भारतकोश
संग्रह पर लौटें

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

८२ गन्धर्वतन्त्रे । मधुकैटभयोर्मेदसंघातैर्दृढतां गता । मेदिनी सर्वदाशुद्धा सुरपूजासु सर्वतः ॥ ३१ ॥ तस्य दोषस्य मोक्षार्थं कामबीजं लिखेत् क्षितौ । नैवेद्यादि स्वयं धृत्वा आच्छाद्य मीनमुद्रया ॥ ३२ ॥ वायुबीजेन संशोष्य वह्निना च मलं दहेत् । श्रीवत्समुद्रया दृष्ट्या तत् सर्वमवलोकयेत् ॥ ३३ ॥ यदात्मना न विज्ञातं सम्यक् पुष्पादिदूषणम् । अस्पर्शनादिकं वापि यदन्यायार्जितं भवेत् ॥ ३४ ॥ तथा निर्माल्यसंसृष्टिः कीटाद्यारोहणं च यैत् । तत् सर्वं नाशमायाति नैवेद्याद्यवलोकनात् ॥ ३५ ॥ नैवेद्यकादिकं यत्तु पुष्पगन्धादिकं च यत् । सर्वमाच्छादितं कार्यं यावदावाहयेत् पराम् ॥ ३६ ॥ आवाह्य स्थापयित्वा तु निराच्छादं प्रकाशयेत् । राक्षसाः प्रतिगृह्णन्ति निराच्छादं यतः प्रिये ॥ ३७ ॥ आसनं च ततः कुर्यान्नातिनीचं नचोच्छ्रितम् । आसनं चार्घ्यपात्रं च भग्नमासादयेन्न तु ॥ ३८ ॥ कृष्णाजिने मोक्षसिद्धिः श्रीमोक्षौ व्याघ्रचर्म्मणि । काम्यार्थं कम्बले चैवमभीष्टं रक्तकम्बले ॥ ३६ ॥ कुशासने सर्वसिद्धिर्मारणे कृष्णकम्बलम् । त्रिपुरापूजने शस्तं रक्तकम्बलमासनम् ॥ ४० ॥ नैतद् द्विहस्ततो दीर्घं सार्धहस्ता(नु?न्न)विस्तृतम् । न त्र्यङ्गुलात् समुच्छ्रायं पूजाकर्मणि संग्रहेत् ॥ ४१ ॥ १ ‘घा’ क पाठ. । २ ‘म’ क पाठ । ३ ‘चरेत्’ क पाठ. ।

अष्टमः पटलः । ८३ यथेष्टं चार्म्मणं कुर्यात् पूर्वोक्तं सिद्धिदायकम् । न दीक्षितो विशेज्जातु कृष्णसाराजिने गृही ॥ ४२ ॥ धरण्यां दुःखसंभूतिर्दौर्भाग्यं दारुजासने । आम्रनिम्बकदम्बानामासनं वंशनाशनम् ॥ ४३ ॥ बकुले किंशुके चैव पनसेषु हतश्रियः । वंशेष्टकाश्मधरणीतृणपल्लवनिर्म्मितम् ॥ ४४ ॥ वर्जयेदासनं मन्त्री दारिद्र्यव्याधिदुःखदम् । नाराचैर्वारिभिन्नं स्याद्विशीर्णं भग्नमेव च ॥ ४५ ॥ पर्युषितं परेषां तदधौतं च विवर्जयेत् । गान्तारीनिर्मितं शस्तं नानादारुमयं शुभम् ॥ ४६ ॥ न यथेष्टासनो भूयात् पूजाकर्म्मणि साधकः । काष्ठादिकासनं कुर्यान्मितमेव सदा प्रिये ॥ ४७ ॥ चतुर्विंशत्यङ्गुलेन दीर्घं काष्ठासनं शिवे । षोडशाङ्गुलविस्तीर्णमुच्छ्रायाच्चतुरङ्गुलम् ꙮ ॥ ४८ ॥ तदर्द्धाङ्गुलं वा कुर्यान्नोच्छ्रितं चात आचरेत् । धरण्या वस्त्रसंयोगाद् दारुजे कम्बलस्य च ॥ ४६ ॥ कौशेयाजिनसंयोगो हन्ति पुण्यं पुरातनम् । यथाशक्त्येकतो मन्त्री शस्तासनमुपाविशेत् ॥ ५० ॥ पाणिभ्यामासनं धृत्वा विहितं विस्तरेद् भुवि । १ 'तिदो' क पाठ । २ 'सर्व क पाठ । ३ 'बिल्वज' ख पाठः । ४ 'म्भा' ख. पाठ । ५ 'न्यद्वा' ख पाठ । ६ 'ल हि' ख पाठ ।

  • कम्बलं चार्मण शैल महामायाप्रपुजने । प्रशस्तमासन देवि कथित वरवर्णिनि ॥ इत्याधिक ख पाठः ।

