भारतकोश
संग्रह पर लौटें

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

कादम्बरी समागम, प्रणय विकास व पत्रलेखा संवाद

५१४कादम्बरी-[ कथायाम्-

च्चास्य मनसि—'एवं नामायम्^१ अप्रतीकारदारुणो दुर्विषहवेगः कष्टः कुसुमायुधः, यदने- नाभिभूता महान्तोऽप्येवमनपेक्षितकालक्रमाः समुत्सारितधैर्याः^२ सद्यो जीवितं जहति^३ सर्वथा नमो भगवते^४ त्रिभुवनाभ्यर्चितशासनाय मकरकेतनाये'ति ।

( समाप्तो महाश्वेतावृत्तान्तः )

पुनः पप्रच्छ चैनाम्—'भगवति ! सा तव^५ परिचारिका वनवासव्यसनमित्रं दुःखस- ब्रह्मचारिणी तरलिका क्व गता' इति ।

अथ साऽकथयत्—'महाभाग ! यन्मया कथितममृतसम्भवमप्सरसां कुलम्, तस्मा- न्मदिरेति नाम्ना मदिरायतेक्षणा^६ कन्यकाभूत् । तस्याश्चासौ सकलगन्धर्व-कुल-मुकुट-कुड्मल-


मायुधो मदनः एवं नाम इत्थं किल अप्रतीकारः प्रतिक्रियारहितः अत एव दारुणो भीषणः दुर्विषहो दुःखेन सोढुं शक्यो वेगो जवो यस्य सः, कष्टः क्लेशकरः । यद्, यस्मात्, अनेन कुसुमायुधेन आभिभूता आक्रान्ता महान्तोऽपि जनाः, अनपेक्षितकालक्रमा असोढकालक्षेपाः तथा समुत्सारितं कामेनेव दूरीकृतं धैर्यं येषां ते तादृशाः सन्तः, सद्यस्तत्कालं जीवितं प्राणितं जहति परित्यजन्ति । त्रिभुवनेन त्रिविष्टपवासिना लोकेन अभ्यर्चितं पूजितं शासनमादेशो यस्य तस्मै, मकरकेतनाय मदनाय नमोऽस्तु ।

( समाप्तश्चायं महाश्वेतावृत्तान्तः )

'यद्यापि प्रासङ्गिकं वृत्तं पताकेत्यभिधीयते' इति दर्परोक्तदिशा कादम्बर्या महाश्वेतावृत्तान्त एकपताकास्थानपातीत्यवधेयम् ।

अथ कादम्बरीवृत्तान्तोपक्रमः—

कादम्बरीवृत्तान्तं निरूपयितुं पुनः प्रश्नं कारयति—पुनरिति । एनां महाश्वेताम् । वनवासः अरण्यवसतिरेव व्यसनं विपत्तिः तत्र मित्रं सहायकीभूता तथा दुःखे सब्रह्मचारिणी समानतीर्थवासिनी समानक्लेशभोगिनीत्यर्थः ।

अथेति । अमृतसम्भवं पीयूषोत्पन्नम् अप्सरसां कुलमन्ववायः, यन्मया कथितं प्रागभिहितम्, तस्मात् कुलात्, मदिरा मद्यं तदुन्मादसोन्मादकत्वान्मदिरेति संज्ञा, मदिरावत् मत्तखञ्जनवत् आयते विस्तृते ईक्षणे नयने यस्याः सा । 'मदिरा (स्त्री) मत्तखञ्जनः....मद्यम्' इति शब्दकल्पद्रुमः ।

तस्या इति । अपि च, असौ ख्यातनामा, सकलस्य समग्रस्य गन्धर्वकुलस्य देवगायकवंशस्य मुकुटकुड्मलं किरीटाग्रमेव पीठं पदासनं तत्र प्रतिष्ठितौ स्थापितौ चरणौ पादौ यस्य सः, समस्तगन्धर्वराजचक्र-


शय्याके ऊपर बैठ कर वह महाश्वेताके वृत्तान्तके विषय में बारम्बार मन-ही-मन विचार करने लगा । इसके मनमें यह हुआ कि—'यथार्थमें इस क्लेशदायक कामदेवका वेग असहनीय है और प्रतीकार रहित होनेसे बड़ा भयंकर है। क्योंकि इसके आक्रमण करने पर प्रधान व्यक्ति भी कालविलम्ब सहन करनेमें समर्थ नहीं होते; उनके भी धैर्य नष्ट हो जाते हैं, तत्काल ही वे जीवनका त्याग कर देते हैं, अतएव त्रिभुवनके लोग जिसके आदेशकी पूजा करते हैं, उस भगवान् कामदेवको सब प्रकारसे नमस्कार है ।'

[ यहां महाश्वेताका वृत्तान्त समाप्त हुआ ]

फिर उस (चन्द्रापीड) ने महाश्वेतासे पूछा—'माहात्म्यशालिनि ! वनवासरूपी विपत्तिके समय की सहाय और दुःखभोगकी सहचरी आपकी वह परिचारिका तरलिका कहाँ गई ?

तदनन्तर महाश्वेता बोली—'महाभाग, मैं आपसे पहले कह चुकी हूँ कि, अमृतसे एक अप्सराओंका वंश उत्पन्न हुआ है, उस वंशमें मत्त-खञ्जनके समान नेत्रोंवाली मदिरा नामकी एक कन्या उत्पन्न हुई । समस्त गन्धर्व-


१. एवमयम् । २. समवधारितधैर्याः । ३. जहाति । ४. सकलत्रिभुवन । ५. त्वत्परि । ६. मदिरायतेक्षणा ।

कादम्बरीजन्मादिवर्णना ७९ ] चन्द्रकला-विद्योतिनीसहिता । ५६५

पीठप्रतिष्ठित-चरणो देवश्चित्ररथः पाणिमग्रहीत्। अपरिमित$^१$गुणकृष्टहृदयश्चान्यवनितादुर्लभेन$^२$ अधःकृताशेषान्तःपुरेण हेमपट्टलाञ्छनेन छत्र-वेत्र-चामर-चिह्नेन महादेवीशब्देन परं प्रीतः प्रसादमकरोत्। अन्योन्यप्रेमसंवर्द्धनपगयोश्च तयोर्यौवनसुखानि सेवमानयोः$^३$ बालेनाश्चर्य-भूतमेकजीवितमिव पित्रोः, अथवा सर्वस्यैव$^४$ गन्धर्वकुलस्य वा जीवलोकस्य, दुहितूरत्नमुदपादि कादम्बरीति नाम्ना। सा च मे$^५$जन्मतः प्रभृत्येकासन-शयन$^६$-पानाशना परं प्रेमस्थानम-खिलविश्रम्भधाम द्वितीयमिव हृदयं बालमित्रम्। एकत्र तया मया च नृत्यगीतादिकलासु$^७$ कृताः परिचयाः, शिशुजनोचिताभिश्च क्रीडाभिरनियन्त्रणनिर्भरमपनीतो बालभावः।

वर्तीत्यर्थः, देवश्चित्ररथः, तस्या मदिरायाः पाणिं हस्तम् अग्रहीत् पाणिग्रहणमकरोदित्यर्थः।

अकरोदिति। अपि च, अपरिमिला असंख्याता ये गुणा मदिरायाः सौन्दर्यविनयादयः तैः आकृष्टम् आकर्षितं हृदयं चेतो यस्य स तथोक्तश्चित्ररथः परं प्रीतः सन्, अन्यवनितादुर्लमेन अन्यस्त्रीदुष्प्रापेण, अधःकृतं न्यूनीकृतम् अशेषं समग्रम् अन्तःपुरस्यनारीजनो येन तेन, हेमपट्टः सुवर्णफलकम् उपवेशनाय तासमर्पणमित्यर्थः लाञ्छनं चिह्नं यस्य तेन, छत्रम् आतपत्रम्, वेत्रं यष्टिः चामरं बालव्यजनम्, च परि-चर्यार्थं नृत्यसहितभेतरसमर्पणमित्यर्थः, चिह्नं लाञ्छनं यस्य तेन, महादेवीशब्देन पट्टराज्ञीबोधकमहा-देवीत्युपाधिप्रदानेन प्रसादम् अनुग्रहम् अकरोत्।

अन्योन्येति। अन्योन्यं परस्परं यत् प्रेमः संवर्धनं प्रणयस्य आनुकूल्याचरणं तत्र परयोः यत्नवतोः तयोः सतोः, तयोर्मदिराचित्ररथयोः यौवनसुखानि तारुण्यानन्दाः सेवमानयोर्भुञ्जानयोः। पित्रोः मातृ-जनकयोः, अथवा सर्वस्यैव समस्तस्यैव गन्धर्वकुलस्य देवगायकवंशस्य, वा अथवा सर्वस्यैव जीवलोकस्य मनुष्यलोकस्य, एकजीवितमिव अद्वितीयं जीवनमिव अद्भुतसौन्दर्यादिसमस्तगुणनिधित्वादित्याशयः। कादम्बरी मद्यम्, सौन्दर्येण तद्वच्चित्तोन्मादकत्वात् कादम्बरीति नाम। 'गन्धोत्तमा प्रसन्नेराकादम्बर्यः परिस्रुता। मदिरा कश्यमद्येऽपि' इत्यमरः। क्रियोत्प्रेक्षा।

सेति। जन्मतः प्रभृति उत्पत्तिदिनादारभ्य एकम् अभिन्नस्थानोपन्नम् आसनम् उपवेशनम्, शय-नम्, पानम् अशनं भोजनञ्च यस्याः सा, परं प्रेमस्थानं नितान्तप्रणयपात्रम्, अखिलविश्रम्भधाम निखि-लविश्वासभाजनं द्वितीयम् अपरं हृदयं स्वान्तमिव बालमित्रं शैशवसुहृद्। द्रव्योत्प्रेक्षा।

एकत्रेति। परिचया अभ्यासाः। शिशुजनोचिताभिः बालजनयोग्याभिः क्रीडाभिः खेलाभिः, निय-न्त्रणस्य बाधाया अभावः अनियन्त्रणं तस्य निर्भरः आधिक्यं यस्मिन् कर्मणि तद्यथा स्यात्तथा नितान्त-बाधारहितमित्यर्थः। बालभावः शैशवम्, अपनीतः अतिक्रान्तः।


घुटने मुकुटाग्ररूपी पाद-पीठ पर चरणयुगल रखनेवाले सुप्रसिद्ध देव चित्ररथने उससे पाणिग्रहण (विवाह) कर लिया और उस (मदिरा) के अनन्त गुण-गणसे आकृष्ट-चित्त होकर महाराजने उसको, अन्य स्त्रियोंको दुर्लभ सब अन्तःपुरमें उच्चता दिखानेवाला हेमपट्ट (बैठनेके लिए सुवर्णफलक) से चिह्नित और छत्र, वेत्र, चामर-रूपी चिह्न प्राप्त करनेवाले भृत्योंसे युक्त, 'महादेवी' की उपाधि (पद) को परम-प्रीतिपूर्वक देकर अनुग्रह किया। अब उन दोनोंमें परस्पर प्रेम बढ़ रहा था और वे यौवनका समस्त सुख भोग करने लगे तब कुछ कालमें उनको, माता-पिताके अथवा समस्त गन्धर्वकुलके किंवा समस्त जीव-लोकके ही मानो एकमात्र जीवनके समान, आश्चर्य करनेवाला एक कादम्बरी नामका कन्या-रत्न उत्पन्न हुआ। वह और मैं जन्मकालसे ही एक साथ बैठती, एक साथ शयन करती (सोती), एक साथ ही पान और भोजन करती थीं, इससे उसके साथ मेरा अत्यन्त प्रेम हो गया, वह मेरा पूर्ण विश्वासपात्र हुई और द्वितीय हृदयके समान वह मेरी बाल्यावस्थासे ही सखी हुई। हम दोनोंने नृत्य-गीतादि कलाविद्याओं का साथ ही अभ्यास किया और बालोचित नानाविध क्रीड़ा करते करते हमारा अबोध बाल्यकाल पूर्ण स्वतन्त्रतामें आनन्दसे बीता। बाद उसने मेरे शोक-वृत्तान्तको सुन कर, उसपर शोकसे


१. क्वचिद् 'अपरिमित' इति पाठो नोपलभ्यते।
२. वनितादुर्लभेन।
३. अनुमन्तोः।
४. सकलस्यैव।
५. जन्मनः, माजन्मनः।
६. क्वचिद् 'शयन' इति पदं नास्ति।
७. गीतनृत्यकलासु गोतनृत्यादिकासु कलासु।

५१६कादम्बरी-[ कथायाम्-

सा चामुमैव मदीयेन हतवृत्तान्तेन समुपजातशोका निश्चयमार्काषीत्—‘नाहं कथञ्चिदपि सशोकायां महाश्वेतायामात्मनः पाणिं ग्राहयिष्यामि’ इति। सखीजनस्य पुरतः सशपथमभिहितवती च—‘यदि कथमपि मामनिच्छन्तीमपि बलात्तातः कदाचित् कस्मैचिद्दातुमिच्छति^२, ^३तदाहमनशनेन वा हुताशनेन वा रज्ज्वा वा विषेण वा नियतमात्मानमुत्स्रक्ष्यामि’ इति। सर्वञ्च तदात्मदुहितुः कृतनिश्चयं ^४निश्चलभाषितं कर्णपरम्परया परिजनसकाशाद्गन्धर्वराजश्चित्ररथः स्वयमशृणोत्। ^५गच्छति काले समुपारूढनिर्भरयौवनामालोक्य सुतां^६ बलवदुपता^७पपरवशः क्षणमपि न ^८धृतिमलभत। एकापत्यतया चातिप्रियतया च न ^९शक्तः किञ्चिदपि तामभिधातुम्। अपश्यंश्चान्यदुपयान्तरम्, इदमत्र प्राप्तकालमिति मत्वा, तया महादेव्या मदिरया सहावधार्य क्षीरोदनामानं ^१०कञ्चुकिनं ‘वत्से ! महाश्वेते ! ^११त्वद्व्यतिकरेणैव दग्धहृदयानामिदमपरमस्माकमुपस्थितम्, ^१२इदानीन्तु ^१३कादम्बरीमनुनेतुं त्वं शरणम्’ इति

सेति। हतवृत्तान्तेन दुष्टोदन्तेन, समुपजातशोका समुत्पन्नशोका। कथञ्चिदपि केनचित्प्रकारेणापि। आत्मनः स्वस्य पाणिं नाहं ग्राहयिष्यामि, महाश्वेतायाः शोकनिवृत्तौ तद्विवाहं करिष्यामीत्याशयः। अनिच्छन्तीमपि अनभिलषन्तीमपि। दातुमिच्छति दित्सति। अनशनेन भोजनपरित्यागेन, हुताशनेन तत्र प्रवेशेन, रज्ज्वा उद्बन्धनेन, विषेण विषमक्षणेन वा, नियतं निश्चितम् आत्मानं निजशरीरम्, उत्स्रक्ष्यामि परित्यक्ष्यामि।

सर्वमिति। आत्मदुहितुः निजसुतायाः। निश्चलभाषितं शपथवचनम्, कर्णपरम्परया श्रोत्रप्रणालिकया। सुतां पुत्रीं कादम्बरीम्, समुपारूढं समुत्पन्नं निर्भरम् अतिशायि यौवनं तारुण्यं यस्याः ताम्, बलवतो महतः उपतापस्य सन्तापस्य परवशः अधीनः। धृतिं धैर्यम् न अलभत न प्राप्तवान्। एकापत्यतया एकसन्ततितया, न शक्तः समर्थः।

अपश्यन्निति। अन्यदुपयान्तरम् अन्यप्रकारमुपायमित्यर्थः, अतएव नार्थगतपुनरुक्ततादोष इत्यर्थः। प्राप्तकालम् उचितसमयम्। अवधार्य विमर्शन निश्चीय। कञ्चकिनमिति प्रेषितवानित्युत्तरक्रियायाः कर्म। त्वद्व्यतिकरेणैव तवोदन्तेनैव दग्धं शोकानलेन ज्वलितं हृदयं मनो येषां तेषाम्, अस्माकम्, इदमपरं क्लेशदम् उपस्थितं प्राप्तम्, कादम्बर्या निजपाणिग्रहणे अननुमद्युत्पादितमित्याशयः। अनुनेतुम् अनुनयेन पाणिग्रहणे सम्मतिं विधातुं त्वमेव शरणम् अस्माकमवलम्बनम्, त्वदर्थमेवैवंविधशपथविधानात् त्वद्वाक्याधीनत्वाच्चेत्याशयः।


