कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
जाबालिवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । [ १४५
याचितवती^१ च तं भगवन्तम्—'आवेदय प्रसीद भगवन् ! कीदृशस्याविनयस्य फलमनेनानुभूयते, विहङ्गजातौ वा^३ कथमस्य सम्भवः, किमभिधानो वाऽयम् , अपनयतु नः कुतूहलम् आश्चर्याणां हि सर्वेषां भगवान् प्रभवः।'
इत्येवमुपयोचितस्तपोधनपरिषदा स महामुनिः प्रत्यवदत्—'अतिमहदिदमाश्चर्यमाख्यातव्यम् ; अल्पशेषमहः प्रत्यासीदति च नः स्नानसमयः, भवतामप्यतिक्रामति देवार्च्चन-विविवेला, तदुत्तिष्ठन्तु भवन्तः सर्व एव तावदाचरन्तु यथोचितं दिवस-व्यापारम्, अपराह्न-समये भवतां पुनः कृत-केमूलाशानानां विस्रब्धोपविष्टानामादितः प्रभृति सर्वमावेदयिष्यामि। योऽयं यच्च^८ कृतमनेनापरस्मिन् जन्मनि, इह लोके^१० च यथास्य सम्भूतिः अयञ्च तावदपगतक्लमः क्रियतामाहारेण । नियतंमयमप्यात्मनो जन्मान्तरोदन्तं^१२ स्वप्नोपलब्धमिव
उपयाचितवती तद्वृत्तान्तकथनाय प्रार्थितवती। हे भगवन्! आवेदय सन्निधेहि, प्रसीद प्रसन्नो भव, कीदृशस्य किंप्रस्य अविनयस्य अशिष्टव्यवहारस्य फलं भोगः अनेन शुकशिशुना अनुभूयते साक्षात्क्रियते। विहायसा आकाशमार्गेण गच्छतीति विहगः पक्षी तज्जातौ तद्वंशे अस्य कथं केन विधिना सम्भव उत्पत्तिः, वा अथवा किमभिधानः किंनामा अयं शुकशिशुः नोऽस्माकं कुतूहलं साश्चर्यम् अपनयतु दूरीकरोतु, हि यतः सर्वेषां समस्तानाम् आश्चर्याणां परोक्षविषयविवरणस्वरूपाणां प्रभवो हेतुः अपूर्वार्थबोधक इत्यर्थः।
इत्येवमिति। इत्येवम् अनेन विधिना तपोधनपरिषदा तपस्विमण्डया तास्यजनैरित्यर्थः उपयाचितः प्रार्थितः स महामुनिः प्रत्यवदत् प्रत्यवोचत्—अतीति। इदमाश्चर्यम् अघटितघटनायुक्तम् अतिमहद् अतिदीर्घम् आख्यातन्यं निरूपणीयम्, मयेति शेषः। अहो वासरः अल्पशेषं स्वल्पावशिष्टम्, नोऽस्माकं स्नानसमयः मज्जनकालः प्रत्यासीदति सन्निधत्ते। भवतामपि युष्माकमपि देवार्चनविधिवेला देवपूजन-विधिसमयः अतिक्रामति व्यत्युल्लङ्घिता भवति, तत्तस्मात् कारणात् भवन्तो यूयम् उत्तिष्ठन्तु उत्थानं विदधतु। सर्व एव 'तावत्' इति वाक्यालङ्कारे। यथोचितं यथायोग्यं दिवसव्यापारं दिनकृत्यम् आचरन्तु अनुतिष्ठन्तु। अपराह्नसमये प्रहरद्वयान्तरकाले भवतां युष्माकं पुनः द्वितीयवारं कृतं विहितं फलमूलानाम् अशनं भोजनं यैस्तेषां तथोक्तानाम्, विस्रब्धोपविष्टानां सुस्थभावेनोपवेशनं कृतवताम् आदितः प्रारम्भतः प्रभृति सर्वं समस्तम् आवेदयिष्यामि। कथयिष्यामि। अयं शुकशिशुः यः पूर्वजन्मनि आसीत्, परस्मिन् जन्मनि जन्मान्तरे यच्च कर्म अनेन कृतं विहितम्, च पुनः इह लोके अस्मिन् संसारेण यथा येन प्रकारेण अस्य सम्भूतिः उत्पत्तिः। तावत् प्रथमम् अयं शुक लाहारेण भोजनेन अपगतक्लमो विगतश्रमः क्रियतां विधीयताम्। नियतं निश्चितं मयि जाबालौ कथयति निवेदयति सति अयं शुकः अपि आत्मनः
सारी सभा उनसे बार-बार प्रार्थना करने लगी, भगवान् कृपा करके बताइए कि यह किस प्रकार के दुराचरण का फल भोग रहा है? यह पक्षियोनि में कैसे उत्पन्न हुआ? इसका नाम क्या है? आप हमलोगों की उत्सुकता दूर करें क्योंकि आप सभी आश्चर्यजनक बातों को कह सकते हैं। तपस्वियों की सभा के इस प्रकार निवेदन करने पर महर्षि जाबालि ने कहा कि 'यह वृत्तान्त बहुत ही आश्चर्यजनक और विस्तृत है जिसे मुझे पूरा सुनाना होगा किन्तु अब दिन भी थोड़ा ही रह गया है; मेरे स्नान का समय भी हो चला है और आप लोगों के देवपूजन में भी देरी हो रही है अतः इस समय आपलोग उठिए और अपने-अपने दैनिक कर्मों को पूरा कीजिए। रात के समय जब आपलोग कन्द-मूल आदि खा-पीकर निश्चिन्तता के साथ बैठिएगा तो 'यह जो है, इसने पूर्व जन्म में जो कुछ किया है और कैसे इस लोक में आया है आदि पूरी कथा प्रारम्भ से ही सुनाऊँगा। तब तक इसे भी खिला-पिला कर क्लान्त करने दीजिए। मैं जैसे-जैसे इसकी कथा सुनाता जाऊँगा वैसे ही वैसे इसे भी अपने पूर्व जन्म की
१. उपयाचितवती, इत्युपनादितवती; उपेत्यार्थितवती । २. नुभूयते । ३. क्वचिद् 'वा' पदं न विद्यते । क्वचित् 'च' पदं दृश्यते । ४. आख्यायमानस्तु । ५. अवदत् । ६. बेला । ७. क्वचिद 'तावद्' पदं नास्ति । ८. क्वचित् 'कर्म' पदं नास्ति । ९. आवेदयिष्यानः । १०. द्यथानेन कृतमपर । ११. लोके च तथा होने दृश । १२. जन्मान्तरवृत्त ।
१६ का० कथा०
१४६ | कादम्बरी- | [ कथामुखे-
मयि कथयति, सर्वमशेषतः स्मरिष्यति' इत्यभिदधदेवोत्थाय समं ^१तैर्मुनिभिः ^२स्नानादिक-मुचित-दिवस-व्यापारम् अकरोत् ।
अनेन च^३ समयेन परिणतो दिवसः । स्नानोत्थितेन मुनिजनेनार्घविधिमुपपादयता यः क्षितितले दत्तः^४ तमम्बर^५-तलगतः साक्षादिव रक्तचन्दनाङ्गरागं रविरुद्वहत्। ऊर्ध्वमुखै-रर्कबिम्ब-विनिहित^६-दृष्टिभिरूष्मपै^७स्तपोधनैरिव परिपीयमान-तेजःप्रसरो विरलार्तप-^८स्तनिमानमभजत् । उद्यत्सप्तर्षिसार्थ-स्पर्श^९-परिजिहीर्षयेव संहृत-पादः पारावत-^१०पाद-
स्वस्य जन्मान्तरोदन्तं परजन्मवार्त्तां स्वप्नोपलब्धमिव स्वप्नदृष्टवत् सर्वं समस्तम् अशेषत आदितः स्मरिष्यति स्मृतिपथमानेष्यति, इत्यभिदधदेव इत्थं ब्रुवन्नेव उत्थाय उत्थानं विधाय मुनिभिः तपस्विभिः समं सार्द्धम् उचितं योग्यं दिवसव्यापारं दिनकृत्यं स्नानादिकम् अकरोत् विहितवान् ।
अनेनेति । अनेन मध्याह्नसमयानुष्ठेयक्रियया, अत्र अपवर्गे तृतीया । परिणतः अवसानं प्राप्तः दिवसो वासरः । स्नानोत्थितेन मुनिजनेन तपस्विमण्डलेन अर्घविधिं रक्तचन्दनरक्तकुसुमादिना सूर्याय पूजाविधिम् उपपादयता सम्पादयता क्षितितले भूतले दत्तोऽर्पितः यः रक्तचन्दनाङ्गराग इत्यर्थः अम्बरतलगतो गगनतलप्राप्तो रविः सूर्यः साक्षात् तं रक्तचन्दनाङ्गरागमिव रक्तचन्दनरूपमङ्गरागद्रव्यमिव उदवहत् तनावधारयत्, तत्समये सूर्यस्यारक्तार्यमानत्वादित्याशयः । 'रक्तचन्दनाङ्गरागमिव' इति जात्युत्प्रेक्षा ।
ऊर्ध्वेति । ऊर्ध्वमुखैः ऊर्ध्ववदनैः अर्कबिम्बे रविमण्डले विनिहिताः स्थापिता दृष्टयोऽवलोकनानि यैस्तैः, ऊष्माणम् उत्तापं पिबन्तीति तैस्तादृशैस्तत्संज्ञकैः, तप एव धनं येषां तैस्तथोक्तैः, परिपीयमानः आस्वाद्यमानः तेजः प्रसरः तेजस्समूहो यस्य स तथोक्त इव सन्, विरलः अस्तोन्मुखत्वात् स्वल्पोभूतः आतप आलोको यस्य स तादृशः सूर्यः, तनोः क्षीणत्वस्य भावस्तनिमा उम् अभजत् प्राप । तनिमानमित्यत्र 'पृथ्वादिभ्य इमनिज्वा' इति पा० सूत्रेण इमनिच् प्रत्ययः । अत्र सन्ध्यासमये मन्द्रातपो रविवम्बेषि-स्वमुपगतस्तत्र तद्दिग्विनिहितदृष्टिभिर्मुनिभिः समस्तं दिनं यावत् स ऊष्मा पीतः, अत एव सायं रविस्तनुतामभजदिति क्रियोत्प्रेक्षालङ्कारः ।
उद्यदिति । उद्यत उद्यमानस्य सप्तर्षिसार्थस्य सप्तर्षिगणस्य यः स्पर्शः पादेन संस्पर्शः तस्य परिजिहीर्षयेव परिहर्तुमिच्छयेव कारणेन, संहृतः सङ्कोचितः पादो रश्मिश्च येन स तादृशः संसारे प्रतिष्ठितानां सप्तर्षीणां चरणेन स्पर्शनस्यात्यन्तमनौचित्यादित्याशयः पारावतः कपोतः तस्य पादवत् चरणवत् पाटलः श्वेतरक्तः रागः कान्तिः यस्य स तादृशः, रविः सूर्यः अम्बरतलात् गगनतलात् अलम्बत अवातरत् । अत्र पाद (रश्मि) द्वारा जगत्पूज्यानातृषीणां स्पर्शजनितोऽपराधो न भवत्विति हेतुना उपसंहृतपादः (रश्मिः) रविरम्बरतलादलम्बतेति हेतूत्प्रेक्षालङ्कारः । रश्मिचरणयोर्भेंदेऽपि पादशब्दश्लेषेणाभेदाध्यवसायादतिशयोक्त्यलङ्कारः, 'पारावतपादपाटलराग' इत्यत्र लुप्तोपमा च, इत्येतेषां परस्परमङ्गाङ्गिभावेन सङ्करालङ्कारः यद्यपि जगद्वन्द्यस्य रखेः प्रभायां पारावतपादसाम्यकल्पनारूपमानौचित्यं प्रतीयते
बीती हुई सारी घटनाएँ स्वप्न के समान याद पड़ती जायेंगी।' इस प्रकार कहते हुए ही महर्षि जाबालि ने सभी तपस्वियों के साथ उठकर स्नानादि सभी दैनिक कर्मों को पूरा किया।
यह सब होते जाते दिन समाप्त-प्राय हो गया । सूर्यमण्डल लाल हो गया मानो स्नानोपरान्त मुनियों से सूर्य को अर्घ्य देते समय पृथ्वी पर जो लाल चन्दन गिराया था उसे ही उसने आकाश में उठा कर साक्षात् अपने शरीर में अंगराग की तरह मल लिया हो। तेजहीन सूर्य दिम्ब धीरे-धीरे छोट पड़ने लगा मानो ऊपर की ओर मुँह उठा कर उस बिम्ब में दृष्टि लगाने वाले ऊष्मपायी (धूम पीने वाले, तपस्या की एक साधना करने वाले) मुनियों ने सारा तेज ही पी लिया हो। सायंकाल उदित होते हुए सप्तर्षि मंडल से कहीं पैरों का स्पर्श न हो जाय,
१. कचित् 'तैः' इति पदं नास्ति ।
२. स्नानादिकमुचितं दिवसव्यापारम्, स्नानादिकं दिवसव्यापारम् ।
३. क्वचित् 'च' पदं नोपलभ्यते ।
४. अर्घो दत्तः ।
५. अम्बरतलं गतः, अस्ताचलगतः ।
६. निहित० ।
७. उष्मपैः ।
८. विरलातपो दिवसः ।
९. ०सार्थपरिजिहीर्षयैव ।
१०. चरणम् ।
सन्ध्यावर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । १४७
पाटलरोगो रविरम्बरतलादलम्बत । आलोहितांशु-जालं जलशयनमध्यगतस्य मधु-रिपो- र्विगलन्मधुधारमिव नाभि-नैलिनं प्रतिमागतमपरार्णवे सूर्य्यमण्डलमलक्ष्यत । विहाय धरणि- तलम् उन्मुच्य च कमलिनीवनानि शकुनय इव दिवसावसाने तरु-शिखरेषु पर्वताग्रेषु च रविकिरणाः स्थितिमकुर्वत । आलग्न-लोहितांतप-च्छेदा मुनिभिरालम्बितं-लोहितं- वल्कला इव तरवः अलक्ष्यन्त । अस्तमुपगते च भगवति सहस्रदीधितावपरार्णवतटात् उल्लसन्ती विद्रुम-लतेव पाटला सन्ध्या समदृश्यत । यस्यामावध्यमानध्यानाम्, एकदेशदुह्य- माना-होमधेनु-दुग्धधाराध्वनितधन्यतरातिमनोहरम् अग्निहोत्र-वेदि-विप्रकीर्य्यमाण-हरित्-
त्यापि सन्ध्याकाले तेजोविरहितलौहित्यसाम्येन रवेर्मन्दप्रभताऽतिशयध्वननाद्दोषाभावः, एतदर्थं पाठा- न्तरकल्पनमनावश्यकमैवाभातीति विभावयन्तु सुधियः।
आलोहितेति । आलोहितम् ईषद्रक्तवर्णम् अंशुजालं रश्मिपटलं यस्य तत् तादृशम् , विगलन्ती स्रवन्ती मधुधारा परागपद्धतिर्यस्मात् तत् तथोक्तम् , ईषद्रक्तविसारिरश्मिपटलस्य सादृश्यबोधनार्थमेत- द्विशेषणमित्यवधेयम् , प्रतिनागतं प्रतिबिम्बभावेन पतितं जलशयनमध्यगतस्य सलिलशयनमध्यस्थितस्य मधुरिपोः श्रीविष्णोः नाभिनलिनं नाभिकमलमिव अपरार्णवे पश्चिमसागरे सूर्य्यमण्डलं सूर्य्यबिम्बप्रतिविम्बम् अलक्ष्यत जनैर्दृश्यत । अत्र 'नाभिनलिनमिव' इत्युपमा ।
विहायेति । धरणितले भूतले विहाय परित्यज्य, कमलिनीवनानि पद्मवनानि उन्मुच्य व्यक्त्वा, तेषां परमप्रेमास्पदत्वेऽपि अस्ताचलगमनसमये समस्तस्यैव परित्याज्यत्वादित्याशयः, एवञ्च तथाविधार्थ- बोधनार्थमेव विशेषणाभिधानमिदमिति भावुकाः । शकुनय इव पक्षिण इव दिवसावसाने सन्ध्याकाले तरुशिखरेषु वृक्षाग्रेषु पर्वताग्रेषु च रविकिरणाः सूर्य्यमयूखाः स्थितिम् अवस्थानम् अकुर्वत व्यवधत । इहापि 'शकुनय इव' इत्युत्प्रेक्षालङ्कारः ।
आलग्नेति । सालग्नाः संसक्ताः लोहिता रक्तवर्णा आतपानाम् आलोकानां छेदाः खण्डा येषु ते तादृशाः, अत एव मुनिभिः तपस्विभिः आलम्बितानि उपरिस्थापितानि लोहितानि लोहितवर्णानि वल्कलाति तरुत्वचः येषु ते तथोक्ता इव तरवः अलक्ष्यन्त अदृश्यन्त । इह वल्कलानामुपरिस्थापनस्यो- त्प्रेक्षणात्क्रियोत्प्रेक्षा ।
