भारतकोश
संग्रह पर लौटें

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

Ashvalayana Grihyasutra Hindi

महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा

स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)

DevanagariHindipublished292 पृष्ठ

चतुर्थः खण्डः] अनाविलोपेतम् । १९.

चतुर्थः खण्डः] अनाविलोपेतम् । १९.

बुद्धिर्व्याख्याता । रूपं वराय रुचितम् । लक्षणानि सामुद्रिकादिप्रसिद्धानि ॥ १० ॥

दुर्ज्ञेयानि लक्षणानि ॥ ११ ॥

शास्त्राणां बहुत्वात् परस्परविरोधाच्च दुर्ज्ञेयत्वं^१ लक्षणानाम् ॥ ११ ॥

का तर्हि गतिरित्याह—

अष्टौ पिण्डान् कृत्वा ऋतमग्रे प्रथमं जज्ञ ऋते सत्यं प्रतिष्ठितं यदिदं कुमार्यभिजाता तदियमिह प्रतिपद्यतां यत् सत्यं तद् दृश्यतामिति पिण्डानभिमन्त्र्य कुमारीं ब्रूयादेषामेकं गृहाणेति^२ ॥ १२ ॥

वक्ष्यमाणैर्द्रव्यैरष्टौ पिण्डान् कृत्वा 'ऋतमग्र' इत्यनेन मन्त्रेण तान् पिण्डानभिमन्त्र्य वरः कुमारीं ब्रूयाद् एषां पिण्डानां मध्ये एकं गृहाणेति। पुनः पिण्डानिति वचनं कुमार्या अभिमन्त्रणं मा भूत् । सन्निधानाद् द्वितीयानिर्देशान्मन्त्रलिङ्गस्य चाविशेषात् तस्या अपि प्रसङ्गः ॥ १२ ॥

क्षेत्राच्चेदुभयतःसस्याद् गृह्णीयादन्नवत्यस्याः प्रजा भविष्यतीति विद्यात् ॥ १३ ॥

यस्मिन् क्षेत्रे प्रतिसंवत्सरं द्विः सस्यं निष्पद्यते तदुभयतःसस्यं, तस्मात् क्षेत्रादाहृतं पिण्डं यदि सा गृह्णीयाद् अस्याः प्रजा अन्नवती भविष्यतीति विद्याज्जानीयात् ॥ १३ ॥

गोष्ठात् पशुमती ॥ १४ ॥

गृह्णीयाच्चेदस्याः प्रजा भविष्यतीति विद्यादिति स-


१. 'र्ज्ञानत्वं' घ. पाठः.
२. 'ति । द्रव्याणि वक्ष्यति । तैर' ग. पाठः.

२० आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः

वेत्त्रानुवर्तते । गोष्ठं गोस्थानम् । ततश्चेदाहृतं पिण्डं गृह्णीयात् पशुमत्यस्याः प्रजा भविष्यतीति विद्यात् । एवमुत्तरेष्वपि द्रष्टव्यम् ॥ १४ ॥

वेदिपुरीषाद् ब्रह्मवर्चस्विनी ॥ १५ ॥ वेदिगताः पांसवो वेदिपुरीषम् । वृत्तस्वाध्यायकृतं यशो ब्रह्मवर्चसम् ॥ १५ ॥

अविदाासिनो ह्रदात् सर्वसम्पन्ना ॥ १६ ॥ अविदासी अशोष्यः । दसिरुपक्षये ॥ १६ ॥

देवनात् कितवी ॥ १७ ॥ देवनं द्यूतस्थानम् । कितवी द्यूतपरा ॥ १७ ॥

चतुष्पथाद् विप्रव्राजिनी ॥ १८ ॥ चतुर्णां पथां समाहारश्चतुष्पथम् । विविधं या प्रव्रज- ति सा विप्रव्राजिनी, स्वकुले न तिष्ठतीत्यर्थः ॥ १८ ॥

इरिणादधन्या ॥ १९ ॥ ऊषरप्रदेश इरिणं, यत्र धान्यं न प्ररोहति । अधन्या धनरहिता ॥ १९ ॥

श्मशानात् पतिघ्नी ॥ २० ॥ तस्याः प्रजा पतिघ्नीत्येके । स्वयमित्यन्ये ॥ २० ॥

अलङ्कृत्य कन्यामुदकपूर्वां दद्यादेष ब्राह्मो वि- वाहः ॥ २१ ॥ अथ ब्राह्मादयोऽष्टौ विवाहाः । तत्राद्यौ ब्राह्मणानामेव भवतः प्रतिग्रहात्विज्यसंयोगात् । गान्धर्वः क्षत्रियस्य पुराणेषु दर्शनात् , तथा राक्षसो युद्धसंयोगात् । आसुरो वैश्यस्य

चतुर्थः खण्डः] अनाविलोपेसम् । २१

चतुर्थः खण्डः] अनाविलोपेसम् । २१

द्रव्यसंयोगात् । अन्ये त्रयोऽनियताः हेत्वभावात् । पैशा- चो निन्दितः ॥ २१ ॥

तस्यां जातो द्वादशावरान् द्वादश परान् पुनात्यु- भयतः ॥ २२ ॥

तस्यां ब्राह्मविवाहोढायां जातः पुत्रः उभयतः मातृ- वंशे पितृवंशे च परानवरान् द्वादश द्वादश पुनाति । एवमु- त्तरत्रापि ॥ २२ ॥

