आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
१७
| सूत्रम्. | विषयः. |
|---|---|
| ५. | अग्नेः पश्चाद्भागे पलाशदिभिरलङ्कृतायां शय्यायामुपविश्य जपित्वा भार्यापुत्रादिभिः सह प्राक्शिरस उदङ्मुखत्वेन संवेशनम्। |
| ६. | यथावकाशमितरेषां संवेशनम्। |
| ७. | गृहिणः समीपे ज्येष्ठस्य तदनन्तरं तत्कनिष्ठस्येति वा संवेशनक्रमः। |
| ८. | मन्त्रविदां सौर्यस्वस्त्ययनादिमन्त्रजपः। |
| ९. | शयनादुत्थाय प्रतिदिशं सकृन्मन्त्रजपः। |
| १०. | चतुर्थसंहानात् परं सौर्यादिजपो ब्राह्मणभोजनं स्वस्तिवाचनं च। |
चतुर्थः खण्डः।
| सूत्रम् | विषयः |
|---|---|
| १. | हेमन्तशिशिरयोः कृष्णाष्टमीषु चतसृष्वष्टकाकरणम्। |
| २. | एकस्यां वाष्टम्यामष्टका। |
| ३. | पूर्वेद्युः सप्तम्यां पितृभ्यो दानम्। |
| ४. | ओदनकृसरपायसैश्चतुःशरावपारिमिततण्डुलकृतापूपैर्वा होमः। |
| ५. | पशुना स्थालीपाकेन वाष्टकाकरणम्। |
| ६. | उभयोरसम्भवे बलीवर्दस्य यवसमुष्टिप्रदानम्। |
| ७. | त्रयस्यासम्भवेऽग्निना कक्षदाहः। |
| ८. | यवसदाने कक्षदहने चैषा मेऽष्टकेति मनसा ध्यानम्। |
| ९. | उक्तैः कल्पैः शास्त्रान्तराविहितैर्वाष्टकाया अवश्यकर्तव्यत्वम्। |
| १०. | अस्या अष्टकाया एकेषां मते देवता विश्वेदेवाः। |
| ११. | आग्नेयी वा। |
| १२. | सौर्या वा। |
| १३. | नक्षत्राणि वा। |
| १४. | रात्रिर्वा। |
| १५. | ऋतवो वा। |
१८
| सूत्रम्. | विषयः. |
|---|---|
| १६. | पितरो वा । |
| १७. | प्रजापतिर्वा । |
| १८. | पशुकल्पे प्रोक्षणोपाकरणवर्जं पशुं संज्ञप्य वपाहोमः । |
| १९. | पश्वङ्गस्थालीपाकस्यावदानानां स्थालीपाकान्तरस्य च सप्त होममन्त्राः । |
| २०. | अष्टमी स्विष्टकृत आहुतिः । |
| २१. | नवावराणां ब्राह्मणानां भोजनम् । |
पञ्चमः खण्डः ।
१. नवम्यामन्वष्टक्यम् ।
२. अष्टकार्थमुपाकृतस्य मांसस्यैकदेशेन संस्कृतेनात्र ब्राह्मणभोजनम् ।
३. अग्निप्रतिष्ठापनं परिस्तृते बर्हिषि नानाविधाना हविषामासादनं च ।
४. अस्य कर्मणः पिण्डपितृयज्ञकल्पेन कर्तव्यत्वम् ।
५. मधुमन्थवर्जमवसादितानां हविषां होमो मधुमन्थेन सह पितृभ्यो दानं पिण्डनिपरणं च ।
६. तैरेव द्रव्यैः पिण्डरूपेण मातृपितामहीप्रपितामहीभ्यो दानम् ।
७. स्त्रीपिण्डेषु सुरायवाग्वोरधिकतया दानम् ।
८. पिण्डद्वयपक्षे आयते द्वे लेखे, पिण्डषट्कपक्षे मण्डलाकाराः षड् लेखाः ।
९. पूर्वस्यां रेखायां पूर्वांसु वा तिसृषु रेखासु पित्रादीनां पिण्डदानम् ।
१०. अपरस्यामपरासु वा स्त्रीणाम् ।
११. वर्षतौ कृष्णत्रयोदश्यां माघावर्षनाम्नः कर्मणः कर्तव्यत्वम् ।
१२. प्रतिमासमपरपक्षत्रयोदश्यां पूर्ववत् कर्मणः कर्तव्यत्वम् ।
१३. पितृभ्यो देयस्य गन्धमाल्यादेर्युग्मसङ्ख्याकत्वम् ।
१९
| सूत्रम्. | विषयः. |
