आर्यभटीयम् (आचार्य आर्यभट - परमेश्वर टीका एवं हिन्दी अनुवाद)
Aryabhatiya of Aryabhata with Hindi Commentary
आचार्य आर्यभट (४७६ ई.) / पं. उदयनारायण सिंह द्वारा
४ आर्य्यभटीयस्य विषयाणां सूचीपत्रम् ॥ विषय पृष्ठाङ्क गोल के भ्रमण का उपाय— ८०-८१ क्षेत्र कल्पना का प्रकार और अक्षावलम्बक— ८१-८२ स्वाहोरात्रार्द्ध— ८२ निरक्ष देश में राशि का उदय प्रमाण— ८२-८३ दिन रात्र की हानि वृद्धि । ८२ स्वदेशीय राशियों का उदय । ८३-८४ इष्टकाल में शङ्कु का लाना । ८५ शङ्कु अग्रा को लाना । ८५-८६ अर्क अग्रा का लाना । ८६ सूर्य का सम मण्डलप्रवेश काल में शङ्कु का लाना ८६-८७ मध्यान्ह 'शङ्क और उस की छाया । ८७ दृक्क्षेप ज्या का लाना । ८७-८८ दृग्गति, उयावलम्बन योजन का लाना । ८८-८९ चन्द्रादि के उदयास्त लग्न सिद्धि के लिये अपने २ विक्षेप दृक् कर्म । ८९ आयर्न दृक्कर्म । ८९-९० चन्द्र, सूर्य, भूमि छाया के चन्द्र सूर्य ग्रहण के स्वरूप । ९० ग्रहणकाल । ९०-९१ भूछाया का दैर्घ । ९१ भूछाया के चन्द्रकक्षा प्रदेश में व्यास योजन का लाना । ९१-९२ स्थित्यर्ध का लाना । ९२ विमर्दार्धकाल का लाना । ९२-९३ ग्रस्त शेष प्रमाण— ९३ तात्कालिक ग्रास परिमाण— ९३ स्पर्श मोक्षादि ज्ञान— ९३-९४ गृहीत विम्ब स्थान वर्णन— ९४-९५ सूर्यग्रहण में अदृश्य भाग— ९५ स्वशास्त्र प्रतिपादित ग्रह गति से दृक् संपात द्वारा स्फुटत्वं-- ९५-९६ शास्त्र का मूल— ९६ उपसंहार— ९६ आर्य्यभटीय की विषयसूची समाप्त हुई ॥
॥ ओ३म् ॥ अथार्यभटीयं ज्योतिषशास्त्रम् ॥ " यस्तेजः प्रेरयेत् प्रज्ञां सर्वस्य शशिभूषणम् । मृगटङ्काभयेष्टाङ्कन्त्रिणेत्रन्तमुपास्महे ॥ लीलावती भास्करीयं लघु चान्यच्च मानसम् । व्याख्यातं शिष्यबोधार्थं येन प्राक्तेनं चाधुना ॥ तन्त्रस्यार्यभटीयस्य व्याख्याल्पा क्रियते मया । परमादीश्वराख्येन नाम्नात्र भटदीपिका ॥" तत्रायमाचार्य आर्यभटो विघ्नोपशमनार्थं स्वेष्टदेवतानमस्कारं प्रतिपा- द्य वस्तुकथनञ्चार्यरूपया करोति ॥ प्रणिपत्यैकमनेकं कं सत्यां देवतां परं ब्रह्म । आर्यभटस्त्रीणि गदति गणितं कालक्रियां गोलम्॥ इति ॥ कं ब्रह्माणं एकं कारणरूपेणैकं अनेकं कार्यरूपेणानेकं सत्यां देवतां देव एवदेवता। स्वयम्भूरैव पारमार्थिको देव अन्ये तेन सृष्टा इत्यपारमार्थिकाः। परंब्रह्म जगतो मूलकारणं त्रिमूर्त्यतीतं सर्वव्याप्तं ब्रह्म स्वयम्भूरित्युक्तौ भ- वति । आर्यभट एवं ब्रह्माणं प्रणिपत्य गणितं कालक्रियां गोलम्-इत्येतानि त्रीणि वस्तूनि निगदति * परोक्षत्वेन निर्देशान्निगदतीति वचनम्। तत्र गणि- तन्नाम सङ्कलितमिश्रश्रेढीदर्शधीकुट्टाकारच्छायाक्षेत्राद्यनेकविधम् । इह तु काल- क्रियागोलयोर्यावन्मात्रं परिकरभूतं तावन्मात्रं सामान्यगणितमेव प्रायशः प्र- तिज्ञातम् । अन्यच्च किञ्चित्। कालस्य क्रिया कालक्रिया । कालपरिच्छेदोपाय- भूतं ग्रहगणितं कालक्रियेत्यर्थः । गोलनाम ब्रह्माण्डकटाहमध्यवर्त्याकाशम- ध्यस्थसंहनक्षत्रकक्ष्यात्मकं स्वमध्यस्थघनवृत्तभूमिकमपक्रमाद्यशेषविशेषोपेतं प्रवाहाख्यवायुप्रेरितं कालचक्रज्योतिश्चक्रभपञ्जरादिशब्दवाच्यं गोलः । स च
२ गीतिकापादः ॥ वृत्तक्षेत्रत्वाच्चतुरश्राद्यनेकक्षेत्रकल्पनाधारत्वाच्च गणितविशेषगोचर एव । एतच्च यमपि द्विविधम् । उपदेशमात्रावसेयन्तन्मूलन्यायावसेयञ्चेति । तत्र युगप्रमाण मन्दोच्चादिवृत्ताद्युपक्रमाद्युपदेशमात्रावसेयम् इष्टदिनग्रहगतीष्टापक्रमस्वाहोरा- त्रचरदलादिच्छायानाडिकाद्युपदेशसिद्धयुगप्रमाणादितो न्यायावसेयम् । एवं द्वै- विध्यम् ॥ अत्र स्वयम्भूप्रणामकरणेन करिष्यमाणस्य तन्त्रस्य ब्रह्मसिद्धान्तं मूलमिति च प्रदर्शितम् ॥ अथोपदेशावगम्यान्युगभगणादीन् सङ्क्षेपेण प्रदर्शयितुं दशगीतिकासूत्रं क- रिष्यन् तदुपयोगिनीं परिभाषामाह ॥ भा०:-अनेक दैवतायों में परमश्रेष्ठ ब्रह्मा-जगत् स्रष्टा (जिस ने अनेक देवों को रचा ) को प्रणाम कर आर्यभट ( ग्रन्थकार ) ' गणित , 'कालक्रिया' और ' गोल विद्या ' इन तीन वस्तुओं को वर्णन करते हैं ॥ वर्गाक्षराणि वर्गेऽवर्गे ऽवर्गाक्षराणि कात् ङ्मौ यः । खद्विनवके स्वरा नव वर्गेऽवर्गे नवान्त्यवर्गे वा ॥ इति=वर्गाक्षराणि वर्गे। ककारादीनि मकारान्तानि वर्गाक्षराणि । तानि वर्गस्थाने एकशतायुताद्योजस्थाने स्थाप्यानि । एवं क्रमेण संख्या वेद्या ॥ अ- वर्गे अवर्गाक्षराणि। यकारादीनि अवर्गाक्षराणि । तान्यवर्गस्थाने दशसहस्र- लक्षादियुग्मस्थाने स्थाप्यानि । कात् ककारादारभ्य संख्या वेद्या । ककार- एकसंख्यः खकारो द्विसंख्य एवं क्रमेण संख्या वेद्या । ञकारो दशसंख्यः । टकार- एकादशसंख्यः । नकारो विंशतिसंख्यः । मकारः पञ्चविंशतिसंख्यः । एवं लि- पिपाठक्रमेण संख्या वेद्या ॥ ङ्मौ यः । ङकारमकारयोर्योगेन तुल्यो यकारः पञ्चसंख्यायाः पञ्चविंशतिसंख्यायाश्च योगस्त्रिंशत्संख्य इत्यर्थः । अत्र प्रथम- स्थानमङ्गीकृत्य त्रिंशदित्युक्तं नतु द्वितीयस्थानमङ्गीकृत्य । द्वितीयस्थाने पि त्रिसंख्यो यकारः । इत्युक्तं भवति । रेफादयः क्रमेण द्वितीयस्थाने चतुरादि- संख्यास्स्युः। हकारो द्वितीयस्थाने दशसंख्यः शतसंख्यावाचक इत्यर्थः । एवम- वर्गस्थानविहितापि हकारसंख्या संख्यान्तरत्वेन वर्गस्थाने स्थाप्यते । एवं ञ- कारादिसंख्या वर्गस्थानविहिताप्यवर्गस्थाने संख्यान्तरत्वेन स्थाप्यते । एतद्धि न्यायतस्सिद्धम्। अत्रगतुल्यो यकार इति वक्तव्ये ङ्मौ य इति वर्णाद्वयेन यद्रूपं तेन संयुक्तैरप्यक्षरैस्संख्या प्रतिपादयिष्यत इति प्रदर्शितं भवति ॥ शून्यभूता- नामनङ्गीकृतसंख्याविशेषाणां के प्रयुज्यन्ते । इत्यत्राह । खद्विनवके स्वरा न-