ऋत्विजे वितते कर्मणि दद्यादलङ्कृत्य स दैवः ॥ २३ ॥

वितते कर्मणि कर्ममध्य इत्यर्थः ॥ २३ ॥

दशावरान् दश परान् पुनात्युभयतः ॥ २४ ॥

तस्यां जात इति सर्वत्रानुवर्तते ॥ २४ ॥

सह धर्मं चरतम् इति प्राजापत्यः ॥ २५ ॥

सह धर्मं चरतम् इति समयं कृत्वा यत्र प्रदानं स प्रा- जापत्यः । यद्यप्यन्येष्वपि विवाहेषु सहधर्मचरणमस्ति, तथा- प्यत्र यावज्जीवं सहधर्मचरणमेव न मध्ये आश्रमान्तरप्राप्ति- रिति विशेषः । किञ्च तथा तयैव सहधर्मचरणं न स्त्र्यन्तर- विवाहः ॥ २५ ॥

अष्टावरानष्ट परान् पुनात्युभयतः ॥ २६ ॥

गोमिथुनं दत्त्वोपयच्छेत स आर्षः । २७ ॥

सप्तावरान् सप्त परान् पुनात्युभयतः ॥ २८ ॥

मिथ समयं कृत्वोपयच्छेत स गान्धर्वः ॥ २९ ॥

मिथः रहसि परस्परं वा । समयं भद्रे भजस्व मां भद्र ! भजस्व मामित्येवमादि ॥ २९ ॥

२२ आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः

धनेनोपतोष्योपयच्छेत स आसुरः ॥ ३० ॥

“वित्तेनानतिः स्त्रीमतामासुर” इति गौतमः। तेन कन्याया धनेनोपतोषणेऽपि नासुरत्वम् ॥ ३० ॥

सुप्तानां प्रमत्तानां वापहरेत् स पैशाचः ॥ ३१ ॥

प्रमादोऽनवधानता ॥ ३१ ॥

हत्वा भित्त्वा च शीर्षाणि रुदतीं रुद्भ्यो हरेत् स राक्षसः ॥ ३२ ॥

इति हरदत्ताचार्यमिश्रकृतायामाश्वलायनगृह्यवृत्तौ प्रथमाध्याये चतुर्थः खण्डः ।


अथ पञ्चमः खण्डः ।

अथखलूच्चावचा जनपदधर्मा ग्रामधर्माश्च तान् विवाहे प्रतीयात् ॥ १ ॥

अथखल्विति वाक्योपन्यासे । उच्चावचा अनियताः, नैकरूपा इत्यर्थः । जनपदा अङ्गवङ्गादयः । जनपदधर्मान् ग्रामधर्मांश्च विवाहे प्रतीयादित्येव वक्तव्ये तानिति वचनसामर्थ्यात् तादृशानित्यर्थः । तेन कुलधर्माणामपि ग्रहणम् । प्रतीयात् जानीयात् । ज्ञानेन चात्र तत्पूर्वकं करणं लक्ष्यते । कुर्यादित्यर्थः । विवाहाधिकारे विवाहग्रहणं कृत्स्ने विवाहे एते धर्मा यथा स्युरिति । उपयमनादुत्तरकालं विधानादुपयमने न स्युः ॥ १ ॥

यत्तु समानं तद्वक्ष्यामः ॥ २ ॥

यत्त सर्वेषां समानं यथान्यानि कर्माण्यविशेषोपदेशा-

पञ्चमः खण्डः] अनाविलोपेताम् । २३

पञ्चमः खण्डः] अनाविलोपेताम् । २३

देव सर्वेषु जनपदादिषु भवन्ति तथात्रापि सिद्धे नियमार्थ- मिदमारभ्यते — यद्वक्ष्यामस्तत् सर्वेषां भवतीति । तेन जन- पदादिधर्मस्य वक्ष्यमाणस्य च विरोधे वक्ष्यमाणमेव भवति । तद्यथा — केषुचिद् देशेषु सद्यः समावेशनं दृष्टं वक्ष्यमाणेन त्रिरात्रं द्वादशरात्रमिति ब्रह्मचर्येण बाध्यते ॥ २ ॥

पश्चादग्नेर्दृषदमश्मानं प्रतिष्ठाप्योत्तरपुरस्तादुद- कुम्भं समन्वारब्धायां हुत्वा तिष्ठन् प्रत्यङ्मुखः प्राङ्मु- ख्या आसीनाया गृभ्णामि ते सौभगत्वाय हस्तमित्यङ्- गुष्ठमेव गृह्णीयाद्यदि कामयेत पुमांस एव मे पुत्रा जाये- रन्निति अङ्गुलीरेव स्त्रीकामो रोमान्ते हस्तं साङ्गुष्ठमु- भयकामः ॥ ३ ॥

मृन्मय्या अपि दृषदः संभवादश्मग्रहणम् । अश्मनो य- स्यकस्यचिद् ग्रहणाय दृषदमित्युक्तम्। यया पिष्यते सा दृषत् । उत्तरपुरस्तात् उत्तरस्याः पूर्वस्याश्च दिशोरन्तराले । समन्वार- ब्धायां समन्वारब्धवत्याम् । हुत्वा तिष्ठन्निति होमोत्तरकालं स्थानेदर्शनादासीन एव जुहोतीति दर्शयति । सामान्यापेक्षं² च दर्शनम् आसीनो दर्विहोमान् जुहोतीति । प्रत्यङ्मुख इति वचनं प्राक्चेष्टानिवृत्त्यर्थम् । प्राङ्मुख्या इति वचनं लज्जा- दिनावाङ्मुखीत्वनिवृत्त्यर्थम् । इह आसीनाया इति वचनमु- त्तरं कर्म तिष्ठन्त्याः स्यादिति । गृभ्णामि ते सौभगत्वाय हस्त- मिति हस्तं गृह्णीयादिति नित्यो विधिः । इतरे गुणकामाः ।


१. 'नं दर्शयन्नासी' क. ग. घ. पाठः.
२. 'क्षं द' ख. ग. पाठः.