|---|---|
| १४. | अष्टकादिषु नवावराणां ब्राह्मणानां भोजनम् । |
| १५. | यथाशक्त्ययुग्मसङ्ख्यानां वा । |
| १६. | आभ्युदयिकश्राद्धेषु युग्मसङ्ख्यानां ब्राह्मणानां भोजनम् । |
| १७. | अन्येषु श्राद्धेष्वयुग्मानां ब्राह्मणानां भोजनम् । |
| १८. | वृद्धिश्राद्धेषूपचारस्य प्रदक्षिणत्वमन्यत्राप्रदक्षिणत्वम् । |
| १९. | आभ्युदयिकेषु तिलस्थाने यवाः । |
षष्ठः खण्डः ।
| १. | रथारोहणाय समन्त्रकं पाणिभ्यामुभयोश्चक्रयोः पृथगभिमर्शः । |
| २. | तथा समन्त्रकमक्षाभिमर्शः । |
| ३. | आरोहणमन्त्रस्तत्क्रमश्च । |
| ४. | समन्त्रकं रश्मिसम्मर्शः । |
| ५. | गमनसमये मन्त्रजपः । |
| ६. | शकटाद्यारोहणेऽप्येवम् । |
| ७. | शकटाद्यङ्गस्पर्शनमन्त्रः । |
| ८. | नावारोहणमन्त्रः । |
| ९. | नवरथारोहणे प्रसिद्धं वृक्षमविदाहिनं हृदं वा प्रदक्षिणीकृत्य फलवत्याः शाखाया आहरणम् । |
| १०. | कुटुम्बोपकारकस्यान्तरस्य वाहरणम् । |
| ११. | व्यवहारार्थित्वे व्यवहारस्थानगमनम् । |
| १२. | रथावरोहणक्रमो मन्त्रजपश्च । |
| १३. | प्रत्यर्थ्यभिक्रमणे मन्त्रजपः । |
| १४. | सूर्यास्तमये मन्त्रजपः । |
| १५. | उषःकाले मन्त्रजपः । |
सप्तमः खण्डः ।
| १. | गृहपरीक्षणम् । |
| २. | प्रशस्तभूमिलक्षणम् । |
२०
| सूत्रम्. | विषयः. |
|---|---|
| ३. | ओषधिवनस्पतिमत्याश्च भूमेः प्रशस्तत्वम् । |
| ४. | कुशादिमत्याश्च प्रशस्तत्वम् । |
| ५. | वास्तुगतानां कण्टकिक्षीरिवृक्षाणां समूलोत्पाठ्यत्वम् । |
| ६. | अपामार्गादीनामपि समूलोत्पाठ्यत्वम् । |
| ७. | सर्वत उच्छ्रितायां मध्ये निम्नायां भूमौ गृहनिर्माणस्य प्रशस्तत्वं तत्र प्राच्यां दिशि शयनीयस्य कर्तव्यता । |
| ८. | पूर्वोक्तलक्षणसम्पन्नस्य वास्तुनः सर्वसमृद्धत्वम् । |
| ९. | शयनीयस्योत्तरतो महानसम् । |
| १०. | एवं कृतस्य महानसस्य बह्वन्नता । |
| ११. | उदीच्यां दक्षिणाप्रवणे देशे सभानिर्माणं तत्फलं च । |
| १२. | अस्यां सभायां यूनां दोषावहत्वम् । |
| १३. | गृहमध्यदेशे कृतायाः सभायाः सर्वशुभावहत्वम् । |
अष्टमः खण्डः ।
| सूत्रम्. | विषयः. |
|---|---|
| १. | वास्तुपरीक्षाक्रमः । |
| २. | जानुमात्रं खातैः पांसुभिर्गर्तपूरणम् । |
| ३. | आधिक्ये प्रशस्तत्वम् । |
| ४. | समे निर्दोषत्वम् । |
| ५. | न्यूने गर्हितत्वम् । |
| ६. | अस्तमिते सूर्ये खातस्य गर्तस्य जलेन पूरणम् । |
| ७. | उदिते सूर्ये किञ्चिच्छिष्टोदकं गर्तमुत्तममार्द्रं मध्यमं शुष्कं त्वधमम् । |
| ८. | ब्राह्मणवास्तुप्रकारः । |
| ९. | क्षत्रियवास्तुप्रकारः । |
| १०. | वैश्यवास्तुप्रकारः । |
| ११. | एवं परीक्षितस्य वास्तुनो हलेन बहुशः कृष्ट्वा समचतुरश्रीकरणम् । |
| १२. | दीर्घचतुरश्रीकरणं वा । |
२१
सूत्रम्. विषयः.
