भारतकोश
संग्रह पर लौटें

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ
  1. Āchārya Madhva 364 223
  2. Āchārya Nimbārka 549 161
  3. Āchārya Vallabha 554 171 Thus, as shown by Jagadguru Śrīmad Āchāryacaraṇa, sākāra-brahma-vāda, variously called ‘Śuddhādvaita-brahma- vāda-nirguṇa-puṣṭi-bhakti-mārga’ is the only true system; there is no difference of opinion on this. As shown by Śrīmad Āchāryacaraṇa and by Śrīmad Prabhucaraṇa, only by His grace, following his line of thought, this Introduction to Śrīmad Brahmasūtra Aṇubhāṣya, along with the Prakāśa and Raśmi on that, was written by me. Let scholars, without inhibitions, correcting the mistakes that might have occurred during its delineation, read this and grace me. Thanks: By the supreme grace of Bhagavān Śrī Mukunda Prabhu and Śrī Gopāla Prabhu, who was brought up in the laps of Śrī Yaśodā, and who was Śrī Gopījanavallabha, this deep philosophical treatise called the Aṇu Bhāṣya-Prakāśa-Raśmi – the Triveṇī confluence is being re-printed by Śrī Harish Chandra with his body, soul, and money; by Śrī Saroj Kumar Goel (residents of Delhi) and by Śrī Dev Kumar Agrawal, Śrī Ghanaśyāmajī Shah, the superior Vaiṣṇavas (residents of Kāśī) deserve all the commendations. (Translated by Śrī Bhāṣyāchārya, Vidvad-Uttama Prof. Sampannārāyaṇāchārya, Nyāya-Mīmāṁsā-Vedānta Vidvān, Vedānta Śiromaṇi). xliv

Abbreviations Aśvi. kṛ. - Āśviṇa Kṛṣṇa A. Bh. ka - Aṇu Bhāṣya Kārikā Br. Su. - Brahmasūtra Bha. Śu. - Bhādrapada Śukla Br. Vai. pu. - Brahma Vaivarta Purāṇa Bhāga. - Śrīmad Bhāgvata Ch. Upa. - Chāndogya-Upaniṣad Kaṭho. - Kaṭhopaniṣad Mi. Pau. kṛ - Mithuna Pauṣa Kṛṣṇa Mi. Asa. Śu. - Mithuna Āṣāḍha Śukla Sā. pra. kā. - Śārīraka-prakāśa Kārikā Vi. pu. - Viṣṇupurāṇa Vi. Sam - Vikrama Samvat xlv

The provided image is completely blank and contains no text to transcribe.

श्रीकृष्णाय नमः । श्रीमद्ब्रह्मसूत्राणुभाष्यम् । शुद्धाद्वैतब्रह्मवादिनिर्गुणभक्तिमार्गप्रवर्तकाचार्यचक्रचूडामणि- श्रीमद्वल्लभाचार्यचरणप्रणीतम् । दशदिगन्तविजयिश्रीमद्गोस्वामिश्रीपुरुषोत्तमचरणप्रणीत- भाष्यप्रकाशसंपूर्णवेष्टितश्रीमद्गोस्वामिश्रीगोपेश्वर- जिचरणप्रणीतभाष्यप्रकाशरश्मिपरिवृंहितम् । उपोद्घातः 'भगवद्धर्मपरायणशेठगणेशगोवर्धनदास सुन्दरदास' इत्यस्य पुष्टिमार्गीय- संस्कृतसाहित्यसमुद्धारार्थं निर्दिष्टद्रव्यखर्चतः 'प्रातःस्मरणीय- मूलचन्द्र तुलसीदास तेलीवाला, बी. ए., एलएल. बी., वकील, हाइकोर्ट' इत्येतेषां सुहृद्भिः संशोध्य 'निर्णयसागर' मुद्रणालये मुद्रयित्वा प्रकटीकृतम् । श्रीवल्लभाब्दाः ४५७. संवत् १९९२.

॥ श्रीमन्मुकुन्दरायो जयति ॥ ॥ श्रीगोपाललालो जयति ॥ ॥ श्यामः सदा दीव्यतु मानसे मे ॥ उपोद्घातः षष्ठपीठाधीश्वर गोस्वामी श्री श्याममनोहरजी महाराज (काशी), वाराणसी प्राकृतधर्मानाश्रयमप्राकृतनिखिलधर्मरूपमिति । निगमप्रतिपाद्यं यत्तच्छुद्धं साकृतीस्तीमि ॥ (सर्वोत्तमस्तोत्रे) अत्र श्रीमद्विट्ठलेशप्रभुचरणाः सर्वोत्तमस्तोत्रे श्रीमदाचार्याणामलौकिकनामानि प्रकटयन्तः स्वरचित-वल्लभाष्टकग्रन्थे स्वाचार्यस्वरूपं निरूप्य समापने “निखिलबुधजनाः गोकुलेशं भजन्ते” इत्यादिना जगद्गुरुश्रीमद्वल्लभाचार्याणां पूर्णपुरुषोत्तमत्वं निरूप्य सप्तश्लोक्यां तद्गुणान्निरूपयन्ति । अत्र श्रीमत्प्रभुचरणास्तु श्रीमद्वल्लभाचार्यचरणार्जितशुद्धाद्वैतब्रह्म- वादनिर्गुणपुष्टिमार्गखण्डसाम्राज्यसिंहासनसमधिरूढाः अखिलं ब्रह्माण्डं सम्बोधयन्तः श्रावयन्ति — क्वचित्पाण्डित्यं चेन्न निगमगतिः साऽपि यदि न क्रिया सा साऽपि स्याद्यदि न हरिमार्गे परिचयः । यदि स्यात्सोऽपि श्रीब्रजपतिरतिर्नेति निखिलै- र्गुणैरन्यः को वा विलसति विना वल्लभवरम् ॥ अत्र गुणान्निरूपयन्तः सर्वाधिकासाधारणाखिलगुणाश्रयत्वमाहुः क्वचिदिति । पाण्डित्यं नाम पण्डा बुद्धिर्य्यस्येति । अर्थात् आगन्तुकानागन्तुकबुद्धिमान् हि पण्डितः तस्य भावः पाण्डित्यम् । तात्पर्यं बौद्धनैयायिकादौ पाण्डित्ये सत्यपि न निगमगतिः नाम वेदानुकूला गतिर्नास्तीति भावः । बुद्धेन तद्दूषणात् । कदाचित् साऽपि नाम, निगमगतिरपि पाण्डित्येन सह भवेत्तदापि वेदोदिता चरणरूपा, निगमाभिमता क्रिया नेति । पाण्डित्यनिगमगतिसहिता क्रियाऽपि श्रीमच्छङ्कराचार्यप्रतिपादिताद्वैतसिद्धान्ते व्यावहारिकसत्तया यदि स्यात्तदाऽपि न हरिमार्गे परिचयः । तेषां भगवच्छास्त्रे अप्रवृत्तत्वात् । “धर्मः स्वनुष्ठितः पुंसां विष्वक्सेनकथासु यः । नोत्पादयेद्यदि रतिं श्रम एव हि केवलम्” तथा च “नैष्कर्म्यमप्यच्युतभाववर्जितं न शोभते ज्ञानमलं निरञ्जनम्” इत्यादि वाक्याद्धरिमार्गपरिचयाभावात्तद्वैफल्यमिति। ननु पूजादिमार्गानुवर्तिनः बहवः निगमगतिक्रियासहिताः सन्तः विद्वांसः सन्तीति चेत् सत्स्वपि तेषु न ब्रजपतिरतिः । ते तु तद्विभूतिरूपस्य परम्परया तद्रूपत्वं प्रतीकत्वेनादाय पूजादिकं विदधति न साक्षाद् ब्रह्मणः स्नेहात्मिकां सेवां कुर्वन्ति । वस्तुतस्तु “तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते” इति श्रुतेः प्रतीकमेवतत् अतः पूज्यस्य विभूतित्वेनाज्ञानात् तत्र xlvii

