भारतकोश
संग्रह पर लौटें

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

ब्रह्मचारिनियमः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ३५ मनसा चाऽनध्याये ॥ २५ ॥ अनध्यायकाले मनसा च अध्यायादनन्तरः स्यात् । सन्देहस्थानानि मनसा निरूपयेत् । अध्ययनविषयामेव चिन्तां कुर्यात् ॥ २५ ॥ आहूताध्यायी च स्यात् ॥ २६ ॥ आचार्येणाहूतस्सन्नधीयीत, नाध्यापने स्वयं प्रवर्तयेत् ॥ २६ ॥ ॥ इत्यापस्तम्बीये धर्मसूत्रे पञ्चमी कण्डिका ॥ सदा निशायां गुरुं संवेशयेत्तस्य पादौ प्रक्षाल्य संवाह्य ॥ १ ॥ सदा प्रत्यहं निशायां अतिक्रान्ते प्रदोषे गुरु संवेशयेत् । कथम् ? तस्य गुरोः पादौ प्रक्षाल्य संवाह्य च । संवाहनं मर्दनम् ॥ १ ॥ अनुज्ञातः संविशेत् ॥ २ ॥ (१)गुरुणाऽनुज्ञातस्तु स्वयं संविशेत् शयीत ॥ २ ॥ न चैनमभिप्रसारयीत ॥ ३ ॥ एनमाचार्यं प्रति पादौ न प्रसारयेत् ॥ ३ ॥ न खट्वायाँ सतोऽभिप्रसारणमस्तीत्येके ॥ ४ ॥ यदा तु गुरुः खट्वाया शेते तदा तं प्रति पादयोः प्रसारणं न दोषा- येत्येके मन्यन्ते, स्वपक्षस्तु तत्रापि दोष इति ॥ ४ ॥ न चाऽस्य सकाशे संविष्टो भाषेत ॥ ५ ॥ अस्याऽऽचार्यस्य सकाशे स्वयं संविष्ट. शयानो न भाषेत। कार्यावेदनादावु- त्त्थायैव भाषेत ॥ ५ ॥ अभिभाषितस्त्वासीनः प्रतिब्रूयात् ॥ ६ ॥ आचार्येणा(२)भिभाषितस्त्वासीनः प्रतिब्रूयात् । एतदाचार्ये आसीने शया- ने वा ॥ ६ ॥ अनूत्थाय तिष्ठन्तम् ॥ ७ ॥ १. पश्चाद्गुरुणा इति ख. पु २. अभिभाषिणस्सन् इति ख. पु.

३६ आपस्तम्बधर्मसूत्रे [ (प.२.)क.६. यदा त्वाचार्यस्तिष्ठन् ब्रूते तदा तमनूत्थाय प्रतिब्रूयात् । उत्तरे द्वे सूत्रे स्पष्टार्थे ॥ ७ ॥ गच्छन्तमनुगच्छेत् ॥ ८ ॥ धावन्तमनुधावेत् ॥ ९ ॥ न सोपानद्वेष्टितशिरा अवहितपाणिर्वासीदेत् ॥ १० ॥ उत्तरोपानत्प्रतिषेधा'न सोपान'दित्यनुवादः 'अध्वापन्नस्त्वि'ति प्रतिप्रसोतुम् । आचार्यं न सोपानत्क आसीदेत् । नापि वेष्टितशिराः । अवहितपाणि. दात्रादिहस्तः एवम्भूतोऽपि नासीदेत् ॥ ८-१० ॥ अध्वापन्नस्तु कर्मयुक्तो वाऽऽसीदेत् ॥ ११ ॥ अध्वानं प्राप्तोऽध्वापन्नः कर्मणि दात्रादिसाध्ये प्रवृत्तः कर्मयुक्तः एवं- भूतस्तु सोपानत्कोऽप्यासीदेत् ॥ ११ ॥ न चेदुपसीदेत् ॥ १२ ॥ (१) न चेदाचार्यस्समीपे, उपसीदेत् उपविशेत् । यदि तूपविशेदध्वा- पन्नः कर्मयुक्तो वा तदोपानत्प्रभृतीनि विहायोपविशेत् ॥ १२ ॥ देवमिवाचार्यमुपासीताऽविकथयन्नविमना वाचं शुश्रूषमाणोऽस्य ॥ १३ ॥ यो यं देवं भजते स तद्भावनया तमिवाऽऽचार्यमुपासीत । अविकथयन् (२)व्यर्थां कथामकुर्वन् । अविमनाः अविक्षिप्तमनाः । अस्याऽऽचार्यस्य वाचं शुश्रूषमाणः ॥ १३ ॥ अनुपस्थकृतः ॥ १४ ॥ (३)उपस्थकरणं प्रसिद्धम् । तत्कृत्वा नोपासीत ॥ १४ ॥ अनुवाति(४) वाते वीतः ॥ १५ ॥ वाते अनुवाति सति वीतः विपर्ययेणेतः उपासीत । प्रतिवातं तु वक्ष्यमा- णेन प्रतिषिध्यते । मनुरप्याह- (५)'प्रतिवातेऽनुवाते च नासीत गुरुणा सहे'ति ॥ १५ ॥ १. न चेदाचार्यसमीपे उपसीदेत् उपविशेत् इति ख, पु. २. व्यर्था कथा विकथा तामकुर्वन् इति. ख. पु. ३. आकुञ्चितस्य सव्यजानुनउपरिदक्षिणं पादं प्रक्षिप्योपवेशनमुपस्थकरणम् । ४. 'वाते' इति नास्ति ख. पु. ५. मनु. स्मृ. २.२०३.

ब्रह्मचारिनियमः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ३७ अप्रतिष्ठब्धः पाणिना ॥ १६ ॥ पाणिना प्रतिष्ठब्धो न स्यात् पाणितलं भूमौ कृत्वा पाण्यवलम्बनो नाऽऽसीत ॥ १६ ॥ अनपाश्रितोऽन्यत्र ॥ १७ ॥ अन्यत्र कुड्याद्यपाश्रितो न स्यात् । कुड्याद्यपाश्रितो नासीत ॥ १७ ॥ यज्ञोपवीती द्विवस्त्रः ॥ १८ ॥ यदा द्विवस्त्रस्तदा वाससोऽन्यतरेण यज्ञोपवीती स्यात् । (१) “अपि वा सूत्रमेवोपवीतार्थ” इत्येष कल्पस्तदा न भवति ॥ १८ ॥ अधोनिवीतस्त्वेकवस्त्रः ॥ १९ ॥ यदा त्वेकवस्त्रो भवति तदा अधोनिवीतः स्यात् । न तस्य दीर्घस्याप्येक- देशेनोत्तरीयं कुर्यात् ॥ १९ ॥ अभिमुखोऽनभिमुखम् ॥ २० ॥ स्वयमाचार्याभिमुखः आत्मानं प्रत्यनभिमुखमाचार्यमुपासीत । (२) स्व- यमाचार्यमपश्यन् आचार्यस्य पुरत आर्जवे नाऽऽसीत ॥ २० ॥ अनासन्नोऽनतिदूरे (३) च ॥ २१ ॥ अत्यासन्नो न स्यादतिदूरे च न स्यात् ॥ २१ ॥ यावदासीनो बाहुभ्यां प्राप्नुयात् ॥ २२ ॥ यावत्यन्तराले आसीन आचार्यं बाहुभ्यां प्राप्तुं शक्नुयात् तावत्या- सीत ॥ २२ ॥ अप्रतिवातम् ॥ २३ ॥ आचार्यस्य (४) प्रतिवाते नाऽऽसीत ॥ २३ ॥ एकाध्यायी दक्षिणं बाहुं प्रत्युपसीदेत् ॥ २४ ॥ यदा एक एवाधीते तदा आचार्यस्य दक्षिणं बाहुं प्रति दक्षिणे पार्श्व उपसीदत् उपविशेत् ॥ २४ ॥ यथावकाशं बहवः ॥ २५ ॥ १. आप ध २. ४. २२. २. स्वयमाचार्यमेव पश्यन् इति. ख पु. ३. चकारो नास्ति ख. पुस्तके ४. प्रतिवातं इति ख. पु