१३. त्रिः प्रदक्षिणीकृत्य समन्त्रं प्रोक्षणम् ।
१४. मन्त्रान्तरेणाविच्छिन्नोदकधारया त्रिः प्रदक्षिणीकृत्य प्रोक्षणम् ।
१५. अवान्तरगृहेषु वंशप्रभेदस्याकर्तव्यता ।
१६. स्थूणानां गर्तेषु शैवालविशेषाणां शैवलस्य च निधापनम् ।
१७. एवं करणे फलश्रुतिः ।
१८. मध्यमस्थूणागर्ते यवव्रीहियुतानामपां समन्त्रमासेचनम् ।
१९. समन्त्रं मध्यमस्थूणाप्रतिष्ठापनम् ।
नवमः खण्डः ।
१. स्थूणायामाधीयमानस्य वंशस्यानुमन्त्रणम् ।
२. सदूर्वासु चतसृषु शिलासु मणिकप्रतिष्ठापनम् ।
३. मणिकप्रतिष्ठापने मन्त्रान्तरोपदेशः ।
४. मणिकेऽपां समन्त्रमासेचनम् ।
५. व्रीहियवमतीभिरद्भिर्वास्तुशान्तिः ।
६. तत्र हिरण्यमवधाय मन्त्रजपः ।
७. अगारमध्ये स्थालीपाकहोमो ब्राह्मणभोजनं स्वस्तिवाचनं च ।
दशमः खण्डः ।
१. नूतनगृहप्रवेशवदेव क्रयादिप्राप्तगृहस्यापि कर्मणः कर्तव्यता ।
२. व्रीह्यादिबीजानि स्थापयित्वा पश्चाद् गृहप्रवेशः ।
३. क्षेत्रकर्षणे ग्राह्याणि नक्षत्राणि ।
४. क्षेत्रे होमदिङ्निरूपणं, होमजपयोर्विकल्पः ।
५. प्रतिष्ठमानानां गवामनुमन्त्रणम् ।
६. आयतीनां गवामनुमन्त्रणम् ।
७. तत्रैव मन्त्रान्तरम् ।
८. गवां सङ्घातदर्शने मन्त्रजपः ।
२२
तृतीयोऽध्यायः ।
प्रथमः खण्डः ।
| सूत्रम्. | विषयः. |
|---|---|
| १. | पञ्च महायज्ञाः । |
| २. | तेषां नामानि । |
| ३. | तेषां प्रत्येकं लक्षणानि । |
| ४. | तेषामहरहः कर्तव्यता । |
द्वितीयः खण्डः ।
| सूत्रम्. | विषयः. |
|---|---|
| १. | स्वाध्यायविधिः । |
| २. | स्वाध्यायाध्ययने नियमविशेषाः । |
| ३. | ओङ्कारपूर्विकाणां व्याहृतीनां प्रथमं वक्तव्यत्वम् । |
| ४. | पच्छ इत्यादिक्रमेण सावित्र्या अनुवचनम् । |
| ५. | अनन्तरं वक्ष्यमाणस्य स्वाध्यायस्याध्ययनम् । |
| ६. | तानि च ऋगादीनि पुराणान्तानि । |
| ७. | तेषामध्ययने पयःप्रभृत्याहुतिभिरिव देवतानां तृप्तिकथनम् । |
| ८. | तथा पितॄणां तृप्तिकथनम् । |
| ९. | देशकालाद्यनुरोधेन यावच्छक्यमध्ययनस्य कर्तव्यत्वम् । |
| १०. | अध्ययनसमापनमन्त्रः । |
तृतीयः खण्डः ।
| सूत्रम्. | विषयः. |
|---|---|
| १. | प्राजापत्यतीर्थेन देवतातर्पणम् । |
| २. | तर्पयितव्यानां देवानां परिगणनम् । |
| ३. | दैवेन तीर्थेनर्षितर्पणम् । |
| ४. | तर्पयितव्यानामृषीणां परिगणनम् । |
| ५. | पितृभिः सह प्राचीनावीतिना तर्पयितव्यानां परिगणनम् । |
| ६. | पितृतीर्थेन पितॄंस्तर्पयित्वा गृहमागत्य वैश्वदेवान्तेऽतिथिभ्यो दक्षिणादानम् । |
सूत्रम्. | विषयः.
२३
| सूत्रम्. | विषयः. |
|---|---|
| ७. | उक्तनियमासम्भवे गौणेनापि कल्पेन ब्रह्मयज्ञस्यावश्यकर्तव्यता । |
| ८. | आत्मनो देशस्य वाशुचितायामेव ब्रह्मयज्ञस्यानध्यायः । |
चतुर्थः खण्डः ।
१. अध्यायोपांकरणम् ।
२. तस्य च श्रावणे भाद्रपदे वा मासि श्रवणनक्षत्रे कर्तव्यत्वम् ।
३. श्रावणपञ्चम्यां हस्तनक्षत्रयोगे वा ।
४. नवभिर्मन्त्रैराज्यहोमः ।
५. अथ दधिमिश्रसक्तुहोमः ।
६. अध्ययनार्थं सावित्र्यादीनामग्न्यादीनां स्विष्टकृतश्च होमो दधिसक्तुप्राशनं मार्जनं च ।
७. जपे उपवेशनादिनियमः ।
८. व्याहृतीनामोम्पूर्वत्वम् ।
९. ओङ्कारपूर्वां सावित्रीं चार्धर्चशश्चतुरभ्यस्य वेदारम्भः ।
१०. एवमुत्सर्गेऽपि केषाञ्चित् कर्मणां कर्तव्यत्वम् ।
११. षाण्मासिकोऽध्ययनकालः, समावृत्तस्य ब्रह्मचारिकल्पेनाध्ययननियमः ।
१२. ब्रह्मचारिणामाश्रमोक्तनियमेनाध्ययनम् ।
१३. समावृत्तस्य जायोपयमनम् ।
१४. तस्य प्राजापत्यत्वम् ।
१५. अध्ययनकाले पक्षभेदाः ।
१६. माध्यां पौर्णमास्यामेताभ्य एव देवताभ्यो हुत्वान्तेऽवगाहनम्।
१७. देवतातर्पणम्
१८. आचार्याणां पितॄणां च तर्पणम् ।
१९. अस्य कर्मण उत्सर्ग इति नाम ।
सूत्रम्. विषयः.
