आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
सूत्रम्. | विषयः.
२७
| सूत्रम्. | विषयः. |
|---|---|
| १६. | पुरोहितस्य समन्त्रं दुन्दुभिस्पर्शः । |
| १७. | समन्त्रं पुरोहितस्येषुविसर्गः । |
| १८. | युध्यमानेषु योधेषु पुरोहितस्य जपः । |
| १९. | दुन्दुभिस्पर्शनादौ राज्ञः प्रेरणं वा । |
अथ चतुर्थोऽध्यायः ।
प्रथमः खण्डः ।
१. आहिताग्ने रोगसम्भवे ग्रामाद् बहिर्वासः ।
२. तथाकरणे प्रयोजनकथनम् ।
३. ग्रामजनानामादरातिशयादरोगतासिद्धिः ।
४. जातारोग्यस्य सोमाद्यन्यतमेनेष्ट्वा गृहप्रवेशः ।
५. अनिष्ट्वापि गृहप्रवेशनानुज्ञा ।
६. आहिताग्नौ संस्थिते आग्नेय्यां नैर्ऋत्यां वा गर्तखननम् ।
७. आदहनास्थिनिधानोभयविधश्मशानलक्षणम् ।
८. तस्यैवान्यलक्षणम् ।
९. वास्तुपरीक्षावदत्रापि कण्टकिवृक्षादीनामुद्वासनम् ।
१०. आदहनश्मशानस्य मध्योच्छ्रितत्वम् ।
११. पुत्राणां वपनप्रकारः ।
१२. प्रभूतबर्हिराज्योपकल्पनम् ।
१३. पृषदाज्यमिश्रणप्रकारस्तस्य पित्र्यत्वं च ।
द्वितीयः खण्डः ।
१. अग्नेर्नयनम् ।
२. यज्ञपात्रनयनम् ।
३. प्रेतस्य पृष्ठतः पुंसां स्त्रीणां च प्रवयसामयुग्मसङ्ख्याकानां गमनम् ।
४. प्रेतस्य गोयुक्तशकटविशेषेण शिविकया वा नयनम् ।
२८
| सूत्रम्. | विषयः. |
|---|---|
| ५. | गोविशेषस्याजाविशेषस्य वानुस्तरणित्वेन निर्देशः । |
| ६. | पशोः सव्ये बाहौ रज्जुं बद्ध्वा प्रेतस्य पृष्ठतो नयनम् । |
| ७. | मुक्तशिखानां पुत्रादीनां ज्यैष्ठ्यक्रमेण गमनम् । |
| ८. | खानितस्य गर्तस्य त्रिप्रदक्षिणं परिक्रमणं शमीशाखयोदकेन प्रोक्षणं च । |
| ९. | खानिते गर्ते अग्नीनां निधानप्रकारः । |
| १०. | प्रेतस्यान्तर्वेदि निधानम् । |
| ११. | इध्मचितेश्शयनम् । |
| १२. | तत्र प्रेतस्य संवेशनप्रकारः । |
| १३. | पत्न्या उत्तरतः संवेशनम् । |
| १४. | क्षत्रियस्य प्रेतस्योत्तरतः पत्न्या धनुषश्च संवेशनम् । |
| १५. | देवरादिभिः समन्त्रं पत्न्या उत्थापनम् । |
| १६. | वृषलेनोत्थापने कर्तुर्मन्त्रजपः । |
| १७. | धनुरादाने मन्त्रजपः । |
| १८. | वृषलेन धनुरादाने कर्तुर्मन्त्रजपः । |
| १९. | आरोपितं धनुश्छित्त्वेध्मचितौ प्रक्षेपः । |
तृतीयः खण्डः ।
१—११. प्रेतस्य सर्वेष्वङ्गेषु यज्ञपात्राणां निधानम् ।
१२. बिलवतां पात्राणां पृषदाज्येन पूरणम् ।
१३, १४. दृषदुपलादीनां पुत्रस्योपयोगार्थं गृह एव निक्षेपः ।
१५. अनुस्तरणीपक्षे तस्या वपामुद्धृत्य समन्त्रं प्रेतस्य मुखशिरसोः प्रच्छादनम् ।
१६, १७. अनुस्तरण्या अङ्गानां प्रेतस्याङ्गेषु यथाक्रमं निधानम् ।
१८, १९. ओदनपिण्डयोरपि हृदये निधानं, वृक्कयाभाव एव तदिति मतान्तरम् ।
२०. सर्वाङ्गनिधानात् परमनुस्तरण्याश्चर्मणा प्रेतप्रच्छादनम् ।
२९
| सूत्रम्. | विषयः. |
|---|---|
| २१. | प्रणीतानुमन्त्रणम् । |
| २२. | सव्यं जानु निपात्य चतसृभिराज्याहुतिभिर्दक्षिणाग्नौ होमः । |
| २३. | पञ्चम्या आज्याहुतेः प्रेतस्योपरि होमः । |
चतुर्थः खण्डः ।
| सूत्रम् | विषयः |
|---|---|
| १. | अग्निप्रज्वालनार्थं परिकर्मिणां युगपत् प्रेरणम् । |
| २. | आहवनीयस्य प्रथमं प्रज्वलने स्वर्गप्राप्तिः । |
| ३. | तथा तत्पुत्रस्येह संसिद्धिः । |
| ४. | गार्हपत्यदक्षिणाग्न्योः प्रज्वलने फलविशेषः । |
| ५. | सर्वेषां युगपत् प्रज्वलने समृद्धयतिशयः । |
| ६. | दह्यमानप्रेतानुमन्त्रणम् ! |
| ७. | एवं विदुषा पुत्रेण दाहे फलश्रुतिः । |
| ८. | एवं संस्कृत्य प्रेतस्य जलपूर्णाज्जानुदघ्नाद् गर्तान्निष्क्रम्य धूमोद्गमसमय एव स्वर्गप्राप्तिः । |
