दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
तृतीयोच्छ्वासः ] बालबोधिनीव्याख्यासहितम् । २३७ (२१) सा च सुभ्रूः सुषीमकामा शनैरुपेत्य तत्र मामदृष्ट्वा बलवद- व्यथिष्ट । व्यसृजच्च मत्तराजहंसीव कण्ठरागवल्गुगद्गदां गिरम्—'व्यक्त- मस्मि विप्रलब्धा । नास्त्युपायः प्राणितुम् । अयि हृदय, किमिदमकार्यं कार्यवदध्यवसाय तदसम्भवेन किमेवमुत्ताम्यसि । भगवन् पञ्चबाण, कस्तवापराधः कृतो मया यदेवं दहसि; न च भस्मीकरोषि' इति । (२२) अथाहमाविर्भूय विवृतदीपभाजनः 'भामिनि, ननु बह्वपराधं
(२१) सा कल्पसुन्दरी । सुषीमकामा सुषीमं शिशिरं कामयते या तथा शैत्यार्थिनी । शनैर्मन्दम् । तत्र संकेतागारे । मामुपहारवर्माणमित्यर्थः । बलवत् सातिशयम् । अभ्यथिष्ट-पीडिताऽभवत् । कण्ठेति-कण्ठरागेण कण्ठस्वरेण वल्गुः सुन्दरो गद्गदोऽस्पष्टभाषणं यस्यां तादृशीम् । गिरं व्यसृजत् उक्तवती । व्यक्तं स्फुटम् । विप्रलब्धा-प्रतारिता । प्राणितुं-जीवितुम् । अयि हृदयेति स्वहृदयं सम्बोध्य ब्रवीति । किमिदं किं प्रक्रान्तं त्वयेत्यर्थः । अकार्यम् अकरणीयम् । कार्यवत् कार्येण तुल्यम् अध्यवसाय निश्चित्य । तदसंभवेन-कार्यासंभवेन किं कथम् । एवं एवं प्रका- रण । उत्ताम्यसि-खिद्यसे । तव-तव सकाशे । दहसि-तापयसि । भस्मीकरोषि भस्म- सात्करोषि-प्राणानापहरसीति एतादृशात् तापात्मृत्युरपि श्रेयानिति भावः । (२२) अथ कल्पसुन्दरीपरिदेवनानन्तरम् । अहम् उपहारवर्मा । आविर्भूय— कल्पसुन्दर्याः पुरः प्रकटीभूय विवृतदीपभाजनः समुद्घाटितप्रदीपसंपुटकः । भामिनि
(२१) वह सुन्दर भौंहवाली कल्पसुन्दरी धीरे-धीरे उस गर्भागार में शीतलता की अभिलाषा से आयी और उस संकेतस्थल में मुझे न देख कर के अतिशय पीड़ित हुई । उन्मत्तावस्थाको प्राप्त राजहंसी के सदृश कण्ठस्वर से सुन्दर अस्फुट वाणी से कहने लगी । हन्त ! मैं निश्चय ही स्पष्ट रीति से प्रतारित हुई । अब जीवन रहनेका कोई साधन नहीं मालूम पड़ता है । ( अपने चित्तको सम्बोधित करती हुई कहने लगी—)'हे चित्त ! तुमने इस अकरणीय कार्य में करणीय कार्य के समान निश्चय करके मुझे प्रवृत्त कराया और उसके असम्भव होनेपर ( असिद्ध होनेपर ) मुझे क्यों ताप दे रहे हो । हे भगवन् ! हे पञ्चबाण !! आपका मैंने कौन सा अपराध किया है जो आप मुझे इस प्रकार से दह रहे हैं किन्तु भस्म नहीं करते हैं।' ( हा ! ऐसे दुःख से तो मृत्यु अच्छी होती है ।) (२२) कल्पसुन्दरीकी ऐसी वेदनाओंके सुनने के अनन्तर मैं (उपहारवर्मा) उस गर्भागारसे प्रकट हो गया । और प्रदीपसम्पुटको समुद्घाटित करके उस कल्पसुन्दरीसे बोला—'हे कोपने ! आपके द्वारा कामदेवके अनेक अपराध किये गये हैं । देखिये, आपको
२६८ दशकुमारचरितम् । [ उत्तरपीठिकायां
२६८ दशकुमारचरितम् । [ उत्तरपीठिकायां भवत्या चित्तजन्मनो यदमुष्य जीवितभूता रतिराकृत्या कदर्शिता, धनु- र्यष्टिर्भ्रूलताभ्याम्, भ्रमरमालामयी ज्या नीलाअलकद्युतिभिः, अस्त्राण्यपा- ङ्गवीक्षितवृष्टिभिः, महारजनध्वजपटांशुकं दन्तच्छदमयूखजालैः, प्रथमसु- हृन्मलयमारुतः परिमलपटीयसा निःश्वासपवनेन, परभृतमतिसञ्जलैः प्र- लापैः, पुष्पमयी पताका भुजयष्टिभ्याम्, दिग्विजययारम्भपूर्णकुम्भमिथुन- मुरोजकुम्भयुगलेन, क्रीडासरो नाभिमण्डलेन, संनाह्यरथः श्रोणिमण्डलेन, कोपने । सम्बोधनमेतत् । बहु-अत्यन्तम् । भवत्या-त्वया । चित्तजन्मनः कामस्य । यद् यतः। अमुष्य-कामस्य । जीवितभूता प्राणस्वरूपा । रतिः स्वपत्नी । आकृत्या आकारेण, स्वशरीरसौन्दर्येण । कदर्शिता-तिरस्कृता । धनुर्यष्टिर्धनुर्लता-अमुष्येति सर्वत्र सम्बध्यते । भ्रूलताभ्यां स्वध्रुवल्लीभ्याम्-कदर्शितेति च सर्वत्र सम्बध्यते । भ्रमरमालामयी-भ्रमरपङ्क्तिरूपा । ज्या मौर्वी । नीलाअलकद्युतिभिः-स्वकृष्णकुन्त- लकान्तिभिः । अस्त्राणि बाणाः । कदर्शितानीति विभक्तिपरिणामेनात्रान्यत्राप्य- न्वयः। अपाङ्गवीक्षितवृष्टिभिः-कटाक्षपातैः । 'भिन्नं स्यादस्य वाणैर्युवजनहृदयं स्त्रीकटाक्षेण तद्विदि'ति कविसमयप्रसिद्धेः । महारजनेति-महारजनं कुसुम्भं तेन रञ्जितो ध्वजपटः पताकावस्त्रं तस्य अंशुरेवांशुकम् प्रभेति यावत् । 'स्यात्कुसुम्भं वह्निशिखं महारजनमित्यपी'त्यमरः । दन्तच्छदमयूखजालैः-ओष्ठाधरकिरणपटलैः । प्रथमसुहृत् कामस्य प्रधानमित्रम् । मलयवायुः दक्षिणपवनः परिमलेति परिमलेन सौरभेण पटीयान् समर्थतरः-मलयानिलतिरस्कारक्षम इत्यर्थः । परभृतं-कोकिलम् अतिमञ्जुलैरतिमनेहरैः । प्रलापैः कण्ठध्वनिभिः । भुजयष्टिभ्यां बाहुलत्ताभ्याम् । दिग्विजययेति-दिग्विजययारम्भे विजययात्रायां मङ्गलसूचकं पूर्णघटयुगलम् । उरोज- कुम्भयुगलेन-स्तनकलशयुग्मेन । क्रीडासरः-लीलासरोवरम् । संनाह्यरथः-युद्धार्थं आकृतिके सौन्दर्यके द्वारा कामप्रिया रति तिरस्कृत की गयी है। आपकी भ्रुकुटियोंकी लताओंके द्वारा कामधनुष तिरस्कृत किया गया है। आपके काले एवं चमकीले केशकला- पोंके द्वारा कामकी भौरोंकी श्रेणियोंवाली प्रत्यञ्चा अनादृत की गयी है। आपके कटाक्षोंकी पाँतोंसे काम-बाण अनादृत किये गये हैं। आपके ओष्ठाधरके पटलोंके द्वारा कामकी कुसुम्भी पताकाकी कान्ति तिरस्कृत की गयी है। आपके निःश्वासोंके पवनके द्वारा कामदेवका प्रधान मित्र मलयानिल दक्षिणपवन अनादृत किया गया है। आपकी कण्ठध्वनिके द्वारा अतिमनोहर कोकिल हराया गया है। आपकी बाहुवल्लियोंके द्वारा कामकी फूलोंके द्वारा गुम्फित ध्वजा तिरस्कृत की गयी है। आपके दोनों स्तनकलशोंके द्वारा कामकी विजय यात्राके मंगलसूचक दोनों पूर्ण कलश पराभूत किये गये हैं। आपकी गम्भीर नाभिके
तृतीयोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । २३६ भवनरत्नतोरणस्तम्भयुगलमूरुयुगलेन, लीलाकर्णकिसलयं चरणतलप्र- भाभिः । अतः स्थान एव त्वां दुनोति मीनकेतुः । मां पुनरनपरा- धमधिकमायासयतीत्येष एव तस्य दोषः । तत्प्रसीद सुन्दरि, जीवय मां जीवनौषधिभिरिवापाङ्गैरनङ्गभुजङ्गदष्टम्' इत्याश्लिष्टवान् । ( २३ ) अरीरमं चानङ्गरागपेशलविशाललोचनाम् । अवसितार्थां चारक्तवलितेक्षणामीषत्स्वेदरेखोद्भेदजर्जरितकपोलमूलामनर्गलकलप्र- सज्जीकृतस्यन्दनम् । श्रोणिमण्डलेन-नितम्बयुग्मेन । भवनेति-भवनस्य गृहस्य रत्न- निर्मितौ यौ तोरणस्तम्भौ बहिर्द्वारस्तम्भौ तयोर्युगलम् । लीलेति-लीलार्थं विला- सार्थं यत् कर्णकिसलयं कर्णपल्लवम् । अतः-अस्माद्धेतोः-यतो भवदीयैराकृत्यादिभिः कामसम्बन्धिनो रथादयस्तिरस्कृता इत्यर्थः । स्थाने युक्तम् । त्वां भवतीं कल्प- सुन्दरीम् । दुनोति तापयति । मीनकेतुः-कामः । आयासयति-पीडयति । तस्य कामस्य । जीवनौषधिभिः-जीवनोपायभूतैः अपाङ्गैः कटाक्षविक्षेपैः । अनङ्गेति-अनङ्गः काम एव भुजङ्गः सर्पस्तेन दष्टम् । मामिति शेषः । इति-इति उक्त्वा । आश्लिष्टवान् तामालिङ्गितवानहमिति शेषः । ( २३ ) अरीरमं-रमितवान् । रमु क्रीडायामित्यस्य धातोर्णिजन्ताल्लुङ । अनङ्गेति-अनङ्गरागेण कामरागेण पेशले मनोरमे विशाले विस्तृते लोचने यस्या- स्ताम् । अवसितार्थां समाप्तरमणाम् । आरक्तेति-आरक्तं ईषद्रक्तं समन्ताद्रक्तं वा वलितं वक्रितमीक्षणं दृष्टिर्यस्तास्ताम् । ईषदिति-ईषत्स्वेदरेखायाः स्वल्पघर्मराजेः उद्भेदेन निर्गमेण जर्जरितं क्लिष्टं कपोलमूलं गण्डमूलं यस्यास्ताम् । अनर्गलकल- मण्डलके