२४
सूत्रम्. विषयः.
पञ्चमः खण्डः ।
१. काम्यकर्मणः स्थाने पाकयज्ञः । २. पुरोडाशस्थाने चरुः । ३. श्रौतकर्मफलस्य स्मार्तकर्मणापि लभ्यत्वम् । ४. व्याधितादीनां षड्भिराहुतिभिर्होमः । ५. अमनोज्ञस्वप्नदर्शने समन्त्रमादित्योपस्थानम् । ६. मन्त्रान्तरेण चोपस्थानम् । ७. क्षुतादिषु मन्त्रजपः । ८. अयाज्ययाजनादावाज्यहोमः ।
षष्ठः खण्डः ।
१. अव्याधितस्यास्तमयवेलायां स्वापे प्रायश्चित्तम् । २. तस्यैव सूर्योदयवेलायां स्वापे प्रायश्चित्तम् । ३. सायंसन्ध्योपासनक्रमः । ४. प्रातः सन्ध्योपासनक्रमः । ५. गृहस्य कपोतोपहतौ प्रायश्चित्तम् । ६. धनार्थिनो बहिर्जिगमिषायां होमो जपो वा । ७. नष्टद्रव्याधिगमार्थं होमो जपो वा । ८. पूर्वोक्तसूक्तेन मूढस्य जपहोमौ । ९. सुदूराध्वप्रस्थाने भयङ्करदेशगमने वा पूर्वोक्तसूक्तेन जपो होमो वा ।
सप्तमः खण्डः ।
१. समावर्तमानस्य मणिकुण्डलादिद्रव्यसम्पादनमात्माथमार्या- र्यार्थं च । २. उभयोक्तद्रव्यालाभे आचार्यमात्रस्य द्रव्यसम्पादनम् । ३. समिदाहरणम् ।
२५
| सूत्रम्. | विषयः. |
|---|---|
| ४. | अन्नाद्यकामस्यार्द्रसमिदाहरणम् । |
| ५. | ब्रह्मवर्चसकामस्य शुष्कसमिदाहरणम् । |
| ६. | उभयकामस्यार्धशुष्कसमिदाहरणम् । |
| ७. | गोदानम् । |
| ८. | मन्त्राणामात्मार्थत्वेनोहः । |
| ९. | स्नानं वस्त्रधारणं चक्षुषोरञ्जनं च । |
| १०. | मणिकुण्डलधारणं ब्राह्मणस्य प्रथमं मुखे चन्दनानुलेपश्च । |
| ११. | क्षत्रियस्य प्रथमं बाह्वोश्चन्दनानुलेपनम् । |
| १२. | वैश्यस्योदरे । |
| १३. | स्त्रिया गुह्ये । |
| १४. | दूतानामूर्वोः । |
| १५. | स्रग्बन्धनम् । |
| १६. | माल्यधारणप्रतिषेधः । |
| १७. | अवशेन मालेत्युच्चारणेऽपि पुनः स्रक्पदमुच्चार्यैव धारणम् । |
| १८. | उपानच्छत्रधारणम् । |
| १९. | वैणवदण्डधारणम् । |
| २०. | कण्ठे मणिं धृत्वोष्णीषं कृत्वा समन्त्रं समिदाधानम् । |
| २१. | खिलमन्त्रेण हुत्वा होमसमापनम् । |
| २२. | मधुपर्कपूजायै रात्रौ स्नातकस्य पितृगृहे वासः । |
| २३. | दक्षिणां दत्त्वा गुरुमनुज्ञाप्य वा स्नानम् । |
| २४. | स्नातकव्रतानि । |
| २५. | तस्य प्रतिषिद्धानि कर्माणि । |
| २६. | स्नातकप्रशंसा । |
अष्टमः खण्डः ।
| सूत्रम्. | विषयः. |
|---|---|
| १. | समावर्तमानस्य सम्बुद्ध्या गुरुनामग्रहणम् । |
| २. | वियुज्यवासाय गुर्वनुज्ञाप्रार्थनम् । |
| ३. | उपांशु मन्त्रजपः । |
२६
| सूत्रम् . | विषयः. |
|---|---|
| ४. | अनन्तरमाचार्यस्य जपविधिः । |
| ५. | जप्यमन्त्रनिर्देशः । |
| ६. | जपं समाप्य विवत्स्याव इति लौकिक्या वाचा विसर्गः । |
| ७. | एवं विसृष्टस्य समावृत्तस्य प्रशंसा । |