| ९. | मन्त्रं जपित्वा प्रेतमनवेक्ष्य गमनम् । |
| १०. | तटाकादौ सकृदुन्मज्ज्य प्रेताय जलाञ्जलिं दत्त्वा शुष्काणि वासांसि परिधाय दिवा चेदानक्षत्रदर्शनाद् रात्रौ चेदा-सूर्यदर्शनात् सङ्गीभूयावस्थानम् । |
| ११. | दृश्यमाने नक्षत्रे सूर्ये वा कनिष्ठादिक्रमेण ग्रामप्रवेशः । |
| १२. | गृहं प्राप्याश्मादीनां द्वारदेश एवोपस्पर्शः । |
पञ्चमः खण्डः ।
| सूत्रम् | विषयः |
|---|---|
| १. | अस्मिन्नहोरात्रे गृहेऽन्नादिपाकप्रतिषेधः । |
| २. | अपरेद्युरारभ्य त्रिरात्रमक्षारलवणभोजनम् । |
| ३. | महागुरुमृत्तौ द्वादशरात्रमिति मुख्यः कल्पः, त्रिरात्रमिति च गौणः । |
| ४. | सपिण्डानां दशाहं दानाध्ययनादिनिषेधः । |
३०
| सूत्रम्. | विषयः. |
|---|---|
| ५. | असपिण्डगुरुमृतावप्येवम् । |
| ६. | सपिण्डास्वप्रत्तासु स्त्रीषु त्रिरात्रम् । |
| ७. | महागुरुव्यतिरिक्ताचार्येष्वपि । |
| ८. | समानोदकेष्वपि । |
| ९. | प्रत्तस्त्रीदन्तजातादिष्वेकाहम् । |
षष्ठः खण्डः
| सूत्रम्. | विषयः. |
|---|---|
| १. | अस्थिसञ्चयनकालः । |
| २. | शुभे कुम्भे पुंसोऽस्थिसञ्चयनम् । |
| ३. | अलक्षणे कुम्भे स्त्रिया अस्थिसञ्चयनम् । |
| ४. | संचेतृनियमः । |
| ५. | क्षीरोदकेनायतनप्रोक्षणम् । |
| ६. | अङ्गुष्ठोपकनिष्ठिकाभ्यामस्थ्यादायाशब्दं कुम्भे निधानम् । |
| ७. | आपादत लादस्थ्ना यथाक्रममादानम् । |
| ८. | अस्थिकुम्भस्य गर्ते निक्षेपः । |
| ९. | कपालेन कुम्भमपिधाय जपित्वा पांसुभिरवकीर्य श्मशानात् प्रत्याव्रज्य स्नात्वा प्रेताय श्राद्धदानम् । |
सप्तमः खण्डः ।
| सूत्रम्. | विषयः. |
|---|---|
| १. | पित्रादीनां गुरुजनानामुपर्य्युपरि मरणसम्भवेऽमायां शान्तिकैर्मविधिः । |
| २. | प्रागुदयाद् गृहोपकरणानां पचनामेश्च दक्षिणस्यां दिश्युत्सर्गः । |
| ३. | तमग्निं यत्रकुत्रापि प्रक्षिप्य त्रिःप्रदक्षिणं परिक्रमणम् । |
| ४. | ततः पृष्ठतोऽनवेक्ष्य पुनराव्रज्य स्नात्वा वपनविधिः । |
| ५. | नवानां मणिकादीनामुपकल्पनम् । |
| ६. | अग्निवेलायां समन्त्रमरणेरग्निजननम् । |
३१
| सूत्रम्. | विषयः. |
|---|---|
| ७. | गृहाद् बहिस्तमग्निं दीपयित्वार्धरात्रपर्यन्तं पुण्यकथादीनां कीर्तनम् । |
| ८. | अर्धरात्रात् परमविच्छिन्नाया उदकधाराया दक्षिणद्वारेण हरणम् । |
| ९. | अथ तत्र तमाग्निमुपसमाधाय तस्य पश्चिमे देशे आनडुहं चर्मास्तीर्य तत्र समन्त्रमारोहणम् । |
| १०. | मध्यमपरिधेः समन्त्रं परिधानं दक्षिणोत्तरयोश्चामन्त्रकम् । |
| ११. | उत्तरतोऽश्मानमवस्थाप्य चतसृभिराज्याहुतिभिर्हुत्वा कौटुम्बिकानामीक्षणम् । |
| १२. | युवतीनां नेत्राञ्जनं ततो निर्गमनं च । |
| १३. | युवतीनां नेत्राञ्जनसमये समन्त्रं कर्तुरीक्षणम् । |
| १४. | कर्तुरन्येषां चाश्माभिमर्शनम् । |
| १५. | अथाग्निमादाय गृहं प्रवेष्टुं सर्वेषां परिक्रमणमविच्छिन्नोदकधारास्रावणमैशान्यां दिशि स्थित्वा मन्त्रजपश्च । |
| १६. | परिणेतव्यस्यानडुहो लक्षणम् । |
| १७. | तस्याग्नेर्महानसे चुल्ल्यां प्रतिष्ठापनं सर्वेषां स्वे स्वे शयनस्थाने स्थित्वा नवेन वाससा प्रच्छाद्यासूर्योदयाज्जागरणम् । |
| १८. | उदिते सूर्ये मङ्गल्यसूक्तजपो होमो ब्राह्मणभोजनं दक्षिणादानं स्वस्तिवाचनं च । |
अष्टमः खण्डः ।
१. | श्राद्धानां चातुर्विध्यम् । २. | वरणीयब्राह्मणलक्षणं ब्राह्मणसङ्ख्या उपवेशनप्रकारः उपचारा अर्घ्यपरिकल्पनं च । ३. | अर्घ्यप्रदानं तन्मन्त्राश्च । ४. | प्रतिब्राह्मणं सकृत् सकृदर्घ्यनिवेदनम् । ५. | तासामपामनुमन्त्रणम् ।
सूत्रम्. | विषयः.