२४ आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः

तथाचाङ्गुष्ठमेवाङ्गुलीरेवेत्येवकारः सङ्गच्छते । “दक्षिणेन नाचा हस्तेन दक्षिणमुत्तानं हस्तं गृह्णीयादि”त्यापस्तम्बः। पुत्रशब्दस्य स्त्र्यपत्येऽपि दर्शनात् पुमांस इत्युक्तम् । स्त्रीशब्दो दुहितृवाची पुत्रसन्निधानात् । रोमान्ते रोमवतः प्रदेशादुपरि । उभयकामः पुत्रकामः स्त्रीकामश्च ॥ ३ ॥

प्रदक्षिणमग्निमुदकुम्भं च त्रिः परिणयन् जपति ॥ ४ ॥

सर्वेषां यज्ञाङ्गाना प्रदक्षिणेऽभ्यन्तरीभावः । अन्यान्यपि यज्ञाङ्गान्यपयुक्तानि “न विहारेण व्यवेयादि”ति वचनात् । उदकुम्भग्रहणं त्विह नियमार्थं — हविर्व्यतिरिक्तं यद् विवाहे विशेषविहितं तत्रोदकुम्भमेवेति । तेनाश्मनो¹ न भवति । लाजानां तु भवत्येव । त्रिरित्यस्य परिणयन्नित्यनेन सम्बन्धः अनन्तरत्वात्, न जपतीत्यनेन व्यवहितत्वात् । “परिणीये परिणीये”ति वीप्सा च तमेवार्थं स्पष्टयति। परिणयनाङ्गत्वाच्च जपस्य यावत्परिणयनमावृत्तिः ॥ ४ ॥

अमोहमस्मि सा त्वं सा त्वमस्य मोहं द्यौरहं पृथिवी त्वं सामाहमृक् त्वं तावेह विवहावहै प्रजां प्रजनयावहै संप्रियौ रोचिष्णू सुमनस्यमानौ जीवेव शरदः शतमिति ॥ ५ ॥

परिणयनमन्त्रोऽयम् ॥ ५ ॥

परिणीय परिणीयाश्मानमारोहति ॥ ६ ॥


१. 'तदाश्म' क. पाठः.

पञ्चमः खण्डः] अनाविलोपेताम् । ३५

पञ्चमः खण्डः] अनाविलोपेताम् । ३५

वीप्सावचनाद् यावत्परिणयनमारोहणम् । “दक्षिणेन पदारमानमास्थापयती”त्यापस्तम्बः ॥ ६ ॥

इममश्मानमारोहाश्मेव त्वं स्थिरा भव सहस्व पृतनायतोऽभितिष्ठ पृतन्यत इति ॥ ७ ॥

अश्मारोहणमन्त्रोऽयम् ॥ ७ ॥

वध्वोऽञ्जला उपस्तीर्य भ्राता भ्रातृस्थानो वा द्विर्लाजानावपति ॥ ८ ॥

वध्वौ इति प्राप्ते वध्व इति छान्दसो निर्देशः । अपपाठो वा । भ्राता सोदर्यः। भ्रातृस्थानो भ्रातृस्थानीयः पितृव्यपुत्रादिः ॥ ८ ॥

त्रिर्जामदग्नीनाम् ॥ ९ ॥

जमदग्निशब्दो गर्गादिः । तत्र यञो लुकि जमदग्नीनामिति भवितव्यम् । “जमदग्नीनां तु पञ्चावत्तमि”त्यापस्तम्बश्च । तस्माच्छिवादिष्वप्ययं पठितव्यः । तथाच ‘जामदग्नौ२ वत्सा” इति प्रवरेषु पठितम् । प्रवरो जामदग्नौ३, भवति ॥ ९ ॥

प्रत्यभिघार्य हविरवत्तं च ॥ १० ॥

हविःशब्देन हविःशेष उच्यते । तस्य पूर्वं प्रत्यभिघारणं पश्चादवत्तस्य ॥ १० ॥

एषोऽवदानधर्मः ॥ ११ ॥


१. ‘ध्वा अञ्जलौ इति प्राप्ते वध्वोऽञ्जला इ’ क. घ. पाठः
२. ‘ग्न्या’, ३. ‘ग्न्या’ क. ख. घ. पाठः. ४ ‘ग्न्यो’ क ख. पाठः.

२६ आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः

“अवदानसम्पदा जुहुयादि”त्यादिष्ववदानचोदनास्वेष धर्मः प्रत्येव्यः—उपस्तरणं द्विखिश्चावदानं हविरवदानयोश्च प्रत्यभिघारणमिति । उपस्तरणाभिघारणयोर्वर एव कर्त्ता, लाजानां भ्राता । क्त्वाप्रत्ययस्त्वसत्यपि समानकर्तृकत्वे पूर्वकालतामात्रेऽपि प्रायेण कल्पसूत्रेषु प्रयुज्यते ॥ ११ ॥

अर्यमणं नु देवं कन्या अग्निमयक्षत स इमां देवो अर्यमा प्रेतो मुञ्चातु नामुतः स्वाहा । वरुणं नु देवं कन्या अग्निमयक्षत स इमां देवो वरुणः प्रेतो मुञ्चातु नामुतः स्वाहा । पूषणं नु देवं कन्या अग्निमयक्षत स इमां देवः पूषा प्रेतो मुञ्चातु नामुतः स्वाहेत्यविच्छिन्दत्यञ्जलिं १स्रुचेव जुहुयात् ॥ १२ ॥

