बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
178 बृहत्संहितायाम् [Adh. XVI. Sl. 21-25. सुवर्णरजतं रत्नं मातङ्गतुरगादि यत् । पौरा जनपदाः सौम्याः सोमपुत्रवशे स्थिताः ॥ सिन्धुनदपूर्वभागो मथुरापश्चार्द्धभरतसौवीराः । सुघ्नोदीच्यविपाशासरिच्छतद्रू रमठशाल्वाः ॥२१॥ त्रैगर्तपौरवाम्बष्ठपारता वाटधानयौधेयाः । सारखतार्जुनायनमत्स्यार्द्धग्रामराष्ट्राणि ॥२२॥ हस्त्यश्वपुरोहितभूपमन्त्रिमाङ्गल्यपौष्टिकासक्ताः । कारुण्यसत्यशौचव्रतविद्यादानधर्मयुताः ॥२३॥ पौरमहाधनशब्दार्थवेदविदुषोऽभिचारनीतिज्ञाः । मनुजेश्वरोपकरणं छत्रध्वजचामराद्यं च ॥२४॥ शैलेयकमांसीतगरकुष्ठरससैन्धवानि वल्लीजम् । मधुररसमधूच्छिष्टानि चोरकश्चेति जीवस्य ॥२५॥ Slokas 21-25.—To Jupiter belong the eastern part of the Indus, the western half of Muttra, the Bharatas, Sauveeras, Srughnas, Northerners, the Vipasa river, Satadru, the Ramatas, Salwas, Trigartas, Pauravas, Ambashtas, Paratas, Vatadhanas, Yaudheyas, Saraswatas, Arjunayanas, half the rural provinces of Mathsya, elephants, horses, royal priests, kings, ministers, people engaged in auspicious ceremonies and preparation of tonics, compassionate, truthful, pure, pious, learned, charitable and righteous men, citizens, rich men, gram- marians, philologists and vedic scholars, exorcisers, politi- cians, royal equipments, umbrellas, banners, chowries, etc, benzoin (கல்பாசி), costus (கோஷ்டம்) Jatamansi(சடாமாஞ்சி) Tahara (தகரவிரை), quicksilver, Saindhava salt, beans, sweet juices, bees-wax and choraka perfume (the husk of cardamom known in Tamil as கச்சோலம் or ஏலத்தோல்). तथा च काश्यपः। त्रैगर्तैसिन्धुसौवीराः शतद्रूमथुरे अपि । सुघ्नोदीच्यविपाशाश्च पारताम्बष्ठकास्तथा ॥
Adh. XVI. Sl. 26-30. ] षोडशोऽध्यायः 179 राजा पुरोहितो मन्त्री माङ्गल्यं पौष्टिकं व्रतम् । कारुण्यं कर्म सिद्धानां विद्याशौचतपस्विनां ॥ मत्स्याश्च वाटधानाश्च यौधेयाश्चार्जुनार्यनाः । सारस्वताश्च रमठा हस्त्यश्वध्वजचामराः ॥ शब्दार्थविदुषः पौरा नीतिज्ञाः शीलसंयुताः । मांसीतगरकुष्ठं च शैलेयं लवणं रसाः ॥ मधुरस्वादवल्लीजं विप्राणां चाधिपो गुरुः ॥ तक्षशिलमार्त्तिकावतबहुगिरिगान्धारपुष्कलावटकाः । प्रस्थलमालवकैकयदाशार्णोशीनराः शिबयः ॥२६॥ ये च पिबन्ति वितस्तामिरावतीं चन्द्रभागसरितं च । रथरजताकरकुञ्जरतुरगमहामात्रधनयुक्ताः ॥२७॥ सुरभिकुसुमानुलेपनमणिवज्रविभूषणाम्बुरुहशय्याः । वरतरुणयुवतिकाभोपकरणमृष्टान्नमधुरभुजः ॥२८॥ उद्यानसलिलकामुकयशःसुखौदार्यरूपसम्पन्नाः । विद्वदमात्यवणिग्जनघटकृच्चित्राण्डजास्त्रिफलाः ॥२९॥ कौशेयपट्टकम्बलपत्रोर्णीकरोधपत्रचोचानि । जातीफलागुरुवचापिप्पल्यश्चन्दनं च भृगोः ॥३०॥ Slokas 26-30.— To Venus belong Taxila, Marthi, Kavata, Bahugiri, Gandhara, Pushkalavataka, Prastthala, Malwa, Kaikaya, Dasarna, Useenara, Sibi, those that dwell on the banks of Vitasta, Iravatee, Chandrabhaga, chariots, silver-mines, elephants, horses, elephant-drivers, wealthy men, fragrant things, flowers, unguents, gems, diamonds, ornaments, lotuses, couches, good bride- grooms and brides, aphrodisiacs, those who partake of sumptuous and delicious dishes, parks, baths, lovers, those endowed with renown, happiness, generosity and charming personality, scholars, ministers, merchants, potters, (various kinds of) coloured birds, the three fruits, கடுக்காய்,