३२
| सूत्रम्. | विषयः. |
|---|---|
| ६. | अर्घ्यदानावशिष्टानानपां प्रथमपात्रे समवनयनं मुखाञ्जनं च । |
| ७. | अत्र स्तुतिनिन्दार्थमुभयोर्गाथयोरुदाहरणम् । |
नवमः खण्डः ।
१. गन्धादिदानम् ।
२. स्थालीपाकादुद्धृतस्यान्नस्याग्नौ करणार्थं ब्राह्मणप्रार्थना ।
३. अग्नौ कुरुष्वेत्यादिब्राह्मणाभ्यनुज्ञा ।
४. पिण्डपितृयज्ञोक्तप्रकारेण होमः ।
५. आहिताग्न्यादेः पार्वणे पाणिहोमविधिः ।
६. पाणिहोमप्रशंसा ।
७. पाणिहोमपक्षे विशेषः ।
८. अग्नौ करणपक्षे विशेषः ।
९. श्रद्धया दाने प्रशंसा ।
१०. तृप्तेषु ब्राह्मणेषूभयोर्मन्त्रयोः श्रावणम् ।
११. तृप्तिप्रश्नप्रतिवचनानन्तरं पिण्डार्थमन्नमुद्धृत्य शिष्टस्यान्नस्य ब्राह्मणेभ्यो निवेदनम् ।
१२. भुक्तवत्स्वनाचान्तेषु पिण्डनिपरणम् ।
१३. केषाञ्चिन्मते आचान्तेषु पिण्डनिपरणम् ।
१४. अनन्तरं समन्त्रमन्नान्विकिरणं स्वधोक्त्यनन्तरं पितॄणां विसर्गः ।
दशमः खण्डः ।
१. शूलगवाख्यरौद्रयज्ञः ।
२. शूलगवस्य कालः ।
३. तस्य नक्षत्रविशेषः ।
४. यूथश्रेष्ठस्य पुङ्गवस्योपादानम्।
५. गोलक्षणम् ।
३३
| सूत्रम्. | विषयः. |
|---|---|
| ६. | तस्यैव लक्षणान्तरं केषाञ्चिन्मते । |
| ७. | कृष्णस्याप्यारोहवतो ग्रहणम् । |
| ८. | तस्य गोराभिषेकः । |
| ९. | समन्त्रं शूलेनाङ्कयित्वोत्सर्गो यावद्दन्तपतनम् । |
| १०. | ग्रामाद् बहिर्यज्ञिये देशे शूलगवविधानज्ञेन होमस्तस्य वृद्धस्य पशोर्यूपे बन्धनं रुद्राय नियोगश्च । |
| ११. | पशुकल्पोक्तवत् प्रोक्षणादिं । |
| १२. | विशेषवर्णनप्रतिज्ञा । |
| १३. | मृन्मयपात्रेण पर्णेन वा वपाहोमस्य कर्तव्यत्वम् । |
| १४. | वपाया अवदानानां स्थालीपाकस्य च हरायेत्यादिभिर्द्वादशभिर्नामभिः स्वाहाकारान्तो वपाहोमः । |
| १५. | उग्रायेत्यादिभिः षड्भिर्वा । |
| १६. | रुद्राय स्वाहेति वा । |
| १७. | होमानन्तरं स्विष्टकृतः पूर्वं चतसृषु दिक्षु बलिहरणम् । |
| १८. | बलिहरणे दिशां नामनिर्देशः । |
| १९. | चतुर्भिः सूक्तैश्चतसृणां दिशामुपस्थानम् । |
| २०. | अन्येष्वपि रुद्रयज्ञेषु दिशामुपस्थानम् । |
| २१. | तुषादीनामग्नौ प्रहरणम् । |
| २२. | पशोश्चर्मणोपानदादिकरणम् । |
| २३. | अग्नेरुत्तरतः समन्त्रं पशोः शोणितनिनयनम् । |
| २४. | संज्ञपनदेशस्थितस्य रुधिरादेः समन्त्रं सर्पेभ्यो निवेदनम् । |
| २५. | तस्य सर्पैर्हरणम् । |
| २६. | रुद्रस्य सर्वात्मकत्वप्रशंसा । |
| २७. | याजयितुर्यजमानस्य च ज्ञात्वानुष्ठाने प्रशंसा । |
| २८. | रुद्रप्रसादेन यजमानस्याकुतश्चिद्भयत्वम् । |
| २९. | पुत्रादीनामस्मिन् कर्मण्यन्वयप्रतिषेधः । |
| ३०. | हुतशेषप्राशनस्य स्वस्त्ययनत्वम् । |
३४
| सूत्रम्. | विषयः. |
|---|---|
| ३१. | उक्तस्य शूलगवस्य सर्वकामफलप्रदत्वम् । |
| ३२. | सर्वथास्य कर्मणः सकृत् कर्तव्यत्वम् । |
| ३३. | यजमानप्रशंसा । |
| ३४. | मङ्गल्यसूक्तं जपित्वा गृहस्य प्रत्यागमनम् । |
| ३५. | पशूनां रोगेऽस्यैव देवस्य यष्टव्यत्वम् । |
| ३६. | शूलगवस्य स्थाने सर्वहुतः स्थालीपाकः । |
| ३७. | होमानन्तरं धूमस्पर्शार्थं गवामानयनम् । |