एतैस्त्रिभिर्मन्त्रैर्लाजान् जुहोति। कथम्, अञ्जलिमविच्छिन्दती अञ्जलेर्विच्छेदम्कुर्वती वधूर्जुहुयात्, २स्त्रीलिङ्गनिर्देशात्। मन्त्रास्तु वरस्यैव, स इमामिति मन्त्रलिङ्गात्। अन्यथा स मां देव इत्येव स्यात्। स्रुचेव, ३यथा स्रुचा हूयते ४एवमञ्जलिना जुहोति । कथं स्रुचा हूयते । ५द्रवेषु तावत् सर्वाणि द्रव्याणि स्रुङ्मुखेन जुहोति। अद्रवेषु तु “अपिदधदिव प्रदक्षिणं हुत्वे”ति कल्पान्तरम् । तस्मादिहाप्यपिदधदिव लाजान् जुहोति, न मुखेन ॥ १२॥

अपरिणीय शूर्पपुटेनाभ्यात्मं तूष्णीं चतुर्थम् ॥ १३ ॥

‘त्रिः परिणयन्ती’ति वचनाच्चतुर्थस्य परिणयनस्याप्राप्तिरेव। तथाप्यपरिणीयेत्युच्यते द्वितीयतृतीयावपि होमौ


१. ‘स्रुवं जु’ क. पाठः. २ ‘ति लि’ ख. पाठः. ३. ‘यस्तथा’, ४. ‘न्ते त ए’ क. पाठः. ५. ‘वि’ क. ग. पाठः.

पञ्चमः खण्डः] अनाविलोपे तम् । २७

पञ्चमः खण्डः] अनाविलोपे तम् । २७

परिणीय कर्तव्याविति ज्ञापनार्थम् । अन्यथा त्रीणि परिण- यनान्यश्मारोहणान्तानि निरन्तराणि कृत्वा होमा अपि त्र- यो निरन्तराः क्रियेरन् , तथोपदिष्टत्वात् । ततश्च प्रथम एव होमः परिणीय कृतः स्याद् , नेतरौ । अनेन तु प्रतिषेधेन सर्वेषामेव होमानां चतुर्थव्यतिरिक्तानां परिणीय क्रिया ज्ञा- पिता भवति । शूर्पपुटेन शूर्पकोणेन । अभ्यात्ममिति प्राक्- चेष्टानिवृत्त्यर्थम्। मन्त्रानुपदेशादेव सिद्धे तूष्णींवचनं “प्रजा- पतिं मनसा ध्यायात् तूष्णींहोमेषु सर्वत्रे”त्यस्य प्राप्त्यर्थम् । उपदेशक्रमादेव सिद्धे चतुर्थवचनं लाजानां स्विष्टकृन्मा भू- दिति । वधूरेव कर्त्री चतुर्थवचनादेव ॥ १३ ॥

ओप्योप्य हैके लाजान् परिणयन्ति ॥ १४ ॥

एके आचार्या लाजानोप्योप्य हुत्वा हुत्वा परिणयनं कर्तव्यमित्याहुरित्यर्थः । हशब्दोऽभिमतोऽयं पक्ष इति दर्श- नार्थः ॥ १४ ॥

तथोत्तमे आहुती न सन्निपततः ॥ १५ ॥

तथा कर्तव्यम् । अस्मिन् पक्षे उत्तमयोराहुत्योः स- न्निपातो न भवतीत्यर्थः । किमर्थमिदमिह । प्रागुक्तमपरिणी- येति । तदन्यार्थं सदिह दोषमावहति । तृतीयं परिणयनम- कृत्वा चतुर्थो होमः कर्तव्य इति सिद्धं भवति अपरिणीय चतुर्थमिति वचनात् । अस्माद् वचनात् तृतीयं परिणयनं कृत्वा चतुर्थो होमः कर्तव्य इति सिद्धं भवति ॥ १५ ॥

अथास्यै शिखे विमुञ्चति यदि कृते भवतः ॥ १६ ॥

अथशब्दोऽनन्तरार्थः । तेन स्विष्टकृत उत्कर्षः । अस्यै


१. 'प्यौ' ग. पाठः. २. 'इ' क. पाठः.

२८ आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः

अस्या इत्यर्थः । आत्मनिवृत्त्यर्थं चैतदुक्तम् । यदि कृते भवत इति ग्रामादिधर्माणामनियतत्वादुक्तम् ॥ १६ ॥

ऊर्णास्तुके केशपक्षयोर्बद्धे भवतः ॥ १७ ॥

– एवंलक्षणे ते शिखे, ययोर्विमोक उपदिष्टः । ऊर्णास्तुके ऊर्णासूत्रे । केशपक्षयोः केशसन्निवेशस्य दक्षिणोत्तरयोः पार्श्वयोः ॥ १७ ॥

प्र त्वा मुञ्चामि वरुणस्य पाशादिति ॥ १८ ॥

दक्षिणस्या ऊर्णास्तुकाया अयं मन्त्रः ॥ १८ ॥

उत्तरामुत्तरया ॥ १९ ॥

उत्तरामोर्णास्तुकामुत्तरयर्चा “प्रेतो मुञ्चामि”त्यनया विमुञ्चति ॥ १९ ॥

अथैनामपराजितायां दिशि सप्तपदान्यभ्युत्क्रामयतीष एकपद्यूर्जे द्विपदी रायस्पोषाय त्रिपदी मायोभव्याय चतुष्पदी प्रजाभ्यः पञ्चपद्यृतुभ्यः षट्पदी सखा सप्तपदी भव सा मामनुव्रता भव पुत्रान् विन्दावहै बहूंस्ते सन्तु जरदष्टय इति ॥ २० ॥

