कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
३८२ | कादम्बरी- | [ कथामुखम्-
यन्न किञ्चिद्ददर्श, तनेव केवलमनवरतं गीतशब्दं शुश्राव। कुतूहलवशाच्च गीतध्वनि-प्रभवजिज्ञासया कृतगमनबुद्धिर्दत्तपर्याणमिन्द्रायुधमारुह्य प्रियगीतैः प्रथमप्रस्थितैरप्रार्थितैरपि वनहरिणैरुपदिश्यमानवर्त्मा, सप्तच्छद-बकुलेला-लवङ्ग-लवली-लोल-कुसुम-सुरभि-परिमलया अलिकुल-विरुति-मुखरितया तमालनीलया दिङ्नागमदवीथ्येव पश्चिमया सरस्तीरे-वनलेखया निमित्तीकृत्य तं गीतध्वनिमभिप्रतस्थे।
क्रमेण च सन्मुखागतैः, अच्छ-निर्झरजल-कणजाल-जनित-जडिमभिः, जर्जरितभूर्ज-वल्कलैः, धूर्जटि-वृषभ-रोमन्थ-फेन-बिन्दुवाहिभिः, षण्मुख-शिखण्डि-शिखा-चुम्बिभिः,
गोन व्यापृते निश्चेष्टं प्रवृत्ते लोचने नयने यस्य स तथोक्तः सन्नपि विलोकयन् पश्यन् न किञ्चित् किमपि ददर्श सवलोकयामास केवलम् अनवरतं निरन्तरं तमेव शब्दं गीतध्वनिं शुश्राव आकर्णयामास।
कुतूहलेति। कुतूहलवशात् कौतुकवशात्, प्रभवति अस्मादिति प्रभव उत्पत्तिस्थानम्, गीतध्वनिः गेयशब्दः तस्य प्रभवस्य जिज्ञासया ज्ञातुमिच्छया कृतगमनबुद्धिः विहितगमनमतिश्चन्द्रापीडः, दत्तपर्याणम् आरोपितपल्ययनम् इन्द्रायुधम्, आरुह्य आरोहणं कृत्वा, प्रियं मनोहरं गीतं येषां तैस्तादृशौः, प्रथमप्रस्थितैः अग्रे प्रयातैः, अप्रार्थितैरपि मार्गमुपदेष्टुमयाचितैरपि वनहरिणैः वन्यमृगैः उपदिश्यमानं कथ्यमानं वर्त्म मार्गो यस्य स तथोक्तः सन्, सप्तच्छदानां विशालत्वचां बकुलानां केसराणाम् एलानां चन्द्रबालानां लवङ्गानां देवकुसुमानां लवलीनां तत्संज्ञकवल्लीविशेषाणाञ्च लोलः पवनेन चलितः कुसुमानां पुष्पाणां सुरभिरपरिमलो भ्रागतर्पणगन्धो यस्यां तया, अन्यत्र तु तत्कुसुमानामिव सुरभिपरिमलो यस्यास्तया तादृश्या अलिकुलस्य भ्रमरसमूहस्य विरुत्या रवेण मुखरितया शब्दिताया, तमालैस्तापिच्छतसंभैर्नीला श्यामवर्णा च तया दिङ्नागस्य दिग्गजस्य मदवीथ्या दानवारिपंक्त्या तत्मवाहेणेव विद्यमानया, पश्चिमा प्रतीच्या वनलेखया काननपंक्त्या करणेन, तं गीतध्वनिं निमित्तीकृत्य उद्दिश्य अभिप्रतस्थे तदभिमुखं ययौ । 'पृथ्वौका चन्द्रवालैला निष्कुटिर्बहुला' इत्यमरः। पूर्णोपमा।
क्रमेणेति। किञ्चेति चार्थः। क्रमेण परिपाट्या संमुखागतैः अभिमुखायातैः कैलासमारुतैरभिनन्द्यमानश्चन्द्रापीडस्तं प्रदेशं गत्वा पादपैः परिवृतं वृत्तैः परिवेष्टितं शूलपाणेर्महेश्वरस्य शून्यं सिद्धायतनं सिद्धपीठम् अपश्यदित्यतिदूरेण सम्बन्धः। तत्रादितस्तृतीयाबहुवचनान्तपदानि 'कैलासमारुतैः' इत्यस्य विशेषणानि। अच्छानां विशदानां निर्झरपलानां प्रस्रवणसलिलानां कणजालेन बिन्दुनिकरेण जनित उत्पादितः जडिमा शीतलत्वं येषां तैः तादृशौः। जर्जरितानि शिथिलीकृतानि भूर्जानां मुरुड्वचां वृक्षाणां वल्कलानि वल्कानि यैस्तैस्तादृशैः। धूर्जटिवृषभस्य महेशबलीवर्दस्य रोमन्थे चर्वितचर्वणकाले ये फेनाः डिण्डीरास्तेषां बिन्दुवाहिभिः कणवहनशीलैः। षण्मुखस्य षडाननस्य कार्त्तिकेयस्येत्यर्थः, यः शिखण्डी वाहनीभूतमयूरः तस्य शिखाचुम्बिभिः चूडास्पर्शकारिभिः। अम्बिकायाः पार्वत्याः कर्णपूरयोः कर्णावतंसभूतयोः पल्लवयोः किसलययोः उल्लासनेन सञ्चालनेन दुर्ललिताः हठविधायिनः तैस्तादृशैः। उत्तरकुरुसंज्ञको हिमालयोत्तर-