आर्यभटीये ३ र्गेऽवर्गे । इति । द्विनवकेऽष्टादशके नव स्वराः क्रमेण प्रयुज्यन्ते । अ, इ, उ, ऋ, लृ, ए, ऐ, ओ, औ । इत्येते नव स्वराः । एतदुक्तं भवति । ककाराद्यक्षर- तास्तस्वरास्स्थानप्रदर्शका भवन्ति न संख्याविशेषप्रदर्शका इति । कथं नव- ोख्यां अष्टादशके प्रयुज्यन्ते । इत्यत्राह । वर्गेऽवर्गे । इति । वर्गस्थानेषु न- स्वकाराद्या नव स्वराः क्रमेण प्रयुज्यन्ते । तथा अवर्गस्थानेषु च त एव । ए- वमन्यैरपि कल्प्यम् । तथा प्रथमस्वरयुतैर्यकारादिभिर्विहिता संख्या प्रथमे प्रवर्गस्थाने स्थाप्या । द्वितीयस्वरयुतैर्द्वितीये अवर्गस्थाने।एवमन्यैरपीति। ए- ामष्टादशस्थानेषु संख्या वेद्या।यदा पुनस्ततोऽधिकापि संख्या केनचिद्विवक्षि- ता तदा कथमित्यत्राह। नवान्त्यवर्गे वा । इति । नवानां वर्गस्थानानामन्त्ये ऊर्ध्वगते वर्गस्थाननवके तथा नवानांमवर्गस्थानानामन्त्ये ऊर्ध्वगते अवर्ग- स्थाननवके च एते नव स्वराः प्रयुज्यन्ते वा । केनचिदनुस्वारादिविशेषेण संयुक्ताः प्रयोक्तव्या इत्यर्थः । शास्त्रव्यवहारस्त्वष्टादशस्थानानि नातिवर्तते ॥ अथ चतुर्युगे रव्यादीनां भगणसंख्यामाह । भा०.- वर्ग के अक्षरों को (क, ख' ग, घ, ङ, च, छ, ज, झ, ञ, ट, ठ, ड, ढ, ण, त, थ, द, ध, न, प, फ, ब, भ, म,) वर्ग के स्थान में एक से अयुत तकको (विषम) स्थान में रख कर संख्या जाननी चाहिये । इसी प्रकार अवर्ग में प्रवर्ग के अक्षर जानना यकारादि (य, र, ल, व, श, ष, स, ह,) अवर्ग के स्था- न में दशसहस्र, लक्ष, आदि को "सम" स्थान में रक्खे। ककारसे लेकरसंख्या माननी अर्थात् क, से १, ख, से, २ ग, से ३ इत्यादि, म, से २५ इसप्रकार क को १ सं- ख्या मानकर म पर्यन्तक्रमशः २५ संख्याहोगी। ङ, और म इन दोनों कीसंख्यां का योग "य' की संख्या है। प्रथम स्थान में य ३० का बोधक, द्वितीय स्थान में ३ का, इसी प्रकार 'र' ४० का बोधक और द्वितीय स्थान में ४ का बोधक है। हकारादि भी इसी प्रकार जानना। यहां ककारादि में जो अकारादि स्व- ः संयुक्त हैं वे संख्या प्रदर्शक नहीं हैं किन्तु स्थान प्रदर्शक हैं। अ, इ, उ, ए, ऐ, ओ, औ, ऋ, लृ, ये नव स्वर हैं-तो १८ संख्या स्थानों में नवस्वर दयां कर रक्खे जावेंगे १ वर्ग स्थान में नव स्वर क्रम से प्रयुक्त होते हैं, उसी प्र- कार अवर्ग स्थान में भी वेही नव स्वर हैं। इसी प्रकार औरों का भी जानना प्रथम स्वर युक्त यकारादि द्वारा संख्या कही जावे-उस को पहिले अवर्ग स्था- न में, और द्वितीय स्वर युक्त को द्वितीय अवर्ग स्थान में रखनी । इसी प्र-
४ गीतिकापादः ॥ कार और भी १८ संख्या जाननी चाहिये। अगर १८ से अधिकसंख्या हों, तो इसी नियमसे जानना । परन्तु शास्त्रों में १८ संख्या से अधिक का व्यवहार नहीं है। भा०:—निम्न लिखित चक्र से (अक्षर द्वारा जो इस ग्रन्थ में संख्याओं का निर्देशहुआ है) गीतिका का अर्थ किया गया है। संख्याज्ञापक चक्र। अक्षर । संख्या । अक्षर संख्या । अ = १ लृ = १०००००००० इ = १०० ए = १०००००००००० उ = १०००० ओ = १०००००००००००० ऋ = १०००००० औ = १०००००००००००००० क = १ च = ६ ट = ११ त = १६ प = २१ य = ३० श = ७० ख = २ छ = ७ ठ = १२ थ = १७ फ = २२ र = ४० ष = ८० ग = ३ ज = ८ ड = १३ द = १८ ब = २३ ल = ५० स = ९० घ = ४ झ = ९ ढ = १४ ध = १९ भ = २४ व = ६० ह = १०० ङ = ५ ञ = १० ण = १५ न = २० म = २५ और नव स्वरों का योग, यदि वर्ग या अवर्ग अक्षरों के साथ होता है, तो वे १८ स्थानों के प्रदर्शक होते हैं। जैसे:— क क्+अ=१ इसी प्रकार और व्यञ्जनों का भी जानना कि क्+इ=१०० य और य्+अ=३० कु क्+उ=१०००० यि य्+इ=३००० कृ क्+ऋ=१०००००० यु य्+उ=३००००० कॢ क्+लृ=१०००००००० इत्यादि। के क्+ए=१०००००००००० और कै क्+ऐ=१०००००००००००० र र्+अ=४० को क्+ओ=१०००००००००००००० रि र्+इ=४००० कौ क्+औ=१०००००००००००००००० रु र्+उ=४००००० इत्यादि इसी प्रकार 'ख' का भी जानना । ख ख्+अ=२ खि ख्+इ=२०० खु ख्+उ=२०००० इति संख्यापरिभाषा-समाप्ता ।
