूलशरीरसत्त्वासत्त्वसाधनायाहुः विमतीत्यादि । प्रवाहानादित्वसादित्वरूपविविधमतिविषयः । मनस इति करणभूतस्य मनस इत्यर्थः । तदिति शरीरमित्यर्थः । तद्व्यतिरिक्तस्येत्यादि ईश्वरव्यतिरिक्तस्येश्वरशरीरहेतोः सृष्टि- प्राक्कालेऽभावादित्यर्थः । क्षेत्रज्ञव्यतिरिक्तस्य क्षेत्रज्ञशरीरहेतोः सृष्टिप्राक्कालेऽभावादित्यर्थो वा । स्वय- मिति ईश्वर इत्यर्थः । तदयोगादिति हेतुत्वायोगादित्यर्थः । अनवस्थेति अनवस्था शरीरस्थिति-
न द्वितीयः । मुक्तात्मवदकर्तृत्वापातात् । कार्यं जगद् इच्छामात्रव्यापारिकर्तृकमित्युच्यमाने पक्षस्याप्रसिद्धविशेषणत्वम् । दृष्टान्तस्य साध्यहीनता च । अतो दर्शनानुगुण्येनेश्वरानुमानं दर्शनानुगुण्यपराहतमिति शास्त्रैकप्रमाणकः परमेश्वरः परमाद्भूतः पुरुषोत्तमः । शास्त्रं तु सकलेतरप्रमाणापरिदृष्टं समस्तविजातीयं सर्वज्ञत्वसत्यसङ्कल्पत्वादिमदभिनवविकारातिक्षयापरिमित- तगुणोदारं निखिलहेयप्रत्यनीकं स्वरूपं प्रतिपादयतीति, न प्रमाणान्तरावसितवस्तुसाधर्म्य- प्रयुक्तदोषप्रसङ्ग इति । अत्रोदयनाचार्यैरीश्वरसाधने नवानुमानानि कुसुमाञ्जलौ दर्शितानि । 'कार्यायोजनधृत्यादेः पदात् प्रत्ययतः श्रुतेः । वाक्यात् संख्याविशेषाच्च साध्यो विश्वविदव्ययः' ॥ इति । अत्र कार्यादिपदानि भावप्रधानानि । तानि चैवं व्याख्यातानि । आयोजनं सर्गा- द्यकालीनद्व्यणुकारम्भकपरमाणुद्वयसंयोजनकं कर्म । धृतिर्धारणं गुरुत्ववतो ब्रह्माण्डादेः पत- नाभावः । आदिपदाद् ब्रह्माण्डादेर्नाशः । पदं घटादिसंप्रदायव्यवहारः । घटादिपदप्रयोगो वा । प्रत्ययो वेदजन्यं धर्मादिज्ञानम् । श्रुतिर्वेदः । वाक्यं पदसमूहः । संख्याविशेषः सर्गा- दौ परमाणुनिष्ठद्वित्वादिसंख्याजन्यं परिमाणमित्यादि । प्रयोगास्तु क्षित्यादिकं कर्तृजन्यं कार्य- त्वात् घटवत् । अन्ये तु जन्यत्वादित्यपि प्रयुञ्जते । तथा, क्षितिः, उपादानगोचरापरोक्षज्ञा- नोपायेच्छा तादृशकृतिजन्या, ज्ञानजन्या, इच्छाजन्या, कृतिजन्या वा, जन्यत्वात् घटादिवदि- त्यपि । पूर्वोक्तं कर्म चेतनप्रयत्नपूर्वकं कर्मत्वाद् अस्मदादिशरीरजन्यक्रियावत् । उक्ता धृतिः, रश्मिः । त्सादाभावादित्यर्थः । कार्यमिति हेतुगर्भं विशेषणमिदं, कार्यत्वादित्यर्थः । अप्रसिद्धेत्यादि तादृशस्य कर्तुरप्रसिद्धत्वाज् जगतो विशेषणं कार्यं तदप्यप्रसिद्धमित्यर्थः । दृष्टान्तस्येति घटादेरित्यर्थः । तथा च दृष्टान्ताभाव इति भावः । नैयायिकानुमानानि सांख्यशास्त्रपराहतानीति वदन्तः सिद्धमाहुः अतो दर्शनेत्यादि । दर्शनं सांख्यशास्त्रम् । न प्रमाणान्तरेति शब्दादन्यत्प्रमाणं प्रमाणान्तरं ततोवसितं निश्चितं वस्तु ब्रह्माख्यं तत्साधर्म्यं कर्तृत्वादिना तत्प्रयुक्तो दोषः ज्ञानिनामपि श्रवणमात्रेण पातित्यं तस्य प्रसङ्गः । इत्यादीति इत्यादि यथा स्यात्तथाव्याख्यातानि इति पूर्वेणान्वयः । तेन पदव्याख्यानत्वात् हेतुसमुदायपतितस्यायोजनस्य पक्षत्वेपि न क्षतिः । अन्ये त्वायोजनं कर्मेत्याहुः तेन न प्रायपाठविरोधः । गोपीनाथमौनी तु परमाणुः अपरोक्षज्ञानचिकीर्षाकृतिविषयः कार्यात् कपालवत् इति यथाश्रुतं व्याचक्रे । अत्र हेतुतावच्छेदकसंबन्धः समवायः । उक्तानुमाने साधारण्यं मन्यमानानां विजातीय- द्रव्यसमूहस्य पक्षत्वे पूर्वोक्तरीत्या कर्त्रैक्यदौर्घट्यादेकैकं द्रव्यं पक्षत्वेन प्रयुञ्जानानां च मतमाहुः अन्ये स्वित्यादि । जन्यत्वं जननशालित्वं तच्च ध्वंसप्रतियोगित्वशालित्वं स्वीकृतं चिकीर्षासत्त्वात् अंशतः साधारणत्वमतो जन्यत्वादित्यपि प्रयुञ्जते, ध्वंसस्य जन्यत्वात् तथाच ध्वंसे साधारणत्ववारणाय प्रयुञ्जत इत्यर्थः । अखरसस्तु पक्षे ध्वंसाप्रवेशः । तथात्वे सति पक्षे पक्षतावच्छेदकध्वंसाप्रवेशादाश्रयासिद्ध- मनुमानमिति । उपादानेत्यादि उपादानविषयकं यदपरोक्षज्ञानं उपायेच्छा उपादान- विषयिणी कृतिश्च तज्जन्येत्यर्थः । कार्यमात्रं प्रति ज्ञानत्वेनेच्छात्वेन कृतित्वेनान्वयव्यतिरेकाभ्यां पुंकारणत्वं यौगपद्यासंभवाल्लाघवेनाहुः ज्ञानजन्येत्यादि । इत्यपीति प्रयुञ्जत इत्य- न्वयः । पूर्वोक्तमिति सर्गाद्यकालिकद्व्यणुकारम्भकपरमाणुद्वयसंयोजनकमित्यर्थः । उक्तेति गुरुत्ववद्ब्रह्माण्डादिपतनाभावात्मिकेत्यर्थः । पूर्वोक्तमिति वेदजन्यधर्मादिज्ञानरूपमित्यर्थः ।
१३४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० २ सू० २ भाष्यप्रकाशः । चेतनप्रयत्नपूर्विका धृतित्वाद् वियति विहङ्गमधृतिवत् । ब्रह्माण्डादि प्रयत्नवद्विनाश्यं विनाशि- त्वात् पाठ्यमानपटवत् । उक्तव्यवहारः स्वतन्त्रप्रयोज्यः, व्यवहारत्वाद् आधुनिकलिप्यादिव्य- वहारवत् । पूर्वोक्तं ज्ञानं कारणगुणजन्यं प्रमात्वात् प्रत्यक्षादिप्रमावत् । वेदः पौरुषेयो वेद- त्वाद् यन्नैवं तन्नैवम्, आकाशवत् । वेदः पौरुषेयो वाक्यत्वाद् भारतादिवत् । द्व्यणुकपरिमाणं संख्याजन्यं परिमाणप्रचयाजन्यत्वे सति जन्यपरिमाणत्वात् तुल्यपरिमाणकपालद्वयारब्ध- घटपरिमाणवदिति । अत्र प्रथमे प्रयोगे कर्तृजन्यत्वं तु स्वोपादानगोचरापरोक्षज्ञानचिकीर्षा- कृतिमददृष्टाद्वारकजन्यत्वम् । अत्रादृष्टाद्वारकेतिविशेषणान्न जीवात्मनिरूपितादृष्टद्वारकजन्यत्वेन सिद्धसाधनमर्थान्तरं वा । जीवानां क्षित्याद्युपादानीभूतपरमाण्वादिगोचरापरोक्षज्ञानाभावेन तज्ज- न्यत्वे बाधाच्च तैरपि तथा । नच क्षितिघटादिसाधारणस्यैकस्य साध्यस्याभावेन स्वपदार्थान- नुगमात् कथं व्याप्तिग्रह इति वाच्यम् । स्वपदार्थाननुगमस्यादोषत्वात् । अन्यथेच्छादिना ज्ञाना- रश्मिः । परिमाणेत्यादि परिमाणं च प्रचयश्च परिमाणप्रचयौ ताभ्यामजन्यत्वे । प्रचयः शिथिलसंयोगः तज्जन्यं परिमाणं तूलकादौ । एवं च स्थलभेदेन परिमाणप्रचयसंख्याभिः परिमाणं जन्यते । कार्यत्वं प्रागभावप्र- तियोगित्वम् । एवं सति पक्षे ध्वंसे ध्वंसप्रतियोगित्वशालिस्वरूपं जन्यत्वाभावेन साध्याभाववति पक्षे तस्य लिङ्गस्य परिमाणस्य स्वोत्कृष्टपरिमाणजनकत्वनियमादेतादृशं परिमाणं नाणुपरिमाणजन्यं किंतु संख्याजन्य- मित्यशयेन दृष्टान्तमाहुः तुल्यपरिमाणेत्यादि । तथाच तादृशपरिमाणं कपालपरिमाणादुत्कृष्टत्वाभावा- त्संख्याजन्यमिति भावः। इनीति एतस्याग्रे आश्रये सिद्धे द्व्यणुकपरिमाणजनिका संख्या अपेक्षाबुद्धिजन्या, एकत्वान्यसंख्यात्वात्, अयमेकोऽयमेक इमौ द्वौ इति द्वित्वसंख्यावदित्यनुमानेऽस्मदाद्यपेक्षाबुद्धि- जन्यत्वबाधात्तदाश्रयत्वेनेश्वरसिद्धिरित्येतावत्ती त्रुटिरत्रास्ति । तेन परिमाणप्रचयाजन्यत्वे सति जन्यपरिमाणत्वादित्यनुमानेनेश्वरसिद्धावपि न क्षतिः । न च द्व्यणुकपरिमाणं परिमाणजन्यमेवास्त्विति वाच्यम् । द्व्यणुकपरिमाणं न परिमाणजन्यं, अणुपरिमाणत्वात् परमाणुपरिमाणवदित्यनुमानेन तस्य परिमाणाजन्यत्वादित्यर्थः । विशेषणादिति जन्यत्वविशेषणादित्यर्थः । जीवेति जीवश्चोपास्या- सिद्धात्मा तन्निरूपितेत्यादिः । अर्थान्तरं वेति ईश्वरसाधने यतमानस्य जीवसिद्ध्यार्थान्तरमित्यर्थः । अत्र ज्ञानलक्षणासामान्यलक्षणादि योगजधर्मैर्किंचिदुपादानगोचरत्वविवक्षणेन च तादृशज्ञानादिमतां जीवानां कर्तृत्वान्न स्वोपादानेत्यादिविशेषणेन तद्धेतुत्वनिवृत्तिः । स्वोपादानेत्यादिविशेषणप्रयोजन- माह जीवानामित्यादि । तथेति । सिद्धसाधनमर्थान्तरं वेत्यर्थः । मीमांसकस्यानादिसृष्टिवादित्वात् तद्वारणायेदमुक्तम् । अभावेनेति