विह्वल हो, निश्चय किया कि—'महाश्वेताके शोकातुर रहने पर मैं किसी प्रकारसे भी अपना पाणिग्रहण (विवाह) नहीं करूंगी'। और सखियोंके समक्ष उसने शपथ-पूर्वक कहा कि—'मेरी इच्छा न रहने पर भी पिता यदि बलपूर्वक किसी समय किसीके भी हाथमें मुझे देना चाहेंगे तो मैं अनशन अथवा अग्निप्रवेश किंवा उद्बन्धन (फांसी लगा) अथवा विषभक्षण कर निश्चय ही प्राण-त्याग कर दूंगी। अपनी पुत्रीके किए हुए इस निश्चय और शपथ-वचनको किसी परिजनके द्वारा स्वयं गन्धर्वराज चित्ररथने कर्ण-परम्परासे श्रवण किया। फिर कुछ समय व्यतीत होने पर उस (कादम्बरी) का पूर्ण यौवनकाल उपस्थित देखकर उनको अत्यधिक सन्ताप हुआ, और क्षण भरके लिए भी धैर्य नहीं मिला। केवल एक ही सन्तानके और उस पर अत्यधिक स्नेह होनेके कारण वे उससे कुछ भी कहनेके लिए समर्थ न हुए। दूसरे किसी उपायको नहीं देख कर 'इस समय यही उचित है' इस प्रकार मनमें मानकर उस महादेवी मदिराके साथ आलोचनापूर्वक स्थिर कर, आज ही प्रातःकाल मेरे समीप 'क्षीरोद' नामक कञ्चुकीको यह सन्देश कह कर भेजा कि—'पुत्री महाश्वेते ! केवल तुम्हारे वृत्तान्तसे ही शोकानलमें हृदय दग्ध हो गया है; उस पर एक और दुःख उपस्थित हो गया है, इस लिए इस समय कादम्बरीको अनुनय वचनोंसे


१. समुत्पन्न····।
२. इच्छेत्।
३. ततः।
४. कृतनिश्चलभाषितम्, कृतनिश्चयनिश्चलभाषितन्।
५. इह 'अतिप्रेमतया' इत्यधिकः पाठः कचिदुपलभ्यते।
६. स तां।
७. बलवद्द्‌दूयमानः।
८. सन्तप्तापेन बलवद्द्‌दूयत न क्षणमपि धृतिमलभत।
९. शक्नोति।
१०. क्वचित् 'ब्रूहि गत्वा वधः' इत्याधिकः पाठः।
११. तद्व्यतिरेकेणैव।
१२. क्वचित् 'तु' पदं न विद्यते।
१३. कादम्बरीव्यतिकरे।

चन्द्रोदयवर्णना ८० ] चन्द्रकला-विद्योतिनीसहिता । [ ५१७

सन्दिश्य मत्समीपमद्यैव प्रेषितवान् । ततो मया गुरुवचनगौरवेण सखीप्रेम्णा च क्षीरोदेन सार्द्धं सा तरलिका—'सखि ! कादम्बरि ! किं दुःखितमपि जनमतिशयं दुःखयसि । जीवन्तीमिच्छसि चेन्मां तत्कुरु गुरुवचनमवितथम्' इति सन्दिश्य विसर्जिता । नातिचिरं गतायाञ्च तस्यामनन्तरमेवेमां भूमिमनुप्राप्तो महाभागः' इत्यभिधाय तूष्णीमभवत् ।

अत्रान्तरे लाञ्छनच्छलेन विडम्बयन्निव शोकानलदग्धमध्यं महाश्वेताहृदयम्, उद्वहन्निव मुनिकुमारवधमहापातकम्, दर्शयन्निव चिरकाललग्नं दक्षशापानलदाहचिह्नम्, अविरलभस्माङ्गरागधवलः कृष्णमृगाजिन-प्रावृताद्ध वामस्तन इवाम्बिकायाः, धूर्जटिजटामण्डल-


तत इति । गुरुवचनगौरवेण पूज्यवाक्यानुल्लङ्घ्यतया । सा तरलिका 'विसर्जिता' इत्युत्तरेण सम्बन्धः । दुःखितमपि पीडितमपि जनं मामित्यर्थः, अतितराम् अतिशयेन दुःखयसि पीडयसि निजपाणिग्रहणे शपथपूर्वकासम्मत्येत्याशयः। तत्तदा, गुरुवचनं पितुराज्ञावाक्यम् अवितथं कुरु निजपाणिग्रहणेऽनुमति-दानेन सत्यं विधेहि, अन्यथाऽहं प्राणत्यागं करिष्यामीत्याशयः। 'तत्' इत्यस्य स्थाने 'तदा' इत्येव पाठो विधेयः, अन्यथावाचकत्वदोषस्य वारयितुमशक्यत्वात् ।

नातीति । तस्यां तरलिकायां नातिचिरं नातिपूर्वं गतायां प्रस्थितायां महाभागो भवान् इमां भूमि स्थानमिमम् अनुप्राप्तः अन्वागतः ।

अत्रेति । अत्रान्तरे अस्मिन् समये । धूरिव जटास्येति धूम्रारिभूता जटा यस्य वेति धूर्जटिः महेश्वरः तस्य जटामण्डलशूपायाः चूडायाः मणिः रत्नम् । अनेनास्य महाम्यवत्त्वं द्योतितम् । भगवान् तारका-राजश्चन्द्रः, लाञ्छनच्छलेन क्रोडस्थमृगाङ्ककपट्रेन, शोकानलेन शुग्वह्निना दग्धं ज्वलितं मध्यम् अभ्यन्तरं यस्य तत्तथोक्तं महाश्वेताया। हृदयं मानसं विडम्बयन्निव अनुकुर्वन्निव, लाञ्छनच्छलेन मुनिकुमारस्य पुण्डरीकस्य वधः कामसाहाय्येन हत्यैव महापातकं महापापं तत् उद्वहन्निव हृदये धारयन्निव, महापात-कस्य मालिन्येन वर्णना कविसमयप्रसिद्ध्या बोध्यम् । तथा च दर्पणे—'मालिन्यं व्योम्नि पापे' इति । तथा लाञ्छनच्छलेन चिरकाललग्नं दक्षशापानलेन दक्षप्रजापत्यभिसम्पातवह्निना यो दाहः तस्य चिह्नं लाञ्छनं दर्शयन्निव प्रकटयन्निव जनानीति शेषः, अविरलेन सान्द्रेण भस्मना विभूत्यैवाङ्गरागेण धवलः श्वेतः तथा कृष्णमृगस्य कृष्णसारस्य अजिनेन चर्मणा प्रावृतम् आच्छादितम् अर्द्धं यस्य स तथोक्तः । चन्द्रस्यैकभागे धवलत्वात् अन्यभागे च कलङ्कमालिन्यात् तत्सादृश्यनिरूपणायेदं विशेषणद्वयोपादान-मित्यवधेयम् । अम्बिकायाः पार्वत्याः वामस्तन इव दक्षिणेतरकुच इव उदगात् उदितवान् । अर्धनारी-श्वरसमयेऽम्बिकाया वामेतरस्तनस्य महेश्वरशरीरान्तर्भावेनानवलोकनात् । 'वामस्तन' इति स्वरूपमात्र-मभिहितम् ।

इहाद्यस्तिस्रः सापह्नवाः क्रियोत्प्रेक्षाः अनन्तरा च श्रौतोपमा इत्यासां परस्परं नैरपेक्ष्येण संसृष्टिः । पद्मपुराणीयोऽयमितिहासः—'पुरा किल चन्द्रः दक्षप्रजापतेः अश्विन्द्यादिसप्तविंशतिकन्यका विधिनोपयम्य तासु रोहिण्यामेव नितरामासक्तो बभूव । ततः पितरं समेत्योचुस्ताः स्वस्वावहेलनाम् , अनन्तरं तासा-


अनुकूल करनेमें एकमात्र तुम ही हम लोगों का आश्रय हो ।' इस पर मैंने गुरुजनके आदेशके प्रति गौरव और सखी के प्रति प्रेमके कारण क्षीरोदके साथ तरलिकाको भेजा है, और यह सन्देश भेजा कि—'सखि, कादम्बरी ! तू दुःखिनी व्यक्तिको और भी दुःखिनी क्यों करती हो ? तू यदि मुझे जीवित देखनेकी अभिलाषा करती हो तो माता-पिताका वचन सत्य करो।' उसके जानेके थोड़ी देर पीछे ही आप इस स्थानमें उपस्थित हुए हैं। इतना कह कर वह चुप हो गई ।

इस बीचमें कलङ्कके ब्याज (बहाने) से मानो शोकानलसे दग्ध (जले) हुए मध्यवाले महाश्वेताके हृदयका अनुकरण करता, मुनिकुमारकी हत्याके महापातकको ही मानो धारण करता, चिरकालसे संलंग्न दक्ष मुनिके शापाग्निके दाहका चिह्न हो मानो दिखाता [ चन्द्रमाने अश्विनी-प्रभृति २७ दक्षकी पुत्रियोंसे परिणय किया था, किन्तु वह विशेषतः रोहिणीमें ही अनुरक्त रहा। जब दक्षको यह समाचार मिला तब उसने उसे (चन्द्रको) शाप दिया कि—'तू यक्ष्मारोगसे अभिभूत हो जाओगे'] एवं अधिक भस्म लगानेसे शुभ्रवर्ण हुए और कृष्णसार (मृग) के चर्मसे अर्ध-आच्छादित (आधे ढके) पार्वतीके वाम-स्तनके समान शोभायमान होता, महादेवके जटा-मण्डलके


१. इह 'तदनुगतार्थ' इत्यधिकः पाठः क्वचिदुपलभ्यते ।
२. क्वचित् 'अद्यैव' इति पाठो नास्ति ।
३. प्रत्युपसि ।
४. अतः ।
५. तस्मिन्नन्तरे ।
६. क्वचित् 'कृष्ण' इति पदं न विद्यते ।

५१८ = कादम्बरी- [ कथायाम्-

चूडामणिर्भगवातुदगात्तारकाराजः।

क्रमेण चोद्गते गगनमहापयोधिपुलिने सर्वलोकनिद्रामङ्गलकलसे कुमुदबान्धवे विघटितकुमुदवने धवलितदशदिशि शङ्खश्वेते श्वेतातपत्रायमाणे मानिनीमानशत्रौ शुचिशोचिषि शशाङ्कमण्डले, शशिकरकलापकलितासु व्रजन्तीषु कृशिमानमौडुवीषु प्रभासु, प्रस्रवत्सु, च कैलासशशिमणिशिलानां सर्वतः स्रोतःस्राविषु प्रस्रवणेषु मृणालकन्दलिनि चार्वास्कन्दपतित-चन्द्रकर इव विलुप्तकमलवनशोभे भात्यच्छोदसरःपयसि, "समुपोढमोहनिद्रे च द्राघीयोमनुरोधात् दक्षेण निखिलास्वेव तुल्यरागो भवत्विति योजितोऽपि चन्द्रस्तथा विधातुं नाचेष्टत। तथैव तमवलोक्य दक्षः 'त्वं यक्ष्मरोगो भव' इति शशाप' इति।

क्रमेणेति। किञ्च, गगनम् आकाश एव महापयोधिः अपरिमितनिर्मलनीलत्वसादृश्यात् समुद्रः तस्य पुलिनं श्वेतत्वसादृश्यात्तोयोत्थितवालुकामयभूमिः तस्मिन्, सप्तानां लोकानां भूप्रभृतीनां निद्रा-निमित्तं मङ्गलकलसो निद्रामङ्गलकलसः तत्स्वरूपे, निद्राकालीनावस्थानात् श्वेतत्वाद् गोलाकारत्वाच्चे-त्याशयः। कुमुदानां कैरवाणां बान्धवे प्रस्फुटनकरणाद्बन्धुभूते। विघटितं प्रस्फुटितं कुमुदवनं कैरवा-रण्यं येन तस्मिन्। धवलिता चन्द्रिकया श्वेतीकृता दश दिशो येन तस्मिन्, शङ्खवत् श्वेते धवले। श्वेतातपत्रवदाचरतीति श्वेतातपत्रायमाणं तस्मिन्। मानिनीनां सुन्दरीणां मानशत्रौ नितान्तोद्दीपक-त्वान्मानभङ्गविधायिनि। तथा शुचीनि श्वेतानि शोचींषि कान्तयो यस्य तस्मिन्, एवंविधे शशाङ्कमण्डले चन्द्रबिम्बे, क्रमेण उद्गते ऊर्ध्वमुत्थिते सति।

इह 'परम्परितरूपकम्, निरङ्गं केवलरूपकम्, लुप्तोपमा, व्यङ्गतोपमा, च्छेकानुप्रासः' इति तथा-क्रममलङ्कारा बोध्याः। तथा 'कुमुदबान्धव' इत्यत्र 'विघटितकुमुदवन' इत्यत्र च कुमुदशब्दस्योपादा-नात् पुनरुक्ततादोषः समापतति तद्वारगाय' 'विघटितडून' इति पाठो विधेयः।

शशीति। शशिकरैश्चन्द्ररश्मिभिः कलितासु आवृतासु, उडूनां तारकाणामिमा इत्यौडुव्यस्तासु प्रभासु दीप्तिषु, कृशस्य अल्पस्य भावः कृशिमा तं तादृशम्, पृथ्वादिभ्योऽणिमनिच्। व्रजन्तीषु प्राप्नुवन्तीषु सतीषु।

इह कृशत्वप्राप्तिं प्रति चन्द्ररश्मिनाच्छादितत्वं निमित्तमिति पदार्थहेतुकं काव्यलिङ्गम्।

प्रस्रवंति। किञ्च, सर्वतश्चतुर्दिक्षु स्रोतांसि स्रावयन्ति चन्द्ररश्मिसम्पर्केण निष्कासयन्तीति तेषु, कैलासस्य रजताद्रेः शशिमणिशिलानां चन्द्रकान्तमणीनां प्रस्रवणेषु निर्झरेषु, प्रस्रवत्सु क्षरत्सु सत्सु। वृत्त्यनुप्रासः। तथा... 'प्रस्रवत्सु' इत्यस्यार्थगतपुनरुक्तदोषवारणाय परित्याग एव साधीयान्; ...'प्रस्रवणेषु सर्वतः स्राविषु' इत्यनेनैव गतार्थत्वात्।

मृणालेति। अपि च, मृणालानां बिसानां कन्दलानि अभिनवप्ररोहा अस्य सन्तीति तस्मिन्, अवस्कन्दाय पङ्कजानामेवाक्रमणाय पतितः चन्द्रस्य करो रश्मिः पाणिश्च यत्र तस्मिन् तयोक्त इव, अत-एव विलुप्ता सङ्कोचाद्विनाशमुपगता कमलवनशोभा पङ्कजारण्यश्रीः यस्य तस्मिन्, अच्छोदसरसः अच्छो-दाभिधानसरोवरस्य पयसि जले, भाति राजति सति। इहाक्रमणाय चन्द्ररश्मिपतननोत्प्रेक्षणात्क्रियो-त्प्रेक्षा। 'कन्दलस्तु कपाले स्यादुपरागे नवाङ्कुरे' इति विश्वः।

समुपोढेति। अपि च, विरहिणि वियोगिनि रात्र्यागमे चक्रवाकदम्पत्योर्वियोगस्य प्राकृतिकत्वा-

चूड़ामणि और माहात्म्यशाली चन्द्रमाका उदय हुआ।

क्रमशः जब आकाश-रूपी महासमुद्रका पुलिनस्वरूप, भू-प्रभृति सप्तलोकका माङ्गलिक निद्रा-कलसस्वरूप, कुमुद-बान्धव, कुमुद-वनको प्रस्फुटित करनेवाला, दशों दिशाओंको शुभ्रवर्ण करनेवाला, शङ्खके समान शुभ्रवर्ण और मानिनियोंका मान-भङ्ग करने (उतारने), वाला, श्वेतच्छत्रके समान शोभित, शुभ्रकिरण चन्द्रमण्डल उदय होता गया; चन्द्रकिरणोंसे आच्छादित (ढँक जाने) के कारण नक्षत्रोंका आलोक (तारोंकी प्रभा) जब क्षीण होता गया; कैलासपर्वतस्थ स्रोतों निःसारणकारी चन्द्रकान्त-मणिकी शिलाओंके झरनोंमेंसे सब दिशाओंमें जलकी धारा बहने लगी; अभिनव मृणालके अङ्कुरसे भरे अच्छोदसरोवरके जलमें कमलोंकी शोभा विलुप्त हो जानेसे चन्द्रमाकी किरणें मानो आक्रमण करनेके लिए ही जल पर गिरी हुई दीखने लगीं; रात्रि उपस्थित हो जानेके


१. समस्त।
२. श्वेतिमानमातन्वति, शङ्खश्वेतायमाने।
३. ०मानदस्यौ।
४. क्वचित् 'शुचिशोचिषि' इति पदं नोपलभ्यते।
५. शशाङ्के।
६. क्वचिदिह 'कलाप' इति पदन्नास्ति।
७. कवलितासु।
८. 'आनम्रतासु।
९. अवश्याय।
१०. इह 'पवनवशाद' इत्यधिकः पाठः क्वचिदुपलभ्यते।

