भारतकोश
संग्रह पर लौटें

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

Ashvalayana Grihyasutra Hindi

महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा

स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)

DevanagariHindipublished292 पृष्ठ

१५

सूत्रम्.विषयः.
१३.समन्त्रमञ्जलिना मधुपर्कग्रहणं तदवेक्षणमनामिकाकनिष्ठिकाभ्यां त्रिः प्रदक्षिणमालोडनं पुरस्तान्निमार्जनं च ।
१४.एवं दक्षिणपश्चिमोत्तरभागेषु निमार्जनम् ।
१५.मन्त्रेण मध्यात् त्रिरुद्गृह्य प्रथमं प्राशनम् ।
१६.मन्त्रान्तरेण द्वितीयं प्राशनम् ।
१७.तथा तृतीयं प्राशनम् ।
१८.सर्वप्राशनप्रतिषेधः ।
१९.आ तृप्तेः पानप्रतिषेधः ।
२०.मधुपर्कोच्छिष्टस्योदङ्मुखतया ब्राह्मणाय दानम् ।
२१.ब्राह्मणालाभे मधुपर्कस्याप्सु त्यागः ।
२२.सर्वप्राशनं वा ।
२३.आचमनीयजलेनान्वाचमनं प्रथमम् ।
२४.मन्त्रान्तरेण द्वितीयम् ।
२५.आचान्ताय गोर्निवेदनम् ।
२६.वधाभ्यनुज्ञायां जपित्वोङ्कुरुतेति वचनम् ।
२७.उत्स्रष्टुकामस्य जपित्वोत्सृजतेति वचनम् ।
२८.मधुपर्के भोजनस्यामांसत्वनिषेधः ।

द्वितीयोऽध्यायः ।

प्रथमः खण्डः ।

१. प्रतिसंवत्सरं श्रावणपौर्णमास्यां सर्पबलिः ।
२. अक्षतसक्तुभिः पूर्णस्य नवकलशस्य दर्व्याश्च नवे शिक्ये निधानम् ।
३. अक्षतान् धानाः कृत्वा तदर्धांशेऽसंस्कृतेन सर्पिषाञ्जनम् ।
४. अस्तमिते श्रपितस्य स्थालीपाकस्य होमचतुष्टयम्, एककपालस्य च पुरोडाशस्य सकृत् सर्वहोमः ।
५. अस्य पुरोडाशस्य घृतनिमज्जनमाविःपृष्ठता वा ।

१६

सूत्रम्.विषयः.
६.तस्य पुरोडाशस्य तेन घृतेन सह होमः ।
७.अक्तानां धानानां समन्त्रकमञ्जलिना होमः ।
८.अनक्तानां धानानां पुत्रादिभ्यो दानम् ।
९.कलशाद् दर्व्या गृहीतानां सक्तूनां गृहस्य प्राच्यां दिशि शुचौ देशे प्रक्षेपः ।
१०.बलिं प्रदक्षिणीकृत्य पश्चाद्भाग उपविश्योपांशु मन्त्रजपः ।
११.समन्त्रमानुपूर्व्येण पुत्रादीनां परिदानम् ।
१२.अन्तत आत्मनः परिदानम् ।
१३.कर्तृबल्योरन्तरा गमनप्रतिषेधः ।
१४.प्रत्यवरोहणपर्यन्तं सायम्प्रातर्बलिहरणम् ।
१५.एकेषां मते सर्वासामाहुतीनां तस्मिन्नेव दिने उपहरणीयत्वम् ।

द्वितीयः खण्डः ।

सूत्रम्.विषयः.
१.आश्वयुजपूर्णमास्यामाश्वयुजीकर्मणः कर्तव्यता ।
२.उक्तविधिना गृहमलङ्कृत्य पशुपतये स्थालीपाकं श्रपयित्वा होमः ।
३.अञ्जलिना पृषातकहोमः स्विष्टकृतादि च ।
४.सजूरित्यादिभिस्त्रिभिर्मन्त्रैराहिताग्नेराग्रयणस्थालीपाकहोमः ।
५.अनाहिताग्नेरपि शालाग्नौ होमः ।

तृतीयः खण्डः ।

सूत्रम्.विषयः.
१.प्रत्यवरोहणकालः ।
२.गृहं पूर्ववदलङ्कृत्य पायसं श्रपयित्वा द्वाभ्यां मन्त्राभ्यां होमः ।
३.अत्र होमे स्विष्टकृदभावः ।
४.अग्निं समीक्ष्य मन्त्रजपो हेमन्तध्यानं च ।

१७

सूत्रम्.विषयः.
५.अग्नेः पश्चाद्भागे पलाशदिभिरलङ्कृतायां शय्यायामुपविश्य जपित्वा भार्यापुत्रादिभिः सह प्राक्शिरस उदङ्मुखत्वेन संवेशनम्।
६.यथावकाशमितरेषां संवेशनम्।
७.गृहिणः समीपे ज्येष्ठस्य तदनन्तरं तत्कनिष्ठस्येति वा संवेशनक्रमः।
८.मन्त्रविदां सौर्यस्वस्त्ययनादिमन्त्रजपः।
९.शयनादुत्थाय प्रतिदिशं सकृन्मन्त्रजपः।
१०.चतुर्थसंहानात् परं सौर्यादिजपो ब्राह्मणभोजनं स्वस्तिवाचनं च।