स्नेहात्मिकायाः सेवाया अभावान्न व्रजपतिरतिः । साक्षाद्ब्रह्मत्वं तु व्रजपतेरेवेति। "परं ब्रह्म तु कृष्णो हि" इत्याचार्यवाक्यात् । अतः निखिलैरेतैर्गुणैस्समल-ङ्कृतादाचार्यवल्लभादितरः कः न कोऽपीत्यर्थः। एतादृशानां श्रीवल्लभाचार्यचरणानां ग्रन्थाः बहवः सन्ति । तत्र सर्वोत्तमो ग्रन्थोऽणुभाष्यमेव । अस्मिन् भाष्ये व्याससरणिमाश्रित्य तदनुसारेणैव शुद्धाद्वैतब्रह्मवाददर्शनस्य स्थापनं कृतमाचार्यैरिति । दर्शनं हि नाम अपरोक्षं ज्ञानं साक्षात्कारो वा। तच्च द्विविधम्। आस्तिकदर्शनं नास्तिक- दर्शनञ्चेति । तत्र आस्तिकदर्शनं मुख्यत्वेन षड्विधम्- 'सांख्यपातञ्जलपूर्वमीमांसो- त्तरमीमांसातर्कन्यायभेदेन। तत्र सांख्यं कापिलं श्रीभागवतोक्तम् । पातञ्जल योगशास्त्रम् । पूर्वमीमांसा जैमिनि कृता । उत्तरमीमांसा कृष्णद्वैपायनव्यासकृता, चतुरध्यायात्मकं ज्ञान- काण्डम् । तर्कः कणादकृतः वैशेषिकम् । न्यायः गौतम प्रणीतम् न्यायशास्त्रम् । तथा च नास्तिक दर्शनमपि षड्विधम्-चार्वाकसौत्रान्तिकवैभाषिकयोगाचारमाध्यमिकार्हतभेदात् । अत्रास्तिकदर्शनान्तर्गतोत्तरमीमांसायाः प्रकृतविषयत्वात्प्रकृतमनुसरामः। उत्तरमीमांसा- वेदान्त दर्शनम् । तत्र वेदान्तोपजीव्येषु नानामतेषु पञ्चैव प्रमुखाः ते च केवलाद्वैतविशिष्टाद्वैत- द्वैतद्वैताद्वैतशुद्धाद्वैताख्याः सिद्धान्ताः। तत्र केवलाद्वैत दर्शनं शङ्करावतारैराचार्यशंकरैः प्रणीतम् । विशिष्टाद्वैतदर्शनं शेषावतारैराचार्यरामानुजैः कृतम् । द्वैतदर्शनं वाय्ववतारैः आचार्यमाध्वैः रचितम् । द्वैताद्वैतदर्शनं हंसावतारैराचार्यनिम्बार्कैः प्रणीतम् । शुद्धाद्वैत- दर्शनं वेदव्यासमतानुवर्तिभिः श्रीभगवन्मुखावतारैः वैश्वानरावतारैश्च भगवद्भिः श्रीवल्लभाचार्य- प्रकटितम् । अत्र शुद्धाद्वैतं नाम किमिति प्रश्ने — शुद्धाद्वैतपदे ज्ञेयः समासः कर्मधारयः । अद्वैतं शुद्धयोः प्राहुः षष्ठीतत्पुरुषं बुधाः ।। मायासम्बन्धरहितं शुद्धमित्युच्यते बुधैः । कार्यकारणरूपं हि शुद्धं ब्रह्म न मायिकम् ।। (शु.मा.श्लो. २७/२८) अत्र शुद्धं च तदद्वैतं चेति कर्मधारयः । शुद्धयोरद्वैतमिति षष्ठीतत्पुरुषो वा बोध्यः। अत्र मायासम्बन्धरहितत्वकथनेन मायाशबलितं ब्रह्म जगत्कारणमिति न, अपि तु शुद्धब्रह्म एव जगत्कारणमिति तात्पर्यम् । सिद्धान्ते मायाया अपि "मम माया दुरत्यया" (गी. ७।१४) इत्यादि वाक्याद्भगवच्छक्तित्वेनोक्तत्वान्नास्त्यत्र परमतवन्मायासम्बन्धः । अत्रैव कार्यकारणविचारे शांकराः घटपटाद्यात्मकं जगन्मायिकमत एव नश्वरमिति मन्यन्ते । एतेषां मते प्रपञ्चस्य मायिकत्वेन तस्य कारणस्यापि तादृशत्वनैव भवितव्यमिति, कारणसजातीयत्वात्कार्यस्येति । एवं प्रपञ्चं मायिकमित्युक्त्वा जीवो ब्रह्मैवेति ते साधयन्ति । तन्निराकरणार्थमाचार्यैः निबन्धे उक्तम् - "प्रपञ्चोभगवत्कार्यः" तत्प्रकाशे च "अयं प्रपञ्चो xlviii

न प्राकृतः । नापि परमाणुजन्यः। नापि विवर्त्तात्मा । नाप्यदृष्टादिद्वारा जातः । नाप्यसतः सत्तारूपः । किन्तु भगवत्कार्यः । परमकाष्ठापन्न वस्तु कृतिसाध्यः ।" अतः शुद्धस्यैव ब्रह्मणः जगतः कारणत्वमिति सिद्धान्तः। ननु शुद्धब्रह्मणः "निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्" "इन्द्रोमायाभिः पुरुरूप ईयते" "वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्" "अथात आदेशो नेति नेति" इत्यादिभिः प्रमाणैः निर्विशेषत्वेन श्रुतिषु प्रतिपादनात् शुद्धब्रह्मणः जगत्कारणत्वं न संगच्छते । शुद्धब्रह्मणः जगत्कर्तृत्वस्वीकारे तु तस्य सगुणता स्यादतो विवर्तवादमतमवलम्ब्य सविशेषश्रुतीनां निर्वाह उपजीव्यत्वन्यायेन कर्तव्यः तेन ब्रह्मणि वास्तवं कर्तृत्वं न स्यात् सविशेष श्रुतीनां वैय्यर्थ्यमपि न स्यादिति । एवम् उपनिषत्सु सविशेषश्रुतीनां निर्विशेषश्रुत्युपजीव्यत्वन्यायेन ग्रहणम्। श्रुतिर्हि शब्दः। निर्धर्मकस्य तस्य ब्रह्मणश्च शब्देन निरूपणमशक्यम् । तत्र च धर्मभावात्तन्निरूपणमभावमुखेन क्रियते श्रुतिषु । पूर्वं धर्मान्निरूप्य ततः अस्थूलादि वाक्यैर्धर्मान्निषेधति श्रुतिः। अभावस्य प्रतियोगिनिरूपणाधीननिरूपणत्वात्। एवं प्रथमं "द्वे वाव ब्रह्मणो रूपे मूर्त्तं चैवामूर्त्तं च" इति विशेषं निरूप्य ततः "अथात आदेशो नेति नेति" इति निषेधति । अत्र ब्रह्मणि श्रुतिभिः कल्पितानां विशेषाणां शुक्तिरजतवदविद्याकल्पितत्वात्तव मते तु (मायावादिमते तु) सृष्टिनिरूपकाणि वाक्यान्यसंगतानि स्युरिति । अत्र मायावादी कथयति - नन्वस्ति अध्यारोपापवदलक्षणा संगतिः। शुद्धब्रह्मणः दुर्ज्ञेयत्वेन तज्ज्ञापनाय जगज्जन्मादिकं प्रतिपाद्य उपासना द्वारा औपाधिके ब्रह्मणि बुद्धौ सिद्धायां शाखाऽरुन्धतीन्यायेन पूर्वपूर्वश्रुत्यनुभवबाधःसानामुत्तरोत्तरनिर्विशेषश्रुत्यनुभवबलात्तत्तन्निराकरणपूर्वकसूक्ष्मातिसूक्ष्म- तुरीयचैतन्यस्वरूपावबोधनेन पूर्वोक्तं मायिकमपोह्य निर्विशेषं ब्रह्म पश्चाद्बोध्यते स एवात्माऽद्वितीय एकः उपाधिना बहुधा भासते । एवमौपाधिकस्यैव ब्रह्मणः जगतः कारणत्वं नान्यस्येति । जगतः मायाकार्यत्वात् कार्यस्य तुच्छत्वेन तत्कारणेनाऽपि तुच्छत्वेन भाव्यम् । कारणसजातीयत्वात्कार्यस्येति चेन्मैवम् - अभेदादनुपाधित्वाज्जगदप्रत्ययाप्तितः । सर्वाधारत्वतस्तावच्छक्तित्वाञ्चास्य बाधनम् ।। (विद्व. ३. का.) अत्र अभेदादिति । सविशेषनिर्विशेषयोर्भेदाभावादिति। अनुपाधित्वादिति। ब्रह्मणः उपाधिरेव नास्तीत्यर्थः। सर्वाधारत्वतः। सर्वविरुद्धधर्माश्रयत्वादिति । तथा च सविशेषनिर्विशेषश्रुतिवाक्ययोः श्रुतित्वाविशेषात्रैकतरबाधो युक्तः अप्रामाण्यापत्तेः। तथा हि । ब्रह्म श्रुत्येक समधिगम्यं न तु प्रमाणान्तरगम्यम् । सिद्धान्ते च सर्वासां श्रुतीनामविकलं प्रामाण्यम् । "ब्रह्म पुनर्यादृशं वेदान्तेष्ववगतं तादृशमेव मन्तव्यं, अणुमात्रमन्यथा कल्पनेऽपि दोषः स्यात्" इत्याचार्यवचनात् । "योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते किं तेन न xlix