आर्यभटीये युगरविभगणाः ख्युघृ शशि चयगियिडुशुछृॡ ङिशिबुण्ऌ ष्षुप्राक्शने ढुङ्विध्व गुरु खिच्युभ कुज भद्लिकून्मुख भृगु- बुध·सौराः ॥१॥ ष्टादशस्थानगतानां संख्यानां संज्ञा तुः- «एकदशशतसहस्रायुतलक्षप्रयुतकोटयः क्रमशः। अर्बुदमब्जं खर्बनिखर्वमहापद्मशङ्खवस्तस्मात् ॥ जलधिश्चान्त्यं मध्यं परार्द्धमिति दशगुणोत्तरां संज्ञाः» इत्यनेन वेद्या ॥ युगरविभगणाः । चतुर्युगे रवेर्भगणाः ख्युघृ इति । उकारयु- तखकारेणायुतद्वयमुक्तम् । उकारयुतयकारेण लक्षत्रयम् एवं सर्वत्र हल्द्वये एक एव स्वर उभयत्र सम्बध्यते । ऋकारयुतघकारेण प्रयुतचतुष्कम् । एवमनेन न्यायेन सर्वत्र संख्या वेद्या ॥ शशि । शशिन इत्यर्थः । सूत्रे ह्यविभक्तिकोऽपि प्रयोग- स्स्यात् । चयगियिडुशुछृॡ इति युगभगणाश्शशिनः । च षट् । य त्रिंशत् । शि त्रिशतम् । यि त्रिसहस्रम् । ङु अयुतपञ्चकम् । शु लक्षसप्तकम् । छृ प्रयुतसप्तकम् । लॄ कोटिपञ्चकम् । इति ॥ कु भूमेरित्यर्थः । ङिशिबुण्ऌष्वृ इति भगणाः । प्राक् प्राग्गत्या सम्भूता भगणा इत्यर्थः । ष्लॄ पञ्चदशार्बुदम् । नवमस्था ने पञ्चदशम- स्थाने एकडचेत्यर्थः। खृ प्रयुतद्वयम् । ष्टृ कोट्यष्टकम् । भूमेर्यत्प्राङ् मुखभ्रमणं तस्य चतुर्युगे संभूता संख्यात्रोक्ता । भूमिश्चांचलेति प्रसिद्धा तस्याःकथमत्र भ्र- मणकथनम्। उच्यते । प्रवहाक्षेपात्पश्चिमाभिमुखं भ्रमतो नक्षत्रमण्डलस्य मि- थ्याज्ञानवशाद्भूमेर्भ्रमणं प्रतीयते तदङ्गीकृत्येह भूमिभ्रमणमुक्तम् । वस्तुतस्तु न भूमेर्भ्रमणमस्ति । अतो नक्षत्रमण्डलस्य भ्रमणप्रदर्शनपरमत्र भूभ्रमणकथ- नमितिवेद्यम् । वक्ष्यति च मिथ्याज्ञानम् अनुलोमगतिर्नौस्थः पश्यत्यचलं विलोमगं यद्वत् । अचलानि भानि समपश्चिमगानि लङ्कायाम् ॥ इति । अंहोरात्रेण हि भूगोलस्य समस्तभागभ्रमणादद्धैव रवेर्दिनगतितुल्यभागो ऽपि भ्रमति । अतो रवेर्यु गभगणायुतभूदिवसैस्तुल्या नक्षत्रमण्डलस्य भ्रमणनि- र्तिर्भवति । सैवात्रोक्ता स्यात् ॥ शनि ढुङ्विध्व इति । शनेर्यु गभगणाः । ढु- अयुतानाञ्चतुर्दश । ङि पञ्चशतम् । वि षट्सहस्रम् । घ चत्वारि । व षष्ठिः ॥
गुरू ख्रिद्युभ इति । गुरोर्भगणाः । खि इति द्विशतम् । रि इति चतुस्सहस्रम् । घु इत्ययुतषट्कम् । यु इति लक्षत्रयम्। भ इति चतुर्विंशतिः॥ कुज भद्लिकिनुखृ इति । कुजस्य भगणाः । भ चतुर्विंशतिः । दि अष्टशताधिकसहस्रम् । लि पञ्च सहस्रम् । कु अयुतनवकम् । नु लक्षद्वयम्। खृ प्रयुतद्वयम्। अत्र संख्यायोगेभगणसि- द्धिः॥ भृगुबुध सौराः। भृगुबुधयोर्यु गभगणास्सौरा एव। सूर्यभगणाः ख्युघृएव ॥ एवं प्रथमसूत्रेण रव्यादीनां युगभगणान् प्रदर्श्य द्वितीयसूत्रेण चन्द्रोच्चभ- गणान् बुधभृगोश्शीघ्रोच्चभगणांश्च शेषाणां कुजगुरुशनैश्चराणां शीघ्रोच्चश्च चन्द्रपातभगणांश्च भगणारम्भकालञ्चाह । चन्द्रोच्च जू ष्खिध बुध सुगुशिथून भृगु जषबिखुछृ शेषाकीः। बुफिनच पातविलोमा बुधाह्नहजार्कोदयाच्च लङ्कायाम् ॥२॥ चन्द्रोच्चस्य जू ष्खिध इति भगणाः । जुँ ष्खिध इति वा पाठः । जु अयु- ताष्टकम्। ह लक्षचतुष्कम् । षि अष्टसहस्रम्। खि द्विशतम्। ध एकोनविंशतिः ॥ बुधस्य शीघ्रोच्चभगणाः सुगुशिथून इति। सु लक्षनवकम्। गु अयुतत्रयम्। शि स- प्तसहस्रम्। थू प्रयुतसप्तदशकम्। न विंशतिः॥ भृगोश्शीघ्रोच्चभगणा जबिखुछृइति ज अष्टौ। ष अशीतिः । विशतत्रयाधिकद्विसहस्रम् । खु अयुतद्वयम् । दृ प्रयुतसप्त- कम् ॥ शेषाकः। शेषाणां कुजगुरुमन्दानां शीघ्रोच्चभगणा अकीः । अर्कभगणा एव । उपरिष्टादेषां मन्दोच्चांणान्यक्ष्यति । अत इहोक्ताश्शीघ्रोच्चभगणा इति सिध्यति ॥ बुफिनच इति पातस्य चन्द्रपातस्य विलोमात्मकभगणाः । बु अ- युतानां त्रयोविंशतिः । फि .शतद्वयाधिकसहस्रद्वयम् । न विंशतिः । च षट् ॥ कुजादीनां पातभगणान्वक्ष्यति । अर्कस्य तु विक्षेपो न विधीयते । अत एते चन्द्रपातस्य भगणा इति सिध्यति । उच्चपातानां व्योम्नि दर्शनं नास्ति । तथा च ब्रह्मगुप्तः— « प्रतिपादनार्थमुच्चाः प्रकल्पिता ग्रहगतेस्तथा पाताः । » इति॥ बुधाह्नजार्कोदयाच्च लङ्कायाम् । कृतयुगादौ बुधवारे लङ्कायां सूर्यो- दयमारभ्य । अजात् मेषादिसारभ्य राशिचक्रे गच्छतां रव्यादीनां भगणा प्रोक्ता इत्यर्थः। सूर्योदयो मध्यसूर्योदयः कल्पारम्भस्तु स्फुटसूर्योदयः। तत्र मध्य मस्फुटयोर्विशेषाभावात् ॥ कल्पकालान्तर्गतमनून् गतकालञ्च तृतीयसूत्रेणाह ।
आर्यभटीये 9 ग्रहगण युगीय भगणसंख्या । पृथिवी १५८२२३७५०० सूर्य ४३२०००० चन्द्रमा ५७७५३३३६ बृहस्पति ३६४२२४ मङ्गल २२९६८२४ शुक्र ४३२०००० बुध शीघ्रोच्च १७९३७०२० सावन दिन १५७७९१७५०० चन्द्रोच्चभगण ४८८२१९ चन्द्रपातभगण २३२२२६ बुधपातभगण ४३२०००० शुक्रशीघ्रोच्चभगण ७०२२२३८८ शनिभगण १४६५६४ सौर मास ५१८४०००० अधिमास १५९३३३६ चान्द्रमास ५३४३३३३६ तिथि १६०३००००८० क्षयाह २५०८२५८० वर्षमान दिन ३६५ घ १५ प ३१ वि १५ ॥ १, २ ॥ काहोमनवो ढ मनुयुग श्ख गतास्तें'त मनुयुग छूना च । कल्पादेर्युगपादा ग च गुरुदिवसाच्च भारतात्पूर्वम् ॥३॥ काहोमनवो ढ । क कस्य ब्रह्मणः । अहः अह्नि मनवो ढ चतुर्दश भ- वन्ति । मनुयुग श्ख । एकैकस्य मनोः काले युगानि चतुर्युगानि श्ख । श स- प्ततिः । ख द्वयम् । द्वासप्ततिरित्यर्थः । गतास्ते च। एतस्माद्वर्तमानात्कलियु- गात्पूर्वमतीतास्तै मनवः । च षट् । मनुयुग छूना च । वर्तमानस्य सप्तमस्य मनोः । अतीतानि चतुर्युगानि छूना । छा सप्त । ना विंशतिः । सप्तविंशति- रित्यर्थः । स्वराणां ह्रस्वदीर्घयोर्न विशेषः । अकारर दृश एवाकारः ॥ कल्पा-