चतुर्थः खण्डः।

सूत्रम्विषयः
१.हेमन्तशिशिरयोः कृष्णाष्टमीषु चतसृष्वष्टकाकरणम्।
२.एकस्यां वाष्टम्यामष्टका।
३.पूर्वेद्युः सप्तम्यां पितृभ्यो दानम्।
४.ओदनकृसरपायसैश्चतुःशरावपारिमिततण्डुलकृतापूपैर्वा होमः।
५.पशुना स्थालीपाकेन वाष्टकाकरणम्।
६.उभयोरसम्भवे बलीवर्दस्य यवसमुष्टिप्रदानम्।
७.त्रयस्यासम्भवेऽग्निना कक्षदाहः।
८.यवसदाने कक्षदहने चैषा मेऽष्टकेति मनसा ध्यानम्।
९.उक्तैः कल्पैः शास्त्रान्तराविहितैर्वाष्टकाया अवश्यकर्तव्यत्वम्।
१०.अस्या अष्टकाया एकेषां मते देवता विश्वेदेवाः।
११.आग्नेयी वा।
१२.सौर्या वा।
१३.नक्षत्राणि वा।
१४.रात्रिर्वा।
१५.ऋतवो वा।

१८

सूत्रम्.विषयः.
१६.पितरो वा ।
१७.प्रजापतिर्वा ।
१८.पशुकल्पे प्रोक्षणोपाकरणवर्जं पशुं संज्ञप्य वपाहोमः ।
१९.पश्वङ्गस्थालीपाकस्यावदानानां स्थालीपाकान्तरस्य च सप्त होममन्त्राः ।
२०.अष्टमी स्विष्टकृत आहुतिः ।
२१.नवावराणां ब्राह्मणानां भोजनम् ।

पञ्चमः खण्डः ।

१. नवम्यामन्वष्टक्यम् ।
२. अष्टकार्थमुपाकृतस्य मांसस्यैकदेशेन संस्कृतेनात्र ब्राह्मणभोजनम् ।
३. अग्निप्रतिष्ठापनं परिस्तृते बर्हिषि नानाविधाना हविषामासादनं च ।
४. अस्य कर्मणः पिण्डपितृयज्ञकल्पेन कर्तव्यत्वम् ।
५. मधुमन्थवर्जमवसादितानां हविषां होमो मधुमन्थेन सह पितृभ्यो दानं पिण्डनिपरणं च ।
६. तैरेव द्रव्यैः पिण्डरूपेण मातृपितामहीप्रपितामहीभ्यो दानम् ।
७. स्त्रीपिण्डेषु सुरायवाग्वोरधिकतया दानम् ।
८. पिण्डद्वयपक्षे आयते द्वे लेखे, पिण्डषट्कपक्षे मण्डलाकाराः षड् लेखाः ।
९. पूर्वस्यां रेखायां पूर्वांसु वा तिसृषु रेखासु पित्रादीनां पिण्डदानम् ।
१०. अपरस्यामपरासु वा स्त्रीणाम् ।
११. वर्षतौ कृष्णत्रयोदश्यां माघावर्षनाम्नः कर्मणः कर्तव्यत्वम् ।
१२. प्रतिमासमपरपक्षत्रयोदश्यां पूर्ववत् कर्मणः कर्तव्यत्वम् ।
१३. पितृभ्यो देयस्य गन्धमाल्यादेर्युग्मसङ्ख्याकत्वम् ।

१९

सूत्रम्.विषयः.
१४.अष्टकादिषु नवावराणां ब्राह्मणानां भोजनम् ।
१५.यथाशक्त्ययुग्मसङ्ख्यानां वा ।
१६.आभ्युदयिकश्राद्धेषु युग्मसङ्ख्यानां ब्राह्मणानां भोजनम् ।
१७.अन्येषु श्राद्धेष्वयुग्मानां ब्राह्मणानां भोजनम् ।
१८.वृद्धिश्राद्धेषूपचारस्य प्रदक्षिणत्वमन्यत्राप्रदक्षिणत्वम् ।
१९.आभ्युदयिकेषु तिलस्थाने यवाः ।

षष्ठः खण्डः ।

१.रथारोहणाय समन्त्रकं पाणिभ्यामुभयोश्चक्रयोः पृथगभिमर्शः ।
२.तथा समन्त्रकमक्षाभिमर्शः ।
३.आरोहणमन्त्रस्तत्क्रमश्च ।
४.समन्त्रकं रश्मिसम्मर्शः ।
५.गमनसमये मन्त्रजपः ।
६.शकटाद्यारोहणेऽप्येवम् ।
७.शकटाद्यङ्गस्पर्शनमन्त्रः ।
८.नावारोहणमन्त्रः ।
९.नवरथारोहणे प्रसिद्धं वृक्षमविदाहिनं हृदं वा प्रदक्षिणीकृत्य फलवत्याः शाखाया आहरणम् ।
१०.कुटुम्बोपकारकस्यान्तरस्य वाहरणम् ।
११.व्यवहारार्थित्वे व्यवहारस्थानगमनम् ।
१२.रथावरोहणक्रमो मन्त्रजपश्च ।
१३.प्रत्यर्थ्यभिक्रमणे मन्त्रजपः ।
१४.सूर्यास्तमये मन्त्रजपः ।
१५.उषःकाले मन्त्रजपः ।