कृतं पापं चौरेणात्मापहारिणा" "नैषा तर्केण मतिरापनेया" इत्यादि श्रुतेश्च। अतः "स हैतावानास" "तदात्मानं स्वयमकुरुत" "आत्मैवेदं सर्वं" "यतो वा इमानि भूतानि जायन्ते" इत्यादि श्रुतीनाम्। "जन्माद्यस्य यतः शास्त्रयोनित्वात्" "तत्तु समन्वयात्" इत्यादि सूत्राणाम्। "अहं सर्वस्य जगतः प्रभवः प्रलयस्तथा" "जन्माद्यस्य यतोन्वयादितरतः" इत्यादिस्मृतिप्रमाणैः शुद्धब्रह्मण एव सर्वकर्तृत्वं सर्वभोक्तृत्वम् "अत्ता चराचर ग्रहणात्"। तत्कर्तृत्वं स्वाभाविकमेव न तु शाङ्करमतवन्मायिकमिति । "स एकाकी न रमते स द्वितीयमैच्छत्" इति श्रुतेः "क्रीडार्थमात्मन इदं त्रिजगत् कृतं ते" इति स्मृतेश्च ब्रह्मैव रमणार्थं जगद्रूपेणाविर्भूय तत्र लीलां करोति, स्वयं च अविकृतमेव सत् परिणमते । तत्र दृष्टान्तः कामधेनुचिन्तामणिकल्पवृक्षप्रभृतयः स्पष्टाः। "प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्" (१।४।२३) इति सूत्रात् ब्रह्म एव जगतः निमित्तसमवायिकारणमिति। "यथा एकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातं भवति" अत्र अलीकत्वनिवारणाय "मृत्तिकेत्येव सत्यमिति" उक्तम्। अतः प्रपञ्चो भगवत्कार्यः न तु मायाकार्यः। किन्त्वत्र केचिन्मुग्धाः संसारप्रपञ्चयोः भेदज्ञानशून्याः संसारं प्रपञ्चं च एकमेव मन्यमानाः संसारेण सह प्रापञ्चिकं जगदपि मायाकार्यं कथयन्तः मिथ्या मन्यन्ते तन्नयुक्तम् — प्रपञ्चो भगवत्कार्यस्तद्रूपो माययाऽभवत् । तच्छक्त्याऽविद्ययात्वस्य जीवसंसार उच्यते ।। (त.दी.नि. शा.प्र. २७) इत्यत्र प्रकाशे "अविद्ययेति। अविद्यापि तच्छक्तिः। मुख्यासु द्वादशशक्तिषु गणनात् । श्रियापुष्ट्या गिरेति वाक्यात् । एवं सति "स वै नैव रेमे, तस्मादेकाकी न रमते स द्वितीयमैच्छत्, स हैतावानासेति" श्रुतौ रमणार्थमेव प्रपञ्चरूपेणाविर्भावोक्तेर्वैचित्र्यं विना तदसम्भ्वो यतः। तस्माद्धेतोरस्य भगवतः शक्त्या अविद्यया जीवस्य संसार उच्यते न तु जायते। अभिमन्यात्मकत्वात् । असत्त्वेनास्य गणनात्। अज्ञानं भ्रमः असदित्यादिशब्दा अहं ममेति रूपे संसार एव प्रवर्तन्ते, न तु प्रपञ्च इत्यर्थः। तस्य ब्रह्मात्मकत्वात्।" अतः सिद्धान्ते "तदनन्यत्वमारम्भणशब्दादिभ्यः" (ब्र.सू. २।१।१४) इति सूत्र न्यायेन जगतो ब्रह्मणश्चाभेदः। प्रापञ्चिकजगतः मायिकत्वं नास्ति किन्तु ब्रह्मणः आधिभौतिकस्वरूपं जगत्, ब्रह्मणः आध्यात्मिकं स्वरूपमक्षरब्रह्म, तथैव आधिदैविकं स्वरूपं परब्रह्म। एवमनेन प्रकारेण ब्रह्म जगतोरनन्यत्वमिति । कार्यस्य कारणानन्यत्वं, मिथ्यात्वं न भवति । अतः एकस्यैव शुद्धब्रह्मणः आधाराधेयत्वं कारणकार्यत्वादिकं स्वीकर्तव्यम्। तथा च मायावादिमते तु भगवान्व्यासः "अथातो ब्रह्मजिज्ञासा" इति निर्गुणनिराकारब्रह्मविषयकजिज्ञासां प्रतिज्ञाय "जन्माद्यस्येत्यादि सूत्रैर्जगत्कर्तृत्वविशिष्टं ब्रह्म प्रतिपादयति । अतः भवद्विवक्षित- निर्विशेषब्रह्मजिज्ञासाप्रतिज्ञानन्तरं सविशेषब्रह्मप्रतिपादनात् व्यासप्रतिज्ञाहानिरूपमहान्दोषापत्तिः, सूत्रेषु च कृतहान्यकृताभ्यागमदोषप्रसङ्गः। तथा चाविद्योपाधिस्वीकारे अविद्याब्रह्मणोरुपाध्युपाधेय- योरुभयोरनादित्वेनोपहितस्याप्यनादितया तादृशमायोपहितस्यैव च त्वन्मते कर्तृत्वेन स्वीकारादनवरतं सर्ग एव स्यान्न प्रलयः कदाचन । 1

तथा चात्र मायावादी प्रष्टव्यः। यद्भवताऽत्र एतादृशी मायिकी कार्यकारणादि व्यवस्था कुत्रतः कृता, यदि श्रुतितः तर्हि तु “अस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः” इत्यादिः “यो ब्रह्माणं विदधाति पूर्वं” “यो वै वेदांश्च प्रहिणोति तस्मै, वेदो नारायणः साक्षात् स्वयम्भूरिति शुश्रुम” “वेदैश्च सर्वैरहमेव वेद्यः” इत्यादि श्रुतिस्मृतिभ्यां वेदः किमु स्वस्यैवाज्ञानकल्पितत्वं वदति ?। तथा च तन्मतानुसारेण तु प्रथमं वेदानां पारमार्थिकसत्त्वं ज्ञात्वा तदनन्तरञ्च श्रुत्यादीनामौदासीन्येन सम्यगध्ययनेन च श्रुतेः श्रुतित एवाज्ञानकल्पितत्वं श्रुत्वा गुरूपदेशादिकैः “न माता पिता वा न देवा न लोका न वेदा” तथा च “न शास्ता न शास्त्रं न शिष्यो न शिक्षा” इत्यादि प्रमाणैः असत्तुल्यैः परमार्थरूपं ब्रह्मज्ञानं कथं फलिष्यतीति विचार्य न कोऽपि प्रवर्तेत । अप्रवर्तनेन च वेदमार्गोच्छेदापत्तिः। अतः समग्रवेदस्य प्रामाण्यमविशेषेणैव ग्राह्यम् । वस्तुतस्तु ब्रह्मणोऽलौकिकत्वादचिन्त्यैश्वर्य- त्वाच्छ्रुत्येकसमधिगम्यत्वाच्च विशेषतो लोकयुक्तीनां तत्राप्रवेश एवेत्युक्तम् । तस्माच्छुद्धं ब्रह्मैव जगन्निमित्तसमवायिकारणमिति सिद्धम् । सिद्धान्तस्तु - उत्पत्तिस्थितिनाशानां जगतः कर्तृ वै बृहत् । वेदेनबोधितं तद्धि नान्यथा भवितुं क्षमम् ।। (अ.भा.का. १।२।) ।। सिद्धान्ते जगत्संसारयोर्भेदः ।। सिद्धान्ते प्रपञ्चः - जगद् भिन्नः, अहंताममतात्मकः संसारः भिन्नः। अयं सूक्ष्मभेदः केनाप्याचार्यैः न कृतः। एतयोः पृथक्त्वं श्रीवल्लभाचार्यचरणैरेव श्रुतिस्मृतिसूत्रभागवतवाक्यानां समन्वयेन शास्त्रीययुक्त्योपपाद्य प्रकटीकृतम्। जगत्संसारयोः लक्षणम् पृथक् । भगवदिच्छया चिदानन्दांशतिरोभावेन सदंशादाविर्भावितं यत्तज्जगदिति कथ्यते शास्त्रेषु । अविद्यया जीवेन कल्पितोऽहंताममातात्मकः यः सः संसार इति उच्यते शास्त्रेषु । अस्या अविद्यायाः पञ्चपर्वाणि— स्वरूपाज्ञानमेकं हि पर्व देहेन्द्रियासवः । अन्तःकरणमेषां हि चतुर्द्धाऽध्यास उच्यते । पंचपर्वा त्वविद्येयं यद्बद्धो याति संसृतिम् ।। (शा.प्र.का. ३६) इत्याचार्यवचनात् — स्वरूपज्ञानं, देहाध्यासः, इन्द्रियाध्यासः, प्राणाध्यासः अन्तःकरणाध्यासश्चेति पञ्चपर्वाणि । अनयाऽविद्यया बद्धो जीवः संसृतिं नाम संसारं प्राप्नोति । अतः संसृतेः अविद्याकल्पितत्वाज्ज्ञानेन नाशः। ब्रह्मरूपत्वाज्जगतस्तु न नाशः। ननु द्वैतमाविद्यकं मिथ्या इति चेन्न । “स एकाकी न रमते स द्वितीयमैच्छत्” “तदात्मानं स्वयमकुरुत” इत्यादिश्रुतेः द्वैतं नाविद्यकं, ब्रह्मेच्छया उद्भूतत्वात्, किन्तु द्वैतज्ञानमा- विद्यकम् । अनेन द्वैतज्ञानेन जीव एव बध्यते न तु ब्रह्म । अत्र अविद्यायाः ब्रह्मगतत्वं न सम्भवति । तत्र प्रथमन्तु मायावादे उपाध्युपाधेययोरविद्याब्रह्मणोर्द्वयोरनादित्वेन तयोर्मध्ये