घटादीनां कुलालादिकर्तृत्वस्य प्रत्यक्षात् । स्वपदार्थाननुगमात् । स्वपदेन क्षित्यादिसंग्रहे दृष्टान्ते साध्यस्याभावेन घटादिसंग्रहे तु पक्षे तदभावेन पक्षनिष्ठात्यन्ताभावप्रति- योगिनः स्वोपादानेत्यादिसाध्यस्य हेतुः कार्यत्वमित्यनुपसंहारिकार्यत्वम् । तत्फलं च व्याप्तिज्ञानप्रतिबन्ध इति कथं व्याप्तिग्रह इत्यर्थः । न च तद्वन्निष्ठात्यन्ताभावप्रतियोगिसाध्यकादित्वमनुपसंहारित्वम् । एवं च स्वपदेन घटादिग्रहवेलायां पक्षस्य साध्यत्वाभावेन कथं तद्वन्निष्ठत्वमत्यन्ताभावस्येति शङ्क्यम् । स्वपदेन क्षित्यादिसंग्रहे तद्वत्त्वसत्त्वादिति । अदोषत्वादिति इच्छादिना ज्ञानानुमाने यो यदिच्छावान् स तज्ज्ञानवानित्येवं व्याप्तिग्रहे यत्तत्पदाभ्यां विवक्षितमेव गृह्यते तदेवात्र स्वपदेनोक्तमिति प्रातिस्विक- रूपेण व्याप्तिग्रहेऽपि विवक्षितत्वेन रूपेणानुगमाददोषत्वादित्यर्थः । अन्यथेत्यादि तस्य दोषत्वे, अयं 130
भाष्यप्रकाश-रश्मि-परिवृंहितम् । १३१ भाष्यप्रकाशः । दनुमानं न स्यात् । स्वविशेष्यकस्वत्वप्रकारकज्ञानत्वादिनैव तत्र कार्यकारणभावात् । अत्र च सकर्तृकत्वादिसाध्यकानुमाने कर्तृत्वेनैव कारणता, ज्ञानजन्यादिसाधके च ज्ञानत्वादिना । एवं कार्यतापि कार्यत्वेन जन्यत्वेन च । नच शरीरगौरवेणाप्रयोजकत्वं शङ्क्यम् । अवच्छेदककोटौ घटत्वादीनां प्रवेशे आनन्त्यगौरवात्, ध्वंसस्य जन्यत्वेन तस्य च जन्याभावत्वेनावच्छेदकतया प्रवेशे शरीरगौरवाच्च । एवं तु विवक्षितविवेके जन्याभावत्वैकदेशस्य जन्यत्वस्यैव प्रवेश इति शरीरलाघवात् सामान्यलाघवादेकत्वलाघवात् कल्पनालाघवादुपस्थितिलाघवाच्च जन्यत्वेनैव कार्यता, न घटत्वादिना । कार्यत्वं च स्वसमवायिजन्यताख्येन परंपरासंबन्धेन कृतित्वमे- वेति, न तत्रापि गौरवम् । नच विशिष्यान्वयव्यतिरेकाभ्यां घटत्वकुलालत्वादिना विशिष्य- कार्यकारणभावस्यावश्यकत्वात् सर्वमेतद्विरुद्धमिति वाच्यम् । कार्यमात्रवृत्तीनां जातीनां कार्य- तावच्छेदकत्वमिति सिद्धान्तसमुद्घोषात् । नवाङ्कुरादौ हेतोर्विपक्षगामित्वेनानैकान्तिकत्वं शङ्क्यम् । रश्मिः । स्वज्ञानवान् स्वेच्छावत्त्वात् देवदत्तवदित्यनुमानं न स्यादित्यर्थः । आदिशब्देन स्वेच्छावान् स्वयत्नाद् देवदत्तवत् ! स्वविशेष्येत्यादि आदिना स्वविशेष्यकस्वत्वप्रकारकेच्छात्वतादृशयत्नत्वे ग्राह्ये । अन्ये त्वेत्तद्दोषभिया स्वपदरहितं साध्यमङ्गीकुर्वन्ति तदुक्तं अत्रेत्यादि । पूर्वोक्तानुमानद्वयमध्य इत्यर्थः । सकर्तृकत्वं पर्यायत्वेनादिर्यस्य कर्तृजन्यत्वस्य तदादिसाध्यमस्मिन् अनुमाने । द्वितीयानुमान आहुः ज्ञानजन्यादीति । आदिना इच्छाजन्या कृतिजन्येति साध्यद्वयम् । एवमिति कारणतावदित्यर्थः । नन्वेवं सामान्यतः कार्यकारणभावे कार्यत्वं कृतिसाध्यत्वरूपं प्रागभावप्रतियोगित्वरूपं वा । जन्यत्वं जननशालित्वरूपं च कार्यतावच्छेदकद्वयं शरीरगौरवग्रस्तं कृतिसाध्यत्वस्य प्रागभावप्रतियोगिलरूपत्वात् । जननशालित्वस्य ध्वंसप्रतियोगित्वशालित्वरूपत्वात् । कम्बुग्रीवादिमत्त्वरूपघटत्वेन कार्यतायां लाघव- मित्याशङ्क्य निराकुर्वन्ति न च शरीरेत्यादि । आनन्त्यगौरवादिति घटत्वपटत्वादीनामानन्त्यात् कार्यतावच्छेदकानन्त्येनानन्त्यगौरवादित्यर्थः । अन्यदपि साध्य आह ध्वंसस्येत्यादि । तस्य चेति ध्वंसस्य चेत्यर्थः । अवच्छेदकतयेति साध्यतावच्छेदकतया । एवं त्विति जन्यत्वेन रूपेण विव- क्षितस्य हेतोर्विवरण इत्यर्थः । विवक्षितेति कार्यता कार्यत्वेनैव चेत्तर्हि पूर्वोक्तसाधारण्यं, तन्निवृत्त्यर्थं जन्यत्वेनैव कार्यता तर्ह्याश्रयासिद्धिः