| ८. | एवं समावृत्तस्य मार्गे प्रतिकूलपक्षिशब्दश्रवणे मन्त्रजपः । |
| ९. | तथा मृगशब्दश्रवणे मन्त्रजपः । |
| १०. | मार्गे भये सति तां दिशं प्रत्युभयतोदीप्तस्योल्मुकस्य प्रक्षेपः । |
| ११. | सर्वतो भयेऽष्टाभिरराज्याहुतिभिर्होमः । |
| १२. | अथैशान्यां दिशि स्थित्वा मन्त्रजपः । |
नवमः खण्डः ।
| सूत्रम् . | विषयः. |
|---|---|
| १. | पुरोहितस्य युद्धसन्नाहनम् । |
| २. | राजाधिरूढस्य रथस्य पश्चात् स्थित्वा मन्त्रजपः । |
| ३. | समन्त्रं कवचप्रदानम् । |
| ४. | तथा धनुर्दानम् । |
| ५. | राज्ञो मन्त्रजपः । |
| ६. | पुरोहितस्य मन्त्रजपः । |
| ७. | इषुधिप्रदानम् । |
| ८. | प्रस्थानसमये आचार्यस्य तिष्ठतो मन्त्रजपः । |
| ९. | अश्वाभिमन्त्रणम् । |
| १०. | इष्ववेक्षणमन्त्रः । |
| ११. | अङ्गुलित्राधारणमन्त्रः । |
| १२. | अथ सारथेर्मन्त्रजपः । |
| १३. | युद्धे प्रविशतो राज्ञो बहुभिर्मन्त्रैरन्वीक्षणम् । |
| १४. | सौपर्णमन्त्रनिर्देशः । |
| १५. | रथस्य प्रागादिमुखं प्रवर्तनम् । |
सूत्रम्. | विषयः.
२७
| सूत्रम्. | विषयः. |
|---|---|
| १६. | पुरोहितस्य समन्त्रं दुन्दुभिस्पर्शः । |
| १७. | समन्त्रं पुरोहितस्येषुविसर्गः । |
| १८. | युध्यमानेषु योधेषु पुरोहितस्य जपः । |
| १९. | दुन्दुभिस्पर्शनादौ राज्ञः प्रेरणं वा । |
अथ चतुर्थोऽध्यायः ।
प्रथमः खण्डः ।
१. आहिताग्ने रोगसम्भवे ग्रामाद् बहिर्वासः ।
२. तथाकरणे प्रयोजनकथनम् ।
३. ग्रामजनानामादरातिशयादरोगतासिद्धिः ।
४. जातारोग्यस्य सोमाद्यन्यतमेनेष्ट्वा गृहप्रवेशः ।
५. अनिष्ट्वापि गृहप्रवेशनानुज्ञा ।
६. आहिताग्नौ संस्थिते आग्नेय्यां नैर्ऋत्यां वा गर्तखननम् ।
७. आदहनास्थिनिधानोभयविधश्मशानलक्षणम् ।
८. तस्यैवान्यलक्षणम् ।
९. वास्तुपरीक्षावदत्रापि कण्टकिवृक्षादीनामुद्वासनम् ।
१०. आदहनश्मशानस्य मध्योच्छ्रितत्वम् ।
११. पुत्राणां वपनप्रकारः ।
१२. प्रभूतबर्हिराज्योपकल्पनम् ।
१३. पृषदाज्यमिश्रणप्रकारस्तस्य पित्र्यत्वं च ।
द्वितीयः खण्डः ।
१. अग्नेर्नयनम् ।
२. यज्ञपात्रनयनम् ।
३. प्रेतस्य पृष्ठतः पुंसां स्त्रीणां च प्रवयसामयुग्मसङ्ख्याकानां गमनम् ।
४. प्रेतस्य गोयुक्तशकटविशेषेण शिविकया वा नयनम् ।
२८
| सूत्रम्. | विषयः. |
|---|---|
| ५. | गोविशेषस्याजाविशेषस्य वानुस्तरणित्वेन निर्देशः । |
| ६. | पशोः सव्ये बाहौ रज्जुं बद्ध्वा प्रेतस्य पृष्ठतो नयनम् । |
| ७. | मुक्तशिखानां पुत्रादीनां ज्यैष्ठ्यक्रमेण गमनम् । |
| ८. | खानितस्य गर्तस्य त्रिप्रदक्षिणं परिक्रमणं शमीशाखयोदकेन प्रोक्षणं च । |
| ९. | खानिते गर्ते अग्नीनां निधानप्रकारः । |
| १०. | प्रेतस्यान्तर्वेदि निधानम् । |
| ११. | इध्मचितेश्शयनम् । |