सम्बन्धः कः त्वया स्वीक्रियते ? तत्र संयोगादिसम्बन्धे स्वीक्रियमाणे तयोर्विभुत्वसामान्यात् नित्यसम्बन्धाऽऽपत्त्याऽनिर्मोक्षप्रसङ्गः। तथा च नाप्यध्यासः तस्याप्यभावात्। शुद्धब्रह्मणि अविद्योपाधिसम्बन्धः सर्वथाऽशक्यवचनः तस्य अज्ञत्वापादकत्वात् । अतः अविद्यायाः जीवगतत्वमेव न तु ब्रह्मगतत्वमिति— "एकस्यैव ममांशस्य जीवस्यैव महामते । बन्धोऽस्याऽविद्ययाऽनादिर्विद्यया च तथेतरः ॥" (श्रीमद्भागवत) तथा च—"अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः" इत्यत्र जीवोत्पत्तौ अविद्यायाः न कारणत्वं किन्तु भगवदिच्छयारमणार्थमानन्दांशतिरोभावे सोऽविद्यया बध्यते। तत्रापि भगवदिच्छैव । तदा सः संसारीत्यभिधीयते । एवमहमममात्मकः संसारः अविद्याजन्यः अतः ज्ञानेन नश्यति। तथा हि। जगतः

स्वीकर्तव्येति चेन्न । ब्रह्म प्रतिबिम्बो जीव इति पक्षस्तु सर्वथा न यौक्तिकः। प्रतिबिम्बवाद- स्वीकारे ब्रह्मणि दृष्टत्वापत्तिः, जीवस्य प्रतिबिम्बत्वे च बिम्बप्रतिबिम्बयोरेकत्र स्थितिर्न भवतीति, श्रुतौ तयोः जीवब्रह्मणोः “समानं वृक्षं परिषस्वजाते” इति वाक्येन एकत्र स्थितिप्रतिपादनाच्छ्रुतिव्याकोपः अतः जीवस्तु ब्रह्मणोंश एव। यतोऽत्र श्रुतीनामेव प्रामाण्यं ग्राह्यम्। न तु लौकिकयुक्तीनाम् । उक्तञ्चाचार्यैः — अलौकिको हि वेदार्थो न युक्त्या प्रतिपद्यते । तपसा वेद युक्त्या तु प्रसादात् परमात्मनः ।। (अणु भा०का०१।२) अत्र हि वेदार्थस्यालौकिकत्वात्तस्य युक्त्या न प्रतिपत्तिः। कथं तर्हि प्रतिपत्तिरिति प्रश्ने—वेद्युक्त्या, न्यग्रोधफलमाहरेत्यादिरूपया वेदोक्तयुक्त्या प्रतिपत्तव्यमिति । अत्र आचार्याः “नहि स्वबुद्ध्या वेदार्थं परिकल्प्य तदर्थ विचारः कर्तुं शक्यः ब्रह्म पुनर्यादृशं वेदान्तेष्ववगतं तादृशमेव मन्तव्यम् । अणुमात्रान्यथाकल्पनेऽपि दोषः स्यात्”। अतः विस्फुलिङ्गन्यायेन जडजीवानां निर्गमनम्। जडनिर्गमने चिदानन्दांशयोस्तिरोभावः। जीवनिर्गमने आनन्दांशतिरोभावः। एवं सच्चिदात्मकं उभयं ब्रह्माभिन्नं ब्रह्मरूपञ्च । अत एक विज्ञानेन सर्वविज्ञानमिति श्रुतिप्रतिज्ञा । नन्वेवमंशभूतस्य जीवस्य दुःखमशिनः ब्रह्मणोऽपि स्यादिति चेन्न । “अनश्नन्नन्यो अभिचाकशीति” “एकस्तथा सर्वभूतान्तरात्मा, न लिप्यते लोकदुःखेन बाह्यः” “न लिप्यते फलैश्चापि पद्मपत्रमिवाम्भसा” इत्यादि श्रुतिस्मृतिप्रमाणैर्ब्रह्मणो निर्लेपत्वमुद्घोष्यते यतः सूर्यप्रकाशस्थघटपटादिवस्तुनो दोषेण यथा सूर्य प्रकाशो न दुष्यते तथैव जीवस्थ दुःखादि दोषैरंश ब्रह्मापि न लिप्यते । अतः जीवब्रह्मसम्बन्धविचारे ब्रह्मणोंऽश एव जीव इति निर्णीयते । कुतः “अंशो नानाव्यपदेशात्” इति सूत्रात्—अत्र विद्वन्मण्डने प्रभुचरणाः आज्ञापयन्ति, “नानाव्यपदेशाद्, नानाविधो यो व्यपदेशः। क्वचिद्ब्रह्मत्वेन क्वचिदुत्पन्नत्वेन, क्वचिदङ्गत्वेन, क्वचिच्चिद्रूपत्वेन, क्वचिदीशीतव्यत्वेन, अणुत्वेन च व्यापकत्वेन च, निरूपणादेकस्यैव विरुद्धधर्माश्रयत्वं ब्रह्मातिरिक्तस्य न सम्भवतीति ब्रह्मांश एव जीव इत्यर्थः। अथवा नाना व्यपदेशाद्भेदेन व्यपदेशात्तथेत्यर्थः” तात्पर्यं जीवस्य ब्रह्मोपाधिकत्वमौपचारिकमंशत्वमङ्गीकृत्य प्रतिबिम्बत्वेन अलीकत्वं न कल्पनीयम् । ब्रह्म वेदेकसमधिगम्यम् अतः यथा तत्र निरूपितं तथैव मन्तव्यम् “नैषातर्केण मतिरापनेया” “अलौकिकास्तु ये भावा न तास्तर्केण योजयेत्” इत्यादि श्रुतेः स्मृतेश्च । ब्रह्म पूर्णप्रकटानन्दम् जीवस्तु तिरोहितानन्दः। यदा भगवत्कृपया इच्छया च जीवे भगवान् आनन्दांशमाविर्भावयति तदोभयोर्जीवब्रह्मणोरभेदः। अत्र जहदजहल्लक्षणादि- कानामावश्यकता नास्ति “सर्वे वेदायत्पदमामनन्ति” इति श्रुतेः सर्वेवेदा ब्रह्मणोऽनवगाह्य- माहात्म्यमेव बोधयितुं प्रवृत्ताः। यदा जीवः तिरोहितानन्दः तदा तत्र ब्रह्मत्वं नास्ति “अधिकं तु भेद निर्देशादिति” (२।१।२२) सूत्रात् । अत्र भाष्यम् “तु शब्दः पक्षं व्यावर्तयति । यदि ब्रह्म तावन्मात्रं भवेत् तदायं दोषः। तत् पुनर्जीवाज्जगतश्चाधिकम्। कुतः ?। भेदनिर्देशात्”। liii

ार्काश्चित्वसाधर्म्यादभेदः। अपरे माध्वैकदेशिनः 'अतत् त्वमसि' अर्थात् जीवोऽसि"

Line 13: "इति पदं छिन्दन्ति । सिद्धान्ते यथा सुवर्णांशाः सुवर्णरूपाः तथा ब्रह्मणोऽंशा ब्रह्मरूपाः।"

Line 14: "ब्रह्मणः सदंशः जगत् चिदंशो जीवः इति । वस्तुतः मतान्तरवत् 'तत्त्वमसी' त्येतन्मात्रं"

Line 15: "महावाक्यमिति न किन्त्वखिलं प्रपाठकम् ग्राह्यम् । वेदानांमर्थानुसंधानं प्रकरणेन कार्यम्" Wait, "वेदानांमर्थानुसंधानं": There is an anusvara on 'नां' and then 'म': "वेदानांमर्थानुसंधानं" - exactly as printed!