पूर्वोक्तेति तदुभयनिवृत्तये कार्यता कार्यत्वजन्यत्वान्यतररूपेण विवक्षितेति विवक्षितविवेकस्तस्मिन् । शरीरलाघवादित्यादि कार्यतावच्छेदकशरीरलाघवात् कृतित्वेन जन्यत्वेन कार्यत्वेन च कार्यकारणभावे यत्र जन्यत्वं कार्यत्वं च तत्र कृतित्वमिति सामान्य- व्याप्तिलाघवाद् घटत्वावच्छेदकानन्त्यापेक्षया सामान्यावच्छेदकैकत्वे लाघवादित्यर्थः । कार्यत्वस्य शरीरगौरवं परिहरन्ति कार्यत्वं चेत्यादि । स्वं कृतिस्तत्समवायी-आत्मा तज्जन्यत्वं यथा कार्यस्य तथा कृतेरपीति तादृशेन परंपरासंबन्धेनेत्यर्थः । विरुद्धमिति अनावश्यकत्वादसंगतमित्यर्थः । जातीना- मिति सामान्यानां धर्मांणामित्यर्थः । सिद्धान्तेत्यादि तथा च कार्यत्वेन कर्तृत्वेन सामान्यकार्य- कारणभावानङ्गीकारे कार्यमात्रवृत्तिमहापृथिवीत्वस्य कार्यतानवच्छेदकत्वप्रसङ्गेन सैद्धान्तिकनियम- भङ्गापत्तिरिति तदभावाय सोऽप्यावश्यक इत्यर्थः । विपक्षगामित्वेनेत्यादि हेतोरङ्कुरादौ साध्या- भाववद्गामित्वेन । क्षितिः कर्तृजन्या कार्यत्वादङ्कुरादिवदिति विरुद्धगर्भितसाधारणानैकान्तिकत्वमित्यर्थः । 131
१३२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० २ सू० २ भाष्यप्रकाशः। तत्र साध्यसंदेहाशान्त्याहितत्वेन तस्य पक्षसमत्वात् । नच शरीरजन्यत्वस्योपाधेर्विद्यमानत्वा- च्छरीराजन्यत्वस्य प्रतिसाधनस्य सत्त्वाच्च साध्यसंदेहाशान्त्याहितत्वेनानैकान्तिकत्वं सिद्धमिति शङ्क्यम् । कर्त्रादिजन्यतायामपि गुरुभूतस्य शरीरजन्यत्वस्यानवच्छेदकत्वाल्लघुभूतस्य जन्यत्व- मात्रस्यैवावच्छेदकत्वेन तस्य च साधनव्यापकत्वेनानुपाधित्वे हेतोरदुष्टत्वात् । एवं च कर्त्रादि- जन्यतायामिव शरीरजन्यतायामपि जन्यत्वस्यैवावच्छेदकत्वादीश्वरे नित्यज्ञानादिकमिव नित्य- शरीरवत्त्वस्याप्यङ्गीकारेण प्रतिसाधनदोषस्याप्यभावात् । अनुमानं च, क्षित्यादिकं शरीरजन्यं जन्यत्वात् घटवत् । ईश्वरः शरीरी कर्तृत्वात् कुलालवदिति । अनुकूलतर्कश्चात्र कर्तृत्वजन्यता- भ्याम
भाष्यप्रकाशः। एव सहस्रशः । एवं श्रुत्यादिभिः शरीरेऽङ्गीकृते तदनुसारिसकर्तृकत्वानुमानं निर्दुष्टमेव । एवमेके- नेश्वरेण सकलक्षित्यादिकार्यसंभवे सति प्रमाणाभावाद् गौरवाच्च नानेकेश्वरसिद्धिः । किंचानेके- श्वराङ्गीकारे तेषामैकमत्यं वैमत्यं वा स्यात् । तत्राद्ये स्वातन्त्र्याभावादैश्वर्यहानिः । द्वितीये तु कार्यासिद्धिरिति कार्यदर्शनात्, 'एकमेवाद्वितीयं ब्रह्म' इत्यादिश्रुतिभ्यस्तार्षैः पुराणैश्चैकस्यैव सिद्धि- रिति न पूर्वोक्तं किमपि दूषणम् । एवमेकेश्वरसिद्धौ कर्मत्वादिलिङ्गकान्यप्यनुमानानि तमेकमेव साधयन्तीति न कोऽपि क्वापि दोष इति मैथिलभवदेवमिश्राः । ज्ञानेन्द्रियैस्तु, बुद्धिप्रभृतिकार्यम्, उपादानगोचरप्रत्यक्षजन्यं कार्यत्वात् घटादिवत् । यदि चोपादानगोचरापरोक्षवृत्तेरेव कार्यहेतुत्वं लाघवात् । न तु चैतन्यस्य गौरवादिति । तदा तु रश्मिः। मिति धियां ज्ञानानां प्रमात्वमौत्सर्गिकं स्वाभाविकं भ्रमत्त्वादि त्वनौत्सर्गिकमित्यर्थः । पुञ्जान्मदशक्ति- वददृष्टपुञ्जात्क्षित्यादिकार्याङ्गीकारे बाधकमाह किं चानेकेत्यादि । साधयन्तीति । न चान्तिमस्ये- श्वरासाधकत्वं शङ्क्यम् । तेन द्व्यणुकपरिमाणस्य संख्याजन्यत्वे सिद्धे द्व्यणुकपरिमाणजनिका संख्याऽपेक्षा- बुद्धिजन्या एकत्वान्यसंख्यात्वात् । अयमेकः अयमेकः इमौ द्वौ इति द्वित्वसंख्यावत् इत्यस्मदाद्यपेक्षा- बुद्धिजन्यत्वबाधात्तदाश्रयत्वेनेश्वरसिद्धेः । न च द्व्यणुकपरिमाणं परिमाणजन्यमेवास्तु इति वाच्यम् । द्व्यणुकपरिमाणं न परिमाणजन्यं अणुपरिमाणत्वात् परमाणुपरिमाणवदित्यनुमानेन