सप्तमः खण्डः ।

१.गृहपरीक्षणम् ।
२.प्रशस्तभूमिलक्षणम् ।

२०

सूत्रम्.विषयः.
३.ओषधिवनस्पतिमत्याश्च भूमेः प्रशस्तत्वम् ।
४.कुशादिमत्याश्च प्रशस्तत्वम् ।
५.वास्तुगतानां कण्टकिक्षीरिवृक्षाणां समूलोत्पाठ्यत्वम् ।
६.अपामार्गादीनामपि समूलोत्पाठ्यत्वम् ।
७.सर्वत उच्छ्रितायां मध्ये निम्नायां भूमौ गृहनिर्माणस्य प्रशस्तत्वं तत्र प्राच्यां दिशि शयनीयस्य कर्तव्यता ।
८.पूर्वोक्तलक्षणसम्पन्नस्य वास्तुनः सर्वसमृद्धत्वम् ।
९.शयनीयस्योत्तरतो महानसम् ।
१०.एवं कृतस्य महानसस्य बह्वन्नता ।
११.उदीच्यां दक्षिणाप्रवणे देशे सभानिर्माणं तत्फलं च ।
१२.अस्यां सभायां यूनां दोषावहत्वम् ।
१३.गृहमध्यदेशे कृतायाः सभायाः सर्वशुभावहत्वम् ।

अष्टमः खण्डः ।

सूत्रम्.विषयः.
१.वास्तुपरीक्षाक्रमः ।
२.जानुमात्रं खातैः पांसुभिर्गर्तपूरणम् ।
३.आधिक्ये प्रशस्तत्वम् ।
४.समे निर्दोषत्वम् ।
५.न्यूने गर्हितत्वम् ।
६.अस्तमिते सूर्ये खातस्य गर्तस्य जलेन पूरणम् ।
७.उदिते सूर्ये किञ्चिच्छिष्टोदकं गर्तमुत्तममार्द्रं मध्यमं शुष्कं त्वधमम् ।
८.ब्राह्मणवास्तुप्रकारः ।
९.क्षत्रियवास्तुप्रकारः ।
१०.वैश्यवास्तुप्रकारः ।
११.एवं परीक्षितस्य वास्तुनो हलेन बहुशः कृष्ट्वा समचतुरश्रीकरणम् ।
१२.दीर्घचतुरश्रीकरणं वा ।

२१

सूत्रम्. विषयः.

१३. त्रिः प्रदक्षिणीकृत्य समन्त्रं प्रोक्षणम् ।
१४. मन्त्रान्तरेणाविच्छिन्नोदकधारया त्रिः प्रदक्षिणीकृत्य प्रोक्षणम् ।
१५. अवान्तरगृहेषु वंशप्रभेदस्याकर्तव्यता ।
१६. स्थूणानां गर्तेषु शैवालविशेषाणां शैवलस्य च निधापनम् ।
१७. एवं करणे फलश्रुतिः ।
१८. मध्यमस्थूणागर्ते यवव्रीहियुतानामपां समन्त्रमासेचनम् ।
१९. समन्त्रं मध्यमस्थूणाप्रतिष्ठापनम् ।

नवमः खण्डः ।

१. स्थूणायामाधीयमानस्य वंशस्यानुमन्त्रणम् ।
२. सदूर्वासु चतसृषु शिलासु मणिकप्रतिष्ठापनम् ।
३. मणिकप्रतिष्ठापने मन्त्रान्तरोपदेशः ।
४. मणिकेऽपां समन्त्रमासेचनम् ।
५. व्रीहियवमतीभिरद्भिर्वास्तुशान्तिः ।
६. तत्र हिरण्यमवधाय मन्त्रजपः ।
७. अगारमध्ये स्थालीपाकहोमो ब्राह्मणभोजनं स्वस्तिवाचनं च ।

दशमः खण्डः ।

१. नूतनगृहप्रवेशवदेव क्रयादिप्राप्तगृहस्यापि कर्मणः कर्तव्यता ।
२. व्रीह्यादिबीजानि स्थापयित्वा पश्चाद् गृहप्रवेशः ।
३. क्षेत्रकर्षणे ग्राह्याणि नक्षत्राणि ।
४. क्षेत्रे होमदिङ्निरूपणं, होमजपयोर्विकल्पः ।
५. प्रतिष्ठमानानां गवामनुमन्त्रणम् ।
६. आयतीनां गवामनुमन्त्रणम् ।
७. तत्रैव मन्त्रान्तरम् ।
८. गवां सङ्घातदर्शने मन्त्रजपः ।

२२

तृतीयोऽध्यायः ।

प्रथमः खण्डः ।

सूत्रम्.विषयः.
१.पञ्च महायज्ञाः ।
२.तेषां नामानि ।
३.तेषां प्रत्येकं लक्षणानि ।
४.तेषामहरहः कर्तव्यता ।