केयूरेण सह तरलिकागमनम्०८१ ] चन्द्रकला-विद्योतिनीसहिता । ५१६ ६

वीचिविचलितवपुषि विरुवति विरहिणि चक्रवाकचक्रवाले, निर्वृत्ते^१ च चन्द्रोदये विद्रुते हर्ष-नयन जलकण-नीहारिणि वियद्विहारिणि मनोहारिणि विद्याधराभिसारिकाजने, चन्द्रा-पीडः सुप्तामालोक्य महाश्वेतां पल्लवशायने शनैः शनैः^२ समुपविशत् । अस्यां वेलायां किं नु खलु मामन्तरेण चिन्तयति वैशम्पायनः, किं वा वराकी पत्रलेखा, किं वा राजपुत्रलोकः, इति चिन्तयन्नेव निद्रां ययौ ।

अथ क्षीणायां क्षपायामुषसि सन्ध्यामुपास्य शिलातलोपविष्टायां पवित्राण्यघमर्षणानि जपन्त्यां महाश्वेतायाम्, निर्वत्तितप्राभातिकविधौ चन्द्रापीडे, तरलिका षोडशवर्षवयसा, सावष्टम्भाकृतिना, मद-स्वेदालस-गजराज-गमनगुरुणि^३ पदानि निक्षिपता, पर्युषितचन्दना-

दित्याशयः, अतएव समुषोढा सञ्जाता मोहनिद्रा क्लेशान्मूर्च्छारूपा निद्रा प्रमीला यस्य तस्मिन्, तथा द्राघीयसीभिः नितान्तदीर्घाभिः वीचिभिः अच्छोदसरस्तरङ्गैः विचलितम् आन्दोलितं वपुः शरीरं यस्य तस्मिन्, चक्रवाकानां रथाङ्गपक्षिणां चक्रवाले मण्डले (समूहे) विरुवति रवं विदधति सति । इहच्छेकानुप्रासः ।

निर्वृत्त इति । अपि च, चन्द्रोदये निर्वृत्ते निष्पन्ने चन्द्रोदयेनान्धकारनाश इत्याशयः, हर्षणयनजल-कणाः प्रमोदाश्रुबिन्दव एव नीहाराः, तुहिनानि अस्य सन्तीति तस्मिन् । 'वियद्विहारिणि गगनचारिणि, मनोहारिणि अत्यन्तरमणीये विद्याधराभिसारिकाजने व्योमचारिसंकेतितस्त्रीजने विद्रुते सर्वतश्चन्द्रोदयेन तिमिरापगमाल्लोकाना मवलोकनभयात्पलायिते सति, इह हर्षादिपदे निरङ्गं केवलरूपकम्, तथैक-क्रमेण हारिणीत्यस्यावृत्तेर्यमकम्, उभयोश्च परस्परं नैरपेक्ष्येण संसृष्टिः ।

चन्द्रेति । सुप्तां निद्रिताम् । पल्लवशायने किसलयातल्पे । समुपविशत् अधितस्थौ । मामन्तरेण मद्यतिरेकेण । वराकी क्षुद्रा । निद्रां ययौ प्रमीलां प्राप्तवान् ।

अथेति । क्षपायां निशायां क्षीणायां क्षयमुपगतायाम् उपसि प्रातःकाले । शिलातलोपविष्टायां प्रस्तरपलासीनायां पवित्राणि पूतानि अघमर्षणानि 'ऋतञ्च सत्यञ्च' त्यादिमन्त्रान् । चन्द्रापीडे च निर्व-त्तितो निष्पादितो प्राभातिकविधिः प्रातःकालिकानुष्ठानं येन तस्मिन् सति ।

अरेति । प्रत्युपस्येव केयूरकनाम्ना गन्धर्वदारकेणानुगम्यमाना तरलिका प्रादुरासीदित्यत्तरेण सम्बन्धः । इह तृतीयेकवचनान्तानि पदानि अग्रेतनस्य 'गन्धर्वदारकेणे'त्यस्य विशेषणानि । षोडशव-र्षाणि षडधिकदशहायनानि वयोऽवस्था यस्य तेन, सावष्टम्भा सबला आकृतिः स्वरूपं यस्य तेन, मदस्वेदेन दानवारिघारजपरिश्रमेण अलसो मन्दगामी यो गजराजो हस्तिश्रेष्ठः तस्येव गमने चलने गुरुणि मन्थराणि, पदानि चरणन्यासान्, निक्षिपता विदधता । लुप्तोपमा ।

पर्युषितेति । पर्युषितेन गतदिनविहितस्वानिःसुतरसेन शुष्केण चन्दनाङ्गरागेण मलयजाङ्गावलेपनेन

कारण मोह-निद्रासे अभिभूत हुए, अच्छोदसरोवरकी बड़ी बड़ी तरङ्गोंकी छलकतें काँपते, परस्पर विच्छिन्न (विरही) चक्रवाकके झुण्ड जब चीखें मारने लगे; चन्द्रोदय जब पूर्ण हो गया; और नेत्रोंसे शिशिर (ओस) के समान आनन्दाश्रु-विन्दु विसर्जन करती, आकाशमें विहार करनेवाली चन्द्रके उदयसे अन्धकार मिट जानेके कारण इधर उधर भागतीं, मनोहर (परम सुन्दर) विद्याधरोंकी रमणियाँ जब अभिसारमें जाने लगीं; तब चन्द्रापीड़, महाश्वेताको निद्रित देख धीरे-धीरे अपने पल्लवमय शय्याके ऊपर (पत्तोंके बिछौने पर) बैठ गया और—'इस समय मुझे न देखकर वैशम्पायन अथवा बालिका पत्रलेखा ही, किंवा राजपुत्रगण ही क्या मनमें विचारते होंगे?' इस प्रकारकी चिन्ता करते-करते निद्रित हो (सो) गया।

तदनन्तर रात्रिके व्यतीत होनेपर प्रातःकाल सन्ध्यावन्दन करके एक शिलातलपर बैठकर महाश्वेता पवित्र 'अघमर्षण'—मन्त्रोंका जप कर रही थी और चन्द्रापीड भी प्रातःकालिक कृत्य समाप्त कर चुका था कि इतनेमें ही उस जगह तरलिका उपस्थित हो गई (जा पहुँची) उसके पीछे एक सोलह वर्षकी अवस्थाका, सबल आकृति-वाला, राजकुल-सम्पर्कसे चतुर 'केयूरक' नामका गन्धर्वपुत्र—मदपरिश्रमसे मन्दगामी गजराजके समान


१. निवृत्ते ।
२. क्वचिद् द्विरुक्तिर्न विद्यते ।
३. मन्दस्वेद्धालस''', ''गजगमनगुरुणि ।

५२०कादम्बरी-[ कथायाम्-

ङ्गराग-धूसरोरुदण्डद्वयेन, कुङ्कुमराग-पिञ्जरारुणेन, चामीकर-शृङ्खला-कलाप-निबिड-नियमितं कक्षाबन्धातिरिक्तं प्रेङ्खत्पल्लवमघरवास एव केवलं वसानेन, ¹निरुदरतया विभक्तमध्येन, विपुलवक्षसा, दीर्घानुवृत्तपीनबाहुना, वामप्रकोष्ठदोलायमानमाणिक्यवलयेन, कर्णाभरणमणे- ²र्विप्रकीर्यमाणमधोमुखकिरणेन्द्रायुधजालं वर्णांशुकोत्तरीयमिवैकस्कन्धक्षिप्तमुद्वहता, चूतपल्लव-कोमलमनवरतताम्बूल-बद्ध-रागान्धकारमधरं दधता, कर्णान्तायतस्य स्वभावधवलस्य धवलिम्ना लोचनयुगलस्य धवलयतेव दिगन्तराणि कुमुदवनानीव वर्षता पुण्डरीकमयमिव दिवसं

धूसरम् ईषत्पाण्डुरम् ऊरुदण्डद्वयं सक्थिदण्डयुगलं यस्य तेन, कुङ्कुमरागेण कुङ्कुमद्रवकृताङ्गरागेण पिञ्जरः कस्मिंश्चिद्भागे नीरसत्वात् पिङ्गलवर्णश्चासौ कस्मिंश्चिद्भागे अरुणः तत्समयेऽपि सरसत्वाद् रक्तवर्णश्चेति तेन, चामीकरस्य सुवर्णस्य शृङ्खलानां निगडानां कलापेन पद्ध्या निबिढं दृढं यथा स्यात्तथा नियमितं बद्धम्, तथा कक्षाबन्धात् कटिबन्धात् अतिरिक्तं प्रचुरभूतम् अतएव प्रेङ्खत् पवनेन चलत् पल्लवम् अञ्चलं यस्य तत्, केवलम् अधरवास एव अधोऽशुकमेव वसानेन परिदधता, न पुनरुत्तरीयवस्त्रं धारयतेत्याशयः।

निरुदरेति। निरुदरतया कृशोदरतया 'अनुदरा कन्या' इतिवद्दीर्घदृर्ये निःशब्दं। विभक्तमध्येन क्षीणमध्यभागेन, विपुले वृहत् वक्षो भुजान्तरं यस्य तेन, दीर्घौ विस्तीर्णौ, अनुवृत्तौ सुवर्तुलौ, पीनौ, स्थूलौ च बाहू भुजौ यस्य तेन।

वामेति। वामे दक्षिणेतरे प्रकोष्ठे मनिबन्धादुपरिभागे दोलायमानं भुजान्दोलनाच्चपलं माणिक्यवलयं रत्नकटकं यस्य तेन, कर्णाभरणे श्रोत्रभूषणे यो मणिः रत्नं तस्माद्, विप्रकीर्यमाणं अवजाङ्गारे-णाथोविक्षिप्यमाणम्, अधोमुखाः किरणा रश्मय इन्द्रायुधानि अनेकरूपत्वादिन्द्रधनुषीव तेषां जालं समूहम्, एकस्मिन् स्कन्धे अंसे क्षिप्तम् अर्पितम्, वर्णो लोहितवर्णस्तेन रञ्जितम् अंशुंकं वसनं वर्णांशुकं तद्रूपमुत्तरीयमिव उद्वहता धारयता। इह लुप्तोपमा जात्युत्प्रेक्षा चानयोरङ्गाङ्गिभावसङ्करः।

चूतेति। चूतस्य रसालस्य पल्लववत् किसलयवद् कोमलं सुकुमारम्, तथा अनवरतेन निरन्तरेण ताम्बूलेन नागवल्लीदलचर्वणेन बद्धो घृतो रागो रक्तिमा अन्धकारः कस्मिंश्चिद्देशे मालिन्यञ्च यस्मिन् तम्, प्रचुरताम्बूलदलचर्वणेनौष्ठे मालिन्यमपि जायत इत्यनुभवसिद्धम्। अधरम् ओष्ठं दधता,उद्वहता लुप्तोपमा।

कर्णेति। कर्णान्तायतस्य श्रोत्रपर्यन्तविस्तृतस्य स्वभावधवलस्य प्रकृत्या श्वेतस्य लोचनयुगलस्य नेत्रद्वयस्य धवलिम्ना श्वेततया दिगन्तराणि धवलयतेव श्वेतं कुर्वतेव, अतएव कुमुदवनानि कैरवा-ण्यानि वर्षतेव वृष्टिं विदधतेव, दिवसं दिनं पुण्डरीकमयं सिताम्भोजव्याप्तं कुर्वतेव सृजतेव, नेत्रद्वयस्य शुभ्रकान्तिप्रसरणात् कुमुदपुण्डरीकयोश्च श्वेतत्वादित्याशयः।

इहाद्यास्तिस्र एव क्रियोत्प्रेक्षा वाक्यार्थहेतुकं काव्यलिङ्गञ्चेति समेपामेपामङ्गाङ्गिभावसङ्करः। तथा धवलपदस्य मुहुर्मुहुरभिधानादनवीकृतत्वं दोषः समापतति तद्वारगाय 'स्वभावधवलस्य लोचनयुगलस्य कान्त्या दिगन्तराणि लिम्पतेव' इति पाठो विधेय इति कुशलाः समाचक्षते।


धीरे-धीरे पैर रखता हुआ—आया। पर्युषित (बासी) चन्दनके अङ्गराग (लेप) से उसके दोनों ऊरुयुगल धूसर-वर्ण (मटिमाले) हो रहे थे, और कुङ्कुमके रङ्गसे किसी स्थानमें पीला और किसी स्थानमें लाल दोखता था; वह केवल परिधेय-वस्त्र (धोती) ही पहना था जो सुवर्णकी शृङ्खलावलीसे दृढ़ बँधी हुई थी, और जिसका अञ्चल (कोर) कटिबन्धनके अतिरिक्त स्थानमें वायुके भारसे हिल रहा था। उसका उदर बहुत कृश होनेके कारण कटिदेश (मध्यभाग) भी कृश होकर विभक्त हो गया था; वक्षःस्थल विस्तृत था; एवं बाहुयुगल लम्बे, सुगोल और स्थूल (मोटे) थे; वामहस्तके कलाई पर एक रत्नका कङ्गण झूल-रहा था; कर्णाळङ्कारके मणिमैते इन्द्रधनुषके समान नानावरणके किरणसमूह नीचेकी ओर फैलते थे, उससे प्रतीत होता था कि वह मानों एक स्कन्ध पर एक रक्तवर्ग उत्तरीयवस्त्र (दुपट्टा) धारण किया है। उसका ओष्ठयुगल आम्रपल्लवके समान कोमल और सर्वदा ताम्बूल-चर्वण (पान खाने) से लगे हुए रङ्गसे मलिनवर्ण (श्याम) दीखता था; आकर्णविस्तृत (कानों तक) पहुँचते एवं स्वभावसे ही धवलवर्ण नयनयुगलकी धवलप्रभाद्वारा वह दिशाओंको मानो श्वेतवर्ण कर डालता था,


१. क्वचित् 'निरुदरतया' इति पदं न दृश्यते।
२. 'कर्णाभरणमणिविप्रकीर्य।

समागत·तरलिकया प्रश्नोत्तर० ८२] चन्द्रकला-विद्योतिनीसहिता । ५२१

कुर्वता, कनकपट्ट·पृथु·ललाटेन, अलि·कुल·नील·सरल¹-शिरसिजेन, अग्राम्याकृतिना, राज-कुल-सम्पर्क·चतुरेण, गन्धर्वदारकेण केयूरकनाम्नानुगम्यमाना प्रत्यूषस्येव प्रादुरासीत् । आगत्य च कोऽयमित्युपजातकौतूहला चन्द्रापीडं सुचिरमालोक्य² महाश्वेतायाः समीपमुपसृत्य कृतप्रणामा सविनयमुपाविशत् ।

अनन्तरञ्चातिदूरानतेनोत्तमाङ्गेन प्रणम्य केयूरकोऽपि महाश्वेतादृष्टिनिसृष्टं नातिसमीपवर्तिशिलातलं भेजे । समुपविष्टश्च³ तमदृष्टपूर्वमधःकृतकुसुमायुधमुपहसितसुरासुरगन्धर्वविद्याधररूपं रूपातिशयं चन्द्रापीडस्य दृष्ट्वा विस्मयमपेदे ।

परिसमाप्तजपा तु महाश्वेता पप्रच्छ तरलिकां—‘किं त्वया दृष्टा प्रियसखी कादम्बरी कुशलिनी ? करिष्यति वा तदस्मद्वचनम् ?’ इति ।

अथ सा तरलिका विनयावनतमौलीरीषदालम्बित⁴·कर्णपाशमतिमधुरया गिरा व्यजि-


कनकेति । कनकपट्टवत् सुवर्णफलकवत् पृथु विशालं ललाटं भालं यस्य तेन अलिकुलवत् द्विरेफसमूहवत् नीलाः श्यामाः शिरसिजाः केशा यस्य तेन । लुप्तोपमा । अग्राम्या नागरी शिष्टयोग्या आकृतिराकारो यस्य तेन, तथा राजकुले गन्धर्वराजवाट्यां सम्पर्केण सर्वस्मिन् काले स्थितिसम्बन्धेन चतुरो दक्षः तेन, नानाविधजनैरनेकप्रकारसम्भाषणकार्यविधानादित्यभिप्रायः । प्रादुरासीत् उपस्थिताऽभवत् ।

आगत्येति । अयम् अपरिचितः पुरुषः क इति उपजातम् उत्पन्नं कुतूहलं कौतुकं यस्याः सा तरलिकेति शेषः । उपसृत्य आगत्य, कृतो विहितः प्रणामो नतिर्यया सा तादृशी । उपाविशत् उपविष्टा ।

अनन्तरमिति । अनन्तरं तरलिकोपवेशन |नन्तरमित्यर्थः, अतिदूरानतेन अत्यन्तावनतेन उत्तमाङ्गेन शिरसा, प्रणम्य नमस्कृत्य महाश्वेतामित्यर्थः । महाश्वेतया दृष्ट्या दृष्टिभङ्ग्या निसृष्टं दत्तं दर्शितमित्यर्थः नातिसमीपवर्त्ति नातिनिकटस्थायि शिलातलं भेजे आश्रितवान् तत्रोपविवेशेत्यर्थः ।