180 बृहत्संहितायाम् [Adh. XVI. Sl.31-34 தானிக்காய், நெல்லிக்காய் - மாதளம்பழம், பேரீச்சம்பழம், திராக்ஷப்பழம்-silk, wool, bleached silk, Rodhra (வெள்ளை லொத்திமரம்), Patra (ஜாதிபத்ரி), Chocha (லவங்கப்பட்டை), nutmeg (ஜாதிக்காய்), Agaru (காரகில்), Vacha (வசம்பு), Pippili (திப்பிலி) and sandalwood. तथा च काश्यपः । चन्द्रभागां वितस्तां चैरावतीं च पिबन्ति ये । पुष्करावतकेकैया गान्धारप्रस्थलास्तथा ॥ दशार्णा मालवास्तक्षशिला मौक्तिकमेव च । धनाढ्याः कुञ्जरा अश्वाः प्रस्थलं च विलेपनम् ॥ सुरूपसुभगोद्योनिकामुकाः कामचारिणः । वेसरा मधुरा हृद्याः सलिलाशयजीविनः ॥ तरुणा योषितः क्रीडाविदुषो जनगोष्ठिकाः । चित्राण्डजाश्च कौशेयं पत्रोर्णं काशिकौशिकाः ॥ पिप्पल्यश्चन्दनं जातीफलमामलकानि च । गन्धपत्रस्य लोध्रस्य शुक्रश्चाधिपतिः स्मृतः ॥ आनर्त्तार्बुदपुष्करसौराष्ट्राभीरशूद्ररैवतकाः । नष्टा यस्मिन् देशे सरस्वती पश्चिमो देशः ॥३१॥ कुरुभूमिजाः प्रभासं विदिशा वेदस्मृती महीतटजाः । खलमलिननीचतैलिकविहीन सत्त्वोपहतपुंस्त्वाः ॥३२॥ बान्धनशाकुनिकाशुचिकैवर्त्तविरूपवृद्धसौकरिकाः । गणपूज्यस्खलितव्रतशबरपुलिन्दार्थपरिहीनाः ॥३३॥ कटुतिक्तरसायनाविधवयोषितो भुजगतस्करमहिष्यः । खरकरभशणकवातलनिष्पावाश्चार्कपुत्रस्य ॥३४॥ Sloka 31-34.—Saturn presides over the Anartas, the Arbudas, Pushkaras, Saurashtras, Abheeras, Sudras, Raivatakas, the country where the Saraswati river disap- pears, the western country, the inhabitants of Thaneswar, Prabhasa, Vidisa, river Vedasmritee, those who dwell
Adh. XVI. Sl. 35-37] षोडशोऽध्यायः 181 along the banks of the Mahee river, rogues, dirty fellows, unrighteous men, oil mongers, cowards eunuchs, Jailors and prisoners, fowlers, impure fellows, fishers, deformed persons, old men, swine-herds, foremen of companies, those that have broken their vows, the Sabaras, Pulindas, poor men, pungent and bitter things, tonics, widows, snakes, thieves, she-buffaloes, donkeys, camels, Bengal gram, such grains in pods as cause flatulence and Nish- pavas (பெரும்பயறு). तथा च काश्यपः । अर्बुदो रैवतगिरेः सौराष्ट्र भीरुकास्तथा । सरस्वतीपश्चिमाशा प्रभासं कुरुजाङ्गलम् ॥ आनर्त्तशूद्रा विदिशा खलतैलकनीचकाः । वेदस्मृती सौकरिका मलिनश्च महीतटम् ॥ दुःशीलशाकुना हीनाः पशुबन्धनकास्तथा । पाखण्डिनश्च वैतण्डा निर्ग्रन्थाः शबराः कृशाः ॥ विरूपाः कटुतिक्तानि रसायनविषादिनः । पुलिन्दास्तस्कराः सर्पा महिषोष्ट्रखराः शुनी ॥ चणका वातला वल्लाः पुंस्त्वसत्त्वविवर्जिताः । काकगृध्रशृगालानां वृकाणां च प्रभुः शनिः ॥ गिरिशिखरकन्दरदरीविनिविष्टा म्लेच्छजातयः शूद्राः । गोमायुभक्षशूलिकवोक्काणाश्वमुखविकलाङ्गाः ॥३५॥ कुलपांसनहिंस्रकृतघ्नचौरनिःसत्यशौचदानाश्च । खरचरनियुद्धवित्तीव्ररोषगर्त्ताश्रया नीचाः ॥३६॥ उपहतदाम्भिकराक्षसनिद्राबहुलाश्च जन्तवः सर्वे । धर्मेण च सन्त्यक्ता माषतिलाश्चार्कशशिशत्रोः ॥३७॥ Slokas 35-37.—To Rahu belong the inhabitants of mountain-peaks, dens and caves, barbarian tribes, Sudras, jackal-eaters, the Shoolikas, Vokkanas, Kinnaras, crippled persons, those who disgrace their lineage, evil-doers,