द्वितीयः खण्डः ।

सूत्रम्.विषयः.
१.स्वाध्यायविधिः ।
२.स्वाध्यायाध्ययने नियमविशेषाः ।
३.ओङ्कारपूर्विकाणां व्याहृतीनां प्रथमं वक्तव्यत्वम् ।
४.पच्छ इत्यादिक्रमेण सावित्र्या अनुवचनम् ।
५.अनन्तरं वक्ष्यमाणस्य स्वाध्यायस्याध्ययनम् ।
६.तानि च ऋगादीनि पुराणान्तानि ।
७.तेषामध्ययने पयःप्रभृत्याहुतिभिरिव देवतानां तृप्तिकथनम् ।
८.तथा पितॄणां तृप्तिकथनम् ।
९.देशकालाद्यनुरोधेन यावच्छक्यमध्ययनस्य कर्तव्यत्वम् ।
१०.अध्ययनसमापनमन्त्रः ।

तृतीयः खण्डः ।

सूत्रम्.विषयः.
१.प्राजापत्यतीर्थेन देवतातर्पणम् ।
२.तर्पयितव्यानां देवानां परिगणनम् ।
३.दैवेन तीर्थेनर्षितर्पणम् ।
४.तर्पयितव्यानामृषीणां परिगणनम् ।
५.पितृभिः सह प्राचीनावीतिना तर्पयितव्यानां परिगणनम् ।
६.पितृतीर्थेन पितॄंस्तर्पयित्वा गृहमागत्य वैश्वदेवान्तेऽतिथिभ्यो दक्षिणादानम् ।

सूत्रम्. | विषयः.

२३

सूत्रम्.विषयः.
७.उक्तनियमासम्भवे गौणेनापि कल्पेन ब्रह्मयज्ञस्यावश्यकर्तव्यता ।
८.आत्मनो देशस्य वाशुचितायामेव ब्रह्मयज्ञस्यानध्यायः ।

चतुर्थः खण्डः ।

१. अध्यायोपांकरणम् ।
२. तस्य च श्रावणे भाद्रपदे वा मासि श्रवणनक्षत्रे कर्तव्यत्वम् ।
३. श्रावणपञ्चम्यां हस्तनक्षत्रयोगे वा ।
४. नवभिर्मन्त्रैराज्यहोमः ।
५. अथ दधिमिश्रसक्तुहोमः ।
६. अध्ययनार्थं सावित्र्यादीनामग्न्यादीनां स्विष्टकृतश्च होमो दधिसक्तुप्राशनं मार्जनं च ।
७. जपे उपवेशनादिनियमः ।
८. व्याहृतीनामोम्पूर्वत्वम् ।
९. ओङ्कारपूर्वां सावित्रीं चार्धर्चशश्चतुरभ्यस्य वेदारम्भः ।
१०. एवमुत्सर्गेऽपि केषाञ्चित् कर्मणां कर्तव्यत्वम् ।
११. षाण्मासिकोऽध्ययनकालः, समावृत्तस्य ब्रह्मचारिकल्पेनाध्ययननियमः ।
१२. ब्रह्मचारिणामाश्रमोक्तनियमेनाध्ययनम् ।
१३. समावृत्तस्य जायोपयमनम् ।
१४. तस्य प्राजापत्यत्वम् ।
१५. अध्ययनकाले पक्षभेदाः ।
१६. माध्यां पौर्णमास्यामेताभ्य एव देवताभ्यो हुत्वान्तेऽवगाहनम्।
१७. देवतातर्पणम्
१८. आचार्याणां पितॄणां च तर्पणम् ।
१९. अस्य कर्मण उत्सर्ग इति नाम ।

सूत्रम्. विषयः.

२४

सूत्रम्. विषयः.

पञ्चमः खण्डः ।

१. काम्यकर्मणः स्थाने पाकयज्ञः । २. पुरोडाशस्थाने चरुः । ३. श्रौतकर्मफलस्य स्मार्तकर्मणापि लभ्यत्वम् । ४. व्याधितादीनां षड्भिराहुतिभिर्होमः । ५. अमनोज्ञस्वप्नदर्शने समन्त्रमादित्योपस्थानम् । ६. मन्त्रान्तरेण चोपस्थानम् । ७. क्षुतादिषु मन्त्रजपः । ८. अयाज्ययाजनादावाज्यहोमः ।


षष्ठः खण्डः ।

१. अव्याधितस्यास्तमयवेलायां स्वापे प्रायश्चित्तम् । २. तस्यैव सूर्योदयवेलायां स्वापे प्रायश्चित्तम् । ३. सायंसन्ध्योपासनक्रमः । ४. प्रातः सन्ध्योपासनक्रमः । ५. गृहस्य कपोतोपहतौ प्रायश्चित्तम् । ६. धनार्थिनो बहिर्जिगमिषायां होमो जपो वा । ७. नष्टद्रव्याधिगमार्थं होमो जपो वा । ८. पूर्वोक्तसूक्तेन मूढस्य जपहोमौ । ९. सुदूराध्वप्रस्थाने भयङ्करदेशगमने वा पूर्वोक्तसूक्तेन जपो होमो वा ।