समुपेति । समुपविष्टः समासीनश्च केयूरकः अधःकृतः । पराजितः कुसुमायुधः कामो येन तम्, तथा उपहसितं निजापेक्षया न्यूनत्वादुपहास्यतां प्रापितं सुरासुरगन्धर्वविद्याधराणां रूपं सौन्दर्यं येन तम्, रूपातिशयं सौन्दर्याधिक्यम् । विस्मयम् आश्चर्यम् आपेदे प्राप्तवान् ।

परीति । परिसमाप्तजपा पूर्णभूतजापा । पप्रच्छ अप्राक्षीत् । कुशलिनी कल्याणवती । तत् पूर्वोक्तम् अस्मद्वचनं मम वाक्यानुरूपं कार्यं निजपाणिग्रहणमित्यर्थः, करिष्यति विधास्यति ? ।

अथेति । विनयेन अवनतो नम्रभूतो मौलिश्चूडा यस्याः सा, ईषदालम्बितो शिरोनमनेन किञ्चिन्नम्रीभूतो कर्णपाशो मनोहरश्रवणद्वयं यस्मिन् कर्मणि तद् यथा स्यात्तथा । व्यजिज्ञपत् विज्ञापितवती ।


इससे प्रतीत होता था कि, वह मानो श्वेतोत्पलसमूहकी वर्षा करता है और दिवसको मानो श्वेतपद्ममय करता है । उसका ललाटदेश, स्वर्णफलके समान विस्तृत, था, और उसके केशकलाप भ्रमरसमूहके समान कृष्णवर्ण (काले) और सरल थे, एवं आकृति भी भद्रलोगोंके समान ही थी । आते ही चन्द्रापीडको देखकर तरलिकाको 'यह कौन है'?—इस प्रकार कौतुक उत्पन्न हुआ, उससेही वह बहुत देर तक उसे देख कर महाश्वेता समीपमें जाकर उसे सविनय प्रणाम कर बैठ गई ।

उसके बाद केयूरक भी अत्यन्त अवनत मस्तकसे महाश्वेताको प्रणाम किया, बाद उसके नयनभङ्गी-द्वारा (दृष्टिसे) बताए हुए एक समीपवर्त्ती शिलातल पर बैठ गया । वहाँ बैठे बैठे चन्द्रापीड उस अलौकिक सौन्दर्यको देखकर बहुत विस्मयापन्न हुआ, क्योंकि—वह रूपसौन्दर्य इससे पहले कभी उसने देखा नहीं था, एवं वह सौन्दर्य कामदेवके सौन्दर्यको भी परास्त कर दिया था, तथा देवता, दानव, गन्धर्व और विद्याधरोंके सौन्दर्यका भी उपहास करता था ।

इधर जप समाप्त कर महाश्वेताने तरलिकासे पूछा—'तरलिके ! क्या तूने मेरी प्रियसखी कादम्बरीको सकुशल तो देखा ? क्या वह मेरे वचनके अनुसार कार्य करेगी ?।'

इसके बाद तरलिकाने जरा नीचे झुके कर्णपाश-सहित, विनयपूर्वक, मस्तक अवनत करके अतिमधुर


१. कुटिल । २. अवलोक्य । ३. उपविष्टश्च तत्र । ४. अवलम्बित··· ।

३३ का०

५२२ कादम्बरी— [ कथायाम्-

ज्ञपन्—'भर्तृदारिके! दृष्टा खलु मया भर्तृदारिका कादम्बरी सर्वतः कुशलिनी। विज्ञा- पिता च निखिलं भर्तृदुहितुः सन्देशम्। आकर्ण्य च यत्तया 'सन्ततमुक्तमुक्ता-स्थूलाश्रु- बिन्दुवर्षं रुदित्वा प्रतिसन्दिष्टम्; तदेष तयैव विसर्जितस्तस्या एव वीणावाहकः केयूरकः कथयिष्यति' इत्युक्त्वा विरराम।

विरतवर्चसि तस्यां केयूरकोऽब्रवीत्—'भर्तृदारिके! महाश्वेते! देवी कादम्बरी दृढदत्तकण्ठग्रहा त्वां विज्ञापयति—'यदिदमागत्य मामवदत्तरलिका, तत् कथय किमयं गुरुजनानुरोधः? किमिदं मच्चित्तपरीक्षणम्? किं गृहनिवासापराधनिपुणोपालम्भः? किं प्रेमविच्छेदाभिलाषः? किं भक्तजनपरित्यागोपायः? किंवा प्रकोपः?। जानास्येव मे सहज-प्रेम-निस्पन्द-निर्भरं हृदयम्, एवमतिनिष्ठुरं सन्द्दिशन्ती कथमसि न लज्जिता? तथा मधुरभाषिणी केनासि शिक्षिता वक्तुमप्रियं परुषमभिधातुं वा? स्वस्थोऽपि तावत् क

भर्तृदुहितुः भवत्याः। तया कादम्बर्या, सन्ततम् अनुटितप्रवाहं यथा स्यात्तथा मुक्तानि त्यक्तानि मुक्तावत् स्थूलानां पृथुलानाम् अश्रुबिन्दूनां नयनाम्बुकणानां वर्षाणि यस्मिन् कर्मणि तद् यथा स्यात्तथा रुदित्वा यत् प्रतिसन्दिष्टं प्रत्युत्तरं दत्तम्, तदेष वीणावाहकः केयूरकः कथयिष्यति निवेदयिष्यतीत्यन्वयः। विरराम तूष्णीं बभूव।

विरतेति। दृढं दत्तः अर्पितः कण्ठग्रह आश्लेषो यया सा। गुरुजनानुरोधः गुरुजनपारवश्यम्। गृहे भवने निवासः स्थितिरव अपराधः आगः तस्मिन् निपुणोपालम्भः उपयुक्ततिरस्कारः, त्वयि विपिने स्थितवत्यामहं यद्भवने स्थिताऽस्मि तस्यागस उचितोपालम्भः किमित्यर्थः। प्रेमविच्छेदाय आवयोः स्नेहविश्लेषाय अभिलाष उक्तिः। भक्तजनस्य सेवकस्य अनुरक्ताया ममेत्यर्थः परित्यागोपायः परित्यागो- द्योगः किम्?

जानासीति। सहजं प्राकृतिकं यत् प्रेम स्नेहः तस्य निस्यन्देन रसेन निर्भरं परिपूर्णं मे मम हृदयं स्वान्तं त्वं जानास्येव, तथापि एवम् अतिनिष्ठुरम् अतिपरुषम् उपयमनोपदेशरूपं सन्द्दिशन्ती सन्देशं प्रेषयन्ती। परुषं कठिनम् अभिधातुं कथयितुं केन शिक्षितासि उपदिष्टासि।

ननु पाणिग्रहणे का नाम आपत्तिः येनैवं सूचयसीत्यत आह—स्वस्थ इति। स्वस्थोऽपि सुखशान्त्या- दिना सर्वप्रकारेण सुस्थमानसोऽपि क इव सहृदयः इष्टानिष्ठविवेचनशक्तो जनः, ईदृशे एवंविधे कनीयसि अल्पतरे क्षुद्रे, अवसानविरसे परिणामक्लेशप्रदे, तवेव वियोगादिनेत्याशयः, कर्मणि पाणिग्रहणरूपक्रियायां मतिं बुद्धिम उपसर्पयेत् दध्यात्, अपि तु न कोऽपीत्यर्थः। एवञ्च सति नितान्तास्वस्थानां मद्विधानां तु

वाणीने सूचित किया—'राजकन्ये! आपकी प्रियसखी राजकन्या कादम्बरीको मैं सब प्रकारसे स्वस्थ देख कर आई हूँ, और आपका सब सन्देश उनसे कह दिया है, किन्तु उन्होंने सुन कर अविच्छिन्न धारासे मुक्ताके समान स्थूल अश्रुबिन्दुवर्षणपूर्वक रोकर जो प्रत्युत्तर दिया है उसे उनका ही भेजा हुआ यह केयूरक नामक उन्हींका वीणावाहक आपसे कहेगा।' इतना कह कर वह विरत (चुप) हो गई।

उसके चुप हो जाने पर केयूरक कहने लगा—'राजकन्ये, महाश्वेते! देवी कादम्बरी आपको दृढ़ कण्ठा- लिङ्गन करके विज्ञापन करती हैं कि—'इस तरलिकाने आकर जो मुझसे कहा—उस विषयमें तुम ही कहो—कि यह क्या गुरुजनोंका अनुरोध है? या मेरे चित्तकी परीक्षा की जा रही है? किंवा—मैं जो घरमें निवास करती हूँ—इस अपराधका उपयुक्त उलाहना है? अथवा प्रेम-भङ्ग करनेके लिए एक कथामात्र है, या स्नेही व्यक्तिके परित्याग करने (छोड़ने) का उपाय है, या किसी कारणसे प्रकोप है? तुम तो जानती ही हो कि मेरा हृदय तुम्हारे ही अकृत्रिम (सहज) प्रेमके प्रवाहसे परिपूर्ण है, उस पर भी तुम्हें, ऐसा अत्यन्त निष्ठुर सन्देश भेजते क्यों लज्जा नहीं आई? तुम तो उस प्रकारको मधुरभाषिणी थी, किन्तु इस समय ऐसा अप्रिय और निष्ठुर भाषण करनेके लिए तुम्हें किसने शिक्षा दी? देखो—स्वस्थचित्त होकर भी कोई बुद्धिमान् व्यक्ति ऐसा नहीं होगा जो ऐसे तुच्छ और परिणाममें दुःखजनक इस प्रकारके कार्यमें मन लगावे, तब फिर मेरे समान-अत्यन्त


१. सन्ततमुक्तस्थूलाश्रु...। २. वीणावादकः। ३. गुरुवचनानुरोधः। ४. अभिलाषः। ५. ...निष्यन्द।

कादम्बरीप्रत्युत्तरवर्णना ८३ ] चन्द्रकला-विद्योतिनीसहिता । ५२३

इव सहृदयः कनीयस्यवसानविरसे कर्मणीदृशे मतिमुपसर्पयेत् ? किमुतातिदुःखामिहतहृदयोऽस्मद्विधो जनः । सुहृद्दुःखखेदिते हि मनसि कैव सुखाशा ? कैव निर्वृतिः ? कीदृशाः सम्भोगाः ? कानि वा हसितानि ? । येनेदृशीं दशामुपनीता प्रियसखी कथमतिदारुणं तमहं विषमिवाप्रियकारिणं कामं सकामं कुर्याम् ? दिवसकरास्तमयेविधुरासु नलिनीषु सहवासपरिचयाच्चक्रवाकयुवतिरिव ^२पतिसमागमसुखानि परित्यजति^३, किमुत नार्यः। अपि च^४ यत्र भर्त्तृविरहविधुरा परिहृतपरपुरुषदर्शना दिवानिशं निवसति प्रियसखी, कथमिव तन्मम हृदयमपरः प्रविशेज्जनः ? । यत्र च भर्त्तृ विरहविधुरा तीव्र^५व्रतकर्शिताङ्गी प्रियसखी, महत्कृच्छ्रमनुभवति, तत्राहमविगणय्यैतद् कथमात्मसुखार्थिनी पाणिं ग्राहयिष्यामि ? कथं वा मम

कैयेव केयत आह—सुनेति । अतिदुःखामिहतहृदयो नितान्तवलेशाभिहतचित्तः अस्मद्विधो जनः किमुत कथ्यते, भवत्या असह्यक्लेशजनितातिकिलेशेनैव मे हृदयमभिहतमित्याशयः ।

ननु सत्यपि परिणामक्लेशदायिनि पाणिग्रहणे कर्मणि सुखादिकमप्यवलोक्यत इत्यत आह— सुहृदिनि । सुहृद्दुःखखेदिते बन्धुजनजनितक्लेशभाराक्रान्ते । निर्वृतिः शान्तिः। दुःखखेदिते हि मनसि सुखादीनां प्रवेशावसर एव न विद्यत इत्याशयः ।

अर्थैवमपि नारुण्यकामः सर्वप्रकारेणैव सकामो विधातव्य इत्यत आह—येनेति । येन कामेन प्रियसखी त्वम् ईदृशीम् एवंविधां दशाम् अत्यन्तकठिनशोकातूरावस्थाम् उपनीता प्रापिता, विषमिव गरलमिव अप्रियकारिणम् अनिष्टविधायिनम् अतिदारुणम् अत्यन्तभीषणं तं कामं कथं केन प्रकारेण सकामं स्वामिसङ्गमेन पूर्णमनोरथं कुर्यां विधातुं शक्नुयाम् , अपि तु कथमपि न, भवत्याः प्रबलवैरित्वेन ममापि वैरत्वादित्याशयः । तथा च नलिनीषु कमलिनीषु दिवसकरस्य रवेः अस्तमयेन पद्मोपान्तरगमनेन विधुरासु क्लिष्टासु सतीषु, सहवासपरिचयात् एकसरोवरवासस्नेहात् चक्रवाकयुवतिरपि रथाङ्गवनितापि पतिसमागमसुखानि स्वामिसङ्गमसौख्यानि परित्यजति जहाति, यत्र तिर्यग्जातिरपीदृशमनुतिष्ठति तत्र किमुत नार्य इत्यर्थः, अतएव त्वयि भर्त्तृवियोगदुःखितायां सत्यां मयापि स्वामिसङ्गमसौख्यं परित्याज्यमेवेत्यभिप्रायः । दृष्टान्तः ।

अपि चेति । यत्र हृदये । परिहृतपरपुरुषदर्शना परित्यक्तस्यान्यपुरुषवीक्षणा । प्रियसखी त्वमित्यर्थः, निवसति अधितिष्ठति निरन्तरचिन्तावशादित्याशयः । अपरो जनः स्वामीत्यर्थः, कथं प्रविशेत् प्रवेशं कुर्यात् कथमपि नेत्यभिप्रायः, तन्नयाया भवत्याः परपुरुषावलोकनाशङ्कया मयेव निवारणादिति तात्पर्यम् ।

यत्रेति । यत्र यदा । तीव्रव्रतेन उग्रनियमेन कर्षितानि शोषितानि अङ्गानि शरीराणि यया सा, प्रियसखी त्वमित्यर्थः । तत्र तदा । एनत्तत्र कृच्छ्रम् अविगणय्य अवहेल्य, आत्मसुखार्थिनी निजसौख्याभिलाषिणी सती, कथं पाणिं करं ग्राहयिष्यामि कथमपि नेत्यर्थः, सहृत्सुखदुःखयोः सहयोवैपरीत्यप्रसक्तेरित्याशयः । कथं वा सुखं सौख्यं भविष्यति कथमपि नेति भावः, क्लेशपूर्णहृदयत्वादिति तात्पर्यम् ।


दुःखित चित्त लोगों-की तो बात ही क्या है? और जो चित्त, सर्वदा ही मित्रके दुःखसे दुःखित है, उसको सुखकी आशा कैसी? वा शान्ति ही कैसी? अथवा सम्भोग ही कैसा? एवं हास-परिहास ही कैसा? विशेषतः, जिसने मेरी प्रियसखीकी ऐसी दशा ला दी है उस अतिदारुण और विषके समान अप्रियकारी—कन्दर्पकी अभिलाषाको क्या मैं पूर्ण करनेमें समर्थ होऊँगी? देखो—सूर्यके अस्त हो जानेसे कमलिनी जब उसके विरहमें विह्वल हो जाती है, तब उसके साथ एक जगह वास करनेके स्नेहसे युवती चक्रवाकपक्षिणी भी पतिके साथ सम्मिलन सुखका परित्याग करती है, ऐसी स्त्रियोंकी तो कहना ही क्या है? विशेषतः, भर्त्तृविरहसे व्याकुल होकर पर-पुरुषका दर्शन पर्यन्त परित्याग करके जो प्रियसखी मेरे हृदयमें रात दिन वास करती है, उस मेरे हृदयमें अन्य पुरुष किस प्रकार प्रवेश कर सकता है? और तुम प्रियसखी जब स्वामीके विरहसे विह्वल होकर गुरुतर व्रतालम्बनेन शरीरका शोषण करती गुरुतर कष्टका अनुभव करती हो, तब मैं इन सबोंको न गिनकर अपने ही सुखाभिलाषिणी होकर पाणि-ग्रहण कराऊँगी, उससे मुझे कैसे सुख मिलेगा? तुम्हारे प्रेमके कारण ही मैंने


१. अस्तमन । २. क्वचिद् ‘पति’ इति पदं नावलोक्यते । ३. त्यजति । ४. क्वचित् ‘अपि च’ इति पदं नास्ति । ५. क्वचित् ‘तीव्र’ पदं न दृश्यते ।