182 बृहत्संहितायाम् [Adh. XVI. Sl. 38-39 ungrateful men, thieves, faithless, dirty and stingy per- sons, donkeys, spies, duelists, wrathful persons, children in the womb, low people, reprobates, hypocrites, giants, all sleepy beings, lawless men, black gram and sesamum. तथा च काश्यपः । बुभुक्षितास्तीक्ष्णरोषा विभिन्नाः कुलपांसनाः । नीचा म्लेच्छोच्छसादकाश्च गर्त्तस्थाः पारदारिकाः ॥ सत्यधर्मविहीनाश्च गिरिस्थाः कन्दराश्रिताः । प्रतापसत्यहीनाश्च शृगालादा महाशनाः ॥ तिलाश्च बाहुयुद्धज्ञा माषाश्चौराः खराश्चराः । यज्ञान् हिंसन्ति ये नित्यं राहुस्तेषामधीश्वरः ॥ गिरिदुर्गपह्नवश्वेतहूणचोलावगाणमरुचीनाः । प्रत्यन्तधनिमहેચ્છव्यवसायपराक्रमोपेताः ॥३८॥ परदारविवादरताः पररन्ध्रकुतूहला मदोत्सिक्ताः । मूर्खाधार्मिकविजिगीषवश्च केतोः समाख्याताः ॥३९॥ Slokas 38-39.—Ketu presides over mountain strong- holds, the Pahlavas, Swetas, Huns, Cholas, Afgans, desert, Chinese, the cavemen, rich men, highly ambitious persons, energetic men, those endowed with prowess, adulterer, disputants, those that take pleasure in others' misfortunes, persons elated with pride, fools, unrighteous people and men desirous of conquest. तथा च काश्यपः । प्राकाराभ्युच्छ्रिताः शृङ्गगिरिस्था विजिगीषवः । प्रत्यन्तवासाभिरताः परच्छिद्रविशारदाः ॥ मूर्खा विज्ञानहीनाश्च निर्मर्यादा नरास्तथा । परदाररता नीचाः केतोरिति विनिर्दिशेत् ॥ तथा च समाससंहितायाम् । भानोरङ्गकलिङ्गवङ्गमयुनाः श्रीपर्वताः पारता वाहीकोत्कटसुह्यशोणमगन्धाः प्राहून्नर्मदा दांशकाः ।
Adh. XVI. Sl. 40] षोडशोऽध्यायः 183 कौशाम्बी शबरान्ध्रपौण्ड्रयवना याम्याश्रिता मेकला- श्रीनोदुम्बरवर्द्धमानविकटाश्चम्पेक्षुमल्यश्रिताः ॥ जलपर्वतदुर्गं कोशला वनिताराज्यतुषारतङ्गणाः । वनवासह्लाः सरस्वती शीतांशोर्भेरुकच्छरोमकाः ॥ क्षितिजस्य महानदी पयोष्णी वेणा वेत्रवती च मालती । मलयद्रविडाश्मकान्ध्रचोळा भौमाद्वे स्वपरे च ये स्थिताश्च ॥ पारेविन्ध्यं पश्चिमः शोणभागो गोदावर्याः कूलमद्रिर्महेन्द्रः । सिप्रा सिन्धुर्भूमजस्येति देशा वैदेहाख्याः काकणाः केरलाश्च ॥ सौम्यस्य सौराष्ट्रिकभोजदेशा गङ्गाश्रिताश्चोत्तरकूलनद्यः । विन्ध्यार्द्धमन्त्यं मथुरापुरस्तात्सुवास्तुसिन्ध्वद्रिगुहाश्रिताश्च ॥ जीवस्य सारस्वतमत्स्यशाल्वाः प्राक्सिन्धुभागो मथुरापुरार्द्धम् । सुघ्नः शतद्रू रमठा विपाशा त्रैगर्तयौधेयकपारताश्च ॥ देशा भृगोस्तक्षशिला वितस्ता गान्धारकाः कैकयमालवाश्च । दशार्णकौशीनरचन्द्रभागाश्चैष्टादृसिप्रास्थलकालकाख्याः सरस्वती यत्र गता प्रणाशं वेदस्मृती मालवकाः सुराष्ट्राः । पाश्चात्यदेशा विदिशा मही च सौरेः स्मृताः पुष्करमर्बुदश्च ॥ राहोः कृतघ्नकुलपांसननीचशूद्रा वोकाणशूलिकनियुद्धविदुप्रकोपाः । गोमायुभक्षगिरिदुर्गनिवासिनश्च गर्भस्थहिंस्रपरदाररताः खलाश्च ॥ शिखिनो वनसंस्थितावगाणा मरुभूपल्लवचोलहूणचीनाः । व्यवसायपराक्रमोपपन्नाः परदारानुरता मदोत्कटाश्च ॥ उदयसमये यः स्निग्धांशुर्महान् प्रकृतिस्थितो यदि च न हतो निर्घातोल्कारजोग्रहमर्दनैः । स्वभवनगतः खोच्चप्राप्तः शुभग्रहवीक्षितः स भवति शिवस्तेषां येषां प्रभुः परिकीर्तितः ॥४०॥ Sloka 40.—A planet proves beneficent to those whose lord he is declared to be, if at rising, he be large, of glossy rays and in his natural state, if no portentous thunder, meteors, dust or planetary conflict annoy him, and when he is posited in his own house, has reached his exaltation point and is aspected by benefics.