सप्तमः खण्डः ।

१. समावर्तमानस्य मणिकुण्डलादिद्रव्यसम्पादनमात्माथमार्या- र्यार्थं च । २. उभयोक्तद्रव्यालाभे आचार्यमात्रस्य द्रव्यसम्पादनम् । ३. समिदाहरणम् ।

२५

सूत्रम्.विषयः.
४.अन्नाद्यकामस्यार्द्रसमिदाहरणम् ।
५.ब्रह्मवर्चसकामस्य शुष्कसमिदाहरणम् ।
६.उभयकामस्यार्धशुष्कसमिदाहरणम् ।
७.गोदानम् ।
८.मन्त्राणामात्मार्थत्वेनोहः ।
९.स्नानं वस्त्रधारणं चक्षुषोरञ्जनं च ।
१०.मणिकुण्डलधारणं ब्राह्मणस्य प्रथमं मुखे चन्दनानुलेपश्च ।
११.क्षत्रियस्य प्रथमं बाह्वोश्चन्दनानुलेपनम् ।
१२.वैश्यस्योदरे ।
१३.स्त्रिया गुह्ये ।
१४.दूतानामूर्वोः ।
१५.स्रग्बन्धनम् ।
१६.माल्यधारणप्रतिषेधः ।
१७.अवशेन मालेत्युच्चारणेऽपि पुनः स्रक्पदमुच्चार्यैव धारणम् ।
१८.उपानच्छत्रधारणम् ।
१९.वैणवदण्डधारणम् ।
२०.कण्ठे मणिं धृत्वोष्णीषं कृत्वा समन्त्रं समिदाधानम् ।
२१.खिलमन्त्रेण हुत्वा होमसमापनम् ।
२२.मधुपर्कपूजायै रात्रौ स्नातकस्य पितृगृहे वासः ।
२३.दक्षिणां दत्त्वा गुरुमनुज्ञाप्य वा स्नानम् ।
२४.स्नातकव्रतानि ।
२५.तस्य प्रतिषिद्धानि कर्माणि ।
२६.स्नातकप्रशंसा ।

अष्टमः खण्डः ।

सूत्रम्.विषयः.
१.समावर्तमानस्य सम्बुद्ध्या गुरुनामग्रहणम् ।
२.वियुज्यवासाय गुर्वनुज्ञाप्रार्थनम् ।
३.उपांशु मन्त्रजपः ।

२६

सूत्रम् .विषयः.
४.अनन्तरमाचार्यस्य जपविधिः ।
५.जप्यमन्त्रनिर्देशः ।
६.जपं समाप्य विवत्स्याव इति लौकिक्या वाचा विसर्गः ।
७.एवं विसृष्टस्य समावृत्तस्य प्रशंसा ।
८.एवं समावृत्तस्य मार्गे प्रतिकूलपक्षिशब्दश्रवणे मन्त्रजपः ।
९.तथा मृगशब्दश्रवणे मन्त्रजपः ।
१०.मार्गे भये सति तां दिशं प्रत्युभयतोदीप्तस्योल्मुकस्य प्रक्षेपः ।
११.सर्वतो भयेऽष्टाभिरराज्याहुतिभिर्होमः ।
१२.अथैशान्यां दिशि स्थित्वा मन्त्रजपः ।

नवमः खण्डः ।

सूत्रम् .विषयः.
१.पुरोहितस्य युद्धसन्नाहनम् ।
२.राजाधिरूढस्य रथस्य पश्चात् स्थित्वा मन्त्रजपः ।
३.समन्त्रं कवचप्रदानम् ।
४.तथा धनुर्दानम् ।
५.राज्ञो मन्त्रजपः ।
६.पुरोहितस्य मन्त्रजपः ।
७.इषुधिप्रदानम् ।
८.प्रस्थानसमये आचार्यस्य तिष्ठतो मन्त्रजपः ।
९.अश्वाभिमन्त्रणम् ।
१०.इष्ववेक्षणमन्त्रः ।
११.अङ्गुलित्राधारणमन्त्रः ।
१२.अथ सारथेर्मन्त्रजपः ।
१३.युद्धे प्रविशतो राज्ञो बहुभिर्मन्त्रैरन्वीक्षणम् ।
१४.सौपर्णमन्त्रनिर्देशः ।
१५.रथस्य प्रागादिमुखं प्रवर्तनम् ।

सूत्रम्. | विषयः.

२७

सूत्रम्.विषयः.
१६.पुरोहितस्य समन्त्रं दुन्दुभिस्पर्शः ।
१७.समन्त्रं पुरोहितस्येषुविसर्गः ।
१८.युध्यमानेषु योधेषु पुरोहितस्य जपः ।
१९.दुन्दुभिस्पर्शनादौ राज्ञः प्रेरणं वा ।