५२४ | कादम्बरी- | [ कन्यायाम्-

सुखं भविष्यति १। त्वत्प्रेम्णा चास्मिन् वस्तुनि मया^१ कुमारिकाजनविरुद्धं स्वातन्त्र्यमालम्ब्या- ङ्गीकृतमयशः, समवधीरतो विनयः, गुरुवचनमतिक्रान्तम्, न गणितो लोकापवादः, वनिताजनस्य सहजमाभरणमुत्सृष्टा लज्जा, स कथय कथमिव पुनरत्र प्रवर्त्तते ? तदयम- ञ्जलिरुपरचितः, प्रणामोऽयम् , इदञ्च पादग्रहणम् , अनुगृहाण माम् , वनमितो गतासि मे जीवितेन सहेति मा कृथाः स्वप्नेऽपि पुनरिममर्थं मनसि' इत्यभिधाय तूष्णीमभूत् ।

महाश्वेता तु तच्छ्रुत्वा सुचिरं विचार्य 'गच्छ, स्वयमेवाहमागत्य यथार्हमाचरिष्यामि' इत्युक्त्वा केयूरकं प्राहिणोत् । गते च केयूरके चन्द्रापीडमुवाच—'राजपुत्र ! रमणीयो हेमकूटः, चित्रा च चित्ररथराजधानी, बहुकुतूहलः किम्पुरुषविषयः, पेशलो गन्धर्वलोकः, सरलहृदया महानुभावा च कादम्बरी, यदि नातिखेदकरमिव गमनं कलयसि, नावसीदति वा गुरुप्रयोजनम् , अदृष्टचरविषयकुतूहलि वा चेतः, सद्द्वचनमनुरुध्यते^३ वा भवान् सुखदायि^४

त्वदिति । त्वत्प्रेम्णा त्वत्स्नेहेन, अस्मिन् वस्तुनि पाणिग्रहणविषये । स्वातन्त्र्यं स्वेच्छाचारित्वम् अवलम्ब्य आश्रित्य अयशोऽकीर्तिः अङ्गीकृतम् स्वीकृतम् । विनयः उपदेशगुणः समवधीरिताः अवज्ञाताः, गुरुवचनं पितृवाक्यम् अतिक्रान्तम् उल्लङ्घितम् , तथा लोकापवादो जनापवादो न गणितो न विचारितः । सहजमाभरणं स्वाभाविकभूषणरूपा लज्जा त्रपा समुत्सृष्टा परित्यक्ता । सा कादम्बरी । अत्र पाणिग्रहणे । सङ्कीर्णतादोषनिवारणाय 'कथये' त्यस्य पृथक् पाठो विधातव्यः ।

तदिति । तत्तस्मात् कारणात् । उपरचितो निबद्धः । पादग्रहणम् अभिवादनम् । इति हेतोः । स्वप्नेऽपि मनसि इममर्थं मत्पाणिग्रहणशिक्षारूपं विषयं पुनर्भूयो मा कृथाः न विदध्याः । तूष्णीमभूत् केयूरक इति शेषः ।

महेति । तच्छ्रुत्वा पूर्वोक्तमाकर्ण्य । विचार्य विमृश्य । आगत्य गत्वा यथार्हं यथायोग्यम् आचरिष्यामि करिष्यामि । प्राहिणोत् प्रेषितवती । आहपूर्वों गम्धातुरिह गमनायैऽवाचक इत्यवाचकत्व- दोषवारणाय 'गत्वा' इत्येव पाठो विधेयः !

गत इति । रमणीयो मनोहरः । चित्रा विविधाश्चर्ययुक्ता । किंपुरुषविषयः किन्नरदेशः, बहूनि नाना- विधानि कुतूहलानि कौतुकोद्दीपकवस्तूनि यत्र सः । पेशलः सुन्दरः, 'धारौ दक्षे च पेशलः' इत्यमरः । सरलहृदया अकुटिलचित्ता, यदि चेत् गमनम् अतिखेदकरमिव अधिकायासजनकमिव न कलयसि नाव- बुध्यसे, गुरुप्रयोजनम् आवश्यकं कार्यं नावसीदति न व्याहतं भवति । अदृष्टो भूतपूर्वं इत्यदृष्टचरः भूत- पूर्वेऽर्थे अदृष्टशब्दाच्चरट्प्रत्ययः । अदृष्टचरः अनिर्णीक्षितपूर्वो यो विषयो देशस्तस्मिन् तन्निरीक्षण इत्यर्थः कुतूहलं कौतुकमस्यास्तीति तत् तादृशम् । अनुरुध्यते रचितुमभिलषति, दैवादिकोऽनुपूर्वी रुधधातुरभिला-

इस विषयमें कुमारियोंके विरुद्ध स्वाधीनताका अवलम्बन कर निन्दा स्वीकार किया; विनयकी अवहेलना की, गुरु-वचनोंका उल्लङ्घन किया, लोकापवाद की गणना नहीं किया, और-स्त्रियोंके सहज भूषण लज्जा का भी परित्याग कर दिया, इसलिए कहो कि—'वह कादम्बरी किस प्रकार ऐसे विषयमें प्रवृत्त हो' ? अतएव मैं यह हाथ जोड़ती हूँ, प्रणाम करती हूँ, पाँव पकड़ती हूँ कि तुम मुझ पर अनुग्रह करो; तुम इस स्थानसे मेरे जीवनके साथ ही वनमें चली गई हो, इसलिए स्वप्नमें भी इस विषयको फिर मनमें मत लाना' इतना कहकर केयूरक चुप हो गया ।

किन्तु महाश्वेताने उसका सन्देश सुनकर बहुत देर तक विचार कर कहा—'तुम जाओ, मैं स्वयं ही वहाँ आकर जैसा उपयुक्त होगा करूँगी'—यों कहकर केयूरकको विदा कर दिया । उसके चले जाने पर वह (महाश्वेता) चन्द्रापीडसे कहने लगी—'राजपुत्र ! हेमकूट पर्वत अत्यन्त मनोहर है, गन्धर्वराज चित्ररथकी राजधानी बहुत ही आश्चर्य है, किन्नुरुप देशमें भी बहुत कौतूहलोद्दीपक वस्तुएँ हैं, गन्धर्वलोक भी बहुत सुन्दर है और कादम्बरी भी सरलहृदया और अत्यन्त उदारप्रकृति है, इसलिए यदि आप वहाँ चलनेमें अत्यन्त परिश्रमकी विवेचना न करें, अथवा किसी गुरुतर कार्यकी हानि नहीं होनी हो, या पहले जो देश नहीं देखे हैं उसे देखनेके लिए आपके मनमें कौतूहल हो, या यदि मेरे अनुरोध की रक्षा करनेकी अभिलाषा करते हों, अथवा किसी आश्चर्य-वस्तुका


१. क्वचित् 'मया' इति पदं नोपलभ्यते । २. अपयशः । ३. अस्मद्वचनम् । ४. भवन्मतिरतिसुखदायि, भवन्मतिः सुखदायि ।

चन्द्रापीडं प्रति महाश्वेतालाप० ८४ ] चन्द्रकला-विद्योतिनीसहिता । ५२५

चा आश्चर्यदर्शनम्,१ अर्हामि वा प्रणयम्२, इममप्रत्याख्यानयोग्यं वा३ जनं मन्यसे, समारूढो वा परिचयलेशः, अनुग्राह्यो वाऽयं जनः, ततो नार्हसि निष्फलां कर्तुमभ्यर्थनामिमाम् । मयैव सह गत्वा हेमकूटमतिरमणीयतानिधानम्, तत्र दृष्ट्वा च मन्निर्विशेषां कादम्बरीम्, अपनीय तस्याः कुमति४मनोमोहविलसितम् , एकमहो विश्रम्य श्वोभूते प्रत्यागमिष्यसि । मम हि निष्कारणबान्धवं भवन्तमालोक्यैव दुःखान्धकारभाराक्रान्तेन महतः कालादुच्छ्वसितमिव चेतसा, श्रावयित्वा स्ववृत्तान्तमिमं सह्यतामिव गतः शोकः । दुःखितमपि जनं रमयन्ति सज्जनसमागमाः । परसुखोपपादनपराधीनश्च भवादृशां गुणोदयः' इत्युक्तवतीञ्चैनां

पार्थेकः । वा अथवा आश्चर्यदर्शनं कुतूहलावलोकनम् अतिसुखदायि अतिशयसौख्यप्रदम् । प्रणयं वा अर्हामि तव स्नेहयोग्या वा भवामि । इमं मद्दृशं जनम् अप्रत्याख्यानयोग्यम् अनिराकरणोचितं मन्यसे कल्पयसि । समारूढः उत्पन्नः परिचयलेशः संस्तवल्वः । अभ्यर्थनां तत्र गमनप्रार्थनां निष्फलां निष्प्रयोजनाम् ।

मय्येति । अतिरमणीयताया नितान्तसुन्दरताया निधानम् आश्चर्यम् । मन्निर्विशेषां सर्वप्रकारेणैव मम सदृशीम् । कुमत्या कुत्सितविमर्शेन यो मनोमोहः 'त्वयि सशोकायां नाहं पाणि ग्राहयिष्यामि' इत्येवंरूपा चित्तभ्रान्तिः तस्य विलसितम् अनुष्ठितम् अपनीय शिथ्या दूरीकृत्य एकम् अहो दिवसं विश्रम्य विश्रामं कृत्वा श्वोभूते परदिने प्रत्यागमिष्यसि आयास्यसि ।

ममेति । हि निश्चितम् । निष्कारणबान्धवं निमित्तव्यतिरेकेण स्वजनं मद्दुःखार्णनेन दुःखितहृदयत्वाडुपदेशपरिश्रमस्वीकाराच्चेत्याशयः, भवन्तं त्वाम् आलोक्यैव निरीक्ष्यैव विद्यमानाया मम दुःखान्धकारभाराक्रान्तेन दुःखतिमिरभारेण क्लेदितेन चेतसा हृदयेन, महतो दीर्घात् कालात् समयात् परम् उच्छुसितमिव प्राणितमिव, एतावत्समयपर्यन्तं चित्तं मृतमिवासीत्, सम्प्रति तेन उच्छासो गृहीत इति तात्पर्यम् । तथा इमं स्ववृत्तान्तं स्वकीयोदन्तं श्रावयित्वा कथयित्वा विद्यमानाया मम शोकः सह्यतां सहनशीलतां गतः प्राप्त इव, 'प्रलापैरेव हृदयं धार्यते शोकक्षोभयोः' इति न्यायादित्याशयः । ननु कस्मादेतदित्यत आह—दुःखितमिति । सज्जनसमागमाः सत्पुरुषसङ्गमाः दुःखितमपि क्लेशितमपि जनं रमयन्ति आनन्दयन्ति, अवलोकनेनैव प्रथमसुखजननद्वारा चिरन्तनक्लेशविनाशनादित्याशयः । इह सामान्येन विशेषसमर्थनादर्थान्तरन्यासः ।

विशेषेण च प्रतिपादयति—परेति । भवादृशां त्वद्विधानां गुणोदयः दयादाक्षिण्यप्रभृतीनां गुणानामभ्युदयः परेषां अन्येषां सुखोपपादने सौख्योत्पादने पराधीनः परायण इत्यर्थः, अतएव मया सह तत्र गत्वा ध्रुवमेव मामानन्दयिष्यसीत्याशयः । चन्द्रापीडस्य सौन्दर्यादिगुणनिकरं दृष्ट्वा नूनं परिसुशन्ती कादम्बरी कृतमपि शपथं परित्यक्ष्यतीति बुद्ध्वा चन्द्रापीडं तत्र प्रापयितुं महाश्वेताया एतावानुद्योग इत्यवधेयम् ।

इतीनि । इति पूर्वोक्तप्रकारेण तच्छ्वर्ती कथितवतीम् । एनां महाश्वेताम् दर्शनात्प्रभृति अवलोकन-


अवलोकन करना यदि आपको सुखदायी हो, अथवा मैं यदि आपके प्रणयके योग्य होऊँ, किंवा इस व्यक्तिका प्रत्याख्यान करना (प्रार्थना न मानना) अनुचित समझते हों अथवा आपके साथ मेरा यदि परिचयका लेश भी उत्पन्न हुआ हो, किंवा यह व्यक्ति यदि आपके अनुग्रहके योग्य हो तो ऐसा होने पर आप मेरी इस प्रार्थनाको निष्फल करनेमें समर्थ नहीं हो सकते । अत्यन्त सौन्दर्यकी आवास-भूमि उस हेमकूट पर्वतपर मेरे ही साथ चलकर वहां मुझसे अभिन्न कादम्बरीको देख, उसके कुसंस्कारजनित चित्तभ्रमका आवरण दूर कर, केवल एक दिन वहां विश्राम लेकर दूसरे दिन आप लौट आइएगा । आप बिना कारणके ही मेरे बन्धु हो गए हैं, इसलिए आपको देख कर ही मेरा चित्त दुःखान्धकारके भारके नीचे दबे रहने पर भी बहुत काल के बाद आज मानो जीवित होकर हलका हुआ, और आपको अपना समाचार सुना कर वह शोक मानो सह्य हो गया है, ऐसा प्रतीत हो रहा है, क्योंकि—सज्जनके साथ संसर्ग दुःखित व्यक्तिको भी आनन्दित कर देता है । विशेषतः, आपके समान महापुरुषोंका गुणसमूह, केवल दूसरेके सुख-सम्पादनमें ही प्रवृत्त रहता है।' [अतएव मेरे साथ आप वहाँ जाकर मुझे अवश्य ही


  • १. अस्मच्चिरदर्शनम् ।
  • २. अर्हसि वा प्रणयमिमम् 'प्रणयन् ।
  • ३. योग्यां वा मन्यते माम् ।
  • ४. क्वचित् 'इत' इत्यादिकः पाठः समुदपलभ्यते ।
  • ५. कुमतिमियान् ।

५२६ कादम्बरी— [ कथायाम्—

चन्द्रापीडोऽब्रवीत्—‘भगवति ! दर्शनात्प्रभृति परवानयं जनः कर्त्तव्येषु यथेष्टमशङ्किततया नियुज्यताम्’ इत्यभिधाय तया सहैवोदचलत् ।

क्रमेण च गत्वा हेमकूटमासाद्य गन्धर्व्वराजकुलम् , समतीत्य काञ्चनतोरणानि सप्तकक्षान्तराणि कन्यान्तःपुरद्वारमवाप । महाश्वेतादर्शनप्रधावितेन दूरादेव कृतप्रणामेन कनकवेत्रलताहस्तेन ^१प्रतीहारजनेनोपदिश्यमानमार्गः प्रविश्य असंख्येयनारीशतसहस्रसम्बाधम्, स्त्रीमयम्परमिव जीवलोकम् , इयत्तां ग्रहीतुमेकत्र त्रैलोक्य^२स्त्रीर्णामिव संगृहीतम्, अपुरुषमिव सर्गान्तरम् , अङ्गनाद्वीपमिवापूर्व्वमुत्पन्नम् , पञ्चममिव नारीयुगावतारम् , अपरमिव पुरुष-

दिनादारभ्य परवान् पराधीनः सौजन्याधिक्यात्त्वदायत्त इत्यर्थः । अशङ्किततया शङ्कारहिततया नियुज्यतां प्रवर्त्यताम् । उदचलत् प्रस्थानमकरोत् ।

क्रमेणेति । अपि चेति चार्थः । चन्द्रापीडो गत्वा, गन्धर्व्वराजस्य चित्ररथस्य कुलं वाटी यत्र तथोक्तं हेमकूटं तन्नामकपर्वतम् आसाद्य प्राप्य काञ्चनानां सुवर्णानां तोरणानि बहिर्द्वाराणि येषु तथोक्तानि सप्तकक्षान्तःपुराणि समतीत्य व्यतिक्रम्य । अवाप प्राप्तवान् ।

महेति । महाश्वेताया दर्शनेन अवलोकनेन प्रधावितः शीघ्रमागतः तेन । कृतप्रणामेन विहितनमस्कारेण, कनकवेत्रलताः सुवर्णखचितवेतसयष्टयो हस्तेषु करेषु यस्य तेन, प्रतीहारजनेन दौवारिकवृन्देन उपदिश्यमानः वचनव्यक्त्था प्रोच्यमानो मार्गः पन्था यस्य सः, कुमारश्चन्द्रापीडः, कुमारीपुराभ्यन्तरं ददर्शेत्युत्तरेण सम्बन्धः। महाश्वेताविश्वासाच्चन्द्रापीड न कोऽपि निवारितवानित्यवधेयन् । इह नपुंसकलिङ्गद्वितीयेकवचनान्तानि पदानि अग्रेतनस्य ‘कुमारीपुराभ्यन्तरम्’इत्यस्य विशेषणानि बोद्ध्यानि।

असङ्ख्येयेति । असङ्ख्येयानि गणयितुमशक्यानि नारीणां योषितां शतसहस्राणि लक्षाणि तैः सम्बाधं सङ्गाजं व्याप्तमित्यर्थः । इदञ्च ‘लङ्गनाकोपम्’ इत्येतत्पर्यन्तं प्रत्येकविशेषण प्रत्यव कारणमायवधेयम् । एवञ्च अतएव स्त्रीमय नारायणम् अपरम् अतिरिक्तं जीवलोकमिव । जात्युत्प्रेक्षा ।