Line 16: "“प्रकरणाच्च” इति सूत्रात् प्रकरणानुरोधेनैव अर्थः ग्राह्यो न तु प्रकरणं हित्वा स्वानुकूलोऽर्थः"

Line 17: "कार्य इति ।"

Line 18: "अस्य जीवस्य त्रिविधाऽवस्था भवति। शुद्धः मुक्तः संसारीति भेदात् । व्युच्चरणोत्तर-"

Line 19: "मानन्दांशतिरोभावे सति अविद्यासम्बन्धात्पूर्वा याऽवस्था तस्यामवस्था

।। अविकृतपरिणामवादः ।। श्रीमदाचार्यचरणैर्हि साकारब्रह्मवादः प्रामुख्येन स्वसिद्धान्तत्वेन संस्थापितः। प्रस्थानतः प्रमेयतः साधनतः फलतः सर्वशास्त्रतश्च ब्रह्मातिरिक्तपदार्थाभावात् सर्वसमन्वयो ब्रह्मण्येवेति सिद्धान्तः। तच्च कनकम्मृत्कामधेनुचिन्तामणिकल्पवृक्षादिरिव स्वयमविकृतमेव स्थितं सत् जगद्रूपेण परिणमतेति सिद्धान्तः। यथा कनकं कटककुण्डलादिपरिणामदशायां कनकत्वान्न विक्रियते तथैव ब्रह्मापि जगद्रूपेण परिणामेप्यविकृतम्। अयमेव श्रुतिस्मृतिसूत्र- श्रीभागवतप्रतिपादितः अविकृतपरिणामवादः। एकमेवाविकृतं कारणं नानाकार्यरूपं भवति । तेनैव एकविज्ञानेन सर्वं विज्ञानं भवति । एक विज्ञानेन सर्वविज्ञानरूपवेदान्तानां प्रतिज्ञा तदैव सफला भवति यदा शुद्धब्रह्म एव जगत्कारणं (निमित्त समवायिकारणं) भवेत्। अयं वादः वैदिक इति राद्धान्तः। अतः अविकृतपरिणामवादसाधकानि वचांसि अधुना किंचित् प्रदर्श्यन्ते । श्रुतिषु "एकं सद्विप्रा बहुधा वदन्ति" "असद्वा इदमग्र आसीत्ततो वै सदजायत" (आभ्याम् श्रुतिभ्याम् जगदव्यक्तं व्यक्तमभूदित्युक्तम्भवति) "ब्रह्म विश्वमिदं जगद्" "तमेव भान्तमनुभान्ति सर्वं तस्य भासा सर्वमिदं विभाति" सर्वकामः सर्वगन्धः सर्वरसः सर्वकर्त्ता सर्वभोक्ता य स सर्वविद्" "परास्य शक्तिर्विविधैवश्रूयते स्वाभाविकी ज्ञानबलक्रिया च" (आभिः श्रुतिभिः सर्वकर्तृत्वादीनां स्वाभाविकधर्मत्वं उक्तम्) "अणोरणीयान्महतो महीयान्" (अनया श्रुत्या ब्रह्मणो विरुद्धधर्माश्रयत्वं बोध्यते) "एकमेवा द्वितीयं ब्रह्म, एकोऽहं बहुस्यां प्रजायेय, स एकाकी न रमते स द्वितीयमैच्छत्", "स हैतावानास" (आभिः श्रुतिभिः अविकृतपरिणामवादो बोध्यते) "एतदात्म्यमिदं सर्वम् तत्सत्यं स आत्मा तत्त्वमसि" "एष ह्येवानन्दयति" "एकोदेवो सर्वभूतेषु गूढः" (आभिः श्रुतिभिः सर्वान्तर्यामित्वम्) "सर्वं खल्विदं ब्रह्म" "कथमसतः सज्जायेत" 'तत्सत्यमित्याचक्षते" इत्यादीनि । स्मृतिषु = "अहं सर्वस्यजगतः प्रभवः प्रलयस्तथा" मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम्" "अहं बीजप्रदः पिता" "वासुदेवः सर्वमिति" इत्यादीनि । सूत्राणि = "जन्माद्यस्य यतः शास्त्रयोनित्वात्" (१।१।२) तत्तु समन्वयात् (१।१।३) आत्मकृतेः परिणामात् (१।४।२६) योनिश्च हि गीयते (१।४।२३) तदनन्यत्वमारम्भणशब्दादिभ्यः (२।१।१४) सर्वधर्मोपपत्तेश्च (२।१।३७) प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः (३।२।२२) प्रकाशाश्रयवद्वा तेजस्त्वात् (३।२।२८) इत्यादीनि । श्रीभागवते = "जन्माद्यस्य यतोन्वयादितरतः०" "त्वय्यग्र आसीत्०" "क्रीडार्थमात्मन इदं त्रिजगत् कृतं ते०" "विश्वस्य कर्त्ता भुवनस्य गोप्ता०" इत्यादीनि । इदमत्रावधेयम् = अन्यैः आचार्यशङ्करप्रभृतिभिराचार्यैः स्वस्वसिद्धान्तसाधने प्रमाणत्वेन प्रस्थानत्रयी स्वीकृता उपनिषद्, भगवद्गीता व्याससूत्राणि च । किन्त्वस्माकमाचार्यैः प्रमाणत्वेन प्रस्थानचतुष्टयम् स्वीकृतम् तच्च — iv

"वेदाः श्रीकृष्णवाक्यानि व्याससूत्राणि चैव हि । समाधिभाषा व्यासस्य प्रमाणं तच्चतुष्टयम् ॥ उत्तरं पूर्वसन्देहवारकं परिकीर्तितम् ॥" (शा.प्र.का. ७।८) अत्र प्रकाशः ="वेदाः सर्व एव काण्डद्वयस्थिताः। अर्थवादादिरूपा अपि । स्मृतित्वेन कृष्णवाक्यानि वेदत्वेऽपि पृथगुक्तानि। व्याससूत्राणि चकाराज्जैमिनिसूत्राणि च । एवकारेण व्याससूत्राविरोधेनैव तदङ्गीकरणम् । ..........व्यासस्य समाधिभाषा भागवतम् । ..........यावत् समाधौ स्वयमनुभूय निरूपितं सा समाधिभाषा । एतच्चतुष्टयमेकवाक्यतापन्नं प्रमाजनकमित्यर्थः।" आचार्यैः श्रीभागवतस्यापि प्रस्थाने ग्रहणं कृतम् । अत्र उत्तरोत्तरं पूर्वपूर्वसन्देह- वारकम् । अर्थात् सर्वसन्देहवारकत्वं श्रीमद्भागवते फलितम् । श्रीभागवतस्य "निगम कल्पतरोर्गलितं फलम्" इत्यनेन फलरूपत्वादिति। ।। आविर्भावतिरोभावः ।। तदेतदक्षयं नित्यं जगन्मुनिवराऽखिलम् । आविर्भावतिरोभावजन्मनाशविकल्पवत् ॥ (विष्णु०पु०अं०प्र०) वस्तुतः आविर्भावतिरोभावौ ब्रह्मणः शक्ती। "आविर्भावतिरोभावौ शक्तिर्वै मुरवैरिणः" एते शक्ती ब्रह्मणोऽभिन्ने ब्रह्माधीने च । "सर्वं खल्विदं ब्रह्मेति" श्रुतेः सर्वस्य ब्रह्मरूपत्वेन ब्रह्म स्वेच्छया जगद्रूपेणाविकृतपरिणामं प्राप्य पुनः स्वेच्छयैव सर्वमन्तर्भावयति । इमावेवा- विर्भावतिरोभावौ उत्पत्तिविनाशावित्युच्येते लोकैः। वस्तुतस्तुः= "नासतो विद्यते भावो नाभावो विद्यते सतः" (गीता) इति वाक्यात् असतः भावः नास्ति सतः अभावः नास्ति । ब्रह्मवादे सर्वत्र ब्रह्मस्फूर्त्याऽभावस्य प्रश्न एव नास्ति । ननु तदा भावित्वेन भूतत्वेन वस्तुनोः सत्ता न स्यात् तथा च घटादेः प्राग्भावप्रध्वंसाभावाभ्यामन्योन्याभावात्यन्ताभावादि निषेधात् सर्वव्यवहा- रोच्छेदः। इति चेन्नैवम् । सर्वत्र भगवदिच्छाया एव नियामकत्वात् — 'एवं सति यत्कालावच्छेदेन सर्वेषां मिथोऽनुभवाविषयत्वं भगवदभिमतं स प्रलयकाल इति निगद्यते। यदवच्छेदेन सर्वेषां मिथोऽनुभवविषयत्वं तथा स सृष्टिकाल इत्युच्यते। सर्वत्र विशिष्टेच्छैव नियामिकेति सर्वमनवद्यम्'। (विद्वन्मण्डने) एवं च निर्गुणमविकृतं नित्यशक्तिमद्ब्रह्माविर्भावतिरोभावाभ्यामक्षरजीवजगद्रूपैः स्वेच्छया क्रीडति इति । अतः प्राग्भावादयः सर्वे अत्रैव अन्तर्निहिताः सर्वस्य ब्रह्मात्मकत्वात्सिद्धान्तेऽत्यन्ताभावाभावः । "एवं सत्यस्मिन्कालेऽस्मिन्देशे इदंकार्यमेवं भवत्वितीच्छाविषयत्वमाविर्भावः तदा तत्र तन्मा भवत्वितीच्छा विषयत्वं तिरोभावः"। (विद्वन्मण्डने) lvi