अस्तमिति । भगवति प्रभाववति सहस्रदीधितौ दिनकरे अस्तमुपगते अदृश्यतां प्राप्ते अपरार्णव- तटात् पश्चिमसमुद्रतीरात् उल्लसन्ती ऊर्ध्वमागच्छन्ती विद्रुमलतेव लतारूपेण विर्यगवस्थिता प्रवालपङ्क्ति- रिव पाटला श्वेतरक्ता सन्ध्या सायंसमयः समदृश्यत समलक्ष्यत । 'इह विद्रुमलतेवेति उपमा ।
यस्यामिति । यस्यां सन्ध्यायाम् आवध्यमानं सायंकृत्यतत्परैः ऋषिभिः विधीयमानं ध्यानं परमे- श्वरे एकाप्रत्ययसन्ततिर्यस्मिन् तच्च तादृशम् । एकदेशे तपोवनस्य कस्मिंश्चिद्भागे दुह्यमानानां होमधेनूनां होमार्धगवीनां या दुग्धधाराः पयोधारास्तासां ध्वनितैः शब्दितैः धन्यतरं सत् अतिमनोहरम् अति- सुन्दरम् । अग्निहोत्राणां तत्संज्ञकयागविशेषाणां वेदिषु परिष्कृतचतुरस्रभूमिषु विप्रकीर्यमाणा हवनीया- स्तरणार्थं विक्षिप्यमाणा हरति श्यामवर्णाः कृशा दर्भा यत्र तादृशम् । 'अग्निहोत्रं जुहोति' इति
इस मय से कबूतर के पैरों के समान लाल रङ्ग वाला सूर्य मानो अपने किरणरूप चरणों को समेट कर आकाश के एक ओर लटक गया और पश्चिम समुद्र में पड़तो हुई उसको लाल लाल परछाहीं ऐसी प्रतीत होने लगी मानो जल में शयन करने वाले भगवान् विष्णु का मधुबिंदु बहाने वाला नाभिकमल हो। सूर्य की किरणें पृथ्वी और कमल वनों को छोड़ कर सायङ्काल के समय पक्षियों की तरह वृक्षों और पहाड़ियों की चोटियों पर जा बैठीं। कमी कहीं-कहीं जामुन के वृक्षों पर लाल-लाल धूप बची हुई थी जो ऐसी प्रतीत होती थी मानो ऋषियों ने उस पर अपना लाल-लाल वल्कल टाँग दिया हो । सूर्य के अस्त हो जाने पर पश्चिमी समुद्र के तल से मूंगे की फूटो हुए लता के समान रक्ती हुई सन्ध्या दिखाई देने लगी। उस समय आश्रम में कहीं मुनि लोग ध्यान
१. अवलम्बत । २. क्वचित् 'मध्यति पाठो नोपलभ्यते । ३. नपुलिनं । ४. इव नलिनं । ५. चालक्ष्यत, नावेल्यत, अदृश्यत । ६. धरातलम् , अम्बरतलम् । ७. क्वचित् 'च' इति पदं न विद्यते । ८. तपोवनतरुशिखरेषु । ९. रक्तावपच्छेदाः । रक्तावपगमस्तिच्छेदाः । १०. आलम्बिताः । ११. आलोहित । १२. आलम्रतरवः सुभाम् अशोभन्त, सादृश्यन्त । १३. अपरार्णवतलात् । १४. उपसर्पन्ती । १५. आपाटला । १६. ॰॰॰धाराध्वनितमनोहरम् । १७. क्वचित् 'वेदि' पदं नोपलभ्यते ।
१४८ कादम्बरी— [ कथामुखे-
कुशाम् ऋषिकुमारिकाभिरितस्ततो विक्षिप्यमाण-दिग्देवतार्चन१-बलि-सिक्थकम् आश्रम-पदमभवत् । क्वापि विहृत्य २दिवसावसाने लोहिततारका तपोवनधेनुरिव कपिला परिवर्त्तमाना सन्ध्या मुदितैस्तपोधनै३रदृश्यत । अचिरप्रोषिते च४ सवितरि शोक-विधुरा कमल-मुकुल-कमण्डलु-धारिणी हंस-सितदुकूल-परिधाना मृणाल-धवल-यज्ञोपवीतिनी५ मधुकर-मण्ड-लाक्षवलयम्६ उद्वहन्ती कमलिनी ७दिनपति-समागम-व्रतमिवाचरत् । अपर-सागराम्भसि पतिते ८दिवसकरे ९तत्पतन-वेगोत्थितम् अम्भःशीकर-निकरमिव तारागणमम्बरम्१०
धृत्वा नित्यहोमसम्पादनादित्याशयः । ऋषिकुमारिकाभिः मुनिपुत्रीभिः इतस्ततः चतुर्दिक्षु विक्षिप्य-माणाः स्थाप्यमानाः, दिग्देवतानाम् इन्द्रादीनां दिक्पालानाम् अर्चनाय सपर्यायै बलिसिक्थाः उपायन-रूपानानि यत्र तथोक्तम् । आश्रमपदं मुन्यावासस्थानम् ।
क्वापीति । मुदितैः ध्यानप्रसन्नैः तपोधनैः ऋषिभिः, क्वापि शष्पमयक्षेत्रादौ अज्ञातप्रदेशे च विहृत्य पर्यटनं विधाय अवस्थानं विधाय च, दिवसावसाने दिनशेषे परिवर्त्तमाना प्रत्यागता, लोहिते रक्तवर्णे तारके कनीनिके यस्याः सा तादृशी, पक्षे लोहितः तत्समयेऽपि रक्तसूर्य्यरश्मिसम्पर्काद्रक्तवर्णाः तारकाः ऋक्षाणि यत्र सा तादृशी, कपिला कनकवर्णा तपोवनधेनुः आश्रमगौरिव कपिला पिङ्गलवर्णा, सन्ध्या सायंसमयः अदृश्यत अलक्ष्यत । अत्र संध्याधेन्वोरुपमानोपमेयभावः सादृश्यात्प्रतीयतेऽतः पूर्णोपमालंकारः ।
अचिरेति । सवितरि रवौ प्रतापवति नायके च, अचिरप्रोषिते अस्तमुपगते परलोकं गते च, शोकेन विरहेण विधुरा विह्वला, कमलमुकुलमेव पङ्कजकुड्मलमेव कमण्डलुः, कमलमुकुलमिव कमण्डलुञ्च तं धार-यतीति सा तादृशी, हंसा मानसौकस एव सितदुकूलं श्वेतवसनं हंसवत् सितदुकूलञ्च परिधानम् अधो-ऽशुकं यस्याः सा तादृशी, गतभर्तृकाया रक्तनीलादिवसनपरिधाननिषेधादित्याशयः । मृणालं बिसतन्तुमेव धवलयज्ञोपवीतं श्वेतयज्ञसूत्रं मृणालवत् धवलयज्ञोपवीतञ्च अस्तीति सा तादृशी । तथा मधुकरा भ्रमराः तेषां मण्डलं समूह एव अक्षवलयं जपमालिका, मधुकरमण्डलवत् अक्षवलयञ्च, तत् उद्वहन्ती धारयन्ती कमलिनी, नलिनी, पद्मिनीनामको नारीविशेषश्च, दिनपतेःआदित्यस्य स्वामिनश्च समागमाय भूयः समागमनहेतोः व्रतं नियमविशेषम् आचरदिव अकरोदिव । इह 'आचरदिव' इति क्रियोत्प्रेक्षा, तथा कमलिनी-दिनपत्योः स्त्रीपुरुषव्यवहारसमारोपात् समासोक्त्यलङ्कार, इत्युभयोः परस्परमेकाश्रया-नुप्रवेशरूपः सङ्करालङ्कारः । 'हंससितदुकूलपरिधाना' इति विशेषणं ददता विधवावा रक्तनीलादिवस्त्र-धारणं निषिद्धमिति व्यञ्जितम् । उक्तञ्च—'पुराकल्पे तु नारीणां मौञ्जीबन्धनमिष्यते' ।
अनेन हि द्विविधाः स्त्रियः ब्रह्मवादिन्यः सद्योवध्वश्च, तत्र ब्रह्मवादिनीनामुपनयनादिकं भवतीत्य-भिप्रेत्यैव 'मृणालधवलयज्ञोपवीतिनी' इत्युक्तमित्यवधेयम् ।
अपरेति । अपरः पश्चिमो यः सागरः समुद्रः तदम्भसि जले पतिते निपतिते दिवसकरे सूर्ये, तत्प-तनवेगोत्थितं तत्पतनरभसप्रादुर्भूतम् अम्भःशीकरनिकरमिव पानीयपृषत्समूहमिव अम्बरम् अन्तरिक्षम् अधारयत् दधार । 'अम्भःशीकरनिकरमिव' इति जात्युत्प्रेक्षा ।
करने लगे, कहीं होम धेनुओं के दूध दुहने की मनोहर ध्वनि सुनायी पड़ने लगी, कहीं अग्निहोत्र की वेदी के ऊपर हरे-हरे कुश बिछाए जाने लगे और कहीं ऋषियों की कन्याएँ दिक्पालों की पूजा के लिए इधर-उधर पके हुए अन्न की बलि बिखरने लगीं। तपस्वी लोग दिनान्त में आई हुई लाल तारों वाली सन्ध्या को अत्यन्त प्रसन्नता के साथ इस प्रकार देखने लगे मानो दिन भर इधर-उधर घूम-घाम कर सायंकाल में लौटी हुई लाल नेत्रों वाली आश्रम की किसी गाय को देख रहे हों। सूर्य के अन्यत्र प्रवास के लिए चले जाने पर शोकमग्न कमलिनी कमल-रूपी कमंडलु, हंसरूपी श्वेत वस्त्र, मृणालरूपी शुभ्र यज्ञोपवीत एवं भ्रमररूपी रुद्राक्षमाला धारण करके मानो पति-समागम की प्राप्ति के लिए तपस्या करने लगी । तारों से भरा हुआ आकाश इस प्रकार
१. क्वचिच्च 'अर्चन' पदं न विद्यते । २. दिवावसाने । ३. मुनिभिः । ४. क्वचित् 'च' इति पदं नास्ति । ५. यज्ञोपवीता । ६. ॰॰॰मालावलयम् । ७. रवि॰॰॰ । ८. दिनकरे । ९. दिवसकरे वेगोत्थितम् पवन-वेगोत्थितम् , पतद्वेगोत्थितम् । १०. अम्बरतलम् ।
रात्रिवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । १४६
अवाक्ष्यत । अचिराच्च सिद्ध-कन्यका-विक्षिप्त-सन्ध्यार्चन-कुसुम-शबलमिव तारकितं वियदराजत । क्षणेन चोन्मुखेन मुनिजनेनोर्ध्व-विप्रकीर्णैः प्रणामाञ्जलि-सलिलैः प्रक्षाल्यमान इवागलदखिलः सन्ध्यारागः ।
क्षयमुपगतायाञ्च सन्ध्यायां तद्विनाश-दुःखिता कृष्णाजिनमिव विभावरी तिमिरोद्गममभिनवमवहत् । अपहार्य मुनि-हृदयानि सर्वमन्यदन्धकारतां तिमिरमनयत् । क्रमेण च रविरस्तं गतं इत्युदन्तमुपलभ्य जातवैराग्यो धौत-दुकूल-वल्कल-धवलाम्बरः सतारान्तःपुरः, पर्य्य-
अचिरादिति । अचिरात् स्वल्पसमयेन सिद्धा गुह्यकाः देवयोनिविशेषा इत्यर्थः 'पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः' इत्यमरः, तेषां ययाः कन्यकाः पुत्र्यः ताभिर्विक्षिप्तानि विक्षीर्णानि यानि सन्ध्यार्चनकुसुमानि सायङ्कालीनपूजनप्रसूनानि तादृशैः शबलं कर्बुरितम् अनेकवर्णमिव सत् तारकितम् उदिततारकासमन्वितं वियद् गगनं (कर्तृ) अराजत अशोभत । तयाविधपुष्पाणीव नक्षत्राण्यलक्ष्यन्तेत्याशयः । इह गुणोत्प्रेक्षा ।
क्षणेनेति । अत्र समुच्चयार्थकः चः । क्षणेन सद्य एव उन्मुखेन ऊर्ध्वमुखेन मुनिजनेन तपस्विजनेन ऊर्ध्वविप्रकीर्णैः ऊर्ध्वदिशि विक्षिप्तैः प्रणामाञ्जलिसलिलैः इष्टदेवताप्रणामकालीनारञ्जलिपूर्णपानीयैः प्रक्षाल्यमान इव धौत इव सन्, अखिलः समग्रः संध्यारागः सायङ्कालीनलौहित्यम् अगलत् अच्युतत्, सायं समयो व्यतीतः इत्याशयः । इह 'प्रक्षाल्यमान इव' इति क्रियोत्प्रेक्षा ।
क्षयमिति । क्षयं विनाशम् उपगतायां प्राप्तायां सन्ध्यायाम, तस्या सन्ध्याया विनाशेन ध्वंसेन दुःखिता शोकातुरा विभावरी रजनी, कृष्णाजिनमिव श्यामवर्णचर्मवत् अभिनवं प्रत्यग्रं तिमिरोद्गमं रात्र्युदये तत्परमन्धकारसमूहमित्यर्थः, उद्ववहत धारणमकरोत् । कुटुम्बजनमरणे श्यामलध्मधारणं जनाः कुर्वन्तीति व्यवहारः । इह नीलसाम्यात्तिभिरोद्गमस्य कृष्णाजिनसाम्यमित्युपमा सन्ध्याविनाशशोककातरेव सतीत्यवगमाद् भावाभिमानिनी प्रतीयमाना गुणोत्प्रेक्षा चैत्यनयोः परस्परमङ्गाङ्गिभावात् सङ्करालङ्कारः ।
अपहायेति । तिमिरम् अन्धकारः मुनिहृदयानि तापसचेतांसि अपहाय त्यक्त्वा तेषु शब्दब्रह्मालोकस्य सत्त्वादित्याशयः । अन्यत् सर्वं निखिलं वस्तु अन्धकारतां स्वाच्छादनेनाचाक्षुपताम् अनयत् प्रापयत् । एतेन तत्समये कृष्णपक्षस्य प्रतिपद्वितीया वा तिथिरासीदित्यवगम्यते ।
क्रमेणेति । रविः दिनकरः कश्चित् अत्यन्तप्रियस्सखा च, अस्तम् अस्ताचलं पञ्चत्वञ्च गतः प्राप्त इति एवम् उदन्तं वृत्तान्तम् उपलभ्य ज्ञात्वमुपपन्नं वैराग्यं समस्तविषयेषु वैतृष्ण्यं समाधीना एवैते नाहमेतेषामर्घीन इत्यधीनीकरणसंज्ञा यस्य स तादृशः, अन्यत्र तु जातवैराग्यः समुत्पन्नाधिकरागः । धौतदुकूलवत् प्रक्षालितक्षौमवसनवद् वल्कलं तत्त्वगेव धवलं शुभ्रम् अम्बरं वसनं यस्य सः, पक्षे धौतदुकूलवद्वल्कलवत् धवलं निजप्रभावेण शुभ्रम् अम्बरं गगनं यस्य स तादृशः, तथा सतारे सप्रणवम् अन्तःपुरं हृदयमध्यं तस्य सः ध्याननिष्ठ इत्यर्थः पक्षे—तारा अश्विन्यादय एव लन्तःपुराणि अन्तःपुरस्त्यनार्यः तैः सहैति स तादृशः (अमृतदीधितिः), पर्य्यन्ते प्रान्तभागे स्थिता विद्यमाना तनुतिमिरवधू स्वल्पान्धकारवधू तमालवनानां तापिच्छारण्यानां लेखाः पङ्क्तयो यत्र तं तादृशम्, (आश्रमम्) पक्षे पर्यन्ते
प्रतीत होने लगा मानो उसने पश्चिम समुद्र में सूर्य के गिरने से उड़े हुए जल के छींटे छा गये हों । तारों से आकाश इस प्रकार सुशोभित होने लगा मानो सिद्ध कन्याओं ने उस पर सन्ध्याकालीन पूजन के पुष्पों को बिखेर दिया हो । थोड़ी ही देर में वह सन्ध्याकालीन लालिमा मिट गयी मानो वह ऊपर की ओर मुँह करके तपस्वियों द्वारा फेंके गये प्रणामाञ्जलिसलिल से घुल गयी हो ।
सन्ध्या के नष्ट हो जाने पर उसके विनाश से दुःखी रात्रि ने अन्धकाररूपी नवीन मृगचर्म पहिन लिया । केवल मुनियों के हृदय को छोड़कर अन्य सभी स्थानों पर अन्धकार ने अपना डेरा जमा दिया । रवि के अस्त होने का समाचार पाकर वैराग्यरूपी लाली में रँगा हुआ उज्ज्वल आकाशरूपी धुले वल्कल वस्त्र को धारण करनेवाला चन्द्रमा तारिकारूपी समस्त अन्तःपुर के साथ ध्याननिष्ठ होकर अन्धकाररूपी तमालवन
१. सदारं । २. क्षाल्यमानः । ३. उपगतायां सन्ध्यायाम्, अपगतायां सन्ध्यायाम् । ४. तापसदृपमिव मपादित्वादेव । ५. मुनिजनहृदयानि । ६. उदगतः, उदागतः । ७. समुज्जगाद । ८. अन्तःपुरपर्य्यन्तस्थितवदनु ।