इयत्तामिति । इयत्तां ग्रहीतुम् एतावर्त्योऽङ्गना इति गणनां ज्ञातुं प्रजापतिना एकत्र एकस्मिन् स्थले संगृहीतम् आनीतं त्रैलोक्यस्य त्रिविष्टपस्य स्त्रैणं स्त्रीसमूहमिंव । उक्तालंङ्कारः ।

अपुरुषमिति । अपुरुषं सर्गान्तरमिव पुरुषरहितामपरां प्रजापतेः सृष्टिमिव । क्रियोत्प्रेक्षा ।

अङ्गनेति । अपूर्वम् अभिनवम् उत्पन्नं सञ्जातम् अङ्गनानां नारीणां द्वीपम् अन्तरीपमिव । जात्युत्प्रेक्षा ।

पञ्चममिति । पञ्चम नारीयुगावतारमिव । सत्यादीनि चत्वारि युगानि तु विद्यन्त एव येषामवतारः ( प्रवर्त्तनम् ) सुपरिचितः, किन्तु नूतनः सोऽयं पञ्चमो नारीयुगावतार इत्यभिप्रायः । क्रियोत्प्रेक्षा ।

अपरमिति । अपरम् अन्यत् पुरुषद्वेषिणः प्रजापतेः सृष्टिकर्तुः निर्माणं सृष्टिमिव । पुरुषद्वेषिपदेन नारीनिर्माणमात्रमेव द्योतितम् । उक्तालंङ्कारः ।


सुखी बनायेंगे यह अभिप्राय है, चन्द्रापीडके सौंदर्यादि गुणोंको देखकर निश्चय ही मोहित होकर मेरी सखी कादम्बरी किए हुए भी शपथको छोड़ देगी, यही समझ कर चन्द्रापीडको वहाँ लेजानेमें महाश्वेताका इतना बड़ा उद्योग था ऐसा यहाँ भावुकोंको समझना चाहिए ]

इसप्रकार महाश्वेताके कहने पर उत्तर देते हुए उसने चन्द्रापीडने कहा—'भगवति, जबसे आपका दर्शन हुआ तबसे ही यह व्यक्ति अपनेको पराधीन समझता है, इसलिए आप निःशङ्कचित्तसे इच्छानुसार इस व्यक्तिको कर्त्तव्य कार्यमें नियुक्त कीजिए' यों कहकर, वह महाश्वेताके साथ ही चल दिया।

क्रमसे जाकर, गन्धर्वराजकी राजधानी हेमकूटपर्वत पर उपस्थित होकर, सुवर्ण-तोरण जहाँ बँधे थे ऐसी सात ड्यौढ़ी लाँघकर चन्द्रापीडने महाश्वेताको देखते ही दौड़कर आते, दूरसे प्रणाम करते, हाथमें सुवर्ण-खचित-वेत्र-यष्टि ( बेंत की छड़ी ) धारण करने दौवारिकगण ( प्रतीहारों ) के आगे आगे बताए हुए मार्गसे, कन्याओंके अन्तःपुरके द्वारमें प्रवेश किया, और प्रवेश करते ही उसने लाखों स्त्रियोंसे परिपूर्ण एक दूसरा मानो नारीमय जीवलोकके समान हो, त्रिभुवनमें कितनी स्त्रियां हैं इसकीसंख्या जाननेके लिए विधाताने मानों त्रैलोक्यके समस्त स्त्रियोंको एकत्र संग्रह किया हो, पुरुष-रहित मानो एक दूसरी सृष्टि हो, स्त्रीलोकमय नूतन और एक द्वीप मानो


१. द्वारपालप्रतीहारी । २. ०*स्त्र्यीणां० । ३. संहृतम् ।

कन्यान्तःपुरवर्णनम् ८५ ] चन्द्रकला-विद्योतिनीसहिता । ५२७

दृष्टेवप्रजापतिनिर्माणम्, अनेक-कल्प-कल्पनार्थमुत्पाद्य स्थापितमिवाङ्गनाकोषम्^१, अतिविस्तारिणा युवतिजनलावण्यप्रभापूरेण प्लावितदिगन्तरेण सिञ्चतेवामृतरसविसरेण दिवसमार्द्रीकुर्वतेव भुवनान्तरालं बहुत-प्रभावर्षिणा^२ मरकतमणिमयेन ^३सर्वतः परिगततया तेजोमयमिव, चन्द्रमण्डलसहस्रैरिव निर्मितसंस्थानम्, ज्योत्स्नयेव घटितसन्निवेशम्, आभरणप्रभाभिरिव-निष्पादितदिगन्तरम्; विभ्रमैरिव कृतसर्वोपकरणम्, यौवनविलासैरिवोत्पादितावयवम्, रतिविलसितैरिव रचित-सञ्चयम्^४, मन्मथाचरितैरिव कल्पितावकाशम्, अनुरागेणेवानुलिप्त-

अनेकेति । अनेककल्पेषु विविधयुगान्तेषु कल्पनार्थं नारीजातिनिर्माणार्थम् उत्पाद्य प्रजापतिना विरचय्य स्थापितं रक्षितम् अङ्गनाकोषं नारीभाण्डागारमिव । जात्युत्प्रेक्षा ।

अतीति । अतिविस्तारिणा सविप्रसारिणा, प्लावित्तानि व्याप्तानि दिगन्तराणि येन, तेन अतएव अमृतरसविसरेण सुधाद्रवप्रवाहेण करणेन, दिवसं वासरं सिञ्चतेव सेचनं विदधतेव, तथा अमृतरसविसरेणैव भुवनान्तरालं विश्वान्तराळम् आर्दीकुर्वतेव क्लिन्नीकुर्वतेव विद्यमानेन, युवतिजनानां तरुणीगणानां लावण्यस्य सौन्दर्यातिशयस्य यः प्रभापूरः कान्तिप्रवाहः तेन कर्त्रा, तथा बहुलप्रभावर्षिणा मरकतमणिमयेन अश्मगर्भ रत्नप्रचुरेण भूपनेन आभरणेन च कर्त्रा, सर्वतः चतुर्दिक्षु परिगतं व्याप्तं तस्य भावस्तत्ता कारणेन, तेजोमयमिव केवलतेजसा रचितमिव, कन्यान्तःपुरम् अतिविस्तार्यादिविशेषणविशिष्टेन युवतिजनलावण्यप्रभापूरेण व्याप्तं तथा मरकतमयभूषनेन च व्याप्तमित्याशयः । चन्द्रमण्डलसहस्रैः निर्मितं रचितं संस्थानम् आकारो यस्य तदिव, तया ज्योत्स्नया चन्द्रिकया घटितो रचितः सन्निवेश आकारो यस्य तदिव, लावण्यप्रभाचन्द्रमण्डलज्योत्स्नानां पाण्डुरत्वसादृश्यादित्याशयः । तथा आभरणप्रभाभिः भूषणकान्तिभिः निष्पादितानि संपादितानि दिगन्तराणि दिगवकाशानि यस्य तदिव, अलङ्कारस्य प्रचुरप्रभावर्णनादित्याशयः ।

इह 'सिञ्चतेव' 'वार्द्रीकुर्वतेव' इति द्वे क्रियोत्प्रेक्षा, तथा 'तेजोमयम्' इत्यत्र निष्पादनक्रियार्थे मयट्प्रत्ययविधानात्तस्याश्चोत्प्रेक्षा क्रियोत्प्रेक्षा, एवं निर्माणघटननिष्पादनामपि क्रियाणामेवोत्प्रेक्षणात्ता अपि तिस्रः क्रियोत्प्रेक्षाः, एतासाञ्च मिथो नैरपेक्ष्येण संसृष्टिः ।

विभ्रमैरिति । विभ्रमैर्विलासैः कृतानि विहितानि सर्वाणि निखिलाणि उपकरणानि सामग्रयो यस्य तदिव । क्रियोत्प्रेक्षा ।

यौवनेति । यौवनविलासैः तारुण्यविभ्रमैः उत्पादिता जनिता अवयवाः प्रदेशा यस्य तदिव । उक्तारङ्कारः पूर्वविलासाः कृत्रिमाः, इह तु प्राकृतिका इति भेदः ।

रतीति । रतेः कामपल्याः विलसितैर्विभ्रमैः रचितो निर्मितः सञ्चयो व्यापारगणो यस्य तदिव । उक्तारङ्कारः ।

मन्मथेति । मन्मथाचरितैः कामदेवाचरितैः कल्पितावकाशं रचितप्रदेशमिव । उक्तारङ्कारः ।

अन्विति । अनुरागेण प्रीत्या अनुलिप्तसकलप्रदेशमिव । उक्तारङ्कारः ।

उत्पन्न हुआ हो, पञ्चम नारीगुण मानो अवतीर्ण हुआ हो, पुनरुद्देशते विधाता ने मानो दूसरे संसारका निर्माण किया हो, अनेक कल्पोंमें निर्माण करनेके लिए उत्पन्न कर तैयार रखा हुआ स्त्रियोंका मानो भण्डार हो—ऐसा उस अन्तःपुर ( रनिवास ) के अभ्यन्तरका भाग देखा । अमृतरसकी धारासे ही दिशाओंको प्लावित करता ( डुबाता ) दिनको मानों सींचता, संसारके समस्त मध्यस्थानको मानो आर्द्र करता, प्रचुर मरकतमणिमय प्रभाको बरसाता, अत्यन्त विस्तृत होता ( फैलता ) हुआ युवतियोंका लावण्यकान्तिका प्रवाह वहाँ सर्वत्र व्याप्त था जिससे वह मानों आलोकमय हो, हजारों चन्द्रमण्डलोंसे मानों निर्माण किया गया हो, चन्द्रिकासे मानों प्रस्तुत किया हो, अलङ्कार के आलोक ही से मानों उसकी दिशाओंका अवकाश बनाया गया हो, कृत्रिम हावभावसे ही मानों समस्त सामग्री सम्पादित किए हों, स्वाभाविक यौवन-विलाससे ही मानों उसके समस्त अवयव निर्मित हुए हों, रतिदेवीके विभ्रमद्वारा ही मानों कार्यकाल की सृष्टि की हुई हो, कामदेवके आचरणों से ही मानों अन्तःपुर निर्माण कराया हो, अनुराग-


१. 'कोशम्' ।
२. बहुल··· ।
३. क्वचिदिदं 'भूषनेनेव' इत्यादिकः पाठः क्वचिन्न दृश्यते ।
४. विरचित··· ।

५२८कादम्बरी-[ कथायाम्-

सकलप्रदेशम्१, शृङ्गारमयमिव, सौन्दर्यमयमिव, सुरताधिदैवतमयमिव, कुसुमशरमयमिव, कुतूहलमयमिव, आश्चर्यमयमिव, सौकुमार्यमयमिव२, कुमारः कुमारीपुराभ्यन्तरं ददर्श।

अतिबहुलतया च तस्य कन्याकाजनस्य समन्तादाननद्युतिभिरिन्दुबिम्बवृष्टिमिव पतन्तीम्, अपाङ्गविक्षेपैश्चलितकुवलयवनमयोमिव क्रियमाणामवनीम्, अनिभृत३-भ्रूलताविभ्रमैः काम-कार्मुक-विलास-शतानीव४ प्रचलितानि, शिरसिंजकलापान्धकारैर्बहुलपक्ष-प्रदोष-सार्थानिव सम्बध्नतः, स्मितप्रभाभिरुत्फुल्लकुसुमधवलानिव वसन्तदिवसान् सञ्चरतः, श्वसितानिल-परिमलैर्मलयमारुतानिव परिश्रमतः, कपोलमण्डलालोकैर्माणिक्यदर्पणसहस्राणीव स्फुरितानि

शृङ्गारेति। शृङ्गारमयमिव सम्भोगमयमिव, सौन्दर्यमयमिव रूपातिशयमिव, सुरताधिदैवतमयमिव मैथुनाधिष्ठात्रीमयमिव, कुसुमशरमयमिव कामबाणमयमिव कुतूहलमयमिव कौतुकमयमिव, सौकुमार्यमयमिव, मार्दवमयमिव ददर्श अवलोकयामास। एषु सर्वेषु व्याप्तौ मयट्प्रत्ययविधानात्तस्याश्च क्रियारूपत्वेनोत्प्रेक्षालङ्कारः।

अतिबहुलेति। किञ्च, चन्द्रापीडः, तस्य कन्याकाजनस्य अतिबहुलतया अत्यन्ताधिकतया कारणेन, आननद्युतिभिः तस्यैव कन्याकाजनस्य मुखकान्तिभिः करणैः, समन्तात् सर्वतः इन्दुबिम्बवृष्टिमिव चन्द्रमण्डलवर्षणमिव 'अद्राक्षीत्' इत्युत्तरेण सम्बन्धः इत्थमम्यत्रापि।

इहाननद्युतिप्रसरणेषु इन्दुबिम्बवर्षणोत्प्रेक्षणात्क्रियोत्प्रेक्षा, तेन च वदनानामिन्दुमण्डलसादृश्यं प्रतीयत इत्यलङ्कारेणालङ्कारध्वनिरूह्नेयः। इत्थमन्यत्राऽप्यूहनीयम्।

अपाङ्गेति। अपाङ्गविक्षेपैः कटाक्षपातः, अवनिं पृथिवीम्, चलितं कम्पितं कुवलयवनं नीलोत्पल-समूहः तन्मयीं क्रियमाणां विधीयमानामिव। क्रियोत्प्रेक्षा।

अनिभृतेति। अनिभृताः स्फुटा ये भ्रूलतयोर्विभ्रमा नर्त्तनानि तैः प्रचलितानि शरप्रक्षेपगाय स्पन्दनरूपाणि कामकार्मुकस्य मन्मथचापस्य विलासशतानीव विभ्रमसमूहानिव। इह जात्युत्प्रेक्षा। तथा चक्रावसाम्यादुपमानोपमेयभावः।

शिरसीति। शिरसिजकलापाः केशसमूहा एव श्यामलत्वसादृश्यादन्धकाराः तैः सम्बध्नतः सम्मिलतः, बहुलपक्षाणां कृष्णपक्षाणां प्रदोषसार्थानिव रजनीमुखसमयसमूहानिव। इह निरङ्गं केवलरूपकम्, जात्युत्प्रेक्षा चेत्युभयोरङ्गाङ्गिभावसङ्करः। 'सङ्घसङ्घातपुञ्जौघसार्थयूथकदम्बकाः' इति भागुरिः।

स्मितेति। स्मितप्रभाभिः ईषद्धास्यकान्तिभिः, सञ्चरतः व्रजतः उत्फुल्लकुसुमधवलान् विकसितपुष्पश्वेतान् वसन्तदिवसान् सुरभिवासरानिव। जात्युत्प्रेक्षा।

श्वसितेति। श्वसितानिलस्य निःश्वासवायोः परिमलैः सौरभैः परिश्रमतः सञ्चरतः मलयमारुतानिव दक्षिगानिलानिव। उक्तोलङ्कारः।

कपोलेति। कपोलमण्डलानां गण्डसमूहानाम् आलोकैः दीप्तिभिः स्फुरितानि प्रसारतानि माणिक्यदर्पणसहस्राणीव रत्नादर्शदशशतानीव। उक्तोलङ्कारः।


द्वारा ही मानों समस्त प्रदेश लीपा हो एवं मानों वह शृङ्गार-मय हो, सौन्दर्य-मय हो, सम्भोग-देवता-मय हो, मदन-बाण-मय हो, कौतुक-मय हो, आश्चर्य-मय हो, सौकुमार्य-मय एवं [ प्रेम-मय ] हो—ऐसा वह प्रतीत होता था। उसने और भी वहाँ—कन्याओंके अगणित संख्या होनेके कारण सम्मस्त दिशाओंमें ही उनके मुखकी शोभासे मानों चन्द्रमण्डलोंकी वर्षा होती हो; उनके कटाक्ष-पातसे भूमि मानों चलित-नीलोत्पल वनमय होती हो; स्पृष्टरूपमें भ्रूलताओंके नर्त्तनसे बहुतुर कामधनुप ही मानो भ्रमित होता हो; केशकलाप-रूप अन्धकारके रहनेसे कृष्णपक्षके असंख्य प्रदोष-काल ही मानों सम्मिलित हुए हों, ईषद् हास्यके प्रभा-प्रकाशसे कितने वसन्तकालके दिन ही मानो विकसित पुष्पसे धवलवर्ण होकर विचरण करते हों, निःश्वास वायुके परिमलसे मलयाचलका वायु ही मानों परिभ्रमण करती हो; कपोलमण्डलोंके प्रभा-प्रकाशित होनेसे मानो असंख्य मणिनय दर्पण ही दीप्त होते (जगमगाते) हों; पाणितलकी रक्तिमा (हथेलियोंके लाल रंग) से जीवलोक मानों रक्त-


१···प्रवेशम्। २. प्रेममयमिव। ३. अभिनिभृत···। ४. कामकार्मुकबनानीव, शतानि, विलासता। ५. केशनि।