| १२. | तत्र प्रेतस्य संवेशनप्रकारः । |
| १३. | पत्न्या उत्तरतः संवेशनम् । |
| १४. | क्षत्रियस्य प्रेतस्योत्तरतः पत्न्या धनुषश्च संवेशनम् । |
| १५. | देवरादिभिः समन्त्रं पत्न्या उत्थापनम् । |
| १६. | वृषलेनोत्थापने कर्तुर्मन्त्रजपः । |
| १७. | धनुरादाने मन्त्रजपः । |
| १८. | वृषलेन धनुरादाने कर्तुर्मन्त्रजपः । |
| १९. | आरोपितं धनुश्छित्त्वेध्मचितौ प्रक्षेपः । |
तृतीयः खण्डः ।
१—११. प्रेतस्य सर्वेष्वङ्गेषु यज्ञपात्राणां निधानम् ।
१२. बिलवतां पात्राणां पृषदाज्येन पूरणम् ।
१३, १४. दृषदुपलादीनां पुत्रस्योपयोगार्थं गृह एव निक्षेपः ।
१५. अनुस्तरणीपक्षे तस्या वपामुद्धृत्य समन्त्रं प्रेतस्य मुखशिरसोः प्रच्छादनम् ।
१६, १७. अनुस्तरण्या अङ्गानां प्रेतस्याङ्गेषु यथाक्रमं निधानम् ।
१८, १९. ओदनपिण्डयोरपि हृदये निधानं, वृक्कयाभाव एव तदिति मतान्तरम् ।
२०. सर्वाङ्गनिधानात् परमनुस्तरण्याश्चर्मणा प्रेतप्रच्छादनम् ।
२९
| सूत्रम्. | विषयः. |
|---|---|
| २१. | प्रणीतानुमन्त्रणम् । |
| २२. | सव्यं जानु निपात्य चतसृभिराज्याहुतिभिर्दक्षिणाग्नौ होमः । |
| २३. | पञ्चम्या आज्याहुतेः प्रेतस्योपरि होमः । |
चतुर्थः खण्डः ।
| सूत्रम् | विषयः |
|---|---|
| १. | अग्निप्रज्वालनार्थं परिकर्मिणां युगपत् प्रेरणम् । |
| २. | आहवनीयस्य प्रथमं प्रज्वलने स्वर्गप्राप्तिः । |
| ३. | तथा तत्पुत्रस्येह संसिद्धिः । |
| ४. | गार्हपत्यदक्षिणाग्न्योः प्रज्वलने फलविशेषः । |
| ५. | सर्वेषां युगपत् प्रज्वलने समृद्धयतिशयः । |
| ६. | दह्यमानप्रेतानुमन्त्रणम् ! |
| ७. | एवं विदुषा पुत्रेण दाहे फलश्रुतिः । |
| ८. | एवं संस्कृत्य प्रेतस्य जलपूर्णाज्जानुदघ्नाद् गर्तान्निष्क्रम्य धूमोद्गमसमय एव स्वर्गप्राप्तिः । |
| ९. | मन्त्रं जपित्वा प्रेतमनवेक्ष्य गमनम् । |
| १०. | तटाकादौ सकृदुन्मज्ज्य प्रेताय जलाञ्जलिं दत्त्वा शुष्काणि वासांसि परिधाय दिवा चेदानक्षत्रदर्शनाद् रात्रौ चेदा-सूर्यदर्शनात् सङ्गीभूयावस्थानम् । |
| ११. | दृश्यमाने नक्षत्रे सूर्ये वा कनिष्ठादिक्रमेण ग्रामप्रवेशः । |
| १२. | गृहं प्राप्याश्मादीनां द्वारदेश एवोपस्पर्शः । |
पञ्चमः खण्डः ।
| सूत्रम् | विषयः |
|---|---|
| १. | अस्मिन्नहोरात्रे गृहेऽन्नादिपाकप्रतिषेधः । |
| २. | अपरेद्युरारभ्य त्रिरात्रमक्षारलवणभोजनम् । |
| ३. | महागुरुमृत्तौ द्वादशरात्रमिति मुख्यः कल्पः, त्रिरात्रमिति च गौणः । |
| ४. | सपिण्डानां दशाहं दानाध्ययनादिनिषेधः । |
३०
| सूत्रम्. | विषयः. |
|---|---|
| ५. | असपिण्डगुरुमृतावप्येवम् । |
| ६. | सपिण्डास्वप्रत्तासु स्त्रीषु त्रिरात्रम् । |