३८ आपस्तम्बधर्मसूत्रे [ (प्र. २.) क. ६. बहवस्तु शिष्या यथावकाशमुपसीदेयुः ॥ २५ ॥ तिष्ठति च नाऽऽसीताऽनासनयोगविहिते ॥ २६ ॥ आसनयोग आसनकल्पना । आसनयोगेन विहितस्सम्भावित आस- नयोगविहितः । आसनयोगेनाऽसम्भाविते आचार्ये तिष्ठति सति स्वयं नाऽऽसीत ॥ २६ ॥ आसीने च न संविशेत् ॥ २७ ॥ (१)'अशयनयोगविहिते' इति पूर्वानुसारेण गम्यते । शयनयोगेना- सम्भावित आचार्ये आसीने स्वयं न संविशेत् न शयीत ॥ २७ ॥ चेष्टति च चिकीर्षंस्तच्छक्तिविषये ॥ २८ ॥ व्यत्ययेन परस्मैपदम् । आचार्ये चेष्टति सति स्वयमपि तच्चिकीर्षन् स्यात् । किमविशेषेण, ? शक्तिविषये । यद्याचार्येण क्रियमाणमात्मनश्श- क्तेर्विषयो भवति । 'चिकीर्ष' न्निति सन्प्रयोगादिच्छामेव प्रदर्शयेत् ना च्छिद्य कुर्यात् । प्रदर्शितायां त्विच्छायामाचार्यश्चेदनुजानीयात् , कु र्यात् । अशक्तिविषये तु नेच्छापि प्रदर्शयितव्या । चिकीर्षेदिति युक्तः पाठः ॥ २८ ॥ न चास्य सकाशेऽन्वक्स्थानिन उप- सङ्गृह्णीयात् ॥ २९ ॥ आचार्यव्यतिरिक्ता गुरवोऽन्वक्स्थानिन इति स्मार्त्तो व्यवहारः । आ- चार्यः श्रेष्ठो गुरूणाम् । तमपेक्ष्यान्वक्स्थानं पदमेषामिति कृत्वा । आचार्य स्य सन्निधौ अन्वक्स्थानिनं नोपसङ्गृह्णीयात् ॥ २९ ॥ गोत्रेण वा कीर्तयेत् ॥ ३० ॥ न चैनमन्वक्स्थानिनं गोत्रेण अभिजनकुलादिना वा कीर्तयेत् न स्तुवीत भार्गवोऽयं महाकुलप्रसूत इति ॥ ३० ॥ न चैनं प्रत्युत्तिष्ठेदनुत्तिष्ठेद्वा(२)पि चेत्तस्य - गुरुः स्यात् ॥ ३१ ॥ प्रत्युत्थानमप्यस्य न कर्तव्यमाचार्यस्य सकाशे । यदा पुनरसावा- १. आसनयोग इति क० पु० २. अपि चेत्यादि सूत्रान्तरं. ख. च. पु ।

ब्रह्मचारिधर्माः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ३९ चार्यसकाशे त्वासित्वा गमनायोत्तिष्ठति तदाऽनुत्थानमपि न कर्तव्य- म् । यद्यप्यसौ तस्य(१)आचार्यस्य मातुलादिः गुरुः स्यात् । (२)'आचार्य- प्राचार्यसन्निपात' इति वक्ष्यति। तेनैव न्यायेन(३)मातुलादिष्वपि प्रसङ्गे इदमुक्तम् ॥ ३१ ॥ देशाच्चासनाच्च संसर्पेत् ॥ ३२ ॥ किं तु देशादासनाच्च संसर्पत्तस्य सम्मानार्थम् ॥ ३२ ॥ नाम्ना तदन्तेवासिनं गुरुमप्यात्मन इत्येके ॥ ३३ ॥ तस्याचार्यस्यान्तेवासिनं नाम्नैव कीर्तयेत् 'यज्ञशर्मन्नि'ति । यद्यप्यसा- वात्मनो गुरुर्भवति इत्येवमेके मन्यन्ते । स्वपक्षस्तु गुरोर्नामग्रहणं न कर्तव्यमिति ॥ ३३ ॥ यस्मिंस्त्वनाचार्यसम्बन्धाद्गौरवं वृत्तिस्त- स्मिन्नन्वक्स्थानीयेऽप्याचार्यस्य ॥ ३४ ॥ यस्मिंस्तु पुरुषे शिष्याचार्यभावमन्तरेणापि विद्याचारित्रादिना लौकिकानां गौरवं तस्मिन्नन्वक्स्थानीये ऽप्याचार्ये या वृत्तिस्सा कर्तव्या। अन्वक्स्थानीयोऽप्यनन्वक्स्थानीय्येव ॥ ३४ ॥ भुक्त्वा चास्य सकाशे नानुत्थायोच्छिष्टं प्रयच्छेत् ॥ ३५ ॥ आचार्यस्य भुञ्जानस्याऽभुञ्जानस्य वा सकाशे भुक्त्वा अनूत्थाय छान्दसो दीर्घः । उत्थानमकृत्वा उच्छिष्टं न प्रयच्छेत् (४)'आर्याय वा पर्यवदध्या'- दिति यद्विहितम् ॥ ३५ ॥ आचामेद्वा ॥ ३६ ॥ आचमनमप्यनुत्थाय न कुर्यात् ॥ ३६ ॥ किं करवाणीत्यामन्त्र्य ॥ ३७ ॥ आचम्य किं करवाणीति गुरुमामन्त्र्य ॥ ३७ ॥ इत्यापस्तम्बधर्मसूत्रे प्रथमप्रश्ने षष्ठी कण्डिका ॥ १. माणवकस्य इति क. पु. २. आप० ध० १. ८. १९ पूजां वक्ष्यतीति ख० पु० ३. मातुलादिप्रसङ्गे इति क० पु० ४. आप० ध० १. ३. ४०.