अथ चतुर्थोऽध्यायः ।

प्रथमः खण्डः ।

१. आहिताग्ने रोगसम्भवे ग्रामाद् बहिर्वासः ।
२. तथाकरणे प्रयोजनकथनम् ।
३. ग्रामजनानामादरातिशयादरोगतासिद्धिः ।
४. जातारोग्यस्य सोमाद्यन्यतमेनेष्ट्वा गृहप्रवेशः ।
५. अनिष्ट्वापि गृहप्रवेशनानुज्ञा ।
६. आहिताग्नौ संस्थिते आग्नेय्यां नैर्ऋत्यां वा गर्तखननम् ।
७. आदहनास्थिनिधानोभयविधश्मशानलक्षणम् ।
८. तस्यैवान्यलक्षणम् ।
९. वास्तुपरीक्षावदत्रापि कण्टकिवृक्षादीनामुद्वासनम् ।
१०. आदहनश्मशानस्य मध्योच्छ्रितत्वम् ।
११. पुत्राणां वपनप्रकारः ।
१२. प्रभूतबर्हिराज्योपकल्पनम् ।
१३. पृषदाज्यमिश्रणप्रकारस्तस्य पित्र्यत्वं च ।

द्वितीयः खण्डः ।

१. अग्नेर्नयनम् ।
२. यज्ञपात्रनयनम् ।
३. प्रेतस्य पृष्ठतः पुंसां स्त्रीणां च प्रवयसामयुग्मसङ्ख्याकानां गमनम् ।
४. प्रेतस्य गोयुक्तशकटविशेषेण शिविकया वा नयनम् ।

२८

सूत्रम्.विषयः.
५.गोविशेषस्याजाविशेषस्य वानुस्तरणित्वेन निर्देशः ।
६.पशोः सव्ये बाहौ रज्जुं बद्ध्वा प्रेतस्य पृष्ठतो नयनम् ।
७.मुक्तशिखानां पुत्रादीनां ज्यैष्ठ्यक्रमेण गमनम् ।
८.खानितस्य गर्तस्य त्रिप्रदक्षिणं परिक्रमणं शमीशाखयोदकेन प्रोक्षणं च ।
९.खानिते गर्ते अग्नीनां निधानप्रकारः ।
१०.प्रेतस्यान्तर्वेदि निधानम् ।
११.इध्मचितेश्शयनम् ।
१२.तत्र प्रेतस्य संवेशनप्रकारः ।
१३.पत्न्या उत्तरतः संवेशनम् ।
१४.क्षत्रियस्य प्रेतस्योत्तरतः पत्न्या धनुषश्च संवेशनम् ।
१५.देवरादिभिः समन्त्रं पत्न्या उत्थापनम् ।
१६.वृषलेनोत्थापने कर्तुर्मन्त्रजपः ।
१७.धनुरादाने मन्त्रजपः ।
१८.वृषलेन धनुरादाने कर्तुर्मन्त्रजपः ।
१९.आरोपितं धनुश्छित्त्वेध्मचितौ प्रक्षेपः ।

तृतीयः खण्डः ।

१—११. प्रेतस्य सर्वेष्वङ्गेषु यज्ञपात्राणां निधानम् ।
१२. बिलवतां पात्राणां पृषदाज्येन पूरणम् ।
१३, १४. दृषदुपलादीनां पुत्रस्योपयोगार्थं गृह एव निक्षेपः ।
१५. अनुस्तरणीपक्षे तस्या वपामुद्धृत्य समन्त्रं प्रेतस्य मुखशिरसोः प्रच्छादनम् ।
१६, १७. अनुस्तरण्या अङ्गानां प्रेतस्याङ्गेषु यथाक्रमं निधानम् ।
१८, १९. ओदनपिण्डयोरपि हृदये निधानं, वृक्कयाभाव एव तदिति मतान्तरम् ।
२०. सर्वाङ्गनिधानात् परमनुस्तरण्याश्चर्मणा प्रेतप्रच्छादनम् ।

२९

सूत्रम्.विषयः.
२१.प्रणीतानुमन्त्रणम् ।
२२.सव्यं जानु निपात्य चतसृभिराज्याहुतिभिर्दक्षिणाग्नौ होमः ।
२३.पञ्चम्या आज्याहुतेः प्रेतस्योपरि होमः ।

चतुर्थः खण्डः ।

सूत्रम्विषयः
१.अग्निप्रज्वालनार्थं परिकर्मिणां युगपत् प्रेरणम् ।
२.आहवनीयस्य प्रथमं प्रज्वलने स्वर्गप्राप्तिः ।
३.तथा तत्पुत्रस्येह संसिद्धिः ।
४.गार्हपत्यदक्षिणाग्न्योः प्रज्वलने फलविशेषः ।
५.सर्वेषां युगपत् प्रज्वलने समृद्धयतिशयः ।
६.दह्यमानप्रेतानुमन्त्रणम् !
७.एवं विदुषा पुत्रेण दाहे फलश्रुतिः ।
८.एवं संस्कृत्य प्रेतस्य जलपूर्णाज्जानुदघ्नाद् गर्तान्निष्क्रम्य धूमोद्गमसमय एव स्वर्गप्राप्तिः ।
९.मन्त्रं जपित्वा प्रेतमनवेक्ष्य गमनम् ।
१०.तटाकादौ सकृदुन्मज्ज्य प्रेताय जलाञ्जलिं दत्त्वा शुष्काणि वासांसि परिधाय दिवा चेदानक्षत्रदर्शनाद् रात्रौ चेदा-सूर्यदर्शनात् सङ्गीभूयावस्थानम् ।
११.दृश्यमाने नक्षत्रे सूर्ये वा कनिष्ठादिक्रमेण ग्रामप्रवेशः ।
१२.गृहं प्राप्याश्मादीनां द्वारदेश एवोपस्पर्शः ।