| ३८. | मङ्गल्यं सूक्तं जपित्वा पशूनां मध्ये प्रवेशः । |
| ३९. | शौनकाचार्यनमस्कारः । |
इति चतुर्थोऽध्यायः ।
शुद्धिपत्रम् ।
| पृष्ठम् . | पङ्क्तिः . | अशुद्धम् . | शुद्धम् . |
|---|---|---|---|
| १० | २३ | त्वि | र्त्वि |
| १४ | १३ | ये | य |
| ५० | ४ | यदा | य था |
| ,, | १४ | थ | थे |
| ७९ | ३ | रा' स | रास' |
| ८६ | १९ | ना य | नां य |
| १४९ | १२ | भान् | र्भान् |
| १६२ | ,, | दृध्वा ह | दृध्वाह |
| ,, | १४ | तोब्र | ब्रतो |
| १८८ | १० | याऽस्थी | या अस्थी |
CC-0. Agamnigam Digital Presevation Foundation, Chandigarh
CC-0. Agamnigam Digital Presevation Foundation, Chandigarh
॥ श्रीः ॥
आश्वलायनगृह्यसूत्रम् ।
अनाविलाख्यया श्रीहरदत्ताचार्यमिश्रविरचितया
वृत्त्या समेतम् ।
उक्तानि वैतानिकानि। गृह्याणि वक्ष्यामः ॥ १ ॥
नमो रुद्राय यद् गृह्यमाश्वलायननिर्मितम् ।
क्रियते हरदत्तेन तस्य वृत्तिरनाविला ॥
द्विप्रकाराणि कर्माणि श्रुतिलक्षणान्याचारलक्षणानि च । तत्र उक्तानि वैतानिकानि वितानैरग्निभिः साध्यानि श्रुतिलक्षणानि कर्माणि । अथेदानीं गृह्याणि वक्ष्यामः । गृहाश्रमे भवोऽग्निर्गृह्यः । वक्ष्यति च “पाणिग्रहणादि गृहं परिचरेत्” इति । यस्मिन्नग्नौ पाणिं गृह्णीयात् स गृह्य इति च्छन्दोगाः । इह तु तत्साध्यानि कर्माणि विवक्षितानि । यद्यप्युपनयनादौ लौकिकोऽग्निः, रथारोहणादिष्वग्नि^२रेव नास्ति, तथापि सर्वाण्येव स्मृत्याचारलक्षणानि कर्माणि गृह्याणीत्युच्यन्ते भूम्ना । किं प्रयोजनं सूत्रस्य । गृह्याणां कर्मणामधिकारः । तेन वक्ष्यमाणेषु कर्मसु सति सम्भवे गृह्योऽग्निः गृहस्थश्चाधिकारीति सिद्धम् । अथ गृह्याणि वक्ष्याम इत्येवाधिकार सिद्धे उक्तानि वैतानिकानीत्युक्तानुभाषणं^६
१. ‘धनानि’ ग. पाठः.
२. ‘दौ चाग्नि’ घ. पाठः.
३. ‘षु चाग्नि’ ग. पाठः.
४. ‘प्युच्य’ क. ख. ग. पाठः.
५. ‘न्ते न भू’ क., ‘न्ते नाम्ना’ ख. ग. पाठः.
६. ‘नीति भा’ घ. पाठः.
G. P T. 2374. 500. 24-1-21. B
१ आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः
वक्ष्यमाणेषु तदपेक्षाप्रदर्शनार्थम् । तेन तत्र याः परिभाषाः “तस्य नित्याः प्राञ्चश्चेष्टा” इत्यादयः, तासां वक्ष्यमाणेष्वपि प्रवृत्तिर्भवति । प्रकरणभेदाद्धि न प्राप्नोति ॥ १ ॥
त्रयः पाकयज्ञाः ॥ २ ॥
पाकगुणका यज्ञाः पाकयज्ञा इति विज्ञायमाने आज्यहोमेषु “पाकयज्ञानामेतत्तन्त्रम्” इत्येष विधिर्न³ वर्तते । तस्मादल्पवचनः पाकशब्दः, यथो² योऽस्मात् पाकतरै इति । प्रशंसावचनो वा, यथा तं पाकेन मनसापश्यमभित⁵ इति । अल्पायाससाध्यत्वादल्पत्वम् । महाफलत्वात्⁶ प्रशस्तत्वम् । वक्ष्यति⁴ च “अथ काम्यानां स्थाने काम्याः⁷,” “चरवैः⁸,” “तानेव कामानाप्नोति” इति । ते पाकयज्ञास्त्रयः त्रिविधा इत्यर्थः ॥ २ ॥
तां¹⁰ एव विधा लक्षणेन दर्शयति —
हुता अग्नौ हूयमानाः अनग्नौ प्रहुता ब्राह्मणभोजने ब्रह्मणिहुताः ॥ ३ ॥
हूयमानाः क्रियमाणा इत्यर्थः । नहि पाकयज्ञैः⁹ सर्वे हूयन्ते । हुता नाम पाकयज्ञाः पार्वणादयः । अनग्नौ प्रहुताः
१. 'र्न प्रव' क. ख. ग. पाठः.