देर्युगपादा ग च गुरुदिवसाच्च भारतात्पूर्वम् । युगपादा ग च । वर्तमानस्याष्टा- विंशस्य चतुर्युगस्य ग पादाश्च । त्रयः पादाश्च । गता भवन्ति । अस्मिन्सू- त्रेऽत्राद्य चकारत्रयं न संख्याप्रदर्शकम् ॥ कदा एवमित्यर्थं त्राह । कल्पादेर्भारताद्गुरु- दिवसात्पूर्वमिति । भारता युधिष्ठिरादयः । तैरुपलक्षितो गुरुदिवसो भारतगु- रुदिवसः । राज्य चरतां युधिष्ठिरादीनामन्त्यो गुरुदिवसो द्वापरावसानगत इत्यर्थः । तस्मिन्दिने युधिष्ठिरादयो राज्यमुत्सृज्य महाप्रस्थानं गता इति प्र- सिद्धिः । तस्माद्गुरुदिवसात्पूर्व कल्पादेरारभ्य गता मन्वादय इहोक्ताः इत्य- र्थः॥ अस्मिन्पक्षे युगानि परस्परसमानि युगपादश्च चतुर्युगचतुर्थांशः । अन्य- था चेत् बुधवारदिके चतुर्युगे कलियुगारम्भइशुक्रवारे न संभवति । अतः कृ- तयुगारम्भो बुधवार इति । बुधान्ह्यजार्कोदयाच्च लङ्कायामिति । पठितार्च्च प्रकाशिकायां कलियुगादेः प्रागतीताः कल्पदिवसाः शराग्निश्वट्खाद्रिशराद्रि- वेदकृतेष्वयुग्ममखरसमितः स्यात् । इति । अहर्गणो नात्र विशेष्यः । अनेनापि युगानां समयस्सिद्ध्यति ॥ चतुर्थेन सूत्रेण राश्यादिविभागमाकाशकक्ष्यायोजन- प्रमाणं प्राणकलयोः क्षेत्रसाम्यं गृहनक्षत्रकक्षायाोजनप्रमाणञ्चाह । भाः-ब्रह्मा के दिनमें चौदह मनु होते हैं और एक मन्वन्तर में ७२ महायुग होते हैं । छः मनु पूरे बीत गये, सातवें मनु के २७ वां युग भी पूरा बीत गया और वर्त्तमान युग के तीन पाद भी बीत गये (सत्, त्रेता, द्वापर) और शुक्रवार से कलियुग का प्रारम्भ हुआ-गुरुवार को द्वापर समाप्त हुआ (महाराजा युधिष्ठिर ने राज्य किया) इस प्रकार आर्य्यभट के मत से सृष्टि के आरम्भ से वर्त्तमान कलियुग पर्यन्त १९८६ ८५०००० वर्ष बीते हैं (शाके ४२१. तक) आ- र्यभट के मत से चारो युग (सत्, त्रेता द्वापर, कलि) बराबर हैं-अर्थात् चारो युगों की वर्ष संख्या न्यूनाधिक नहीं है । युग के चारों चरण बराबर हैं एवं इन के मत से मन्वन्तरों की सन्धि भी नहीं होती-इस लिये इनके मत से १ मन्वन्तर में ७२ युग होते हैं ॥ ३ ॥ शशिरशियण चक्रं तेऽशकलायोजनानि यवञ्गुणाः । प्राणेनैति कलां भूःखयुगांशे ग्रहजवो भवांशे ऽर्कः ॥४॥ () प्राणेनैति कलांभूर्यदत्तर्हि कुतो ब्रजेत् कमध्वानम् । आवर्त्तनमु- र्ध्याश्चेन्न पतन्तिः समुच्छ्रयाः कस्मात् । ब्र० सि० प्र० ११ (देखो भूमिका)
आर्यभटीये ९ 'शशिनञ्चक्रं' भगणा, द्वादशगुणिता राशयः । शशिनो, युगभगणा द्वादश- गुणिता युगराशयो भवन्ति । भगणाद् द्वादशांशो राशिरित्यक्तं भवति । ते राशयो युगशास्त्रिंशद्गुणिता अंशा भवन्ति । राशेस्त्रिंशंशो भाग इत्युक्तं भवति । तेऽशा 'वगुणाष्षष्टिगुणाः कला भवन्ति। अंशात् षष्ठ्यंशः कलेत्युक्तं भवति । ताः कला जगुणा योजनानि भवन्ति । शशिनो युगभवाः कला 'द- शगुणिता आकाशकक्ष्या योजनानि भवन्तीत्यर्थः । ब्रह्माण्डकटाह्यावच्छिन्नस्य सूर्यरश्मिव्याप्तस्याकाशमण्डलस्य परिधियोजनान्याकाशकक्ष्यायोजननीत्यु- च्यन्ते। खखषष्ठद्रीषुरवाशिवस्वराश्वद्यद्र्य डिधभास्करा इत्याकाशकक्ष्यायोजना- नि ॥ प्राणेनैति कलां भम् । प्राणेनोच्छ्वासतुल्येन 'कालेन भं ज्योतिश्चक्रं कलामेति कलापरिमितं प्रदेशंप्रवहवायुवशात्पश्चिमाभिमुखं गच्छति । खख षड्भूयमतुल्या हि ज्योतिश्चक्रगताः कुलाः। चक्रभ्रमणकालनिष्पन्नाः प्राणाश्चः तत्तुल्या इत्युक्तं भवति । अतोघटिकामण्डलगताः प्राणा राशिचक्रगताः कलाश्च क्षेत्रतस्तुल्या इति चोक्तं भवति ॥ खयुगांशे ग्रहजवः । खमाकाशकक्ष्या । युगं ग्रहस्य भगणाः । आकाशकक्ष्यातो ग्रहभगणैराप्तं ग्रहजवः । एकपरिवृत्तौ ग्रहस्य जवो गतिमानं योजनात्मकं भवति । ग्रहस्य कक्ष्यामण्डलपरिधियोज- नमित्यर्थः ॥ भवांशेऽर्कः । भस्य नक्षत्रमण्डलस्य कक्ष्याया वांशे षष्ट्यंशे अर्कौ भ्रमति । नक्षत्रकक्ष्यातष्षष्ट्यंशेन तुलितार्ककदयेत्युक्तं भवति । अत्र नक्षत्रकक्ष्या विधीयते । अर्ककक्ष्याहि पूर्वविधिनेव सिद्धा । अर्ककक्ष्या षष्टिगुणिता नक्षत्र- कक्ष्या भवतीत्युक्तं भवति ॥ पञ्चमेन योजनपरिमितिं भूम्यादयोजनप्रमाणञ्च प्रदर्शयति । भाः-चन्द्रमा के भगण को १२ से गुणन करने पर “राशि” होगी अर्थात् चन्द्रमा के युग के भगण को १२ से गुणन कर राशि होगी । ( भगण के १२ भाग को राशि कहते हैं) राशि को ३० से गुणन करनेपर "अंश" होंगे, राशिका ३० वां भाग अंश होता है) अंश को ६० से गुणन करने से कला होगी, अंश के ६० वें भाग को कला कहते हैं) कला को १० से गुणन करने पर यो- जन सख्या होगी अर्थात् चन्द्रमा के १ युग के कला को १० से गुणन करने पर गुणनफल आकाश कक्षा का ( योजन में ) परिमाण होगा । इतनी दूर तक सूर्य के किरणों का प्रसार होता है। एक 'प्राण, (श्वास) में पृथिवी की गति पूर्व से पश्चिम को एक कला होती है। आकाश कक्षा से ग्रहों को • २
२. गणित पाद (ज्यामिति, त्रिकोणमिति व बीजगणित)