८४ गन्धर्वतन्त्रे । पराबीजंꕤ समुच्चार्य ततश्चाधारपूर्वकम् ॥ ५१ ॥ शक्तिपदं समालिख्य कमलासनमालिखेत् । ङेन्तं नमःपदं कुर्यादनेनैवासनं यजेत् ॥ ५२ ॥ मूलप्रकृतिं तत्रैव कूर्मं च परिचिन्तयेत् । अनन्तं चापि संपूज्य पृथिव्यर्घ्यं निवेदयेत् ॥ ५३ ॥ प्रणवं पूर्वमुच्चार्य पृथिव्यै नम इत्यपि । पाणिभ्यामासनं धृत्वा स्मरेदेवं विधानतः ॥ ५४ ॥ मेरुपृष्ठ ऋषिः प्रोक्तः सुतलं छन्द ईरितम् । कूर्मो वै देवता चात्र आसनस्योपवेशने ॥ ५५ ॥ विनियोगस्तथा प्रोक्त उपविशेत् समन्त्रकम् । पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता ॥ ५६ ॥ त्वं च धारय मां नित्यं पवित्रमासनं कुरु । दुःशिल्पिरचितत्वादि यदन्यासनदूषणम् ॥ ५७ ॥ अज्ञातरूपकं याति विलयं विधिना प्रिये । पदद्वयं समं सम्यगूरुद्वयोपरिस्थितम् ॥ ५८ ॥ सव्यं पादमुपादाय दक्षिणोपरि विन्यसेत् । विष्टभ्य कट्योः पार्ष्णी तु नासाग्र(ग्र?न्य)स्तलोचनः ।५६। पद्मासनं भवेदेतत् प्रशस्तं त्रिपुरार्चने । स्वस्तिकं गोमुखं चैवमूर्ध्वस्वस्तिकमेव वा ॥ ६० ॥ पर्यङ्कमासनं शस्तमेवं बद्धासनः प्रिये । पश्यन्नभीष्टदेवं च पाददोषं न पश्यति ॥ ६१ ॥ ꕤ परेति ह्रींबीजमत्र ज्ञेयम् ।

अष्टमः पटलः । ८५ न युक्तमन्यथा पाद्दर्शनं सुरपूजने । दिग्विभागेषु कौवेरी दिक् शिवाप्रीतिदायिनी ॥ ६२ ॥ तस्मात् तन्मुख आसीनः पूजयेत् त्रिपुरां सदा । उत्तराभिमुखो भूत्वा यदा देवीं प्रपूजयेत् ॥ ६३ ॥ उत्तराशा तदा देवि पूर्वाशैव न संशयः । ईशानमग्निकोणं स्याद्वायुकोणं तथेशकम् ॥ ६४ ॥ दक्षिणाशा तदा ज्ञेया पश्चिमाशा महेश्वरि । राक्षसं वायुकोणं स्यादाम्नेयं राक्षसं भवेत् ॥ ६५ ॥ प्राक्प्रत्यङ्मुखपूजायां लौकिकं पश्चिमं स्मृतम् । दक्षिणोत्तरपूजायां संमुखं पश्चिमं स्मृतम् ॥ ६६ ॥ योगिनीचक्रपूजायां दिगियं नान्यथा भवेत् । कुङ्कुमारुणदेहस्तु रक्ताभरणभूषितः ॥ ६७ ॥ रक्तासनोपविष्टस्तु लाक्षारुणगृहे स्थित(म्?:) । ताम्बूलरागवदनो धूपामोदसुगन्धितः ॥ ६८ ॥ कर्पूरक्षोददिग्धाङ्गो रक्तचन्दनभूषितः । सर्वशृङ्गारवेशाढ्यस्त्रिपुरीकृतविग्रहः ॥ ६९ ॥ मनःसंकल्परक्तो वा साधकः स्थिरमानसः । कृताञ्जलिपुटो भूत्वा मन्दस्मितमुखाम्बुजः ॥ ७० ॥ वामकर्णोर्ध्वभागे तु गुरुं च प्रणमेत् ततः । दक्षकर्णोर्ध्वभागे तु गणेशं प्रणमेद् बुधः ॥ ७१ ॥ दुर्गां नमेत् पुरोभागे पृष्ठतः क्षेत्रनायकम् ।

१ ‘दामिश्र’ ख पाठ. । २ ‘ईं’ क पाठ । ३ ‘र्द्ध’ क पाठ ।

८६ गन्धर्वतन्त्रे । स्वदक्षे वामतो देव्या दीपं संस्थापयेत्ततः ॥ ७२ ॥ ततो रमिति मन्त्रेण शिखां दीपस्य संस्पृशेत् । देवतीर्थेन देवेशि संस्पृश्य च विधानतः ॥ ७३ ॥ सुप्रकाशो महादीपः सर्वतस्तिमिरापहा । सबाह्याभ्यन्तरं ज्योतिर्दीपोऽस्तु शुभदायकः ॥ ७४ ॥ स तस्य शुभदो दीपो भवेत् स्पर्शनमात्रतः । पतङ्गकीटकेशादिदाहक्रव्यादसङ्गतैः ॥ ७५ ॥ वसामजास्थिसंभूतिर्थदानुपयोगि(नः?ता) । अज्ञातरूपकं सर्वं दोषं स्पर्शाद्विनाशयेत् ॥ ७६ ॥ रोचनाकुङ्कुमाभ्यां च कस्तूरीचन्दनेन्दुभिः । रञ्जितं चक्रराजं च स्वयंभूकुसुमैर्युतम् ॥ ७७ ॥ सिन्दूररजसाक्रान्तं पुरतः सिंहविष्टरे । संस्थाप्य सहसा देवि योगिनीभिः समं ततः ॥ ७८ । देवीरूपं विचिन्त्याथ चक्रे पुष्पाञ्जलिं दिशेत् । अशून्यं कुसुमैः कुर्याच्छून्ये विघ्नाश्चनैकशः ॥ ७६ ॥ गन्धपुष्पाक्षतादीनि दक्षभागे निधापयेत् । प्रक्षालनाय करयोः पात्रं पश्चान्निधापयेत् ॥ ८० ॥ अर्ध्यादिकं पुरोभागे सव्ये कुम्भं निधापयेत् । मण्डलं वामतः कृत्वा जलेन चतुरस्रकम् ॥ ८१ ॥ वह(त?न्)कराभ्यां देवेशि तत्राधारं मनोहरम् । सुवर्णरौप्यताम्रादिविहितं स्थापयेत् ततः ॥ ८२ ॥ १ 'सह' क पाठ । २ 'न्यकु' क पाठः । ३ 'न्य' ख पाठ ।