२. 'था अहैदैधिषव्यो दतस्तितिष्ठेते तत्र यो' ग, 'था अहेदैधिषव्येति यो' घ. पाठः.
३. 'स्म' क. घ. पाठः.
४. 'रेति च । प्र' घ. पाठः.
५. 'न्ति' ख. पाठः.
६. 'त्वं प्र',
७. 'त्वं च । व',
८. 'ति अ' घ. पाठः.
९. 'वः इ' क. ख. ग. पाठः.
१०. 'तानेवंविधेन लक्षणेन सह द' ग. पाठः.
११. 'ज्ञा हू' क. ख. ग. पाठः.
प्रथमः खण्डः] अनाविलोपेसम् । ३
प्रथमः खण्डः] अनाविलोपेसम् । ३
अनग्नौ क्रियमाणाः प्रहुता^१ नाम पाकयज्ञाः बलिहरण- ब्रह्मयज्ञादयः^२ । ब्राह्मणभोजने ब्रह्मणिहुताः । यत्र ब्राह्मणभो- जनमेव यत्र च ब्राह्मणभोजनमधिकं ते ब्रह्मणिहुताः^३ आति- थ्यपार्वणश्राद्धादयः । त्रैविध्योपदेशस्य प्रयोजनं “पाकयज्ञा- नामेतत्तन्त्रम्” इति वक्ष्यते । तद् यादृशेषु पाकयज्ञेषु तन्त्रं स- माम्नातं तादृशेष्वेव यथा स्यात् । कीदृशे चै^४ तत् समा- म्नातं, हुते । तस्माद्धुतेष्वेवै^५ तस्य तै^६न्त्रस्य प्रवृत्तिः । तेन सर्पबल्यादाववदानधर्मो न भवति । ब्राह्मणभोजने निर्वा- पप्रोक्षणादयो न भवन्ति ॥ ३ ॥
देवतामुद्दिश्य द्रव्यत्यागो यागः । स च ब्रह्मयज्ञादिषु नास्ति । तत् कथमेतेषु यज्ञशब्द इत्याशङ्क्य तेषां यज्ञत्व^७मुपपादयितुमृच उदाहरति —
अथाप्यृच उदाहरति यः समिधा य आहुती यो वेदेनेति ॥
तत्राधिकपादग्रहणात् तृचस्य ग्रहणे प्राप्ते तृतीयार्थवि- रोधान्न गृह्यते । ऋच इति बहुवचनं वक्ष्यमाणापेक्षम्^८ । यो मर्तो मर्त्यः समिधा अग्नये विभक्तिव्यत्ययः अग्निं ददाश दाशतिर्दानकर्माण्यत्र इह तु प्रीणने द्रष्टव्यः प्रीणाति । य आहुती तृतीयैकवचनस्य पूर्वसवर्णदीर्घः यश्चाहुत्याग्निं प्रीणाति । यो वेदेन यश्च वेदेनाग्निं प्रीणाति । यो नमसा यश्च नमस्कारेणाग्निं प्रीणाति । यच्छब्दश्रुतेस्तच्छब्दोऽध्याहार्यः ।
१. 'ताः ब', २. 'यः उदाहरणं ब्रा' क. ख. ग. पाठः. ३. 'ता नाम । आ' ग, 'ता नाम पाकयज्ञाः । आ' घ. पाठः. ४. 'ए' ग. घ. पाठः. ५. 'व तन्त्र' घ. पाठः. ६. 'म' ग. पाठः. ७. 'ज्ञशब्दत्व' क. ख. पाठः. ८. 'सा अग्नये ददाशेत्यपेक्ष्यते । यश्च' ग. घ. पाठः.
४ आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः]
सः स्वध्वरः स सर्वोऽपि शोभनयज्ञः, न केवलं य आहुत्या प्रीणाति स एव । किञ्च तस्येत् तस्यैव अर्वन्तः अश्वा रंह- यन्ते गमयन्ति कं रथम् आशवः क्षिप्रगामिनः । द्युम्नि- तमं द्युम्नं¹मिति हिरण्यनाम अतिशयेन द्युम्नवत् द्युम्नित- मम् । एवंभूतं यशोऽपि तस्यैव । तस्य देवकृतमंहः व्यसनं कुतश्चनापि न नशत् न व्याप्नोति मर्त्यकृतं चांहो न नशद् इत्यृग्द्वयस्यार्थः ॥ ४ ॥
समिधमेवापि श्रद्दधान आदधन्मन्येत यज इ- दमिति नमस्तस्मै य आहुत्या यो वेदेनेति विद्ययैवाप्य- स्ति प्रीतिस्तदेतत्पश्यन्नृषिरुवाच । अगोरुधाय गविषे द्युक्षाय दस्म्यं वचः । घृतात् स्वादीयो मधुनश्च वोच- तेति । वच एव स इदं घृताच्च मधुनश्च स्वादीयोऽस्ति प्रीतिः स्वादीयोऽस्त्वित्येव तदाह । आ ते अग्न ऋचा हविर्हृदा तष्टं भरामसि । ते ते भवन्तूक्षण ऋषभासो वशा उतेति । एत एव स उक्षाणश्च ऋषभाश्च वशाश्च भवन्ति। य इमं स्वाध्यायमधीयत इति यो नमसा स्व- ध्वर इति नमस्कारेण वै खल्वपि न वै देवा नमस्कार- मति यज्ञो वै नम इति हि ब्राह्मणं भवति ॥ ५ ॥
एवापिशब्दावल्पतां द्योतयतः । कनिष्ठामात्रं³ हि समित् तामपि श्रद्दधानो भूत्वा आदधत् पुरुषः यज इदमिति मन्येत याग एवायं मया क्रियत इति मन्येतेत्यर्थः । सूत्रकारोऽपि तं नमस्यति नमस्तस्मै । दृष्टश्चैवंविधः प्रासङ्गिकोऽन्यत्रापि
१. 'म्नि' क. ग. पाठः. ३. 'काष्ठमा' ख. ग. पाठः.