दिया। केवल अविश्रान्त वह गीतध्वनि ही सुनाई पड़ता था। इसके बाद कौतूहलवश गीतध्वनिका उत्पत्तिस्थान जाननेकी अभिलाषा कर, जानेका कृतसङ्कल्प होकर इन्द्रायुध पर पल्ययन (जीन) रख और स्वयं उसके ऊपर चढ़कर गीत पर प्रीतिके कारण आगे-आगे दौड़ते वन-हरिणोंके बिना पूछे बताये हुए-मार्ग पर वह, गीतध्वनि को लक्ष्य कर उस सरोवरके पश्चिम तीरकी वनपङ्क्तिसे होकर आगे बढ़ा। उस वनके भीतर सप्तपर्ण, बकुल, इलायची, लवङ्ग और लवली पुष्पके मनोहर सौरभ वायुके मन्दसे परिचालित होता था, भ्रमरोंके झङ्कारसे वह वन मुखरित हो गया था एवं तमाल वृक्षोंसे काली पड़नेके कारण दिग्गजोंके मदजल प्रवाहके समान नील वर्ण था।
क्रमसे सामने आती आनन्दजनक और पवित्र कैलास पर्वतके पवनोंने सन्तुष्ट होकर चन्द्रापीड़ उस प्रदेशके समीप जा पहुँचा। कैलास पर्वतकी हवा निर्मल जलकी बूँदोंसे शीतल थी, भोजपत्रकी छालको उसने जर्जरित कर दिया था, शङ्करके वृषभके चर्वित चर्वण (जुगाली) के समयमें उत्पन्न हुए फेन-बिन्दुको लाती थी,
१. क्वचित् 'गीत' पदं न विद्यते ।
२. ...'प्रभवाच्च ।
३. ...'ध्वनित ।
४. क्वचिद सप्तच्छदपदं नोपलभ्यते ।
५. क्वचिद 'सरस्तीरे' इति पदं नोपलभ्यते ।
६. अनिर्झरखटं... ।
७. ...'वृष... ।
शिवसिद्धायतनवर्णनम् ५० ] चन्द्रकला-विद्योतिनीसहिता । ३८३
अम्बिका-कर्ण-पूर-पल्लवोल्लासन'-दुर्ललितैः, उत्तर-कुरु-कामिनी-कर्णोत्पल-प्रेङ्खोलन-दोहदिभिः, आकम्पितकक्कोलैः नमेरु-कुसुम-पांशुपातिभिः, पशुपति-जटा बन्धार्त्त-वासुकि-परिपोत-शेषैः, आह्लादिभिः पुण्यैः कैलासमारुतैरभिनन्द्यमानो गत्वा च तं प्रदेशम्, सर्वतो मरकतहरितैः, हारि हारीत-रुचि-रमणीयैः, भ्रमद्भृङ्गराज नखर-जर्जरित-जरठ-कुडमलैः, उन्मद-कोकिल कुल-कवलीकृत-सहकार-कोमलाग्रपल्लवैः, उन्मदषट्चरण-चक्रवाल-वाचालित-विकच-चूत-कालकैः, अचकित-चकोर-चञ्चु-चुम्बित-मरिचाङ्कुरैः, चम्पक-पराग-पुञ्ज पिञ्जर-कपिञ्जल-जग्ध-पिप्पली-
वर्त्ती देशविशेषः यस्य कामिनीनां वनितानां यानि कर्णोत्पलानि श्रवणकुवलयानि तेषां प्रेङ्खोलने आन्दोलने दोहद्भिः अभिलाषकारिभिः । आकम्पितानि बाघूनितानि कक्कोलानि कोशफलानि यैस्तैः तादृशैः । नमेरुकुसुमानां रुद्राक्षपुष्पाणां पांशवः परागास्तान् पातयन्तीति तैः तादृशैः । पशुपतेर्महेशस्य जटाबन्धेन जटानियन्त्रणेन आर्त्तः पीडितो यो वासुकिर्नागराजस्तेन परिपीतेभ्यः भुजङ्गानां पवनभोजिस्वात् भुक्तेभ्यः शेषैः अवशिष्टैः । आह्लादिभिः प्रमोदकारिभिः । तथा पुण्यैः देवस्पर्शित्वात् पूतैः कैलासमारुतैः कैलासाचलस्पशिंपवनैः अभिनन्द्यमानः सेव्यमानश्चन्द्रापीडः तं प्रदेशं गीतोत्पत्तिभूमिम् गत्वा प्राप्य ।
सर्वत इति । सर्वतश्चतुर्दिक्षु मरकतवत् तन्नामकरत्नवत् हरितैः श्यामवर्णैः । इतः प्रभृति तृतीया-बहुवचनान्तपदानि अग्रेतनस्य 'पादपैः' रित्यस्य विशेषणानि । इह लुप्तोपमा ।
हारीति । हारिणो मनोहरा हारि मनोहरम् इतं गमनं येषां ते हारीता 'हरियाल' इति ख्यातनामानः पक्षिविशेषाः तेषां रुचिभिः कलरवैः रमणीयाश्चेतोहरास्तैः ।