४० आपस्तम्बधर्मसूत्रे [ (प. २) क. ७. उत्तिष्ठेत्तूष्णीं वा ॥ १ ॥ उत्तिष्ठेत् तूष्णीं वा । विकल्पः । आमन्त्रयेति लिङ्गात्( १ )उत्थाया- प्याचामन्नाचार्यसकाश एवाऽऽचामेत् ॥ १ ॥ नापपर्यावर्तेत गुरोः प्रदक्षिणीकृत्याऽपेयात् ॥ २ ॥ उत्थाय कार्यवत्तया गन्तुमिच्छन् गुरोरप अपसव्यं न पर्यावर्तेत । किं तु प्रदक्षिणीकृत्याऽपेयात् ॥ २ ॥ न प्रेक्षेत नग्नां स्त्रियम् ॥ ३ ॥ यां प्रेक्षमाणस्य मनसो विकारो भवति तां नग्नां स्त्रिय नेक्षेत ॥ ३ ॥ (२)ओषधिवनस्पतीनामाच्छिद्य नोपजिघ्रेत् ॥ ४ ॥ ओषधयः फलपाकान्ताः । वनस्पतयो ये पुष्पैर्विना फलन्ति । वीरुद्- वृक्षाणामप्युपलक्षणम् । तेषां पत्रपुष्पाण्याच्छिद्य नोपजिघ्रेत् । 'आच्छिद्ये' तिवचना(३)द्यादृच्छिकाघ्राणे न दोषः ॥ ४ ॥ उपानहौ छत्रं यानमिति वर्जयेत् ॥ ५ ॥ यान शकटादि । इतिशब्द एवंप्रकाराणामुपलक्षणार्थः । तत्र गौतमः- (४)वर्जयेन्मधुमांसगन्धमाल्यदिवास्वप्नाञ्जनाभ्यञ्जनानोपानच्छत्र- कामक्रोधलोभमोहवादवादनस्नानदन्तधावनहर्षनृत्तगीतपरिवादभयानी- ति ॥ ५ ॥ न स्मयेत ॥ ६ ॥ स्मितं न कुर्यात् ॥ ६ ॥ यदि स्मयेताऽपिगृह्य स्मयेतेति हि ब्राह्मणम् ॥ ७ ॥ यदि हर्षातिरेकं धारयितुं न शक्यते अपिगृह्य हस्तेन मुखं पिधाय स्मयेत इति ब्राह्मणं 'न स्मयेते' त्यारभ्य ॥ ७ ॥ १. उत्थायाप्याचमन न कुर्यात् , आचार्यसमीप एवाचामेत् । इति. ख. पु. २. "अथैतत् ब्रह्मचारिणः पुण्यो गन्धो य ओषधिवनस्पतीनां तासां पुण्य गन्ध प्रच्छिद्य नोपजिघ्रेत् तेन त पुण्यं गन्धमवरुन्धे" इति गोपथब्राह्मणम् । (गो. ब्रा १. २. २) ३. यादृच्छिके गन्धग्रहणे न दोषः इति ख० पु० ४. गौ. ध. २-१३.

ब्रह्मचारिधर्माः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ४१ (१)नोपजिघ्रेत् स्त्रियं मुखेन ॥ ८ ॥ स्नाता(२)मनुलिप्तां वा स्त्रियं बालामपि मुखेन नोपजिघ्रेत् । ‘मुखेने’ ति वचनाद्यादृच्छिके गन्धाघ्राणे न दोषः ॥ ८ ॥ न हृदयेन प्रार्थयेत् ॥ ९ ॥ हृदयेन मनसा स्त्रियं न प्रार्थयेत्—अपीयं मम स्यादिति ॥ ९ ॥ नाकारणादुपस्पृशेत् ॥ १० ॥ कारणेन विना स्त्रियं नोपस्पृशेत् । कारणं योक्त्रसन्नहनविमोचनविषम- पतनधारणादि ॥ १० ॥ रजस्वलो रक्तदन्सत्यवादी स्यादिति हि ब्राह्मणम् ॥११॥ रजस्वलो मलिनगात्रः । रक्ता दन्ता यस्य स रक्तदन् । छान्दसो दन्ता- देशः । पङ्किलदन्त इत्यर्थः । एतदुभय ‘मुत्सन्नश्लाघ’(१-१-२७) इत्यनेन गतमपि पुनरुच्यते(३) श्रौतप्रायश्चित्तप्राप्त्यर्थम् । ‘अनृतं वोक्त्वा’(२-१-२७) ति प्रायश्चित्तं वक्ष्यति । सत्यवादी स्यादिति ब्राह्मणम् ॥ ११ ॥ यां विद्यां कुरुते गुरौ तेऽप्यस्याऽऽचार्या ये तस्यां गुरोर्वंश्याः ॥ १२ ॥ आत्मीये गुरौ यां विद्यां कुरुते अधीते तस्यां विद्यायां गुरोर्वंश्या आचार्यास्तेऽ- प्यस्य माणवकस्याचार्याः । यद्यपि साक्षात्तेभ्यो न गृह्यते विद्या तथापि आचार्यवदुपचरितव्याः । ‘तस्या’ मिति वचनाद्विद्यान्तरे ये वंश्यास्तेषु नायं विधिः ॥ १२ ॥ यानन्यान् पश्यतोऽस्योपसङ्गृह्णीयात्तदात्वे त उपसङ्ग्राह्याः ॥ १३ ॥ अस्य माणवकस्य पश्यत अस्मिन् माणवके पश्यति यानन्यनाचार्य उपसङ्- १. पञ्च ह वा एते ब्रह्मचारिण्यग्नयो धीयन्ते द्वौ पृथग्वस्तयोर्मुखे हृदये उपस्थ एव पञ्चमः । स यद्दक्षिणेन पाणिना स्त्रियं न स्पृशति तेनाहरहर्यज्ञिना लोकमवरुन्धे, यत्स- व्येन तेन प्रत्राजिनाम् , यन्मुखेन, तेनाग्निप्रस्कन्दिनां, यद्धृदयेन तेन शूराणां, यदुप स्थेन तेन गृहमेधिना, तैश्चेत् स्त्रियं पराहरत्यनग्निरिव शिष्यते ॥ इति गो. ब्रा. १. २ ४. २. अनुलिप्ताङ्गीं इति. ख पु. ३. श्रौतप्रायश्चित्तमतिक्रमे स्यादिति. ख. पु. आप० ध० ६

गृह्णीयाते माणवकस्याऽप्युपसङ्ग्राह्याः । किं सदा ? नेत्याह—तदात्वे तस्यां दशायाम् । अपर आह—तदा प्रभृति त उपसङ्ग्राह्याः । तुशब्दात् समावृत्तेनापि ॥ १३ ॥ गुरुसमवाये भिक्षायामुत्पन्नायां यमनुबद्ध- स्तदधीना भिक्षा ॥ १४ ॥ यदा द्वितीयं तृतीयं वा वेदमधीयानस्य माणवकस्य गुरुसमवायो भवति गुरवः समवेता भवन्ति, तदा भिक्षायामुत्पन्नायां य गुरुमिदानी- मनुबद्धो माणवकः यतोऽधीते तदधीना भिक्षा, यच्च यावच्च लब्धं तत्तस्मै निवेदनीयम् । (१)तदुक्तश्च विनियोगः ॥ १४ ॥ समावृत्तो मात्रे दद्यात् ॥ १५ ॥ कृतसमावर्तनो विवाहात्प्रागर्जितं मात्रे दद्यात् ॥ १५ ॥ माता भर्तारं गमयेत् ॥ १६ ॥ माता पतिं प्रापयेत् ॥ १६ ॥ भर्ता गुरुम् ॥ १७ ॥ (२) प्रापयेत् । माणवकस्य गुरुम्, माणवकार्जितं द्रव्यं तन्नामि युक्तम् ॥ १७ ॥ धर्मकृत्येषु वोपयोजयेत् ॥ १८ ॥ धर्मकृत्यानि विवाहादीनि । तेषु वोपयोजयेत् । गुरोरभावे भर्त्ता, तदभावे माता, सर्वेषामभावे समावृत्तस्स्वयमेव वा ॥ १८ ॥ कृत्वा विद्यां यावतीं शक्नुयात् वेददक्षिणामाहरेद्धर्मतो यथाशक्ति ॥ १९ ॥ यावतीं विद्या कर्तुं शक्नुयात् वेदं वेदौ वेदान्वा तावतीं कृत्वा अधीत्य गुरवे दक्षिणामाहरेत् दद्यात् । यथाशक्ति धर्मत उपलब्धां न्यायार्जिताम् ॥१९॥ धर्मत इत्यस्यापवादः— विषमगते त्वाचार्य उग्रतः शूद्रतो वाऽऽहरेत् ॥२०॥ १. ततश्च विनियोगः इति. क. पु. २. सोऽपि गुरु प्रापयेन्माणवकस्य इति ख. पु.