पञ्चमः खण्डः ।

सूत्रम्विषयः
१.अस्मिन्नहोरात्रे गृहेऽन्नादिपाकप्रतिषेधः ।
२.अपरेद्युरारभ्य त्रिरात्रमक्षारलवणभोजनम् ।
३.महागुरुमृत्तौ द्वादशरात्रमिति मुख्यः कल्पः, त्रिरात्रमिति च गौणः ।
४.सपिण्डानां दशाहं दानाध्ययनादिनिषेधः ।

३०

सूत्रम्.विषयः.
५.असपिण्डगुरुमृतावप्येवम् ।
६.सपिण्डास्वप्रत्तासु स्त्रीषु त्रिरात्रम् ।
७.महागुरुव्यतिरिक्ताचार्येष्वपि ।
८.समानोदकेष्वपि ।
९.प्रत्तस्त्रीदन्तजातादिष्वेकाहम् ।

षष्ठः खण्डः

सूत्रम्.विषयः.
१.अस्थिसञ्चयनकालः ।
२.शुभे कुम्भे पुंसोऽस्थिसञ्चयनम् ।
३.अलक्षणे कुम्भे स्त्रिया अस्थिसञ्चयनम् ।
४.संचेतृनियमः ।
५.क्षीरोदकेनायतनप्रोक्षणम् ।
६.अङ्गुष्ठोपकनिष्ठिकाभ्यामस्थ्यादायाशब्दं कुम्भे निधानम् ।
७.आपादत लादस्थ्ना यथाक्रममादानम् ।
८.अस्थिकुम्भस्य गर्ते निक्षेपः ।
९.कपालेन कुम्भमपिधाय जपित्वा पांसुभिरवकीर्य श्मशानात् प्रत्याव्रज्य स्नात्वा प्रेताय श्राद्धदानम् ।

सप्तमः खण्डः ।

सूत्रम्.विषयः.
१.पित्रादीनां गुरुजनानामुपर्य्युपरि मरणसम्भवेऽमायां शान्तिकैर्मविधिः ।
२.प्रागुदयाद् गृहोपकरणानां पचनामेश्च दक्षिणस्यां दिश्युत्सर्गः ।
३.तमग्निं यत्रकुत्रापि प्रक्षिप्य त्रिःप्रदक्षिणं परिक्रमणम् ।
४.ततः पृष्ठतोऽनवेक्ष्य पुनराव्रज्य स्नात्वा वपनविधिः ।
५.नवानां मणिकादीनामुपकल्पनम् ।
६.अग्निवेलायां समन्त्रमरणेरग्निजननम् ।

३१

सूत्रम्.विषयः.
७.गृहाद् बहिस्तमग्निं दीपयित्वार्धरात्रपर्यन्तं पुण्यकथादीनां कीर्तनम् ।
८.अर्धरात्रात् परमविच्छिन्नाया उदकधाराया दक्षिणद्वारेण हरणम् ।
९.अथ तत्र तमाग्निमुपसमाधाय तस्य पश्चिमे देशे आनडुहं चर्मास्तीर्य तत्र समन्त्रमारोहणम् ।
१०.मध्यमपरिधेः समन्त्रं परिधानं दक्षिणोत्तरयोश्चामन्त्रकम् ।
११.उत्तरतोऽश्मानमवस्थाप्य चतसृभिराज्याहुतिभिर्हुत्वा कौटुम्बिकानामीक्षणम् ।
१२.युवतीनां नेत्राञ्जनं ततो निर्गमनं च ।
१३.युवतीनां नेत्राञ्जनसमये समन्त्रं कर्तुरीक्षणम् ।
१४.कर्तुरन्येषां चाश्माभिमर्शनम् ।
१५.अथाग्निमादाय गृहं प्रवेष्टुं सर्वेषां परिक्रमणमविच्छिन्नोदकधारास्रावणमैशान्यां दिशि स्थित्वा मन्त्रजपश्च ।
१६.परिणेतव्यस्यानडुहो लक्षणम् ।
१७.तस्याग्नेर्महानसे चुल्ल्यां प्रतिष्ठापनं सर्वेषां स्वे स्वे शयनस्थाने स्थित्वा नवेन वाससा प्रच्छाद्यासूर्योदयाज्जागरणम् ।
१८.उदिते सूर्ये मङ्गल्यसूक्तजपो होमो ब्राह्मणभोजनं दक्षिणादानं स्वस्तिवाचनं च ।

अष्टमः खण्डः ।

१. | श्राद्धानां चातुर्विध्यम् । २. | वरणीयब्राह्मणलक्षणं ब्राह्मणसङ्ख्या उपवेशनप्रकारः उपचारा अर्घ्यपरिकल्पनं च । ३. | अर्घ्यप्रदानं तन्मन्त्राश्च । ४. | प्रतिब्राह्मणं सकृत् सकृदर्घ्यनिवेदनम् । ५. | तासामपामनुमन्त्रणम् ।

सूत्रम्. | विषयः.