CC-0. Agamnigam Digital Presevation Foundation, Chandigarh
प्रथमः खण्डः] अनाविलोपेतम् । ५
नमस्कारः । यथा आर्शानुक्रमण्यां — “नमोऽग्निभ्यस्तवबो- ध्नि” इति । तदेवं यः समिधा ददाश सः स्वध्वर इति व्याख्या- तम् । य आहुतीति व्याचष्टे — य आहुत्या । तृतीयैकवचनस्य पूर्वसवर्णदीर्घ इति¹ व्याख्यातम् । यो वेदेनेति व्याख्या- तुमुपादानं, व्याचष्टे³ — विद्ययैवाप्यस्ति प्रीतिः । दाशतिः प्रीत्यर्थ इत्यनेन दर्शितम् । तदेतत् पश्यन्नृषिरुवाच तदेत- दनन्तरोक्तमर्थरूपं पश्यन्नृषिर्वैय्यै॑श्वो⁴ विश्वमना उवाच । अ- गोरुधाय गविषे द्युक्षाय दस्म्यं वचः । घृतात् स्वादीयो मधु- नश्च वोचतेति । स्तुतिलक्षणां गां वाचं यो न निरुणद्धि तस्मै अगोरुधाय गविषे गामिच्छते द्युक्षाय द्युःस्थानाय दस्म्यम् अनुरूपं स्तुतिलक्षणं वचः घृताद् मधुनश्च स्वादीयः स्वादुतरं दर्शनीयं वोचत ब्रूत हे मदीया ऋत्विजः पुत्रपौत्रा वा । अत्र तृतीयं पादमर्थतो व्याचष्टे — वच एव म² इदं घृताच्च मधुनश्च स्वादीयोऽस्ति प्रीतिः स्वादीयोऽस्त्वित्येव तदाह । मम स्व- भूतमिदं वच एव घृताच्च मधुनश्च स्वादीयोऽस्त्विति यद् एतद्दे- वानेन पादेन ऋषिराहेत्यर्थः । न केवलं घृताच्च मधुनश्च, मां- सादपि स्वादुतरमिति दर्शयितुमृगन्तरमुदाहरति — आ ते अग्न ऋचा हविर्हृदा तष्टं भरामसि । ते ते भवन्तूक्षण ऋष- भासो वशा उतेति । हे अग्ने! ते तुभ्यं हृदा तष्टं हृदयेन चि- कीर्षितं हविः ऋचा ऋग्रूपेण आभरामसि आहरामो वयम् । ते, हविरपि परामृशतस्तच्छब्दस्योक्षादिभिः सामानाधिकरण्याल्लि-
१. 'ति ददाश स स्वध्वर इति व्या' क. ख. ग. पाठः. २. 'म',
३. 'ष्टे अत्र वि' ग. पाठः. ४. 'र्य' क. पाठः.
६ आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः
ङ्गवचनभेदः, तादृग्रूपं हविः ते तव उक्षाण ऋषभाश्च व- शाश्च भवन्ति । वन्ध्या गावो वशाः । व्याचष्टे — एत एव म उक्षाणश्च ऋषभाश्च वशाश्च भवन्ति । भरद्वाजस्यैषा — य इमं स्वाध्यायमधीयत इति । चलोपोऽत्र द्रष्टव्यः । ये चेमं स्वाध्यायमधीयत इति । न केवलं भरद्वाजस्यैव, किं तर्हि, अन्येऽपि य इमं स्वाध्यायमधीयते तेषामपि एते उक्षाण ऋषभाश्च वशाश्च भवन्ति, द्रष्टव्यतिरिक्तानामप्य- ध्ययनमात्रेण भवन्तीत्यर्थः । यो नमसा स्वध्वर इति व्याख्ये- योपादानं, व्याचष्टे — नमस्कारेण वै खल्वपि । अस्ति प्रीति- रित्यपेक्ष्यते । एतदेवोपपादयति — न वै देवा नमस्कारमति । वै प्रसिद्धौ । न खलु देवा नमस्कारमतिक्रामन्ति । "यज्ञो वै नम" इति हि ब्राह्मणं भवति । ततश्च यथा यज्ञं नातिका- मन्ति, एवं नमस्कारं²मपीति ॥ ५ ॥
इति हरदत्ताचार्यमिश्रकृतायामाश्वलायनगृह्यवृत्तौ प्रथमः खण्डः ।
अथ द्वितीयः खण्डः । अथ सायं प्रातः सिद्धस्य हविष्यस्य जुहुयाद- ग्नयेऽग्निहोत्रदेवताभ्यः सोमाय वनस्पतयेऽग्नीषोमाभ्यामिन्द्रा- ग्निभ्यां द्यावापृथिवीभ्यां धन्वन्तरय इन्द्राय विश्वेभ्यो देवेभ्यो ब्रह्मणे स्वाहेति ॥ १ ॥
अथेमानि गृह्याणि विधीयन्ते, यानि प्राक् प्रतिज्ञा- तानि³ इत्यथशब्दस्यार्थः । सायंशब्दो रात्रेरुपक्रमे प्रसिद्धः
१. 'रं नाति' ख. ग. पाठः. २. 'पि नातिका(मति) ॥ ३. 'नीत्यर्थः' क. पाठः.