तस्य परिमाणाजन्य- त्वात् । मैथिलभवदेवमिश्रा इति । एवमेतेषु मतेषु कार्यत्वलिङ्गकानुमाने शरीराजन्यत्वस्य दूषणस्य प्रबलत्वात्तत्परिहारायेश्वरे सशरीरत्वमावश्यकम् । शरीरस्यापि नित्यानित्यविकल्पकृतदोषपरिहाराय श्रुत्यालम्बनमावश्यकम् । अन्यथा नैयायिकादिभिरपि न तेनेश्वरसिद्धिरिति बोध्यम् । उपादानेत्यादि प्रकृते उपादानं प्रकृत्यंशरजःसत्त्वं तत्र तद्विषयकं प्रत्यक्षं यस्य तज्जन्यमित्यर्थः । तादृशप्रत्यक्षाश्रयत्वेने- श्वरसिद्धिरिति भावः । यदि चेति उपादानगोचरापरोक्षं च तद्वृत्तिः कर्मधारयः । चैतन्यस्येति उक्तप्रत्यक्षाश्रयत्वेनाक्षेप्यस्य बहुव्रीहिप्राप्तस्य वा । गौरवादिति उपादानगोचरप्रत्यक्षाश्रयत्वस्य साध्यतावच्छेदकत्वे शरीरगौरवादित्यर्थः । अत्र विभाव्यते इति शेषः । तथा चानेनानुमानेनोपादान- गोचरप्रत्यक्षकृतिसिद्धेर्नेश्वरसिद्धिरिति भावः । कार्यहेतुत्वमिति कार्यं कार्यत्वं हेतुर्यस्येति तथोक्तम् । कार्यायोजनेति कारिकया कार्यपदं दत्तम् । यद्यपि तादृशप्रत्यक्षाश्रयत्वेनेश्वरसिद्धिरनुमानान्तरेण भवति तथापि प्रकारान्तरेण साधनायानुमानान्तरमाह तदा त्वित्यादि । न च स्वरूपासिद्धिरत्रेति वाच्यम् । उपादानगोचरप्रत्यक्षं साधिष्ठानं गुणत्वाद् रूपादिवदित्यनुमानेन तदधिष्ठानसिद्धौ तादृशाधिष्ठानं जन्यं कार्यत्वात् घटवदित्यनुमानेन तद्धारणसंभवादेवं चोपादानगोचरप्रत्यक्षपदं तादृशाधिष्ठाने गौणम् । उपादानगोचरप्रत्यक्षाधिष्ठानवृत्तीच्छाकृतिमज्जन्यत्वादिति हेतुः । वृत्तिः पदार्थान्तररूपा नात्र । नन्वेवमपि प्रकृतिसङ्घातासङ्गपुरुषे व्याप्यत्वाभिमतस्य पक्षेऽभावः स्वरूपासिद्धिः । यथा ह्रदो द्रव्यं धूमादित्यत्र ह्रदे धूमाभावः । 'अविभक्तं च भूतेषु विभक्तमिव च स्थितम्' इति गीतोक्तेः स्वरूपासिद्धिर- ध्वस्तेति चेन्न, उपादानगोचरप्रत्यक्षवृत्तीच्छाकृतिमत्त्वस्य समवायसमवाय्युपरागान्यतरसंबन्धेन विवक्षितत्वात् । न चैवमपीश्वरे हेतोः साध्याभाववद्वृत्तित्वेन साधारण्यमिति वाच्यम् । स्वरूपासिद्धि- निवृत्तिमात्रप्रयोजनकत्वेन वृत्तनियामकसंबन्धस्य तत्र साधारण्यसंपादकत्वाभावात् । व्याप्तिग्रहेह्येतावता 133
अन्ये पुनः श्रुत्यनुवादकमाहुः । सर्वज्ञत्वाय श्रुत्यनुसार्यनुमानं च ब्रह्मणि प्रमाणमिति । तत्तु, 'तं त्वौपनिषदं पुरुषं पृच्छामि' इति केवलौपनिषद्वेद्यत्वादुपेक्ष्यम् ।
भाष्यप्रकाशः । सुखादीनि सकारणकानि, उपादानगोचरप्रत्यक्षप्रवृत्तीच्छाकृतिमज्जन्यत्वात् घटादिवदित्येवं कार- णभूतसत्त्वस्य सिद्ध्यानन्तरं, तत्कारणसत्त्वं परस्य भोग्यम्, इच्छादिमत्त्वाज्जीवोपाधिवदिति कारण- सत्त्वभोक्तृतयेश्वरोऽनुमेय इत्याह । एवं चाभिनवोक्तरीत्याऽनुमानस्य श्रुत्यनुसारित्वेन प्रामाण्याद् व्यासचरणानां च श्रुत्यर्थ- निर्णयाय प्रवृत्तत्वात् सूत्रमनुमानोपष्टम्भकश्रुत्यनुवादकम् । अनुमानस्य ब्रह्मणि प्रामाण्येऽनङ्गी- कृते, यतो वेत्यादिश्रुतौ केवलं कर्तृत्वस्योक्तत्वादुपादानादिगोचरापरोक्षज्ञानवत्त्वसासिद्धेः । अङ्गी- कृ
-like shape? No, it looks like 'ऽ' (avagraha), then 'प्रे' or 'ब्रे'! Wait, or 'तमोऽप्रेतोरूपेषु' or 'तमोध्रेतो'? Actually, look at: त मो (तमस्) + अ (ऽ) + ब् (ब) + रे (रे) -> wait, no: Is it 'तमोऽब्रेतो'? Let's look at the letter: it looks like 'ग्' and 'रे' combined: 'ग्रे'? Wait, could it be a misprint in the book? Many Sanskrit presses have typos. Look at: "तमोग्रेतोरूपेष्वयतनेषु" or "तमोऽब्रेतोरूपेष्वयतनेषु"? Wait, look at the character: it has a vertical line, a loop on left, and an avagraha? Wait! Could it be 'तमोब्व्रेतो'? No, look at the top line: त - मो - [glyph] - रे - तो - रू - पे - ष्व - य - त - ने - षु The glyph has a loop like 'ऽ' or 'प्र'? Wait, let's look at L22 again: "पृथिवीरूपाकाशकामतेजस्तमोग्रेतोरूपेष्वयतनेषु" Wait, if it's 'तमोऽब्रेतो', 'ऽ' would not have a top horizontal line, but here the horizontal headline (shirorek