अतः एवोच्यते “अनुभवविषयत्वयोग्यता आविर्भावः। तदविषयत्वयोग्यता तिरोभावः। ते च वस्तुसत्त्वेनैवावच्छिद्येते । न ह्यलीके ते सम्भवतः तयोर्धर्मत्वेन निराश्रयत्वासम्भवात्”। (विद्वन्मण्डने) तस्मात् “पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम्ि” त्यादिश्रुतेः भगवत्कार्यरूपप्रपञ्चस्यापि ब्रह्मात्म त्वे नावगमात्पुरुषस्य नित्यत्वेन तदात्मकस्यापि नित्यवर्तमानत्वेन स्थितत्वाज्जगतः उत्पत्तिनाशौ आविर्भावतिरोभावाभ्यामेव संगच्छेते । अतः आविर्भावतिरोभावेनैव जगतो जन्मनाश इति । जन्म आविर्भाव वाचकः नाशः तिरोभाववाचकः। “आत्मत आविर्भावतिरोभावौ” इति छान्दोग्यश्रुतेः एतयोराविर्भावतिरोभावयोरनित्यत्वादिकं न शङ्कनीयमिति । ।। ब्रह्मणः विरुद्धधर्माश्रयत्वम् ।। ननु ब्रह्मणि सर्वधर्मयुक्तत्वस्वीकारे तत्र विरुद्धधर्मानामपि समावेशात् एकमेव वस्तु एकस्मिन्नेव समये एककालावच्छेदेन द्विधा भवितुं न शक्नोत्यतः निर्धर्मकं निर्विशेषं निराकारमेव ब्रह्म स्वीकार्यम्, तत्तु केवलं मायावशात्सगुणं साकारं प्रतिभासत इति चेन्न। केवलश्रुतिप्रतिपाद्ये ब्रह्मणि केवलयुक्त्युपयोगस्यानुपयुक्तत्वाच्छ्रुतौ च “यतो वाचो निवर्तन्ते अप्राप्य मनसा सह” इत्यादिना ब्रह्मणि धर्मान्निषिध्य पुनस्तत्प्रकरणे एव “आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चन” इत्यादिना आनन्दधर्मस्य कथनम् । अत एव व्याससूत्रे “दर्शनाच्च” इति सूत्रात् भगवति सर्वे विरुद्धधर्माः दृश्यन्ते अतः ब्रह्मणः सर्वविरुद्धधर्माश्रयत्वं श्रुतिस्मृतिप्रत्यक्षसिद्धम् । तथा च “प्रकृतैतावत्त्वं हि प्रतिषेधति ब्रवीति च ततो भूयः” (३।२।२२) इत्यनेन परमार्थतः शास्त्रतः विरोधपरिहारं कृत्वा युक्त्याऽपि विरोधपरिहारः क्रियते । ब्रह्मणि प्रकृतैतावत्त्वं नाम प्राकृतधर्मान्निषिध्य ततः तदनन्तरं भूयः पुनः अप्राकृतधर्मान् ब्रवीति इति । एवं च ब्रह्मणि सर्वे अप्राकृताः अलौकिकाः विरुद्धा अपि धर्माः सन्ति । किन्तु ते स्वाभाविका एव न तु मायिकाः। “उभयव्यपदेशादहि कुण्डलवत्” (३।२।२७) प्रकाशाश्रयवद्वा तेजस्त्वात्” (३।२।२८) इत्यादिना ब्रह्मणि विरुद्धधर्मवत्वस्वीकारः। ब्रह्मणि विरुद्धधर्मवत्वन्तु श्रुति सिद्धमेवास्ति । “अणोरणीयान्महतो महीयान्” “समो नागेन समो मशकेन” “न तत्समश्चाभ्यधिकं तु दृश्यते” इत्याद्यनेकैः शास्त्रवाक्यैः अनवगाह्यमाहात्म्ये ब्रह्मणि सर्वे विरुद्धधर्मा सहजतया विराजन्ते। एकस्मिन्समये एककालावच्छेदेन ब्रह्म द्विधा भवितुमपि शक्नोति तथा च एककालावच्छेदेन एकमेव ब्रह्म अनेकत्रस्थातुमपि शक्तम् । यथा षोडशसहस्रमहिषीनामन्तःपुरे । अयमनुभवः श्रीनारदेन प्रत्यक्षीकृतः। अतः नारदानुभवप्रामाण्यादपि ब्रह्म विरुद्धसर्वधर्माश्रयः, कर्तुं अकर्तुं अन्यथा कर्तुं समर्थम् एवञ्च लोकेऽपि विरुद्धदयामारकत्वादीनि विषयभेदेनै कस्मिन् क्षणे एकस्यामेवव्यक्तौ प्रतीयन्ते तदाऽलौकिके किमु । अत्र श्रीपुरुषोत्तमचरणाः “एवञ्च शब्दबलविचारेण विरुद्धसर्वधर्माश्रयो ब्रह्मेति निर्णयः। श्रुत्युक्तयुक्त्या विचारे तु लौकिकधर्मशून्यमलौकिकसर्वधर्मयुक्तमिति निर्णयः। अर्थबलविचारे तु विरुद्धसर्वधर्मरूपमिति निर्णय इति बोधनार्थमत्र त्रेधा विचारितम् ।” अतो ब्रह्मणो विरुद्धधर्मवत्वं न दूषणाय अपितु भूषणाय भवति। एवमेव ब्रह्मणि वैषम्यनैर्घृण्यादयः lvii

न सम्भवति आत्मसृष्टत्वादिति उच्यते च “आत्मसृष्टेर्न वैषम्यं नैर्घृण्यं चापि विद्यते” इत्याचार्याः॥ ।। भगवल्लीला ।। किमु भगवल्लीलायाः मायिकत्वमुत न वेति विचारे भगवत्येकनिष्ठत्वात् सच्चिदानन्दात्मके ब्रह्मण्यनन्यत्वेन स्थितत्वात् स्वरूपात्मकत्वान्न मायिकत्वमिति। भगवल्लीला किमपि प्रयोजनमधिकृत्य न प्रचलति “न प्रयोजनवत्त्वात्” (ब्र.सू. २।१।३२) इति सूत्रन्यायेन। किन्तु “लोकवत्तु लीला कैवल्यम्” (ब्र.सू. २।१।३३) इति सूत्रात् सा लीलैव कैवल्यं मोक्षः। तस्याः कीर्त्तनेऽपि मोक्षः। इति भाष्ये प्रतिपादनाल्लीलायाः स्वरूपात्मकत्वाद्भगवत्कृतत्वादलौकिकत्वाच्च न सर्वथा मायिकत्वमिति वाच्यम्। अस्याः लीलायाः लक्षणं यथा सुबोधिन्याम् = “कौतुकाधिष्ठितेन अनायासत्वेन क्रियमाणं कर्म लीला” यद्वा “अनायासेन हर्षात्क्रियमाणा चेष्टा लीला” इति। नन्विहैव दृश्यमानगिरिगह्वरकाननादि- सम्बन्धि लीलायाः प्रपञ्चमध्यपातित्वादनित्यत्वमिति चेन्न । “प्रपञ्चोभगवत्कार्यः” इत्याचार्यवचनात् प्रपञ्चस्य भगवत्कार्यत्वेन भगवत्कार्यरूपप्रपञ्च- सम्बन्धिनीनां लीलानां — “जयति जननिवासो देवकी जन्मवादो यदुवरपरिषदस्वैर्दौर्भिरस्यन्नधर्मम् । स्थिरचरवृजिनघ्नः सुस्मितश्रीमुखेन व्रजपुरवनितानां वर्धयन् कामदेवम् ॥ (भागवते १०।९०।४८) इति चतुर्थप्रस्थानश्रीभागवतप्रमाणात्—श्लोके ‘जयतीति’ वर्तमानप्रयोगेणातीतानां व्रजलीला-नामपि वर्त्तमानत्वं बोधयन् श्लोकसमाप्तौ ‘वर्धयन्निति’ पदेन’ शतृप्रत्ययेन तस्मिन्कथाकाले तस्मिन् क्षणे तत्रैव सर्वपरोक्षलीलानां स्थितिः उच्यते। तथा च भगवतः नामकरणप्रसङ्गे भागवते गर्गवाक्येनापि भगवल्लीलानां त्रिकालातीतत्वं नित्यवर्त्तमानत्वं प्रवर्त्तमानत्वञ्च ज्ञाप्यते। “बहूनि सन्ति नामानि रूपाणि च सुतस्य ते। गुणकर्मानुरूपाणि तान्यहं वेद नो जनाः ॥ (भागवते १०।८।१५) इत्यत्र ‘सन्तीति’ पदप्रयोगदर्शनाल्लीलानां नित्यवर्त्तमानत्वं स्पष्टमेव। ननु लोके पाचकपाठकवद् भवतु नाम, यथा पाठनकार्ये अप्रवृत्तेऽपि पाठकोऽयमिति प्रयोगदर्शनादत्रापि तथैवास्त्विति चेन्नैतत्। लोकासिद्धत्वादलौकिकीलीलालोकसम्बन्धिन्यपि लोकदृष्टान्तेन न साधनीया। लोके तु भीरुपुरुषेऽपि नरसिंहवीरखरेत्यादिनामनिदर्शनान्न तथा। अत्र तु गर्गवाक्यानुसारेण यथा नाम, तथा गुणाः, यथा च कर्म तथा रूपमिति। तच्च गां lviii