ब्रह्मचारिधर्माः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ४३ यदा स्वाचार्यो विषमगत आपद्गतः तदा उग्रतः शूद्रतो वाऽपि प्रतिगृह्य दक्षिणामाहरेत् । वैश्याच्छूद्रायां जात उग्रः, उग्रकर्मा वा द्विजातिः ॥२०॥ सर्वदा शूद्रत उग्रतो वाऽऽचार्य्यार्थस्याहरणं धर्म्ममित्येके ॥२१॥ सर्वदा आपद्यनापदि च, आचार्य्यार्थस्याचार्याय यो देयोऽर्थः तस्य, उग्रतः शूद्रतो वाऽऽहरणं धर्म्यं धर्मादनपेतमित्येके मन्यन्ते । 'धार्म्य'मिति पाठे स्वार्थे ष्यञ् ॥ २१ ॥ दत्त्वा च नाऽनुकथयेत् ॥ २२ ॥ आचार्याय एवमाहृत्य दत्वा न कीर्तयेत्, -एतन्मया दत्तमिति ॥ २२ ॥ कृत्वा च नाऽनुस्मरेत् ॥२३॥ गुरवे प्राणसंशयादौ महान्तमप्युपकारं कृत्वा नानुस्मरेत् नाऽनुचिन्त- येत्-अहो मयैतत्कृतमिति ॥ २३ ॥ आत्मप्रशंसां परगर्हामिति च वर्जयेत् ॥ २४ ॥ इतिकरणादेवंप्रकाराणामात्मभर्त्सनादीनामपि प्रतिषेधः ॥ २४ ॥ प्रेषित(१)स्तदैव प्रतिपद्येत ॥ २५ ॥ इदं कुर्वित्याचार्येण प्रेषितस्तदैव प्रतिपद्येत कुर्यात् क्रियमाणमपि कर्म विहाय, यद्यपि (२) तदाचार्यस्य भवति ॥ २५ ॥ शास्तुरिच्छाऽनागमाद्वृत्तिरन्यत्र ॥ २६ ॥ तस्मिंश्च 'विद्याकर्मान्त' मित्यस्यापवादः । यद्यधिगन्तुमिष्टा विद्या शास्तुः शासितुराचार्यस्य सम्यङ्नाऽऽगच्छति तदा तस्यानागमात् अन्यत्र पुरुषान्तरे वृत्तिर्भवत्येव यस्य सम्यगागच्छति । (३)येषामाचार्य- विधिप्रयुक्तमध्ययनं तेषामेतन्नोपपद्यत' इत्यवोचाम ॥ २६॥ अन्यत्रोपसङ्ग्रहणादुच्छिष्टाशनाच्चाऽऽचार्यवदाचा- र्यदारे वृत्तिः ॥ २७ ॥ अन्यत्रेत्युभयोश्शेषः । आचार्यवदाचार्यदारे वृत्तिः कर्तव्या । किं- १. तदेव इति ख पु. २. तदाचार्याय इति ख पु. ३ येषामित्याद्यवोचामत्येन्तः पाठो नास्ति ख. पुस्तके

४४ आपस्तम्बधर्मसूत्रे [ (प. २.) क. ७ मविशेषेण ? अन्यत्रोपसङ्ग्रहणादुच्छिष्टाशनाच्च, पादोपसङ्ग्रहणमुच्छिष्टाशनं च इत्येतदुभयं वर्जयित्वा । अत्र मनुः— (१)‘गुरुवद्गुरुपत्नीषु युवतीर्नाभिवादयेत् ।’ इति । गौतमस्तु, (२)‘तद्भार्यापुत्रेषु चैवं नोच्छिष्टाशनस्नापनप्रसाधनपा- दप्रक्षालनोन्मर्दनोपसङ्ग्रहणानि’ इति । ‘दार’ इत्येकवचनं छान्दसम्॥२७॥ तथा समादिष्टेऽध्यापयति ॥ २८ ॥ य आचार्येण समादिष्टो नियुक्तोऽध्यापयति तस्मिन्नाचार्यदारवद्वृत्तिः । ‘अध्यापयती’ति वर्तमाननिर्देशा(३)द्यावदध्यापनमेवायमतिदेशः ॥२८॥ वृद्धतरे च सब्रह्मचारिणि ॥ २९ ॥ अध्यापयतीति नानुवर्तते । तरनिर्देशात् ज्ञानवयोभ्यामुभाभ्यां वृद्धो गृह्यते । सब्रह्मचारी सहाध्यायी, समाने ब्रह्मणि व्रत चरतीति । त- स्मिन्नप्याचार्यदारवद्वृत्तिः । ‘आचार्यात्पादमादत्ते पादं शिष्यः स्वमेधया । पादं सब्रह्मचारिभ्यः पादः कालेन पच्यते ॥’ इत्यध्ययने उपयोगसम्भवात् ॥ २९ ॥ उच्छिष्टाशनवर्जमाचार्यवदाचार्यपुत्रे वृत्तिः ॥ ३० ॥ ‘उच्छिष्टाशनवर्ज’मिति वचनादुपसङ्ग्रहणं भवति । एतच्च ज्ञा- नवयोभ्यामुभाभ्यां वृद्धे । तदर्थं वृद्धतर इत्यनुवर्तते । गौतमीयस्तूपस- ङ्ग्रहणप्रतिषेधो वृद्धतरादन्यविषयः ॥ ३० ॥ समावृत्तस्याप्येतदेव सामयाचारिकमेतेषु ॥ ३१ ॥ कृतसमावर्तनस्याप्येतदेवानन्तरोक्तम् । एतेष्वाचार्यादिषु पुत्रान्तेषु सामयाचारिकं समयाचारप्राप्तं वृत्तमान्तात् । समादिष्टे त्वध्यापयती- ति(२८) विशेष उक्तः ॥ ३१ ॥ ॥ इत्यापस्तम्बीयधर्मसूत्रवृत्तावुज्ज्वलायां सप्तमी कण्डिका ॥ १. मनु. स्मृ २. २१२. गुरुपत्नी तु युवतिर्नाभिवाद्येह पादयो. । इति मुद्रितमनु- स्मृतिपाठः । २. गौ. ध. २ ३१. ३२ ३. यावदध्यापनं तावदेवातिदेशः इति. ख. पु.