Here is the complete, line-by-line transcription of the page in Markdown:
कत्वेन तदानींतनस्य तस्य नित्यानित्यपुञ्जात्मकविश्वरूपरूपतया वक्तुमशक्यत्वात् । नच नित्यां- शमादाय सिद्धिः । तेषां नानात्वेन तेषु शरीरत्वस्य प्रत्येकपर्याप्त्या तद्धर्मैः सूक्ष्मत्वानवयव- त्वादिभिर्जगत्कारणप्रतिबन्धापत्तेः । नच नित्यपुञ्जात्मकमेव तदङ्गीकार्यमिति वाच्यम् । यस्य पृथिवी शरीरमित्यादौ पृथिव्यादिगंतैकत्वव्याकोपात् । 'सर्वतः पाणिपादं तत्'इत्यादिविरोधापत्तेः । सृष्टिप्रकरणेषु सच्चिदानन्दातिरिक्ततदनुक्त्या तद्विरोधापत्तेश्च । अतो मध्वादिमतीयानुमानस्यापि न श्रुत्यनुसारित्वम् । एतेनैव भैक्षवमपि दत्तोत्तरम् । प्रथमानुमानस्य नैयायिकतुल्यकक्षत्वात् । द्वितीयेऽपि प्रयोगे यदालम्ब्य सत्त्वस्य कारणत्वेन सिद्धिः क्रियते तेषु प्रकरणेषु सत्त्वस्य सर्व- कारणतया अनिश्चायितत्वेनानुमानस्याप्र
भाष्यप्रकाश-रश्मि-परिबृंहितम् । १३७
अनधिगतार्थगन्तृत्वात् प्रमाणस्य । मनननिदिध्यासनयोः श्रवणाङ्गत्वम् ।
भाष्यप्रकाशः । 'आचारदर्शनात्' इति सूत्रं तु कर्मविषये, न तु ब्रह्मविषये इति न किंचिदेतत् । अतस्तदुपेश्यमेव । ननु श्रुत्युक्तं सच्चिदानन्दात्मकं शरीरमङ्गीकृत्यानुमानदोषनिरासे दोषाभावात् कथमुपेक्ष्य- त्वमित्यत आहुः अनधीत्यादि । तथाच सिद्धसाधनत्वान्छ्रुत्युक्तसकलविशेषविषयकप्रमित्यजनक- त्वाच्चाप्रामाण्यमित्यर्थः । ननु 'मन्तव्यः' इति श्रुत्या मननं विहितम् । तच्च युक्तिभिरनुचिन्तनम् । युक्तयश्चानुमानरूपा इति श्रुत्यनुकूलानुमानस्य प्रामाण्यं श्रुत्यैव सूच्यत इति कथं पूर्वोक्तमतस्योपे- क्ष्यत्वमुच्यत इत्याशङ्कायामाहुः मननेत्यादि । तथाच मननादेरङ्गत्वबोधनादनुमानादेः सहका- रित्वं न निवार्यते, किंतु करणत्वमतस्तदंशे उपेक्ष्यत्वम् नच सर्वज्ञत्वासिद्धिः । विपश्चिच्छ्रुतेः 'यः सर्वज्ञः सर्ववित्' इति श्रुत्यन्तरान्न तन्सिद्धेरिति 'उपपत्तेश्च' इत्यादिसूत्रेष्वप्यत एव
रश्मिः । संभवेन मूलरूपत्वसाधनेऽप्रयोजकत्वात् । अतस्तदिति नैयायिकतुल्यत्वाद् भैक्षवमपीत्यर्थः । शरीरमिति आनन्दस्याकारसमर्पकत्वान्नथा । सिद्धसाधनत्वादित्यादि श्रुतिसिद्धानां साधन- त्वाद्धेतुष्वनुमानानां च श्रुत्युक्तसकलविषयकप्रमित्यजनकत्वाच्चाप्रामाण्यमत् उपेक्ष्यत्वमित्यर्थः । इदं च लक्षणं वाक्यमात्रप्रामाण्यापेक्षं तेन गगनकुसुममित्यादौ वाक्येऽप्रमाणे नातिव्याप्तिः । तेनेश्वरसिद्धध- धीनं वेदप्रामाण्यं वेदप्रामाण्याधीनेश्वरसिद्धिरित्यन्योन्याश्रयोपि व्याख्यातः । आप्तोक्तं वाक्यं प्रमाण- मितिलक्षण एव तत्प्रसरात् । प्रमाणेण शब्देन श्रोत्रेण वानधिगतस्य स्वर्गादिसाधनत्वस्य यागादाव- र्थस्य गन्तृत्वमर्थविषयकप्रमाकरणत्वात् प्रापकत्वम् । न चैवं वैयाकरणव्युत्पत्तिविरोधः । प्रमीयते अनेनेति प्रमाणमिति करणे ल्युट् । ननु प्रमाकरणं प्रमाणमिति प्रसिद्धलक्षणं कुतो नादृतम् । अन्यो- न्याश्रयान्नादृतमिति चेद्धारण्या वृत्त्यानुगमिष्यतीति चेन्न । तस्य व्याकरणादिप्रसिद्धत्वेऽपि 'परोक्षवादो वेदोयम्' इति 'परोक्षं च मम प्रियम्' इति च कथनादनधिगतार्थस्य