अथशब्दः पूर्ववत् । पूर्वोत्तरा दिगपराजिता । अन्यपेक्षया च सा गृह्यते । तस्यां दिशि एनां व

षष्ठः खण्डः] अनाविलेपेतम्। २९

षष्ठः खण्डः] अनाविलेपेतम्। २९

उभयोः सन्निधाय शिरसी उदकुम्भेनावसिच्य ब्राह्मण्या जीवपत्न्या जीवप्रजाया अगार एतां रात्रिं प्रतिश्रयेत् ॥ २१ ॥

उभयोर्दम्पत्योः शिरसी सन्निधाय सन्निधाप्य सन्निहिते कृत्वा पूर्वं स्थापितस्योदकुम्भस्योदकेनावसिञ्चति वरः । अवसिच्य सौविष्टकृतं हुत्वा या ब्राह्मणी जीवपतिका जीवप्रजा च भवति तस्या अगारे रात्रिमेतां प्रतिश्रयेत् । प्रतिश्रयो नाम परकीयगृहे वासः । अर्थप्राप्ते नियमविधिरयं यत् प्रतिश्रयेत् तदेवम्भूताया ब्राह्मण्या अगार इति । तेन यत्र तदहरेव स्वगृहप्रवेशः तत्रैतन्न भवति । बहुभार्यस्य पुरुषस्य काचिन्मृतप्रजापि स्त्री सम्भवति । तस्या अगारे मा भूत् प्रतिश्रयणमित्यतः स्त्री विशेष्यते ॥ २१ ॥

ध्रुवमरुन्धतीं सप्तऋषीनिति दृष्ट्वा वाचं विसृजेत जीवपत्नी प्रजां विन्देयेति ॥ २२ ॥

इतिशब्दः प्रकारे । तेनान्येषामपि शुक्रादीनां यथासम्भवं दर्शनम् । अस्मिन् काले मन्त्रवद्वाग्विसर्गविधानाद् यतवाचा प्राग् भवितव्यम् । मन्त्रलिङ्गात् सवध्वा एव वाग्विसर्गः ॥ २२ ॥

इति हरदत्ताचार्यमिश्रकृतायामाश्वलायनगृह्यवृत्तौ प्रथमाध्याये पञ्चमः खण्डः।


अथ षष्ठः खण्डः ।

प्रयाण उपपद्यमाने पूषा त्वेतो नयतु हस्तगृह्येति यानमारोहयेत् ॥ १ ॥

३४ | आश्वलायनगृह्यसूत्रम् | [प्रथमोऽध्यायः

प्रयाणे क्रियमाणे पूषा त्वेति वधूं यानं शकटादिकमारोहयेत् । यानेनैव नियतं प्रयाणं, नेत्याह — उपपद्यमान इति । यदि यानमुपपद्यते, तदानेन मन्त्रेणारोहणं$^{१}$ कर्तव्यं$^{२}$, यदि नोपपद्यते प्रकारान्तरेणापि नयनं भवत्येव वध्वाः ॥ १ ॥

अश्मन्वतीरीयते संरभध्वमित्यर्धर्चेन नावमारोहयेत् ॥ २ ॥

अर्धर्चग्रहणमृङ्निवृत्त्यर्थम् ॥ २ ॥

उत्तरेणोत्क्रमयेत् ॥ ३ ॥

उत्तरेणार्धर्चेनोत्तारयेत् । सर्वत्र वरस्यैव मन्त्रः ॥ ३ ॥

जीवं रुदन्तीति रुदत्याम् ॥ ४ ॥

यदा वधूर्बन्धुवियोगाद् रोदिति तदैतामृचं जपेत् ॥४॥

विवाहाग्निमग्रतोऽजस्रं नयन्ति ॥ ५ ॥

विवाहग्रहणादन्यस्याग्नेर्न भवति । अजस्रमिति ध्रियमाणस्य नयनं यथा स्यादिति । तेनान्यत्र समारोप्यापि नयनं भवति ॥ ५ ॥

कल्याणेष् देशवृक्षचतुष्पथेषु माविदन् परिपन्थिन इति जपेत् ॥ ६ ॥

कल्याणाः प्रशस्ताः, तेषु देशेषु वृक्षेषु चतुष्पथेषु ‘माविदन्नि’त्यस्या ऋचो जपः कर्तव्यः ॥ ६ ॥


१. 'णं य' ख. पाठः.
२. 'व्यम् अथ तु नो'

षष्ठः खण्डः] अनाविलोपेसम् । ३१

षष्ठः खण्डः] अनाविलोपेसम् । ३१

वासे वासे सुमङ्गलीरियं वधूरितीक्षका- नीक्षेत ॥ ७ ॥

वासे वास इति वचनात् पथि न भवति ॥ ७ ॥

इह प्रियं प्रजया ते समृध्यतामिति गृहं प्रवेश- येत् ॥ ८ ॥

विवाहाग्निमुपसमाधाय पश्चादस्यानाडुहं चर्मा- स्तीर्य प्राग्ग्रीवमुत्तरलोम तस्मिन्नुपविष्टायां समन्वार- ब्धायाम् आ नः प्रजां जनयतु प्रजापतिरिति चतसृभिः प्रत्यृचं हुत्वा समञ्जन्तु विश्वेदेवा इति दध्नः प्राश्य प्र- तिप्रयच्छेत् ॥ ९ ॥