भ्रमदिति । भ्रमतां पर्यटतां भृङ्गराजानां पक्षिविशेषाणां नखरैर्नखैः जर्जरितानि क्षतानि जरठानि परिणतानि कुड्मलानि कोरकाणि यषा तैस्तादृशैः । 'अथ भृङ्गराज उक्तः पक्षिविशेषे च मार्कवे भ्रमरे' इति मेदिनी ।
उन्मदेति । उन्मदेन तन्मत्तेन कोकिलकुलेन पिकसमूहेन कवलीकृतानि ग्रासीकृतानि (भक्षितानि) सहकाराणाम् आम्रवृक्षाणां कोमलानि मृदुलानि अग्रपल्लवानि प्रान्तकिसलयानि येषु तैः तादृशैः ।
उन्मदेति । उन्मदेन मदमत्तेन षट्चरणचक्रवालेन मधुकरसमूहेन वाचालिता मुखरीकृताः विकचा विकसिताः चूतककिकाः सहकारकोरका येषु तैः तादृशैः ।
अचकितेति । अचकिता अत्रस्ता ये चकोरा जीवञ्जीवाः पक्षिणः तैः कर्तृभिः, चञ्चुभिस्त्रोटिभिः करणैः चुम्बिता भक्षणाय स्पृष्टा मरिचाङ्कुराः श्वेतशोभाञ्जनप्ररोहा येषु तैः तादृशैः ।
चम्पकेति । चम्पकानां हेमपुष्पाणां परागपुञ्जेन पुष्परजःसमूहेन अङ्गेषु तत्पतनेनेत्यर्थः, पिञ्जराः पिङ्गलवर्णाः ये कपिञ्जलास्तित्तिरिपक्षिणस्तैर्जग्धानि खादितानि पिप्पलफलानि अश्वत्थफलानि येषु तैः तादृशैः । 'पिप्पलो बोधिरश्वत्थः' इति रत्नकोषः ।
कार्त्तिकेयके मयूरकी शिखा का चुम्बन करती थी, पार्वतीके कर्ण-पल्लव को आन्दोलित करनेसे साहसिनी हुई थी, उत्तर कुरुदेशों की सुन्दरियोंके धारण किये हुए कर्ण-कमलको आन्दोलित करने की अभिलाषिणी थी, कोशफल वृक्षों को हिलाती थी, रुद्राक्षपुष्पोंमें से धूलियों को गिराती थी, ओर शङ्कर की जटामें बँधनेसे व्यथित अनन्तनागके पीनेसे बची हुई थी। वहाँ उस सरोवरके पश्चिमके तटपर, चन्द्रापीडने चन्द्रिकाके समान श्वेत प्रभासे समस्त प्रदेशको धवलित करती 'चन्द्रप्रभा' नामके कैलासपर्वतके एक भागके अधोदेशमें बना हुआ भगवान् शङ्कर का एक शून्य (जनरहित) सिद्ध-मन्दिर देखा। उसके चारों तरफ मरकतमणि के समान हरे वृक्ष लगे थे। वे मनोहर हारीत पक्षियों की गुञ्जारसे रमणीय लगते थे। उनकी पकी कलियां उड़ते भृङ्गराज पक्षी के नखोंसे जर्जरित हो गई थीं। वहां आमोंके कोमल अग्रपल्लवों को उन्मत्त कोकिल गण खा जाते थे और खिली हुई आमकी कलियों पर मदमत्त भमरोंके झुण्ड गुञ्जार करते थे। निर्भय चित्तसे चकोर पक्षिगण चञ्चुद्वारा मरिच (मिर्च) के अङ्कुर भक्षण करते थे। चम्पक-पुष्पोंके परागोंसे पीले पड़े कपिञ्जल-(चातकोंकी रूपक्षिगण) पीपलके
१. 'उल्लसन । २. आकम्पितकमलैर्नमेरुकुसुममालापांशुवाहिभिः, आकम्पितकक्कोलैः । ३. बन्धन-वासुकि** । ४. नखजर्जरितजरठकुट्मलैः । ५. सहकारकोरकैः । ६. चकोरचुम्बित ।
३८४ कादम्बरी— [ कथायाम्—
फलैः, फल-भर-निकर-निपीडित१-दाडिम२-नीड-प्रसूत-कलविङ्कैः३, प्रक्रीडित-कपिकुल४-करतल-ताडन-तरलित-ताडी५पुटैः, अन्योन्य-कलह६कुपित-कपोत-पोत-पक्ष-पाली-पातित-कुसुमैः, कुसुम-रजोराशिशार-सारिकाश्रित-शिखरैः, शुक-शत-मुख-नख-शिखर-शकलित-फलस्फीतैः, जलधर-जल लुब्ध विप्रलब्ध-मुग्ध-चातक-ध्वान-मुखरित-तमालषण्डैः, इभ-कलभकोल्लून पल्लववेल्लित-लवली वलयैः, आलीयमाननव-यौवन-मद-मत्त१०-पारावत-पक्ष-क्षेप-पर्यस्त-कुसुमस्तवकैः११, तनुपवन-कंपित-कोमल-कदली-दल-वीजितैः, अविरल-कल-निकरावनत-नारिकेरवनैः,