द्वारा काम का लीलासरोवर तिरस्कृत किया गया है । आपके दोनो नितम्बा- के द्वारा कामदेवके युद्धका सुसज्जित रथ अनादृत हो गया है । आपकी दोनों जांघोंके द्वारा कामके भवनके रत्ननिर्मित तोरणके दोनों खम्भे तिरस्कृत किये गये हैं । आपके चरण- तलोकी प्रभाके द्वारा कामके विलासार्थ कर्णपल्लव पराजित किये गये हैं । अत एव कामदेव आपको ठीक ही सन्तापित कर रहा है । किन्तु, मुझ निरपराधीको जो वह कामदेव अधिक व्यथित कर रहा है-यही उसका अपराध है । इसलिए हे सुन्दरि ! मेरे ऊपर कृपा कीजिये । मेरे जीवनोपायभूत अपने कटाक्षोंके विक्षेपोंके द्वारा कामदेवरूपी सर्पके द्वारा काटे हुए मुझको जिलाइये । इस प्रकार कहते हुए मैंने उस कल्पसुन्दरीको आलिंगित कर लिया । ( २३ ) कामके रागसे जिसके बड़े-बड़े नेत्र मनोहर लग रहे थे उस कल्पसुन्दरीके साथ मैंने रमण किया । रमणसमाप्तिके अनन्तर वह रमणी मुझे लाल-लाल तिरछे नेत्रोंसे देखने लगी । रमणके पश्चात् उसके कपोलके मूलभाग ( गण्डप्रदेश ) से कुछ Nepal Sanskrit University, Balmeeki Campus, Kathmandu
२४० दशकुमारचरितम् । [ उत्तरपीठिकायां
२४० दशकुमारचरितम् । [ उत्तरपीठिकायां लापिनीमरुणदशनकररुहार्पणव्यतिकरामत्यर्थपरिश्लथाङ्गीमार्तामिव लक्ष- यित्वा मानसीं शारीरीं च धारणां शिथिलयन्नात्मानमपि तया समानार्थ- मापादयम् । तत्क्षणविमुक्तसङ्गतौ रतावसानिकं विधिमनुभवन्तौ चिरपरि- चिताविवातिगूढविश्रम्भौ क्षणमवातिष्ठावहि । पुनरहमुष्णमायतं च निः- श्वस्य किञ्चिद्दीनदृष्टिः सचकितप्रसारिताभ्यां भुजाभ्यामेनामनतिपीडं परि- कलप्रलापिनीम् निरन्तराव्यक्तध्वनिप्रलपनशीलाम् । अरुणेति-अरुणो रक्तो दश- नानां दन्तानां कररुहाणां नखानाञ्चार्पणेन दानेन तज्जनितक्षतेनेत्यर्थः, व्यतिकरः सम्बन्धो यस्यास्ताम् । अत्यर्थपरिश्लथाङ्गीं-अतिशिथिलावयवाम् । आर्त्तां क्लान्ता- म् । लक्षयित्वा निरूप्य । मानसीधारणा चित्तावेशरूपा, शारीरीधारणा स्थैर्यरूपा तामुभयविधां धारणामित्यर्थः । शिथिलयन् श्लथयन् । तया कल्पसुन्दर्या । समा- नार्थं तुल्यप्रयोजनमार्त्तिमित्यर्थः । सम्पादयम्-अकरवम् । तत्क्षणविमुक्तसङ्गतौ- तस्मिन् क्षणे समये विमुक्तं त्यक्तं संगतमाश्लेषो याभ्यां तौ । त्यक्तालिङ्गनव्या- पारावित्यर्थः । रतावसानिकं-सुरतसमाप्त्युचितम् । विधिं-व्यापारम् । चिरपरिचि- तेति-चिरपरिचितौ यथा विश्रम्भं भजतस्तद्वत् । अतिगूढविश्रम्भौ-अत्यन्तगुप्त- विश्वासौ । अवातिष्ठावहि-अवस्थितावावामिति शेषः । अहमुपहारवर्मेत्यर्थः । दीनदृष्टिः दैन्यपूर्णनयनः । सचकितप्रसारिताभ्यां-सशङ्कविस्तृताभ्याम् । एनां- कल्पसुन्दरीम् । अनतिपीडं-शिथिलं मन्दमिति यावत् । नातिविशदम्-नातिस्प पसीना बहने लगा। वह उस समय कुछ अस्फुट ध्वनि करने लगी। वह कल्पसुन्दरी उस समय अपने अरुण दाँतों तथा नाखूनोंके (नोंच-कचोट आदि) रतिव्यापारोंसे मुझे विभूषित करने लगी। रतिव्यापारके द्वारा अत्यन्त शिथिल शरीरवाली और क्लेशित उस कल्पसुन्दरीको मैने देखा। देख करके मेरी चित्तावेशरूपा धारणा तथा स्थैर्यरूपा धारणा शिथिल पड़ गयी। (मैं भी उसी कल्पसुन्दरीके समान कामदेवके सिद्ध मनोरथरूप रतिसे कृतकृत्य हो गया। जैसे वात्स्यायन ऋषिके शास्त्रानुसार स्त्री-मनोरथ पूर्ण होनेपर पुरुष भी तद्वत् हो जाते हैं। वैसे ही मैं भी उस समय हो गया।) मैने भी अपनेको उसी कल्पसुन्दरीके सदृश सम्पादित कर लिया। रतिके पश्चात् उस समय हम लोग आलिंगन त्याग करके रतिके अनन्तर जो उचित व्यापार होते हैं उनको अनुभव करने लगे। बहुत कालसे परिचित व्यक्तिके समान अत्यन्त गुप्त विश्वासी हो करके कुछ क्षणोंतक हम दोनों वहाँ बैठे रहे। पुनः मैने गरम औ लंबी सांस लेकर कुछ दैन्य दृष्टिके साथ, विस्मयके साथ भुजाओंको फैला करके उस कल्पसुन्दरीका शिथिलता और और धीरताके साथ आलिंगन किया तथा धीरेसे चुम्बन भी लिया। आँखोंमें आँसू भर कर उस कल्पसुन्दरीने मुझसे कहा कि 'हे नाथ ! यदि आप जाना चाहते हैं तो
तृतीयोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । २४१ ष्बज्य नातिविशदमचुम्बिषम् । अश्रुमुखी तु सा 'यदि प्रयासि नाथ, प्रयातमेव मे जीवितं गणय । नय मामपि। न चेदसौ दासजनो निष्प्रयो- जनः' इत्यञ्जलिमवतंसतामनैषीत् । ( २४ ) अवादिषं च ताम्—'अयि मुग्धे, कः सचेतनः स्त्रियमभि- कामयमानां नाभिनन्दति । यदि मदनुग्रहनिश्चलस्तवाभिसन्धिराचरावि- चारं मदुपदिष्टम् । आदर्शय रहसि-राज्ञे मत्सादृश्यगर्भं चित्रपटम् । आचक्ष्व च किमियमाकृतिः पुरुषसौन्दर्यस्य पारमारूढा न वा' इति । 'बाढमारूढा' इति नूनमसौ वक्ष्यति । ब्रूहि भूयः—'यद्येवम्, अस्ति कापि ष्म् । अचुम्बिषम् चुम्बितवान् । अश्रुमुखी-सवाष्पा-सा-कल्पसुन्दरी । प्रयातमेव- गतमेव । गणय जानीहि । तव गमनेन ममापि प्राणा बहिर्गमिष्यन्तीति भावः । असौ दासजनः अहमित्यर्थः । निष्प्रयोजनः निरर्थकः । अवतंसतां शिरोभूषणताम् । मस्तके अञ्जलिमवध्नादित्यर्थः । ( २४ ) तां कल्पसुन्दरीम् । सचेतनः-चेतनावान् पुरुषः । अभिकामयमा- नाम्-अभिलषन्तीम् । अभिनन्दति स्तौति आकाङ्क्षतीत्यर्थः । मदनुग्रहनिश्चलः मदनुग्रहे मामनुग्रहीतुं निश्चलः स्थिरः । अभिसन्धिरभिप्रायः । आचर-कुरु । अविचारं विना विचारेण । मदुपदिष्टं मदुक्तम् । आदर्शय-संदर्शय । राज्ञे-विक- टवर्मणे । मत्सादृश्यगर्भं-मत्सदृशरूपवन्तम् । इयं-चित्रपटस्थिता । पुरुषसौन्द- र्यस्य पुरुषे यत्सौन्दर्यं सम्भवति तस्य । पारं-पराकाष्ठाम् । आरूढा-प्राप्ता । बाढं-निश्चयेन । असौ-विकटवर्मा । यद्येवं-इयमाकृतिः सौन्दर्यस्य परां काष्ठां आप यह भी समझिये कि आपके जानेके साथ ही मेरे प्राण भी चले जायेंगे । मुझे भी अपने साथ ही लेते चलिये । नहीं तो इस दासी कल्पसुन्दरीको निष्प्रयोजन ( मृत ) ही समझियेगा' । ऐसा कह कर उस कल्पसुन्दरीने अपनी अञ्जलिको अपना शिरोभूषण बना लिया । ( २४ ) मैने उस कल्पसुन्दरीसे कहा—'हे मुग्धे ! कौन-सा ऐसा चेतनावान् पुरुष होगा जो अपने ऊपर अनुराग करनेवाली रमणीकी आकांक्षा न करेगा । यदि मेरे विषयमें आपका अनुग्रह स्थिर है एवं आपके अभिप्राय दृढ हैं तो आप शंका त्याग करके मेरे कथनानुसार आचरण करें । एकान्तमें आप राजाको, मेरे समानरूपवाले इस मेरे चित्रको दिखावें । और उस राजासे कहें क्या इस चित्रगत पुरुषके सौन्दर्यने अन्य पुरुषोंके सौन्दर्यको नहीं पार कर लिया है ? ऐसा पूछे जानेपर वह राजा अवश्य ही कहेगा कि अवश्य ही इस आकृतिने सौन्दर्यका अतिक्रमण किया है । तब आप उस Nepal Sanskrit University, Balmeeki Campus, Kathmandu
२४२ | दशकुमारचरितम् । | [ उत्तरपीठिकायां
CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF
२४२ | दशकुमारचरितम् । | [ उत्तरपीठिकायां