द्वितीयः खण्डः] अनाविलोपेतुम् । ७
द्वितीयः खण्डः] अनाविलोपेतुम् । ७
प्रातःशब्दश्चाहः । इह तु कृत्स्नां रात्रिं कृत्स्नं चाहः प्रतिपादयतः । सिद्धस्य भोजनार्थं पक्वस्य । तेनाशक्त्यादिना भोजनलोपे वैश्वदेवमेतन्न भवति, भोजनीयस्यान्नस्य संस्कारोऽयमिति कृत्वा । केचित्तु पुरुषसंस्कार उभयसंस्कारो वेति वदन्तो भोजनलोपेऽपि कुर्वन्ति । हविष्यस्येति वचनं व्यञ्जनानां मा भूदिति । यदा त्वहविष्यमेव कोद्रवादि भोज्यत्वेनोपस्थितं भवति, तदा आपस्तम्बेनोक्तं द्रष्टव्यम्—“अहविष्यस्य होमः उदीचीनमुष्णं भस्मापोह्य तस्मिञ् जुहुयात् तद्धुतमहुतं चे”ति । अग्निहोत्रदेवताभ्यः, नायं मन्त्रः अग्निहोत्रदेवताभ्यः स्वाहेति होम इति, किं तर्हि, विधिः, अग्निहोत्रे या देवतास्ताभ्यो होमः कर्तव्य इति । तत्र यद्यप्यग्निहोत्रशब्दो द्रव्ये कर्मणि च वर्तते, तथापि न द्रव्यदेवता गृह्यन्ते “रौद्रङ्गविसद्” इत्यादयः षोडश, तासामभोक्तृत्वात् । याः पुनः कर्मदेवता “अग्निर्गृहपतिरि”त्याद्याः, ता अपि न गृह्यन्ते, अनित्यत्वात् । नहि ताः श्रुतावुपदिश्यन्ते । तथाच “तस्य वा एतस्याग्निहोत्रस्य सप्त च शतानि विंशतिश्चे”त्यत्र ता न गण्यन्ते । तस्मादग्निहोत्रे या देवतास्ताभ्यो होमः कर्तव्य इति । तस्माद् अग्नये स्वाहा प्रजापतये स्वाहा इति सायम् । सूर्याय स्वाहा प्रजापतये स्वाहा इति (होम?प्रातः) । सोमाय वनस्पतये । वनस्पतिः प्रधानभूतोऽपि दृष्टः पशुदेवताभ्यो वनस्पतिमनन्तरमिति । गुणभूतश्च सोमो वनस्पतिः सविता सत्यप्रसव इति । इह तु गुणभूत इत्युपदेशः । तस्मादेकाहुतिर्ब्रह्मणे स्वाहेति । स्वाहाकारान्तैर्मन्त्रैरित्येव सिद्धे स्वा-
८ आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः
हेति वचनमुत्तरार्थम् । स्वाहेत्यथ बलिहरणमिति अहो- मैत्वाद्धि न प्राप्नोति ॥ १ ॥
अथ बलिहरणमेताभ्यश्चैव देवताभ्योऽद्भ्य ओ- षधिवनस्पतिभ्यो गृहाय गृहदेवताभ्यो वास्तुदेवताभ्य इन्द्राय इन्द्रपुरुषेभ्यो यमाय यमपुरुषेभ्यो वरुणाय वरुणपुरुषेभ्यः सोमाय सोमपुरुषेभ्य इति प्रतिदिशं ब्रह्मणे ब्रह्मपुरुषेभ्य इति मध्ये विश्वेभ्यो देवेभ्यः स- र्वेभ्यो भूतेभ्यो दिवाचारिभ्य इति दिवा । नक्तंचारि- भ्य इति नक्तम् । रक्षोभ्य इत्युत्तरतः ॥ २ ॥
एताभ्यश्चैवेति । याः पूर्वोक्ता देवताः ताभ्यश्च याश्च वक्ष्यन्ते अबाद्यो वास्तुदेवतान्तास्ताभ्यश्च पञ्चदशभ्यः । प्रागपवर्गम् । एवकारः पौनर्वचनिकः, याभ्यो होमस्ताभ्य एव बलिरपि । गृहदेवताभ्य इति नायं विधायकः, गृहे या देवता वास्तुविद्याप्रसिद्धाः ताभ्यो बलिरिति, वास्तुदेवताभ्य इति पृथग्वचनात् । तस्मान्मन्त्रोऽयम् । प्रतिदिशमिति प्रधान- दिशां चतसृणां ग्रहणम्, इन्द्रादीनां चतुर्णामुपदेशात् । पुरु- षास्तु तेन तेन समानदिशः । कस्य पुनः प्रतिदिशम् । पूर्वकृ- तानां बलीनामिति केचित् । यत्रकुत्रचिदित्यपरे । गृहस्यै प्रतिदिशमित्यन्ये । मध्य इति, दिग्देवतानां गृहस्य वा । वि- श्वेभ्यो देवेभ्य इत्येतदपि मध्य एव । नक्तंचारिभ्य इति नक्तं दिवाचारिभ्य इत्यस्य स्थाने । पूर्वत्र दिवाग्रहणं न कर्तव्यम् इह नक्तं विशेषविधानादेव पूर्वो विधिर्दिवा भविष्यति । तत्
१. 'मस्थत्वा' क. पाठः. २. 'स्येत्यन्ये' ख. पाठः.