कन्यापुरेदन्तवर्णना ८५ ] चन्द्रकला-विद्योतिनीसहिता । ५२६

करतलरागेण रक्तकमलवनवर्षिणमिव जीवलोकम् ; कररुहकिरणस्फुरणेन कुसुमयुवशरसङ्घैरिव संच्छादितानि दिगन्तराणि, आभरणकिरणैरिन्द्रायुधजालकैरिवोड्डीयमानानिव भवनमयूरवृन्दानि, यौवनविकारैरुत्पाद्यमानानिव मन्मथसहस्राण्यद्राक्षीत् ।

उचितव्यापारव्यपदेशेन कुमारिकाणां सखीहस्तावलेम्बेषु पाणिग्रहणानि, वेणुवाद्येषु चुम्बनव्यतिकरान्, वीणासु कररुहव्यापारान्, कन्दुकक्रीडासु करतलप्रहारान् भवनलतालककलस कण्ठेषु भुजलतापरिष्वङ्गान्, लीलादोलासु नितम्ब-स्तन-प्रेङ्खितानि, ताम्बूलवीटिकाखण्डनेषु दशनोपचारान्, बकुलविटपेषु मधुगण्डूषप्रचारान्, अशोकलताताडनेषु चरणाभिघातान्, उपहारकुसुमस्खलनेषु सीत्कारान्, अतिरिक्तं सुरतमिवाभ्यस्यन्तीनामपश्यत् ।

करेति । करतलानां हस्ततलानां रागेण रक्तिम्ना, जीवलोकं रक्तकमलवनवर्षिणमिव कोकनदसमूहवृष्टिकारिणमिव । इह क्रियोत्प्रेक्षा ।

कररुहेति । कररुहा नखाः तेषां किरणस्फुरणेन प्रभाप्रसरणेन, दिगन्तराणि कुसुमायुधस्य कामस्य शरसङ्घैः बाणसमूहैः संच्छादितानि समावृतानीव । उत्प्रेक्षालङ्कारः ।

आभरणेति । आभरणकिरणा भूषणरश्मयः इन्द्रायुधानीव शक्रधनूंषीव यद्वा आभरणकिरणा एव इन्द्रायुधानि तेषां जालकैः उत्पतिभिः समूहैः, उड्डीयमानानि व्योम्नि उड्डयनं विधीयमानानि भवनमयूरवृन्दानीव गृहकलापिमण्डलानीव, तद्वद्विविधवर्णविचित्रत्वादित्याशयः । इह किमुपमा किंवा रूपकमिति सन्देहसङ्करेण स्वाङ्गा जात्युत्प्रेक्षा ।

यौवनेति । यौवनविकारैः तारुण्यविकृतिभिः कन्यकाजनेन उत्पाद्यमानानि लायमानानि मन्मथसहस्राणीव मदनसमूहानिव । जात्युत्प्रेक्षा ।

उचितेति । चन्द्रापीडः, उचितव्यापारव्यपदेशेन विधेयकृत्यसम्पादनव्याजेन अतिरिक्तं मिश्रप्रदसुरतमित्यर्थः सुरतं मम्नोगम् लम्यस्यन्तीनाम् अभ्यासं विदधतीनामिव तासां कुमारिकाणाम् एतान्याचरपाम्पदयदिष्टप्रिप्रेमेन सम्बन्धः । नान्येव सम्भोगकालीनाचाराणिन प्रकटयति-सखीत्यादिना । सखीहस्तावम्बेषु सहचरीद्वारा-हस्तवारणेषु, पाणिग्रहणानि सम्भोगकालीनप्रियतमद्वारा-हस्तावडम्बनानि । वेणुवाद्येषु वंशीवादनेषु चुम्बनव्यतिकरान् मुखसंयोगव्यापारान् । वीणासु वल्लकीवादनेषु, कररुहव्यापारान् नखक्षतानि । कन्दुकक्रीडासु गेन्दुकखेलासु करतलप्रहारान् हस्ततलाघातान् । भवनलतानां गृहवल्लीनां ये सेककलसाः सेचनघटाः तेषां कण्ठेषु ग्रीवासु, भुजलताभ्यां बाहुवल्लीभ्यां परिष्वङ्गान् आलिङ्गनानि । लीलादोलासु क्रीडाप्रेङ्खासु तत्र दोलनेष्वित्यर्थः नितम्बयोः स्तनयोः कुचयोश्च प्रेङ्खितानि आस्फालनानि । ताम्बूलवीटिकानां नागवल्लीदलवीटिकानान् लवखण्डनेषु चर्वणेषु, दशनोपचारान् दन्तसञ्चालनानि । बकुलावटपेषु केसरतरुषु, मधुगण्डूषप्रचारान् मधुपुष्पप्रस्फुटनाय वदनपूर्णमद्यप्रक्षेपान् । उपहाराय कुसुमानि उपहारकुसुमानि शोभासम्पादनाय यानि रचनारूपेण भूमिस्यापितानि प्रसूननि तेषु स्खलनेषु पतनेषु, सीत्कारान् दन्तुरदशनावातादिषु व्यथासूचकान् 'सीत्' इत्येवं सुक्ष्मध्वनिविशेषान्

कमलोंकी वर्षा करता हो; नखोंके किरण प्रसारित होने (फैलने) से आठों दिशाएँ मानों हजारों कामबाणोंसे आच्छादित हो (छा) गई हों; इन्द्रधनुषके समान आभूषणोंके किरणसमूहके ऊपर उठते रहने से गृहपालित (पालतू) मयूरगण ही मानो उड़ते हों; एवं तत्रत्य कन्याओंके यौवनविकारसे ही मानो हजारों कामदेव उत्पन्न होते हों-इस प्रकार देखा ।

उन कुमारियोंके, कर्त्तव्यकार्य करनेके बहानेसे सखियोंके द्वारा हाथ पकड़नेमें पाणि-ग्रहण, वंशी बजानेमें मुखसंयोग व्यापार, वीणा बजानेमें नख-व्यापार, गेंद खेलनेमें करतल (हथेली) प्रहार, भवनस्थित लताओंका सिञ्चन करनेके लिए कलश कण्ठपर रखनेमें भुजाश्लिष्ट, हिंडोले पर झूलनेमें नितम्बस्तनका आस्फालन (सङ्घट्टन), ताम्बूलवीटिकाओंके चर्वण (पान की बीड़ी चबाने) में दन्ताभ्यापार, बकुल (मौलसरी) वृक्षोंमें पुष्प निकलनेके लिए मुखपूर्ण-मद्यका प्रक्षेप, अशोक वृक्षोंको ताड़न करनेमें चरणाघात, शोभासम्पादनके लिए भूतल-


१. कररुहस्फुरणेन । २. संच्छादितानिदिगन्तराणि, संच्छादितान्यवदिगन्तराण् । ३. किरणनिकर । ४. भुवन । ५. द्रुवन्.... । ६. ०००लम्बं । ७. क्वचित् 'ताम्बूल'-पदं न दृश्यते । ८. वकुलद्रुम-करोइडेषु क्रीडाम्डहप्रप्रणनानि । ९. शीत्कारान् ।

५३०कादम्बरी-[कथायाम्-

यत्र च^१ कन्यकाजनस्य कपोलतलालोक एव मुखप्रक्षालनम्, लोचनान्येव कर्णोत्पलानि, हसितच्छवय एवाङ्गरागाः, निश्वासाः^२ एवाधिवासगन्धप्रयुक्तयः, अधरद्युतिरेव कुङ्कुमानुलेपनम्^३, आलापा एव तन्त्रीनिनादाः, भुजलता एव चम्पकमालाः,^४ करतलान्येव लीलाकमलानि, स्तना एव दर्पणाः, निजदेहप्रभैवांशुकावगुण्ठनम्, जघनस्थलान्येव विलासमणिशिलातलानि कोमलाङ्गुलिराग एव चरणालक्तरसः, नखमणिमरीचय एव कुट्टिमोपहारकुसुमप्रकराः। यत्र चालक्तरसोऽपि^५ चरणातिभारः, बकुलमालिकामेखलाकलनमपि गमनविघ्न-

शब्दाम्। पुष्पमध्ये चरणस्खलनेन नार्यो भूतलपातसम्भावनाभयात् 'सीत्कारान्' कुर्वन्तीति तासां सौन्दर्यातिशयो ध्वन्यत इत्यवधेयम्। इह सापह्नवा क्रियोत्प्रेक्षा।

यत्रेति। यत्र कन्यान्तःपुरे कन्यकाजनस्य कुमारिकावर्गस्य कपोलतलालोक एव गण्डस्थलदीप्तिरेव, मुखं प्रक्षाल्यते अनेनेति मुखप्रक्षालनं तदुपयोगिसलिलस्वरूपम्। अनेन गण्डस्थलानां सौन्दर्यातिशयो ध्वन्यते। लोचनानि नयनान्येव कर्णोत्पलानि श्रवणभूषणानि, अनेन नयनानां नीलत्वं विस्तृतत्वञ्च प्रत्याय्यते। हसितच्छवय एव हास्यकान्तय एव अङ्गरागा विलेपनानि, अनेन हास्यद्युतीनां नितान्तवैशद्यं सूच्यते। निश्वासाः श्वासमरुत एव अधिवासगन्धप्रयुक्तयः देहसंस्काराय गन्धमाल्यादिप्रयोगाः, अनेन निश्वासानाम् अत्यन्तसौगन्ध्यं द्योत्यते। 'संस्कारो गन्धमाल्याद्यैः स्यात्तदधिवासनम्' इत्यमरः। एषु सर्वत्र यथासम्भवम् 'आसीत्, आसन्' वा क्रियापदं योजनीयम्। इत्थमग्रेऽपि अधरद्युतिरेव ओष्ठच्छविरेव कुङ्कुमानुलेपनं कुङ्कुमाङ्गरागः, एतेन तयोरभ्यन्तररक्तत्वं व्यज्यते। आलापा एव सम्भाषणान्येव तन्त्रीनिनादाः वीणाध्वनयः, अनेन तेषां परममधुरस्वरस्त्वमवगम्यते। भुजलता एव बाहुवल्ल्य एव चम्पकमाला हेमपुष्पस्रजः, अनेन तासामत्यन्तमृदुलगौरत्वं बोध्यते। करतलान्येव हस्ततलान्येव लीलाकमलानि क्रीडार्थपङ्कजानि, अनेन करतलानामालोहितत्वं प्रतीयते। स्तना वक्षोजा एव दर्पणा मुकुराः, एतेन निर्मलत्वं गम्यते। निजदेहप्रभैव स्वशरीरद्युतिरेवे अंशुकावगुण्ठनं वस्त्रावरणम्, अनेन शरीरप्रभाबाहुल्यं द्योत्यते। जघनस्थलान्येव कटिपुरोभागप्रदेशा एव विलासमणिशिलातलानि विभ्रमरत्नप्रस्तरतलानि, अनेन तेषां विस्तीर्णता उज्ज्वलता स्वच्छता च व्यज्यते। कोमलाङ्गुलिराग एव मृदुलचरणाङ्गुलिस्वाभाविकारक्तिमैव चरणालक्तरसः पाद्याक्तरसः, अनेन रागाधिक्यं सूच्यते। नखमणीनां चरणनखपरिहितानाभरणानां. मरीचयः किरणा एव कुट्टिमेषु बद्धभूमिषु उपहारकुसुमप्रकराः शोभासम्पादनाय विक्षिप्तप्रसूनसमूहाः, अनेन नखरत्नकिरणानां प्रतिपदं पुञ्जीभावो व्यज्यते।

इह प्रत्येकवाक्ये निरङ्गकेवलरूपकमलङ्कारः 'मुखं तव कुरङ्गाक्षि ! सरोजमिति नान्यथा' इति साहित्यदर्पणोदाहृतवदित्यवधेयम्।

यत्रेति। किञ्च, यत्र कन्यकासमुदाये अलक्तरसोऽपि पादयोर्यावकरसलेपोऽपि चरणातिभारः पादयोर्भारयितः, आसीदिति शेषः। एवमग्रेऽपि सौकुमार्यातिशयात् पादरागोऽपि भरायित इत्यभिप्रायः।

न्यस्त पुष्पोंके पतन होनेमें पीड़ाम्यञ्जक शब्द सीत्कार, यह सब उस (चन्द्रापीड, ने, अतिरिक्त सम्भोग-व्यापारको मानो ये स्त्रियां अभ्यास करती हों इस प्रकार, उनको देखा।

एवं जिस स्थानमें कन्याओंके गण्डस्थल (कपोल) का लावण्य ही मुखप्रक्षालन [जल] था; नयनयुगल ही कर्णोत्पल थे; हास्यकी शोभा ही अङ्गलेप था; निश्वासवायु ही शरीरसंस्कारके लिए सुगन्धित द्रव्यके प्रयोग थे; और अधर-प्रभा ही कुङ्कुमलेप था। परस्पर उनका आलाप ही तन्त्रीका झङ्कार (वीणाका शब्द) था, भुजलता ही चम्पकपुष्पकी माला थी; करतल ही लीला-कमल थे; कुच-मण्डल ही दर्पण थे; अपने शरीरकी कान्ति ही आवरण-वस्त्र था; जघनस्थल ही विलास करनेके मणिशिलातल थे; कोमल अङ्गुलियोंकी रक्तिमा (रंग) ही चरणोंका अलक्तक (महावर) था; एवं नखके ऊपर प्रदत्त रत्नोंकी किरणें ही बद्ध-भूमि (चबूतरे) पर शोभासम्पादनके लिए विक्षिप्त (बिखरे) पुष्पसमूह थे।

और जहाँ पर, अलक्तक (महावर) का रक्त भी चरणोंको अत्यन्त भार मालूम होता था; बकुल-पुष्पकी


१. यस्य च। २. निःश्वासाः। ३. कुङ्कुममुखावलेपनम्। ४. चम्पकदैक्षक्यमालाः। ५. यत्र चालक्तरसोऽपि।

कन्यापुरवृत्तान्तवर्णनं ८५] चन्द्रकला-विद्योतिनीसहिता। ५३१

करम्, अङ्गरागगौरवमप्यधिकश्वासनिमित्तम्, अंशुकभारोऽपि ग्लानिकारणम्, मङ्गलप्रतिसरवलयविवृतिरपि करतलविधुतिहेतुः, अवतंसकुसुमधारणमपि श्रमः, कर्णपूर-कमल-मधुकर-पक्ष-पवनोऽप्यायासकरः।

तथा च यत्र सखीदर्शनेऽप्यकृतहस्तावलम्बनमुत्थानमतिसाहसम्, प्रसाधनेषु हारभारसहिष्णुता स्तनकार्कश्यप्रभावः, कुसुमावचयेषु द्वितीयकुसुमग्रहणमप्ययुवतिजनोचितम्, कन्यकाविज्ञानेषु माल्यग्रथनम् असुकुमारजनव्यापारः, देवताप्रणामेषु मध्यभागभङ्गोऽतिविस्मयकरः।

बकुलकलिका केशरगुम्फनमेव मेखला काञ्ची तस्याः कटनमपि जघनपुरोभागे धारणमपि गमनविघ्नकरं गतिप्रतिबन्धकम्, तदन्तभारप्रसादानाशक्तित्वात्सद्यः। अङ्गरागगौरवमपि देहलिप्ताङ्गरागद्रव्यभारोऽपि श्वासनिमित्तम् अतिशङ्खाधिक्यात्कारणम्, परिश्रमसम्पादकत्वादित्यभिप्रायः। सर्वत्र सौकुमार्यातिशयद्योतनायैव युक्तिरिति। अंशुकभारोऽपि परिधृतसूक्ष्मवस्त्रगुरुत्वमपि ग्लानिकारणम्। मङ्गलप्रतिसरः माङ्गल्यदिकहस्तसूत्रमेव वलयं कटकं तस्य विवृतिर्धारणमपि करतलविधुतिहेतुः हस्तकम्पननिमित्तम्, मणिविष्याद्यनुभवादिति भावः। अवतंसकुसुमधारणमपि कर्णभूषणपुष्पविचितिरपि श्रमः परिश्रमोत्पादकः, भारावगमादित्यभिप्रायः। कर्णपूरकमलेषु श्रोत्रावर्तमीनूनपङ्कजेषु ये मधुकरा भ्रमराः तेषां पक्षपवनोऽपि पक्षकम्पनेोत्थवायुरपि आयासकरः खेदकरः, प्राचुर्यबोधादिति भावः।

इह प्रत्येकवाक्य एवामन्वये सम्बन्धहतपतिशयोक्तिः, तेन च तासां कन्यकानां नितान्तसौकुमार्यं व्यज्यत इत्यलङ्कारेण वस्तुध्वनिः।