१० गीतिकापादः ॥ भगण द्वारा ग्रह का गत्यात्मक योजन होता है। अर्थात् ग्रह की कक्षा मण्डल परिधि योजन होगा । नक्षत्र कक्षा के ६० वें भाग में सूर्य (अपनी परिधि में) भ्रमण करता है अर्थात् नक्षत्र कक्षा से ६० वां अंश की बराबर सूर्य की कक्षा है। यहां नक्ष त्रकक्षा कहने से पूर्व सूत्र से सूर्यकक्षा ही सिद्ध है रविकक्षा को ६० से गुणा करने से नक्षत्र कक्षा होगी ॥ ४ ॥ नृषि योजनं जिला भूव्यासो ऽर्केन्द्वोर्ध्रिञ्जा गिणा क मेरोः । भृगुगुरुबुधशनिभौमाश्शशि ङञणनमांशाकसम्मार्कसमाः॥ नृषि योजनम् । नृ नरप्रमाणानां षि अष्टसहस्त्रं योजनं योजनस्य प्रमा णां भवति ॥ जिञा भूव्यासः । जि सहस्त्रं ञा पञ्चाशत् । एतानि भूमेर्व्यास। मापयोजनानि ॥ अर्केन्द्वोर्ध्रिञ्जा गिणा । अर्कमण्डलस्य व्यासप्रमाणयोजना- निर्धिञ्जा इति । घि चत्वारि शतानि । रि चत्वारि सहस्त्राणि । ञ दश । इ- न्दोगिणा इति । गि त्रिंशतम् । णा पञ्चदश ॥ क मेरोः । मेरोर्व्यासयोजनप्रमाणं क । एकमित्यर्थः ॥ भृग्वादीनां बिम्बयोजनानि क्रमाच्छशिनो बिम्बस्य योजनव्यासात् डांशञांशणांशनांशमां शतुल्यानि । पञ्चांशदशांशपञ्चदशांश विंशांशपञ्चविंशांशतुल्यानीत्यर्थः ॥ शशिकक्ष्यासाधिता एते व्यासाः। अतोवि- ष्कम्भार्धहताश्चन्द्रस्य योजनकर्णभक्ता लिप्ता भवन्ति । पुनरपि ता विष्क- म्भार्धहतास्स्वस्वमन्दकर्णशीघ्रकर्णयोर्योगार्धहतास्फुटा भवन्ति । इत्युपदेशः। तथाच मयः * । “ त्रिघ्नुः कर्णयुत्याप्तास्ते द्विघ्नास्त्रित्र्यया हताः । इति । अत्र चन्द्रस्य योजनकर्णश्चन्द्रस्य मध्ययोजनकर्णः ॥ समार्कसमाः। युगसमा युगार्कभगणसमा इत्यर्थः ॥ ग्रहाणां विषुवत उत्तरेण दक्षिणेन चापयानप्रमाणं पुरुषप्रमाणञ्च षष्ठेन सूत्रेणाह । भाः-८००० पुरुष ( हाथ का पुरुष) १ योजन होता है । इस योजन से १०५० योजन पृथिवी का व्यास है । सूर्य मण्डल का ४४१० योजन, चन्द्रम ण्डल का व्यास ३१५ योजन, और मेरु (उत्तर या दक्षिण ) का व्यास १ योजन है । और शुक्र, बृहस्पति, बुध, शनि, मङ्गल, इन का बिम्बव्यास चन्द्रमा (*) सूर्यसिद्धान्ते ग्रहयुत्याधि कारे ॥ १४ ॥
आर्यभटीये १९ के बिम्बव्यास के योजन संख्या से क्रम से ५ वां अंश, १० वां अंश १५, २०, १५, अंश, है। चन्द्रमा की कक्षा से ये व्यास सिद्ध होते हैं। यहां चन्द्रमा का योजन कर्ण से चन्द्रमा मध्ययोजन कर्ण जानना । युग में सूर्य के भगण के तुल्य जानना ।.॥ ५ ॥ ० ० भाऽपक्रमो ग्रहाणांशशिशिविक्षेपोऽपमण्डलात्कार्धम् । . शनिगुरूकुज खकगार्धं भृगुबुध ख स्चाङ्गुलो घहस्तो ना ॥६॥ भाऽपक्रमो ग्रहांशाः । ग्रहाणां भ अंशाश्चतुर्विंशतिभागा अपक्रमः । पर- मापक्रम इत्यर्थः । पूर्वापरस्वस्तिकान्त्रिराश्यन्तरे, घटिकामण्डलापक्रम मण्डल योरन्तरालं चतुर्विंशतिभागतुल्यमित्यर्थः ॥ अपमण्डलाच्छशिनः परमविक्षेपो कार्धं नवानामधं सार्धाश्चत्वारोऽंशाः ॥ शनिगुरूकुज खकगार्धम् । शनेर्विक्षेपः ख द्वावंशौ। गुरोः क एकांशः। कुजस्य गार्धं त्रयाणामर्धं सार्धोऽंशः। भृगुबुधख। भृगुबुधयोर्विक्षेपः ख द्वावंशौ ॥ स्वाङ्गुलो घहस्तो ना । पुरुषस्स्वाङ्गुलो घ- हस्तश्च । स नवतिः । च षट् । षण्णवत्यङ्गुलः पुरुषः। घहस्तश्चतुर्हस्तश्च पुरुषः । नृषियोजनमित्यादौ नरशब्देन षण्णवत्यङ्गुलप्रमाणमुदितमित्युक्तं भवति । तदेव चतुर्हस्तप्रमाणं भवति । चतुर्विंशत्यङ्गुलेरेको हस्तो भवतीति चोक्तं भवति । अङ्गुलस्य परिमाणानुपदेशाल्लोकसिद्धमेवाङ्गुलं गृह्यते । उक्तञ्च तत्परिमाणं तन्त्रान्तरे । (लीलावत्याम् ) 'यवोदरैरङ्गलमष्टसंख्यै र्हस्तोऽङ्गुलैष्षड्गुणितैश्चतुर्भिः । हस्तैश्चतुर्भिर्भवतीह दण्डः क्रोशस्सहस्रद्वितयेन तेषाम्' ॥ इति ॥ इह विक्षेपकथने शन्यादीनां भृगुबुधयोश्च पृथग्ग्रहणं कृतम् । ज्ञेन तेषां तयोश्च विक्षेपानयने प्रकारभेदोऽस्तीति सूचितम् ॥ कुजादीनां प- ञ्चानां पातभागान् सूर्ययुतीनां तेषां मन्दोच्चांशांश्च सप्तमेन सूत्रेणाह । भाः-ग्रहों का परमाक्रम २४ अंश है। अर्थात् 'पूर्वस्वस्तिक' और 'अपरस्वस्तिक' ३ राशि के अन्तर पर हैं " घटिकामण्डल" और " अपक्रममण्डल " के बीच का भाग २४ अंश हैं। " अपक्रममण्डल" से चन्द्रमा का "परमविक्षेप" ४ १/२ अंश है, शनि का विक्षेप २ अंश, गुरु का १ अंश, मङ्गल का १ १/२ अंश, शुक्र और बुध का विक्षेप २ अंश है। ४ हाथ का पुरुष होता है। और २४, अङ्गुल का १ हाथ एवं ९६ अङ्गुल का पुरुष होता है। ८ पेटे से पटे मिले
१२ गीतिकापादः ॥ हुए यव का १ अङ्गुल २४ अङ्गुल का १ हाथ ४ हाथ का १ दंड और २००० दंड का १ क्रोश होता है ॥ ६ ॥ बुधभृगुकुजगुरुशनि नवरषहा गत्वांशकान्प्रथमपाताः । सवितुरमोषाञ्च तथा द्धा जखि सा हूदां ह्ल्यखिच्य मन्दो- च्चम् ॥ ७ ॥ बुधस्य पातांशाः न विंशतिः । भृगोः व षष्टिः। कुजस्य र चत्वारिंशत् ।गुरोःषअशीतिः। शनेःह शतम् । गत्वांशकान्प्रथमपाताः। उक्तानेतानेवांशकान् षादितो गत्वा व्यवस्थिता बुधादीनां प्रथम पातास्स्युःप्रथमशब्देन द्वितीयोऽपि पातोऽस्तीति सूचितम् । स च प्रथमपाताचक्रार्धान्तरे स्थितस्स्यात् । विक्षेप- मण्डलापमण्डलयोस्संपातस्थानं पातशब्देनोच्यते । तदुभयत्र भवति । गत्वेति वचनान्तेषां प्रातानां गतिरभिप्रेता । गतिश्च विलोमा। पातविलोमा इत्यनेन पातानां विलोमगत्वमुक्तम् । अस्मिन्काले पातामां स्थितिरैवमित्युक्तं भव- ति ॥ सवितुर्मन्दोच्चं तथा द्धा । दा अष्टादश । वा षष्टिः । अष्टसप्ततिभा- गान् तथा मेषादितो गत्वा स्थितं सवितुर्मन्दोच्चमित्यर्थः । अमीषामुक्तानां बुधादीनां मन्दोच्चानि अखिरित्येवमादिभिरुक्तानि । बुधस्य मन्दोच्चं जखि दशाधिकशतद्वयभागाः । भृगोः सा नवतिभागाः । कुजस्य हृदा । हा शतं दा अष्टादश । अष्टादशाधिकशतभागाः । गुरोः ह्ल्य । ह शतं ल पञ्चाशत् य त्रिंशत् । अशीत्यधिकशतभागाः । शनेः खिच्य । खि शतद्वयं च षट् य त्रिंशत् षट्त्रिंशदुत्तरशतद्वयभागाः। गत्वेतिवचनादेषामपि गतिरभिहिता । गतिश्चा- नुलोमा चन्द्रोच्चवत् । अस्मिन्काल एव मन्दोच्चस्थितिरित्युक्तं भवति । पातोच्चानां बहुना कालेनैवाल्पोऽपि गतिविशेषस्संभवतीति मत्वा तेषां गतिरिहानभिहिता । उक्ताश्चास्त्रान्तरे ( सूर्यसिद्धान्ते मध्याधिकारे ४१) तेषां कल्पभगणाः- “प्राग्गतेस्सूर्य्यमन्दस्य कल्पे सप्ताष्टवह्वयः। कौजस्य वेदखयमा बौधस्याष्टर्तुवह्वयः ॥ खखरन्ध्राणि जैवस्य शौक्रस्यार्थगुणासवः । गोऽग्नयश्शनिमन्दस्य पातानामथ वामतः ॥ मनुदस्रास्तु कौजस्य बौधस्याष्टाष्टसागराः ।
कृताद्रिचन्द्रा जैवस्य त्रिखाङ्काश्च गुरोस्तथा ॥ शनिपातस्थ भगणाः कल्पे यमरसर्तवः ॥ । इति । गुरोरिति दैत्यगुरोरुक्तम् + । अस्मिन्पक्षे कलेः प्रागतीता ग्रहग- तिथयः कल्पदृढा लिख्यन्ते- "खखखाभ्रा हिनागपुषाणाङ्काः कलेस्समाः । प्राङ्निर्दिष्टा ग्रहाणान्तु चारारम्भात्ततोऽध्वगाः" ॥ इति । अस्मिन्पक्षे कुदिवसा अष्टाष्टयष्टिखरेन्द्रगोऽद्यङ्गतिययः । भटप्र- काशिकायामुच्चपातानां गतिरन्यथा प्रदर्शिता- 'खाकाशाऽकृतद्विद्विव्योमेष्वद्रोषुवह्वयः। युगं बुधादिपातानां विद्वद्भिः परिपठ्यते ॥ एकद्वित्रिचतुष्पञ्च भगणाः परिकीर्तिताः । सौम्यारशुक्रजीवार्कपातानां क्रमशो युगे" ॥ एतैस्त्रैराशिकाद्यद्योक्तपातसिद्धिः । इति । युगमत्र वर्षात्मकम् । एभि- स्सिद्धानां पातानामुक्ता अंशा एव भवन्ति नतु कतिचिद्भगणाः । तेऽंशाः क्र- गता एव भवन्ति नतु विलोमगाः । तथा सूर्यबुधादीनाञ्च मन्दोच्चयुगं तद्भ- णाश्च प्रदर्शिताः ।- "रव्युच्चस्य रसैकाङ्कगिर्यष्टिनवशङ्करा । सहस्त्रघ्ना युगं प्रोक्तं भगणाश्च त्रयोदश ॥ दन्तवस्वश्विरामाग्निवसुरामयमा युगम् । बुधोच्चस्य शतघ्नास्ते सप्तात्र भगणास्मृताः ॥ खखाब्धिवेदपञ्चाष्टिवेदनन्दाद्रयो युगम् । कवेस्सूरेस्तदधं स्यादेकस्तस्मिन् गणस्तयोः । इति । सौरकुजयोस्तु तत्प्रकरणे ग्रन्थे पाठो दृश्यते । तयोरेवं पाठः कार्यः "व्योमाम्बरशून्यकृताब्धिरुद्रशरवसुमतीषुशशितुल्यम् ।
- मैवं- भृगोरिति पाठस्य पुस्तकान्तरे दृष्टत्वाद्वगुरोरिति पाठः प्रामा- दिक इत्यनुमेयम् ।
- प्रकाशिकापुस्तके शतघ्न स्यात् इति पाठो दृश्यते ॥ † प्रकाशिकापुस्तके 'एकस्तद्भगणस्तयोः । इति दृश्यते ॥
१४ गीतिकापादः ॥ असितोच्चयुगं कौजं द्विखां भगणा इहेषवस्तृ तयोः" ॥ + इति । अत्रापि पठितभागा एव लभ्यन्ते नतु भगणाः । अतएवं प्रतीयते केनचिद्बुद्धिमता स्वबुद्ध्या परिकल्प्यैवं लिखितमिति। अस्मिन्पक्षे कलेः प्राग- तीतास्समा लिख्य ते । " खखखाभ्रार्कघनानागगोचन्द्राः प्राक् कलेस्समाः" । इति ॥ अष्टमेन सूत्रेण शशिनश्च पूर्वसूत्रोदितसूर्यबुधभृगुजगुरुशनीनाञ्च मन्दवृत्तानि शनिगुरुगुजभृगुबुधानां शीघ्रवृत्तानि चाह । भा०:-बुध का पात अंश २०, शुक्र का ६०, मङ्गल का ४०, वृहस्पति का ८०, शनि का १००, ये प्रथम पात हैं । ये उक्त पात अंश मेषादि राशि से चल कर बुध आदिके व्यवस्थित पात होते हैं, यहां प्रथम शब्द से द्वितीयपात का भी होना सू- चित होता है । और वह प्रथमपात से चक्राद्धान्तर में स्थित है । " विक्षेप म- ण्डल" और " अपमण्डल" के सम्पात स्थान को "पात" कहते हैं । वेही दोनों यहां होते हैं । सूर्य का मन्दोच्च ७८ अंश, मेष आदि से चल कर स्थित होता है । बुध का मन्दोच्च २१० अंश, शुक्र का ९० भाग, मङ्गल का ११८, गुरु का १८० और शनि का २३६ भाग हैं ॥ ७ ॥ कार्द्धानि मन्दवृत्तं शशिनश्च ग छ घ छक यथोक्तेभ्यः । क ग्ड ग्ल क्ल् ड्द तथा शनिगुरुगुजभृगुबुधोच्चशीघ्रेभ्यः ॥ कस्य नवानामध्ये कार्द्धानि । अर्धपञ्चमैरपवर्तितानि वृत्तानीहोच्यन्त त्यर्थः । शशिनो मन्दवृत्तं छ सप्त । यथोक्तेभ्यः सूर्यबुधादिभ्यस्सिद्धानि वृत्ता- नि गादीनीत्यर्थः । ग्रहाणांशांशाद्वि वृत्तपरिमितिः कल्प्यते । अतो ग्रहेभ्यं वृत्तानि भवन्ति । तत्र सूर्यस्य मन्दवृत्तं ग त्रीणि । मन्दवृत्तमेव शशिसूर्ययं भवतीति । बुधस्य छ सप्त । भृगोः घं चत्वारि ॥ कुजस्य ढ चतुर्दश । गुरो छ सप्त । शनेः क नव ॥ शनिगुरुगुजभृगुबुधोच्चशीघ्रेभ्यः । शीघ्रोच्चेभ्यः शीघ्रोच्चनिमित्तशीघ्रगतिवशाज्जातानि वृत्तानि कादीनि । शनेः क नव । गु- रोः ग्ड् । गत्रीणि । ङ त्रयोदश । षोडशेत्यर्थः । कुजस्य ग्ल । ग त्रीणि । ल पञ्चाशत् । त्रिपञ्चाशदित्यर्थः । भृगोः क्ल् । क नव । ल पञ्चाशत् । एकोनष- ष्टिरित्यर्थः । बुधस्य ड्द । द् अष्टादश । ङ त्रयोदश । एकत्रिशदित्यर्थः ।
- प्रकाशिकापुस्तके "रुद्रशरशैलवसुमुनीन्दु समाः । इति पाठः । अ- रश्मि । भगणा नवेषवस्तु तयोः । इति लिखितम्-