३२

सूत्रम्.विषयः.
६.अर्घ्यदानावशिष्टानानपां प्रथमपात्रे समवनयनं मुखाञ्जनं च ।
७.अत्र स्तुतिनिन्दार्थमुभयोर्गाथयोरुदाहरणम् ।

नवमः खण्डः ।

१. गन्धादिदानम् ।
२. स्थालीपाकादुद्धृतस्यान्नस्याग्नौ करणार्थं ब्राह्मणप्रार्थना ।
३. अग्नौ कुरुष्वेत्यादिब्राह्मणाभ्यनुज्ञा ।
४. पिण्डपितृयज्ञोक्तप्रकारेण होमः ।
५. आहिताग्न्यादेः पार्वणे पाणिहोमविधिः ।
६. पाणिहोमप्रशंसा ।
७. पाणिहोमपक्षे विशेषः ।
८. अग्नौ करणपक्षे विशेषः ।
९. श्रद्धया दाने प्रशंसा ।
१०. तृप्तेषु ब्राह्मणेषूभयोर्मन्त्रयोः श्रावणम् ।
११. तृप्तिप्रश्नप्रतिवचनानन्तरं पिण्डार्थमन्नमुद्धृत्य शिष्टस्यान्नस्य ब्राह्मणेभ्यो निवेदनम् ।
१२. भुक्तवत्स्वनाचान्तेषु पिण्डनिपरणम् ।
१३. केषाञ्चिन्मते आचान्तेषु पिण्डनिपरणम् ।
१४. अनन्तरं समन्त्रमन्नान्विकिरणं स्वधोक्त्यनन्तरं पितॄणां विसर्गः ।


दशमः खण्डः ।

१. शूलगवाख्यरौद्रयज्ञः ।
२. शूलगवस्य कालः ।
३. तस्य नक्षत्रविशेषः ।
४. यूथश्रेष्ठस्य पुङ्गवस्योपादानम्।
५. गोलक्षणम् ।

३३

सूत्रम्.विषयः.
६.तस्यैव लक्षणान्तरं केषाञ्चिन्मते ।
७.कृष्णस्याप्यारोहवतो ग्रहणम् ।
८.तस्य गोराभिषेकः ।
९.समन्त्रं शूलेनाङ्कयित्वोत्सर्गो यावद्दन्तपतनम् ।
१०.ग्रामाद् बहिर्यज्ञिये देशे शूलगवविधानज्ञेन होमस्तस्य वृद्धस्य पशोर्यूपे बन्धनं रुद्राय नियोगश्च ।
११.पशुकल्पोक्तवत् प्रोक्षणादिं ।
१२.विशेषवर्णनप्रतिज्ञा ।
१३.मृन्मयपात्रेण पर्णेन वा वपाहोमस्य कर्तव्यत्वम् ।
१४.वपाया अवदानानां स्थालीपाकस्य च हरायेत्यादिभिर्द्वादशभिर्नामभिः स्वाहाकारान्तो वपाहोमः ।
१५.उग्रायेत्यादिभिः षड्भिर्वा ।
१६.रुद्राय स्वाहेति वा ।
१७.होमानन्तरं स्विष्टकृतः पूर्वं चतसृषु दिक्षु बलिहरणम् ।
१८.बलिहरणे दिशां नामनिर्देशः ।
१९.चतुर्भिः सूक्तैश्चतसृणां दिशामुपस्थानम् ।
२०.अन्येष्वपि रुद्रयज्ञेषु दिशामुपस्थानम् ।
२१.तुषादीनामग्नौ प्रहरणम् ।
२२.पशोश्चर्मणोपानदादिकरणम् ।
२३.अग्नेरुत्तरतः समन्त्रं पशोः शोणितनिनयनम् ।
२४.संज्ञपनदेशस्थितस्य रुधिरादेः समन्त्रं सर्पेभ्यो निवेदनम् ।
२५.तस्य सर्पैर्हरणम् ।
२६.रुद्रस्य सर्वात्मकत्वप्रशंसा ।
२७.याजयितुर्यजमानस्य च ज्ञात्वानुष्ठाने प्रशंसा ।
२८.रुद्रप्रसादेन यजमानस्याकुतश्चिद्भयत्वम् ।
२९.पुत्रादीनामस्मिन् कर्मण्यन्वयप्रतिषेधः ।
३०.हुतशेषप्राशनस्य स्वस्त्ययनत्वम् ।

३४

सूत्रम्.विषयः.
३१.उक्तस्य शूलगवस्य सर्वकामफलप्रदत्वम् ।
३२.सर्वथास्य कर्मणः सकृत् कर्तव्यत्वम् ।
३३.यजमानप्रशंसा ।
३४.मङ्गल्यसूक्तं जपित्वा गृहस्य प्रत्यागमनम् ।
३५.पशूनां रोगेऽस्यैव देवस्य यष्टव्यत्वम् ।
३६.शूलगवस्य स्थाने सर्वहुतः स्थालीपाकः ।
३७.होमानन्तरं धूमस्पर्शार्थं गवामानयनम् ।
३८.मङ्गल्यं सूक्तं जपित्वा पशूनां मध्ये प्रवेशः ।
३९.शौनकाचार्यनमस्कारः ।

इति चतुर्थोऽध्यायः ।