| ७. | महागुरुव्यतिरिक्ताचार्येष्वपि । |
| ८. | समानोदकेष्वपि । |
| ९. | प्रत्तस्त्रीदन्तजातादिष्वेकाहम् । |
षष्ठः खण्डः
| सूत्रम्. | विषयः. |
|---|---|
| १. | अस्थिसञ्चयनकालः । |
| २. | शुभे कुम्भे पुंसोऽस्थिसञ्चयनम् । |
| ३. | अलक्षणे कुम्भे स्त्रिया अस्थिसञ्चयनम् । |
| ४. | संचेतृनियमः । |
| ५. | क्षीरोदकेनायतनप्रोक्षणम् । |
| ६. | अङ्गुष्ठोपकनिष्ठिकाभ्यामस्थ्यादायाशब्दं कुम्भे निधानम् । |
| ७. | आपादत लादस्थ्ना यथाक्रममादानम् । |
| ८. | अस्थिकुम्भस्य गर्ते निक्षेपः । |
| ९. | कपालेन कुम्भमपिधाय जपित्वा पांसुभिरवकीर्य श्मशानात् प्रत्याव्रज्य स्नात्वा प्रेताय श्राद्धदानम् । |
सप्तमः खण्डः ।
| सूत्रम्. | विषयः. |
|---|---|
| १. | पित्रादीनां गुरुजनानामुपर्य्युपरि मरणसम्भवेऽमायां शान्तिकैर्मविधिः । |
| २. | प्रागुदयाद् गृहोपकरणानां पचनामेश्च दक्षिणस्यां दिश्युत्सर्गः । |
| ३. | तमग्निं यत्रकुत्रापि प्रक्षिप्य त्रिःप्रदक्षिणं परिक्रमणम् । |
| ४. | ततः पृष्ठतोऽनवेक्ष्य पुनराव्रज्य स्नात्वा वपनविधिः । |
| ५. | नवानां मणिकादीनामुपकल्पनम् । |
| ६. | अग्निवेलायां समन्त्रमरणेरग्निजननम् । |
३१
| सूत्रम्. | विषयः. |
|---|---|
| ७. | गृहाद् बहिस्तमग्निं दीपयित्वार्धरात्रपर्यन्तं पुण्यकथादीनां कीर्तनम् । |
| ८. | अर्धरात्रात् परमविच्छिन्नाया उदकधाराया दक्षिणद्वारेण हरणम् । |
| ९. | अथ तत्र तमाग्निमुपसमाधाय तस्य पश्चिमे देशे आनडुहं चर्मास्तीर्य तत्र समन्त्रमारोहणम् । |
| १०. | मध्यमपरिधेः समन्त्रं परिधानं दक्षिणोत्तरयोश्चामन्त्रकम् । |
| ११. | उत्तरतोऽश्मानमवस्थाप्य चतसृभिराज्याहुतिभिर्हुत्वा कौटुम्बिकानामीक्षणम् । |
| १२. | युवतीनां नेत्राञ्जनं ततो निर्गमनं च । |
| १३. | युवतीनां नेत्राञ्जनसमये समन्त्रं कर्तुरीक्षणम् । |
| १४. | कर्तुरन्येषां चाश्माभिमर्शनम् । |
| १५. | अथाग्निमादाय गृहं प्रवेष्टुं सर्वेषां परिक्रमणमविच्छिन्नोदकधारास्रावणमैशान्यां दिशि स्थित्वा मन्त्रजपश्च । |
| १६. | परिणेतव्यस्यानडुहो लक्षणम् । |
| १७. | तस्याग्नेर्महानसे चुल्ल्यां प्रतिष्ठापनं सर्वेषां स्वे स्वे शयनस्थाने स्थित्वा नवेन वाससा प्रच्छाद्यासूर्योदयाज्जागरणम् । |
| १८. | उदिते सूर्ये मङ्गल्यसूक्तजपो होमो ब्राह्मणभोजनं दक्षिणादानं स्वस्तिवाचनं च । |
अष्टमः खण्डः ।
१. | श्राद्धानां चातुर्विध्यम् । २. | वरणीयब्राह्मणलक्षणं ब्राह्मणसङ्ख्या उपवेशनप्रकारः उपचारा अर्घ्यपरिकल्पनं च । ३. | अर्घ्यप्रदानं तन्मन्त्राश्च । ४. | प्रतिब्राह्मणं सकृत् सकृदर्घ्यनिवेदनम् । ५. | तासामपामनुमन्त्रणम् ।
सूत्रम्. | विषयः.