| १५० | कादम्बरी- | [ कथामुखे- |
|---|
न्तःस्थिततनु-तिमिर-तमाल-वन-लेखम्^१, सप्तर्षिमण्डलाध्युषितम्, अरुन्धतीसञ्चरणपवित्रम्^२, उपहिताषाढम्, आलङ्घ्यमानमूलम्^३, एकान्तस्थितचारुतारकमृगम्^४ अमरलोकाश्रममिव गगनतलम्^५ अमृत-दीधितिरध्यतिष्ठत्। चन्द्राभरणभृतस्तारककपाल-शकलादलङ्कृतादम्बरतलात् त्र्यम्बकोत्तमाङ्गादिव गङ्गा सागरम्^६ आपूरयन्ती हंस-धवला धरण्यामपतज्ज्योत्स्ना। हिमकर-सरसि विकच-पुण्डरीक-सिते चन्द्रिका-जलपान-लोभादवतीर्णो निश्चलमूत्तिरमृतपङ्कलग्न इवालक्ष्यत^७ हरिणः तिमिर-जलधर-समयापगमानन्तरम्^८ अभिनव-सित-सिन्धु-^९
स्थितं तनुतिमिरं स्वोदयेन विरलमन्धकारं तमालवनलेखेव यस्मिंस्तत् तादृशम् (गगनतलम्) सप्तानाम् ऋषीणां तत्सदृशानां येषां केषाञ्चित्तपस्विनां मण्डलेन समूहेन अध्युषितम् आश्रितम्, पक्षे-सप्तर्षयो नक्षत्रात्मका मरीच्यादिप्रभृतयः तेषां गणेन अध्युषितम्। अरुन्धत्या वशिष्ठपत्न्या अरुन्धतीसंज्ञकताराविशेषस्य च सञ्चरणेन परिभ्रमणेन पवित्रं पूतम्। उपहिता ऋषिभिः स्थापिता आषाढाः पलाशदण्डा यत्र तं तादृशम्, 'पलाशो दण्ड आषाढः' इत्यभिधानचिन्तामणिः, पक्षे-उपहिते सन्निहिते आषाढे पूर्वाषाढोत्तराषाढे नक्षत्रे यत्र तत् तादृशम्। आलङ्घ्यमानानि समन्ताद्विलोक्यमानानि मूलानि तपस्विनां भक्ष्यभूतमूलानि यस्मिन् तं तादृशम्, पक्षे आलङ्घ्यमाणं समन्ताद् दृश्यमानं मूलं मूलसंज्ञकनक्षत्रंयत्र तत्तादृशम्। तथा एकान्ते, रहसि स्थिते चारु मनोहरे तारके कनीनिके येषां ते तादृशाः, एकान्ते एकभागे स्थिताः चारुतारका मृगा यत्र तं तादृशम्, पक्षे-एकान्ते स्थिताः चारुताराका मनोहरनक्षत्रं मृगशिरा यत्र तत् तादृशम्। अमरलोके देवलोके च आश्रमो वशिष्ठप्रभृतिमुनीनामावासस्थानं तमिव गगनतलम् आकाशतलम् अमृतदीधितिः चन्द्रः अध्यतिष्ठत् अधितस्थौ, प्राणतुल्यात्मीयजननिधिनोदन्तं प्राप्यापर आत्मीयजन इवेत्याशयः, तेनेहाश्रमेण सहाकाशस्य साम्यं तथाविधात्मीयजनेन सहामृतदीधितेः साम्यन्तु प्रतीयमानमित्येकदेशविवर्तिन्युपमा श्लेषालङ्कारेण सङ्कीर्यमुपैति।
चन्द्राभरणेति। सागरं समुद्रम् आपूरयन्ती निजोदयेन निजसलिलेन च परिपूर्णं विदधती, चन्द्रोदयेन सागराणां पूरणं प्रसिद्धम्, गङ्गापक्षे हि आपूरयन्तीत्यस्य आपूरयिष्यन्तीत्यर्थः भविष्यति सामीप्ये च वर्तमानवन्विधेत्यवगन्तव्यम्। हंसवद्धाबला हंसेन धवला शुभ्रा च ज्योत्स्ना चन्द्रिका, चन्द्र एवाभरणं भूषणं तद्विभर्त्ति धारयतीति तस्मात्तादृशात्, तारका नक्षत्राणि कपालशकलानीव मनुष्यमस्तकास्थिखण्डानीव तैः अलङ्कृतात् भूषितात् अम्बरतलात् गगनतलात् त्र्यम्बकस्य महेश्वरस्य उत्तमाङ्गात् शिरसः गङ्गा जाह्नवी इव धरण्यां पृथिव्याम् अपतत् पपात। इह पूर्णोपमा।
हिमकरेति। विकचानि प्रस्फुटानि यानि पुण्डरीकाणि सिताम्भोजानि तद्वत् सिते शुभ्रवर्णे, तैः सितैः च, हिमकरश्चन्द्र एव सरः कासारः तत्र तथोक्ते, चन्द्रिका कौमुदी एव जलं सलिलं तस्य पानलोभात् अवतीर्णः मध्यप्रविष्टः, हरिणः, चन्द्राङ्कव्याजच्छद्मरूपो मृगः, अमृतं चन्द्रपीयूषमेव पङ्कः कर्दमः तत्र लग्नोऽन्तस्संसक्त इव सन् निश्चलमूर्त्तिः निष्पन्दस्वरूपः अलक्ष्यत जनैरदृश्यत, अन्योऽपि हरिणः सरोवरजलं पातुमवतीर्णः कर्दममग्नो निष्पन्दस्तिष्ठति। इव कौमुद्याः पानसम्भवाभावात् पीयूषस्य तरकतया तत्र तथाविधलग्नत्वसम्भवाभावाच्च स्वाङ्गरूपकमलङ्कारः, 'अमृतपङ्कलग्न इव' क्रियोत्प्रेक्षा चेत्यनयोः परस्परमङ्गाङ्गिभावात् सङ्करालङ्कारः।
तिमिरेति। अभिनवानि प्रत्यग्राणि यानि सितानि शुभ्राणि सिन्धुवारकुसुमानि निर्गुण्डीप्रसूनानि
पंक्ति से चित्रित, सप्ततारारूपी सप्तर्षिमण्डल से शोभित, अरुन्धती तारारूपी वशिष्ठ पत्नी अरुन्धतीके आने-जाने से पवित्र, पूर्वाषाढ़ और उत्तराषाढ़ नक्षत्ररूपी पलाश दण्डों से युक्त, मूल नक्षत्ररूपी एवं सुन्दर तारों से भरे, मृगशिरा नक्षत्ररूपी सुन्दर नेत्रों वाले आश्रम-मृगों से विराजमान देवलोक के आश्रम जैसे आकाश में चढ़ा आया। जिस प्रकार अपने जल से समुद्र को परिपूर्णकर देने वाली हंसों से भरी हुई उज्ज्वल गंगा चन्द्रमा से विभूषित एवं तारकासुर की खोपड़ी का भिक्षा-पात्र रखने वाले भगवान् शंकर के सिर से पृथ्वी पर गिरी थी उसी प्रकार समुद्र को लहरा देने वाली हंसी जैसी उजली चाँदनी चन्द्रमा एवं तारों से सुशोभित आकाश से पृथ्वी पर गिर कर चारों ओर छिटकने लगी। चन्द्रमण्डल के बीच की कालिमा ऐसी प्रतीत होने लगी मानो विकसित श्वेत कमलों से भरे चन्द्रमारूपी सरोवर में चाँदनीरूप जलपान के लोभ से आया हुआ मृग उसके
१. वृक्ष। २. पवित्रितम्, पूतम्। ३. उपलक्ष्यमाण। ४. तारकामृगं। ५. क्वचित् 'तल' इति पदं नास्ति। ६. सागरान्। ७. अदृश्यत। ८. समयानन्तरम्। ९. सिन्दुवार।
रात्रिवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । १५१
वार-कुसुम-पाण्डुरैरर्णवागतैरगाह्यन्त हंसैरिव कुमुद-सरांसि चन्द्रपादैः । विगलित-सकलोदयरागं रजनिकर-बिम्बमम्बरापगावगाह-धौत-सिन्दूरमैरावत-कुम्भस्थलमिव तत्तक्षणमलक्ष्यत । शनैः शनैश्च दूरोदिते भगवति हिमस्स्रुति³ सुधा धूलि-पटलेनेव धवलीकृते⁴ चन्द्रातपेन जगति, अवश्यायजलविन्दुदुँ-मन्दगतिषु विघटमान-कुमुदवनं-कषाय-परिमलेषु समुषोढ-निद्रा-भरालस-तारकैरन्योन्य-प्रथित-पक्ष्मपुटैरारब्ध-रोमन्थ-मन्थर-मुखैः सुखासीनैराश्रममृगैरभिनन्दितागमनेषु प्रवहत्सु निशामुख-समीरखेषु,⁶ अर्द्धयाममात्रावखण्डितायां
तद्वद् पाण्डुरैः शुभ्रैः, तथा अर्णवेभ्यः सागरेभ्यः आगतैः प्राप्तैः पक्षे सागरानपि प्राप्तैः, हंसैरिव चन्द्रस्य पादैः रश्मिभिः तिमिरम् अन्धकारो जलधरसमयः प्रावृट्काल इव श्यामत्वसादृश्यात् तस्य अपगमान-न्तरं निवृत्त्यनन्तरं कुमुदसरांसि कैरवोफ्लक्षिततटाकानि अगाह्यन्त आलोद्यन्त अस्पृश्यन्त च। प्रावृट्-काले हंसा हि समुद्रादागत्य सरोवरे विचरन्तीति प्रकृतिः। इह 'हंसैरिवे'त्युपमा, अभिन्नघसितसिन्धु-वारकुसुमपाण्डुरैः' इत्यत लुप्तोपमा चेति सङ्कीर्णोपमा।
विगलितेति । विगलितः यथाक्रममूर्ध्वगमनाद्विलयं प्राप्तः, सकलः समस्त उदयराग उदयकालीनं लौहित्यं यस्य तत्तादृशम्, रजनिकरबिम्बं चन्द्रमण्डलम् अम्बरापगा व्योमनदी मन्दाकिनी आकाशरूपा-पगा च तत्र अवगाहेन स्नानेन धौतं प्रक्षालितं सिन्दूरं नागजं यस्य तत्तादृशम्, ऐरावतस्य शुभवर्णदेवेन्द्र-गजस्य कुम्भस्थलमिव तत्क्षणं तत्कालं जनैः अलक्ष्यत अदृश्यत। शुभवत्वसादृश्यात्सन्द्रपादयोरुपमा-नोपमेयभावः, अतिवर्त्तुलत्वसादृश्येन चन्द्रबिम्बस्य कुम्भस्थलोपमानत्वम्, इति स्फुटमेवोपमालङ्कारः।
शनैरिति । एतादृशसमये हारीतः कृतहारं विहितभोजनं मां वैशम्पायनम् आदाय गृहीत्वा पितरं जाबालिम् अवोचत् अब्रवीत् इति वक्ष्यमाणेन सम्बन्धः। अपि चेति चार्थः। तथा च शनैः मन्दं मन्दं भगवति माहात्म्यवति हिमस्स्रुति प्रालेयवर्षिणि चन्द्रे दूरोदिते दूरमुदयं प्राप्ते सति, तथा जगति संसारे सुधाया धूलिपटलेनेव पांसुसमूहेनेव चन्द्रातपेन शशिन आलोकेन धवलीकृते सति श्वेतीकृते सति, अवश्यायजलविन्दुभिः हिमसलिलबिन्दुवहनैः मन्दा मन्थरा गतिर्गमनं येषां तेषु तादृशेषु, एवमादीनि सप्तम्यन्तानि पदानि अग्रिमस्य 'निशामुखसमीरेषु' इत्यस्य विशेषणानि बोध्यानि । विघटमानस्य विकासं प्राप्यमाणस्य कुमुदवनस्य कैरववनस्य कषायः घ्राणतर्पणः परिमलो विमदंगन्धो येषु तादृशेषु, तथा समुषोढेन उपस्थितेन निद्राभरेण प्रमीलातिशयेन अलसा मन्थरा निश्चेष्टा इत्यर्थः, तारका कनीनिका येषां ते तादृशः, अन्योन्यं परस्परं प्रथितानि नेत्रमुद्रणेन दृढसंसक्तानि पक्ष्मपुटानि नयनलोमानि येषां तैः तादृशैः, तथा आरब्धेषु प्रथममुपक्रान्तेषु रोमन्थेषु चर्वितचर्वणेषु मन्थराणि प्रमीलावशादलसानि मुखानि वदनानि येषां तैस्तादृशैः किञ्चित्किञ्चित्कालं विश्रम्य रोमन्थं विदधद्भिरित्यर्थः, सुखासीनः यदृच्छयोपविष्टैः आश्रममृगैः तपोवनहरिणैः अभिनन्दितं स्पर्शसुखप्राप्या श्लाघितम् आगमनं येषां तेषु तादृशेषु, निशा-मुखसमीरेषु प्रदोषकालीनपवनेषु, प्रवहत्सु सञ्चलत्सु सत्सु तथा विभावर्यां रजन्याम्, अर्द्धयाममात्रेण
कीचट में फँसकर निश्चल हो गया हो। अन्धकार दूर हो जाने के पश्चात् चन्द्रमा की श्वेत किरणें तालाब के जल में प्रतिबिम्बित होती हुई ऐसी प्रतीत होने लगीं मानो वर्षाऋतु के बादलों के हट जाने पर (शरदऋतु आ जाने पर) नवीन सिन्धुवार के श्वेत पुष्पों के समान उज्ज्वल हंस आकाश से उतर कर कुमुदों से भरे तालाब में क्रीड़ा कर रहे हों। उदयकालीन सारी लालिमा समाप्त हो जाने से चन्द्रमण्डल ऐसा प्रतीत होने लगा मानो आकाश गंगा में स्नान करके निकले हुए ऐरावत हाथी का कुम्भस्थल हो, जिस पर लगा हुआ सारा सिन्दूर धुल चुका है। धीरे-धीरे चन्द्रमा आकाश में दूर तक पहुँच गया। चाँदनी में डूबा हुआ संसार ऐसा प्रतीत होने लगा मानो उस पर चूने की राख चढ़ा दी गयी हो। ओस के जलबिन्दुओं के भार से धीरे-धीरे चलने वाली एवं कुमुदों को प्रफुल्लित करके उसकी सुगन्ध से भरी हुई सायंकालीन हवा बहने लगी और
१. गगनागतैः। २. अवागाहन्त, स्पृशन्त । ३. हिमद्युतौ, हिमदीधितौ। ४. 'धवलीकृते जगति' इत्येव पाठः। ५. बिन्दुपातनमन्दः बिन्दुपातनशीतेषु मन्द। ६. "पन्द...। ७. प्रवारसु। ८. समीरेषु ।
| १५२ | कादम्बरी- | [ कथामुखे- |
|---|
विभावर्याम्, हारीतः कृताहारं मामादाय सर्वैस्तैः सह¹ मुनिभिः उपसृत्य चन्द्रातपोद्भासिते तपोवनैकदेशे वेत्रासने सुखोपविष्टम्² अनतिदूरवर्त्तिना³ जालपादनाम्ना शिष्येण दर्भपवित्र-धवित्र⁴-पाणिना मन्दमन्दम्⁵ उपवीज्यमानं पितरमवोचत्⁶। 'हे तात⁷ ! सकलेयमाश्चर्य्यश्रवण-कुतूहलाकलित-हृदया⁸ समुपस्थिता तापसपरिषदाबद्धमण्डला प्रतीक्षते⁹ व्यपनीतश्रमश्च कृतोऽयं पतत्त्रिपोतः, तदावेद्यतां ¹⁰यदनेन कृतमन्यस्मिन् जन्मनि को वाऽयमभूद्भविष्यति वेति । ¹¹एवमुक्तस्तु स महामुनिरग्रतः स्थितं¹² मामवलोक्य तांश्च सर्वानैकाग्रान् श्रवणपरान् मुनीन् बुद्ध्वा शनैः शनैरब्रवीत्—'श्रूयतां यदि कौतूहलम् ।
इति महाकविबाणभट्टविरचितायां कादम्बर्यां कथामुखविवरणम् ।
अर्धप्रहरमात्रेण अवखण्डितायां न्यूनत्वं प्राप्तायां सत्यां प्रहरचतुष्टयेऽतिक्रान्त इत्यर्थः, तैस्तैः सर्वैः निखिलैः मुनिभिस्तपस्विभिः सह उपसृत्य आगत्य (हारीतः) चन्द्रातपेन शशिज्योत्स्नया उद्भासिते विशेषेण प्रकाशिते, तपोवनैकदेशे मुनिस्थानान्यतमप्रदेशे वेत्रासने वेतसरचितविष्टरे सुखोपविष्टं सुखपूर्वकमासीनम्, अनतिदूरवर्त्तिना नातिनिकटस्थायिना, दर्भवत् कुशवत् पवित्रं पूतम्, पवित्रं मृगचर्मरचितं व्यजनं पाणौ हस्ते यस्य तेन तादृशेन, 'जालपाद' इति नाम यस्य तेन तथोक्तेन शिष्येण छात्रेण मन्दमन्दम् शनैः शनैः उपवीज्यमानम् क्रियमाणपवनं पितरमवोचत् ।