परोक्षत्वात् । न च फलांशे परोक्षवादो यथा 'स्वर्गकामो यजेत' इत्यत्रात्मसुखमादाय स्वर्गपदेऽर्थ इति वाच्यम् । निबन्धटीकाया विष्णुस्वामिमतीत्याद् एतत्सैकादशसुबोधिनीमतत्वादोम् । मननमित्यादीति श्रुतौ श्रवणं नाम भगवद्वाचकपदवाक्यानां ब्रह्मणि शक्तितात्पर्यनिर्धारः । स च मनननिदिध्यासने विना न संभवतीति श्रवणाङ्गत्वं निदिध्यासनद्वारा मननस्येत्यर्थः । अथवा मनननिदिध्यासननिरूपितं श्रवणस्याङ्गत्वम् । स्मरणं हि मननं श्रुतस्य भवतीति श्रवणमननयोः कार्यकारणभावबोधकस्मर्यमाणसूत्रभाष्यात् । [L24
१३८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० २ सू० २ संदेहवारकत्वाच्छास्त्रस्यापि तदङ्गत्वमिति ॥ २ ॥ इति प्रथमाध्याये प्रथमपादे द्वितीयं जन्माद्यधिकरणम् ॥ २ ॥ भाष्यप्रकाशः। तन्निर्देशो, न तु करणत्वेनेत्यर्थः । एतदेवोपकारकत्वं स्मृत्यादिष्वपीत्यतिदिशन्नाहुः संदेहेत्यादि । तदङ्गत्वमिति मननाङ्गत्वम् । अत एव, 'स्मृतेश्च' इत्यादि सूत्राणि । 'इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् । बिभेत्यल्पश्रुताद्वेदो मामयं चालयिष्यति' ॥ ॥ इत्यादिवाक्यानि च । एतस्यैव निष्कर्षो निबन्धे उक्तः । 'वेदाः श्रीकृष्णवाक्यानि व्याससूत्राणि चैव हि । समाधिभाषा व्यासस्य प्रमाणं तच्चतुष्टयम् । उत्तरं पूर्वसंदेहवारकं परिकीर्तितम्' ॥ इति । तथाच संदेहवारकतया कल्पसूत्रवद् व्याख्यानरूपत्वान्नानुवादकत्वमित्यर्थः । कारिकार्थस्तु तद्विवरणग्रन्थाद् बोध्यः । इति द्वितीयं जन्माद्यधिकरणम् ॥ २ ॥ एवं जिज्ञास्यस्य ब्रह्मणो लक्षणं तत्र प्रमाणं च निर्णीय तस्य किं ब्रह्मणः कारणतामात्रे तात्प- र्यमुत तद्विशेषविशिष्टायां तस्यामिति संशयमनपनेतुमग्रिमधिकरणमित्याशयेन तदवतारयन्ति रश्मिः। त्त्वादेव युक्तिनिर्देश इत्यर्थः । स्मृत्यादिष्विति । आदिशब्देन मीमांसा । तदङ्गत्वमिति शास्त्रस्य मीमांसारूपस्यापि श्रवणाङ्गत्वं भाष्यात् । अपिशब्देनेतिहासपुराणे । तत्पक्षे तदङ्गत्वपदार्थमाहुः मनना- ङ्गत्वमिति । स्मृतेश्चेति इमानि सूत्राणि द्वितीयपादे वक्ष्यन्ते, स्मृतिर्मीमांसारूपाणि । चैव हीति चकारेण जैमिनिस्मृतिः । संदेहेत्यादिभाष्यनिष्कर्षमाहुः तथा चेत्यादि । नानुवादकत्वमिति स्मृति- शास्त्रस्य जन्मादिसूत्रस्य वा नानुमानोपष्टम्भकश्रुत्यर्थानुवादकत्वमित्यर्थः । तद्विवरणेत्यादि तत्वदीपा- दावरणभङ्गेत्यर्थः । तत्र ननु चतुर्णां कोपयोगः एकेनैव चरितार्थत्वाल्लाभेत्याशङ्क्याहुः उत्तरमित्यादि उत्तरोत्तरं पूर्वपूर्वस्य संदेहवारकं प्रकर्षेण कीर्तितम् । यथा 'अपाणिपादो जवनो ग्रहीता' इत्यत्र किं प्राकृतपाणिरहितं ब्रह्म आहोस्वित् सामान्यनिषेध इति संदेहे सर्वतःपाणिपादान्तमित्यादि गीतावाक्यं निर्णायकं, तथा गीतायां 'नित्यः सर्वगतः स्थाणुः' 'ममैवांशो जीवलोके' इत्यादिषु संदेहे सूत्रैर्निर्णयः । 'उत्क्रान्तिगत्यागतीनाम्' इत्यादिभिः । तथा 'जन्माद्यस्य यतः' इति संदेहे 'अन्वयव्यतिरेकः' इति भागवतेन, निर्णय इति तत्वदीपे । उत्क्रान्त्यादिसूत्रैरंशत्वनिर्णयः अन्वयव्यतिरेकत इति । श्रीभाग- वतवाक्ययोः 'अन्वयव्यतिरेकाभ्यां यत्स्यात् सर्वत्र सर्वदा' 'समन्वयेन व्यतिरेकतश्च' इति द्वितीयैका- दशस्थयोरर्थकथनम् । तथाचैतयोर्वाक्ययोर्जन्मादिसूत्रे शबलस्य ब्रह्मणो वा कार्यलक्षणमिति संदेहे निर्णायकत्वमित्यावरणभङ्गे । 'जन्माद्यस्य यतोन्वयादितरतः' इति वाक्यमपि संगृहीतुं शक्यम् । तदुक्तं कौर्म्ये 'न च वेदादृते किंचिच्छास्त्रं ब्रह्माभिधायकम्' इति । ॥ इति द्वितीयं जन्माद्यधिकरणम् ॥ २ ॥ प्रसङ्गसंगत्या हेतुतासंगत्या वाधिकरणमवतारयन्ति एवमित्यादि । तस्येति लक्षणस्येत्यर्थः । तद्विशेषेत्यादि तद्विशेषः समवायित्वनिमित्तत्वकर्तृत्वरूपस्तद्विशिष्टायां कारणतायामित्यर्थः । 138