स्नातकधर्माः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ४५ यथा ब्रह्मचारिणो वृत्तम् ॥ १ ॥ समावृत्तस्येति(१) वर्तते । समावृत्तस्य (२)ब्रह्मचारिणोऽकृतविवाहस्य यथा वृत्तं वर्तनं तथा वक्ष्यामः ॥ १ ॥ माल्यपालिप्तमुख उपलिप्तकेशश्मश्रुरक्तोऽभ्यक्तो वेष्टि- त्युपवेष्टिती काञ्चुक्युपानही पादुकी ॥ २ ॥ माली मालावान् । आलिप्तमुखश्चन्दनादिना । मुखग्रहणमुपलक्षणम् । (३)मुखमग्रे ब्राह्मणोऽनुलिम्पेदि'त्याश्वलायनवचनात्। सुगन्धिभिराल- कादिभिर्द्रव्यैरुपलिप्तानि संस्कृतानि केशश्मश्रूणि यस्य सः उपलिप्तकेश श्मश्रुः। अक्त अञ्जनेनाऽक्ष्णोः। अभ्यक्त तैलेन। वेष्टिती वेष्टितशिराः। कटि- प्रदेशो द्वितीयेन वाससा वेष्टितो यस्य सः उपवेष्टिती । कञ्चुकश्चोपानच्च कञ्चुकोपानहम् । (४)द्वन्द्वाच्चुद्दषहान्तादित्युच् समासान्तः । तद- स्यास्तीति कञ्चुकोपानही। द्वन्द्वोपतामगह्यर्वाप्राणिस्थादिनिप्रत्ययः। प्रसिद्धे पाठे कञ्चुकमेव काञ्चुकं तद्वान् काञ्चुकी । उपानद्वाञ्जुपा नही । व्रीह्यादि त्वादिनिः। पादुके दारुमये पादरक्षणे तद्वान् पादुकी ॥ २ ॥ उदाचारेषु चास्यैतानि न कुर्यात्कारयेद्वा ॥ ३ ॥ अस्याऽऽचार्यादेः पुत्रान्तस्य उदाचारेषु दृष्टिगोचरेषु देशेषु एतानि मा- ल्यादीनि न कुर्यात्कारयेद्वा ॥ ३ ॥ स्वैरिकर्मसु च ॥ ४ ॥ एतानि न कुर्यात् कारयेद्वा ॥ ४ ॥ तत्रोदाहरणम्— यथा दन्तप्रक्षालनोत्साधनावलेखनानीति ॥ ५ ॥ दन्तप्रक्षालनं दन्तधावनम् । उत्सादनमुद्वर्तनम् । अवलेखनं कङ्कतादिना केशानां विभागेनाऽवस्थापनम् । इतिशब्दः प्रदर्शनार्थः । तेन स्नानभो- जनमूत्रोच्चारादिष्वपि प्रतिषेधः ॥ ५ ॥ तद्द्रव्याणां च न कथयेदात्मसंयोगेनाऽऽचार्यः ॥ ६ ॥ १. अनुवर्तत इति ख. पु. २. कृतविवाहस्य' इति क पु ३. आश्व. गृ. ३. ७ १०. ४. पा. सू. ५. ४. १०६. चवर्गान्तात् वहान्ताच द्वन्द्वाद्टच् स्यात् समाहारे इति सूत्रार्थः ।

४६ आपस्तम्बधर्मसूत्रे [(प्र.२.)क. ८. तस्य शिष्यस्य गृहस्थभूतस्य यानि द्रव्याण्युपस्थापितानि तेषां मध्ये एकेनापि द्रव्येण यथाऽऽत्मा संयुज्यते तथा न कथयेत् । आचार्यः शिष्यगृह(१)मेत्य अहो दर्शनीयं भोजनपात्रमित्यादि(२) लिप्सा यथा गम्यते तथा न कथयेदिति ॥ ६ ॥ स्नातस्तु काले यथाविध्यभिहृतमाहूतोऽभ्येतो वा न प्रतिसंहरेदित्येके ॥ ७ ॥ (३)‘वेदमधीत्य स्नास्य’न्नित्यनेन विधिना स्नातः तस्मिन्काले यथाविध्यभि- हृतमाबद्धं स्रगादि आचार्येणाहूतः स्वयमेव वा तत्समीपमभ्येतो न प्रतिसंहरेत् न विमुञ्चेदित्येके मन्यते । स्वपक्षस्तु तदापि मुञ्चेदिति । ‘काले यथावि- र्ध्याभहृत'मिति वचनादपरेद्युरारभ्य प्रतिसंहरेदेव ॥ ॥ ७ ॥ उच्चैस्तरां नाऽऽसीत ॥ ८ ॥ स्वार्थे तरप् । आचार्यासनादुच्चासने नाऽऽसीत ॥ ८ ॥ तथा बहुपादे ॥ ९ ॥ नीचेऽप्यासने बहुपादे नाऽऽसीत ॥ ९ ॥ सर्वतः प्रतिष्ठिते ॥ १० ॥ आसने आसीत । आचार्यं पीठादावुपवेश्य स्वयं वेत्रासनादा- वासीत । तद्धि भूमौ सर्वतः प्रतिष्ठितम् ॥ १० ॥ शय्यासने चाऽऽचरिते नाविशेत् ॥ ११ ॥ आचार्येणाचरित उपभुक्ते शय्यासने नाऽऽविशेत् । शयने न शयीत आसने नासीत । पित्रादिष्वपि गुरुषु समानमिदम् । तथा च मनुर- विशेषेणाह-(४)शय्यासने चाध्युषिते श्रेयसा न समाचरेत् ।' इति ॥११॥ गतं समावृत्तस्य वैशेषिकम् । अथ ब्रह्मचर्यविधेरेव शेषः— यानमुक्तोऽध्वन्यन्वारोहेत् ॥ १२ ॥ यानं शकटादि । आरोहेत्युक्तो गुरुणा पश्चादारोहेत् । अध्वनि मार्गे १. प्रत्यागत इति ख. पु. २. ईप्सा इति. ख. पु. ३. आप. गृ. १२ १. ४. मनु. २. ११९ ‘शय्यासनेऽप्याचरिते' इति मेधातिथिसम्मतः पाठः । शय्या चासनं चेति द्वन्द्वैकवद्भावः ।

ब्रह्मचारिधर्माः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ४७ 'छत्रं यानमिति वर्जये'दिति पूर्वोक्तस्य प्रतिषेधस्यापवादः। यानं च गुर्वा- रूढमन्यद्वा ॥ १२ ॥ सभानिकषकटस्वस्तरांश्च ॥ १३ ॥ उक्तोऽध्वन्यन्वारोहेदित्येव । 'सभास्समाजांश्च' त्यस्यापवादार्थं सभाग्रहणम् । निकषो नाम कृषीवलानामुपकरणं, कृष्टं क्षेत्रं येन समीक्रि- यते, यच्च कस्मिंश्चिदारूढे(१) केनचिदाकृष्यते । तत्र गुरुणा आकृष्य- माणेऽपि तेनोकसन्नारोहेत । न त्वनौचित्यभयान्नान्वारोहेदिति । कटो वीरणनिर्मिता शय्या । तत्र गुरुणोक्तस्सन् सहाऽऽसीत । उत्सवादावेष आचारः । स्वस्तरो नाम पलालशय्या । (२) नवस्वस्तरे संविशन्ती'ति दर्शनात् । तत्रापि गुरुणोक्तस्सन् सहासनादि कुर्यात् ॥ १३ ॥ नानभिभाषितो गुरुमभिभाषेत प्रियादन्यत् ॥१४॥ गुरुणाऽनभिभाषितो गुरुं प्रति न किञ्चित् ब्रूयात् प्रियादन्यत् । प्रियं तु ब्रूयात् यथा ते पुत्रो जात इति ॥ १४ ॥ व्युपतोदव्युपजापव्यभिहासोदामन्त्रणनामधेयग्रहण- प्रेषणानीति गुरोर्वर्जयेत् ॥ १५ ॥ व्युपतोद. (३)अङ्गुल्यादिघट्टनं यदाभिमुख्यार्थं क्रियते । व्युपजापः श्रोत्रयोर्मुहुर्मुहुर्जल्पनम् । वकारश्छान्दसोऽपपाठो वा । व्यभिहासः आभिमुख्येन हसनम् । उदामन्त्रणमुच्चैस्सम्बोधनम्, यथा बधिरं प्रति । नामधेयग्रहणं दशम्यां पितृविहितस्य नाम्नो ग्रहणम्। न पूज्यनाम्नो भग- वदादेः । प्रेषणमाज्ञापनम् । एतानि गुरुविषये न कर्तव्यानि । इतिकरणा- देवंप्रकाराणामन्येषामपि प्रतिषेधः । यथाऽऽह मनुः— (४) नोदाहरेत्तस्य नाम परोक्षमपि केवलम् । न चैवास्यानुकुर्वीत गतिभाषितचेष्टितम् ॥ इति ॥ १५ ॥ आपद्यर्थं ज्ञापयेत् ॥ १६ ॥ आपदि व्युपतोदादिभिरप्यर्थमभिप्रेतं ज्ञापयेत् । असति पुरुषान्तरे (५)वचनेनापि बोधयेत्, न साक्षात्प्रेषयेत्, यथा-शूलतोदो मे भवति, १. केनचिदाकृष्यमाणे क्षेत्रं समं भवति, इति. घ. पु. २. आ.प. गृ. १९-९ ३ अङ्गुल्यादिना संघट्टनम् इति. घ. पु. ४. मनु. २-१९९ ५ वचनेनैव इति क. पु.