बृहत्संहितायाम् [XVI. 41-42.-XVII 1. अभिहितविपरीतलक्षणे क्षयमुपगच्छति तत्परिग्रहः । डमरभयगदातुराजना नरपतयश्च भवन्ति दुःखिताः ॥४१॥ यदि न रिपुकृतं भयं नृपाणां स्वसुतकृतं नियमादमात्यजं वा । भवति जनपदस्य चाप्यवृष्ट्या गमनमपूर्वपुराद्रिनिम्नगासु ॥४२॥ तथा च गर्गः । स्निग्धरश्मिविशालश्च प्रकृतिस्थश्च यो ग्रहः । ग्रहयुद्धरजोधूमनिर्घातोल्काद्यनाहतः ॥ स यदा स्वोच्चराशिस्यो मित्रभे स्वगृहेऽपि वा । स्थितः शुभग्रहैर्दृष्टः स पुष्णाति परिग्रहम् ॥ स्वमन्यथा हन्ति वर्गं जननाशं करोति च । नृपाणां भयदः प्रोक्तस्त्ववृष्टिभयकारकः ॥ ग्रहयुद्धाध्यायः ॥१७॥ युद्धं यथा यदा वा भविष्यमादिश्यते त्रिकालज्ञैः । तद्विज्ञानं करणे मया कृतं सूर्यसिद्धान्तात् ॥१॥
Adh. XVII. Sl. 2-3.] सप्तदशोऽध्यायः 185 know the past, present and future has been explained by me in the (astronomical treatise, viz.) Pancha Siddhantika on the lines of the Suryasiddhanta. वियति चरतां ग्रहाणामुपुर्य्युपर्यात्ममार्गसंस्थानाम् । अतिदूराद्दृग्विषये समतामिव सम्प्रयातानाम् ॥२॥ आसन्नक्रमयोगाद्भेदोल्लेखांशुमर्दनासव्यैः । युद्धं चतुष्प्रकारं पराशराद्यैर्मुनिभिरुक्तम् ॥३॥ Slokas 2-3.—The planets move in the firmament with their orbits lying one over another, but, owing to the great distance, they appear to our eyest o move on one even surface. According to the degree of their (seeming) approachment, there are four kinds of conflicts as stated by Parasara and other sages, viz. भेद-Bheda (occulta- tion, cleaving), उल्लेख-Ullekha (grazing), अंशुमर्दन-Amsu- mardana (clashing of the rays) and अपसव्य-Apasavya (passing southward) तथा च पराशरः। भेदनमारोहणमुल्लेखनं रश्मिसंसर्गश्चेति। ग्रहयुद्धं चतुर्विधमाचक्षते कुशलाः। तेषां पूर्वात्पूर्वो गरीयान्। तथा च गर्गः। छादनं रोधनं चैव रश्मिमर्दस्तथैव च। अपसव्यं ग्रहाणां च चतुर्धा युद्धमुच्यते ॥ तथा च काश्यपः । सर्वग्रहेभ्यः शीघ्रेन्दुस्ततस्तस्यैव चारुजः । भार्गवो रविभौमौ च जीवो मन्दः शनैश्चरः ॥ शीघ्रगा मन्दगांश्चेति काले त्वेकक्षैगामिनः । ततो योगो भवेदेषां यतोऽङ्गारथैकमाश्रिताः ॥ उपर्युपरि संस्थास्ते दृश्यन्ते युगपद्स्थिताः । भेदोल्लेखांशुमर्दांश्चापसव्यश्च तथापरः ॥ चतुष्प्रकारः संयोगो ज्ञेये तु दिविचारिणाम् । बृ. सं. 24
186 बृहत्संहितायाम् [Adh. XVII. Sl. 4-5 Utpala writes thus : यत्र ग्रहद्वयमप्येकबिम्बमिव लक्ष्यते स भेदः । अधःस्थेनोर्ध्वस्थश्छाद्यते इति यावत् यत्र ग्रहस्य ग्रहेण बिम्बपरिधिसंस्पर्शः क्रियते स उल्लेखः । अंशवो रश्मयस्तेषामंशूनां किरणानां परस्परं मर्दनै । भेदो- ल्लेखव्यतिरेकेणासन्नयोर्द्वयोर्ग्रहयोः परस्परं रश्मयः संयुक्ता विहन्यमाना इव लक्ष्यन्ते तदंशुमर्दनम् । "The Apasavyam or Asavyam Yuddham takes place when the interval is somewhat less than a degree; at a greater interval there is no conflict at all." Dr. Kern. भेदे वृष्टिविनाशो भेदः सुहृदां महाकुलानां च । उल्लेखे शस्त्रभयं मन्त्रिविरोधः प्रियान्नत्वम् ॥४॥ अंशुविरोधे युद्धानि भूभृतां शस्त्ररुक्क्षुदवमर्दः । युद्धे चाप्यपसव्ये भवन्ति युद्धानि भूपानाम् ॥५॥ Slokas 4-5.—At the occurrence of an occultation, rains will fail and discord will prevail among friends and powerful families. When planets graze each other, there is danger from the sword, dissensions among royal coun- cillors and dearth of food. At a clashing of the rays, there will be war between kings and desolation by sword, disease and famine. At the अपसव्य-Apasavya conflict, their will be hostile encounters between monarchs. Utpala says : अपसव्यः प्रदक्षिण उच्यते । समं कृत्वा दक्षिणोत्तरा- वस्थानमपसव्यमुच्यते । आचार्येण चन्द्रग्रहसमागमे अपसव्यलक्षणं कृतं । शशिनि फलमुदक्स्थ इत्यादि । (XVIII-8 infra.) Dr. Kern adds—"This is not difficult to understand, for the Moon leav- ing, in her eastward course, a planet or star at her own right (i. e. standing north from the planet or star), may be said to make a pradakshina ; standing to the south, i. e., leaving a planet or star at her left, she makes an apasavya. Thus Apasavya means ''from the left, at the left,'' and, in a special appli- cation, ''at the south side ;'' but from this, it does not necessarily follow that apasavya originally was simply the opposite of Savya, ''left ''. Yet it cannot be doubted that they have taken apasavya as the reverse of Savya, or, in other words, that apa was understood to mean, not ''from the side,'' but ''not ; '' therefore asavya was considered to be simply synonymous with apasavya. Moreover, Savya has got the meaning of ''right,'' precisely the reverse of its most common acceptation, vis, ''left.''