३२
| सूत्रम्. | विषयः. |
|---|---|
| ६. | अर्घ्यदानावशिष्टानानपां प्रथमपात्रे समवनयनं मुखाञ्जनं च । |
| ७. | अत्र स्तुतिनिन्दार्थमुभयोर्गाथयोरुदाहरणम् । |
नवमः खण्डः ।
१. गन्धादिदानम् ।
२. स्थालीपाकादुद्धृतस्यान्नस्याग्नौ करणार्थं ब्राह्मणप्रार्थना ।
३. अग्नौ कुरुष्वेत्यादिब्राह्मणाभ्यनुज्ञा ।
४. पिण्डपितृयज्ञोक्तप्रकारेण होमः ।
५. आहिताग्न्यादेः पार्वणे पाणिहोमविधिः ।
६. पाणिहोमप्रशंसा ।
७. पाणिहोमपक्षे विशेषः ।
८. अग्नौ करणपक्षे विशेषः ।
९. श्रद्धया दाने प्रशंसा ।
१०. तृप्तेषु ब्राह्मणेषूभयोर्मन्त्रयोः श्रावणम् ।
११. तृप्तिप्रश्नप्रतिवचनानन्तरं पिण्डार्थमन्नमुद्धृत्य शिष्टस्यान्नस्य ब्राह्मणेभ्यो निवेदनम् ।
१२. भुक्तवत्स्वनाचान्तेषु पिण्डनिपरणम् ।
१३. केषाञ्चिन्मते आचान्तेषु पिण्डनिपरणम् ।
१४. अनन्तरं समन्त्रमन्नान्विकिरणं स्वधोक्त्यनन्तरं पितॄणां विसर्गः ।
दशमः खण्डः ।
१. शूलगवाख्यरौद्रयज्ञः ।
२. शूलगवस्य कालः ।
३. तस्य नक्षत्रविशेषः ।
४. यूथश्रेष्ठस्य पुङ्गवस्योपादानम्।
५. गोलक्षणम् ।
३३
| सूत्रम्. | विषयः. |
|---|---|
| ६. | तस्यैव लक्षणान्तरं केषाञ्चिन्मते । |
| ७. | कृष्णस्याप्यारोहवतो ग्रहणम् । |
| ८. | तस्य गोराभिषेकः । |
| ९. | समन्त्रं शूलेनाङ्कयित्वोत्सर्गो यावद्दन्तपतनम् । |
| १०. | ग्रामाद् बहिर्यज्ञिये देशे शूलगवविधानज्ञेन होमस्तस्य वृद्धस्य पशोर्यूपे बन्धनं रुद्राय नियोगश्च । |
| ११. | पशुकल्पोक्तवत् प्रोक्षणादिं । |
| १२. | विशेषवर्णनप्रतिज्ञा । |
| १३. | मृन्मयपात्रेण पर्णेन वा वपाहोमस्य कर्तव्यत्वम् । |
| १४. | वपाया अवदानानां स्थालीपाकस्य च हरायेत्यादिभिर्द्वादशभिर्नामभिः स्वाहाकारान्तो वपाहोमः । |
| १५. | उग्रायेत्यादिभिः षड्भिर्वा । |
| १६. | रुद्राय स्वाहेति वा । |
| १७. | होमानन्तरं स्विष्टकृतः पूर्वं चतसृषु दिक्षु बलिहरणम् । |
| १८. | बलिहरणे दिशां नामनिर्देशः । |
| १९. | चतुर्भिः सूक्तैश्चतसृणां दिशामुपस्थानम् । |
| २०. | अन्येष्वपि रुद्रयज्ञेषु दिशामुपस्थानम् । |
| २१. | तुषादीनामग्नौ प्रहरणम् । |
| २२. | पशोश्चर्मणोपानदादिकरणम् । |
| २३. | अग्नेरुत्तरतः समन्त्रं पशोः शोणितनिनयनम् । |
| २४. | संज्ञपनदेशस्थितस्य रुधिरादेः समन्त्रं सर्पेभ्यो निवेदनम् । |
| २५. | तस्य सर्पैर्हरणम् । |
| २६. | रुद्रस्य सर्वात्मकत्वप्रशंसा । |
| २७. | याजयितुर्यजमानस्य च ज्ञात्वानुष्ठाने प्रशंसा । |
| २८. | रुद्रप्रसादेन यजमानस्याकुतश्चिद्भयत्वम् । |
| २९. | पुत्रादीनामस्मिन् कर्मण्यन्वयप्रतिषेधः । |
| ३०. | हुतशेषप्राशनस्य स्वस्त्ययनत्वम् । |
३४
| सूत्रम्. | विषयः. |
|---|---|
| ३१. | उक्तस्य शूलगवस्य सर्वकामफलप्रदत्वम् । |
| ३२. | सर्वथास्य कर्मणः सकृत् कर्तव्यत्वम् । |
| ३३. | यजमानप्रशंसा । |
| ३४. | मङ्गल्यसूक्तं जपित्वा गृहस्य प्रत्यागमनम् । |
| ३५. | पशूनां रोगेऽस्यैव देवस्य यष्टव्यत्वम् । |
| ३६. | शूलगवस्य स्थाने सर्वहुतः स्थालीपाकः । |
| ३७. | होमानन्तरं धूमस्पर्शार्थं गवामानयनम् । |
| ३८. | मङ्गल्यं सूक्तं जपित्वा पशूनां मध्ये प्रवेशः । |
| ३९. | शौनकाचार्यनमस्कारः । |
इति चतुर्थोऽध्यायः ।
शुद्धिपत्रम् ।
| पृष्ठम् . | पङ्क्तिः . | अशुद्धम् . | शुद्धम् . |
|---|---|---|---|
| १० | २३ | त्वि | र्त्वि |
| १४ | १३ | ये | य |
| ५० | ४ | यदा | य था |
| ,, | १४ | थ | थे |
| ७९ | ३ | रा' स | रास' |
| ८६ | १९ | ना य | नां य |
| १४९ | १२ | भान् | र्भान् |
| १६२ | ,, | दृध्वा ह | दृध्वाह |
| ,, | १४ | तोब्र | ब्रतो |
| १८८ | १० | याऽस्थी | या अस्थी |
CC-0. Agamnigam Digital Presevation Foundation, Chandigarh