४८ आपस्तम्बधर्मसूत्रे [ (प्र.१) क. ८. स चाऽग्निना शाम्यति, न चात्र कश्चित्सन्निहितः, किं करोमि मन्दभाग्य इति ॥ १६ ॥ उत्तरे सूत्रे समावृत्तविषये— सहवसन्सायं प्रातरनाहूतो गुरुं दर्शनार्थी गच्छेत् ॥१७॥ सह एकस्मिन् ग्रामे वसन् साय प्रातरनाहूतोऽपि गुरुं दर्शनार्थी नान्यप्रयोजनो गच्छेत् ॥ १७ ॥ विप्रोष्य च तदहरेव पश्येत् ॥ १८ ॥ यदा ग्रामान्तरं गतः प्रत्यागच्छति तदा तदहरेवाऽऽचार्यं पश्येत् ॥१८॥ आचार्यप्राचार्यसन्निपाते प्राचार्यायोपसंगृह्योपसञ्जि- घृक्षेदाचार्यम् ॥ १९ ॥ आचार्यस्याऽऽचार्यः प्राचार्य प्रपितामहवत् । यदा आचार्यस्य प्राचा- र्यस्य च कार्यवशात् सन्निपातो मेलनं भवति, तदा प्राचार्याय द्वितीयार्थे चतुर्थी । प्राचार्य पूर्वमुपसंगृह्य पश्चात्स्वाचार्यमुपसङ्ग्रहीतुमिच्छेत् । न केवलं मनसा किन्तु यथाऽऽचार्यो जानाति मामयमुपसञ्जिघृक्षतीति तथा चेष्टेत । अन्यथा अदृष्टार्थमुपदिष्टं स्यात् ॥ १९ ॥ प्रतिषेधेदितरः ॥ २० ॥ इतर आचार्यः प्रतिषेधेत् 'वत्स मा मोपसङ्ग्रही'रिति ॥ २० ॥ लुप्यते पूजा चाऽस्य सकाशे ॥ २१ ॥ अस्य प्राचार्यस्य सकाशे सन्निधौ आचार्यस्य पूजा लुप्यते न कार्या । न केवलमुपसङ्ग्रहणमेव । उत्तरसूत्रं समावृत्तविषयम् ॥ २१ ॥ मुहुंश्चाऽऽचार्यकुलं दर्शनार्थी गच्छेद्यथाशक्त्यधिहस्त्यमा- दायाऽपि दन्तप्रक्षालनानीति ॥ २२ ॥ मुहुंश्चेत्यनुस्वारदीर्घौ छान्दसौ । वीप्सालोपश्चात्र द्रष्टव्यः । मुहुर्मुहु रिति विवक्षितम् । ग्रामान्तरे वसन्नपि मुहुर्मुहुराचार्यकुलं दर्शनार्थमागच्छे- त् । यथाशक्ति गोरसापूपादि अधिहस्त्य हस्ते भवमादाय स्वयमेव गृहीत्वे- त्यर्थः । अपिशब्दोऽभावे विधिं द्योतयति—गोरसाद्यभावे दन्तकाष्ठान्य- पीति । इतिशब्दः अन्तेवासिधर्माणां समाप्तिद्योतनार्थः ॥ २२ ॥

ब्रह्मचारिधर्माः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ४९ (१)मातरं पितरमाचार्यमग्नींश्च गृहाणि च रिक्त- पाणिर्नोपगच्छेद्राजानं चेन्न श्रुतामिति ॥ २३ ॥ तस्मिन्गुरोर्वृत्तिः ॥ २४ ॥ तस्मिन्नन्तेवासिनि गुरोर्वृत्तिः । वृत्तेः प्रकारो वक्ष्यते ॥ २३ ॥ २४ ॥ पुत्रमिवैनमनुकाङ्क्षन् सर्वधर्मेष्वनपच्छादयमानः सुयुक्तो विद्यां ग्राहयेत् ॥ २५ ॥ एनं शिष्यं पुत्रमिव(२) अस्याऽभ्युदयः स्यादिति अनुकाङ्क्षन् सर्वेषु धर्मेषु किञ्चिदप्यनपच्छादयमानः अगूहन् सुयुक्तः सुष्ठ्ववहितः तत्परो भूत्वा विद्यां ग्राहयेत् ॥ २५ ॥ न चैनमध्ययनविघ्नेनात्मार्थेषूपरुन्ध्यादनापत्सु ॥२६॥ न चैनं शिष्यमध्ययनविघ्नेनाऽऽत्मप्रयोजनेष्वनापत्सूपरुन्ध्यात् । (३)उपरो- धः अस्वन्त्रीकरणम् । 'अनापत्स्व' तिवचनादापद्यध्ययनविघातेना- ऽप्युपरोधे न दोषः ॥ २६ ॥ अन्तेवास्यनन्तेवासी भवति विनिहितात्मा गुरावनैपुणमापद्यमानः ॥ २७ ॥ 'आपद्यमान' इत्यन्तर्भावितण्यर्थः । योऽन्तेवासी विनिहितात्मा द्वयोरा- चार्ययोः(४)विविधं निहितात्मा गुरावनैपुणमापादयति-नाऽनेनाऽयं प्रदेशः सम्यगुक्त इति, सोऽन्तेवासी न भवति । स त्याज्य इत्यर्थः(५) । अपर आह-योऽन्तेवासी वाङ्मनःकर्मभिरनैपुणमापद्यमानो गुरौ वि- सदृशं निहितात्मा भवति अनुरूपं न शुश्रूषते सोऽन्तेवासी न भवतीति॥२७॥ आचार्योऽप्यनाचार्यो भवति श्रुतात्परिहरमाणः॥२८॥ आचार्योऽप्यनाचार्यो भवतीति, त्याज्य इत्यर्थः । किं कुर्वन् ? श्रुतात्परिहरमा- णः तेन तेन व्याजेन विद्याप्रदानमकुर्वन् ॥ २८ ॥ १. इदं सूत्रं क. पुस्तक एव दृश्यते । नान्यत्र । २. अ+यासादिषु इति ङ. पु. ३. उपरोधः स्वतन्त्रीकरणम्. इति. ड. पु. ४. विधिवत् इति. ख. पु. । ५. “अत्र मनुः-धर्मार्थौ यत्र न स्यातां शुश्रूषा वापि तद्विधा । तत्र विद्या न वप्तव्या शुभं बीजमिवोषरे इति-”इत्यधिकः पाठो दृश्यते ख. पुस्तके आप०ध० ७