तातेति । हे तात, पितः ! सकला समस्ता इयं प्रत्यक्षरूपेण दृश्यमाना, आश्चर्य्यस्य अद्भुतपदार्थस्य यच्छ्रवणकुतूहलं यदाकर्णनचित्तविक्षेपः तेन आकलितं व्याप्तं हृदयं मानसं यस्याः सा तादृशी, तथा आबद्धं विहितं मण्डलं वर्तुलरूपपङ्क्तिभावेनावस्थानं यया सा तथोक्ता, समुपस्थिता समागता तापसपरिषद् मुनिसभा प्रतीक्षते भवद्वचनारम्भमाकांक्षते भवद्विलम्बेनैव विलम्ब इत्याशयः, अयञ्च पतत्त्रिपोतः शुकशावकः, व्यपनीतः भोजनानुष्ठापनादिना दूरीकृतः श्रमः खेदो यस्य स तादृशः, कृतो विहितः । यदनेन शुकशावकेन कृतम् अनुष्ठितं तदावेद्यतां निवेद्यताम् 'अस्मभ्यम्' इति शेषः । अन्यस्मिञ्जन्मनि एतज्जन्मापेक्षयापरस्मिन् भवे अयं कः अभूत् आसीत् 'अग्रे च' को भविष्यति ? । एवम् इत्थम् उक्तोऽभिहितस्तु स महामुनिः जाबालिः अग्रतः पुरतः स्थितम् आसीनं मां वैशम्पायनम् अवलोक्य दृष्ट्वा एकाग्रान् एकतानान् सर्वान् निखिलाञ् श्रवणपरान् आकर्णनतत्परान् तान् मुनीन् ऋषीन् बुद्ध्वा अवगम्य च शनैः शनैः अतिवृद्धत्वात् कृशत्वाच्च मन्दं मन्दम् अब्रवीत् अगादीत्-यदि चेत् कौतूहलम् आश्चर्यं तर्हि श्रूयतां निशम्यताम् ।'
इति श्रीकृष्णमोहनशास्त्रिविरचितायां 'चन्द्रकला' नामिकायां टीकायां कथामुखविवरणम् ।
नींद के भार से अलसायी हुई पुतलियों को पलकों में बन्द करके धीरे-धीरे जुगाली करने वाले आश्रम के मृग उस वायु का स्वागत करने लगे। अभी दो घड़ी रात बीती थी कि हारीत भोजन कर चुकने के बाद मुझे लेकर मुनियों के साथ अपने पिता जाबालि के पास पहुँचे। उस समय महर्षि जाबालि चाँदनी में चमकते हुए तपोवन के एक भाग में बेंत की चटाई पर बैठे हुए थे और जालपाद नाम का एक शिष्य उनसे थोड़ी ही दूर पर खड़ा होकर कुश का पवित्र पंखा हाथों में लिए हुए धीरे-धीरे वायु कर रहा था। हारीत ने उनसे कहा तात ! मुनियों की सभा वह आश्चर्यपूर्ण वृत्तान्त सुनने के लिए अत्यन्त लालायित होकर मण्डल बाँधकर बैठी हुई प्रतीक्षा कर रही है और यह पक्षी भी अपनी थकान दूर कर चुका है इसलिए अब बताइए कि इसने अपने पूर्वजन्म में क्या किया था और क्या था तथा अगले में जन्म में क्या होगा ? ऐसा कहने पर महर्षि जाबालि ने मुझे अपने सामने खड़ा हुआ देखकर तथा मुनियों को एकाग्रभाव से वह कथा सुनने के लिए तत्पर जानकर धीरे-धीरे कहा—यदि आप लोग उत्सुक हैं तो सुनिए।
कथामुख-विवरण समाप्त ।
१. तैर्महामुनिभिः ।
२. वेत्रासनोपविष्टम् ।
३. नातिदूरवर्त्तिन... ।
४. क्वचित् 'पवित्र' इति पदं नास्ति ।
५. मन्दम् ।
६. उवाच ।
७. तात ! ।
८. आकुलितहृदया ।
९. प्रतीक्ष्यते ।
१०. किमनेन कृतमपरस्मिन् जन्मनि कोऽयमभूद् भविष्यति चेति ।
११. इत्येवमुक्तस्तु ।
१२. अग्रस्थितम् ।
अथ कथाप्रारम्भः
उज्जयिनीवर्णनम्
अस्ति सकलत्रिभुवन-ललामभूता, प्रसव-भूमिरिव कृतयुगस्य, आत्मनिवासो- चिता भगवता महाकालाभिधानेन भुवनत्रय-सर्ग-स्थिति-संहारकारणेन¹ प्रमथनाथेनाप- रेव पृथिवी समुत्पादिता, द्वितीय-पृथिवी-शङ्कया च जलनिधिनेव रसातल-गभीरेण² परि- खा-वलयेन परिवृता, पशुपति-निवास-प्रीत्या च गगनपरिसरोल्लेहिशिखरमालेन³ कैलास-गिरिणेव सुवासितेन प्राकार-मण्डलेन परिगता, प्रकट-शङ्ख-शुक्ति-मुक्ता-प्रवाल- मरकत-मणिराशिमिश्चामीकर-चूर्ण-सिकता-निकर-निचितैरयामिभिरगस्त्यपरिपोत-सलिलैः
अस्तीति। अवन्तीषु उज्जयिनी नाम नगरी अस्तीति सुदूरस्थायिना कर्तृपदेन सम्बन्धः। इह स्त्रीलिङ्गे प्रथमान्तानि पदानि उज्जयिनीत्यस्य विशेषणान्यवगन्तव्यानि। सकलत्रिभुवनललामभूता। सकले समस्ते त्रिभुवने त्रिविष्टपे ललामभूता प्रधानस्वरूपा। 'प्रधानध्वजश्रृङ्गेषु पुण्ड्रवालधिलक्ष्मसु। भूपावाजि-प्रभावेषु ललामं स्याल्ललाम च ॥' इति रुद्रः। कृतयुगस्य सत्ययुगस्य प्रसवभूमिरिव जन्मभूमिरिव समग्रा-वयववनयुक्तत्वादित्याशयः। भुवनत्रयस्य त्रिविष्टपस्य यः सर्गः सृष्टिः, स्थितिरवस्थानाम्, संहारो विनाशः तेषां कारिणा विधायिना, प्रमथाः शिवगणाः तेषां नाथेन स्वामिना महाकाल इत्यभिधानं नाम यस्य तेन तादृशेन, भगवता महेश्वरेण आत्मनिवासोचिता विस्तृतत्वात् पवित्रत्वाच्च स्वावस्थानयोग्या इति कृत्वा समुत्पादिता जनिता अपरा एतद्व्यतिरिक्ता पृथिवी वसुन्धरेव। 'प्रसवभूमिरिव' इत्यत्र जात्युत्प्रेक्षा, 'अपरा पृथिवीव' इत्यत्र च द्रव्योत्प्रेक्षा।
द्वितीयेति। द्वितीयाया एतद्भिन्नायाः पृथिव्याः शङ्कया भ्रान्त्या च जलनिधिनेव सागरेणेव, रसातलं पृथिव्या अधोभागं यावद्गभीरेण निम्नेन परिखावलयेन परिवृता परिवेष्टिता।
इह रसातलं यावद्गभीरत्वसम्बन्धाभावेऽपि तत्सम्बन्धप्रतिपादनादतिशयोक्त्यलङ्कारः, 'जलनिधि-नेव' इत्यत्र जात्युत्प्रेक्षालङ्कारश्चैतयोरङ्गाङ्गिभावसङ्करः।
पशुपतीति। पशुपतेः महाकालनाम्नो महेश्वरस्य विवासेन अवस्थानेन या प्रीतिः तत्रैव निवासवि-षये स्नेहः तेन तादृशेन, गगनपरिसरः आकाशपर्यन्तभूः तदुल्लेसिनी संसर्पणेनावदारिणी शिखरमाला श्रृङ्गपङ्क्तिः ऊर्ध्वदेशपङ्क्तिश्च यस्य तेन तादृशेन, तथा सुधावत् गृहधवलीकरणद्रव्यवत् सितेन शुभ्रेण, सुधाभिः सितेन च, कैलासगिरिणेव रजताद्रिणेव प्राकारमण्डलेन वप्रवलयेन परिगता परिवेष्टिता। इह 'कैलासगिरिणेव' इतिद्रव्योत्प्रेक्षा।
प्रकटेति। प्रकटाः स्फटाः शङ्खानां कम्बूनां, शुक्तीनां सागरमण्डूकीनां, मुक्तानां मौक्तिकानां प्रवालानां विद्रुमाणां, मरकतमणीनाम् अश्मसारगर्भाङ्गाञ्च राशयः पुञ्जाः येषु तैः तादृशैः, चामीकरचूर्णा-न्येव चूर्णितसुवर्णबहुल्य एव सिकता बालुकाः तासां निकरेण समूहेन निचिताः सुपमाविशेषसम्पादनाय
अवन्ती (मध्य प्रदेशान्तर्गत मालवा) में अमरलोक की शोभा को जीतने वाली समस्त भुवनों का तिलक रूप उज्जयिनी नामकी नगरी है। वह मानो सत्ययुगकी जन्मभूमि है। तीनों भुवनोंकी उत्पत्ति, पालन और संहार करने वाले महाकालनामधारी प्रमथपतिपति भगवान् महादेवने अपने निवास करने योग्य, मानो दूसरी पृथिवी का निर्माण किया हो। उसके चारों ओर रसातलके समान गहरा परिखामण्डल (जलकी खाई) ऐसा प्रतीत होता है कि मानो उज्जयिनीको द्वितीय-पृथिवी समझ कर समुद्र समा गया हो। चारों ओर चूनेके शुभ्रवर्ण समान शहरपनाह ऐसी प्रतीत होती है कि मानो शङ्करजीकी, वहाँ निवास करनेमें प्रीति देखकर आकाशको स्पर्श करता हुआ शिखरमालायुक्त कैलास पर्वत आया हो। बाजारकी सड़कें अगस्त्यजीसे पान किये गए जलवाले समुद्रके समान अत्यन्त विस्तृत हैं। उनमें चूर्ण की गई सोनेकी धूलियां विछी हैं और शङ्ख, सीप, मोती, मूंगे तथा मरकत मणियों के पुञ्ज बिकने के
१. गम्भीरेण।
२. जलधिना...।
३. गगनतलोल्लेहि...।
४. ....रचितैः।
१० का०
| १५४ | कादम्बरी- | [ कथायाम्- |
|---|
सागरैरिव महाविपणिपथैरुपशोभिता, सुरासुर-सिद्ध-गन्धर्व-विद्याधरोरगाध्यासिताभिश्चित्रशालाभिरविरतोत्सवप्रमदावलोकन-कुतूहलादम्बरतलादवतीर्णाभिर्दिव्यविमानपङ्क्तिभिरिवालङ्कृता, मथनोद्धर्त-दुग्ध-धवलित-मन्दर-द्युतिभिः कनकमयामल-कलश-शिखरैरनिल-दोलायित-सित-ध्वजैरुपारि-पतदभ्रगङ्गैरिव तुषारगिरि-शिखरैरमरमन्दिरैर्विराजित-शृङ्गाटका, सुधावेदिकोपशोभितोदपानैरनवरत-चलित-जल-घटी-यन्त्र-सिच्यमान-हरितोपवनान्धकारैः केतकी-धूलिधूसरैरुपशल्यकैरुपशोभिता, मद-मुखर-मधुकर-
समर्पणाद्गद्याशाः तैः तादृशैः, आयामिभिः विस्तारैः, अत एव अगस्त्येन घटोद्भवेन मुनिना परिपीतानि सलिलानि पयांसि येषां तैः तादृशैः जलरहिततया दर्शितानानेकविधरत्नैरित्यर्थः, सागरैरिव समुद्रैरिव विद्यमानैः, महान्तः अतिदीर्घाः ये विपणीनां पण्यवीथिकानां पन्थानो मार्गाः तैरुपशोभिता शोभमाना।
इह 'सागरैरिव' इत्युपमा, अद्भुतसम्पत्तिवर्णनादुदात्तालङ्कारः, अनयोश्चाङ्गाङ्गिभावसङ्करः।
सुरेति। सुष्ठु परब्रह्मणि रमन्त इति सुरा देवाः, असुषु प्राणोपलक्षितदेहेन्द्रियादिषु रमन्त इत्यसुराः दैत्यदानवाः तैः सिद्धैः देवयोनिविशेषैः गन्धर्वैः देवगायनैः विद्याधरैः व्योमचारिभिः उरगैः सर्पैश्च, चित्रशालापदे तत्तच्चित्रैः अध्यासितासिः अवलम्बितासिः चित्रशालाभिः आलेक्ष्यगृहैः अविरतो निरन्तरो य उत्सवो महः 'मह उद्धव उत्सवः' इत्यमरः, तत्र याः प्रमदा नार्यः तासाम् अवलोकनकुतूहलात् निरीक्षणरूपकौतुकाद्धेतोः अम्बरतलात् गगनतलात् अवतीर्णाभिः भूतलँ प्राप्ताभिः दिव्यविमानपङ्क्तिभिरिव स्वर्गीयाकाशयानावलिभिरिव विद्यमानाभिः अलङ्कृता भूषिता। इह 'दिव्यविमानपङ्क्तिभिरिव' इति जात्युत्प्रेक्षा।
मथनेति। मथने क्षीरसागरमन्थनसमये उद्धतैः मन्थनाघातेनोत्थितैः दुग्धैः तत्समुद्रस्थक्षीरैः धवलितः शुभ्रीकृतो यो मन्दरो मन्थनदण्डीकृतो मन्दराचलः तस्य द्युतिः कान्तिरिब द्युतिर्येषां तैः तादृशैः, कनकमयाः स्वर्णरचिता अमलाः स्वच्छाः कलशाः लघुकुम्भाः शिखरेषु ऊर्ध्वप्रदेशेषु येषां तैः तादृशैः, तथा अनिलेन पवनेन दोलायिताः सञ्चालिताः सितध्वजाः श्वेतवैजयन्त्यो येषु तैः तादृशैः अतएव पतन्ती उपरिष्टात्सवन्ती अभ्रगङ्गा मन्दाकिनी येषु तैः तादृशैः तुषारगिरिशिखरैरिव हिमाचलसानुभिरिव, अमरमन्दिरैः ऊर्ध्वोर्ध्वदेवभवनैः विराजितानि शोभमानानि शृङ्गाटकानि चतुष्पद्यानि यस्यां सा तादृशी 'शृङ्गाटकं चतुष्पथे' इत्यमरः। इह 'अभ्रगङ्गैरिव' इत्युपमा, 'तुषारशिखरैरिव' इत्यत्र च लुप्तोपमा इत्यनयोरङ्गाङ्गिभावसङ्करः।
सुधेति। सुधावेदिकाभिः पानेच्छुजनोपवेशनार्थाभिः श्वेतकरणीयद्रव्योपलिप्तपरिष्कृतभूमिभिः 'वेदिः परिष्कृता भूमिः' इत्यमरः, उपशोभितानि शोभां प्रापितानि उदपानानि कूपा येषु तैः तादृशैः, 'पुंस्येवान्धुः प्रहिः कूप उदपानं तु पुंसि वा' इत्यमरः, अनवरतं निरन्तरं चलितैः भ्रान्तैः जलघटीयन्त्रैः जलकुम्भरचितयन्त्रैः सिच्यमानानि प्रोक्ष्यमाणानि यानि हरितानि नीलवर्णानि उपवनानि तान्येव सान्द्रश्यामलत्वादन्धकाराः तमांसि येषु तैः तादृशैः, तथा केतकीनां कण्टकयुक्तवृक्षविशेषाणां धूलिभिः पुष्पपरागैः धूसराणि धूम्रवर्णानि तैः तादृशैः उपशल्यकैः ग्रामान्तैः उपशोभिता विभूषिता 'ग्रामान्त उपशल्यं स्यात्' इत्यमरः, इह 'हरितोपवनान्धकारैः' इत्यत्र रूपकमलङ्कारः।
मदेति। मदेन मधुपानजनितमत्तत्वेन मुखरं वाचालं यत् मधुकरपटलं मधुपवृन्दं तेन अन्धकारिता
लिए रखे हैं। जिससे वह नगरी सजाई हुई है। वहा देव, दानव, सिद्ध, गन्धर्व, विद्याधर और नागोंसे भूषित चित्रशालाएं ऐसी प्रतीत होती हैं मानो दिन-रात होते उत्सवों (जल्सों) में एकत्रित होती स्त्रियों को देखनेके कुतूहलसे देवताओंके विमानोंकी पङ्क्तियाँ आकाश से उतर आई हों। चौमुहानियों पर देवमन्दिर विराजित हैं। उनकी शोभा, क्षीरसागर मन्थन करने के समय दूध छलकने से शुभ्रवर्ण हुए मन्दराचल के समान हैं। उनके शिखरों पर सुवर्णके स्वच्छ कलश स्थापित हैं और वहाँ शुभ्रवर्ण ध्वजाएं वायुसे फहरा रही हैं। वे आकाश-गङ्गामे संयुक्त हिमालयके शिखरके समान देखने में आ रहे हैं।
उस नगरीकी सीमाके निकटकी भूमि केवड़े की धूलिसे धूसर हो गई है। वहाँ कूएँ बने हैं और हरे हरे बगीचोंके कारण अन्धकार हो रहा है। कूपोंके चबूतरों पर चूनेकी सफेदी हो रही है। निरन्तर चलित जलघटी-यन्त्र (रहटों) से जल सींच कर उपवनों में सिंचाई की जा रही है। भवनों के साथ बने हुए
१. अनवरतोत्सवावलोकन...। २. मन्थोद्धतदुग्धसिन्धुधवल...। ३ ...कुलान्धकारित...।