अथ विशिष्टप्रकारैरपि तासामतीव सौकुमार्यं निरूपयितुमाह—तथा चेति। अपि चेति तदर्थः। मखीदर्शनेषु सम्मितवातानासु सहचरीषु अवलोकितास्वित्यर्थः, न कृतं शङ्कवेनावगमराभावात् विहितं हस्तावलम्बनं सेविकाया हस्तधारणं यत्र तद्योक्तं यत् उत्थानम् अभ्यर्थनाय शरीरोत्थानं तदपि अतिसाहसं हठकारित्वम्, अनेन निरतिशयदाक्षिण्यं निरतिशयसौकुमार्यं च प्रतीयते। प्रसाधनानि अङ्गभूषणानि तेषु वा हारस्य मुक्तामालाया भारसहिष्णुता भारसहनशीलता सा स्तनकार्कश्यप्रभावः केवलकुचकाठिन्यमाहात्म्यम्, न पुनरन्यावयवानामित्याशयः, अनेनान्यान्यवदानां निरतिशयकोमलत्वं कुचयोर्निरतिशयकाठिन्यं च ध्वन्यते। कुसुमावचयेषु पुष्पचयनक्रियासु द्वितीयकुसुमग्रहणम् एकस्मादनन्तरं कुसुमसमवचयोऽपि स्युवतिजनोचितम् अन्तरङ्गीजनयोग्यम्, न तु सुकर्कशपुरुषयोग्यमित्यर्थः, एकपुष्पग्रहणमेव तस्याः पर्याप्तम्, द्वितीयस्य पुष्पस्य ग्रहणं तु कठिनत्वादुतस्तस्यैवोचितमिति सरलार्थः, अनेन कोमलतातिशयो व्यज्यते। कन्यकाविज्ञानेषु तत्तत्कुमारीजनयोग्यशिक्षणकलासु मध्ये माल्यग्रथनं केवलकुसुमगुम्फनं तदपि असुकुमारजनव्यापारः कर्कशपुरुषकृत्यम्, अनेनापि निरतिशयसौकुमार्यं प्रतीयते। देवताप्रणामेषु देवेभ्यो नमस्कारसमयेषु मध्यमभागभङ्गः कटिभागस्य द्वैधीभावो यन्न जातः स द्वैधीभावाभावः अतिविस्मयकरः अत्यन्ताश्चर्यकरः, तासां मध्यभागा एवमिवकृशा आसन्, यत्प्रणामसमये शिरोऽवनमने नङ्गसम्भावतैवासीत्, अत एव यद्भङ्गो न जातः तदत्यन्ताश्चर्यकरमित्याशयः। यद्वा—मध्यभागभङ्गे जघनपुरःप्रदेश (कटि) द्वैधीभावः, नात्यन्ताश्चर्योत्पादकः, अत्यन्तक्षीणत्वेन सम्भववत्त्वात्, केवलनमनेन गात्र-


मालाके कमरमें चन्द्रहार (करधनी) धारण करना भी चलनेमें विघ्न करता था; अङ्गरागका भार भी परिश्रम-जनक होनेसे अत्यन्त श्वासका कारण था; पहिने हुये सूक्ष्म-वस्त्रका भार भी ग्लानिका कारण होता था; माङ्गलिक हस्त-सूत्रका कङ्कण धारण भी हस्त-कम्पका कारण था; नेलकनों पुष्पधारण भी परिश्रम उत्पन्न करता था; एवं कानमें पहने हुए कमल पर बैठे भ्रमरोंके पंखोंका पवन भी क्लेश उत्पन्न करता था।

एवं जिस अन्तःपुरमें मिलनेके लिए नवरत सखियोंको देख कर परिचारिकाओंके सहारा दिए बिना जो कोई कुमारिका खड़ी हो जाती थी उसे देख अन्यान्य इन्दिराएँ—उसने अत्यन्त साहस कार्य किया ऐसा विवेचन करती थीं; शृङ्गार करनेमें पहने हारका भार सहन करना [उनके] स्तनकी कठिनता का ही प्रभाव था; पुष्प तोड़ने के समय में एकसे दूसरा पुष्प तोड़ना भी उन युवतियोंके लिए असम्भव था; कन्याओंके शिल्प-कलाके मध्यमें, केवल जो माला गूँथी थी, उसे भी कठिन लोगोंका कार्य गिन जाता था; और देवताओंको नमस्कार करनेके समयमें (झुकनेके कारण) इनके मध्यभाग नहीं टूटे इसे न हो कोई यह अधिक


१. वातोऽपि। २. दर्शनेऽपि। ३. सङ्कुलाननम्। ४. ०युव०। ५. नात्यन्तप्रणम्।

५३२ कादम्बरी- [ कथायाम्-

तस्य चैवंविधस्य १किञ्चिदभ्यन्तरमतिक्रम्य इतश्चेतश्च परिभ्रमतः कादम्बरीप्रत्यास- न्नस्य परिजनस्य शुश्राव तांस्तानतिमनोहरानालापान् । तथाहि—'लवलिके ! कल्पय केतकी- धूलिभिर्लवलीतन्नालवालमण्डलानि । २सारसिके ! गन्धोदक-कनक-दीर्घिकासु३ विकिर रत्नबालुकाम् । मृणालिके ! कृत्रिमकमलिनीषु कुङ्कुमरेणुमुष्टिभिश्च्छुरय ४यन्त्रचक्रवाकमिथु- ५नानि । ६मकरिके ! कर्पूरपल्लवरसेनाधिवासय गन्धपात्राणि । रजनिके ! ७तमाल-वीथिकान्ध- कारेषु निधेहि ८मणिप्रदीपान् । कुमुदिके ! स्थगय ९शकुनिकुलरक्षणाय मुक्ताजालैर्दाडिमी- फलानि । निपुणिके ! १०लिख ११मणिशालभञ्जिकास्तनेषु कुङ्कुमरसपत्रभङ्गान् । उत्पलिके ! परा-


स्यैव भङ्ग इति कियदाश्चर्यकरस्त्वभवदेवेत्याशयः, अतएव 'अति'पदप्रयुक्तिरपि सङ्गता भवतीत्यवधेयम् । अनेन मध्यभागानामत्यन्तकृशत्वं सूच्यते । इहापि प्रत्येकवाक्य एव असम्बन्धे सम्बन्धरूपातिशयोक्तिर्ज्ञेया ।

तस्येति । तस्य कुमारीपुरस्य । परिभ्रमतः पर्यटतः कादम्बर्या गन्धर्वराजपुत्र्याः प्रत्यासन्नस्य सर्वदा समीपवर्तिनः । शुश्राव आकर्णयामास चन्द्रापीड इति शेषः ।

तथाहीति । 'लवलिके !' इति कस्याश्चित् सम्बोधनम् । एवमग्रेऽपि यथायोगं समुन्नेयम् । केतकीधूलिभिः केतकीपुष्परजोभिः, लवलीलतानां लवलीवल्लीनां यानि आलवालानि आवापाः तेषां मण्डलानि उपरि वेष्टनानि कल्पय रचय 'आवापो भाण्डपचने परिवेषालवालयाः' इति रामाश्रमी ।

सागेति । गन्धोदकं सुरभिजलं तेन पूर्णेपु कनकदीर्घिकासु सुवर्णपट्टवेष्टितखातवापीषु रत्नवालुकां मणिसिकतां विकिर विक्षिप ।

मृनेति । कृत्रिमकमलिनीषु कृत्रिमपद्मजमयदीर्घिकासु कुङ्कुमरेणुमुष्टिभिः यन्त्रचक्रवाकमिथुनानि कृत्रिमयन्त्रात्मकचक्रवाकद्वन्द्ववृन्दान् छुरय रक्षय ।

मकेति । कर्पूरपल्लवयोः घनसारकिसलययोः रसेन द्रवेण, अधिवासय अधिकसुगन्धीनि विधेहि ।

रजेति । तमालवीथिकानां तापिच्छवृक्षपङ्क्तीनाम् अन्धकारेषु तिमिरेषु देशेषु मणिप्रदीपान् रत्नप्रदीपान् निधेहि स्थापय ।

कुमुदीति । शकुनिकुलरक्षणाय पक्षिसमूहानिवारणाय मुक्ताजालैः मुक्तासमूहैः दाडिमीफलानि स्थगय आच्छादय ।

निपुणीति । मणिशालभञ्जिकाः रत्नरचितस्त्रीपुत्तलिकाः तासां स्तनेषु कुचेषु कुङ्कुमरसैः कुङ्कुमद्रवैः पत्रभङ्गान् पत्रावलीः लिख चित्रीकुरु ।

उत्पेति । कनकसंमार्जनीभिः सुवर्णबहुरीभिः कदलीगृहस्य उद्यानस्थरम्भा मण्डपस्य मरकतवेदि-


आश्चर्य-जनक नहीं था।

इस प्रकारके कन्यान्तःपुरके थोड़ा भीतर जाने पर उसने कादम्बरीके समीप रहनेवाली—इतस्ततः विचरण करती—परिचारिकाओंके विविध प्रकारके मनोहर आलाप श्रवण किया । जैसे—'अरी लवलिके ! केतकी-पुष्पके परागसे लवली-लताओंके आस पास आलवाल ( क्यारी ) के ऊपर मण्डल ( गोलाकार भित्ति ) निर्माण कर; सागरिके ! सुगन्धितजलसे परिपूर्ण सुवर्णमय रत्नकी रेती बिछा; अरी मृणालिके ! कृत्रिम-पद्ममय सरोवरमें जो समन्त यन्त्रमय ( कलके ) चक्रवाक और चक्रवाकी हैं, उनपर कुङ्कुमकी झुकनी मुट्ठी भर भर कर रक्षित कर; मकरिके ! कर्पूरके जल और पल्लवके रस डालकर गन्धद्रव्यके पात्रोंको सुवासित ( सुगन्धित ) कर, रजनिके ! तमाल-वृक्षोंकी अंधेरी पंक्ति ( कुञ्ज ) में मणिमय प्रदीपोंको रख; अरी कुमुदिके ! पक्षियोंसे रक्षा करने ( बचाने ) के लिए दाड़िमफलों ( अनारों ) को मोतियोंकी जालियोंसे आच्छादित कर दे; अरी निपुणिके ! मणि-मय पुत्तलिकाओं ( पुतलियों ) के कुचमण्डल पर कुङ्कुमरससे फूलपत्ते चित्रित कर दे; उत्तलिके ! स्वर्ण-सम्मार्जनी


१. ०न्तरमवक्रम्य । २. सारसिके । ३. गन्धोदकदीर्घिकासु, कनकनदिकासु । ४. क्षोद ।
५. क्वचित् 'यन्त्र'पदं नास्ति । ६. युग्लानि । ७. मन्दारिके००। ८. भवनतमाल००भवनदीर्घिकातमाल ।
९. मणिदीपान् । १०. रक्षणार्थन् । ११. लेखय । १२. मणिस्तम्भा००।

कन्यापुरोदन्तवर्णन० ८५ ] चन्द्रकला-विद्योतिनीसहिता । ५३३

मृश कनकसम्मार्जनीभिः१ कदलीगृहमरकतवेदिकाम्२ । केसरिके३ ! सिञ्च मदिरारसेन बकुलकुसुममालगृहाणि । मालतिके ! पाटलय सिन्दूररेणुना कामदेवगृहदन्तवलभिकाम् । नलिनिके ! पायय कमलमधुरसं भवनकलहंसान् । कदलिके ! नय धारागृहं गृहमयूरान् । कमलिनिके ! प्रयच्छ चक्रवाकशावकेभ्यो४ मृणालक्षीररसम् । चूतलतिके५ ! देहि पञ्जर-पुंस्कोकिलेभ्यश्चूतकलिकाङ्कुराहारम् । पल्लविके ! भोजय मरिचाग्रपल्लवदलानि भवनहारीतान् । लवङ्गिके ! विक्षिर्पं६ चकोरपञ्जरेषु पिप्पलीतण्डुलै-शकलानि । मधुकरिके ! विरचय कुसुमाभरणकानि । मयूरिके ! सङ्गीतशालायां विसर्जय किन्नरमिथुनानि । कन्दलिके ! समारोहय क्रीडापर्वतशिखरं जीवञ्जीवमिथुनानि । हरिणिके ! देहि पञ्जरशुकसारिकाणा-मुपदेशम्८ इत्येतानि९ अन्यानि च परिहासजल्पितान्यश्रौषीत् ।

काम्, परामृश संमार्ज्य ।

केसेति । मदिरारसेन सुराद्रवेण वकुलकुसुममालगृहाणि केसरपुष्पस्रग्विभूषितभवनानि सिञ्च सेचनं विधेहि ।

मालेति । सिन्दूररेणुना नागभूषणरजसा कामदेवगृहस्य मदनभवनस्य दन्तवलभिकां गजदन्तरचितचूड़ां पाटलय श्वेतरक्तीकुरु ।

नलीति । भवनकलहंसान् गृहकादम्बवान् कमलमधुरसं पङ्कजमरन्दद्रवं पायय पानं कारय ।

कडेति । गृहमयूरान् भवनकलापिनः धारागृहं सलिलोद्गारयन्त्रसंयुक्तं भवनं नय प्रापय ।

कमेति । चक्रवाकशावकेभ्यः रथाङ्गशिशुभ्यः मृणालक्षीररसं कमलविसनिर्यासं प्रयच्छ प्रदेहि ।

चूतेति । पुमांसः पुरुषाश्च ते कोकिलाः परभृताश्चेति पुंस्कोकिलाः, पञ्जरस्थायिनश्च ते पुंस्कोकिलाः पञ्जरपुंस्कोकिलाः तेभ्यः चूतकलिकाङ्कुराहारम् आम्रकोरकप्ररोहमयमशनम् देहि प्रयच्छ ।

पल्लविक इति । भवनहारीतान् गृहपालित ‘हारिल’ लोकप्रसिद्धपक्षिविशेषान् मरिचाग्रपल्लवदलानि श्वेतशोभाञ्जनाग्रकिसलयपर्णानि भोजय प्राशय ।

लवङ्गिक इति । चकोरपञ्जरेषु विषसूचकवंशदलेषु पिप्पलीनां मागधीनां तण्डुलशकलानि अभ्यन्तरस्थबीजखण्डानि निक्षिप ।

मध्विति । कुसुमाभरणकानि पुष्पमयाणि भूषणानि, अनुकम्पायां कः । विरचय कल्पय ।

मय्विति । सङ्गीतशालायां गीतवाद्यनृत्यशालायां किन्नरमिथुनानि तुरगवदनद्वन्द्वानि विसर्जय गानादिसम्पादनार्थं प्रेरय ।

कन्देति । जीवञ्जीवमिथुनानि चकोरपक्षिद्वन्द्वानि ‘जीवञ्जीवश्चकोरकः’ इत्यमरः । क्रीडापर्वतशिखरं शैलाशिखरमग्रिमं समारोहय आरोहणं कारय ।

हरिणिक इति । पञ्जरशुकसारिकाणां बन्धनगृहस्थितकीरसारिकाणाम् उपदेशं हितशिक्षां देहि प्रयच्छ । एतानि आदेशवचनानि अन्यानि अपराणि च परिहासजल्पितानि नर्मभाषितानि अश्रौषीत्


(झाडू) द्वारा कदली-गृहके मरकतमय वेदिका (चबूतरे) को परिष्कृत (साफ) कर; केसरिके ! मदिरारस लेकर बकुल-पुष्पोंके माला-गृहको सिक्तकर (छिड़क); अरी मालतिके ! सिन्दूरकी रेणुद्वारा, कामदेव-गृहकी हाथीदाँतकी-अटारीको रञ्जित (गुलावी) कर दे; अरी नलिनिके ! गृह-पालित कलहंसोंको कमल-मधुका रस पान कराओ; कदलिके ! गृह-पालित-मयूरोंको धारा-गृहमें ले जाओ; अरी कमलिनिके ! चक्रवाकके बच्चोंको मृणाल-क्षीर-रस दो; चूतलतिके ! पिंजरेमें बैठे कोकिलोंको आम्रकोरकाङ्कुर (आमके बौर) का आहार दो; पल्लविके ! गृह-पालित हारीत-पक्षियोंको मरिचपल्लवके दलाग्र (मिर्चके कोमलपत्तौँके टुकड़े) भोजन कराओ; अरी लवङ्गिके ! चकोर-पक्षीके पिंजरेमें पिप्पलीके अभ्यन्तरस्थ बीजखण्डों (तण्डुलके टुकड़ों) को निक्षेप कर (डाल); मधुकरिके ! पुष्पोंका आभूषण निर्माण कर; मयूरिके ! किन्नर-दम्पतियोंको सङ्गीतशालामें गानकरनेके लिए भेज दे; अरी कन्दलिके ! चकोर और चकोरीको क्रीडा-पर्वतके शिखर पर आरोहण करा (चढ़ा) दे; अरी हरिणिके ! पिंजरेमें बैठे शुक-सारिकाओं (तोते-मैने) को उपदेश दे ।' ये सब वाक्य एवं इसके अतिरिक्त अन्यान्य


१. कमलमार्जनीभिः, संमार्जनीभि । २. वेदिकाः । ३. कुसुमिके ! । ४. चक्रवाकेभ्यः । ५. चूतकलिके ! । ६. निक्षिप । ७. दल । ८. सारिकोपदेशम् । ९. एतानि ।