तापसी देशान्तरभ्रमणलब्धप्रागल्भ्या मम च मातृभूता । तयेदमालेख्य- रूपं पुरस्कृत्याहमुक्ता—‘सोऽस्ति तादृशो मन्त्रो येन त्वमुपोषिता पर्वणि विविक्तायां भूमौ पुरोहितैर्हुतमुक्ते सप्तार्चिषि नक्तमेकाकिनी शतं चन्दन- समिधः, शतमगुरुसमिधः, कर्पूरमुष्टीः, पट्टवस्त्राणि च प्रभूतानि हुत्वा भविष्यस्येवमाकृतिः । ( २५ ) अथ चालयिष्यसि घण्टाम् । घण्टापुटकणिताहूतश्च भर्ता ते भवत्यै सर्वरहस्यमाख्याय निमीलिताक्षो यदि त्वामालिङ्गेत, इयमाकृतिर- प्राप्ता चेदित्यर्थः । देशान्तरेति-देशान्तराणां अनेकदेशानां भ्रमणेन गमनेन लब्धं प्राप्तं प्रागल्भ्यं पटुत्वं अभिज्ञतेति यावद् यया सा । मातृभूता मातृस्वरूपा । तया-तापस्या । आलेख्यरूपं-चित्रसौन्दर्यम् । पुरस्कृत्य-विषयीकृत्य-अग्रे संस्था- प्येति वा । तादृशः-प्रभावसम्पन्नः । येन-मन्त्रेण । उपोषिता-निराहारा । पर्वणि- अमावास्यादौ । विविक्तायां-पवित्रायाम् । निर्जनायां वा । हुतमुक्ते-आदौ हुतः पश्चान्मुक्तस्तस्मिन् । सप्तार्चिषि-अग्नौ । नक्तं-रात्रौ । चन्दनसमिधः चन्दन- काष्ठानि । अगुरुसमिधः अगुरुकाष्ठानि । कर्पूरमुष्टीः-कर्पूरचूर्णानि । पट्टवस्त्राणि- कौषेयवसनानि । एवमाकृतिः-एवमेतादृशी आकृतिर्यस्याः सा । ( २५) अथ-तादृशाकृतिप्राप्त्यनन्तरम् । चालयिष्यसि-वादयिष्यसि । घण्टां- वाद्यविशेषम् । घण्टापुटेति-घण्टापुटस्य कणितेन प्रतिशब्देनाहूत आकारितः । भर्ता-तव पतिः । भवत्यै तव समीप इत्यर्थः । सर्वरहस्यं गुप्तविषयान् । आख्याय- कथयित्वा । निमीलिताक्षः-मुद्रितनेत्रः । त्वां-भवतीं कल्पसुन्दरीमिति यावत् ।
नृपतिसे फिर से कहें—'यदि ऐसा है तो कोई एक तपस्याशीला साध्वी है जिसने अनेक देश-देशान्तरोंमें पर्यटन करके पटुता प्राप्त की है तथा वह साध्वी मेरी माताके सदृश भी है। उसी साध्वीने यह चित्रपट मेरे सम्मुख रख करके कहा है—'मेरे पास एक ऐसा मन्त्र है जिसके द्वारा आप निराहार हो करके अमावास्याकी तिथिमें किसी निर्जन भूमिमें पुरोहितोंके द्वारा हवन करावें और उस हवनकी शेष अग्निमें रातके समय अकेली आकर एक सौ चन्दनकी लकड़ी, एक सौ अगुरुकी लकड़ी तथा कर्पूरके चूर्णसे एवं रेशमी वस्त्रोंसे प्रचुरमात्रामें हवन करेंगी तो आप भी इसी प्रकारकी आकृति- वाली हो जायँगी । ( २५ ) इसके पश्चात् घंटा बजा देंगी और घंटाके शब्दोंको श्रवण करके आपके पतिदेव आ करके अपने सभी गुप्तभेदोंको सुना करके यदि आँखें बन्द करके आपका आलिङ्गन करेंगे तो वे भी इसी चित्रपटकी आकृतिके समान हो जायंगे । और आपकी
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
तृतीयोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । २४३ मुमुपसंक्रामेत् । त्वं तु अविष्यसि यथापुराकारैव यदि भवत्यै भवत्प्रियाय चैवं रोचेत, न चास्मिन्विधौ विसंवादः कार्यः' इति । 'वपुश्चेदिदं तवा- भिमतं सह सुहृन्मन्त्रिभिरनुजैः पौरजानपदैश्च संप्रधार्य तेषामप्यनुमते कर्मण्यभिमुखेन स्थेयम्' इति । ( २६ ) स नियतमभ्युपैष्यति । पुनरस्यामेव प्रमदवनवाटीशृङ्गाटि- कायामाथर्वाणिकेन विधिना संज्ञपितपशुनाभिहुत्य मुक्ते हिरण्यरेतसि- तद्धूमशमनेन संप्रविष्टेन मयास्मिन्नेव लतामण्डपे स्थातव्यम् । त्वं पुनः प्रगाढायां प्रदोषवेलायामालपिष्यसि कर्णे कृतनर्मस्मिता विकट- अमुं-तव भर्त्तारम् । उपसंक्रामेत्-संक्रान्ता भवेत् । यथापुराकारा यथापूर्वाकृतिः । भवत्प्रियाय-त्वद्भर्त्रे । एवं-पूर्वोक्तम् । रोचेत-यद्यभिमतं स्यात् । विधौ-प्रयोजने । विसंवादः-अन्यथाबुद्धिः । इदमेतादृशम् । अभिमतं-सम्मतम् । अनुजैः सहोदरैः । पौरजानपदैः नागरिकैः । सम्प्रधार्य-निश्चित्य । तेषां-सुहृन्मन्त्र्यादीनाम् । अनुमते- संमते । अभिमुखेन-उद्युक्तेन । स्थेयं-स्थातव्यम् । ( २६ ) स विकटवर्मा । नियतम् अवश्यम् । अभ्युपैष्यति-स्वीकरिष्यति । प्रमदवनेति-प्रमदवनवाट्याः क्रीडोद्यानस्य शृङ्गाटिकायां-चतुष्पथे । आथर्वाणि- केन-अथर्ववेदोपदिष्टेन विधिना अनुष्ठानेन । संज्ञपितपशुना-संज्ञपितो घातितः पशुश्छागादिर्यस्मिन् तेन-विधिविशेषणमेतत् । अभिहुत्य-होमं सम्पाद्य । मुक्ते- विसृष्टे । हिरण्यरेतसि-वह्वौ । तद्धूमशमनेन-तस्य धूमस्य शमनेन निवृत्त्या सहेति शेषः । मया-उपहारवर्मणेत्यर्थः । त्वं कल्पसुन्दरीत्यर्थः । प्रगाढायां सान्द्रतिमिरा- याम् । प्रदोषवेलायां रजनीमुखे । आलपिष्यसि-कथयिष्यसि । कर्णे विकटवर्म- ( रानी कल्पसुन्दरीकी ) आकृति फिर पूर्ववत् हो जायगी । यदि यह वार्ता आपके पतिदेवकी अभिमत हो तो इस विधिमें कोई सन्देह आदि न करें । यदि आपको ऐसे स्वरूपधारी बननेकी अभिलाषा है तो आप अपने मित्रों, मन्त्रियों, अनुजों और पुर- वासियोंसे विचार करके उन सबकी अनुमतिसे इस कार्यमें प्रवृत्त होवें ।' ( २६ ) वह नृपति विकटवर्मा अवश्य ही स्वीकार करेगा । फिर इसी क्रीडोद्यानके चतुष्पथके ऊपर अथर्ववेदके विधानद्वारा हवन किये हुए पशुका हवन करा करके अव- शिष्ट अग्निके धूएंकी निवृत्तिके बाद मैं ( उपहारवर्मा ) लतामण्डपमें प्रविष्ट हो करके बैठा रहूँगा आप भी घोर अन्धकारवाले प्रदोषकालमें अपने पतिके कानोंमें मुसकुरा करके कहियेगा कि ( हे देव !) आप बड़े धूर्त्त हैं । आप बड़े अकृतज्ञ हैं । मेरे प्रसादसे
२४४ दशकुमारचरितम् । [ उत्तरपीठिकायां
२४४ दशकुमारचरितम् । [ उत्तरपीठिकायां वर्माणम्—'धूर्तोऽसि त्वमकृतज्ञश्च । मदनुग्रहलब्धेनापि रूपेण लोकलोच- नोत्सवायमानेन मत्सपत्नीभिरभिरमयिष्यसि । नाहमात्मविनाशाय वेतालो- त्थापनमाचरेयम्' इति । ( २७) श्रुत्वेदं त्वद्वचः स यद्वक्ष्यति तन्मह्यमेकाकिन्युपागत्य निवे- दयिष्यसि । ततः परमहमेव ज्ञास्यामि । मत्पदचिह्नानि चोपवने पुष्करि- कया प्रमार्जय' इति । सा 'तथा' इति शास्त्रोपदेशमिव मदुक्तमाहृत्यातृ- प्सुसुरतरागैव कथंकथमप्यगादन्तःपुरम् । अहमपि यथाप्रवेशं निर्गत्य स्वमेवावासमयासिषम् । ( २८ ) अथ सा मत्तकाशिनी तथा तमर्थमन्वतिष्ठत् । अतिहृष्टश्च श्रवणे । कृतनर्मेति-कृतं विहितं नर्मस्मितं परिहासहसितं यया सा । धूर्त्तः-वञ्चकः । अकृतज्ञः-अस्मृतोपकारः । मदनुग्रहलब्धेन-मत्प्रसादाधिगतेन । रूपेण-आकारेण । लोकलोचनेति-लोकलोचनानां जननयनानामुत्सवमिवाचरता । आत्मविनाशाय- स्वमरणाय । वेतालोत्थापनं भूतविशेषोत्पादनम् । ( २७) स विकटवर्मा । ज्ञास्यामि-तदानीं यद्विधेयं तदहमेव करिष्या- मीत्यर्थः । पुष्करिकया तन्नामकदास्या मार्जय-प्रोञ्छय । सा कल्पसुन्दरी । तथा- तथा भवतु । आहृत्य-सादरं स्वीकृत्य । अतृप्तसुखरागा असम्पूर्णसुरताभिलाषा । कथं कथमपि-अतिकृच्छ्रेण । यथाप्रवेशं-येन पथा प्रविष्टस्तेनैव पथा । ( २८ ) मत्तकाशिनी-वरवर्णिनी । तथा-यथा मयोक्तं तेन प्रकारेण । तं पूर्वकथितम् । अर्थ-विषयम् । •अन्वतिष्ठत्-अकरोत् । तन्मते-कल्पसुन्दरीकथिते- प्राप्त रूपस जो रूप लोगोके नयनों का उत्सव बढ़ानेवाला होगा उसी रूपसे आप मेरी सौतों ( सपत्नीजनों ) के साथ रमण करेंगे। अतः अपना विनाश करनेके लिये वेतालका आह्वान न करूंगी । ( २७ ) इन बातोंको सुन करके वह नृपति जो कहे वह आप मुझसे अकेली आ करके कह दीजियेगा । उसके अनन्तर जो कुछ होगा वह मैं समझ लूँगा । उपवनमें जो मेरे पैरोंके चिह्न हैं उन्हें पुष्करिकाद्वारा मिटवा दीजियेगा । उन रानी कल्पसुन्दरीने 'तथा' (स्वीकार है ) कह करके शास्त्रोंके उपदेशोंके सदृश मेरे वचनोंको माना और रतिक्रीड़ासे अतृप्ति पाकर भी येन केन प्रकारसे अन्तःपुरमें गयी । मैं भी उक्तो पूर्व मार्गसे निकल कर के निवासस्थलपर आकरके विराम करने लगा । ( २८ ) तदनन्तर उस उत्तमाङ्गना रानीने मेरे कथनानुसार सब कार्य कर दिया । उस रानी कल्पसुन्दरीके आदेशानुसार वह दुर्मति राजा विकटवर्मा भी राजी हो गया !
[तृतीयोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । २४५
तन्मते स दुर्मतिः । अभ्रमच्च पौरजानपदेष्वियमद्भुतायमाना वार्ता— 'राजा किल विकटवर्मा देवीमन्त्रबलेन देवयोग्यं वपुरासादयिष्यति । नूनमेष विप्रलम्भो नातिकल्याणः । कैव कथा प्रमादस्य । स्वस्मिन्नेवान्तः- पुरोपवने स्वाग्रमहिष्यैव संपाद्यः किलायमर्थः । तथाहि बृहस्पतिप्रतिमबु- द्धिभिर्मन्त्रिभिरप्यभ्यूह्यानुमतः । यद्येवं भावि नान्यदतः परमस्ति किञ्चि- दद्भुतम् । अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभावः' इति प्रसूतेषु लोकप्रवा- देषु प्राप्ते पर्वदिवसे, प्रगाढायां प्रौढतमसि प्रदोषवेलायामन्तःपुरोद्यानादु- दैरयदधूर्जटिकण्ठधूम्रो धूमोद्गमः । क्षीराज्यदधितिलगौरसर्षपवसामांसरु- ऽभिप्राये । स विकटवर्मा । अभ्रमत्-प्रससार । अद्भुतायमाना-आश्चर्यवदा- चरन्ती । देवीमन्त्रबलेन-पट्टमहिष्या मन्त्रप्रभावेण देवयोग्यं देवतोचितम् । आ- सादयिष्यति-प्राप्स्यति । नूनं निश्चयेन । विप्रलम्भः प्रतारणं, नेत्यनेन सम्बध्यते । अतिकल्याणः-अतिशुभप्रदः । कैव कथा प्रमादस्य-प्रमादस्य नात्र सम्भव इत्यर्थः । स्वस्मिन् स्वकीये । स्वाग्रमहिष्या-स्वभार्यया । वृहस्पतिप्रतिमबुद्धि- भिः-वाचस्पतितुल्यमतिमद्भिः । अभ्यूह्य वितर्क्य विचार्येति यावत् । अनुमतः- अनुमोदितः । भावि-भविष्यति । अतः परम्-अस्मादप्यधिकम् । अचिन्त्यः- अभावनीयः । प्रसृतेषु-प्रचारितेषु । लोकप्रवादेषु-जनरवेषु । प्राप्ते-उपस्थिते । पर्वदिवसे-अमावास्यायाम् । प्रौढतमसि-घनान्धकारायाम् । उदैरयत्-उदगच्छ- त् । धूर्जटीति-धूर्जटेः शिवस्य कण्ठवद् गलवत् धूम्रो नीलः । धूमोद्गमः-धूम- प्रवाहः । उदैरयदित्यस्य कर्तृपदमेतत् । क्षीराज्येति-क्षीरं दुग्धमाज्यं घृतं दधि क्षीरविकारः, तिलाः प्रसिद्धाः, गौरसर्षपाः सिद्धार्थः, वसा वपा, मांसं पललं
यह आश्चर्यकारिणी वार्त्ता पुरवासियों और नागरिकलोकसंघोंमें फैल गयो—'राजा विकटवर्मा अपनी पटरानी कल्पसुन्दरीके मन्त्रके प्रभावसे देवताओंके अनुरूप शरीरको प्राप्त करेंगे । निश्चय ही इसमें कपट नहीं है अपितु यह अतिशुभप्रद है । इसमें प्रमाद (कपट) की तो कोई बात ही नहीं मालूम पड़ती है क्योंकि अपने ही अन्तःपुरमें अपनी ही भार्याके द्वारा यह कार्य सम्पादित होगा । इसी कारणसे वाचस्पतिके सदृश बुद्धिमान् मन्त्रियोंने भी बहुत विचार करके अनुमोदन किया है । यदि यह बात सत्य हो गयी तो इससे अधिक आश्चर्यकी और कोई बात नहीं है । रत्न, ओषधि और मन्त्रोंका प्रभाव सदा अचिन्त्य होता है । इस तरहका लोकमे प्रवाद फैल गया तथा कुछ दिनमें अमावास्या भी आ गयी । उस दिन जब प्रदोषकालमें घनान्धकार छा गया तब अन्तःपुरके उद्यानसे महादेवजीके कण्ठके समान नीला ( यहाँपर श्याम) धूम्रका आविर्भाव
२४६ दशकुमारचरितम् । [ उत्तरपीठिकायां
CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF २४६ दशकुमारचरितम् । [ उत्तरपीठिकायां धिराहुतीनां च परिमलः पवनानुसारी दिशि दिशि प्रावासीत् । प्रशान्ते च सहसा धूमोद्गमे तस्मिन्नहमविशम् । ( २९ ) निशान्तोद्यानमगाच्च गजगामिनी । आलिङ्गय च मां सस्मि- तं समभ्यधत्त- 'धूर्त्त, सिद्धं ते समीहितम् । अवसितश्च पशुरसौ । अमुष्य प्रलोभनाय त्वदादिष्टया दिशा मयोक्तम् - 'कितव, न साधयामि ते सौन्दर्यम् । एवं सुन्दरो हि त्वमप्सरसामपि स्पृहणीयो भविष्यसि, किमुत मानुषीणाम् । मधुकर इव निसर्गचपलो यत्र क्वचिदासज्जति भवादृशो रुधिरं शोणितं तेषां या आहुतयस्तासाम् । परिमलो गन्धः । पवनानुसारी पवन- मनुसृत्य प्रसरणशीलः । प्रावासीत् प्रासरत् । प्रपूर्वकद्वाद्गमनाार्थकवाधातोलुँङि रूपम् । प्रशान्ते अपगते दूरीभूते इति यावत् । प्रविशं प्रविष्टवान् । ( २९ ) निशान्तोद्यानं गृहोपवनम् । गजगामिनी-गजवन्मन्दगमनशीला- कल्पसुन्दरीति शेषः । समभ्यधत्त-उक्तवती । धूर्त्त-कितव । सिद्धं सम्पन्नम् । समीहितम् ईप्सितम् । अवसितः समाप्ति गतः आसन्नमरण इति भावः । पशुः पशुवद् विवेकरहितः । असौ-विकटवर्मा । अमुष्य-विकटवर्मणः । प्रलोभनाय- प्रलोभनार्थम् । त्वदादिष्टया-त्वत्प्रदर्शितया । दिशा-मार्गेण । मया-कल्पसुन्द- र्या । कितव धूत्र्त्तेति सम्बोधनम् । साधयामि-सम्पादयामि । एवं-एतादृशः । अप्सरसां स्वर्गवेश्यानाम् । स्पृहणीयः अभिलषणीयः । किमुत-किं वक्तव्यमि- त्यर्थः । मधुकरी भ्रमरः । निसर्गचपलः स्वभावचञ्चलः । यत्र क्वचित्-यत्र कुत्रा- पि । आसज्जति लगति-आसक्तो भवतीति यावत् । नृशंसः-निर्दयः । तेन- हुआ । दूध, घी, दही और गौर सर्षप, वसा, मांस और शोणित (रक्त) की आहुतियोंके द्वारा उड़ी हुई गन्ध, पवनकी गतिसे प्रत्येक दिशामें फैल गयी । उस धूम्रके प्रशान्त होते ही सहसा मैंने उद्यानमें प्रवेश किया। ( २९) हाथीके समान मन्द गमन करनेवाली वह रानी कल्पसुन्दरी भी उस गृह उपवनमें आ गयी। मेरा आलिङ्गन करके हंसती हुई मुझसे कहने लगी-'हे कितव ! तेरा ईप्सितार्थ ( मनोरथ ) सिद्ध हो गया । पशुके समान अविवेकी इस राजाकी मृत्यु भी समीप है । इस नृपतिके प्रलोभनके लिए मैंने आपके आदेशानुसार उसी रीतिसे कहा-'हे धूर्त्त ! तेरी सुन्दरता मैं नहीं सम्पादित करूंगी । इतनी उत्तम सुन्दरतापर तेरे ऊपर स्वर्गकी अप्सरायें तक मोहित हो जायेंगी तब मृत्युलोककी महिलाओंकी तो बात ही क्या । भौंरेके समान तू स्वभावसे ही चञ्चल है अतः जहां कहीं भी आसक्ति हुई वहीं चिपक जायगा क्योंकि तू निर्दय है ही- (और मैं बिलखा करूंगी) ऐसा Nepal Sanskrit University, Balmeeki Campus, Kathmandu