५० आपस्तम्बधर्मसूत्रे [ (प.२.) क.८. अपराधेषु चैनं सततमुपालभेत ॥ २९ ॥ अपराधेषु कृतेष्वेनं शिष्यं सततमुपालभेत-इदमयुक्तं त्वया कृतमिति ॥२९॥ अभित्रास उपवास उदकोपस्पर्शनमदर्शनमिति दण्डा यथामात्रमानिवृत्तेः ॥ ३० ॥ अभित्रासो (१)भयोत्पादनम् । उपवासो भोजनलोपः। उदकोपस्पर्शनं शीतोदकेन स्नापनम्। अदर्शनं यथाऽऽत्मानं न पश्यति तथा करणम्। गृहप्रवेशनिषेधः। सर्वत्र ण्यन्तात् प्रत्ययः । इत्येते दण्डाः शिष्यस्य यथामात्रं यावत्यपराध मात्रा तदनुरूपं व्यस्ताः समस्ताश्च । आनिवृत्ते- यावदसौ न ततोऽपराधा- न्निवर्तते तावदेते दण्डाः ॥ ३० ॥ निवृत्तं चरितब्रह्मचर्यमन्येभ्यो धर्मेभ्योऽनन्तरो भवेत्यतिसृजेत् ॥ ३१ ॥ एवं चरितब्रह्मचर्यं निवृत्तं गुरुकुलात् कृतसमावर्तनमित्यर्थः । एवंभूत- मन्येभ्यो धर्मेभ्यो यमसावाश्रमं प्रतिपित्सते तत्र तेभ्योऽनन्तरो भव यथा त्व- मन्तरितो न भवसि तथा भवेत्युक्त्वाऽतिसृजेत् । तं तमाश्रमं प्रतिपत्तुमु- त्सृजेत् ॥ ३१ ॥ इत्यापस्तम्बसूत्रवृत्तावुज्ज्वलायामष्टमी कण्डिका ॥ इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तविरचितायामुज्ज्वलायां प्रथमप्रश्ने द्वितीयः पटलः ॥ २ ॥ १ रज्जुवेष्वादिना भयोत्पादनम् इति, ख. पु.

अनध्यायाः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ५१ एवमध्येतुरध्यापयितुश्च धर्मा उक्ताः। अथ देशकालकृता अध्ययन- धर्मा उच्यन्ते— श्रावण्यां पौर्णमास्यामध्यायमुपाकृत्य मासं प्रदोषे नाधीयीत ॥ १ ॥ मेषादिस्थे सवितरि यो यो दर्शः प्रवर्त्तते । चान्द्रमासास्तत्तन्नाम्नैत्राद्या द्वादश स्मृताः । तेषु या या पौर्णमासी सा सा चैत्रादिका स्मृता । काञ्चित्केन योगेन नक्षत्रस्येति निर्णयः ॥ तदेवं सिंहस्थे सवितरि याऽमावास्या तदन्ते चान्द्रमसे मासे या मध्यवर्तिनी पौर्णमासी सा श्रावणी । श्रवणयोगस्तु भवतु वा मा वा । तस्यां श्रावण्यां पौर्णमास्यामध्यायमुपाकृत्य गृहोक्तेन विधिनोपाकर्म कृ- त्वा स्वाध्यायमधीयीत । अधीयानश्च मासमेकं प्रदोषे प्रथमे रात्रिभागे ना धीयीत ग्रहणाध्ययनं धारणाध्ययनं च न कुर्यात् । प्रदोषग्रहणाद्रात्रा वप्यूर्ध्वं न दोषः ॥ १ ॥ तैष्यां पौर्णमास्यां रोहिण्यां वा विरमेत् ॥ २ ॥ तिष्यः पुष्यः; तेन युक्ता पौर्णमासी तैषी श्रावणीवत्। तस्यां विरमेत् । उत्सर्जनं कुर्यात् । तस्यापि प्रयोगो(१)गृह्य एवोक्तः । रोहिण्यां वा, (२)तै- षमासि तिष्यात्पूर्वा या रोहिणी तस्यां वा विरमेत् । अनयोः पक्षयोः पञ्च मासानधीयीत ॥ २ ॥ अर्धपञ्चमांश्चतुरो मासानित्येके ॥ ३ ॥ अर्धेः पञ्चमो येषां ते अर्धपञ्चमाः । अर्धाधिकांश्चतुरो मासान् अधीयीते त्यपेक्ष्यत (३) इत्येके मन्यन्ते । अस्मिन्पक्षे प्रोष्ठपद्यामुपाकरणं शास्त्रान्त- रदर्शनात् । उत्सर्जनस्य वा प्रतिकर्षः । उत्सर्जने च कृते श्रावण्याः प्राक् शुक्लपक्षेषु धारणाध्ययनं वेदस्य, कृष्णपक्षेषु व्याकरणायङ्गाध्य- यनम् । पुनः श्रावण्यामुपाकृत्यागृहीतभागस्य ग्रहणाध्ययनमिति । प्र- पञ्चितमेतद्(४)गृह्ये ॥ ३ ॥ १. आपस्तम्बगृह्यसूत्रान्तर्गतोपाकर्मोत्सर्जनपटलव्याख्यानेऽनाकुलायामित्यर्थः । (आप. गृ. सू. पृ. १५४) एतद्वचनबलादेव हरदत्तेनोपाकर्मोत्सर्जनारूयः पटल. आपस्तम्बगृह्या न्तर्गतो व्याख्यात इत्यवगम्यते इति न्यूरूयायाम गृह्यटिप्पण्याम् । २. 'तिष्ये मासि भंवा या रोहिणी' इति ड. पु. ३. अत्र मनुः ४. ९५. द्रष्टव्यः । ४ आप. गृ. ७. १. पृ. ११०.