पालयतीति गोपालः, मुक्तिं ददातीति मुकुन्दः इत्यादिः। तथा हि नामकरणसमये लीलानाम्भावित्वाल्लीलानुसारिनामकरणमसम्भवमिति न शङ्क्यम्, भगवल्लीलायाः नित्यत्वान्नित्यप्रवर्त्तमानत्वाच्चेति । एवं पूतनाशकटभञ्जनकालियदमनादिलीलानां पूर्वमेव सिद्धत्वादपि भगवदिच्छयाऽनाविर्भावः। अतः भगवल्लीलानां नित्यसिद्धत्वात्कालाद्यनवच्छिन्न- त्वात्सर्वत्रैकत्र च सर्वरूपेण भिन्नभिन्नरूपेण च यथा तथा भगवदिच्छयैव स्थितत्वान्न कदापि मायिकत्वमिति । ननु भवतु नाम अलौकिकीनां भगवल्लीलानामायिकत्वं किन्तु लोकवल्लीलानां तु मायिकत्वं भवति न वेति प्रश्ने सर्वथा तदपि नेत्युत्तरम् । "तत्त्वभावे सन्ध्यवदुपपत्तेः" (ब्र.सू. ४।४।१३) इति सूत्रन्यायेन भगवानासुर्व्यामोहनार्थं स्वस्य प्राकृतत्वं प्रदर्शयति न तु तथा भवति । तत्र दूषितदृष्टीनामासुराणां कृते, यथा—श्रीमद्भगवद्गीतायाम्—"मामात्म- परदेहेषु प्रद्विषन्तोऽभ्यसूयकाः" (१६।१८) इत्यत आरभ्य "ततो यान्त्यधमां गतिम्" (१६।२०) इत्यन्तमुक्तम् । एतेषामासुरत्वेन मुक्त्यनधिकारादिति । एवं भगवल्लीलायां दोषदर्शने उपपत्तिमुक्त्वा अग्रिम सूत्रेण गुणदर्शने उपपत्तिमाह "भावे जाग्रद्वत्" (ब्र.सू. ४।४।१४) इति सूत्रन्यायेन लौकिकवद्भासमाने भगवल्लीलापदार्थे लीलायाञ्च भक्तानां यद्दर्शनं तत्त्वलौकिकत्वेनैव। यथा मोहनिवृत्तस्य पुरुषस्य सत एवार्थस्य दर्शनम् । एवं भगवान् स्वेच्छयैव भक्तानां मायापसारणेन तत्तद्रसानुभवार्थं तत्तल्लीलां तथा तथा करोति । तथा च कुत्रचित् मोहलीलामपि करोति यथा सौभयुद्धे। तथा चासुराणां व्यामोहनार्थं लोकवल्लीलां करोतीति । अत्र भाष्ये = "अत एव लीलाया अनेकरूपत्वाद् ब्रह्मणश्च श्रुतौ सैन्धवदृष्टान्तेनैकरसत्वनिरूपणाच्छुद्धब्रह्मधर्मत्वं न सम्भवतीति शङ्कानिरासाय ("लोकवत्तु लीला कैवल्यम्") कैवल्यमित्युक्तम् । साक्षी चेता केवलो निर्गुणश्चेत्यादिश्रुतिषु याऽन्यधर्मराहित्यलक्षणा केवलतोक्ता सा लीलात्मिकैव लीलावशिष्टमेव शुद्धं परं ब्रह्म, न कदाचित् तद्रहितमित्यर्थः पर्यवस्यति । तेन स्वरूपात्मकत्वं लीलायाः पर्यवस्यति । तेन च नित्यत्वम् ।" (ब्र.सू. ४।४।१४ भाष्ये) एवं यथा पृथिव्यामेव गन्धरूपेणाविर्भावः न जलादौ । एवमेवाविर्भावतिरोभावाभ्यां भगवल्लीलायाः अनुभवः अननुभवश्च भक्तानामभक्तानाञ्च कृते भवतः। अधुनाऽपि क्वचिद् क्वचिद् भगवदिच्छया कृपया च तादृशे भक्ते परोक्षलीलानामनुभवः श्रूयते । एवं भगवांस्तु नित्यलीलाविशिष्ट एव सर्वदा सर्वत्र विराजते । श्रीगोवर्धनधरः भक्तमनोरथपूरणार्थमिच्छया कृपया चाविर्भवति तिरोभवति च। तस्माल्लीलायाः कदापि मायिकत्वं सर्वथा नेति सिद्धान्तः। "प्रभोरेव फलत्वं निर्दोषत्वञ्च वर्ण्यते । लीलानित्यवतः पूर्णगुणत्वं च ततोऽखिलम् ।।" (इत्याचार्यकारिका) lix

।। भक्तिनिरूपणम् ।। भक्तेर्लक्षणमाचार्यचरणैरुक्तं निबन्धे — "माहात्म्यज्ञानपूर्वस्तु सुदृढः सर्वतोऽधिकः । स्नेहोभक्तिरिति प्रोक्तस्तयामुक्तिर्न चान्यथा ।। (शा.प्र.का. ४५) अनया कारिकया आचार्यैः भक्तिस्वरूपमुक्तम् । स्नेहो भक्तिः। स्नेहस्तु भगवत्यात्मत्वेन ज्ञाते भवति । "गौणश्चेन्नात्मशब्दात्" (ब्र.सू. १।१।५) इति सूत्र न्यायेन गुण युक्तत्वाद्वौणः इति न वक्तव्यम्, आत्मशब्दात् । अत्र भाष्ये—"आत्मशब्दः पुनः सर्वेषु वेदान्तेषु निर्गुणपरब्रह्मवाचकत्वेनैव सिद्धः। तस्यैव जगत्कर्तृत्वं श्रुतिराह ।" इति वचनात् निर्गुणसाकारपरब्रह्म एव जगत्कर्त्ता स एवात्मा स एव भगवान् श्रीकृष्णः। "कृषिर्भूवाचकः शब्दो णश्च निर्वृति वाचकः तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते" इति गोपालतापनीयश्रुतेः भगवतः श्रीयशोदोत्सङ्गलालितस्य श्रीकृष्णस्यैव परब्रह्मत्वं श्रुतिस्मृत्यादिशास्त्रेषु सर्वत्र उद्घोष्यतेऽतः भक्तिपदं श्रीकृष्णस्नेहे मुख्यमन्यत्र तु तत्प्रयोगो भक्त इति। सच्चिदानन्दात्मकं परब्रह्म त्रिविधं जगति क्रीडति । तत्र आधिभौतिकं जगत् । आध्यात्मिकं अक्षरब्रह्म। आधिदैविकं परं ब्रह्म "पुरुषश्चाधिदैवतम्" इति स्मृतेः। एवमेव रमणार्थं मार्गत्रयम्—आधिभौतिकमार्गः कर्म, आध्यात्मिकमार्गो ज्ञानम्, आधिदैविको मार्गो भक्तिः। तत्र प्रथमः आधिभौतिकः कर्ममार्गः लोकपर्यवसायी, द्वितीयो ज्ञानमार्गः अक्षर पर्यवसायी, तृतीयो भक्तिमार्गः पुरुषोत्तम (परब्रह्म) पर्यवसायीति। ज्ञानिनस्तु अक्षरब्रह्मैव परमफलत्वेन मन्यन्ते । भक्तास्तु अक्षरब्रह्म परब्रह्मपूर्णपुरुषोत्तमस्य धामेति स्वीकुर्वन्ति । तत्र प्रमाणम् — अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् । यं प्राप्य न निवर्त्तन्ते तद्धाम परमं मम ।। (गीता ८।२१) तथा च — यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ।। (गीता १५/१८) इत्यादि प्रमाणैर्वेदादिशास्त्राणामर्थो भक्तिरिति ज्ञायते । ननु वेदादि शास्त्राणामर्थो भक्तिरिति कथमप्रतिपाद्यते भवद्भिरिति चेदुच्यते । "यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति, स भूमा स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नात्मरतिरात्मक्रीडआत्ममिथुन आत्मानन्दः स स्वराड् भवति" "परं ब्रह्मैतद्ध्यो ध्यायति रसति भजति सोऽमृतो भवति" "नाहं वेदैर्न तपसा न दानेन न चेज्यया, शक्य एवं विधो दृष्टुं दृष्टवानसि मां यथा"। "भक्त्या त्वनन्यया शक्यः०" "अहं भक्तपराधीनो" "भक्त्या तुतोष भगवान् गजयूथपाय०" इत्यादि श्रुतिस्मृतिप्रमाणैर्भक्तिरेव प्रतिपाद्यते । एतेन सर्वात्मभावरूपा भक्तिरेवोच्यते । छान्दोग्ये सनत्कुमारनारदसंवादे भूमविद्यायां यत्र