नयनेऽधिकृतत्वाद्धोमे यःकश्चिदग्निर्मा भूदिति विवाहाग्निग्रहणम् । उपसमाधायेति चर्मास्तरणस्य कालोपदेशार्थम् । पश्चादिति अग्नेः पश्चिमे देशे । आनडुहम् अनडुहो विकारं चर्म । प्राक् चास्य ग्रीवा उपरिष्टाच्च लोमानि भवन्ति । तस्मिन्नुपविष्टायां वध्वां समन्वारब्धवत्यां स्वयं चोपविश्य “आ नः प्रजामि”ति चतसृभिः प्रत्यृचं जुहोति । यत्र प्रत्यृचग्रहणं नास्ति तत्रापि प्रत्यृचमेव होमः “धाता ददातु दाशुष इति द्वाभ्यामि”त्यादौ, एकस्य कर्मणो बहुमन्त्रत्वमन्याय्यमिति कृत्वा । यथाहापस्तम्बः—“वचनादेकं कर्म बहुमन्त्र- भि”ति । इह तु प्रत्यृचग्रहणमृगन्ते होमो यथा स्यात् स्वा- हाकारो मा भूदिति । केचिदृगन्ते होमं कृत्वा पश्चात् स्वाहा- कारं कुर्वन्ति । समञ्जन्त्विति दध्नः प्राश्य दध्न एकदेशं स्वयं प्राश्य तस्याः प्राशनार्थं प्रतिप्रयच्छेत् ॥ ९ ॥

३२ आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः

आज्यशेषेण वानक्ति हृदये ॥ १० ॥

अथवा हुतशिष्टं यदाज्यमाज्यस्थाल्यां तेन हृदये द्वे आत्मनश्च वध्वाश्चानक्ति पूर्वेणैव मन्त्रेण । यथा — "द्वार्योर्देवीर्द्वारावि"त्यभिमर्शनमन्त्रः सकृत् प्रयुक्तः सन्नुभयार्थो भवति । एवमिहापि सकृदेव मन्त्रप्रयोगः, नाविति द्विवचनयोगात् । अन्ये त्वभ्यासमिच्छन्ति । ततः स्विष्टकृदादि ॥ १० ॥

अत ऊर्ध्वमक्षारालवणाशिनावधःशायिनौ ब्रह्मचारिणौ स्याताम् । त्रिरात्रं द्वादशरात्रं संवत्सरं वैक ऋषिर्जायत इति ॥ ११ ॥

अतःशब्देनानन्तरस्य गृहप्रवेशनीयस्य निर्देशे प्राक्तने मार्गे व्रतचर्या न प्राप्नोति । अथ परमप्रकृतस्य विवाहस्य निर्देशः एवमपि यस्य दूरे विवाहः तस्य प्रागेव गृहप्रवेशनीयान्मार्ग एव व्रतसमाप्तिः प्राप्नोति । तस्माद् योगद्वयमेतद् व्याख्येयम् । विवाहप्रभृत्यक्षारालवणाशिनौ ब्रह्मचारिणौ स्यातामित्येको योगः। ततो गृहप्रवेशनीयादूर्ध्वं त्रिरात्रं द्वादशरात्रं संवत्सरं वेति द्वितीयः । एक ऋषिर्जायत इति । एवं नियमयुक्तस्य ऋषिकल्पः पुत्रो जायत इत्यर्थः ॥ ११ ॥

चरितव्रतः सूर्याविदे वधूवस्त्रं दद्यात् ॥ १२ ॥

एवमन्यतमेन कल्पेन चरितव्रतः सन् सूर्याविदे "सत्येनोत्तभिते"त्यारभ्याध्यायपरिसमाप्तेर्ये मन्त्राः ते सूर्याया

सप्तमः खण्डः] अनाविलोपेताम् । ३३

CC-0. Agamnigam Digital Presevation Foundation, Chandigarh

सप्तमः खण्डः] अनाविलोपेताम् । ३३

दृष्टाः सूर्याशब्देनोच्यन्ते । यथा ‘वृषाकपिरप्रतिरथ’ इति । तान् मन्त्रान् पदशोऽक्षरशः स्वरशोऽर्थतश्च यो वेत्ति, तस्मै सूर्याविदे। वधूवस्त्रं विवाहकाले यत् तया परिहितं वासः तद्, दद्यात् ॥ १२ ॥

अन्नं ब्राह्मणेभ्यः ॥ १३ ॥
दद्यादित्येव ॥ १३ ॥

अथ स्वस्त्ययनं वाचयीत ॥ १४ ॥
अथ तैर्भुक्तवद्भिः स्वस्त्ययनं वाचयेत् । स्वस्त्ययनमस्त्विति वाचयेदित्यर्थ इति केचित् । पुण्याहवाचनोपलक्षणमित्यन्ये । तच्चरणभेदेन देशभेदेन च भिद्यते । ततस्तस्यां रात्रौ पुण्ये मुहूर्ते समावेशनम् ॥ १४ ॥

इति हरदत्ताचार्यमिश्रकृतायामाश्वलायनगृह्यवृत्तौ
प्रथमाध्याये षष्ठः खण्डः ।


अथ सप्तमः खण्डः ।

पाणिग्रहणादि गृह्यं परिचरेत् स्वयं पत्न्यपिवा पुत्रः कुमार्यन्तेवासी वा ॥ १ ॥

यस्मिन् कर्मणि पाणिर्गृह्यते तत् पाणिग्रहणं विवाहः, तत आरभ्य गृह्यमग्निं परिचरेत् । परिचरणं शुश्रूषा, समिन्धनादिः । होमश्च पत्नीकुमारीव्यतिरिक्तानाम्। तयोस्तु संमार्जनमुपलेपनं हविरुपकल्पनं समिन्धनमित्यादि । पुत्रस्याप्युपनीतस्य ग्रहणम् । तथापस्तम्बः — 'स्त्रियानुपेतेन क्षारलवणावरात्नसंसृष्टस्य च होमं परिचक्षते' इति । अन्ये तु होममपि सर्वेषामिच्छन्ति । तथाचच्छन्दोगाः — 'पत्नी