तृतीयोच्छ्वासः ] बालबोधिनीव्याख्यासहितम् । २४७ नृशंसः' इति । तेन तु मे पादयोर्निपत्याभिहितम्—'रम्भोरु, सहस्व मत्कृ- तानि दुश्चरितानि । मनसापि न चिन्तयेयमितःपरमितरनारीम् । त्वरस्व प्रस्तुते कर्मणि' इति । (३०) तदहमीदृशेन वैवाहिकेन नेपथ्येन त्वामभिसृतवती । प्राग- पि रागाग्निसाक्षिकमनङ्गेन गुरुणा दत्तैव तुभ्यमेषा जाया । पुनरपीमं जातवेदसं साक्षीकृत्य स्वहृदयेन दत्ता इति प्रपदेन चरणपृष्ठे निष्पीड्यो- त्क्षिप्तपादपार्णिरितरेतरव्यतिषक्तकोमलाङ्गुलिदलेन भुजलताद्वयेन कंधरां ममावेष्ट्य सलीलमाननमानमय्य स्वयमुन्नमितमुखकमला विश्रान्तवि- विकटवर्मणा । मे-कल्पसुन्दर्याः । सहस्व-क्षमस्व । दुश्चरितानि-अपराधान् । इतरनारीम्-अन्यस्त्रियम् । त्वरस्व-शीघ्रतां कुरु । प्रस्तुते-प्रारब्धे । (३०) तत् तस्मात् कारणात् । वैवाहिकेन-विवाहोचितेन । नेपथ्येन-- वेषेण । त्वामुपहारवर्माणम् । अभिसृतवती-प्राप्तवती । प्राक्-पूर्वम् । रागाग्नि- साक्षिकं-रागोऽनुराग एवाग्निः साक्षी दृष्टा यस्मिन् कर्मणि तदिति क्रियाविशेष- णम् । गुरुणा-आचार्येण । दत्ता-अर्पिता । एषा मद्रूपा । जाया भार्या । जात- वेदमसग्निम् । स्वहृदयेनेति-पूर्वमनङ्गेन दत्ता अधुना तु निजहृदयेनेति-विशे- षः । प्रपदेन-पादाग्रेण । निष्पीड्य-पीडयित्वा । उत्क्षिप्तपादपार्णिः उत्क्षिप्तौ उदृधृतौ पादयोश्चरणयोः पाष्णीं गुल्फदेशौ यया सा । इतरेतरेति-इतरेतरमन्योन्यं व्यतिषक्तानि मिलितानि कोमलानि अङ्गुलय एव दलानि पत्राणि यस्य तेन । कंधरां-ग्रीवाम् । आवेष्ट्य-आश्लिष्य । सलीलं सविलासम् । आननं मदीयं मुखम् । आनमय्य-आनतीकृत्या । उन्नमितमुखकमला-ऊर्द्ध्वीकृताननपद्मा । विश्रान्तेति- कहनेपर उस धूर्त्तने मेरे पैरोंपर गिरकरके कहा- हे रम्भोरु ! आप मेरे किये हुए अप- राधोंको क्षमा कीजिये । अब मनसे भी अन्य रमणियोंको स्मरण न करूंगा। इस प्रारम्भित कार्यके लिए शीघ्रता कीजिये ।' (३०) इस कारणसे मैं इस प्रकारके विवाहके समयानुरूप वस्त्रोंको धारण करके आपके समीप आयी हूँ। पूर्वमें भी अनुरागरूपी अग्निको साक्षी बना करके कामदेवरूपी आचार्यने इस जायाको आपको सौंप दिया है । अब फिर भी इस अग्निकी साक्षी दे करके अपने हृदयसे (अपनेको ) आपको सौंप रही हूँ। ऐसा कहकर वह कल्पसुन्दरी रानी अपने चरणोंके अग्रिम भागोंसे मेरे चरणोंको दबाती हुई खड़ी हुई । परस्पर मिले हुए गुल्फोंसे तथा अन्योन्यमें संश्लिष्ट कोमल अङ्गुलिरूपी दलवालो (पत्रवाली) दोनों बाहुवल्लियोंसे मेरे गलेको परिवेष्टित करके उस रानीने बिलाससे मेरे मुखकी नीचे नवा
२४८ दशकुमारचरितम्। [ उत्तरपीठिकायां
२४८ दशकुमारचरितम्। [ उत्तरपीठिकायां शालदृष्टिरसकृदभ्यचुम्बत् । (३१) अथैनाम् 'इहैव कुरण्टकगुल्मगर्वे तिष्ठ यावदहं निर्गत्य साधयेयं साध्यं सम्यक्' इति विसृज्य तामुपसृत्य होमानलप्रदेशमशोक- शाखावलम्बिनीं घण्टामचालयम्। अकूजच्च सा तं जनं कृतान्तदूतीवाह्व- यन्ती। प्रावर्तिषि चाहमगुरूचन्दनप्रमुखानि होतुम्। अयासीच्च राजा यथोक्तं देशम्। शङ्कापन्नमिव किञ्चित्सविस्मयं विचार्य तिष्ठन्तमब्रवम्- 'ब्रूहि सत्यं भूयोऽपि मे भगवन्तं चित्रभानुमेव साक्षीकृत्य। न चेदनेन विश्रान्ते घूर्णिते विशाले दीर्घे दृष्टी नयने यस्याः सा। असकृत्-वारंवारम्। अभ्य- चुम्बत्-चुम्बितवती मामिति शेषः। (३१) एनां-कल्पसुन्दरीम् । कुरण्टकगुल्मगर्वे-पीतकुरवकस्तम्बमध्ये । अह- मुपहारवर्मा । साधयेयं सम्पादयेयम् । साध्यं कार्यम् । उपसृत्य-प्राप्य । होमान- लप्रदेशं-होमाग्निस्थानम् । अशोकेति-अशोकशाखायामाबद्धाम् । अचालयमवा- दयम् । अकूजत्-अध्वनत् । सा-घण्टा । तं जनं-विकटवर्माणम् । कृतान्तदूती- यमदूतिका । आह्वयन्ती-आकारयन्ती । यमदूती यथा आसन्नमृत्युं मानवं यमालयं नेतुमाह्वयति तद्वदित्यर्थः । प्रावर्त्तिषि-प्रवृत्तोऽभवम् । होतुं अग्नौ प्रक्षेप्तुम् अया- सीद्गच्छत् । राजा विकटवर्मा। यथोक्तं पूर्वकथितम्। शङ्कापन्नं सशङ्कितम् । येयं जुहोति सा कल्पसुन्दरी अन्या वा काचिदिति सन्दिहानमिति भावः। सविस्मयं- मन्त्रप्रभावादशक्यमपि सम्भवतीति साश्चर्यम् । विचार्य स्थिरीकृत्य । तिष्ठन्तम्- दिया और अपने मुखकमलको, ऊंचा करके अपने विशाल नेत्रोंको बार-बार नचाते हुए मेरा मुख बार-बार चूमने लगी। (३१) उसके पश्चात् मैंने (उपहारवर्माने) उस रानीसे कहा-'तुम इसी पीले कुरवक के स्तम्बमध्यमें तबतक बैठो जबतक मैं यहाँसे निकल करके अपने साध्यकार्यको सम्पादित करता हूँ।' इस तरहसे उसे वहीं छोड़ करके मैं होमाग्निस्थानके समीप जा पहुँचा और अशोक वृक्षकी डालीपर लटकी हुई घण्टीको बजा दिया। वह घण्टी ऐसी बजी मानो वह यमराजकी दूती हो और राजा विकटवर्माको बुला रही हो। मैं अगुरु चन्दन आदि प्रमुख होमकी सामग्रियोंको ले करके होम करनेमें प्रवृत्त हो गया। राजा विकटवर्मा भी वहांपर आ गया। सशङ्कित तथा कुछ विस्मित हो करके खड़े होनेवाले उस राजा विकटवर्मासे मैंने कहा-'सत्य कहिये, फिरसे भगवान् अग्निको साक्षी करके सत्य कहिये कि यह अनुपम सौन्दर्य पा करके आप मेरी सौतों (सपत्नीजनों) के
[Header] तृतीयाेच्छ्वासः ] बालबोधिनीव्याख्यासहितम् । २४६
रूपेण मत्सपत्नीरभिरमयिष्यसि, ततस्त्वयीदं रूपं संक्रामयेयम्' इति । (३२) स तदैव 'देव्येवेयम् नोपधिः' इति स्फुटोपजातसंप्रत्ययः प्रावर्त्तत शपथाय । स्मित्वा पुनर्मयोक्तम्-'किं वा शपथेन । कैव हि मानुषी मां परिभविष्यति । यद्यप्सरोभिः सङ्गच्छसे, सङ्गच्छस्व कामम् । कथय कानि ते रहस्यानि । तत्कथनान्ते हि त्वत्स्वरूपभ्रंशः' इति । सोऽ- ब्रवीत् -'अस्ति बद्धो मत्पितुः कनीयान्भ्राता प्रहारवर्मा । तं विषान्नेन व्यापद्याजीर्णदोषं ख्यापयेयमिति मन्त्रिभिः सहाध्यवसितम् । अनुजाय
प्रविष्टम्-विकटवर्माणमिति शेषः । भूयोऽपि-पुनरपि । चित्रभानुं वह्निम् । अनेन- भाविना । ततः-तर्हि । संक्रामयेयं योजयेयम् । (३२) स विकटवर्मा । तदैव-श्रवणसमये एव । देवी महिषी कल्पसुन्दरीति यावत् । इयं-या एवं कथयति सा । उपधिः-कपटम् । स्फुटेति-स्फुटं व्यक्तमुपजात उत्पन्नः सम्प्रत्ययो विश्वासो यस्य सः । प्रावर्त्तत-प्रवृत्तोऽभवत् । शपथाय-शपथं कर्तुम् । मया-कल्पसुन्दरीरूपधारिणा उपहारवर्मणेत्यर्थः । किं-किं कार्यमित्यर्थः । कैव हीति-मानुषीषु कापि तादृशी नास्ति या मां परिभवितुमर्हतीति भावः । सङ्गच्छसे सङ्गतो भवसि । कामं-यथेष्टम् । रहस्यानि-गोपनीयविषयाः । तत्कथ- नान्ते-रहस्यप्रकाशानान्तरम् । त्वत्स्वरूपभ्रंशः-तव पूर्वाकारध्वंसः । भविष्यतीति शेषः । स विकटवर्मा । बद्धः कारागारे संयतः । कनीयान्-कनिष्ठः । तं प्रहारवर्मा- णम् । विषान्नेन-विषमिश्रितभोज्यद्रव्येण । व्यापाय-विनाश्य । अजीर्णदोषं प्रख्या- पयेयम्-विसुचिका्रोगेणायं मृत इति प्रकाशयिष्यामीत्यर्थः । अध्यवसितं-निर्णी- तम् । इत्येकं रहस्यम् । अनुजाय-स्वकनिष्ठभ्रात्रे । दण्डचक्रं-सेनापत्यम् । पुण्ड्रेति-