फलेति। फलानां भरनिकरेण भारसमूहेन निपीडितानां पीडां प्रापितानां दाडिमानां करकवृक्षाणां नीडेषु तद्वृक्षस्थकुलायेषु प्रसूताः चटकाभिरूत्पादिताः कलविङ्काश्चटका येषु तैः तादृशैः। 'चटकः कलविङ्कः स्यात्' इत्यमरः।
प्रक्रीडितेति। प्रक्रीडितं खेलया प्रवृत्तं यत् कपिकुलं वानरसमूहः तस्य करतलताडनैः पाणितलाघातैः तरलितानि कम्पितानि ताडीपुटानि तालीदलानि येषु तैः तादृशैः।
अन्योन्येति। अन्योन्यं मिथः कलहकुपिताः कलहक्रुद्धा ये कपोतपोताः पारावतशिशवः तेषां पक्षपालीभिः पतत्त्रपङ्क्तिभिः पतितानि संसितानि कुसुमानि पुष्पाणि येषां तैः तादृशैः।
कुसुमेति। कुसुमानां पुष्पाणां रजोराशिना परागसमूहेन शारारिभिः कर्बुरिताभिः रञ्जिताभिरित्यर्थः, सारिकाभिः शुकयोषाद्भिः आश्रितानि अवलम्बितानि शिखराणि ऊर्ध्वप्रदेशा येषां तैः तादृशैः।
शुकेति। शुकशतस्य कीरपक्षिगणस्य मुखैराननैः नखशिखरैः पुनर्भवग्रैश्च शकलितानि खण्डीकृतानि यानि फलानि दाडिमादीनि तैः स्फीताः पूर्णाः तैः तादृशैः।
जलधरेति। जलधरजलानि मेघसलिलानि तेषु लुब्धा इच्छुकाः नीलत्वसादृश्यात् तमालतरुष्वेव तापिञ्छवृक्षेष्वेव जलधराभ्रान्त्यो पूर्वं तदीयजललुब्धा इत्यर्थः, पश्चाच्च विप्रलब्धा जलप्राप्त्यभावेन प्रतारिता ये मुग्धचातकाः तेषां ध्वानैन कलरवेण मुखरितं वाचालितं तमालषण्डं तापिच्छवृक्षसमूहो येषु तैः।
इभेति। इभकलभका हस्तिन्रिशद्वर्षीयशिशवः तैः उल्लूनानि खण्डितानि पल्लवानि किसलयानि यस्य तत्तादृशम्, अत एव वेल्लितं कम्पितं लवलीवलयं लवलीवृक्षमण्डलं येषु तैः तादृशैः।
आलीयेति। आलीयमाना तूष्णीम्भावेन विद्यमाना नवयौवनमदमत्ताः प्रत्यग्रतारुण्यमदोन्मत्ता ये पारावताः कपोताः तेषां पक्षक्षेपैः गरुत्क्षेपैः पर्यस्ता विक्षिप्ताः कुसुमस्तवकाः पुष्पगुच्छा येषु तैः।
तन्विति। तनुपवनेन मन्दवायुना कम्पितैः वेल्लितैः कोमलैर्मृदुलैः कदलीदलैः रम्भापत्रैः वीजिताः कृतव्यजनाः तैः तादृशैः।
अविरलेति। अविरलं सान्द्रं फलनिकरेण फलसमूहेन अवनतानाम् अवनम्रीभूतानां नारिकेराणां नारिकेलवृक्षाणां वनमरण्यं येषु तः।
फल खाते थे। फलके भारसे अवनत (झुके) घने अनारोंके वृक्षोंके घोसलोंमें चटका पक्षीगण चटक-शावक प्रसव की थीं। खेलते-कूदते बन्दरोंके कर-प्रहारसे ताल-पत्र हिलने लगते थे। परस्पर कलह होनेसे कुपित हुए कबूतरके बच्चोंके पंखोंसे ताडित होकर उनके फूल झर जाते थे। पुष्पके परागोंसे रञ्जित होकर शुक-स्त्रियाँ (मैना) उनकी चोटी पर बैठी थीं। सैकड़ों शुकपक्षिगण (तोते) अपने मुख और नखसे उनके फलोंको टुकड़े टुकड़े कर डालते थे (जिससे वह वन परिपूर्ण हो गया था)। तमाल वृक्षों को मेघ-जल समझकर लोभसे आये हुए-किन्तु पीछे धोखा खाये हुए-मुग्ध चातकपक्षिगण उच्चैः स्वरसे तमाल-बनको मुखरित करते थे। हाथीके बच्चोंके द्वारा (खानेके समय) पत्ते तोड़े जानेसे लवलीके वृक्ष कम्पित हो जाते थे। नव-यौवनसे मत्त हुए कबूतरके फरफरा कर, चुपचाप बैठने से फूलोंके गुच्छे गिर जाते थे। छोटी छोटी हवासे सञ्चालित कोमल केलेके पत्ते पंखेका काम कर रहे थे। फलोंके अधिक भारसे नारियलके वन-अवनत हो गये थे। उनके आस-पास कोमल पत्तेवाले सुपारीके वृक्ष
१. ॰॰॰पीडित॰॰॰ ।
२. ॰॰॰विह्रदाटिमी॰॰॰ ।
३. ॰॰ चपलकपिकुल॰॰॰ !