अष्टमः पटलः । ८७ वह्निमण्डलरूपं तं कलाभिः सह पूजयेत् । कलशं हेमजं धन्यं निश्छिद्रं चापि सुन्दरम् ॥ ८३ ॥ वस्त्रपूतैर्जलैः पूर्णं सगन्धैर्दोषवर्जितैः । पानीयं घटमध्यस्थं वी[क्षन् ?क्ष्य] गुह्यं च साधकः ॥८४॥ वामेन पाणिना देवि तत्राधारे निवेशयेत् । पूजयेत् सूर्यरूपं तं कलाभिः परमेश्वरि ॥ ८५ ॥ [कल्पं तं च?कलशं तं] समभ्यर्च्य विशेषेण वरानने । तत्रस्थममृतं साक्षाच्चन्द्ररूपं विचिन्तयेत् ॥ ८६ ॥ चन्द्रमण्डलमभ्यर्च्य कलाभिः सुरवन्दिते । आनन्दभैरवं तत्र यजेदानन्दभैरवीम् ॥ ८७ ॥ यद्यन्यदूषणं पात्रे तोये वाऽज्ञानतो भवेत् । तत्सर्वं नाशमायाति पूजार्हः कलशो भवेत् ॥ ८८ ॥ पात्रमस्त्राम्बुभिः प्रोक्ष्य दक्षतो वह्निमण्डले । साधारं स्थापयेद्देवि पूजयेत् तं यथाविधि ॥ ८६ ॥ शुद्धोदकेन संपूर्य मूलविद्यां ततो जपेत् । प्रोक्षयेत्तेन कलशं प्रोक्षणीस्थेन वारिणा ॥ ६० ॥ वामतस्तु तथा शङ्खं प्रतिष्ठाप्य विधानतः । तदुत्तरत एवास्मिन् पाद्यमाचमनीयकम् ॥ ६१ ॥ चक्रोपरि शिवां नत्वा भूतशुद्धिमथाचरेत् । स्वभावतः सदाशुद्धं पञ्चभूतात्मकं वपुः ॥ ६२ ॥ (मनः?सदा)पूतिसमायुक्तं श्लेष्मविण्मूत्रपिच्छिलम् । १ 'घा' क पाठ. । २ 'रा' क पाठ. । ३ 'दक्षिणे स्थापयेत्ततः ख, पाठ । ४ 'सपूज्य' ख पाठः । ५ 'मन्त्र' ख पाठ. ।

८८ गन्धर्वतन्त्रे । तस्यैव हि विशुद्ध्यर्थं वायु₁ग्निसलिलाक्षरैः ॥ ६३ ॥ शोषदाहौ तथा भस्मप्रोत्सादोऽमृतवर्षणम् । आप्लावनं च कर्तव्यं पूरकुम्भकरेचकैः ॥ ६४ ॥ पञ्चशुद्धिविहीनेन कृतं यदभिचारवत् । विपरीतफलं दद्याद्भक्त्याभ्यर्चनं तथा ॥ ६५ ॥ शरीराकारभूतानां भूतानां यद्विशोधनम् । अव्ययब्रह्मसंस्पर्शाद् भूतशुद्धिरियं प्रिये ॥ ६६ ॥ अन्तःकरणमध्ये तु ज्योतिरात्मा प्रवर्तते । लिङ्गै₂देहं तु तं₃ प्राहुर्योगिनस्तत्त्ववेदिनः ॥ ६७ ॥ तस्य वै शोधनं चैव सर्वशुद्धिः प्रजायते । तदेव विश्वजननकारणं जन्मकारणम् ॥ ६८ ॥ तत्प्रतीतौ भवेन्मुक्तिर्नान्यतो जन्मकोटिभिः । प्राणायामत्रयं कृत्वा योनिमुद्रां ꕤ तथा स्मरेत् ॥ ६६ ॥ विद्याकूटत्रयं देवि वह्न्यर्केन्दुमयं धिया । पुरत्रयेऽथ संचिन्त्य तेषामैक्यं ततः स्मरेत् ॥ १०० ॥ तस्मिंस्तेजोमये (विश्वे?बिम्बे) सच्चिदानन्दधामनि । केवलानुभवानन्दे परँ₄ब्रह्मणि शाश्वते ॥ १०१ ॥ निमज्य बिन्दुगे धाम्नि क्षणं स्थित्वा तु चिन्तयेत् । बालार्ककिरणारक्तं तत्तत्तेजोमयं स्मरेत् ॥ १०२ ॥


१ 'ष्वा' ख पाठ । २ 'ङ्ग' ख पाठ । ३ 'तत्' ख पाठ । ४ 'रम्' ख पाठः ꕤ तल्लक्षण यथा— मिथ कनिष्ठिके बद्ध्वा तर्जनीभ्यामनामिके । अनामिकोध्र्व संश्लि- ष्टदीर्घमध्यमयोध्र्वं । अङ्गुष्ठाग्रद्वय न्यस्येद्योनिमुद्रयमीरिता ॥ इति ।