साथ रमण न करेंगे, तो मैं आपमें इस रूपको संक्रामित करू।' (३२) यह बात श्रवण करके उस राजाको विश्वास हो गया कि बोलने वाली मूर्त्ति रानी कल्पसुन्दरी ही है । इसमें जरा भी कपटजाल नहीं है । ऐसा प्रत्यक्ष विश्वास हो जानेपर वह शपथादि करनेके लिए प्रवृत्त हो गया । मैंने हँस कर के कहा - 'शपथसे क्या लाभ । कौनसी ऐसी नारी होगी जो मुझे पराजित कर सकेगी । यदि अप्सराओंसे रमण करना चाहें तो खूब करें । अब बताइये कि आपके कौन-कौन रहस्य भेद हैं (गुप्त बातें हैं) । इनको बतानेके बाद आपके स्वरूपका परिवर्त्तन होगा । उस नृपतिने कहा-'मेरे पिताके छोटे भाई प्रहारवर्मा कारागारमें बन्द हैं । उन्हें जहर मिला हुआ अन्न खिला करके मरवा डालूँगा और अजीर्ण दोषसे मर गये ऐसी प्रसिद्धि कर दूंगा । यह बात मन्त्रियोंके साथ निश्चित हो गयी है । यह प्रथम रहस्य है । अपने छोटे भाई
[Footer] Nepal Sanskrit University, Balmeeki Campus, Kathmandu
२५० दशकुमारचरितम् । [ उत्तरपीठिकायां
CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF
२५० दशकुमारचरितम् । [ उत्तरपीठिकायां विशालवर्मणे दण्डचक्रं पुण्ड्रदेशाभिक्रमणाय दित्सितम् । पौरवृद्धश्च पाञ्चालिकः परित्रातश्च सार्थवाहः खनतिनाम्नो यवनाद्वज्रमेकं वसुंधरामूल्यं लघीयसार्घेण लभ्यमिति ममैकान्तेऽमन्त्रयेताम् । गृहपतिश्च ममान्तरङ्ग- भूतो जनपदमहत्तरः शतहलिरलीकवादशीलमवलेपवन्तं दुष्टग्रामण्यमन- न्तसीरं जनपदकोपेन घातयेयमिति दण्डधरानुद्धारकर्मणि मत्प्रयोगान्नि- योक्तुमभ्युपागमत् । इत्थमिदमचिरप्रस्तुतं रहस्यम् ।' पुण्ड्रनामकदेशजयाय । दित्सितं दातुमभिलषितम् । इति द्वितीयं रहस्यम् । पौर- वृद्धः-पौरेषु नागरिकेषु वृद्धो वर्षीयान् । पाञ्चालिक इति वृद्धस्य नाम । परित्रातः- संकटाद् रक्षितः । सार्थवाहः कश्चिद् वणिक् तन्नामधेयः कश्चिद् वा । एतौ अनन्त- रोक्तक्रियापदस्य अमन्त्रयेतामित्यस्य कर्तृकारकौ । खनतिनाम्नः खनतिरिति नाम यस्य तस्मात् । वज्रं हीरकम् । वसुन्धरामूल्यं वसुन्धरा पृथिवी मूल्यं यस्य तत् । वसुन्धराविनिमयेन लभ्यमित्यर्थः । लघीयसा अत्यल्पेन । अर्घेण मूल्येन । एकान्ते रहसि । अमन्त्रयेतां उक्तवन्तौ । इति तृतीयं रहस्यम् । गृहपतिर्ग्रामा- ध्यक्षः । अन्तरङ्गभूतः-आत्मीयः । जनपदमहत्तरः प्रधाननागरिकः । शतहलिरिति ग्रामाध्यक्षस्य नाम । अलीकवादशीलं-मिथ्याभाषणरतम् । अवलेपवन्तं गर्वितम् । दुष्टग्रामण्यं दुष्टग्रामाध्यक्षम् । अनन्तसीरं-तन्नामकम् । जनपदकोपेन-तस्मिन् जनपदकोपमारोप्येत्यर्थः । घातयेयं विनाशयिष्यामि । दण्डधरान्-सेनानायकान् । उद्धारकर्मणि-अनन्तसीरस्य निर्यातनकार्ये । मत्प्रयोगात् मन्नियोगात् । अभ्युपा- गमत् अहमेव दण्डधरान्नियोक्ष्यामीति स्वीचकार । इति चतुर्थं रहस्यम् । इत्थं अनेन प्रकारेण । अचिरप्रस्तुतं साम्प्रतमेव प्रक्रान्तम् । रहस्यं गोप्यम् । एताव- देवेति शेषः । विशालवर्माको पुण्ड्रदेशके आक्रमण करनेके हेतु दण्डचक्र (सेनापति) बनानेके लिए सोचा है । यह दूसरा रहस्य है । पुरवासियोंमें वृद्ध पाञ्चालिक और सार्थवाह नामक बनियेको रक्षक बना करके खनति नामके यवनसे एक बहुमूल्य हीरेको जिसका दाम सारी पृथ्वी हो सकता है, अति स्वल्प मूल्यसे खरीदनेका विचार किया है। यह तीसरा रहस्य है । गृहपति (ग्रामाध्यक्ष) मेरा आत्मीय जन है । सर्व देशोंमें श्रेष्ठ शतहलो प्रधान नागरिक है । पर यह मिथ्यावादी तथा गर्विष्ठ है और अनन्तसीर नामक व्यक्ति भी दुष्ट ग्रामाध्यक्ष है । इन लोगोंपर जनपदकोप कराऊंगा और इनका विनाश कर दूंगा । सेनापतियोंको इस निर्याणकर्ममें मैं ही नियुक्त करूंगा यह तय हुआ है। यह चतुर्थ रहस्य है। यही मेरे वर्त्तमान रहस्य भेद हैं ।'
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF तृतीयोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । २५१ ( २३ ) इत्याकर्ण्य तम् 'इयत्तवायुः । उपपद्यस्व स्वकर्मोचितां गतिम्' इति च्छुरिकया द्विधाकृत्य कृत्तमात्रं तस्मिन्नेव प्रवृत्तरुफीतसर्पिषि हिरण्य- रेतस्यजुहवम् । अभूच्चासौ भस्मसात् । अथ स्त्रीस्वभावादीषद्विह्वलां हृदय- वल्लभां समाश्वास्य हस्तकिसलयेऽवलम्ब्य गत्वा तद्गृगमनुज्ञयास्याः सर्वाण्यन्तःपुराण्याहूय सद्य एव सेवां दत्तवान् । सविस्मितविलासिनी- सार्थमध्ये कञ्चिद्विहृत्य कालं विसृष्टावरोधमण्डलस्तामेव संहत्तोरूमूरूप- पीडं भुजोपपीडं चोपगुह्य तल्पेऽभिरमयन्नल्पामिव तां निशामत्यनैषम् । ( २३ ) तं विकटवर्माणम् । इयत्-एतावत् । आयुः जीवनम् । उपपद्यस्व प्राप्नुहि । स्वकर्मोचितां कर्मफलानुसारिणीम् । गतिं परिणतिम् । द्विधाकृत्य-खण्ड- यित्वा तमिति शेषः । कृत्तमात्रं छेदनसमकालम् । प्रवृत्तेति-प्रवृत्तं प्रदत्तं स्फीतं प्रचुरं सर्पिर्हविर्यस्मिन् तस्मिन् । हिरण्यरेतसि अग्नौ । अजुहवम्-प्रक्षिप्तवान् । असौ-विकटवर्मा । भस्मसात् भस्मावशेषः । स्त्रीस्वभावात्-स्त्रीणां स्वभावः स्वत एवातिकोमलो भवतीति हेतोरित्यर्थः । ईषद्विह्वलां स्वल्पव्याकुलाम् । हृदयव- ल्लभां प्राणप्रियाम् । समाश्वास्य-सान्त्वयित्वा । करकिसलये पाणिपल्लवे । अव- लम्ब्य-गृहीत्वा तद्गृहं कल्पसुन्दरीमन्दिरम् । अनुज्ञया-अनुमत्या । अस्याः कल्पसुन्दर्याः । अन्तःपुराणि-अन्तःपुरिकावर्गान् सेवां भोज्यादिदानेन तासां सन्तोषम् । सविस्मितेति-सविस्मितः साश्चर्यो यो विलासिनीसार्थः । स्त्रीसमूहस्तस्य मध्ये । कञ्चित्कालं-कियन्तं समयं यावत् । विहृत्य-विहारं कृत्वा । विसृष्टेति- विसृष्टं त्यक्तं अवरोधमण्डलमन्तःपुरिकाचक्रं येन सः । तां कल्पसुन्दरीम् । संह- तोरुं विशालोरुदेशाम् । ऊरूपपीडम्-ऊरुभ्यामुपपीड्य । भुजोपपीडं भुजाभ्यामु- पपीड्य । उपगुह्य-आलिङ्ग्य । तल्पे शय्यायाम् । अभिरमयन् विहरन् । अल्पामिव- ( २३ ) इतना श्रवण कर मैंने उस नृपतिसे कहा कि इतने ही दिनोंका तुम्हारा जीवन है। अब अपने कर्मफलानुसारिणी गतिको प्राप्त करो और छुरीसे उस विकट- वर्माको दो टुकड़ोंमें काट करके प्रचुरमात्रामें घीके साथ अग्निमें हवन कर दिया, वह भस्मसात् हो गया । तत्पश्चात् स्त्रीस्वभावके कारण स्वल्प व्याकुलीभूता प्राणप्रियाको आश्वासन दिया । पाणिपल्लव ग्रहण करके उस रानी कल्पसुन्दरीकी अनुमतिसे उसके मन्दिरमें प्रविष्ट हुआ एवं सभी अतःपुरचरोंको बुला कर उसी कालमें उचित पुरस्कार प्रदान किया । आश्चर्यमें अभिभूत अन्तःपुरकी रमणियोंके मध्यमें कुछ समय तक रमण करनेके पश्चात् उन अन्तःपुरकी रमणियोंको दूर करके उसी रानी कल्पसुन्दरीके साथ १७ दृ० कु० च० Nepal Sanskrit University, Balmeeki Campus, Kathmandu