नान्यत्पश्यतीत्यादिनाऽन्यदर्शनादिराहित्यस्योक्तत्वाद्भगवद्विरहावस्थायां प्रपञ्चविस्मृतिपूर्विका या परमाऽऽसक्तिस्तया विगाढभावेन सर्वत्र भगवत्स्वरूपमेव स्फुरतीति स एवोच्यते “स एवाधस्तात्स एवोपरिष्टात्सपश्चादित्यादि" तदनन्तरं भगवद्विरहभावगतस्फूर्तिरूपाणां ज्ञानानां व्यभिचारिभावत्वेनानियतत्वं ज्ञापयितुमहंकारादेशः “अहमेवाधस्तादहमेवोपरिष्टादित्यादिः” तत आत्मादेशः इति । “आत्मैवाधस्तादात्मोपरिष्टादित्यादिः”। तथा चाग्रे आत्मरत्यादि पदैः “आत्मरतिः आत्मक्रीड आत्ममिथुन” इत्यादिभिः रसरूपं भगवन्तं भक्तो भजति । अत्रात्मशब्देन सिद्धान्ते पूर्णपुरुषोत्तम एवोच्यते। नत्वक्षरं जीवो वेति । “गौणश्चेन्नात्मशब्दादिति” सूत्रन्यायेन परमकाष्ठापन्नं यद्वस्तु तदेव सर्वत्र वेदान्तेषु मुख्यतया प्रतिपाद्यम् । अनेन परब्रह्मणि सर्वात्मभावरूपा व्यसनात्मिका भक्तिः सैव मुख्या । सा च भगवदनुग्रहैकसाध्या । तच्चोक्तम् श्रुतौ — “नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन यमेवैष वृणुते तेन लभ्यः तस्यैष आत्मा विवृणुते तनुं स्वाम्” ।। (का. १।२।२३) अत्र आत्मशब्दः पुरुषोत्तमवाचकः, प्रवचनेन नाम सस्वरवेदाध्ययनेनेति । अनेन पुष्टिभक्तेः केवलं भगवद्वरणलभ्यत्वमेव । अत्र स्वपदस्यात्मीयवाचकत्वेन स्वीयत्वेन वरणे सर्वात्मभावरूपा पुष्टिभक्तिः प्रयच्छति । भाष्ये च “निसर्गतः सर्वेषां जीवानां भगवान् भवत्येव प्रभुर्यद्यपि तथापि यं स्वीयत्वेन वृणुते तस्य विवाहितः पतिरिव भर्त्ता सन् वरणस्नेहातिशयेन भक्तेनापि ध्रियमाणः सन्, स भक्त इव स्वयमपि तं स्वस्मिन् बिभर्ति”। (अ.भा. ४।४।१५) इत्यनेन भक्तौ स्नेहस्यप्राधान्यादयोगोलकादि दृष्टान्तं विहाय प्रदीप दृष्टान्त- मुक्तवान् व्यासः “प्रदीपवदावेशस्तथा हि दर्शयति” (४।४।१५) । स स्नेहस्तु व्रजसीमन्तिनीनां रतिस्थायिभावत्वेन मुख्यत्वाच्छ्रंगार एव भक्तिरसः इति वक्तुं शक्यते । स चालौकिक एव । तस्य च संयोगविप्रयोगात्मकत्वम् । अलौकिक शृंगारस्य लौकिकसदृशत्वेऽपि न लौकिकत्व- मलौकिकप्रमाणप्राप्तत्वाल्लौकिकप्रमाणाप्राप्तत्वाच्च । वस्तुतस्तु अत्र लौकिकत्वशङ्का निरर्थका इति । वात्स्यायनादिऋषिभिरपि भगवद्भावभावनार्थमेव शास्त्रप्रणयनम् । न तु ऋषीणां कदापि लौकिके तात्पर्यं भवति। अत एवोक्तम्—“तदेतद् ब्रह्मचर्येण परमेण समाधिना विहितो लोकयात्रार्थं न रागार्थोऽस्य संविधिः, रक्षन् धर्मार्थकामांस्त्रीन् सम्पश्यंल्लोकवर्तिनाम्। अस्य शास्त्रस्य तत्त्वज्ञो भवत्येव जितेन्द्रियः”। इति लौकिके तापर्ये सति शास्त्रकारः जितेन्द्रियभवनरूपफलं न वदेत् । अर्थोयम् लिङ्गभूयस्त्वाधिकरणे, ऋतुवज्ज्यायस्त्वाधिकरणे च विस्तरेण प्रपञ्चितमाचार्यैर्भाष्ये, श्रीपुरुषोत्तमचरणैः प्रकाशे श्रीगोपेशचरणैश्च रश्मौ । ननु भक्तेः शृंगाररसरूपत्वात् शृंगारस्य च संयोगविप्रयोगात्मकत्वाद्विप्रयोगस्य विरहात्मकत्वेन lxi

दुःखरूपत्वात्कथं सुखरूपत्वमिति चेदुच्यते भूम्नश्च । “यो वै भूमातत्सुखं” इति श्रुतेः सुखरूपत्वमेव । सर्वत्र वेदान्तेष्वपि मुक्तेः सुखरूपत्वमेव । पुष्टावपि भगवत्स्वरूप- स्यानन्दमयत्वात्तल्लाभे परमानन्दलाभ एव न तु दुःखलाभ इति । अत्र = रश्मिकाराः योगिगोपेश्वरा आज्ञापन्ति = “अस्यैव चोपपत्तेरूष्मेति सूत्रभाष्ये । तथाहि अस्यानन्दा- त्मकरसरूपस्य भगवतः एवायं धर्मः। ऊष्मा विरहतापः। व्यापकस्य भगवतः सर्वत्र सत्त्वेऽपि मायया तिरोधानात्तद्विरहः सर्वसाधारणस्तथापि, न सर्वानुभवगोचरोऽपि तु यस्य हृदि रसरूपभगवदाविर्भावो भवति तस्यैव तदप्राप्तिजतापानुभवो गोचरीभवतीत्यन्वयव्यतिरेक रूपोपपत्तेः। तथा च रसरूपस्य वस्तुन एव तथात्वात् स तापोऽपि रसात्मक एवेति”। अनेन सिद्धयति यत् अस्य दुःखस्य न कर्मजन्यत्वम्, कर्मजन्यत्वे सति अस्य मोक्षसुखमपि विलुप्येत। अत एवोक्तम्—“न पश्यो मृत्युं पश्यति न रोगं नोत् दुःखतामिति” श्रुत्या तादृशभक्तेः दुःखादिरूपत्वं निषिध्यते अतोस्य दुःखहेतुत्वेऽप्यनन्यलभ्यसाक्षात्पुरुषोत्तमा- नन्दप्राप्तिहेतुत्वेन सुखरूपत्वमेवेति । अन्यथा वियोगावस्थायां चित्तेस्फुरायमाणमानन्दत्वमिति न वदेत् । “को ह्येवान्यात्कः प्राण्यादि’ति, श्रुतेः वियोगावस्थायां हृदिविराजमानस्य भगवद्रूपस्यैव जीवनहेतुत्वमिति । तथैव श्रीभागवतेऽपि — “ता मन्मनस्का मत्प्राणा मदर्थे त्यक्तदैहिकाः । मामेव दयितं प्रेष्ठमात्मानं मनसा गताः । ये त्यक्तलोकधर्माश्च मदर्थे तान् बिभर्म्यहम् ।। (भा. १०।४६।४) अतः स्वपरमप्रियभगवद्दत्तं भगवत्सम्बन्धि यत्किमपि भक्तैः प्राप्यते तत्सर्वं सुखरूपमेव भवत्यतः भगवदलौकिकरसवार्त्तानभिज्ञस्य तव कृते तु कण्टकवेधदृष्टान्तवत्कामिनीकुचकुम्भे प्रणयप्रसङ्गे रसोत्कर्षे प्रियकृतनखवेधस्यापि दुःखहेतुत्वं भविष्यतीत्यलं प्रलापेन । एवं “यो वै भूमा तत्सुखं नाल्पे सुखमस्तीति” श्रुत्या परब्रह्मण एव सूखरूपत्वात्प्रतीयमानं प्रियत्वादि ब्रह्मण्येव पर्यवस्यति । वस्तुतः जीवस्य प्रियं ब्रह्म एव। एतदेव श्रीभागवते उक्तम् — “अहमात्माऽऽत्मनां धातः प्रेष्ठः सन् प्रेयसामपि । अतो मयि रतिं कुर्याद्देहादिर्यत्कृते प्रिय ।।इति।। अत्रेदं बोध्यम् । सिद्धान्ते रसात्मकं विरुद्धधर्माश्रयं साकारमेव परब्रह्म । “आत्मैव पूर्वमासीत् पुरुषविध” इति श्रुतेः । फलं च ब्रह्मानन्दः । तथा च “परं ब्रह्मैतद्धो ध्यायति रसति भजति सोऽमृतो भवति” इत्यस्य प्रत्येकं सम्बन्धो ज्ञेयः। इयं च भक्तिः फलरूपा । तल्लक्षणं तु परब्रह्मश्रीकृष्णस्नेहत्वमिति । तत्र “यमेवैष वृणुते तेनलभ्यः” इति वरणश्रुत्या वरणस्य मर्यादा पुष्टिभेदेन द्वैविध्यम् । मर्यादापक्षे विहितानि साधनानि शास्त्रेषु बहूनि सन्ति तेषां कायिकवाचिकमानसिकरूपप्रभेदाः । पुष्टौ तु वरणमेव साधनमिति । पुष्टौ भगवदनुग्रहेणैव सर्वपापक्षयः । lxii