४. नाडिपुटैः।
५. क्वचित् 'कलह' इति पदं नास्ति।
६. ॰॰॰पोतसंहितिलोलपक्ष॰॰॰ ।
७. ॰॰॰सारिकामिश्रशिखरैः।
८. ॰॰॰जलवलुब्ध॰॰॰।
९. कृतालीकमान॰॰॰ ।
१०. ॰॰॰यौवनमत्त॰॰॰ ।
११. ॰॰॰पर्दस्तस्तवकैः।
[शिवसिद्धायतनवर्णना ५० ] चन्द्रकला-विद्योतिनीसहिता । १८५
अकठोर-पत्र पुट-पूगं-विटपि-परिवृतैः, अनिवारितविहङ्ग-तुण्ड खण्डितखर्जूर-जालकैः, मदमुखर-मधुर रव विरावित्तान्तरैः अकल्लित-कलिका-कलाप-दन्तुरैः, अन्तरन्तरा कैलास-तरङ्गिणीतरङ्गित-सिकतिल-तल भूमिभागैः, वनदेवता-करतल-निवह-निभमलक्तक-जल-लव-सिक्तमिव किसलयनिकरमतिसुकुमारमुद्वहद्भिः, ग्रन्थिपर्ण-ग्रास-मुदितं-चमरीकुल-निषेवित-मूलैः, कर्पूरागुरुप्रायैः, इन्द्रायुधैरिव घनावस्थानैः, कुमुदैरिवार्दत्त-दिनकर-कर-प्रवेशैः शिशिराभ्यन्तरैः,
अकठोरेति । अकठोराणि मृदुलानि पत्रपुटानि पर्णपुटानि येषां तयोक्तैः पूगविटपिभिः क्रमुकवृक्षैः परिवृताः च परिवेष्टिताः तैः ।
अनिवारितेति । अनिवारितैः केनाऽप्यप्रतिरुद्धैः विहङ्गैः आकाशगामिभिः पक्षिभिः कर्तृभिः, तुण्डैः अग्रभिः करणैः खण्डितं खण्डखण्डीकृत्य भक्षितं पिण्डखर्जूराणां पिण्डीभूतखर्जूरफलानां जालकं समूहो येषु तैः ।
मदेति । मदेन मत्ततया मुखराणां शब्दायमानानां मयूराणां नीलकण्ठानां मधुररवैर्मनोहरकलरवैः विरावित्तानि समुत्पन्नशब्दानि अन्तराणि मध्यदेशा येषां तैः ।
अकलितेति । अकलिता अविकसिता याः कलिकाः कुङ्मलाः तासां कलापेन समूहेन दन्तुरा उच्चोन्नताः तैः ।
इह 'चञ्चित्तचकोरचञ्चु' इत्यादारभ्य 'अकल्लितकलिकाकलापदन्तुरैः' इत्यन्तं वृत्त्यनुप्रासोऽलङ्कारः। केवलं 'जलघरजले' त्यादौ भ्रान्तिमानलङ्कारोऽप्यभिव्यज्यते इत्यधिकम् ।
अन्तरेति । अन्तरान्तरा मध्ये मध्ये कैलासतरङ्गिणीनां कैलासादिस्यनदीनां तरङ्गिताः समुत्पन्नतरङ्गा अतएव सिकतिला बालुकायताः तलभूमिभागा अधःप्रदेशा येषां तैः । इह छेकानुप्रासः । सिकता इत्यत्र तद्धितलच् प्रत्ययः ।
वनदेवतेति । वनदेवतानाम् अरण्याधिष्ठात्रीणां करतलनिवहनिभंरक्तत्वसादृश्यात् पाणितलसमूहसदृशम् अत एवालक्तकजलानां यावकसलिलानां लवैर्विन्दुभिः सिक्तम् इव सेचितमिव विद्यमानम् , अतिसुकुमारम् अत्यन्तसुकुमारे अत्यन्तमृदुलं किसलयनिकरं किसलयपुञ्जम् , उद्वहद्भिर्धारगं कुर्वद्भिः ।
इह साध्योपमा क्रियोत्प्रेक्षा च, अनयोश्च द्वयोरङ्गाङ्गिभावेन सङ्करः ।
ग्रन्थीति । ग्रन्थिपर्णानां शुकनामकतरुविशेषाणां ग्रासेन अशनेन मुदितं हर्षितं यच्चमरीकुलं हरिणविशेषसमूहस्तेन निषेवितानि साश्रितानि मूलानि बुघ्नानि येषां तैः । 'ग्रन्थिपर्णं शुकं बर्हम्' इत्यमरः ।
कर्पूरेति । कर्पूरा अन्तर्निर्मितघनसारवृक्षाः, अगुरवो राजार्हा वृक्षाश्च प्रायेण बाहुल्येन येषु तैः । 'अगुर्र्गुरु राजार्हम्' इति हैमः ।
इन्द्रेति । इन्द्रायुधैः इन्द्रधनुर्भिरिव, घनं सान्द्रम् अवस्थानं स्थितिर्येषां तैः, अन्यत्र तु घनेषु मेघेषु अवस्थानं येषां तैः ।
कुमुदैरिति । कुमुदैः कैरवैरिव, अदत्तेन दिनकरकरप्रवेशेन सूर्यरश्मिपातेन कारणेन शिशिरं शीतलम् अभ्यन्तरं मध्यभागो येषां तैः, पादपपक्षे—घनावस्थानेन पर्णकिसलयैरूर्ध्वप्रदेशावरणाद्, कुमुदपक्षे तु—सङ्कोचेन प्रवेशासम्भवादित्याशयः ।