२५२ दशकुमारचरितम् । [ उत्तरपीठिकायां
२५२ दशकुमारचरितम् । [ उत्तरपीठिकायां अलभे च तन्मुखात्तद्राजकुलस्य शीलम् । ( ३४ ) उषसि स्नात्वा कृतमङ्गलो मन्त्रिभिः सह समगच्छे । तांश्चा- ब्रवम्—‘आर्याः, रूपेणैव सह परिवृत्तो मम स्वभावः । य एष विषान्नेन हन्तुं चिन्तितः पिता मे स मुक्त्वा स्वमेतद्राज्यं भूय एव ग्राहयितव्यः । पितृवदमुष्मिन्वयं शुश्रूषयैव वर्तामहे । न ह्यस्ति पितृवधात्परं पातकम्’ इति । भ्रातरं च विशालवर्माणमाहूयोक्तवान्—‘वत्स, न सुभिक्षाः सांप्रतं पुण्ड्राः । ते दुःखमोहोपहतास्त्यक्तात्मानो राष्ट्रं नो न समृद्धमभिद्रवेयुः । दीर्घापि शीघ्रम् । अत्यनैषम्-अत्यवाहयम् । अलभे ज्ञातवान् । तन्मुखात्-कल्प- सुन्दरीमुखात् । राजकुलस्य राजकीयपुरुषवर्गस्य । शीलं चरित्रादिकम् । ( ३४ ) उपसि-प्रभाते । कृतमङ्गलः-अनुष्ठितमङ्गलाचारः । समगच्छे मिलितोऽ- भवम् । तान्-मन्त्रिणः । आर्याः माननीयाः सम्बोधनमेतत् । रूपेणाकारेण । परि- वृत्त:-अन्यथाभूतः यो मम स्वभावः पूर्वमतिनिर्दय आसीत् सोऽद्य तद्विपरीतो जातः । रूपपरिवर्तनेन सह स्वभावस्यापि परिवर्तनं जातमिति भावः । चिन्तितः निश्चितः । पिता पितृव्यस्तस्य पितृतुल्यत्वात् । मुक्त्वा बन्धनादपनीय । स्वं- तदीयम् । भूयः पुनरपि । ग्राहयितव्यः यथा स राज्यं स्वीकरोति तथा विधे- यमित्यर्थः । पितृवत्-पितृतुल्यम् । अमुष्मिन्-प्रहारवर्मणि । शुश्रूषया-सेवया । वर्त्तामहे-व्यवहरामः । पितृवधात् पितृहत्यायाः । परम् अधिकम् । भ्रातरं स्वक- नीयांसम् । सुभिक्षाः-सम्पन्नसस्याः । पुण्डाः तदाख्यदेशाः । ते पुण्ड्राः । दुःख- मोहोपहताः-भोजनाद्यभावाद् दुःखं क्लेशः मोहः अज्ञानं ताभ्यामुपहता आक्रान्ताः। शय्याके ऊपर आनन्दोपभोग करने लगा—उस रानीको अपने ऊरुओंसे और भुजाओंसे चिपटाते हुए एवं आलिङ्गन करते हुए वह बड़ी रात भी छोटी प्रतीत हुई । अर्थात् रातका बीतना ज्ञात न हुआ । उसी रानी कल्पसुन्दरीसे मैंने राजकीयपुरुषवर्गोंका स्वभाव चरित्र आदि भी ज्ञात कर लिया । ( ३४ ) प्रभात कालमें स्नान करके तथा मङ्गलाचार, पाठ-पूजन आदि करके मन्त्रियोंसे दरबारमें जा करके मिला । उन मन्त्रियोंसे मैंने कहा—‘हे माननीयो ! मेरे रूपके परिवर्त्तन होनेके साथ ही मेरे स्वभावमें भी परिवर्त्तन हो गया है । जहरके अन्नसे जिन पितृव्य (चाचा) को मैंने मारनेके लिए सोचा था उनको कारागारसे निकाल कर फिरसे उन्हें उन्हींका राज्य सौंपा जाय और मैं उनकी सेवा-शुश्रूषा अपने पिताके सदृश करूँगा । पिताके मारनेसे अधिक पाप संसारमें कोई नहीं है । अपने छोटे भाई विशालवर्माको बुला कर कहा—‘हे वत्स ! वर्त्तमान समयमें पुण्ड्रदेश सम्पन्न एवं धान्यादिसे परिपूर्ण नहीं है । अतः आप उक्त देशमें अभी चढ़ाई न करें । क्योंकि वे सब Nepal Sanskrit University, Balmeeki Campus, Kathmandu
CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF तृतीयोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । २५३ अतो मुष्टिवधः सस्यवधो वा यदोत्पद्यते तदाभियास्यसि, नाद्य यात्रा युक्ता' इति । ( ३५ ) नगरवृद्धावप्यलापिषम् - 'अल्पीयसा मूल्येन महार्हं वस्तु मास्तु मे लभ्यं धर्मरक्षायै, तदनुगुणेनैव मूल्येनादः क्रीयताम्' इति । शतहलिं च राष्ट्रमुख्यमाहूयाख्यातवान्-'योऽसावनन्तसीरः प्रहारवर्मणः पक्ष इति निनाशयिषितः, सोऽपि पितरि मे प्रकृतिस्थे किमिति नाश्येत, त्यक्तात्मानः परित्यक्तजीवनाशाः । नः-अस्माकम् । राष्ट्रं-राज्यम् । समृद्धं-सम्प- न्नशस्यम् । न अभिद्रवेयुर्न पीडयेयुरिति काकुः । अपि तु पीडयेयुः । तेन हानि- रेवास्माकमिति भावः । अतः-अस्मात्कारणात् । मुष्टिवधः-मुष्टिपरिमितस्यान्न- स्योपघातः । सस्यवधः सस्यमात्रस्योपघातः । उत्पद्यते-भविष्यतीत्यर्थः । यदा पुण्ड्रदेशे सुभिक्षं भविष्यति त्वदभियानेन च तेषां सस्यान्नहानिर्भविष्यति तदैव ते आक्रमणीया इत्याशयः । यात्रा-युद्धयात्रा युक्ता-उचिता । ( ३५ ) नगरवृद्धौ-पाञ्चालिकसार्थवाहौ । अलापिषम् अवोचम् । महार्हं-महा- मूल्यम् । धर्मरक्षायै-धर्मरक्षार्थम् । महार्हस्य वस्तुनोऽत्यल्पमूल्येन क्रयणे प्रतारणा भवतीत्यतो धर्मनाश इत्यर्थः । अनुगुणेन-समुचितेन । अदः वज्रम् । राष्ट्रमुख्यं जनपदप्रधानम् । पक्षः सहायभूतः । निनाशयिषितः-विनाशयितुमिष्टः आसीदि- ति शेषः । पितरि-पितृतुल्ये प्रहारवर्मणि । प्रकृतिस्थे-पूर्वभावमापन्ने । किमिति- कथम् । नश्येत-हन्येत ! नैव हन्येतेत्यर्थः । त्वया-शतहलिना । तस्मिन्-अन- पुण्ड्रदेशके निवासी दुःख और मोहसे परिव्याप्त हो करके अपने प्राणोंको त्यागनेमें समुद्यत हो रहे हैं। ऐसी अवस्थामें वे मेरे समृद्धिशाली राज्यपर आक्रमण कर बैठेंगे । अत एव जब पुण्ड्रदेशमें मुष्टि परिमाणमें, सस्यप्रचुरतासे अन्न पैदा होने लगेगा अर्थात् पुण्ड्र जब सम्पत्तिशाली हो जाय । तब आक्रमण करना ठीक होगा । अभी आक्रमण करना अयुक्त है । ( ३५ ) नगरवृद्ध पाञ्चालिक और सार्थवाहको बुला कर कहा-'अल्प मूल्य दे कर महामणि लेनेका विचार छोड़ दिया गया । क्योंकि इसमें धर्मकी हानि हो सकती है । अतः धर्मरक्षाके विचारसे उस महामणिके अनुरूप मूल्य दे कर ही वह मणि खरीदी जाय ।' श्रेष्ठ नागरिक शतहलीको जो अनन्तसीर और प्रहारवर्माका सहायक भी था, बुला कर आज्ञा दी कि इनका भी विनाश न किया जाय । क्योंकि जब मेरे चाचाजी पूर्ववत् हो गये तो उनके सहायकगणोंका क्यों विनाश किया जाय । और कहा कि शतहलीको भी भविष्यमें अनन्तसीरके साथ विद्वेष न करना चाहिये । इन अभिज्ञानोंसे Nepal Sanskrit University, Balmeeki Campus, Kathmandu