चन्द्रकलातरंग-१ ] चन्द्रकला-विद्योतिनीसहिता । [ १५५
घटान्धकारितनिकुञ्जा, स्फुरदुपवन-लता-कुसुम-परिमल-सुरभि-समीरणा, रणित-सौभाग्यघण्टाऽऽलोहितांशुक-पताकाऽऽवद्ध-रक्तचामरैर्विद्रुममयैः प्रतिभवनम् उच्छ्रितैर्मकरोङ्कितैः मदन-यष्टिकेतूभिः प्रकाशित-मकरध्वज-पूजा, सतत-प्रवृत्ताध्ययन-ध्वनि-धौत-कल्मषा, स्तिमित-मुरज-रव-गम्भीर-गर्जितेषु सलिल-शीकरासाररचित-दुर्दिनैषु पर्यस्त-रविकिरणरचित-सुर-चाप-चारुषु धारागृहेषु मत्त-मयूर-मण्डलैर्मण्डलीकृतशिखण्डैस्ताण्डव-व्यसनिभिराश्राव्यमान-केकारव-कोलाहला; विकच-कुवलयकान्तैरूत्फुल्ल-कुमुद-धवलादैरै-
जनितान्धकारा निकुञ्जा गृहान्निष्कुट्योपवनानि यस्यां सा तादृशी, एतेनानेकविविधसुन्दरशोभाविश्यं ध्वनितम् । 'गृहारामान्तु निष्कुटः' इत्यमरः ।
स्फुरदिति । स्फुरन्तीनां पवनभरेन चेष्टमानानाम् उपवनलतानाम् निष्कुटवर्त्तीनां यानि कुसुमानि प्रसूननानि तेषां परिमलेन विमर्दगन्धेन सुरभिः आमोदितः समीरणः पवनो यस्यां सा तादृशी ।
गणितेति । रणिताः शब्दिताः सौभाग्यघण्टाः सौभाग्यद्योतिका घण्टा वृहत्किङ्किण्यो येषु तैः तादृशैः, आलोहिताः सम्यगरुणवर्णा संयुक्ताका वस्त्रवैजयन्त्यो येषु तैः तादृशैः, आवद्धानि सम्यग्वन्धनविहितानि रक्तचामराणि लोहितबालव्यजनानि येषु तैः तादृशैः, विद्रुममयैः प्रवालबहुल्लैः, मकराङ्कितैः कन्दर्पस्य मत्स्यध्वजत्वात् मत्स्यसूक्ष्मपुत्तलकाचह्नितैः, प्रतिभवनं प्रतिमन्दिरेषु उच्छ्रितैः ऊर्धीकृतैः मदनयष्टिकेतूभिः कामतलचिन्नकन्दर्पध्वजैः प्रकाशिता द्योतिता मकरध्वजस्य कन्दर्पस्य पूजा नमस्या यस्यां सा तादृशी, कन्दर्पपूजायां तथाविधध्वजोच्छ्रयस्यैव शास्त्रप्रतिपादितत्वादित्याशयः ।
सततेति । सततम् अनवरतं प्रवृत्तः उत्थितः अध्ययनध्वनिभिः वेदादिपाठशब्दैः धौतं दूरीकृतं कल्मषं पातकं यस्याः सा तादृशी, एतेन सा नगरी भोगविलासादीनामेव नाश्रयः किन्तु वेदादिसच्छास्त्र-पर्यालोचनस्थानमपीति ध्वनितम् ।
स्तिमितेति । स्तिमितः सर्वतो नितिनिरोधेन निश्चलो यो मुरजस्य मृदङ्गस्य रवो ध्वनिः स एव गम्भीरं घोरं गर्जितं स्तनितमिव येषु तेषु तादृशेषु, सलिलस्य जलतन्त्रिनिःसृतजलस्य शीकरा विन्दवः तेषाम् आसारेण धारासम्पातेन रचितं विहितं दुर्दिनं मेघच्छन्नदिनं येषु तेषु तादृशेषु, तथा पर्यस्ताः काचकपाट्यादिषु निपतिता ये रविकिरणाः सूर्यरश्मयः तैः रचितं विहितं यत् सुरचापं ऐन्द्रधनुः तेन चारुषु मनोहरेषु, धारागृहेषु सलिलयन्त्रालयेषु, ताण्डवव्यसनिभिः नर्त्तनासक्तैः अतएव मण्डलीकृता वर्तुलाकारीकृताः शिखण्डा वर्हाणि यैस्तैः तादृशैः मत्त मयूरमण्डलैः, श्राव्यमानः परस्पराद्दिश्री-क्रियमानः केकारवः मयूरवाणीशब्दः तदात्मकः कोलाहलः कलकलः यस्यां सा तादृशी,- 'केका वाणी मयूरस्य' इत्यमरः । इह 'स्तिमित-मुरज' इत्यादिषु लुप्तोपमा, तथा 'मण्डलः' इत्यादिपु वृत्यनुप्रासः इति द्वयोः संसृष्टिः, मुरजरवादौ मेघगजनभ्रान्त्या भ्रान्तिमानलङ्कारः प्रतीयत इति वस्तुनालङ्कारध्वनिः ।
विकचेति । विकचानि प्रस्फुटानि यानि कुवलयानि नीलकमलानि तैः कान्तानि रम्याणि तैस्तादृशैः,
उपवनों में गहरे सुन्दर बनने भ्रमरों ने अन्धकारित कर दिया है। चञ्चल उपवन-लताओंके फूलोंके परिमलसे वायु सुगन्धित हो बह रहा है। प्रत्येक घर में मदन वृक्षके दण्ड पर मत्स्यके चिह्नवाली ऊंची ध्वजाएं फड़ी हैं, उनमें घंटी लटक रही है, सौभाग्यसूचक घण्टियां बज रही हैं, लाल रेशमी-वस्त्रोंकी पताकायें फहरा रही हैं और लाल चामर बँध रहे हैं, इससे प्रतीत हो रहा है कि कन्दर्पदेवकी पूजा की जा रही है। निरन्तर वेदाभ्यासकी ध्वनि होने से उस नगरीका समस्त पाप प्रक्षालित हो गया है (अर्थात् वह नगरी केवल भोगविलासका ही आश्रय नहीं है किन्तु वेदादिशास्त्रानुशीलनका भी स्थान है)। वहां सुन्दर जलमन्त्र भवनों में मेघगर्जनके समान मृदङ्गकी गम्भीरध्वनि हो रही है, जलकी छोटी-छोटी बूंदोंकी वृष्टि हो रही है, जिससे दुर्दिन मालूम पड़ रहा है। सूर्यकी किरणोंसे पृथ्वीपर इन्द्रधनुष बन रहे हैं, और मण्डल बनाकर पंख फैलाकर नृत्यमें आसक्त मतवाले मयूरोंके शब्दसे कोलाहल हो रहा है। उस नगरीमें बहुतसे सरोवर (तालाव) हैं। वे विकसित नीलकमलोंके द्वारा सुन्दर लगते हैं, और खिले हुए कुमुदोंसे उनका धौवल्य बड़ा लुभावना हो गया है, और वे
१. प्रतिभवनम् ।
२. मकराङ्कितैः ।
३. मदन ।
४. दुर्दिनं दिनमक्षत्रैरभ्रच्छन्नेऽहनि ।
५. मयूरमण्डलैराश्राव्यमानकेकारवकोलाहला, मत्तयूरमण्डल ।
६. क्वचित् 'रव' इति पदं नास्ति ।
| १५६ | कादम्बरी- | [कथायाम् |
|---|
रनिमिष-दर्शन-रमणीयैराखण्डल-लोचनैरिव सहस्र-संख्यैरुद्भासिता सरोभिः, अविरल-कदली-वन-कलिताभिरमृत-फेनपुञ्जपाण्डुराभिर्दिशि दिशि दन्तवलभिकाभिर्धवलीकृता, यौवन-मदमत्तमालवी-कुच-कलश-क्षुभितसलिलया भगवतो महाकालस्य शिरसि सुर-सरितमालोक्य समुपाजातेष्ये॑येव सततमाबद्ध-तरङ्ग-भुकुटीलेखया खमिव क्षालयन्त्या शिप्रया परिक्षिप्ता, सकल-भुवन-ख्यात-यशसा हरजटा-चन्द्रेणेव कोटिसारेण मैनाकेनेवाविदित-
पक्षे विकचकूवलयवत् कान्तैः रमणीयैः । उत्फुल्लानि विनिद्राणि यानि कुमुदानि श्वेतोत्पलानि तैः धवलानि शुभ्राणि उदराणि मध्यस्थानानि येषां तैः तादृशैः, अन्यत्र तु उत्फुल्लकुमुदवत् विकसितश्वेतोत्पलवत् धवलोदरैः । तथा अनिमिषाणाम् अनेकविधमीनानां दर्शनेन अवलोकनेन रमणीयैः मनोहरैः, अन्यत्र अनिमिषं सुरत्वात् पक्ष्मपातरहितं यद्दर्शनं दृष्ट्विपातः तेन रमणीयैः । आखण्डलस्य इन्द्रस्य लोचनैः सहस्रसंख्यैर्तेरिव सहस्रसंख्यैः सरोभिः तडागैः उद्भासिता उपशोभिता । इह सर्वत्र पूर्णोपमा ।
अविरलेति । अविरलं सान्द्रं यत्कदलीवनं रम्भासमूहः तेन कलिताभिः व्याप्ताभिः अमृतस्य पीयूषस्य फेनपुञ्जवत् डिण्डीरपिण्डवत् पाण्डुराभिः श्वेताभिः, दन्तवलभिकाभिः हस्तिदन्तरचितचन्द्रशालाभिः उपरितलगतलघुसदनैरित्यर्थः, हिन्द्याम् 'अटारी' इति प्रसिद्धैः । 'शुद्धान्ते वलभी चन्द्रशाले सौधोर्ध्ववेश्मनि' इति, 'कदली वैजयन्त्याञ्च रम्भायां हरिगान्तरे' इति च विश्वः । इह लुप्तोपमा ।
यौवनेति । यौवनमदेन तारुण्याभिमानेन मत्तानां मालवीनां तत्स्थानस्य मालवदेशान्तःपातित्वाद् मालवदेशीयसुन्दरीणां कुचकलशैः स्तनघटैः क्षुभितम् आलोड़ितं सलिलं वारि यस्यास्तया तादृश्या, भगवतो महाकालस्य महाकालसंज्ञकतत्त्रत्यपरमेश्वरस्य शिरसि मस्तके सुरसरितं गङ्गाम् आलोक्य निरीक्ष्य समुपाजातेष्येयेव समुत्पन्नेर्ष्ययेव सततं निरन्तरम् आबद्धाः कृताः तरङ्गाः कल्लोला एव भुकुटीलेखा भ्रूभङ्गपङ्क्तिर्यया तादृश्या, खं गगनं क्षालयन्त्येव निर्मलं कुर्वन्त्येव विद्यमानया शिप्रया शिप्रासंज्ञिकया नया परिक्षिप्ता परिवेष्टिता ।
इह 'समुपजातेष्येयेव' 'क्षालयन्त्येव' इत्यत्र वाच्या क्रियोत्प्रेक्षा, भुकुटिविकाररूपकार्येण शिप्रायों सपत्नीव्यवहारसमारोपाद् रूपकगर्भा समासोक्तिरिति परस्परसेपानङ्गाङ्गिभावसङ्करः ।
सकलेति । सकलेषु समस्तेषु भुवनेषु विष्टेषु ख्यातं प्रसिद्धं यशः कीर्त्तिः यस्य स तेन तादृशेन, इत आरभ्य तृतीयान्तानि पदानि 'अधितिष्ठता' इत्यग्रे प्रतिपाद्यमानक्रियाकर्तृभूतस्य 'विलासिजनेन' इत्यस्य विशेषणान्यवगन्तव्यानि ।
हरेति । हरस्य महेश्वरस्य जटायां यश्चन्द्रो निशानार्थः तेनेव, कोटिः शतत्त्वं तावत्प्रमाणं सारं द्रव्यं यस्य तेन तादृशेन, पक्षे तु कोटिः अग्रभाग एव सारः स्थिरांशोऽथवा अवशिष्टभागो यस्य तेन तादृशेन ।
मैनाकेनेति । मैनाकस्तन्नामको हिमाचलसुतस्तेन भूधरविशेषेणेव, अविदितः अज्ञातः पक्षपातः पक्षप्रतिपत्तिणोरेकतरपक्षोपादानं येन तेन तथोक्तेन, पक्षे तु अदिदितः अनुभवाविषयीकृतः पक्षयोः पतत्रयोः पातः इन्द्रेण कर्त्तनात् पतनं येन तेन तादृशेन ।
पुरा हि पर्वता यदा कदा उड्डीयमानाः सन्तः ग्रामनगरादीनां लोपमकार्षुरिति परिज्ञाय तेषां पक्षांश्छेत्तुमिन्द्र आरब्धवान्, अथ तत्समये हिमाचलसुतो मैनाकः पलायमानः समुद्रेऽमज्जदिति पौराणिकी कथा ।
इन्द्रके नेत्रोंके समान अनिमिष दर्शनसे (इन्द्रकी दृष्टि निमेषरहित है, सरोवर में मत्स्य हैं) रमणीय प्रतीत होते हैं । उसकी प्रत्येक दिशामें गज्दन्तकी चन्द्रशालाए बनी हुई हैं। वे केलेके घने वनसे घिरी हैं और अमृतफेनपुञ्जके समान शुभ्रवर्ण हैं । उनसे उस राजधानी की सभी दिशाएं शुभ्रवर्ण हो गई हैं । उज्जयिनी के चारों ओर परि-वेष्टित कर शिप्रा नदी प्रवाहित हो रही है। उसका जल यौवनमदसे मतवाली मालवदेशकी स्त्रियोंके कुचकलशोंसे क्षुब्ध हुआ है और भगवान् महाकालके मस्तक पर गङ्गाको देख उसकी ईर्ष्यासि ही मानो वह निरन्तर तरङ्गरूप भ्रुकुटी चढ़ाकर आकाशको प्रक्षालन (स्पर्श) करती है। वहांके विलासी लोग हर-जटा-चन्द्रके समान समस्त संसारमें प्रसिद्ध कीर्त्तिवाले ( चन्द्रमाकी कान्ति, लोगों का सौन्दर्य ) और कोटिसार हैं ( चन्द्रमाके गोल
१. लुलित । २. आलोक्योपजात । ३. न्वद्धस्तनाम्बद्धभ्रुकुटि ।
| उ.द.देववर्णन-१] | चन्द्रकला-विद्योतिनीसहिता । | १५७ |
|---|
पक्षपातेन मन्दाकिनीप्रवाहेणेव प्रकटितकनकपद्मराशिना स्मृतिशास्त्रेणेव सभावासथ-कूप-प्रपारामसुरसदनसेतुयन्त्रप्रवर्त्तकेन मन्दरेणेवोद्धृत-समस्त-सागर-रत्नसारेण संगृहीत-गाढेनारिणा ^१भुजङ्गभीषणा, ^२खलोपजीविनाऽपि प्रणयिजनोपजीव्यमानविभवेन, वीरेणापि विनम्रता, प्रियंवदेनापि सत्यवादिना, अमित्रेणवापि स्वदारसन्तुष्टेन, अतिथिजनाभ्याग-
पक्षेति— मन्दाकिन्याः स्वर्गङ्गायाः (आकाशगङ्गायाः) प्रवाहो यस्तस्येव प्रकटितः प्रकाशितः कनकानां हेम्नां पद्मराशिः पद्मसंज्ञकसंख्यासमूहो येन तेन तादृशेन, पुनेन तेषां प्रचुरधनसम्पत्त्या मन्दापि बहुलेति व्यञ्जितम् । पक्षे तु प्रकटितो विकसितः कनकपद्मराशिः हेममयकमलपुञ्जो यत्र तेन तादृशेन ।
स्मृतीति— स्मृतिशास्त्रेण धर्मशास्त्रकारेणेव, सभा धर्मपरगद्माद्यनुष्ठानिका परिषद्, आवसयो दीनानां वासः, कूपः सद्वापः क्षुद्रजलाशयानिश्चयः, प्रपा पानीयशाला, आरामः कृत्रिमं वनम्, सुरसदनं देवभवनम्, सेतुः कृत्रिमसरित्तरणमार्गः, यन्त्रं पथिकार्ये सठिउयन्त्रादिः एतेषां प्रवर्त्तकः सामान्योपकाराय रचयिता, पक्षे विद्धायकं तेन तद्योक्तेन ।
मन्दरेणेति— मन्दर पूर्वोक्तपर्वतः तेनेव उद्धृतं क्षमणादिना संगृहीतं समस्तसागररत्नानां सकलसमुद्ररत्नानां सारः उत्कृष्टभागो येन तेन तादृशेन, पक्षे तु उद्धृतं मन्थनेन बहिर्नीतं समस्तसागररत्नानां सारः चतुर्दशरत्ने कृत्स्नंशो येन तेन तादृशेन ।
'हरकण्ठाभद्रेणेव' इत्यारभ्य 'मन्दरेणेव' इत्यन्तं पूर्णोपमालङ्कारः ।
संगृहीतेति । संगृहीतं शिथिलं गाढं विश्ववधकमार्गं येन तादृशेनापि भुजङ्गभीषणा सर्पत्रासशीलेनेति विरोधः, संगृहीतं क्षमणादिना प्राप्तं भरकेश्वरं येन तेन तादृशेन, भुजङ्गरूपा गालिकास्कजनसम्पर्कत्रासशीलेनेति तत्समाधानम् । 'भुजङ्गः सर्पविटयोः' इति हैमः, 'गाढं स्यान्नरकत्वे विश्राणेऽपि गाढम्' इति विश्वः ।