अष्टमः पटलः । ८६ शुद्धलाक्षामृताम्भोधिमध्ये चातिमनोहरे¹ । नवरत्नमये द्वीपे तच्चिन्तामणिमण्डपे ॥ १०३ ॥ रत्नसिंहासनाम्भोजे वह्न्यर्केन्दुस्वरूपिणीम् । बालार्ककोटिसंकाशां तुरीयां परमां कलाम् ॥ १०४ ॥ दक्षिणाधःकरे बाणान् वामाधो धनुरेव च । दक्षिणोर्ध्वे(शृ?सृ)णिं वामे पाशं चापि करे धृतम्² ॥१०५॥ अरुणामरुणाकल्पवसनाच्चित्रयान्विताम् । आत्माभेदेन संचिन्त्य शुद्धज्ञानस्वभाविनम्³ ॥ १०६ ॥ केवलानुभवानन्दमात्मानं परिचिन्तयेत् । ओंह्रींहंसस्ततः सोहं स्वाहेति मनुना शिवे ॥ १०७ ॥ बालाबीजत्रयस्यान्ते महात्रिपुरसुन्दरि । आत्मानं रक्ष्रक्षेति कुर्याद्रक्षां हृदि स्पृशन् ॥ दिग्बन्धः स्वस्त्रिया(?)चैव छोटिकाभिः समन्ततः ॥१०८॥

इति श्रीगन्धर्वतन्त्रे पार्वतीश्र्वरसंवादे यागधामार्चनभूतशुद्ध्यादिवर्णनं नाम अष्टमः पटलः ॥ ८ ॥


१ 'रम्' क. पाठ । २ 'रैधृ॑ताम्' ख पाठ । ३ 'नीम्' ख. पाठः । ४ 'द्र' क. पाठः ।

नवमः पटलः । ईश्वर उवाच देव एव यजेद्देवं नादेवो देवमर्चयेत् । न्यासं विना जपं प्राहुरासुरं विफलं शिवे ॥ १॥ न्यासात्तदात्मको भूत्वा देवो भूत्वा तु तं यजेत् । प्राणायामैस्तथा ध्यानैर्न्यासैर्देवशरीरता ॥ २॥ न्यासविधिं शृणु प्राज्ञे करशुद्धिपुरःसरम् । मातृकाद्यं समुद्धृत्य द्वितीयं च सबिन्दुकम् ॥ ३॥ शान्तान्तं कौदिसंयुक्तमेकारान्तान्तयोजितम् । एवमेषा महाविद्या करशुद्धिकरी ☫ मता ॥ ४॥ गृहीत्वा रक्तपुष्पं च सगन्धं साधकस्ततः । अनेनैव तु मन्त्रेण पुष्पं हस्ततलस्थितम् ॥ ५॥ संमार्ज्य सव्यहस्तेन वामेन पाणिना ततः । निर्मञ्छ्य कामबीजेन जिघ्रपेद्वाग्भवेन तु ॥ ६॥ ऐशान्यां निःक्षिपेदेतच्छ्लेषबीजेन पार्वति । अङ्गुल्यग्राणि शुद्धानि पुष्पस्य ग्रहणाद्भवेत् ॥ ७॥ मर्दनात् करयोः शुद्धिर्निर्मञ्छनात् पृष्ठयोः । घ्राणाद्देवाश्च तुष्यन्ति तीर्थानां च समागमः ॥ ८॥ प्रक्षेपात् सर्वविघ्नानां दूरसंस्थानमेव च । १ 'न्तक' क पाठ । २ 'कोत्तम' ख पाठ । ३ 'शव' ख पाठ । ☫ सबिन्दु मातृकाद्य अ द्वितीय च आ शान्तेत्यादिना सौ इत्येषा करशुद्धिकरीविद्या ।

नवमः पटलः । ६१ दुर्गन्धोच्छिष्टसंस्पर्शदूषणं करयोस्तु यत् ॥ ९ ॥ अज्ञातरूपं तत्सर्वं नाशयेद्विधिनामुना । करशुद्धिं विधायादावृषिन्यासादिकं ततः ॥ १० ॥ ऋषिच्छन्दोदैवतानां विन्यासेन विना यदा । जप्यते साधितेऽप्येष न तत्र तत्फलं लभेत् ॥ ११ ॥ ऋषिरस्या महेशानि दक्षिणामूर्तिरव्ययः । पंक्तिश्छन्दस्तथा प्रोक्तं विद्यायाः शृणु पार्वति ॥ १२ ॥ देवता परमेशानी महात्रिपुरसुन्दरी । विनियोगः समाख्यातो भुक्तिमुक्तिप्रसाधने ॥ १३ ॥ शिरसि मुखवृत्ते च हृदये च प्रविन्यसेत् । मातृकां शृणु देवेशि सर्वपापविनाशिनीम् ॥ १४ ॥ या ब्राह्मीप्रमुखा देव्यो मातरः परिकीर्तिताः । तासां मन्त्राणि सर्वाणि व्यञ्जनानि स्वैरास्तथा १ ॥ १५ ॥ चन्द्रबिन्दुसमायुक्ताः सर्वकामफलप्रदाः । ऋषिः संमोहनः प्रोक्तश्च्छन्दो गायत्रमुच्यते ॥ १६ ॥ देवतेयं समुद्दिष्टा समस्तजननी परा । शक्तयस्तु (सु?ख)रा देवि बीजं व्यञ्जनसंचयः ॥ १७ ॥ विनियोगः समुद्दिष्टः समस्तजनमोहने । स्वरेण दीर्घयुक्तेन षडङ्गानि समाचरेत् ॥ १८ ॥ हृदयं च शिरो देवि शिखा च कवचं ततः । नेत्रम[न्त्रं?स्रं]न्यसेत् स्वीयमुद्राजातियुतं नमः ॥ १९ ॥ १ 'त्स्' क पाठ । २ 'च्छ' क पाठ । ३ 'सु' क पाठः । ४ 'च्छ' क पाठ. ।