तत्त्वयापि तस्मिन्संरम्भो न कार्यः' इति । त इमे सर्वमाभिज्ञानिकमुप- लभ्य 'स एवायम्' इति निश्चिन्वाना विस्मयमानाश्च मां महादेवीं च प्रशंसन्तो मन्त्रबलानि चोद्घोषयन्तो बन्धनात्पितरौ निष्क्रामय्य स्वं राज्यं प्रत्यपादयन् अहं च तया मे धात्र्या सर्वमिदं ममाचेष्टितं रहसि पित्रोरव- गमय्य प्रहर्षकाष्ठाधिरूढयोस्तयोः पादमूलमभजे । (३६) अभज्ये च यौवराज्यलक्ष्म्या तदनुज्ञातया । प्रसाधितात्मा देवपादविरहदुःखदुर्भगान्भोगांन्निर्विशन्भूयोऽस्य पितृसखस्य सिंहवर्मणो
न्तसीरे । 'संरम्भः-कोपः । ते इमे-नगरवृद्धादयः । आभिज्ञानिकमभिज्ञानमिति स्वार्थे ठक् परिचयोत्पादकं चिह्नम् । उपलभ्य-ज्ञात्वा । अयं पुरो दृश्यमानः सः विकटवर्मैव । निश्चिन्वानाः निर्णयं कुर्वन्तः । विस्मयमानाः साश्चर्याः । महादेवीं- कल्पसुन्दरीम् । मन्त्रबलानि-मन्त्रप्रभावान् । उद्घोषयन्तः-प्रचारयन्तः । बन्धना- त्कारागृहात् । पितरौ-मातरं पितरञ्च । निष्क्रामय्य मोचयित्वा । प्रत्यपादयन्- प्रायच्छन् । तया-पूर्ववर्णितया । धात्र्या-वृद्धतापस्या । तद्द्वारेणेत्यर्थः । ममाचे- ष्टितं-मत्कृतं कार्यम् । पित्रोः मातापित्रोः अवगमय्य-ज्ञापयित्वा । प्रहर्षेति-प्रहर्षस्य आनन्दस्य काष्ठामवधिमधिरूढयोः प्राप्तवतोः । तयोः पित्रोः । पादमूलं-चरणत- लम् । अभजे आश्रितवान् । (३६) अभज्ये-असेव्ये-आश्रितोऽभवमित्यर्थः तदनुज्ञातया-ताभ्यां माता- पितृभ्यामनुमतया । प्रसाधितात्मा सफलप्रयत्नः कृतकृत्य इति यावत् । 'आत्मा यत्नो धृतिर्बुद्धिरित्यमरः । देवपादेति-देवपादस्य भवच्चरणयुगलस्य विरहदुःखेन विच्छेदक्लेशेन दुर्भगान् अप्रियान् । भोगान् । उपभोग्यविषयान् । निर्विशन्-उप- भुञ्जानः । पितृसखस्य तातमित्रस्य । लेख्यात्-पत्रात् । चम्पाभियोगं-चम्पा-
वे नगर-निवासी मन्त्रिगण समझ गये कि 'यह वही राजा है।' ऐसा निश्चय होनेपर वे सब आश्चर्यान्वित हो कर मेरी और रानी कल्पसुन्दरीकी प्रशंसा करने लगे । मन्त्रके प्रभावका प्रचार करने लगे । मेरे माता-पिताको उन लोगोंने कारागारसे निकाल कर अपने प्राचीन राज्यपर अधिरूढ करा दिया । मैंने भी यह सब वृत्तान्त अपनी उस वृद्ध तापसी (धात्री) से एकान्तमें कह दिया । माता-पिताको भी यह समाचार जता दिया । जब माता-पिता आनन्दकी चरम सीमामें (अपना राज्य करने लगे) तब मैं उनके चरणों की सेवामें लगा । (३६) उन पूज्य माता-पिताकी आज्ञासे, मैंने युवराज-पदरूपी लक्ष्मीको प्राप्त किया । कृतकृत्य हो करके भी मैंने आपके विरहसे उत्पन्न क्लेशसे उन सब सुखोंको
लेख्याच्चण्डवर्मणश्चम्पाभियोगमवगम्य ‘शत्रुवधो मित्ररक्षा चोभयमपि करणीयमेव’ इत्यलघुना लघुसमुत्थानेन सैन्यचक्रेणाभ्यसरम् । अभवं च भूमिस्त्वत्पादलक्ष्मीसाक्षात्क्रियामहोत्सवानन्दराशेः’ इति । ( ३७ ) श्रुत्वैतद्देवो राजवाहनः सस्मितमवादीत्—‘पश्यत, पारत- ल्पिकमुपधियुक्तमपि गुरुजनबन्धव्यसनमुक्तिहेतुतया दुष्टामित्रप्रमापणा- भ्युपायतया राज्योपलब्धिमूलतया च पुष्कलावर्थधर्मावप्यरीरधत् । किं हि बुद्धिमत्प्रयुक्तं नाभ्युपैति शोभाम्’ इति । अर्थपालमुखे निधाय क्रमणम् । शत्रुवधः - चण्डवर्मनिधनम् । मित्ररक्षा-सिंहवर्मणो रक्षणं करणीयमव- श्यकर्त्तव्यम् । अलघुना-महता । लघुसमुत्थानेन-क्षिप्रगामिना । सैन्यचक्रेण- सेनासमूहेन । अभ्यसरम्-अभ्यगच्छम् । अभवं-जातः भूमिः पात्रं भाजनमिति यावत् । त्वत्पादेति-तत्र भवतो राजवाहनस्येत्यर्थः । पादलक्ष्म्याश्चरणशोभायाः साक्षात्क्रिया प्रत्यक्षीकरणमेव महोत्सवरतेन आनन्दराशिः प्रहर्षातिशयस्तस्य । ( ३७ ) एतत्-इमं वृत्तान्तम् । पारतल्पिकं-पारदारिकं-परदारापहरणमिति यावत् । अरीरधदित्यस्याः क्रियायाः कर्त्तृपदमेतत् । उपधियुक्तं छलपूर्णम् । गुरुजनेति-गुरुजनस्य पित्रादेर्बन्धः बन्धनमेव व्यसनं विपत् तस्माद् या मुक्ति- र्मोक्षस्तस्य हेतुतया कारणत्वेन । दुष्टस्यामित्रस्य शत्रोः प्रमापणस्य वधस्य अभ्युपायतया साधनतया । राज्येति-राज्यस्योपलब्धिः प्राप्तिस्तस्या मूलतया निदानतया । पुष्कलौ-प्रचुरौ । अर्थधर्मौ-अर्थश्च धर्मश्च तौ धर्मार्थौ । अरीर- धत् साधयामास । राध् संसिद्धावित्यस्य लुङि रूपम् । भाषार्थस्तु यदनेनोपहार- वर्मणा विकटवर्माणं कपटेन निहत्य तत्पत्नी गृहीता तत्तु पातकमेवाचरितं तेनेति सत्यम् किन्तु पितृबन्धनमोचनशत्रुनाशस्वराज्यप्राप्त्यादिबहुसत्कर्मसाधकतया दोषोऽपि गुणायैव संवृत्त इति । किं-किं वस्तु । बुद्धिमत्प्रयुक्तं बुद्धिमता कृतम् । अप्रिय जाना । पुनः पिताजीके मित्र सिंहवर्माके लेखसे चण्डवर्माका चम्पापुर पर आक्र- मण ज्ञात किया । शत्रु का वध और मित्रका रक्षण ये दोनों अवश्य करना चाहिये । इसी विचारसे मैं विपुल सैन्य बलके साथ अति शीघ्रतापूर्वक आपके पास आया हूँ । आपकी चरण शोभाके प्रत्यक्षीकरणसे महोत्सवरूप आनन्दराशिका मैं पात्र बन गया हूँ । ( ३७ ) देव राजवाहन यह वृत्तान्त सुन कर बोले-‘देखिये, परस्त्रीका अपहरण करना छलपूर्ण है । अर्थात्-छलियोंका कार्य है । परन्तु, माता-पिता आदि गुरु-जनोंको कारागार आदिके क्लेशसे छुड़ाना और दुष्ट शत्रुको योग्य उपायसे मारना तथा राज्य प्राप्त करना आदि बातोंके साधनमें धर्म और अर्थकी आराधना हुई है । ( इससे-परस्त्री
२४६ दशकुमारचरितम्। [ उत्तरपीठिकायां
२४६ दशकुमारचरितम्। [ उत्तरपीठिकायां स्निग्धदीर्घां दृष्टिम् 'आचष्टां भवानात्मीयचरितम्' इत्यादिदेश। सोऽपि बद्धाञ्जलिरभिदधे— इति श्रीदण्डिनः कृतौ दशकुमारचरित उपहारवर्मचरितं नाम तृतीय उच्छ्वासः। अभ्युपैति-प्राप्नोति। अर्थपालमुखे-अर्थपालस्य कुमारेष्वन्यतमस्य मुखे आन- ने। निधाय- संस्थाप्य। स्निग्धदीर्घां-स्निग्धां स्नेहपूर्णामाग्रहातिशयेन दीर्घां च। आचष्टां-कथयतु। आङ्पूर्वाच्चक्ष्धातोर्लोटि रूपम्। आत्मीयचरितं स्ववृत्तान्तम्। सोऽपि-अर्थपालोऽपि। अभिदधे-उवाच। इति श्रीताराचरणभट्टाचार्यकृतायां बालविबोधिनीसमाख्यायां श्रीदशकुमार- चरित-व्याख्यायामुपहारवर्मचरितं नाम तृतीयोच्छ्वासः। अपहरण पाप नहीं है ।) ठीक ही है, ऐसी कौनसी कृति है जो बुद्धिमान पुरुषोंके द्वारा की जानेपर शोभाको न प्राप्त करे । (-बुद्धिमानोंके द्वारा बुरा कार्य भी भले प्रकारसे होता है।) इसके पश्चात् राजवाहनने आग्रहपूर्वक स्नेहपूर्ण नेत्रोंसे अर्थपालकी ओर देखा और कहा—'आप भी अपनी चरितावली सुनायें।' इस प्रकार बालक्रीडानामक हिन्दी टीका समाप्त हुई ।