आर्यभटीये १५ अत्र मन्दशीघ्रवृत्तयोः क्रमभेदस्स्यात् तेन मन्दस्फुटशीघ्रस्फुटयोर्न्यायभेदस्सूचि- तः । यथा शीघ्रभुजाफलस्यकर्णसाध्यत्वं मन्दभुजाफलस्य तदभावश्च । अथवा मन्दकर्णतत् साधनानामविशेषकरणं शीघ्रकर्णतत् साधनानां तदभावश्चेति ॥ ए- वमोजपदे वृत्तानि प्रदर्श्य युग्मे पदे वृत्तानि भूवायोः कक्ष्याप्रमाणाञ्च नवम सूत्रेणाह । भाः-चन्द्रमाकामन्दवृत्त ७है (यहां ४ १/२ है परन्तु ५ १/२ से अपवर्तित वृत्त कहा जाता है) पूर्वोक्त सूत्र पठित सूर्य्य बुधादि से सिद्धवृत्त ग आदि है ग्रहों के अंश ही से वृत्तपरिमित कल्पना की जाती है-इस लिये यहाँ से वृत्त होते हैं । सूर्य्य का मन्दवृत्त ३, सूर्य्य और चन्द्रमा का मन्द ही वृत्त होता है । बुध का ७, शुक्र का ४, मङ्गल का १४, गुरु का ७, शनि का ९ शीघ्रोच्चग- ते वशतः उत्पन्न वृत्तं शनि का ९, गुरु का १६, मङ्गल का ५३, शुक्र का ५६, और बुध का ३१, होता है ॥ ८ ॥ मन्दात् ङ ख द ज डा वक्रिणां द्वितीये पदे चतुर्थे च । जा ण क्ल छ्ल क्नोच्चाच्छीघ्रात् गियिडश कुवायुकक्ष्यान्त्या ॥९॥ वक्रिणां पूर्वसूचोदितानां बुधभृगुकुजगुरुशनीनां द्वितीये पदे चतुर्थे पदेश्च न्दात् मन्दगतिवशाज्जातानि मन्दवृत्तानि ङादीनि । बुधस्य ङ पञ्च । भृ- गोः ख द्वे । कुजस्य द अष्टादश । गुरोः ज अष्टौ । शनेः डा त्रयोदश ॥ पू- र्बोक्तानां शनिगुरुकुजभृगुबुधानां शीघ्रादुच्चाच्छीघ्रोच्चगतिवशाज्जातानि शी- वृत्तानि जादीनि । तानि च द्वितीयचतुर्थपदयोर्युच्यन्ते । शनेः जा अष्टौ । रोः णा पञ्चदश । कुजस्य क्लै । क एकम् । ल पञ्चाशत् । एकपञ्चाशत् । शुक्रस्य ल । छ सप्त । ल पञ्चाशत् । सप्तपञ्चाशत् । बुधस्य क्न । क नव । न विं- तिः । एकोनत्रिंशत् । अत्र द्वितीयचतुर्थपदोपदेशात्पूर्वोक्तानि प्रथमतृतीय- योरिति चोक्तं भवति ॥ कुवायोर्भू सम्बन्धिनो वायोरनियतगतेरन्त्या कक्ष्या पर्यन्तभवा कक्ष्या गियिडश इति । गि शतत्रयम् । यि सहस्त्रत्रयम् । ङ पञ्च । सप्ततिः । अत ऊर्ध्वं प्रवहौनाम वायुर्नियतगतिस्सदा भवति येन ज्योतिष- चक्रमिदमपराभिमुखं भ्रर्मात ॥ दशमसूत्रेण कालक्रियागोलोपयोगीनि गार्थान्याह ॥
१६ गीतिकापादः ॥ भाः-वक्रो बुध, शुक्र, मङ्गल, गुरु और शनि का युग्म(सम)पद अर्थात् द्वितीय और चतुर्थ पद में मन्दगति वशतः मन्दवृत्त इस प्रकार होते हैं:-बुध के ५, शुक्र के २, मङ्गल के १८ बृहस्पति के ८, शनि का १३, पूर्वोक्त शनि, गुरु, कुज, शुक्र, बुध, के शीघ्रोच्चगति वशतः शीघ्रवृत्त होते हैं। द्वितीय और चतुर्थ पद में श न के ८, गुरु के १२, मङ्गल के ५१, शुक्र के ५९, बुध के २९, भूवायु* ३;१५ पर्य्यन्त चलता है । इस के ऊपर प्रवह वायु रहता है ॥९ ॥ मखि भखि फखि धखि णखि जखि डखि हस्क स्ककि किष्ण श्घकि किघ्व ॥ घ्लकि किग्र हक्य धाहा स्त स्ग श्क +डूत्र ल्क प्र फ्छ कलार्धज्याः ॥ १० ॥ ॥ कलार्धज्याः कलात्मिका अर्धज्या इहोक्ता इत्यर्थः । समस्तज्या अर्धज्ये- ति द्विविधा हि जीवा । चापाकारस्य वृत्तपरिधिभागस्यैकाग्रादपराग्रान्तगता रेखासमस्तज्येत्युच्यते । तदर्धमर्धज्येत्युच्यते । गोलकालक्रीयोरर्धज्यैव हि प्रायेण व्यवहारः । तस्मादिहार्धज्याप्रदर्शनं क्रियते । चतुर्विंशतिजीवा इह पठिताः अतो गोलपादस्य चतुर्विंशतिभागं चापं प्रकल्प्यैह जीवाः कल्पिता इति प्रदर्शितं भवति । आद्यजीवा मखि इति । पञ्चविंशत्यधिकशतद्वयम् । भ खि चतुर्विंशत्यधिकशतद्वयम् । एवमन्याश्च वेद्या । अष्टमीहस्क इति । नवा ङ्ककाः । स्ककि चन्द्राङ्ककाः । किष्ण त्रिवसुचन्द्राः । श्घकि वेदाद्यूमेकाः कि- घ्व वेदषडङ्काः । घ्लकि वेदेष्विन्द्रवः । किग्र त्रिमन्वयः। हक्य एकाग्निनचन्द्राः धाहा नवरुद्राः । स्त षड्दश । स्ग त्र्यङ्काः । श्क नवाद्रयः । ङ्क्व पञ्चरसाः ल्क एकेषव । प्त सप्ताग्नयः । फ द्व्यश्विनः । छ सप्त ॥ अत्रैकचापोत्थ जीवया रहिता द्वितीयज्या । चापद्वयोत्थजीवा चापद्वयोत्थजीवया रहित तृतीयज्या । एवं परा अपि ज्ञेयाः । यद्यप्यर्थज्या एता युक्तिरससाध्यास्तथा पि तासां बहुषु साधनत्वादिहोपदेशः कृत इति बोद्धव्यम् ॥ दशगीतिकासूत्र परिज्ञानस्य फलमाह ।
- पृथिवी से ऊपर सात प्रकार के वायु हैंः-आवह, प्रवह, उद्वह, सं- वह सुवह, परिवह' और परावह, । इसी प्रकार ऊपर २ के सात लोकों में सात २ प्रकार के वायु मिलकर ४९ प्रकार के वायु होते हैं । इसी को पुराणों में ९ कोटि ( प्रकार ) वायु हैं ऐसा लिखा है । +अस्मिन्सूतृवृत्तभङ्ग उपलभ्यते अतः प्रकाशिकापाठो घहहङ्कृत्त्यादिशोभनपाठ