६२ गन्धर्वतन्त्रे । स्वाहा वषड् हुं च वौषट् फडन्तं योजयेत् प्रिये । षडङ्गोऽयं मातृकायाः सर्वपदोत्तरः शिवे ॥ २० ॥ बालार्ककोटिरुचिरां स्फटिकाक्षमालां कोदण्डमिच्छुजनितं [स्व?स्म]रपञ्चबाणान् । विद्यां च हस्तकमलैर्दधतीं त्रिनेत्रां ध्यायेत् समस्तजननीं नवचन्द्रचूडाम् ॥ २१ ॥ ह्यष्टपत्राम्बुजे कण्ठे स्वरान् षोडश चिन्तयेत् । हृत्पद्मे द्वादशच्छदे कादीन् द्वादश विन्यसेत् ॥ २२ ॥ दशपत्राम्बुजे नाभौ डकारादीन् न्यसेद्दश । षट्पत्रे लिङ्गमध्यस्थे बकारादीन् न्यसेच्च षट् ॥ २३ ॥ आधारे चतुरो वर्णान् वादीन् न्यसेच्चतुर्दले । हक्षौ भ्रूमध्यगे पद्मे द्विद्ले परिचिन्तयेत् ॥ २४ ॥ इत्यन्तर्मातृकाः स्मृत्वा बहिर्न्यासं ततश्चरेत् । ☸अकारादिक्षकारान्ता मातृकाः परिकीर्तिताः ॥ २५ ॥ प्रत्येकं कामबीजाद्याः सर्वकामफलप्रदाः । चन्द्रबिन्दुसमायुक्ता नमोन्ताश्च प्रविन्यसेत् ॥ २६ ॥ ललाटे मुखवृत्ते च नेत्रकर्णेषु पार्वति । नासागण्डौष्ठदन्तेषु समूर्धास्येषु शांकरि ॥ २७ ॥ पाणिपाद्युगस्यान्तःसंध्यग्रेषु क्रमाच्छिवे । पार्श्वद्वये पृष्ठनाभिजठरेषु क्रमान्न्यसेत् ॥ २८ ॥

१ 'स्वाहावषड्वौषडस्त्र फड' क पाठ । २ 'शिवे' क पाठ । ☸ बहिर्मातृकान्यासमाह अकारेत्यादिना । क्लींअनमो ललाटे इत्येव ज्ञेयम् ।

नवमः पटलः । ६३ यादीन् सधातुकान् देवि क्रमेणैव ततो न्यसेत् । त्वगसृङ्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः ॥ २६ ॥ प्राणात्मा च जीवात्मा च परमात्मा तथैव च । हृदये बाहुमूले च तथा कण्ठप्रदेशके ॥ ३० ॥ स्कन्ध(कच्छ)योर्हृदयप्रान्ते पाणिपादयुगे तथा । जठराननयोर्देवि सर्वाङ्गेषु क्रमान्न्यसेत् ॥ ३१ ॥ ❊ललाटेऽनामिकां मध्यां विन्यसेन्मुखपङ्कजे । तर्जनीमध्यमानामावृद्धा एव तु नेत्रयोः ॥ ३२ ॥ अङ्गुष्ठं कर्णयोर्देवि कनिष्ठाङ्गुष्ठकौ नसोः । मध्यास्तिस्रो गण्डयोश्च मध्यमामोष्ठयोः प्रिये ॥ ३३ ॥ अनामां दन्तयोर्देवि मध्यमामुत्तमाङ्गके । मुखेऽनामां मध्यमां च हस्तपादेऽथ पार्श्वयोः ॥ ३४ ॥ कनिष्ठानामिकामध्यास्तास्तु पृष्ठेऽथ पार्वति । तास्तु साङ्गुष्ठका नाभौ सर्वाः कुक्षौ प्रविन्यसेत् ॥ ३५॥ हृदये च तलं सर्वं बाह्वोः कण्ठप्रदेशके । स्कन्धयोर्हृदयप्रान्ते हस्तपादयुगे तथा ॥ ३६ ॥ जठरास्ययुगे देवि तलमेव प्रकीर्तितम् । एतास्तु मातृकामुद्राः क्रमेण परिकीर्तिताः ॥ ३७ ॥ अज्ञात्वा विन्यसेद्यस्तु न्यासः स्यात्तस्य निष्फलः । अनामया वा पुष्पैर्वा मनसा वा न्यसेद्द्रुत ॥ ३८ ॥