Adh. XVII. Sl. 6-8] सप्तदशोऽध्यायः 187 Not to be confounded with this acceptation of Savya is its use in augury. Applied to augural birds, etc., Savya is strictly and properly "left," but as birds first appearing from the left of the observer move in the direction of his right, and keep him at their own right, savya, "left," and pradakshina, "moving to the right," imply the same, without being the same. Utpala remarks; सर्वे एव शकुनादयो यातुर्वामपार्श्वादग्रत आगत्य दक्षिणपार्श्वेनाक्रामन्ति यत् तत्प्रदक्षिणं सव्यञ्च । एतद्विपरीतं दक्षिणपार्श्वाद्व्वामपार्श्वेगमनं यत्तदपसव्यम्। In astronomical works, Savya "moving (revolving) toward the right" and Apasavya "moving toward the left, is common enough; e. g. Surya Siddha- nta xii—55; Siddhanta Siromani, Goladhyaya 3—51, Arya Bhatiya IV—16. रविराक्रन्दो मध्ये पौरः पूर्वेऽपरे स्थितो यायी । पौरा बुधगुरुरविजा नित्यं शीतांशुराक्रन्दः ॥६॥ केतुकुजराहुशुक्रा यायिन एते हता ग्रहा हन्युः । आक्रन्दयायिपौरान् जयिनो जयदाः स्ववर्गस्य ॥७॥ Slokas 6-7—The Sun when standing in the meridian is called आक्रन्द-Akranda, i. e., an ally coming to the rescue; when in the east, he is a पौर-Paura, i. e., a king staying in town; in the west, he is a यायी-Yayee, a king who marches off. Mercury, Jupiter and Saturn are always Pauras, while the Moon is always Akranda. Ketu, Mars, Rahu and Venus are marching planets.. All the planets known as the Akranda, Yayee, and Paura when hurt, will destroy severally kings coming to the rescue, marching and staying in town. In the case of their being victorious, they bestow victory on their own class of kings. पौरे पौरेण हते पौराः पौरान् नृपान्विनिघ्नन्ति । एवं याय्याक्रन्दा नागरयायिग्रहाश्चैव ॥८॥ Sloka 8.—When a पौर-Paura planet is overpowered by another of the same description, kings keeping the town will kill others in the same predicament. The same
188 बृहत्संहितायाम् [Adh. XVII. Sl. 9-10. applies to यायि and आक्रन्द planets and kings. In case of a conflict between पौर and यायि planets, that which is victorious will bestow victory on its own class of kings. दक्षिणदिक्स्थः परुषो वेपथुरप्राप्य सन्निवृत्तोऽणुः । अधिरूढो विकृतो निष्प्रभो विवर्णश्च यः स जितः ॥९॥ Sloka 9.—A planet is defeated when he is standing south, rough, quivering, retrograding without actually coming in contact with the other, small, mounted upon, of unnatural appearance, without brilliance and colourless. Parasara adds अभिहत or struck. तथा च पराशरः। दशभिर्लक्षणैर्ग्रहं जितं विन्द्यात् विवर्णः परुषः सूक्ष्मो याम्याशामार्गस्थोऽधिरूढो निष्प्रभो विकृताऽभिहतोऽप्राप्य निवृत्तो वेपनश्च अन्यथा विजयी । तथा च गर्गः। अरश्मिलोहितः श्यामः परुषः सूक्ष्म एव च । अपसव्यगतो यश्च चक्रान्तःपतितस्तथा ॥ च्युतः स्थानाद्धतो यश्च प्रतिस्तब्धस्तथैव च । निष्प्रभो विकृतश्चापि जवेनाभिहतश्च यः ॥ अप्राप्य वा निवृत्तो यो वेपनः कृष्ण एव च । लक्षणैः सप्तदशभिर्ग्रहं विन्द्यात्पराजितम् ॥ उक्तविपरीतलक्षणसम्पन्नो जयगतो विनिर्दिश्यः । विपुलः स्निग्धो द्युतिमान् दक्षिणदिक्स्थोऽपि जययुक्तः ॥१०॥ Sloka 10.—A planet not possessing the above 'characteristics should be considered as victorious, i. e., when it is large, glossy and brilliant, even though stationed in the south. तथा च गर्गः। द्युतिमान् रश्मिसम्पन्नः प्रसन्नो रजतप्रभः । बृहद्रूपश्चरंश्चैव यः समेत्य ग्रहो भवेत् ॥ प्रभावर्णाधिको यश्च ग्रहमावृत्य तिष्ठति । तादृशं जयिनं विन्द्याद्ग्रहं ग्रहसमागमे ॥ तथा च पुलिशाचार्यः। सर्वे जयिन उदक्स्था दक्षिणदिक्स्थो जयी शुक्रः ॥
Adh. XVII. Sl. 11-14] सप्तदशोऽध्यायः 189 द्वावपि मयूखयुक्तौ विपुलौ स्निग्धौ समागमे भवतः । तत्रान्योन्यं प्रीतिर्विपरीतावात्मपक्षघ्नौ ॥११॥ Sloka 11.—When two planets at conjunction are radiant, large and glossy, they are said to be in love with each other, and the same will be the case with the parties denoted by them ; while in the contrary case they destroy those who belong to their own party. युद्धं समागमे वा यद्यव्यक्तौ स्वलक्षणैर्भवतः । भुवि भूभृतामपि तथा फलमव्यक्तं विनिर्देश्यम् ॥१२॥ Sloka 12.—If, owing to the indistinctness of the indications, it cannot be made out whether a conflict or a conjunction is taking place, the effects concerning the potentates on earth are said to be equally uncertain. युद्ध-Yudda-war is among the non-luminaries while समागम-Sama- gama is between the Moon and one of the non-luminaries. Some- times a conflict may take place without bringing out the conqueror clearly owing to both the planets being equally radiant, etc. गुरुणा जितेऽवनिसुते बाह्लीका यायिनोऽग्निवार्ताश्च । शशिजेन शूरसेनाः कलिङ्गशाल्वाश्च पीड्यन्ते ॥१३॥ सौरेणारे विजिते जयन्ति पौराः प्रजाश्च सीदन्ति । कोष्ठागारम्लेच्छक्षत्रियतपाश्च शुक्रजिते ॥१४॥ Slokas 13-14.—When Mars is defeated by Jupiter, the Bahlikas, chieftains marching off and people living by fire will be destroyed. When he is defeated by Mercury, the Surasenas, Kalingas and Salwas will suffer. When defeated by Saturn, kings staying in town will be vic- torious, but the subjects will come to grief. If he be defeated by Venus, granaries, Mlechchas and Kshatriyas will suffer.