द्वितीयः खण्डः] अनाविलोपेताम् । ९
द्वितीयः खण्डः] अनाविलोपेताम् । ९
क्रियते वैश्वदेवं प्रातरारम्भं यथा स्यादिति । उत्तरत इति सर्वेषां बलीनां गृहस्य वा । एतेन दक्षिणेति च व्याख्या- तम् ॥ २ ॥
स्वधा पितृभ्य इति प्राचीनावीती शेषं दक्षिणा निनयेत् ॥ ३ ॥
प्राचीनावीतीत्यनुच्यमाने यथा “दक्षिणस्यां दिशि¹ मासाः पितर” इत्यत्र पित्र्येऽपि प्राचीनावीतित्वं न भवति, तथात्रापि न स्यात् । यथा पूर्वेषु³ बलिष्वर्थसिद्धं निनयनं, तथेहापि सिद्धे निनयेदिति वचनं क्रियान्तरत्वज्ञापनार्थम् । तेन बलिहरणमिदं न भवति । ततश्च स्वाहाकाराभावः । तदत्र यद् अग्नौकरणं स देवयज्ञः । यद् बलिहरणं स भूतयज्ञः । यद् दक्षिणतो निनयनं स पितृयज्ञः । त एते त्रयो- ऽपि सहैव कर्तव्याः । तदर्थमिह शेषग्रहणम् । “अथ बलिह- रणमि”त्यानन्तर्यार्थोऽथशब्दस्यै⁴। ब्रह्मयज्ञमनुष्ययज्ञौ वक्ष्येते । त एते पञ्च महायज्ञाः। कः पुनरस्याग्निः। गृह्याणीत्यधिकाराद् गृह्यः। गृहस्थश्चाधिकारी। तथाचापस्तम्बः— “गृहमेधिनोर्य- दशनीयस्य होमा बलयश्चे”ति। “औपासने पचने वे”ति व्यव- स्थितो विकल्पः— औपासनवत औपासने, विधुरादेः पचन इति। तथौचच्छन्दोगानां गृह्ये— “यस्मिन्नग्नौ पाणिं गृह्णीया- दि”ति प्रकृत्य वैश्वदेवमाम्नातम् । भाष्यकारस्तु “विवाहाग्नेः प्रागस्यारम्भादनियतोऽत्राग्निः⁵, समावृत्तस्य च पृथक्पाकस्य
१. ‘तं न’ ख. ग. घ. पाठः. २. ‘र्वेष’ ग. पाठः. ३. ‘श्च’ क. ख. ग. पाठः. ४. ‘था छ’ ख. ग. पाठः. ५. ‘तोऽग्निः’ ख. पाठः.
C
| १० | आश्वलायनगृह्यसूत्रम् | [प्रथमोऽध्यायः |
|---|
प्रागपि विवाहाद्वैश्वदेवं कर्तव्यमि”त्याह। स्मृतिषु च स्नातक- प्रकरणे पञ्च महायज्ञा विहिताः, न गृहस्थप्रकरणे । पात्रस्य चोविहितत्वात् पाणिना होमा बलयश्चेति । अङ्गिरास्तु— “शालाग्नौ विपचेदन्नं लौकिके वापि नित्यशः । यस्मिन्नेव पचेदन्नं तस्मिन् होमो विधीयते ॥” इति ॥ ३ ॥
इति हरदत्ताचार्यमिश्रकृतायामाश्वलायनगृह्यवृत्तौ प्रथमाध्याये द्वितीयः खण्डः ।
अथ तृतीयः खण्डः ।
अथ खलु यत्र क्वच होष्यन्त्स्यादिषुमात्रावरं सर्वतः स्थण्डिलमुपलिप्योल्लिख्य षड् लेखा उदगायतां पश्चात् प्रागायते नानन्तयोस्तिस्रो मध्ये तदभ्युक्ष्याग्निं प्रतिष्ठाप्यान्वाधाय परिसमूह्य परिस्तीर्य पुरस्ताद्दक्षिणतः पश्चादुत्तरत इत्युदक्संस्थं तूष्णीं पर्युक्षणम् ॥ १ ॥
अथशब्दोऽधिकारार्थः। तेन पूर्वोक्ते वैश्वदेवे वक्ष्यमाणं तन्त्रं न भवति। खलुशब्दो वाक्यालङ्कारे। यत्रक्वचग्रहणस्याकरणे अथ खलु होष्यन्त्स्यादित्यहरहर्होमविधिः प्रसज्येत। करणे त्वन्यत्र विहितस्य होमस्य विशेषो विधीयत इति गम्यते। यत्र होष्यन्त्स्यादित्येव सिद्धे क्वचग्रहणं क्रियते यत्राग्निहोत्रिकं तन्त्रं, तस्याग्निहोत्रेण प्रादुष्करणहोमकालौ व्याख्याताविति तस्मिन्नौपासनेऽपि परिस्तरणादयो होष्यद्धर्मा
१. 'चाप्यवि' क. पाठः.