३४ आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः

जुहुयादित्येके गृहाः पत्नी गृह्योऽग्निरेष' इति । तत्र स्वय- मिति मुख्यः कल्पः । इतरे क्रमेणाभावे विधयः । पाणिग्र- हणादिवचनं गृहप्रवेशनीयादूर्ध्वं मा भूदिति । सायमुपक्रमञ्च परिचरणम् ॥ १ ॥

नित्यानुगृहीतः स्यात् ॥ २ ॥

अनुशब्दः परेऽर्थे । अयमग्निर्नित्यपरिगृहीतः स्याद् यजमानेन पत्न्या वा । अन्यतरोऽवश्यमग्निसमीपे तिष्ठेत् । नोभौ सह¹ प्रवसेतामित्यर्थः । उदयास्तमययोश्चायं नियमः । अन्ये तु नित्यं धार्य इत्यर्थमाहुः ॥ २ ॥

यदि तूपशाम्येत् पत्न्युपवसेदित्येके ॥ ३ ॥

यदि खल्वग्निरुपशाम्येत् पत्न्या उपवासः स्यादि- त्येके मन्यन्ते । अन्ये यजमानस्य । उभयोरपरे । अत्राग्न्यु- त्पत्तिप्रकारानुपदेशात् कल्पान्तरमपेक्ष्यम् । तत्रापस्तम्बः — 'नित्यः धार्यः । अनुगतो मन्थ्यः । श्रोत्रियागाराद् वाहार्यः । उपवासश्चान्यतरस्य भार्यायाः पत्युर्वा । अनुगतेऽपि वोत्तरया जुहुयान्नोपवसेदि'ति । उत्तरया 'अयाश्चाग्न' इत्येतया । सर्व- त्राग्न्युत्पत्तिरेषैव ॥ ३ ॥

तस्याग्निहोत्रेण ॥ ४ ॥

विधिरिति शेषः । तस्य गृह्यस्याग्नेरग्निहोत्रेण विधि- र्व्याख्यातः । तत्र पाकयज्ञतन्त्रं न भवति, होष्यद्धर्मास्तु भव- न्तीति प्रागेवोक्तम् ॥ ४ ॥


१. 'ह देशान्तरं गच्छेता' घ. पाठः.

सप्तमः खण्डः] अनाविलोपेताम् । ३५

सप्तमः खण्डः] अनाविलोपेताम् । ३५

अग्निहोत्रधर्माणां सर्वेषां प्रसङ्गे परिसङ्घष्टे--

प्रादुष्करणहोमकालौ व्याख्यातौ ॥ ५ ॥

प्रादुष्करणं प्रज्वलनं 'अपराह्ने गार्हपत्यं प्रज्वाल्य' इति पूर्वोक्तं, प्रदोषान्तो होमकालः सङ्गवान्तः प्रातरिति<sup></sup> च ॥ ५ ॥

होम्यं च मांसवर्जम् ॥ ६ ॥

होमार्हं द्रव्यं होम्यं, तदप्यग्निहोत्रेण व्याख्यातम् । मांसवर्जं मांसं वर्जयित्वा । मांसप्रतिषेधाद् विज्ञायते शास्त्रान्तरविहितान्यपि द्रव्याणि गृह्यन्त इति ।

“पयो दधि यवागूश्च सर्पिरोदनतण्डुलाः ।
सोममांसं तथा तैलमापस्तानी दशैव तु ॥”

इति ॥ ६ ॥

कामं तु व्रीहियवतिलैः ॥ ७ ॥

कामं त्विति पूर्वोक्तद्रव्यालाभे व्रीह्यादीनां प्राप्त्यर्थम् । अतो व्रीहियवतिलैरिति न सूत्रितम् । तैश्च व्यस्तैर्होमः, न समस्तैः ॥ ७ ॥

अग्नये स्वाहेति सायं जुहुयात् सूर्याय स्वाहेति प्रातस्तूष्णीं द्वितीये उभयत्र ॥ ८ ॥

उभयत्र सायं प्रातश्च द्वितीये आहुती तूष्णीं जुहुयात् । मन्त्रानुपदेशादेव सिद्धे तूष्णीमिति प्रजापतिध्यानार्थम् ॥ ८ ॥

इति हरदत्ताचार्यमिश्रकृतायामाश्वलायनगृह्यवृत्तौ
प्रथमाध्याये सप्तमः खण्डः ।


१. 'ति ॥' घ. पाठः.

३६ आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः

अथाष्टमः खण्डः ।

अथ पार्वणः स्थालीपाकः ॥ १ ॥

अथशब्दोऽधिकारार्थः । पक्षसन्धिः पर्व तत्र कर्तव्यः पार्वणः । स्थाल्यां पच्यत इति स्थालीपाकः । इह तु तद्धविष्कं कर्म विवक्षितम् । पार्वणग्रहणं कालविधानार्थम् । अन्यथा पाणिग्रहणादिवचनादहरहः क्रियौ प्राप्नोति ॥ १ ॥

तस्य दर्शपूर्णमासाभ्यामुपवासः ॥ २ ॥

तस्य पार्वणस्य । दर्शपूर्णमासाभ्यामुपवासो व्याख्यातः । उपवासशब्दोऽयमभोजने प्रसिद्धः । इह तु रात्रावभोजने द्रष्टव्यः । 'न तस्य सायमश्नीयाद् येन प्रातर्यक्ष्यमाणः स्याद्' इत्यापस्तम्बः । प्रकृतत्वादेव सिद्धे तस्येति वचनं नियमार्थम् । तस्यैव पार्वणस्यायमुपवासविधिः स्यात्, तदतिदिष्टे मा भूदिति ॥ २ ॥