५२ आपस्तम्बधर्मसूत्रे [ (प.३.) क.९ निगमेष्वध्ययनं वर्जयेत् ॥ ४ ॥ निगमाश्चत्वराः । ग्रामनिर्गमनामार्गा वा ; नियमेन गम्यते तेष्विति । तेषु सर्वप्रकारमध्ययनं वर्जयेत् ॥ ४ ॥ आनडुहेन वा शकृत्पिण्डेनोपलिप्तेऽधीयीत ॥ ५ ॥ अनडुत्सम्बन्धिना वा शकृत्पिण्डेनोपलिप्य निगमेष्वप्यधीयीत॥५॥ श्मशाने सर्वतः शम्याप्रासात् ॥ ६ ॥ श्मशाने चाध्ययनं वर्जयेत् । सर्वतः सर्वासु दिक्षु । शम्या क्षिप्ता याव ति देशे पतति ततोऽर्वागिति पञ्चमीनिर्देशाद्गम्यते ॥ ६ ॥ ग्रामेणाऽध्यवसिते क्षेत्रेण वा नाऽनध्यायः ॥ ७ ॥ यदा श्मशानं ग्रामतया क्षेत्रतया वा अध्यवसितं स्वीकृतं भवति तदा अध्येतव्यमेव ॥ ७ ॥ ज्ञायमाने तु तस्मिन्नेव देशे नाऽधीयीत ॥ ८ ॥ यदा तु तदध्यवसितमपि श्मशानं ज्ञायते-अयं स प्रदेश इति, तदा तावत्येव प्रदेशे नाऽधीयीत । न शम्याप्रासात् ॥ ८ ॥ (१) श्मशानवच्छूद्रपतितौ ॥ ९ ॥ शूद्रपतितसकाशेऽपि शम्याप्रासान्नाऽध्येयम् ॥ ९ ॥ समानागार इत्येके ॥ १० ॥ एके मन्यन्ते समानागारे शूद्रपतितौ वर्ज्यौ, न शम्याप्रासादिति ॥१०॥ शूद्रायां तु प्रेक्षणप्रतिप्रेक्षणयोरेवाऽनध्यायः ॥ ११ ॥ शूद्रायां तु यदा परस्परं प्रेक्षणं भवति तदैवाऽनध्यायः । न समानागारे, नापि शम्याप्रासादिति ॥ ११ ॥ तथाऽन्यस्यां स्त्रियां वर्णव्यतिक्रान्तायां मैथुने ॥१२॥ शूद्राव्यतिरिक्ताऽपि या स्त्री मैथुने वर्णव्यतिक्रान्ता नीचगामिनी तस्या मपि प्रेक्षणप्रतिप्रेक्षणयोरनध्यायः ॥ १२ ॥ ब्रह्माध्येष्यमाणो मलवद्वाससेच्छन् सम्भा- १ याज्ञवल्क्योऽत्र १. १४८. द्रष्टव्यः ।

अनध्यायाः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ५३

षितुं ब्राह्मणेन सम्भाष्य तया सम्भाषेत । सम्भाष्य तु ब्राह्मणेनैव सम्भाष्याऽधीयीत । एवं तस्याः प्रजानिःश्रेयसम् ॥१३॥ यो वेदमध्येष्यमाणो मलवद्वाससा रजस्वलया सह सम्भाषितुमि- च्छति स पूर्वं ब्राह्मणेन सम्भाष्य पश्चात्तया सम्भाषेत । सम्भाष्य च पुनरपि ब्राह्मणेनैव सम्भाष्याऽधीयीत । किमेवं सति भवति ? एवं तस्या मलवद्वासस आगामिनी या प्रजा तस्या निःश्रेयसमभ्युदयो भवति । प्रजारूपं वा निःश्रेयसं तस्या भवति । 'प्रजानिःश्रेयस'मिति- वचनात् विधवाद्विभिः सह सम्भाषणे नैतत्कर्तव्यम् ॥ १३ ॥ (१) अन्तश्शवम् ॥ १४ ॥ अन्तश्शवो यत्र ग्रामे तत्र नाध्येयम् । एतेना 'न्तश्चाण्डाल'मिति व्याख्यातम् ॥ १४ ॥ अन्तश्चाण्डालम् ॥ १५ ॥ चण्डाल एव दाण्डालः । उभयत्र प्रथमा सप्तम्यर्थे । अव्ययीभावो वा विभक्त्यर्थे द्रष्टव्यः ॥ १५ ॥ (२)अभिनिस्सृतानां तु सीम्न्यनध्यायः ॥ १६ ॥ यदा शवाः सीम्नि अभिनिस्सृता भवन्ति तदा तत्राऽनध्यायः ॥ १६ ॥ सन्दर्शने चाऽरण्ये ॥ १७ ॥ अरण्ये च यावति प्रदेशे शवश्चण्डालो वा सन्दृश्यते तावत्यन- ध्यायः ॥ १७ ॥ तदहरागतेषु च ग्रामं बाह्येषु ॥ १८ ॥ बाह्याः उग्रनिषादादयः परिपन्थिनः तेषु च ग्राममागतेषु तदहरनध्या- यः, तस्मिन्नहनि नाऽध्येतव्यम् ॥ १८ ॥ अपि सत्सु ॥ १९ ॥ ये विद्याचरित्रादिभिर्महान्तः सन्तः तेष्वपि ग्राममागतेषु तदहर- नध्यायः ॥ १९ ॥

१. मनु. ४. १०८ द्रष्टव्यः । २ अभिनिर्हताना इति. ख. पु.

५४ आपस्तम्बधर्मसूत्रे [ (प.३.) क. ९. सन्धावनुस्तनिने रात्रिम् ॥ २० ॥ सन्धिः सन्ध्या तस्मिन् सन्धौ । अनुस्तनिते मेघगर्जिते सति रात्रिं (१)सर्वां रात्रिं नाऽधीयीत । वर्षतांत्विदम् । अन्यस्मिन्नधिकं वक्ष्यति ॥२०॥ स्वप्नपर्यन्तं विद्युति ॥ २१ ॥ अन्त्यो दीर्घ उपान्त्यो ह्रस्वः । विपर्यासश्छान्दसोऽपपाठो वा । सन्धौ विद्युति सत्यां स्वप्नपर्यन्तां रात्रिमनध्यायः न सर्वाम् । स्वप्नपर्यन्ता रात्रिः प्रहरावशिष्टा ॥ २१ ॥ एवं सायं सन्ध्यायामुक्तं, प्रातस्सन्ध्यायामाह- उपव्युषं यावता वा कृष्णां रोहिणीमिति शम्या- प्रासाद्विजानीयादेतस्मिन्काले विद्योतमाने सप्रदोषमहरनध्यायः ॥ २२ ॥ उपव्युषं उषस्समीपे तत्र विद्योतमाने विद्युति सत्यामपरेद्युस्सप्रदो- षमहरनध्यायः । प्रदोषादूर्ध्वं रात्रावध्ययनम् । यावता वा कालेन शम्याप्रा- सादर्वागवस्थितां गां कृष्णामिति वा रोहिणीमिति वा विजानीयात् । एत- स्मिन्काले उपव्युषं विद्योतमान इत्यन्वयः । रोहिणी गौरवर्णा । इतिशब्द- प्रयोगे द्वितीया प्रयुज्यते । तत्राऽन्वयप्रकारश्चिन्त्यः ॥ २२ ॥ दृढेऽपररात्रे स्तनयित्नुना ॥ २३ ॥ रात्रेस्तृतीयो भागः सर्वोऽपररात्रः । तस्य त्रेधा विभक्तस्याद्योऽशो महारात्रः । अन्त्यो दृढः । तस्मिन् दृढेऽपररात्रे स्तनयित्नुना निमित्तेन सप्र- दोषमहरनध्यायः ॥ २३ ॥ ऊर्ध्वमर्धरात्रादित्येके ॥ २४ ॥ अर्धरात्रादूर्ध्वमनन्तरोक्को विधिरित्येके मन्यन्ते । स्वपक्षस्तु दृढ एवेति ॥ २४ ॥ गवां चाऽवरोधे ॥ २५ ॥ दस्युप्रभृतिभिरवरुद्धासु गोषु तावन्तं कालमनध्यायः । अवरोधो ग्रामाद्विर्गमनिरोधः ॥ २५ ॥ बध्यानां च यावता हन्यन्ते ॥ २६ ॥

१. अस्य सूत्रत्वेन परिगणनं कृतं क पु.