190 बृहत्संहितायाम् [Adh. XVII. Sl. 15-20 भौमेन हते शशिजे वृक्षसरित्तापसाश्मकनरेन्द्राः । उत्तरदिक्स्थाः क्रतुदीक्षिताश्च सन्तापमायान्ति ॥१५॥ गुरुणा जिते बुधे म्लेच्छशूद्रचौरार्थयुक्तपौरजनाः । त्रैगर्तपार्व्वतीयाः पीड्यन्ते कम्पते च मही ॥१६॥ रविजेन बुधे ध्वस्ते नाविकयोधाब्जसधनगर्भिण्यः । भृगुणा जितेऽग्निकोपः सस्याम्बुदयायिविध्वंसः ॥१७॥ Slokas 15-17.—When Mercury is beaten by Mars, trees, rivers, ascetics, the Asmakas, kings, northerners, and persons performing sacrifices will suffer. When he is defeated by Jupiter, the barbarians, Sudras, thieves, rich men, citizens, Trigarthas and Parvateeyas come to grief and there will be an earthquake. If Mercury be defeated by Saturn, sailors, soldiers, aquatic products, rich men and pregnant women will suffer. When he is overcome by Venus, fires will break out and corn, clouds and marching kings will be ruined. जीवे शुक्राभिहते कुलूतगान्धारकेकया भद्राः । शाल्वा वत्सा वङ्गा गावः सस्यानि पीड्यन्ते ॥१८॥ भौमेन हते जीवे मध्यो देशो नरेश्वरा गावः । सौरेण चार्जुनायनवसातियौधेयशिबिविप्राः ॥१९॥ शशितनयेनापि जिते बृहस्पतौ म्लेच्छसत्यशस्त्रभृतः । उपयान्ति मध्यदेशश्च सङ्क्षयं यच्च भक्तिफलम् ॥२०॥ Slokas 18-20.—When Jupiter is vanquished by Venus, the Kulutas, Gandharas, Kaikayas, Madras, Salwas Vatsas, Vangas, cows and corn will be destroyed. When he is defeated by Mars, the middle country, kings and cows will suffer. When he is defeated by Saturn, the Arjunayanas, Vasathees, Yaudheyas, Sibis, and Brahmins will suffer. When by Mercury, the barbarians, truthful
Adh. XVII. Sl. 21-26] सप्तदशोऽध्यायः 191 men, swordsmen and the middle country will be ruined. This affects also those described in Adhyaya XVI— 21-25 supra. शुक्रे बृहस्पतिजिते यायी श्रेष्ठो विनाशमुपयाति । ब्रह्मक्षत्रविरोधः सलिलं च न वासवस्त्यजति ॥२१॥ कोसलकलिङ्गवङ्गा वत्सा मत्स्याश्च मध्यदेशयुताः । महतीं व्रजन्ति पीडां नपुंसकाः शूरसेनाश्च ॥२२॥ कुजविजिते भृगुतनये बलमुख्यवधो नरेन्द्रसङ्ग्रामाः । सौम्येन पार्व्वतीयाः क्षीरविनाशोऽल्पवृष्टिश्च ॥२३॥ रविजेन सिते विजिते गणमुख्याः शस्त्रजीविनः क्षत्रम् ॥ जलजाश्च निपीड्यन्ते सामान्यं भक्तिफलमन्यत् ॥२४॥ Slokas 21-24.—When Venus is defeated by Jupiter, the marching chieftain will meet with his end; discord will arise between Brahmins and Kshatriyas, and there will be no rain; the Kosalas, Kalingas, Vangas, Vatsas, Mathsyas, the middle country people, eunuchs and the Surasenas will suffer severely. When he is defeated by Mars, commandants of armies will be slain, and kings will wage war. When defeated by Mercury, the Parva- teeyas will be lost; there will be no milk-supply and rain will be scarce. When he is defeated by Saturn, foremen of corporations, military men, Kshatriyas and aquatic animals will be afflicted. Moreover, the general effect mentioned in Adhyaya XVI—26-30 will take place. असिते सितेन निहतेऽर्घवृद्धिरहिविहंगमानिनां पीडा । क्षितिजेन तङ्गणान्ध्रोड्रकाशिकाबाहीकदेशानाम् ॥२५॥ सौम्येन पराभूते मन्देऽङ्गवणिग्विहङ्गपशुनागाः । सन्ताप्यन्ते गुरुणा स्त्रीबहुला महिषकमकाश्च ॥२६॥
192 वृहत्संहितायाम् XVII. 27, XVIII. 1. Slokas 25-26.—When Saturn is subdued by Venus, prices soar up, snakes, birds, and proud men suffer. Like- wise, the Tangana, Andhra, Udra, Kasi and Bahleeka countries will come to grief when Saturn is overcome by Mars. When he is defeated by Mercury, the Angas, merchants, birds, cattle and elephants suffer ; and when defeated by Jupiter, countries where women are predomi- nating in number, the Mahishakas and Scythians will be afflicted. अयं विशेषोऽभिहितो हतानां कुजज्ञवागीशसितासितानाम् । फलं तु वाच्यं ग्रहभक्तितोऽन्यद्यथा तथा घ्नन्ति हताः स्वभक्तीः ॥ Sloka 27.—Thus have been described the special effects of the defeat of Mars, Mercury, Jupiter, Venus and Saturn. The other—viz. general—effects are to be deter- mined from the previous Adhyaya. The more any planet is stricken, the more will he ruin all that belongs to his department. तथा च पराशरः । ग्रहस्य ये यस्य हताः स्वदेशाः पीडांश्मृच्छन्ति त एव तस्य । सम्प्राप्तवीर्याश्च जये समर्था भवन्ति तस्यार्द्धिचतुष्पदाद्याः ॥ Thus ends the 17th Adhyaya on 'Planetary Conflict.' शशिग्रहसमागमाध्यायः ॥१८॥ Conjunction of the Moon with planets or stars. भानां यथासम्भवमुत्तरेण यातो ग्रहाणां यदि वा शशाङ्कः । प्रदक्षिणं तच्छुभमृक्षराणां याम्येन यातो न शिवः शशाङ्कः ॥१॥ Sloka 1.—The Moon moving (more or less) to the north of the stars or planets wherever possible, i. e., keep-