तत्रैतत् स्यात् । तत्र किं समवायि निमित्तं कर्तृ वा । किमतो यद्येवम् । एवमेतत् स्यात् । यद्येकमेव स्यात् तदा क्रियाज्ञानशक्त्योर्निरतिशयत्वं भज्येत । मृदादिसाधारण्यं च स्यात् । मतान्तरवत् कथमेवं संदेहो यावता, 'यतो वा इमानि'इत्यादिभ्यो निःसं- देहश्रवणात् । एवं हि सः । पञ्चमी श्रूयते यत इति । पञ्चम्यास्तंसिल्लिति । आत्मन इत्यपि पञ्चमी, निमित्तत्वे न संदेहः । पञ्चम्या निमित्तत्वकथनात् । उपादानत्वे भाष्यप्रकाशः । तत्रैतत् स्यादित्यादि संदेहवारकेऽस्मिञ्छास्त्रे वक्ष्यमाणं विचार्य स्यात् । तदाहुः तत्र किमित्यादि । तत्रेति श्रुतौ । मम तु तदिति प्रथमान्तपाठेऽत्र प्रतिभाति । चोदयति किमतो यद्येवमिति । कारणतामात्रादरेणैव जगत्कारणीभूतब्रह्मप्रमित्या प्रमाणसाफल्ये जाते पुनः संशयपङ्कं निपात्य तन्निरसनार्थकात् प्रयासात् किं फलान्तरं संपाद्यमित्यर्थः । तत्रोत्तरमाहुः एवमेतत् स्यादिति । वक्ष्यमाणेन विचारेण वक्ष्यमाणदोषनिवृत्तिरूपं फलं सादित्यर्थः । तदुपपादयन्ति यद्येकमित्यादि । यदि कारणतामात्रादरेण प्रमितेः पूर्तिरङ्गीकार्या तदैकं निमित्तादिषु वक्तव्यम् । तत्र यदि दण्डादिवन्निमित्तं, यदि वा प्रयोज्यवत् कर्तृ, तदा यथा- यथं क्रियाशक्तेर्ज्ञानशक्तेश्च निरतिशयत्वभङ्गः । दण्डाद्यपेक्षया कर्तरि क्रियाशक्तेः प्रयोज्या- पेक्षया प्रयोजके ज्ञानशक्तेराधिक्यदर्शनात् । यदि मृद्वत् समवायित्वं, यदि वा कुलालादिवत् कर्तृत्वं, तदा तत्साधारण्यं, विकृतत्वमनाप्तकामत्वं चेति । तथाचैतद्दोषनिरासः फलमित्यर्थः । अत्र चोदयति मतान्तरवदित्यादि सांख्यन्यायादिरूपस्य मतान्तरस्य स्मृतिरूपत्वात् तज्जन- कानुभवे दुष्टत्वस्य संभावितत्वात् तत्रोचितः संदेहः । अत्र तु तदभावान्न तस्य संभावनेत्यर्थः । संदेहोत्पत्तिप्रकारमाहुः एवमित्यादि । निमित्तत्वकथनादिति 'विभाषा गुणेऽस्त्रियाम्' इत्य- त्राकारप्रश्लेषे अगुणादपि हेतोः पञ्चम्यङ्गीकृता । यथा धूमाद् वह्निमानित्यादौ । एवं प्रकृतेऽपि रश्मिः । सामानाधिकरण्येऽन्वयसौष्ठवादाहुः मम त्वित्यादि । कर्तुरपि निमित्तत्वेन पृथङ्निर्देशानुपपत्तिमाशङ्क्य तयोर्भेदसाधनायाहुः तत्र यदीत्यादि । 'स्वंतत्रः कर्ता' 'साधकतमं करणम्' इति लक्षणभेदात् कर्ता करणं हेतुरिति संज्ञाभेदात् कारकपञ्चकत्वापत्तेश्च कर्ता पृथक् । न च गौरवमिति शङ्क्यम् । 'शिक्षा कल्पो व्याकरणम्' इतिश्रुतेर्नैयायिकलाघवस्यानुक्तत्वादसमवायिकारणस्य निमित्तत्वाच्च । मृदादीत्यादि भाष्यमवतारयन्ति यदि मृदित्यादि । साधारण्यमेवाहुः विकृतत्वमित्यादि । एतद्दोषेति मृत्कुला- लादिसाधारण्यदोषनिरास इत्यर्थः । मतान्तरेति भाष्यं देहलीप्रदीपन्यायेनोत्तरत्रापि मतान्तरे ब्रह्मणि विकृतत्वाद्यनङ्गीकाराद् दृष्टान्तः परत्रेति मतान्तरवत्कथमित्यादि चोदकं भाष्यमित्याशयेनावतारयन्ति अत्रेत्यादि । स्मृतिरूपत्वादिति लोकप्रमितार्थान् स्मृत्वा युक्त्या यथाबुद्धि संशोध्य शास्त्र- प्रणयनेन तथात्वादित्यर्थः । संभावितत्वादिति करणदोषेण बुद्धिदोषरूपेण तथात्वादित्यर्थः । तदभावादिति श्रुत्यवलम्बनान्मानसीनानुग्रहेण चक्षुरादिकरणे दोषाभावादित्यर्थः । [ वस्तुतस्तु सांख्यमते प्रकृतेरिव ब्रह्मणोऽपि विकृतत्वापातः इति मतान्तरवदिति भाष्यं यथाश्रुतमेव साधीयः ] 'भाष्ये । श्रूयत इति सूत्रविषयवाक्ययोः श्रूयते इत्यर्थः । प्रकृते । अकारेत्यादि । इदं च बाहुलकं १. तदितीति । 139