१ 'ज' क पाठ । * मातृक न्यासमुद्रा निर्दिशति ललाटेऽनामिकामित्यादिना ।

६४ गन्धर्वतन्त्रे । एवं तु मातृकान्यासं यः कुर्यात् परमेश्वरि । सर्वयज्ञेषु पूजासु पूतो योग्यश्च जायते ॥ ३९ ॥ नातः परतरो मन्त्रो¹ विद्यते क्वचिदेव हि । ये ये मन्त्रा देवतानामृषीणामथ रक्षसाम् ॥ ४० ॥ ते सर्वे मातृकामन्त्रे नित्यमेव प्रतिष्ठिताः । सर्वमन्त्रमयश्चायं सर्वदेवमयस्तथा ॥ ४१ ॥ चतुर्वर्गप्रदश्चायं तुष्टिपुष्टिप्रदायकः । सर्वपीठमयश्चापि मातृकान्यास उच्यते ॥ ४२ ॥ यः² कुर्यान्मातृकान्यासं विनैव सुरपूजनात् । तस्माद्बिभेति सततं भूतग्रामश्चतुर्विधः ॥ ४३ ॥ तं द्रष्टुमपि देवाश्च स्प(र्श?र्ध)यन्ति महौजसम् । स तु सर्वं³ वशं कुर्यान्न च याति पराभवम् ॥ ४४ ॥ पुटितां सर्वबीजेन समस्तजननीं पराम् । पञ्चाशन्मातृकां विद्यां जपेदष्टोत्तरं शतम् ॥ ४५ ॥ वाग्देवतां हृदि ध्यात्वा मूर्ध्नि सर्वाक्षराणि तु । द्विधा च मातृकामन्त्रैः सक्रमैर्व्युत्क्रमैरपि ॥ ४६ ॥ मन्त्रयित्वा महेशानि प्रभाते यः पिबेज्जलम् । स वाग्मी पण्डितो धीमाञ्जायते प्रवरः कविः ॥ ४७ ॥ चन्द्रबिन्दुसमायुक्तान् स्वरान् पूर्वं पठेद्बुधः । व्यञ्जनानि तु सर्वाणि केवलानि पठेत् प्रिये ॥ ४८ ॥ जलं हस्ततले गृह्य पठित्वाक्षरसंहतिम् ।

१ 'र मन्त्र' क पाठ । २ 'य' क पाठ । ३ 'वं' क पाठ ।

नवमः पटलः । ६५ अभिमन्त्र्य च तत्तोयं प्रथमं पू(र्वै?र)कैः पिबेत् ॥ ४६ ॥ कुम्भकेन द्वितीयं तु तृतीयं रेचकेन तु । एवं सकृत् त्रिवारं तु पीत्वा तोयं विचक्षणः ॥ ५० ॥ दृढाङ्गः पण्डितो भूयात् पुत्रपौत्रसमन्वितः । त्रिसंध्यमथ पीत्वैवं मातृकामन्त्रमन्त्रितम् ॥ ५१ ॥ तोयं कवित्वमाप्नोति सर्वान् कामांस्तथैव च । सततं कुरुते यस्तु मातृकामन्त्रमन्त्रितम् ॥ ५२ ॥ तोयदा[पा]नं महादेवि पूरकुम्भकरेचकैः । स सर्वकामान् संप्राप्य पुत्रपौत्रसमृद्धिमान् ॥ ५३ ॥ भूत्वा महाकविर्लोके बलवान् सत्यविक्रमः । सर्वत्र दुर्लभो भूत्वा चान्ते मोक्षमवाप्नुयात् ॥ ५४ ॥ राजानमथवा राजपुत्रं भार्यां च वा प्रिये । वशीकरोति न चिरान्मातृकामन्त्रपालकः ॥ ५५ ॥ ————— इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे करशुद्ध्यन्तर्बहिर्मातृकान्यासवर्णनं नाम नवमः पटलः ॥ ६ ॥

दशमः पटलः । श्रीदेव्युवाच षोढाख्यां मातृकां देव कथयस्व वृषध्वज । ईश्वर उवाच गणेशैः प्रथमो न्यासो द्वितीयस्तु ग्रहैर्मतः ॥ १ ॥ नक्षत्रैश्च तृतीयः स्याद्योगिनीभिश्चतुर्थकः । राशिभिः पञ्चमो न्यासः षष्ठः पीठैर्निगद्यते ॥ २ ॥ षोढा न्यासस्त्वयं प्रोक्तः सर्वकामफलप्रदः । श्रीदेव्युवाच फलं चास्य प्रयोगं च विशदीकुरु तत्त्वतः ॥ ३ ॥ ईश्वर उवाच नारायणोऽस्यैर्षि प्रोक्तश्छन्दस्त्रिष्टुबुदाहृतम् । शिवशक्त्यात्मवर्णा(ऋषी?राशि)र्देवता च सदाशिवः ॥४॥ हंसः शक्तिः परा बीजं श्रीबीजं चैव कीलकम् । पुरुषार्थप्रसाध्ये च विनियोगः प्रकीर्तितः ॥ ५ ॥ मूर्ध्नि संचिन्तयेद्देवि श्रीगुरुं शिवरूपिणम् । (१) रमाबीजं परं पश्चाद्धंसात् स्वराद्यमीरितम् ॥ ६ ॥ विघ्नेश्वराय वै प्रोच्य श्रियै नमस्ततः परम् ⊛ । विघ्नराजादिकानेवं शक्तियुक्तांस्तथैव च ॥ ७ ॥ विन्यसेन्मातृकास्थाने मातृकैकान्वितं शिवे । विघ्नराजाय देवेशि(क्रि?ह्रि)यै नमस्ततः परम् । ८ १ ‘ऋषि’ क पाठ । * अंविरेश्वराय श्रियै नमो ललाटे इत्यादिरूपो न्यासो बोध्य ।