इध्माबर्हिषोश्च सन्नहनम् ॥ ३ ॥

सन्नहनं बन्धनं, तच्च दर्शपूर्णमासाभ्यां व्याख्यातम् । समन्त्रकममन्त्रकं वा शाखान्तरे दृष्टं पूर्वेद्युरिति ॥

देवताश्चोपांशुयाजेन्द्रमहेन्द्रवर्जम् ॥ ४ ॥

देवताश्च दर्शपूर्णमासाभ्यां व्याख्याताः । किमविशेषेण । नेत्याह — उपांशुयाजेन्द्रमहेन्द्रवर्जम्, उपांशुदेवतामिन्द्रं महेन्द्रं च वर्जयित्वा । तेन पौर्णमास्यामग्निरग्नीषोमौ च अमावास्यायामग्निरिन्द्राग्नी चं ॥ ४ ॥


१. 'हः प्रा' ख. ग. पाठः.
२. 'यां' ख. ग. घ. पाठः.
३. 'द्युः ॥' घ. पाठः.

अष्टमः खण्डः ] अनाविलेापेतम् । ३७

अष्टमः खण्डः ] अनाविलेापेतम् । ३७

काम्या इतराः ॥ ५ ॥

उक्ताभ्योऽन्या उपांशुयाजाद्या देवताः काम्या भवन्ति । कामे सति कर्तव्या इत्यर्थः । 'विष्णुं बुभूषन् यजेते'त्याद्यः काम्याः । 'अथ काम्यानां स्थाने काम्याश्चरव' इत्येव सिद्धे वचनमिदं कामसंयोगेन पर्वणि कथं प्रयोगः समानतन्त्रः स्यादिति । आज्येन चोपांशुमिच्छन्ति । अपर आह — पूर्वो योगः प्रधानदेवताविषयः । यास्त्वितरा अङ्गदेवताः, ता अपि काम्याश्चेत् कर्तव्या एव । 'अथ प्रजाकामो राकां सिनीवालीं कुहूमिति ॥ ५ ॥

तस्यै तस्यै देवतायै चतुरश्चतुरो मुष्टीन् निर्वपति ॥ ६ ॥

यस्मिन् यस्मिन् कर्मणि या या देवता चोद्यते तस्यै तस्यै । मुष्टिरिति परिमाणोपदेशः ॥ ६ ॥

पवित्रे अन्तर्धायामुष्मै त्वा जुष्टं निर्वपामीति ॥ ७॥

पवित्रे प्रागुक्ते । ते अन्तर्धाय मध्ये कृत्वा अमुष्मै त्वा जुष्टं निर्वपामीत्यनेन मन्त्रेण निर्वपति । तत्रामुष्मा इत्यस्य स्थाने देवतापदं चतुर्थ्यन्तं प्रयोक्तव्यम् — अग्नये त्वा अग्नीषोमाभ्यां त्वा इन्द्राग्निभ्यां त्वेति ॥ ७ ॥

अथैनान् प्रोक्षति यथानिरुप्तममुष्मै त्वा जुष्टं प्रोक्षामीति ॥ ८ ॥

अथशब्द आनन्तर्यार्थः । तेन सर्वेषु निरुप्तेषु निर्वापपदे समाप्तेऽनन्तरं प्रोक्षणम् । यथानिरुप्तमिति येन


१. 'माः' क. ख. घ. पाठः. २. 'श्चोद्यन्ते त' ग. पाठः. ३. 'सं ये' ख. पाठः,

३८आश्वलायनगृह्यसूत्रम्[प्रथमोऽध्यायः

क्रमेण निर्वापः कृतः, तेन क्रमेण अग्नये त्वा जुष्टं प्रोक्षाम्य-
ग्नीषोमाभ्यां त्वा जुष्टं प्रोक्षामीति । केचिदाहुः — तस्यै तस्यै
चतुरश्चतुरः पवित्रे अन्तर्धायेते । सर्वोऽयं विधिर्यथानिरुप्त-
मित्यनेनातिदिश्यत इति ॥ ८ ॥

अवहतांस्त्रिः फलीकृतान् नाना श्रपयेत् ॥ ९ ॥

अवहननं तुषविमोचनम् । फलीकरणं कणविमोच-
नम् । प्रक्षालनमपि त्रिर्भवति आचारात् । नानेति पृथक्पात्रेषु
श्रपयेदित्यर्थः ॥ ९ ॥

समोप्य वा ॥ १० ॥

एकस्मिन् पात्रे समावापं कृत्वा वा श्रपयेत् ॥ १० ॥

नानाश्रपणे विशेषमाह —

यदि नाना श्रपयेद् विभज्य तण्डुलानभिमृशेदि-
दममुष्मा इदममुष्मा इति ॥ ११ ॥

यदा नाना श्रपणं तदा तण्डुलान् विभज्य पृथक्
कृत्वाभिमृशेद् दक्षिणेन हस्तेन इदमग्नये इदमग्नीषोमाभ्या-
मिति ॥ ११ ॥

समोप्यपक्षे विशेषमाह —

यद्यु वै समोप्य व्युद्धारं जुहुयात् ॥ १२ ॥

यद्युवै इति निपातौ वाक्यालङ्कारे । यदि समावापं
कृत्वा श्रपयेत, तदा व्युद्धारं व्युद्धृत्य नानापात्रे कृत्वा पूर्व-


१. 'त्वा', २. 'न् वा पा', ३. 'त्वा श्र' ख. पाठः.