खलोपेति । खला दुर्जना उपजीविनः अवलम्बिनो यस्य तादृशेनापि, प्रणयिजनैः प्रेमिपुरुषैः साधुभिरित्यर्थः, उपजीव्यमान उपभुज्यमानो विभवो धनसम्पत्तिर्यस्य तेन तादृशेन सज्जनदुर्जनयोः सामानाधिकरण्यात्सम्भावादिदोषः, खलं नूतनधान्यसम्पन्नस्थलं तदुपजीविना तदवलम्बेन जीविकां विद्वानेनेति तत्परिहारः । 'खलः कक्के भुवि स्थाने क्रूरे कर्जननेऽधमे' इति हैममेदिन्यौ ।
वीरेणेति । वीरेणापि युद्धतेनापि विनम्रता नमनशीलेनेति विरोधः, शिक्षावनेति तत्परिहारः । 'विनयः शिक्षानम्वयोः' इति हैमः ।
प्रियमिति । प्रियमेव वदतीति प्रियंवदः तेनैवादृशेनापि सत्यवादिनेति विरोधः, सर्वस्मिन् स्थले प्रियंवदत्वेऽसत्यवाद्स्यावश्यकत्वादित्यभिप्रायः, दाम्भिकत्वेनेति तत्परिहारः ।
अमित्रेणेति । नञि अमित्रनं सर्वं सौन्दर्यं यस्य तेन सौन्दर्यप्रकर्षातिनेत्यर्थः, तथापि स्वदारसन्तुटेन नियमीसन्तोगिनेति सौन्दर्यसम्पत्तित्त्वे स्वपत्न्यां हरूपायां परकीयपञ्च्चामु सौन्दर्ययुक्तायां तदयोगो-
जितने प्रसिद्ध हैं, लोग करोड़पति हैं) । मैनाक पर्वत जैसे इन्द्र द्वारा किये गए पक्षच्छेदनको किसी तरह नहीं जानता था, वहां के रहनेवाले मनुष्यों भी वैसे बलि और प्रतिद्वन्द्वीका प्रभाव किस प्रकारका है यह नहीं जानते थे (सब पर्वतोंके पंख काटे गये किन्तु मैनाकके पंख नहीं काटे गये थे ऐसी कथा है)। आकाशगङ्गाके प्रवाहमें जिस प्रकार व्यतीत सूर्य (सुनहरे) पद्म प्रकाशित हो रहे हैं, उनमें (विकसित लम्बे) उसी प्रकार कनकपद्मक सुनों की दूरें दिखाई देती हैं। स्मृतिशास्त्र जिस प्रकार, सम, छायारूप, कूप, पनीयशाला, उपवन, देवालय, पुल, जलयन्त्रोंके प्रवर्त्तक होते हैं वहां के लोग उसी प्रकार इन वस्तुओंका स्थापन करते हैं । मन्दराचलने जिस प्रकार समुद्रमन्थनके समय समुद्रके समस्त रत्नोंका सार सञ्चय और ऐरावत इत्यादि, उद्धृत किये गये थे, वहां के लोग भी उसी प्रकार समस्त समुद्रके उत्तम रत्नादिका धारण किये हुए हैं; विपरीतचित्र (गाढपक्ष नष्ट) होने पर भी वहां के लोग भुजङ्गरूपसे डरते हैं, यह विरोधाभास है, परिहारपक्षमें भारी होने पर डरते हैं। दुर्जनोंको अपने यहां पैदा हुए करके अन्नदाता होने पर भी उनका धन सजन भोगते हैं। वीर होने पर भी वे विनीत (वीर एवं शिक्षित) हैं। प्रियंवद होने पर भी सत्य
१. मग्न । २. खलोपजीवना... । ३. भुजङ्गमभीषादि । ४. स्वल्पोपजीविनापि क०पु० ईश्विन ।
१५८ कादम्बरी- [कथायाम्-
मार्थिनापि परप्रार्थनानभिज्ञेन, कामार्थपरेणापि धर्म्मप्रधानेन, महासत्त्वेनापि परलोकभी- रुणा, सकलविज्ञान-विशेषविदा वदान्येन, दक्षेणं स्मितपूर्वाभिभाषिणा परिहास-पेशलेन, उज्ज्वल-वेशेन शिक्षिताशेषदेशभाषेण वक्रोक्ति-निपुणेन आख्यायिकाख्यान-परिचय चतुरेण सर्वलिपिश्रेन महाभारत-पुराण-रामायणानुरागिणा बृहत्कथाकुशलेन द्यूतादि-
ऽवश्यम्भावादिति विरोधः, अभिरूपेण विदुषेति तत्समाधानम् । 'प्राप्तरूपस्वरूपामिरूपा बुधमनोज्ञयोः' इत्यमरः, 'अभिरूपो बुधे रम्ये' इति च मेदिनी ।
अतिथीति । अतिथिजनानाम् अभ्यागतजनानाम् अभ्यागमार्थिनापि परप्रार्थनानभिज्ञेनेत्यभ्यागत-जनानामपि परत्वाद्विरोधः, परेषु अर्थयाञ्चानभिज्ञेनेति तत्समाधानम् ।
कामेति । कामः स्त्रीषु रतिः, अर्थो धनं तौ परौ उत्तमौ मुख्यौ यस्य तादृशेनापि सता, धर्मः शास्त्राद्यनुकूलेन्द्रियादीनां व्यापार एव प्रधानं यस्य तेन तथोक्तेनेति विरोधः, कामार्थसंलग्नेनापि धर्मः प्रधानं मुख्यरूपेण सेवनीयो यस्य तेन तादृशेनेति तत्परिहारः ।
महेति । महासत्त्वेनापि अत्यधिकसामर्थ्ययुक्तेनापि परलोकात् वैरिनिरूपात् भीरुणा साशङ्केनेति विरोधः, भवान्तरभीरुणा भवान्तरेऽनिष्टोत्पादकैहिकदुष्कृतकरणात्साशङ्केनेति तत्समाधानम् ।
'संगृहीतगारुडेनापि भुजङ्गभीषणा' इत्यारभ्य 'महासत्त्वेनापि परलोकभीरुणा' इत्यन्तं विरोधा-भासोऽलङ्कारः ।
सकलेति । सकलविज्ञानानि समस्तविज्ञानविषयीभूतानि शिल्पानि शास्त्राणि च विशेषेण वेत्ति जानातीति तेन तादृशेन, यद्वा—सकलानां समस्तानां विज्ञानानां शिल्पशास्त्रादिज्ञानानां विशेषम् उत्क-र्षापकर्षरूपं तारतम्यं वेत्ति जानातीति तेन तादृशेन अनेकविधशिल्पशास्त्रज्ञानामुत्कृष्टापकृष्टविचारयोग्येने-त्यर्थः, अनेन तस्यापि तज्ज्ञातृत्वं व्यञ्जितम् । 'मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः' इत्यमरः । वदा-न्येन दानतत्परेण प्रियंवदेन च 'वदान्यो दानशौण्डे स्यात्क्षारुवादिनि वाच्यवत्' इति मेदिनी । दक्षेण सम-स्तकार्यचतुरेण, अदृष्टदर्शनं हास्यं स्मितं तत्पूर्वं यथा स्यात्तथा अभिभाषिणा जल्पिता, परिहासपेशलेन नर्मवचनदक्षेण, उज्ज्वलवेशेन, स्वच्छनेपथ्येन, शिक्षिता अभ्यस्ताः अशेषाणां समस्तानां देशानां जनप-दानां भाषाः शौरसेन्यादयो येन तेन तादृशेन, वक्रोक्तिः 'अन्यस्यान्यार्थकं वाक्यम्' इत्यादि दर्पणोक्तदिशा कुटिलवचनं तत्र निपुणेन दक्षेण, आख्यायिका गद्यकाव्यविशेषः आख्यानं चूर्णकं तयोः परिचये विशेषज्ञाने चतुरेण निपुणेन, सर्वाः समस्ताः या लिपयोऽक्षरविन्यासाः ता जानातीति तेन तादृशेन नानाविधाक्षरपरि-चयवतेत्यर्थः महाभारतं पञ्चमो वेद इति प्रसिद्धम्, पुराणं पञ्चलक्षणम् मद्रयं भद्वयं चैत्याद्यष्टादशसंख्यकम, रामायणं रामचरित्रम्, तत्रानुरागिणा कृतस्नेहेन, रामायणमहाभारतयोरितिहासत्वात् पार्थक्येन प्रति-पादितम् । बृहत्कथा 'भूतभाषामयीं प्राहुरद्भुतार्थां बृहत्कथाम्' इति दण्ड्याचार्यप्रतिपादितस्वरूपा तत्र कुशलेन निपुणेन । द्यूतादयो दुरोदरप्रभृतयो या याः कलाः कलाविद्याः तासां कलापस्य समूहस्य पारगेण पारदृश्वना । श्रुतरागिणा शास्त्रज्ञानानुरागिणा, सुभाषितं मधुरवचनं तत्र व्यसनिना आसक्तेन, प्रशान्तेन क्रोधशून्येन ।
( मित ) बोलते हैं। अभिरूप ( सुन्दर, पण्डित ) होने पर भी वे अपनी स्त्रियोंसे सन्तुष्ट हैं। पर ( अन्य शत्रुओंके ) प्रार्थनाते अनभिज्ञ होने पर भी अतिथि जनोंके अपने यहां आनेके लिए प्रार्थना करते हैं। कामार्थपर ( रति तथा द्रव्यमें आसक्त, अभिलषित अर्थमें अनुरक्त ) होने पर भी धर्मको प्रधान समझते हैं। अत्यधिक बलवान् होने पर भी परलोकसे डरते हैं ( अर्थात् अपने द्वारा अनिष्टोत्पादक पापजन्य जन्मान्तरीय कष्ट से डरते हैं। अनेक प्रकारके विज्ञान और शिल्पशास्त्रका उन्हें ज्ञान है। वे दानशील एवं सर्वकार्य-कुशल हैं। मुस्कुराहटके साथ बातचीत करते हैं। परिहासमें कुशल हैं। श्वेत वस्त्र पहनते हैं। समस्त देशोंकी शौरसेन्यादि भाषाओंमें अभ्यस्त हैं। वक्रोक्तिमें निपुण हैं। कथा और कहानी कहनेमें चतुर हैं। सभी प्रकारके लिपियोंको पहचानते हैं। महाभारत, पुराण और रामायणमें उनका अनुराग है। बृहत्कथा ( भूतभाषामयी अद्भुतार्या कथा ) में निपुण हैं।
१. निखिलभुवनतलख्यातयशसा । पदं क्वचिन्नापि विद्यते ।
२. ॰॰॰विदा विद्याप्रदानेन, दानशीलेनादीनेन ।
३. 'वदान्येन' इति.
४. दक्षिणेन ।
उज्जयिनीवर्णना-१ ] चन्द्रकला-विद्योतिनीसहिता । १५६
कला-कलाप-पारगेण श्रुतरागिणा सुभाषितव्यसनिना प्रशान्तेन सुरभिमास-मारुतेनेव सतत-दक्षिणेन, हिमगिरिकाननेनेवान्तःसरलेन, लक्ष्मणेनेव रामाराधन-निपुणेन, शत्रु-घ्नेनेवाविष्कृत-भरत-परिचयेन, दिवसेनेव मित्रानुवर्त्तिना, बौद्धेनेव सर्वास्तित्वाद-शूरेण,
सुरभीति । सुरभिमासयोश्चैत्रवैशाखयोर्वसन्तमासयोः मारुतेन पवनेनेव, सततं निरन्तरं दक्षिणेन उदारचरितेन, मारुतपक्षे—सर्वदा दक्षिणदिश आगामिना ।
हिमेति । हिमगिरेः तुहिनाचलस्य काननं वनं तेनेव, अन्तर्मध्ये सरलेन अकुटिलहृदयेन तद्वनपक्षे तु—अन्तर्मध्ये सरलाः तत्संज्ञकतरवो यस्य तेन तादृशेन ।
लक्ष्मणेनेति । लक्ष्मणेन सुमित्रातनयेनेव, रामायाः सुन्दर्याः रामस्य च आराधने चेतोऽनुवृत्त्या सन्तोषने निपुणेन कुशलेन ।
शत्रुघ्नेति । शत्रुघ्नेन लक्ष्मणानुजेनेव आविष्कृतो नाटकादिना प्रकाशितः भरते भरतमुनिप्रणीते नाट्यशास्त्रे परिचयो विशेषबोधो येन तेन तादृशेन, पक्षे तु आविष्कृतः सेवादिना प्रकाशितो भरते केक-य्यात्मजे परिचयः स्वप्रेमपरिचयो येन तेन तादृशेन ।
दिवसेनेति । दिवसेन वासरेणेव, मित्राणां सुहृदाम् अनुवर्त्तिना तच्चित्ताराधकेनेत्यर्थः, वासरपक्षे तु मित्रस्य सूर्यस्य अनुवर्त्तिना अनुगामिना दिवसपतिस्थिति पर्यन्तविद्यमानेनेत्यर्थः ।
बौद्धेनेवेति । बौद्धेनेव बौद्धमताश्रयिणा सम्प्रदायविशेषेणेव, सर्वेषां निखिलविक्रेयपदार्थानाम् अस्तित्वादे क्रयकर्त्तुः प्रश्ने जाते अस्तित्वकथने शूरेण सर्वविधविक्रेयवस्तुपूर्णहट्टत्वादित्याशयः । पक्षे तु सर्वभूतभौतिकानां निखिलबाह्यानां चित्तचैत्तानाञ्चान्तर्गतानां वस्तूनाम् अस्तिवादे अस्तित्वकथने शूरेण तदस्तित्वस्य युक्त्यादिना व्यवस्थापनादत्यन्तकुशलेन । तथा च ‘समुदाय उभयहेतुकेऽपि तदप्राप्तिः’ २।२।१८ इति सूत्रव्याख्यानावसरे शारीरकभाष्ये भगवत्पूज्यपादाः श्रीशङ्कराचार्याः—वैशेषिकमतं निरस्य तन्पुष्टये बौद्धमतमुपपाद्य निरसिताः । एवं हि तत्र भाष्यम्—‘तत्रेते त्रयो वादिनो भवन्ति केचित् सर्वा-स्तित्ववादिनः, केचित्त्रिज्ञानास्तित्ववादिनः अन्ये पुनः सर्वशून्यत्ववादिनः’ इति । तत्र ये सर्वास्तित्ववा- दिनो बाह्यामाभ्यन्तरं च मन्यन्ते ते बौद्धशिष्याः । तथा च पद्यम्—
मुख्यो माध्यमिको विवर्त्तमखिलं शून्यस्य मेने जगद् योगाचारमते तु सन्ति मतयस्तासां विवर्त्तोऽखिलः । अर्थोऽस्ति क्षणिकोऽप्यसावनुमितो बुद्धयेति सौत्रान्तिकाः प्रत्यक्षं क्षणभङ्गुरं जगदिदं वैभाषिको भाषते ॥ इति ।
तत्र सौत्रान्तिकवैभाषिकयोः बाह्यार्थानां परोक्षत्वापरोक्षत्वविवादेऽपि अस्तित्वसम्प्रतिपत्तेः तयोः सिद्धान्तमेकमेवेत्याशयेनाह—सर्वास्तित्वेति । प्रकृतग्रन्थमूले ‘अस्ति’ इति विद्यमानार्थेऽव्ययम् ।
नृपादि समस्त कलाविद्याओं में पारङ्गत हैं। वेदशास्त्रसे उन्हें प्रेम है। सुभाषित (मधुर वाक्य) लिखने-पढ़नेका व्यसन है। एवं स्वभावमें शान्त-चित्त हैं। वसन्तकालके वायुके समान वे सर्वदा दक्षिण हैं (वसन्त ऋतुमें दक्षिणकी हवा चलती है, वे लोग भी उदारता अवलम्बन किये हुए हैं)। हिमालय पर्वतके वनमें जिस प्रकार सरल (देवदारु) नामका वृक्ष है, मनुष्योंके हृदयमें भी उसी प्रकार सरलता है। लक्ष्मण जिस प्रकार रामके सन्तोषविधानमें निपुण थे, वे भी उसी प्रकार स्त्रियोंके सन्मानमें निपुण हैं। शत्रुघ्न जिस प्रकार भरत के प्रति प्रेम का परिचय दिया था, वे भी उसी प्रकार भरत-प्रणीत नाट्यशास्त्रमें दक्षताका परिचय देते हैं। दिन जिस प्रकार सूर्यके पीछे-पीछे चलता है, वे भी उसी प्रकार अपने मित्रोंके अनुगामी हैं। बौद्धोंके मुख्यतया (१) सर्वास्तित्ववाद, (२) केवल विज्ञानास्तित्ववाद, एवं (३) सर्वशून्यपाद ये तीन भेद हैं, उनमेंसे एक सर्वास्तित्ववादी जिस प्रकार सभी पदार्थोंका अस्तित्व स्वीकार करते हैं, उन लोगोंके बीचमें वाणिज्यव्यवसायके अंग भी उसी प्रकार किसी ग्राहकके आने पर 'ये चीजें हैं कि नहीं' ऐसी जिज्ञासा करने पर सभी वस्तुओंका अस्तित्व स्वीकार करते हैं। सांख्यशास्त्रमें जिस प्रकार प्रकृति और पुरुष हैं उन
१. सर्वदा नास्तित्ववाद...सर्वास्तिवादशून्देव ।