दशमः पटलः । ६७ विनायकाय च तुष्ट्यै शांत्यै शिवोत्तमाय च । विघ्नकर्त्रे तथा पुष्ट्यै नम इति प्रविन्यसेत् ॥ ९ ॥ विघ्नहर्त्रे सरस्वत्यै नम इति प्रविन्यसेत् । विनायकाय मेधायै पूर्ववच्च विन्यसेत् ॥ १० ॥ एकदन्ताय कान्त्यै च द्विदन्ताय च योंमिनीम् । गजवक्त्राय मोहिन्यै निरञ्जनजटे❄तथा ॥ ११ ॥ कपर्दिने च तीव्रायै ज्वालिनी दीर्घवक्त्रकः । शङ्कुकर्णाय नन्दायै खरसा च वृषध्वजः ॥ १२ ॥ गणनायश्च कामिन्या गजेन्द्रश्च शुभा तथा । जयिनी शूर्पकर्णश्च सत्यया च त्रिलोचनः ॥ १३ ॥ लम्बोदराय विघ्नेश्र्यै महानन्दैः३ स्वरूपिणी । कामदया चतुर्मूर्तिः सदाशिवस्ततः परम् ॥ १४ ॥ मदविह्वलया युक्त आमोदो विकटायुतः । दुर्मुखाय च घूर्णायै सुमुखो भूतिसंयुतः ॥ १५ ॥ प्रमदाय तथा भूम्यै एकपादो मतिस्तथा । द्विजिह्वो रमया युक्तः सुरसेनश्च मानुषी ॥ १६ ॥ मकरध्वजया युक्तो वीरश्च परमेश्वरि । षण्मुखाय विकर्णायै वरदो भृङ्क(?भ्रुकु)टीयुतः ॥ १७ ॥ वामदेवाय लज्जायै दीर्घघोणायुतस्ततः । वज्रतुण्डो द्विरण्डश्च धनुर्धरायुतः प्रिये ॥ १८ ॥ १ 'ह' क पाठः 'कृते' ख पाठ । २ 'का' ख पाठ । ३ 'न्दश्च' क. पाठः । ❄ निरञ्जनाय जटायै नम इति प्रयोगो बोध्यः ।

सेनान्ये चैव यामिन्यै ग्रामणी रात्रिसंयुतः । मत्तश्चन्द्रिकया युक्तो विमत्तायै शशिप्रभा ॥ १६ ॥ तथैव परमेशानि लोलया मत्तवाहनः । जटि[ले?ने]चपलाद्यै च मुण्डी वृद्धियुतस्तथा ॥ २० ॥ खङ्गी दुर्भगया युक्तो वरेश्यः [शु?सु]भगायुतः । न्यस्तव्यः परमेशानि शिवया वृषकेतनः ॥ २१ ॥ भक्त¹प्रियाय दुर्गायै मेघनादाय कामिनी । कालकुब्जा⁵समायुक्तो गणेश्वरः प्रकीर्तितः ॥ २२ ॥ गणेशो विघ्नहारिण्या न्यस्तव्यः साधकोत्तमैः । [२] सूर्यमुखान् महादेवि न्यसेत् कामदुघानथ ॥ २३ ॥ स्वरान् पूर्वं समुद्धृत्य चन्द्रबिन्दुसमन्वितान् । सूर्याय नम उच्चार्य हृदये च प्रविन्यसेत् ॥ २४ ॥ भ्रुवोर्मध्ये तथा सोमं [ष?य]वर्गेण प्रविन्यसेत् । भूपुत्रं लोचनद्वन्द्वे कवगेण तथैव च ॥ २५॥ बुधं च हृदये देवि चवर्गेण प्रविन्यसेत् । बृहस्पतिं तथा कण्ठे टवर्गेण प्रविन्यसेत् ॥ २६ ॥ भार्गवं तु गले देशे तवर्गेण तथा प्रिये । पवर्गेण शनिं नाभौ राहुं गुदे शवर्गकैः ॥ २७॥ ळक्षाभ्यां पादयोः केतुं न्यसेदेवं विधानतः । (३) स्वराद्यं च द्वितीयं च अश्विन्यै नम इत्यपि ॥२८॥ ललाटे च प्रविन्यस्य तथान्यानपि विन्यसेत् ।


पादटिप्पणी: १ 'लाय' ख पाठ । २ 'क्षित्यै' क. पाठ. । ३ 'द्य' ख पाठ । ४ 'लिका' ख. पाठ । ५ 'जिह्वा' ख पाठ ।

दशमः पटलः । ६६ इंयुतां भरणीं देवि दक्षनेत्रे प्रविन्यसेत् ॥ २९ ॥ ईंउंऊंकृत्तिकां चैव विन्यसेद्वामनेत्रके । ऋंॠंलूंलूंयुतां देवि रोहिणीं दक्षकर्णके ॥ ३० ॥ एंयुतां मृगशीर्षां च वामकर्णे प्रविन्यसेत् । ऐंकारेण तथाद्रां च दक्षनासापुटे न्यसेत् ॥ ३१ ॥ ओंऔंपुनर्वसुं चैव वामनासापुटे न्यसेत् । कंयुतं च न्यसेत् पुष्यं कण्ठैदेशे च पार्वति ॥ ३२ ॥ खगाभ्यां च तथाश्लेषां दक्षस्कन्धे प्रविन्यसेत् । घङाभ्यां च मघां देवि वामस्कन्धे प्रविन्यसेत् ॥ ३३ ॥ चंपूर्वफाल्गुनीं चैव दक्षकुर्परके न्यसेत् । वामकुर्परके देवि छंजंउत्तरफल्गु(णी?नी)म् ॥ ३४ ॥ दक्षिणे मणिबन्धे तु झंझंहस्तं च विन्यसेत् । मणिबन्धे तथा वामे टंठंचित्रां प्रविन्यसेत् ॥ ३५ ॥ डंकारेण तथा खातीं दक्षहस्ततले न्यसेत् । ढणाभ्यां च विशाखां वै वामहस्ततले तथा ॥ ३६ ॥ तथाभ्यामनुराधां च न्यसेन्नाभौ समाहितः । दंधंज्येष्ठां कटौ दक्षे त्रिभिर्मूलां च वामतः ॥ ३७ ॥ पूर्वाषाढां बकारेण दक्षोरौ विन्यसेत् ततः । भकारेणोत्तराषाढां वामोरौ तदनन्तरम् ॥ ३८ ॥ दक्षजानुप्रदेशे च मंश्श्रवणं च विन्यसेत् । १ 'तां' क पाठ. । २ 'ष्यां' क पाठः । ३ 'ण्ठे' क पाठः । ४ 'स्वां' क. पाठः । ५ 'ती' क पाठ. । ६ 'या' क. पाठ ।