लगे थे। कोई निवारण नहीं करता था। इसलिए पक्षीगण चोंचोंसे पिण्डखजूर-समूहको कुतर डालते थे। उनके मध्य भागमें से मदसे शब्द करते मयूरी गणके मधुर स्वर निकलते थे। अविकसित कलिकासमूहसे वे विम्बित थे (अर्थात् उनमें अत्याधुक कलियां लग रहीं थीं) वहा के वालुकामय भूमि पर मध्यमें कैलास-पर्वतस्य नदियों की तरङ्गोंके झकोरे लगते थे। वन-देवताओंके पाणितल समूह (हथेली) के समान अलक्तकके रसकी बूंदोंसे मानो गीली हुई हो ऐसे-अत्यन्त कोमल पल्लवसमूह धारण किये (आ रहे) थे। शुक-नामक वृक्ष विशेष का पर्ण भक्षण कर चमरी हरिणगणके झुण्ड उनकी जड़के आगे प्रसन्न-चित्तसे बैठे थे, और उन वृक्षोंके बीचमें कर्पूर और अगर वृक्ष ही अधिकसंख्यक थे। इन्द्रधनुष जिस प्रकार मेघके ऊपरमें रहता है वे वृक्ष भी उसी प्रकार सघन भावसे स्थित थे; सङ्कुचित होनेसे सूर्यरश्मियोंके प्रवेश नहीं होनेके कारण कैरव-समूहके अभ्यन्तरमें जिस प्रकार शीतलता रहती है, उसी प्रकार पत्तोंके ऊपर भागसे आवृत होनेसे सूर्यरश्मियोंका प्रवेश नहीं होनेके कारण उन
१. ०-०पुट, पूर्ण०-० । २. ०-० विरावित्तान्तरैः चित । ३. आकल्लित०-०दन्तुरितैः । ४. ग्रन्थिपर्णक, ग्राससमुदित०-० । ५. घनावलोत्यानैः । ६. ०-०दिनकरप्रवेश०-० ।
३८६ | कादम्बरी— | [ कथायाम्-
दाशरथिबलैरिवाञ्जन-नील-नल१-परिगतप्रान्तैः, प्रासादैरिव सपारावतैः, भवनतापसैरिव सन्नि- हितवेत्रासनैः, रुद्रैरिव नागलताबद्धपरिकरैः, उदधि-कूल-पुलिनैरिव निरन्तरोद्भिन्न-प्रबाल- लतांकुर-जालकैः, अभिषेकसलिलैरिव सर्वौषधिकुसुम-फल-किसलय-सनाथैः, आलेख्यगृहैरिव
दाशेति। दाशरथेः रामचन्द्रस्य बलानि सैन्यानि तैरिव, अञ्जनवत् कज्जलवत् नीलाः कृष्णवर्णा ये नलाः तत्संज्ञकतृणविशेषाः तैः परिगताः परिवेष्टिताः प्रान्ताः अवशिष्टप्रदेशा येषां तैः, अन्यत्र तु—अञ्जनः अञ्जनात्मजो हनूमान् नीलो नलश्च वानरविशेषौ तैः परिगतः परिगृहीतः प्रान्तः अग्रप्रदेशो येषां तैः।
प्रासादैरिति। प्रासादैः अट्टालिकाभिरिव, पारावतैः कपिभिः कपोतैश्च सह स्थिताः तैः। ‘पारावतः कलरवे शैले मर्कटतिन्दुके’ इति विश्वः।
भवनेति। भवनतापसैरिव गृहस्थतपस्विभिरिव, सन्निहिताः समीपवर्त्तिनः वेत्राणि वेतसलता असनाः प्रियसालकटुमाश्च येषां तैः, अन्यत्र तु सन्निहितानि समीपवर्त्तीनि वेत्रासनानि वेतसरचितविष्ट-राणि येषां तैः।
रुद्रैरिति। रुद्रैः एकादशरुद्रैरिव, नागलताभिः ताम्बूलीभिः बद्धः पूर्णः परिकरो मध्यदेशो येषां तैः अन्यत्र तु नागलताभिर्वल्लीवल्लम्बमानैः भुजङ्गैर्बद्धाः परिकराः कटिभागा येषां तैः। 'ताम्बूलवल्ली ताम्बूली नागवल्ल्यपि' इत्यमरः।
उदधीति। उदधिकूलपुलिनैरिव समुद्रतटजलोझितप्रदेशैरिव, निरन्तरं घनम् उद्भिन्नं प्रकाशितं प्रवालानां किसलयानां वल्लीप्ररोहाणाञ्च जालकं समूहो येषु तैः, अन्यत्र तु निरन्तरं सततम् उद्भिन्नं तरङ्गाघातेन उत्थितं प्रवाललतानां विद्रुममणिपङ्क्तीनाम् अङ्कुरजालकं क्षुद्रक्षुद्रखण्डसमूहो येषु तैः ‘प्रवालोऽस्त्री किसलये वीणादण्डे च विद्रुमे’ इति विश्वमेदिन्यौ।
अभिषेकेति। अभिषेकसलिलैर्देवादिस्नानीयजलैरिव, सर्वौषधीनां सर्वविषफलपाकान्तव्रततीनां कुसुमैः पुष्पैः फलैः किसलयैः सनाथा युक्तास्तैः, अन्यत्र तु—
'मुरा मांसी वचा कुष्ठं शैलेयं रजनीद्वयम्। शटी चम्पकमुस्तञ्च सर्वौषधिगणः स्मृतः॥
इति परिगणितद्रव्यसमूहात्मकसर्वौषधिभिः कुसुमैः फलैः किसलयैश्च तत्तच्छाखासूच्चितैः सना-थानि युक्तानि तैः।