आर्यभटीये १७ १० वीं गीतिका का अर्थ नीचे लिखे चक्र द्वारा किया गया है। ज्या-ज्ञापक चक्र। | ज्यासंख्या | १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० | ११ | १२ | १३ | | ज्यार्द्धसं० | २२५ | २२४ | २२२ | २१९ | २१५ | २१० | २०५ | १९९ | १९१ | १८३ | १७४ | १६२ | १५४ | | ज्यासंख्या | १४ | १५ | १६ | १७ | १८ | १९ | २० | २१ | २२ | २३ | २४ | | ज्यार्द्धसं० | १४३ | १३१ | ११९ | १०६ | ९३ | ७९ | ६५ | ५१ | ३७ | २२ | ७ | दशगीतिकासूत्रमिदं भूग्रहचरितं भपञ्जरे ज्ञात्वा । ग्रहभगणपरिभ्रमणं स याति भित्त्वा परं ब्रह्म ॥११॥ भूमेर्ग्रहाणाञ्च चरितं यस्मिन्दशगीतिका सूत्रे तद्दशगीतिकासूत्रम्। भपञ्जरे ज्ञात्वा। गोले ज्ञात्वा। भपञ्जरमध्ये भूस्तिष्ठति। चन्द्रादिमन्दान्ता ग्रहास्स्व- गत्या प्राङ्मुखं चरन्तो ज्योतिश्चक्रगत्यापराभिमुखं भ्रमन्ति। तत उपरि स्वतोगतिहीनं नक्षत्रमण्डलम्पराभिमुखं भ्रमति। इत्यादि ज्ञात्वेत्यर्थः। स पुरो गणितविदेवंविधं ग्रहादिचरितं ज्ञात्वा ग्रहनक्षत्राणां मार्गं भित्त्वा परं ब्रह्म गच्छति ॥ इति पारमेश्वरिकायां भटदीपिकायां गीतिकापादःप्रथमः। भा०:-पृथिवी और ग्रहों का चरित जिस में वर्णित है। उस को राशिचक्र में यथावत् जान कर, नक्षत्र चक्र में पृथिवी अवस्थित है और चन्द्रमा मन्दग्रह आदि अपनी २ गति से पूर्व की ओर चलते हुए ज्योतिश्चक्र की गति से प- राभिमुख भ्रमण करते हैं। इस के ऊपर अपनी गति से हीन नक्षत्रमण्डल भ्रमण करता सा दीख पड़ता है। गणितज्ञ गण इस प्रकार ग्रह आदिकों के चरित को जान कर पर ब्रह्म को प्राप्त होते हैं ॥ ११ ॥ इति आर्य्य भटीये गीतिका पादः समाप्तः ॥ १ ॥ एवं दशगीतिकात्मकेन प्रबन्धेनातीन्द्रियमर्थजातमुपदिश्येदानों तन्मूलन्याया- वसेयमर्थजातं प्रबन्धान्तरेण प्रदर्शयन्निष्टदेवतानमस्कारपूर्व्वन्तदभिधानंप्रतिजानाति ब्रह्मकुशशिबुधभृगुरविकुजगुरुकोणभगणानमस्कृत्य । आर्य्यभटस्त्विह निगदति कुसुमपुरेऽभ्यर्चितं ज्ञानम् ॥१॥ ब्रह्मभूमिग्रहनक्षत्रगणान्मस्कृत्य कुसुमपुरे कुसुमपुराख्येऽस्मिन्देशे। अभ्यर्चितं। ज्ञानं कुसुमपुरवासिभिः पूजितं ग्रहगतिज्ञानसाधनभूतं तन्त्रमार्य्यभटो निगदति । ३
१८ गीतिकापादः ॥ कुसुमपुरेऽभ्यर्चितमित्यनेन ॥ कालक्रियागोलयोर्गणितगम्यत्वात्प्रथमं गणि- तपादं प्रतिपादयिष्यन्नादितो दशानां स्थानानां संज्ञास्संख्यालक्षणञ्चाह । भा०:- पृथिवी, चन्द्रमा, बुध, शुक्र, सूर्य, मङ्गल, और बृहस्पति, आदि धिष्ठित परब्रह्म को नमस्कार कर आर्यभट इस कुसुमपुर (पटना, बिहार) के लोगों द्वारा समादृत आर्यभटीय नामक ग्रन्थ को कहते हैं ॥ १॥ एकं दश च शतञ्च सहस्रमयुतनियुते तथा प्रयुतम् । कोट्यर्बुदञ्च वृन्दं स्थानात्स्थानं दशगुणं स्यात् ॥२॥ * इति । स्पष्टार्थः । अनुक्ता संख्या शास्त्रान्तरादवगन्तव्येति भावः ॥ समचतु- रश्रफलयोर्वर्गसंज्ञां वर्गस्वरूपञ्चार्यार्धेनाह । दूसरी गीतिका का अर्थ नीचे लिखे प्रकार जानना ॥ एक १ दश १० शत १०० सहस्र १००० अयुत १०००० लक्ष १००००० प्रयुत १०००००० कोटि १००००००० अर्बुद १०००००००० अब्ज १००००००००० खर्व १०००००००००० निखर्व १००००००००००० महापद्म् ०००००००००००० शङ्कु १००००००००००००० जलधि १०००००००००००००० अन्त्य १००००००००००००००० मध्य १०००००००००००००००० परार्द्ध १००००००००००००००००० ( * ) इत्यार्यापूर्वार्धे वृत्तभङ्ग उपलभ्यते । एकं दशायुतं शतं सहस्रमिति पाठः शुद्धप्रायो भवेत् ।
आर्यभटीये १९ वर्गस्समचतुरश्रः * फलञ्च सदृशद्वयस्य संवर्गः ॥ यस्य चतुरश्रस्य क्षेत्रस्य चत्वारो बाहवः परस्परं समास्स्युः कर्णद्वयञ्च परस्परं समं भवेत् तत्क्षेत्रं समचतुरश्रमित्युच्यते । स क्षेत्रविशेषो वर्गसंज्ञितो भवति । फलञ्च । तस्मिन् क्षेत्रे यत्क्षेत्रफलं भवति तदपि वर्गसंज्ञितं भवति । क्षेत्रफलसमुदायस्य वर्गसंज्ञा भवति । अभीष्टक्षेत्रस्यान्तर्भागे हस्तमितैश्चतुर्भि- र्बाहुभिर्निष्पन्नानि यानि समचतुरश्राणि तानि क्षेत्रफलानीत्युच्यन्ते । एवं त्रिकोणवृत्तादिक्षेत्रेष्वपि हस्तोन्मितचतुरश्रपरिकल्पनया जातानां चतुरश्रख- ण्डानां फलसंज्ञा भवतीति वेद्यम् । सदृशद्वयस्य संवर्गः । सदृशयोः परस्परतु- ल्ययोस्संख्ययोर्यस्संवर्गः परस्परहतिस्स वर्गसंज्ञो भवति । स्वस्य स्वसंख्यया हननं वर्गकर्मेत्युक्तं भवति ॥ उत्तरार्धेन घनमाह । भा०:-जिस "चतुर्भुज क्षेत्र"के चारो भुजा एवं दोनों कर्ण परस्पर समान हों, उसे "समचतुरस्त्र" क्षेत्र कहते हैं। ऐसे " समचतुरस्त्र" क्षेत्र का नाम "वर्गक्षेत्र" भी है। और इस के फल का नाम " वर्गक्षेत्रफल " होता है। समान दो संख्याओं के परस्पर गुणन को "संवर्ग" कहते हैं ॥ २, और आधी गीति- का का अर्थ हुआ ॥ सदृशत्रयसंवर्गो घनस्तथा द्वादशाश्रस्स्यात् ॥ ३ ॥ तुल्यसंख्यात्रयस्य संवर्गः परस्परहतिर्घनसंज्ञो भवति । स्वस्य स्वसंख्य- या गुणितस्य पुनरपि स्वसंख्यया हननं घनकर्मेत्युक्तं भवति । तथा द्वादशा- श्रक्षेत्रञ्च घनसंज्ञं भवति । एतदुक्तं भवति । हस्तोन्मितिदैर्य्यविस्तृतेस्समचतु- रश्रस्य स्तम्भादेर्यथा मूले तिर्यगायतानि चत्वार्य्यश्राणि भवन्ति । तथाग्रे चत्वारि । अधऊर्ध्वगतानि चत्वारि । एवं द्वादशभिरश्रैर्युतं क्षेत्रञ्च घनसंज्ञं भवतीति । अत्र सदृशद्वयसंवर्गस्सदृशत्रयसंवर्ग इत्याभ्यामेव वर्गकर्म घनकर्म च प्रदर्शितम् । अस्माद्विधेरन्योयतस्सिद्धं परैरुक्तं प्रक्रियान्तरं विलिख्यते* । "समद्विघातः कृतिरुच्यतेऽथ स्थाप्योऽन्त्यवर्गो द्विगुणान्त्यनिघ्नः ।
- अत्ररश्ररितिपाठो वैदिकः शतपथब्राह्मणादिषु दृश्यते ज्यौतिषग्रन्थेषु नोपलभ्यते किन्तु चतुरस्त्ररित्येव पाठो दृश्यते । यत्र यत्रास्मिन् ग्रन्थे-अस्त्र स्थाने "अश्रं" पश्येत तत्र सर्वत्रायमेवं हेतुज्ञेयः ।
- तच्च लीलावत्याम्