१०० गन्धर्वतन्त्रे । यंरंयुतां धनिष्ठां च वामे जानुनि विन्यसेत् ॥ ३९ ॥ शतभिषां लकारेण दक्षजङ्घाप्रदेशके । वंशंवर्णस्थितां वामे पूर्वभाद्रपदां न्यसेत् ॥ ४० ॥ तथैवोत्तरभाद्रां च षसहैर्दक्षपादतः । ळक्षाभ्यां बिन्दु(मद्ध्वा?मूर्ध)भ्यां रेवतीं विन्यसेत्ततः ॥४१॥ (४) रक्ताक्षीं च श्वेतवर्णां पशुभीतिकरां शुभाम् । खड्गं च चषकं चैव शूलं खट्वाङ्गमेव च ॥ ४२ ॥ अनुग्रामुग्रदंष्ट्रां च एकास्यां रिपुनाशिनीम् । पायसान्नप्रसक्तां च खरैः कल्पितविग्रहाम् ॥ ४३ ॥ डाकिनीं भावयेद्देवीं सर्वकामप्रपूरणीम् । ❀स्वरान् पूर्वं समुद्धृत्य चन्द्रबिन्दुसमन्वितान् ॥ ४४ ॥ ठान्तद्वयं ततः पश्चात् पाशतूरीयभेदितम् । नादबिन्दुकलायुक्तं बीजद्वयमुदीरितम् ॥ ४५ ॥ ठान्तं भान्तं महीबीजं वारुणं वह्निवायवौ । वामकर्णस्ततो देवि नादबिन्दुकलायुतः ॥ ४६ ॥ डाकिन्यै नम इत्यन्ते संबोध्य डाकिनीं ततः । [दुग्धान्न?त्वग्धातु]गत इत्युक्त्वा चतुःषष्टिपदं ततः ॥४७॥ लक्षकोटिपदस्यान्ते योगिनीस्वामिनीति च । सर्वसत्त्ववशं ब्रूयात् क(वि?रि)शब्द(मयं?पदं)ततः ॥४८॥


१ 'द्व' क पाठः । २ 'ह' क पाठ । ३ 'श' क. पाठ ।

  • अँ आँ इँ ईँ उँ ऊँ ऋँ ॠँ लूँ लूँ एँ ऐँ ओँ औँ अं अँ डाँ डीँ डमलवर यूँ डाकिन्यै नमः डाकिनि त्वग्धातुगते चतुष्षष्टिलक्षकोटियोगिनी स्वामिनि सर्वसत्त्ववश- करि आज्ञा मे देहि मम विच्चे । इति स्पष्टम् ।

दशमः पटलः । १०१ आज्ञां मे देहि तत्पश्चान्मम वि(क्रि?चे)पदद्वयम् । विशुद्धौ विन्यसेद्देवि राकिनीं चिन्तयेत् ततः ॥ ४६ ॥ हृत्पुण्डरीकमध्यस्थां दंष्ट्राभीममुखीं तथा । नवीननीरदश्यामां पीनोन्नतपयोधराम् ॥ ५० ॥ शूलं डमरुकं चैव दधतीं वज्रपद्मकै । १ शुक्ला(श्वाश?श्वास)कचितां च कठवर्णात्मविग्रहाम् ॥५१॥ कठवर्णांस्ततो रेफे पूर्ववत् स्वरभेदिते । [चा?ठा]न्तं हित्वाग्निवीजं च पूर्ववत् तदनन्तरम् ॥ ५२॥ राकिन्यै नम आभाष्य संबोध्य च तथा भवेत् । असृग्धातुगते पश्चाद् द्वात्रिंशल्लक्षकोटि च ॥ ५३ ॥ योगिनीस्वामिनि प्रान्ते पूर्ववत् तदनन्तरम् । रक्तवर्णां त्रिनेत्रां च देवदेवेशसंयुताम् ॥ ५४ ॥ दं[ष्ट्रीं?ष्ट्रिणी]मुग्ररूपाभां वज्रं शक्तिं वराभयौ । दधतीं चिन्तयेत् देवीं गुडभक्तोत्सुकां पराम् ॥ ५५ ॥ एवं ध्यात्वा महेशानीं डफवर्णात्मविग्रहाम् । डफवर्णांस्ततो देवि भूबीजद्वितयं तथा ॥ ५६ ॥ वह्निं हित्वा म[हा?ही]बीजं पूर्ववदपरं तथा । (सा?ला)किन्यै नम उच्चार्य संबोध्य च तथा व्रजेत् ३ ॥५७॥ मांसधातुगते पश्चात् षोडशलक्षकोटितः । पूर्ववदपरं सर्वं नाभिपद्मे प्रविन्यसेत् ॥ ५८ ॥ स्वाधिष्ठानाख्यपद्मे च काकिनीं परिचिन्तयेत् ।


१ 'वज्रपद्मे च धारिणीम्' क पाठ । २ 'रुद्रं' क पाठः । ३ 'भवेन्' ख पाठः ।