आलेख्येति। आलेख्यगृहैश्चित्रभवनैरिव, बहुवर्णैः शुक्लनीलादिभिः चित्राणि आश्चर्याणि पत्राणि पक्षा येषां तयोक्तानां शकुनीनां पक्षिणां शतेन समुदायेन शोभिताः भूषितास्तैः, अन्यत्र तु—बहुभिर्वर्णै-रनेकवर्णैः चित्रेषु आलेख्येषु यानि पत्राणि वाहनानि हस्त्यश्वादीनि शकुनयः पक्षिणश्च तेषां शतेन समु-दायेन शोभितैर्भूषितैः। 'पत्रं तु वाहने पर्णे पक्षे च शरपक्षिणोः' इति विश्वः।
वृक्षों का अभ्यन्तर भाग शीतल था; रामचन्द्रजीके सैन्यगण का अग्रभाग जिस प्रकार हनुमान, नल और नील द्वारा अधिष्ठित था; उसी प्रकार उन वृक्षोंका प्रान्त भाग भी अञ्जन (कज्जल) के समान नीलवर्ण श्याम तृणसे परिवेष्टित था; अट्टालिकामें जिस प्रकार कपोतगण रहते हैं, उन वृक्षसमूहोंमें भी उसी प्रकार वानरगण थे; गृहस्थ तपस्विगणके समीपमें जिस प्रकार वेत्रासन रहते हैं, उन वृक्षोंके समीपमें भी उसी प्रकार वेतस-बेत, और असन-प्रियसालक वृक्ष थे; रुद्रगणका कटिदेश (कमर) जिस प्रकार लताके समान लम्बमान सर्पद्वारा बद्ध रहता है उन वृक्षोंका मध्यस्थान भी उसी प्रकार ताम्बूललतासे बद्ध (परिपूर्ण) था; समुद्र-तीरके समीपवर्त्ती पुलिनमें जिस प्रकार तरङ्गके आघातसे निरन्तर ही श्रेणीबद्ध भावसे प्रवाल-मर्किे खण्डसमूह आकर निकलते हैं, उन वृक्षोंके मध्यमें भी उसी प्रकार पल्लव और लताके अङ्कुर (नवीन पत्ते और कोपल) सघन भावसे निकलते थे; देवता और राजगणके स्थानीय जल जिस प्रकार सर्वौषधि (मुरा मांसी-प्रभृति), पुष्प, फल और पल्लव-संयुक्त रहता है वे वृक्ष भी उसी प्रकार सर्वौषधिके (फल पक जाने पर जो जो लतायें मुरझा जाती हैं, उन सब लताके) पुष्प, फल और पल्लवसे संयुक्त थे; चित्रशाला जिसप्रकार नानाविध वर्णद्वारा चित्रित हस्ति-अश्वप्रभृति वाहनके एवं पक्षीके चित्र-
.१. नोलनलान्न ।
शिवसिद्धायतनवर्णना ५० ] चन्द्रकला-विद्योतिनीसहिता । [ १८७
बहु-वर्ण-चित्र-शकुनि-शतशोभितैः,¹ कुरुभिरिव भारद्वाजोपसेवितैः,² महासमरमुखैरिव पुन्नाग-समाकृष्ट-शिलीमुखैः, महाकरिभिरिव प्रलम्ब-वाल-पल्लव स्पृष्ट-भूतलैः, अप्रमत्तपार्थिवैरिव पर्य्यन्तावस्थित-बहुगुल्मकैः, दंशितैरिव भ्रमर-सङ्घात-कवचावृतकायैः, प्रमाणामिमुखैरिव वानर-कराङ्गुलि-स्पृष्ट गुञ्जैः, अवनिपालशयनैरिव सिंहपादाङ्किततलैः, आरब्धपञ्चतपः-
कुरुभिरिव । कुरवो दुर्योधनादयस्तैरिव, भारद्वाजेन व्याघ्राटरूपिणा द्रोणाचार्येण च उपसेवितैः अधिष्ठितैः । 'भारद्वाजो गुरोः पुत्रे व्याघ्राटाख्यविहङ्गमे' इति मेदिनी ।
महेति । महासमरो महासंग्रामः तस्य मुखैः प्रारम्भैरिव, पुन्नागैर्नागकेशरकुसुमैः समाकृष्टाः स्वमधुलोभेनानीताः शिलीमुखा मधुप्रा येषु तैः, अन्यत्र पुन्नागैः पुंगजैः समाकृष्टाः समाकृष्य प्रापिताः, शिलीमुखा बाणा येषु तैः । तत्र शराणामप्यधिकत्वादेव पुन्नागैर्नयनम् । अतएव 'महासमरे' त्यभिहितमित्याशयः । 'मुखमुपाये प्रारम्भे श्रेष्ठेनिःसारणास्ययोः' इत्यनेकार्थः । 'नागकेसरपुन्नागनागदन्तक मस्तके' इति । मेदिनी । 'अलिबाणौ शिलीमुखौ' इत्यमरः ।
महेति । महाकरिभिर्गजश्रेष्ठैरिव, प्रलम्बैर्लम्बमानैः बालपल्लवैः प्रत्यग्रकिसलयैः स्पृष्टानि सङ्घट्टितानि भूतलामि अधःप्रदेशा येषां तैः, अन्यत्र तु—प्रलम्बैरायतैः वालपल्लवैः विस्तृतलाङ्गूलैः स्पृष्टानि भूतलानेि येषां तैः । 'वालः कचे शिशौ मूर्खे हीवेरेऽश्वेशपुच्छयोः इति विश्वः ।
अप्रमत्तेति । अप्रमत्तः सावधाना ये पार्थिवा भूपतयस्तैरिव, पर्यन्ते प्रान्तदेशे राज्यसीमान्ते च अवस्थिता विद्यमाना बहवोऽनेके गुल्माः स्तम्भाः प्रकाण्डा इत्यर्थः । सेनानिवेशाश्च येषां तैः । 'गुल्मः स्तम्ब्ये प्लीह्नि घट्टसैन्ययोः सैन्यक्षणे' इति विश्वः ।