Adh. XVIII. Sl. 2-4] अष्टादशोऽध्यायः 193 ing them to her right side, augurs prosperityto mankind. If she goes in the opposite direction, it is not auspicious to them. तथा च ऋषिपुत्रः दक्षिणेनापसव्य स्यादुत्तरेण प्रदक्षिणम् । ग्रहाणां चन्द्रमा ज्ञेयो नक्षत्राणां तथैव च ॥ तथा च वृद्धगर्गः नक्षत्राणां ग्रहाणां वा यदा तूत्तरगः शशी । तत्प्रदक्षिणमित्याहुर्भवेत्क्षेमसुवृष्टये ॥ नक्षत्राणां ग्रहाणां वा यदा दक्षिणतो व्रजेत् । अपसव्यं तदेव स्यादवृष्टिभयलक्षणम् ॥ चन्द्रमा यदि कुजस्य यात्युदक्पार्वतीयबलशालिनां जयः । क्षत्रियाः प्रमुदिताः सयायिनो भूरिधान्यमुदिता वसुन्धरा ॥२॥ Sloka 2.—If the Moon moves to the north of Mars, the Parvateeyas and mighty men will be victorious ; Kshatriyas and marching kings will be cheerful and the earth will rejoice in the abundance of corn. उत्तरतः स्वसुतस्य शशाङ्कः पौरजयाय सुभिक्षकरश्च । सस्यचयं कुरुते जनहार्दि कोशचयं च नराधिपतीनाम् ॥३॥ Sloka 3.—The Moon moving to the north of Mercury brings victory to the kings in the town, confers plenty of food and corn, happiness on people, and influx of wealth to the treasuries of kings. बृहस्पतेरुत्तरगे शशाङ्के पौराद्विजक्षत्रियपण्डितानाम् । धर्मस्य देशस्य च मध्यमस्य वृद्धिः सुभिक्षं मुदिताः प्रजाश्च ॥४॥ Sloka 4.—When the Moon is to the north of Jupiter, kings guarding towns, Brahmins, Kshatriyas, scholars, righteousness and the middle country will thrive ; there will be plenty of food and the people will be happy. बृ. सं. 25
194 वृहत्संहितायाम् [Adh. XVIII. Sl. 5-8] भार्गवस्य यदि यात्युदक् शशी कोशयुक्तगजवाजिबृद्धिदः । यायिनां च विजयो धनुष्मतां सस्यसम्पदपि चोत्तमा तदा ॥५॥ Sloka 5.—When the Moon is to the north of Venus, hoarders of wealth, elephants and horses will flourish, archers and marching chiefs will conquer and the crops will be at their best. रविजस्य शशी प्रदक्षिणं कुर्याच्चेत्पुरभूभृतां जयः । शकबाह्लिकसिन्धुपह्लवा मुद्राजो यवनैः समन्विताः ॥६॥ Sloka 6.—Should the Moon move to the north of Saturn, sovereigns keeping the town would triumph, and the Scythians, Bahleekas, Sindhus, Pahlavas and Yavanas would be joyful. येषामुदग्गच्छति भग्रहाणां प्रालेयरश्मिर्निरुपद्रवश्च । तद्द्रव्यपौरैतरभक्तिदेशान् पुष्णाति याम्येन निहन्ति तानि ॥७॥ Sloka 7.—If the Moon move to the north of a star or a planet, herself remaining unhurt, she benefits the substances, kings in town or marching chiefs as the case may be, and the countries assigned to the particular star or planet. If on the other hand she moves to the south of the same, she destroys the above-mentioned belongings. शशिनि फलमुदक्स्थे यद्ग्रहस्योपदिष्टं भवति तदपसव्ये सर्वमेव प्रतीपम् । इति शशिसमवायाः कीर्तिता भग्रहाणां न खलु भवति युद्धं साकमिन्दोर्ग्रहर्क्षैः ॥८॥ Sloka 8.—All the effects announced in the case of the Moon standing north of a planet become nullified when she stands south. Thus have been described the Moon's conjunction with stars and planets. There is
Adh. XIX. ] एकोनविंशोऽध्यायः 195 absolutely no fight between the Moon on one side and a planet or a star on the other. तथाऽऽचार्यविष्णुचन्द्रः । दिवसकरेणास्तमयः समागमः शीतरश्मिसहितानाम् । कुसुतीदानां युद्धं निगद्यतेऽन्योन्ययुक्तानाम् ॥ इति ॥ यच्चोक्तमादित्यस्य जयपराजयं ते गोलवासना बाह्याः । Thus ends the 18th Adhyaya on "the Conjunction of the Moon with the Planets or Stars." ग्रहवर्षफलाध्यायः ॥१९॥ The years presided over by each of the planets and their results. Utpala has made the following remarks : कस्य ग्रहस्य कस्मिन्वर्षे कीदृशानि शुभाशुभानि फलानि भवन्तीति । यत आचार्येण पूर्वमेव प्रतिज्ञातमासीत् । पञ्चसिद्धान्तिकायाम् वर्ष यद्यस्य फलं मासे च मुनिप्रणीतमालोक्य । तत्तद्वृत्तैर्वक्ष्ये होरातन्त्रोत्तरविधाने ॥ इति- It will thus be seen that Varahamihira fulfils the promise he had made above (in the Panchasiddhantika), by 'treating of this subject in the present work. Dr. Kern remarks in his foot notes:— "It is not known which source has been chiefly used by our author in this particular instance ; thus much, however, is certain, that long before his time Greek horoscopy had been introduced into India." By मुनिप्रणीतं, Varahamihira certainly refers to Garga, Para- sara and a host of other Hindu astrologers (as he has consistently been doing in all his works. No doubt, Yavana lived before Varahamihira and that Greek astrology was not unknown in India in his time. But to say that this idea about Varsha and Masa Phalas has been introduced into India by Yavana is 'certainly in- correct as sages who lived in India ages before have freely spoken about these. It may safely be said that ancient sages of India like
196 : बृहत्संहितायाम् [Adh. XIX. Sl. 1-3 Garga, Parasara, etc., have known all about these and that Varahamihira perfected all these things in his Samhita as promised, knowing also that Yavanacharya also has known all about these. It may not be out of place to bring to the notice of the readers . that Maharshi Parasara, the father of the celebrated Vyasa, popu- larly known as वेदव्यास-Vedavyasa, existed far before the advent of Kali (कलि), that is, the fourth millennium B. C., and that for a sage of this repute, it is not correct to conclude that Parasara had to learn everything from the West. What I want to impress is that our ancient sages who were founders of the Six Angas (षडङ्ग) of the Vedas, did not require any foreign agency to put them in the way, but that they were in themselves, each a mine of knowledge. Further, to support my statement that Indian culture existed earlier than the Greeks, I quote below the following line from Raghuvamsa:—. यवनीमुखपद्मानां सेहे मधुमदं न सः ॥ सर्वत्र भूर्विरलसस्ययुता वनानि दैवाद्धिभक्षयिषुदंष्ट्रिसमावृतानि । नद्यश्च नैव हि पयः प्रचुरं स्रवन्ति रुग्भेषजानि न तथातिबलान्वितानि ॥१॥ तीक्ष्णं तपत्यदितिजः शिशिरेऽपि काले नात्यम्बुदा जलमुचोऽचलसन्निकाशाः । नष्टप्रभर्क्षगणशीतकरं नभश्च सीदन्ति तापसकुलानि सगोकुलानि ॥२॥ हस्त्यश्वपत्तिम्मदसद्मबलैरुपैता बाणासनासिमुशलातिशयाश्चरन्ति । घ्नन्तो नृपा युधि नृपानुचरैश्च देशान् संवत्सरे दिनकरस्य दिनेऽथ मासे ॥३॥ Slokas 1-3.—The state of things in a year, month or day presided over by the Sun will be as follows : every- where, the earth is covered with very little crop, the
Adh. XIX. Sl. 4-5. ] एकोनविंशोऽध्यायः 197 forests are infested with voracious tusked animals as a visitation ; very little water flows in the rivers ; medicines do not show their usual potency. Even in winter, the Sun burns scorchingly ; clouds, though big as mountains, do not pour forth sufficient rain. The Moon and the cluster of stars in the sky lose their brilliance. Groups of hermits and cattle languish. Monarchs with irresistible forces consisting of elephants, horses and foot- soldiers, with their followers and with an excellent arma- ment of bows, swords and clubs go about destroying the lands by war. तथा च यवनेश्वरः । अब्दाश्रयं लक्षणमीरितं यद्ग्रहस्वभावप्रभवं जनानाम् । तदेव तन्मासदिनर्तुषूक्तं तदीशसंस्थानविकल्पितं च ॥ दिवाकराब्दे रणविग्रहोऽग्रः क्षितीश्वरस्तीव्रविषज्वराग्निः । अवर्षशुष्कद्रुमशुष्कसस्यप्रचण्डवन्ह्युग्रविषाक्षिरोगाः ॥ तथा च समाससंहितायाम् । तीक्ष्णोऽर्कः स्वल्पसस्यश्च गतमेघोऽतितस्करः । बहूरगव्याधिगणो भास्कराब्दो रणाकुलः ॥ व्याप्तं नभः प्रचलिताचलसन्निकाशै- र्व्यालाञ्जनालिगवलच्छविभिः पयोदैः । गां पूरयद्भिरखिलाममलाभिरद्भि- रुत्कण्ठकेन गुरुणा ध्वनितेन चाशाः ॥४॥ तोयानि पद्मकुमुदोत्पलवन्त्यतीव फुल्लद्रुमाण्युपवनान्यलिनादितानि । गावः प्रभूतपयसो नयनाभिरामा रामा रतैरविरतं रमयन्ति रामान् ॥५॥ गोधूमशालियवधान्यवरेक्षुवाटा भूः पाल्यते नृपतिभिर्नगरात्कराढ्या ।