| १६० | कादम्बरी- | [ कथायाम्- |
|---|
सांख्यागमनेव प्रधान-पुरुषोपेतेन, जिनधर्मेणेव जीवानुकम्पिना, विलासिजनेनाधिष्ठिता, सशैलेव प्रासादैः, सशाखानगरेव महाभवनैः, सकल्पवृक्षेव सत्पुरुषैः, दर्शितविश्वरूपेव चित्रभित्तिभिः, सन्ध्येव पद्मरागानुरागिणी, अमराधिप-मूर्त्तिरिव मखशतानलधूमपूता, पशुपति-लास्यक्रीडेव सुधाधवलादृट्टासा, वृद्धेव जातरूपस्या, गरुडमूर्त्तिरिवाच्युतस्थितिर्-
सांख्येति। सांख्याः कापिलाः तेषामागमः सिद्धान्तः तच्छास्त्रमित्यर्थः, तेनेव, प्रधानपुरुषैः धनगुणा- दियुक्ततया उत्तमपुरुषैः उपेतेन सहितेन, पक्षे तु-प्रधानं सत्त्वरजस्तमसां साम्यावस्थारूपा प्रकृतिः, पुरुषो नित्यशुद्धबुद्धमुक्तस्वभावः प्रकृतिविकृतिविलक्षणश्चेतनरूपः ताभ्याम् उपेतेन सहितेन । तथा च सांख्यसूत्रम्—'सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः, न नित्यशुद्धबुद्धमुक्तस्वभावस्य तद्योगस्तद्योगादृते, इत्यादि । सांख्यकारिकायामपि—
'मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त ।
षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥' इति ।
जिनेति । जिन आर्हतः तद्धर्मेण तन्न्यायेनेव जीवान् निखिलान् प्राणिनः अनुकम्पते कृपां विधत्त
इति तेन तादृशेन, विशेषणमिदं पक्षद्वयेऽपि तुल्यम् , जैनानामहिंसावादित्वात् ।
कवेः कीदृशं दर्शनशास्त्रगभीरपाण्डित्यमित्येतत्प्रदर्शनेनैव सुधियो विभावयन्तु ।
इह 'सुरभिमासमारुतेनेव' इत्यारभ्य 'जिनधर्मेणेद' इत्यन्तं पूर्णोपमालङ्कारः ।
विलासीति । विलासिजनः ।
'गतिः स्थानासनादीनां मुखनेत्रादिकर्मणाम् । तात्कालिकं तु वैशिष्ट्यं विलासः प्रियसङ्गजम्' ॥ इति ॥
इति लक्षणलक्षितः पुरुषः तेन अधिष्ठिता सदलम्बि्रता ।
सशैलेति । प्रासादैः देवभूषसदनैः सशैलेव साचलेव, तेषामत्युन्नतत्वादित्याशयः । तृतीया चेह
(प्रकृत्यादिभ्य उपसंख्यानम्) इत्यनेन करणे बोध्या, एवमन्यत्रापि । महाभवनैः अतिविस्तृतगृहैः शाखा-
नगरं निकटस्थायि क्षुद्रनगरं तत्सहितेव तेषां शाखानगरवद्दीर्घत्वादित्यभिप्रायः । सत्पुरुषैः महापुरुषैः सक-
ल्पवृक्षेव सह पारिजातेनेव तद्वत्तेषां याचकयाच्ञासाफल्यकरणादित्यशयः । चित्रभित्तिभिः आलेख्ययुक्त-
कुड्यैः दर्शितानि प्रकाशितानि विश्नेषां संसाराणां निखिलवस्तूनां रूपाणि आकृतयो यया सेव, जगतां
निखिलपदार्थानामेव तत्रालिखितमानत्वादित्याशयः ।
इह 'सशैलेव प्रासादैः' इत्यत्र शैलसंयोगस्योत्प्रेक्षणादुत्प्रेक्षालङ्कारः, तेन च प्रासादा एव शैला इति
रूपकालङ्कारो ध्वन्यत इत्यलङ्कारेणालङ्कारध्वनिः । एवमग्रेऽपि । 'दर्शितविश्वरूपेव चित्रभित्तिभिः' इत्यत्र
विश्वरूपप्रदर्शनक्रियोत्प्रेक्षणात् क्रियोत्प्रेक्षालङ्कारः ।
सन्ध्येति । सन्ध्या सायं समयमिव, पद्मरागैः यत्र तत्र खचितैस्तन्नामरत्नैः अनुरागो रक्तिमा,
पद्मरागवत् अनुरागो लौहित्यं च अस्या अस्तीति सा तादृशी ।
अमरेति । अमराधिपस्य इन्द्रस्य मूर्त्तिः शरीरमिव, मखशतस्य विविधमखस्य, शतसंख्यकाश्वमेध-
मखानाञ्च अनलस्य अग्नेः धूमेन दहनकेतनेन पूता पवित्रा ।
पश्विति । पशुपतेः महेश्वरस्य लास्यक्रीडेव नृत्यखेलेव, सुधामिः श्वेतगृहधवलीकरणद्रव्यैः धवलानां
श्वेतीभूतानाम् अट्टानाम् अट्टालिकानां हासो विकासो यत्र सा तादृशी, पक्षे तु सुधावत् पीयूषवत् धवलः
श्वेतः अट्टहासो महाहास्यं तत्र सा तादृशी 'यशसि धवलता वर्ण्यते हासकीर्त्योः' इति हि कविसमयः ।
वृद्धेति । वृद्धा स्थविरा नारीव, जातरूपाणां सुवर्णानां ऋचा भवनानि यन्त्र सा तादृशी, पक्षे तु—
लोगोंके बीचमें भी उसी प्रकार प्रधान-प्रधान मनुष्य हैं, और जैनधर्मके समान वे सभी जीवों पर दया रखते हैं । उस उज्जयिनीमें पर्वतोंके समान राजमहल हैं, देवनवनों के समान भवन हैं और कल्पवृक्षके समान सत्पुरुष हैं । वह अपनी चित्रित भित्तियोंसे मानो विश्वरूप प्रकट करती है । सन्ध्या जिस प्रकार पद्मरागमणियोंके समान रक्तवर्ण होती है, उज्जयिनी भी उसी प्रकार अधिकतर पद्मरागखचित होनेसे रक्तवर्ण है । इन्द्रकी मूर्त्ति जिस प्रकार शत अश्वमेधयज्ञके अग्निधूमसे पवित्र हो गई थी, उज्जयिनी भी उसी प्रकार यज्ञीय अग्निके धूमसे पवित्र हो गई है । शङ्करकी नृत्य-क्रीडा जिसप्रकार चन्द्रकले समान धवल अट्टहास-समन्वित होतो है, उज्जयिनी भी उसी प्रकार चूनेसे सफेदी
१. ॰॰॰पुरुषगुणोपेतेन । २. सर्वभूतानुकम्पिना । ३. सशैलेव । ४. पद्मरागानु० ।
उज्जयिनीवर्णना-१ ] चन्द्रकला-विद्योतिनीसहिता । १६१
मणीया, प्रभातवेलेव प्रबुद्धसर्वलोका, शवर-वसतितिरिवावलम्बित-चारु-चामर-नागदन्त-धवल-गृहा, शेष-तनुरिव सदासन्न-वसुधाधरा, जलधि-मथनवेलेव महाघोप-पूरित-दिग-न्तरा, प्रस्तुताभिषेकभूमिरिव संनिहितकनकघट-सहस्रा, गौरीव महासिंहासनोचित-मूर्त्तिः, अदितिरिव देवकुल-सहस्रसेव्या, महावराह-लीलेव दर्शितहिरण्याक्षपाता,
जातः परिगतवयस्वादुत्पन्नः रूपस्य लावण्यस्य क्षयोऽपचयो यस्याः सा तादृशी । 'निलयापचयौ क्षयौ' इत्यमरः ।
गरुडेति । गरुडस्य वैनतेयस्य मूर्त्तिः शरीरमिव, अच्युता दृढरचनादस्खलिता या स्थितिः अवस्थानं तया रमणीया चेतोहारिणी, पक्षे तु अच्युतस्य विष्णोः स्थित्या तदुपर्यवस्थानेन रमणीया चेतोहारिणी ।
प्रभातेति ! प्रभातं प्रत्यूषः तस्य वेला समय इव, प्रबुद्धा उत्कृष्टज्ञानिनः सुप्तोत्थिताश्च सर्वलोकाः समस्तजना यत्र सा तादृशी ।
शवरेति । शवरा भिल्लाः तेषां वसतिः निवासस्थानमिव, अवलम्बितानि रज्जुभिरलम्बितानि चारु-चामराणि रमणीयवालव्यजनानि येषु तथोक्ता नागदन्ता गजदन्ताः तैः, धवलानि श्वेतानि गृहाणि भवनानि यस्यां सा तादृशी । पक्षान्तरे तु-अवलम्बितैः तांस्तान् व्याघ्रादिपशून् व्यापार्चै कत्रीकृत्य स्थापितैः चारुचामरैः चमरहरिणानां रमणीयलोमभिः नागदन्तैः गजदन्तैश्च धवलानि गृहाणि यस्यां सा तादृशी ।
शेषेति । शेषो नागाधिपः तस्य तनुः शरीरमिव, सदा आसन्ना निकटस्थिता वसुधाधरा गिरयो यस्याः सा तादृशी । पक्षान्तरे तु-सदा सर्वस्मिन्काले आसन्नाम् उपरिबिद्यमानां वसुधां पृथिवीं धरतीति सा तादृशी ।
जलधीति । जलधिः समुद्रः तस्य मथनवेलेव मन्थनसमय इव, महाघोषैः विस्तीर्णाभीरपल्लीभिः विस्तृतमन्थनशब्दैश्च पूरितानि परिपूर्णानि दिगन्तराणि यस्या यस्याञ्च सा तादृशी 'घोष आभीरपल्ली स्यात्' इत्यमरः ।
प्रस्तुतेति । प्रस्तुत: प्रारब्धो योऽभिषेकः राज्याभिषेचनं तस्य भूमिः अवस्थानमिव, सन्निहितं संस्थापितं कनकघटसहस्रं सुवर्णनिर्मितकलशपुञ्जो यस्यां सा तादृशी, एकत्र गृहद्वारतोरणस्तम्भमूलेषु मङ्गलाय, अन्यत्र स्नानकरणीयसम्भांरायेत्याशयः ।
गौरीति । गौरी दुर्गव, महासिंहासनैः विपुलैः सिंहसदृशविष्टरैः उचिता स्वयोग्या अत्यन्तरमणी-येत्यर्थः, मूर्त्तिः शरीरं यस्याः सा तादृशी, पक्षान्तरे तु-महासिंहरूपे आसने विष्टरे उचिता स्थितियोभ्या मूर्त्तिः शरीरं यस्याः सा तादृशी ।
अदितिरिति । अदितिः सुरजननीव, देवकुलसहस्रं देवभवनसमूहः नेव्यं प्रदक्षिणविधानादिना सेव-नीयं यत्र सा, पक्षान्तरं तु देवकुलसहस्रेण देवान्वयवृन्देन सेव्या जन्मदात्रीत्वात्सेवनीया ।
महेति । महावराहस्य भगवतस्तृतीयावतारस्य लीला क्रीडेव, दर्शितः क्रीडासमये पुरुषैः दृग्विषयी-
की हुई अट्टालिकारूप हाससे समन्वित है। वृद्ध स्त्रियोंका सौन्दर्य जिस प्रकार विनष्ट होते देखा जाता है, उज्जयिनीमें भी उसीप्रकार सुवर्णीय अधिकतर गृह देखनेमें आते हैं। गरुड़की मूर्ति जिसप्रकार विष्णुके बैठनेसे रमणीय लगती है, उज्जयिनी भी उसीप्रकार रमणीय लगती है। प्रातःकालमें जिसप्रकार सब लोग प्रबुद्ध होते हैं, उज्जयिनीमें भी उसीप्रकार सबलोग विविध विषयोंमें चतुर दिखाई देते हैं। भीलोंकी वासभूमिमें जिसप्रकार मनोहर चामर और हस्तिदन्त लटके रहते हैं, उज्जयिनीमें भी उसीप्रकार अधिकतर शुभ्र गृह हैं जिसके दीव गूटियों पर हस्तिदन्तके सुन्दर चामर लटक रहे हैं। शेषनागके शरीर पर जिसप्रकार पृथिवी सर्वदा रहती है, उज्जयिनीके समीपमें भी उसीप्रकार सर्वदा पर्वत रहते हैं। समुद्र-मथन के समय जिसप्रकार महाशब्द सभी दिशाओंको पूर्ण किया था, गोपगणके सभी बड़े बड़े पशुओंका गृह भी उसीप्रकार उज्जयिनीके सभी दिशाओंको पूर्ण कर रहा है। राजके अभि-षेक स्थानमें जिसप्रकार अनेक सुवर्ण कलश रखे रहते हैं, उज्जयिनीमें भी उसीप्रकार प्रत्येक गृहके बर्हिद्वार-मूलमें हजारों सुवर्ण कलश रखे हैं। पार्वतीकी मूर्ति जिसप्रकार निज वाहन बड़े सिंह पर बैठनेमें उपयुक्त है, उज्-जयिनीमें भी उसी प्रकार बृहत् सिंहासनके योग्य मूर्त्तियाँ हैं। देवगण जिसप्रकार माता अदितिकी सेवा करते हैं,
१. आलम्बित ०...।
२. क्षत्रियान्तरं नास्ति ।
३. जलनिधि ०...।
४. '...मूर्त्तिरिव देवेव ।
५. उचित-देत्याधिकः पाठः समुपलभ्यते ।
६. ...घटक ०...।
१६२ | कादम्बरी- | [ कथामुखे-
आस्तीकतनुरिव आनन्दित-भुजङ्गलोका, हरिवंशकथेव अनेकबाल-क्रीडा-रमणीया, प्रकटाङ्गोपभोगाप्यखण्डित-चरित्रा, रक्तवर्णापि सुधाधवला, अवलम्बित-मुक्ता-कलापापि विहारभूषणा, बहुप्रकृतिरपि स्थिरा, विजितामरलोक द्युतिरवन्तीपूज्जयिनी नाम नगरी।
कारितः हिरण्याक्षाणां सुवर्णरचितपाशकानां पातो निक्षेपो यत्र सा, पक्षान्तरे-दर्शितः हिरण्याक्षस्य तन्नामकदैत्यस्य हिरण्यकशिपुभ्रातुः पातो नाशो यया सा तादृशी।
पुरा किल हिरण्याक्षो महत्तपो विधाय तेन प्राप्तबलो जगति महान्तमुपद्रवं कृतवान्। ततो देवादिभिः प्रार्थितो भगवान्नारायणो वराहविग्रहं परिगृह्य भुवनमुत्तोस्य, मनन्तर पर्वतकन्दराप्राप्तं हिरण्याक्षं जघानेति श्रीमद्भागवतीया कथा।
आस्तीकेति। आस्तीकस्य तन्नामकमुनेः तनुः शरीरमिव, आनन्दित. विलासोचितबहुलतरभवनयुक्तत्वात् प्रमोदं प्रापितः भुजङ्गलोको विटजनो यया सा तादृशी, पक्षान्तरे-आनन्दितः जनमेजयस्य सर्पयज्ञावरोधनात् प्रमोदं प्रापितो भुजङ्गलोकः सर्पवृन्दं यया सा तादृशी।
पुरा किल परीक्षितपुत्रो जनमेजयः सर्पात्स्वपितुः प्राणवियोगं निशम्यातिक्रुद्धस्तत्प्रतीकाराय सर्पसत्रं प्रारब्धवान्। ततः परमदयालुर्भंगवानास्तीकः समस्तसर्पवंशविनाशोद्यतं निरीक्ष्य जनमेजयप्रार्थनया तदवरोधं कृतवानिति महाभारतीया कथा।
हरीति। 'हरिवंशनाम्नो महाभारतस्य या कथा उपाख्यानं सेव, अनेकाभिः वहोभिः बालकीडाभिः तत्र विद्यमानानां बालकानां खेलाभिः यादबोयशिष्टगगक्रीडाकथाभिश्च रमणीया मनोहरा।
इह 'सन्ध्येव पद्मरागानुरागिणी' इत्यारभ्य 'हरिवंशकथेव अनेकबालक्रीडारमणीया' इत्यन्तं पूर्णोपमालङ्कारः।
प्रकटेति। प्रकटो दुर्व्यवहारेण प्रसिद्धतया त्रपासङ्कोचाद्यसत्त्वात्प्रकाशितः अङ्गनानां वनितानाम् उपभोगः सम्भोगो यस्यां सा तथोक्तापि अखण्डितचरित्रेति विरोधः, प्रकटः सुगन्धिनिःसरणादिना प्रस्फुटः अङ्गनानाम् उपभोगो वनितागणद्वारा कङ्कतताम्बूलवीटिकादिसम्भोगो यस्यामिति तत्परिहारः।
रक्तेति। रक्तवर्णापि अरूगवर्णापि सुधावत् गृहधवलीकरणद्रव्यद्ववद् धवला शुभ्रेति विरोधः, रक्ताः सुखपूर्वकवासस्थित्या अनुरक्ताः वर्णा ब्राह्मणादिजातयो यस्यमिति तत्समाधानम्। 'वर्णाः स्युर्ब्राह्मणादयः' इत्यमरः।
अवलम्बिनेति। अवलम्बितो धारितः मुक्ताकलापो मुक्ताल्क्यया तादृश्यपि विगनलुठितः तुरनादौ हारो मुक्ताकलापो येभ्यः तानि विहाराणि भूषणानि अलङ्कारा यस्याः सेति विरोधः, विहारा जैनप्रासादा भूषणानि यस्याः सेति तत्परिहारः। 'विहारो भ्रमणे स्कन्धे लीलायां सुगतालये' इति मेदिनी।
बहिति। बही अनेकप्रकारा प्रकृतिः स्वभावो यस्याः सापि स्थिरा अचञ्चलप्रकृतिरिति विरोधः, बह्व्यः प्रकृतयः नागरिकजनाः स्वाम्यादिराज्याङ्गानि वा यस्यां सेति तत्समाधानम्। 'प्रकृतिर्गुणसाम्ये स्यादमात्यादिस्वभावयोः। योनौ लिङ्गे पौरवर्गे' इति मेदिनी।
'स्वाम्यमात्यसुहृत्कोषराष्ट्रदुर्गबलानि च। राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च'॥ इति चामरः।
इह 'रक्तवर्णापि' इत्यारभ्य 'बहुप्रकृतिरपि' इत्यन्तं विरोधाभासोऽलङ्कारः।
विजितेति। विजिता अमरलोकस्य सुरसदनस्य द्युतिः कान्तिर्यया सा तादृशी, अवन्तीषु मालवारूयदेशेषु; स्वकान्त्या स्वसम्पत्त्या वा उत्कर्षेण जयति निखिला नगरीरित्युज्जयिनी।
उज्जयिनीके जनसमूह भी उसीप्रकार देवताओंकी सेवा करते हैं। नारायण वराहमूत्ति धारणकर जिस प्रकार हिरण्याक्ष दानवका विनाश दिखाये थे, उज्जयिनीके लोग भी उसीप्रकार क्रीडा करनेमें प्रवृत्त होकर सुवर्णनिर्मित पाशेका निक्षेप दिखलाते हैं। आस्तीकमुनि जिसप्रकार सर्पसत्र निवारण कर सर्पगणको आनन्दित किये थे, उज्जयिनी भी उसीप्रकार भोगविलासके उपयुक्त गृह धारण कर भोगियोंको आनन्दित करती है। हरिवंशकी कथा जिस प्रकार नानाविध बालकीड़ाकी कथामें मनोहर है, उज्जयिनी भी उसीप्रकार बालकोंकी क्रीडा करनेमें मनोहर हैं। उज्जयिनीमें प्रत्यक्षरूपसे स्त्रियोंका उपभोग (अङ्गों का उपयोग) होने पर भी उन सबोंका चरित्र अखण्डित है। वर्णरक्त (लाल रंग, ब्राह्मणादिवर्ण अनुरक्त) होने पर भी वह चूनेसे सफेद दीखती है। मुक्ताकी माला धारण करने पर भी उज्जयिनी, मुक्तामालाहीन अलङ्कार से अलङ्कृत (बहुतर बौद्ध आश्रमसे भूषित) है। उज्जयिनी बहुप्रकृति (चञ्चलचित्त, अनेकप्रकारकी प्रजासे युक्त) होनेपर भी स्थिर रहती है, और वह अपनी शोभासे स्वर्गकी शोभाको जीत लेती है।
१. कद्रुरिव ।
उज्जयिनीवर्णना-१ ] चन्द्रकला-विद्योतिनीसहिता । १६३
यस्यामुत्तुङ्ग-सौधोत्सङ्ग-सङ्गीतसङ्गीनीनामङ्गनानामतिमधुरेण गीतरवेणाकृष्यमाणा-धोमुख-रथतुरङ्गः पुरः पर्य्यस्त-रथपताकापटः कृतमहाकाल-प्रणाम इव प्रतिदिनं लक्ष्यते गच्छन् दिवसकरः।
यस्याञ्च सन्ध्यारागारुणा इव सिन्दूरमणिकुट्टिमेषु, प्रारब्ध-नील-कमलिनीपरिमण्डला इव मरकत-वेदिकासु गगनतल-प्रसृता इव वैदूर्य्यमणिभूमिपु, तिमिर-पटल-विघटनोद्यता इव कृष्णागुरु-धूम-मण्डलेषु अभिभूततारकापङ्क्तय इव मुक्ता-प्रालम्बेषु, विकच-कमल-चुम्बित इव नितम्बिनीमुखेषु, प्रभात-चन्द्रिकामध्यपतिता इव स्फटिकभित्ति-प्रभासु-
यस्यामिति । उत्तुङ्गानाम् अत्युच्चतानां सौधानां राजभवनानाम् उत्सङ्गे क्रोडे ऊर्ध्वभाग इत्यर्थः सङ्गीतं 'गीतं वाद्यं च नृत्यं च त्रयं संगीतमुच्यते' इत्युक्तलक्षणं तत्सङ्गिनीनां तत्प्रासक्तानाम्, अङ्गनानां नारीणाम्, अतिमधुरेण अतिमिष्टेन गीतरवेण गानस्वरेण आकृष्यमाणा अत एव अधोमुखा अवाङ्मुखा रथतुरङ्गाः स्यन्दननियुक्ता घोटका यस्य स तादृशः, अतएव पुरोऽग्रे पर्यस्तः क्षिप्तः स्यन्दनवेगाभावात्पुरतः स्रस्त इत्यर्थः, रथपताकापटः स्यन्दनवैजयन्तीवस्त्रं यस्य स तादृशः, एतेन हि गलल्लग्नीकृतदमना इवेति ध्वन्यते । कृतो विहितो महाकालाय तत्रत्यैतन्नामकमहेश्वराय प्रणामो नमस्कारो येन स तादृश इव प्रतिदिनं प्रत्यहं गच्छन् उदयाचलादस्ताचलं व्रजन् दिवसकरो दिनाधिपो लक्ष्यते जनैः दृश्यते। इह 'उत्तुङ्गसौधोत्सङ्गे'त्यादौ वृत्यनुप्रासोऽलङ्कारः, 'कृतमहाकालप्रणाम इव' इत्यत्र क्रियोत्प्रेक्षालङ्कारः।
यस्यामिति । यस्याम् उज्जयिन्यां रविगभस्तयः सिन्दूरमणिकुट्टिमेषु (निपतिताः सन्तः) सन्ध्यारागारुणा इव विराजन्त इत्येवमग्रेऽप्युत्तरेण सम्बन्धो ज्ञेयः। सिन्दूरमणयः प्रवालरत्नविशेषास्तेषां कुट्टिमेषु बद्धभूमिषु सन्ध्यारागेण सायङ्कालीनलौहित्येन अरुणा लोहितवर्णा इव तेषां लोहितरूपत्वात्। मरकतवेदिकासु अश्मगर्भघटितपीठिकासु (पतिताः सन्तः) प्रारब्धम् आचरितं नीलकमलिनीषु नीलरूपनलिनीषु परिमण्डलं मण्डलरूपेणावलुण्ठनं यैस्ते इव, मरकतवेदिकानां श्यामरूपत्वात्। वैदूर्य्यमणिभूमिषु वालवायजमणिवद्धस्थलीषु (पतिताः सन्तः) गगनतलप्रसृता इव अम्बरतले विस्तृता इव, वैदूर्यमणिवद्धस्थलानामतिनिर्मलत्वात् । कृष्णागुरुधूममण्डलेषु देवार्थनादौ दह्यमानकाकतुरुण्डत उत्थितदहनकेतनसमूहेषु (पतिताः सन्तः), तिमिरपटलस्य अन्धकारपुञ्जस्य विघटने दूरीकरणे उद्यता इव कृतप्रयत्ना इव तद्धूमपुञ्जानां तिमिरसदृशश्यामरूपत्वात् । मुक्ताप्रालम्बेषु लम्बमानमुक्तासमूहेषु (पतिताः सन्तः) अभिभूता अवमानिता तारकापङ्क्तिः नक्षत्रवलिर्यैस्ते इव, लम्बमानमुक्ताकलापानां नक्षत्रवलिसदृशत्वात् । नितम्बिनीमुखेषु सुन्दरीगामाननेषु (पतिताः सन्तः) विकचानि विकसितानि पङ्कजानि कमलानि चुम्बन्ति स्पृशन्तीति ते इव, सुन्दरीवदनानां विकसितपद्मसदृशत्वात् । स्फटिकभित्तिप्रभासु स्फटिकरचितकुड्यकान्तिषु (पतिताः सन्तः) प्रभातचन्द्रिकामध्यपतिता इव प्रत्यूषचन्द्रगोचक्रान्तःपातिन इव, तत्कान्तीनां प्रत्यूषज्योत्स्नातुल्यत्वात् । सितपताकांशुकेषु श्वेतवैजयन्तीवस्त्रेषु
जिस उज्जयिनीमें ऊँचे-ऊँचे राजमहलोंके शिखरों पर गान करती स्त्रियोंके अत्यन्त मधुर गीत स्वरसे आकृष्ट हुए सूर्यके रथके अश्वगण अधोमुख होकर चलते हैं, वहाँ रथकी ध्वजा सामने फहरानेसे प्रतिदिन ऐसा प्रतीत होता है मानो सूर्य जाते-जाते महाकालेश्वरको प्रणाम करता हो ।
और जिस उज्जयिनीमें सूर्यके किरणसमूह सिन्दूरमणिकी भूमियों पर गिर कर मानो सन्ध्या रागसे लाल हुई हों, मरकतमणिके चबूतरों पर गिरनेसे मानो नीलकमलिनीका स्पर्श करती हुई हों, वैदूर्यमणिकी भूमि पर गिरनेसे मानो आकाशतलमें फैली हुई हों, काले अगुरुके धूपधुएँमें गिरनेसे मानो अंधकारोंको विनाश करनेमें उद्यत हुई हों, मुक्ताहार पर गिरनेसे मानो तारोंकी कतारको पराजित करती हुई हों, सुन्दरीयोंके मुख पर गिरनेसे मानो विकसित कमलका चुम्बन करती हों, स्फटिकमय भित्तियों (दीवारों) के प्रभासमूहमें गिरनेसे मानो प्रातःकालकी चाँदनीके
१. उत्सङ्गीतसङ्गिनीनाम् , उत्सङ्गसङ्गिनीनाम् । २. कृष्यमाणाधोमुखतुरङ्गः । ३. पुरःपर्यस्तं । ४. प्रतिदिनमध्यास्यते भगवान् ०० । ५. प्रारब्धकमलिनी०००, परिमन्दना, परिमिलिता, परिमल, परिमीलन । ६. गगनपर्य्यन्ता । ७. धूप । ८. मुक्ताकल००० । ९. स्फटिकमणि००० ।
१६४ कादम्बरी- [ कथामुखे-
गगनसिन्धुतरङ्गावलम्बिन इव सितपताकांशुकेषु, पल्लविता इव सूर्य्यकान्तोपलेषु, राहु-मुखकुहर-प्रविष्टा इवेन्द्रनील-वातायन-विवरेषु विराजन्ते रवि-गभस्तयः । यस्याञ्चानुपजात-तिमिरत्वादविघटित-चक्रवाकमिथुना व्यर्थीकृते-सुरतप्रदीपाः सञ्जातमदनानलग्र्दिग्दाहा इव यान्ति कामिनीनां भूषण-प्रभाभिर्वालातपपिञ्जरो इव रजन्यः । याञ्च सन्निहित-विषमलोचनामनवरतनतिमधुरो रतिप्रलाप इव प्रत्ततं मुखरीकरोति मकरकेतु दाह-हेतुभूतो भवन-कलहंस-कोलाहलः ।
(पतिताः सन्तः) गगनसिन्धुनरङ्गावलम्बिन इव व्योमगङ्गावीच्याश्रिता इव, श्वेतवैजयन्त्यंशुकागां तरङ्गवद् समीरणान्दोलितत्वात् । सूर्य्यकान्तोपलेषु सूर्य्यकान्तमणिषु (पतिताः सन्तः) पल्लविताः समुत्पन्नकिसलया विपुला इवेत्यर्थः, रविकिरणस्पर्शे सूर्य्यकान्तोपलेभ्योऽपि तेजोनिःसरणात् । तथा इन्द्रनीलवातायनविवरेषु नीलकन्तरश्चितगवाक्षरन्ध्रेषु (पतिताः सन्तः) राहोः सैंहिकेयस्य मुखकुहरे मुखविवरे प्रविष्टास्तदन्तर्गता इव, तेषामपि राहुवदनविवरवन् सावकाशत्वाद् श्यामरूपत्वाच्च । रविगभस्तयः सूर्य्यकिरणाः विराजन्ते विद्योतन्ते । इह 'सन्ध्यारागरागा इव' इत्यत्र गुणोत्प्रेक्षा, अन्यत्र सर्वत्र क्रियोत्प्रेक्षेति सुधीभिराकलनीयम् ।
यस्याञ्चेति । च पुनः यस्याम् उज्जयिन्यां कामिनीनां रमणीनां भूषणप्रभाभिः आभूषणरश्मिभिः अनुपजाततिमिरत्वाद् अनुत्पन्नतिमिरत्वात्कारणाद् अविघटितानि विश्लेषणप्राप्तानि चक्रवाकानां कोकानां मिथुनानि द्वन्द्वानि यासिस्ताः तादृशाः । एवञ्च कोकयुग्नोर्हि दिवले संयोगः रात्रौ च विश्लेपः, तत्समये तु रमणीनां भूषणरश्मिभिरन्धकाराभावाद्दिनमेवायमिति भ्रमेण ते मिलिता एव तिष्ठन्तीत्याशयः । व्यर्थीकृता निष्फलीकृताः सुरतप्रदीपाः सम्भोगप्रदीपा याभिः ताः तथोक्ताः, तदलङ्काररश्मिसिरेव तिमिरापसरणादित्याशयः । रजन्यो रात्रयः । बालातपेन नूतनसूर्यालोकेन पिञ्जराः पीतवर्गा इव, तथा सञ्जातः समुत्पन्नो मदनानलेन कामवह्निना दिग्दाहो यासु ता इव च सत्यो यान्ति अतिक्रामन्ति ।
इह कोकदन्द्वानां विघटनसम्बन्धसत्येऽपि तदसम्बन्धप्रतिपादनादेकातिशयोक्तिः, अन्या च सुरतप्रदीपानां निष्फलीकरणसम्बन्धाभावेऽपि तत्सम्बन्धप्रतिपादनादतिशयोक्तिः, वाच्यत्वासावाद्भ्रान्तिमानलङ्कारध्वनिश्च, एवं 'सञ्जातदिग्दाहा इव' इत्यत्र क्रियोत्प्रेक्षा, 'वालातपपिञ्जरा इव' इत्यत्र च गुणोत्प्रेक्षा, इत्येतेषामलङ्काराणामेकस्मिन् वाक्ये नैरपेक्ष्येगावस्थानात्संसृष्टिरलङ्कारः ।
याञ्चेति । मकरकेतोः कन्दर्पस्य दाह एव महेश्वरतृतीयनेत्राग्निना भस्मीकरणमेव कारणभूतो यस्य स तादृशः, रतेः कन्दर्पपल्याः प्रलाप आर्तनाद इव, नकरकेतुना यो दाहो मनोभवद्वारा मानवानां सन्तापः तस्य कारणभूतः कादम्बशब्दस्योद्दीपकत्वादित्याशयः, अतिमधुरः अत्यन्तमिट्टो भवनकलहंसकोलाहलः गृहकादम्बकलकलः, अनवरतं निरन्तरं प्रसर्पन् प्रसरन् सन्, सन्निहितो महाकालरूपेण समीपस्थः विषमलोचनो विरूपाक्षो महेशो यस्य तां तादृशाम्, नदनदाहसन्नवताप्राकटनायेदमित्यवधेयम्; याञ्च उज्जयिनीं मुखरीकरोति शब्दायमानां करोति । इह 'रतिप्रलाप इव' इत्युपमा ।
दीचने पट्टी हों, श्वेतवर्ण पताकाके ऊपर गिरनेसे मानो आकाशगङ्गाकी तरङ्गका स्पर्श करती हों, सूर्यकान्तमणिके ऊपर गिरनेसे मानो पल्लवित हुई हों, और इन्द्रनीलमणिमयी गवाक्षरन्ध्र (जालियों) के अन्तरालमें ऐसी शोभामान प्रतीत होती हैं मानो राहुके मुखविवरमें प्रवेश की हों ।
और जिस उज्जयिनीमें कामिनियोंके आभूषणोंकी कान्तिके कारण रात्रिमें भी अन्धकार न होनेसे दिनका समय मानकर चकवा-चकवीका परस्पर वियोग नहीं होता, सुरतप्रदीप व्यर्थ होते हैं, और कामिनियोंके आभूषणोंकी कान्तिके कारण रात्रियाँ ऐसी प्रतीत होती हैं मानो कामाग्निा दिग्दाह हुआ हो और बाल सूर्यका पिङ्गलप्रकाश फैल गया हो । शङ्करके नयनाग्निसे कामदेवके दग्ध होने पर रतिविलापके समान कामाग्निगो उत्पन्न करने बाल गृहस्थित (पालतू) कलहंसोंका कोलाहल, अनवरत चारों दिशाओंमें विस्तृत होकर, महानालरूपी शङ्करके आवातभूमिनो मुखरित कर रहा है ।
१. तरङ्गसङ्गिनः । २. यस्यान्तु । ३. प्रकटीकृत । ४. पिञ्जरत्वं रजन्यः । ५. प्रतिवासरं प्रसर्पन् । ६. भवनकलहंसकुलकोलाहलः, हसिश्चनकल इत्यादिपाठः ।