दंशितैरिति । दंशितैः सङ्ग्रामसज्जीतैर्लोकैरिव, भ्रमरसङ्घाताः पुष्परसलोभेनोपविष्टभ्रमरवृन्दाः कवचानीव वर्माणोव तैः आवृत्तकाया आच्छादितदेहास्तैः, अन्यत्र तु—भ्रमरसङ्घातवत् भ्रमरगणवत् कवचैः तद्वच्छ्यामलवर्णवर्मभिरित्यर्थः आवृत्तकाया येषां तैः । 'सन्नद्धो वर्मितः सजो दंशितो व्यूढकङ्कटः' इत्यमरः ।
प्रमाणेति । प्रमाणामिमुखैः सुवर्णादितोलनप्रवृत्तैर्लोकैरिव, वानरैः कपिभिः कत्र्तृभिः कराङ्गुलिभिः करशाखाभिः करणैः स्पृष्टा आच्छुष्टा गुञ्जाः कृष्णला यैस्तैः सुवर्णादितोलनकाले सर्वैरव गुञ्जा उपादीयन्ते ।
अवनीति । अवनिपालशयनैरिव नरपतितहपैरिव, सिंहानां मृगेन्द्राणां पादैश्चरणचिह्नः अङ्कितानि चिह्नितानि तलानि निम्नवर्त्तिशयनतलानि येषां तैः ।
आरब्धेति । आरब्धा पञ्चतपःक्रिया पञ्चाग्निसाधनकर्म यैस्तैः तपस्विभिस्तापसैरिव, ग्रीष्मत्तौ स्वविष्टराणां चतुष्कोणेषु चत्वारः प्रज्वलिताग्नय ऊर्ध्वं च सूर्य एवं कृत्वा ये तपस्यां कुर्वन्ति ते पञ्चनपस
समूहसे शोभित रहती है, वे वृक्ष भी उसी प्रकार अनेकविध वर्णसे चित्रित-पक्ष-समन्वित पक्षियोंसे शोभित थे; दुर्योधन प्रभृति कुरुवंशीयगण जिसप्रकार द्रोणाचार्यद्वारा सेवित थे, वे वृक्ष भी उसीप्रकार भारद्वाज पक्षीद्वारा सेवित थे; महायुद्धके प्रारम्भमें जिसप्रकार हाथियों की तरफ बाण फेंके जाते हैं, वे वृक्ष उसीप्रकार नागकेसर (मौलसरी) फूलके गन्धसे भ्रमरोंका आकर्षण करते थे; बड़े बड़े हाथियोंके बड़े पूँछकी बालोंकी नोक जिसप्रकार भूतल-स्पर्श करती थीं, उन वृक्षोंके नये नये पल्लव उसीप्रकार झुक झुककर भूतलस्पर्श करते थे; अप्रमत्त राजाओंके राज्यके सीमान्तमें जिसप्रकार बहुतर सेनानिवेश रहता है, उस वृक्षसमूहके प्रान्तभागमें भी उसीप्रकार बहुतर शाखा-पत्रविहीन वृक्ष थे; संग्राममें सन्नद्ध वीरगणका शरीर जिसप्रकार भ्रमरसमूहके समान कृष्णवर्ण कवच-द्वारा आवृत (ढँका हुआ) रहता है, उस वृक्षसमूहके सब स्थान भी उसीप्रकार कवचके समान भ्रमरसमूहद्वारा आवृत थे; सुवर्ण तौलनेमें लोग जिसप्रकार वानरके समान हस्तके अङ्गुलीद्वारा गुञ्जा स्पर्श करते (चिरमिठ्ठी उठाते) हैं, उसीप्रकार उस वृक्षसमूहके मध्यमें भी वानरगण हस्तके अङ्गुलीद्वारा गुञ्जा स्पर्श करते (चिरमिठ्ठी उठाते) थे; राजाओंकी शय्याको नीचेका पर्यङ्क जिसप्रकार सिंहके पादके समान पावेसे संयुक्त रहता है, उस वृक्षसमूहके नीचेका स्थान भी उसीप्रकार सिंहके पादचिह्नसे चिह्नित था; जहाँ पञ्चाग्निसाधनरूप तपस्या आरम्भ होती है, वहाँ जिसप्रकार पञ्चाग्नि-साधन करनेवाले अग्निसमूहसे परिवेष्टित रहते हैं, वे वृक्षसमूह भी उसीप्रकार
१. ॰॰॰संशोभितैः । २. भारद्वाजद्विजोपसेवितैः । ३. ॰॰॰सन्ध्यात ॰॰॰ । ४. प्रमाणाभिमुखैरिव । ५. ॰॰॰अङ्कितरुपतलैः ।
| ३८८ | कादम्बरी- | [ कथायाम्- |
|---|
क्रियैरिवोच्चशिखशिखिमण्डलपरिवृतैः, दीक्षितैरिव कृतकृष्णसारविषाणकण्डूयनैः, जरद्गृहमुनिभिरिव जटालवालकमण्डलधरैः,¹ इन्द्रजालिकैरिव दृष्टिकारिभिः, पादपैः परिवृतं चन्द्रप्रभनाम्नस्तस्य सरसः पश्चिमे तीरे कैलासपादस्य ज्योत्स्नावदातया प्रभया धवलयतस्तं प्रदेशं तले-भागसन्निविष्टं भगवतः शूलपाणेः शून्यं³ सिद्धायतनमपश्यत् ।
तञ्च पवनोद्धूतैः⁴ इतस्ततः समापतद्भिः केतकीगर्भधूलिपटलैः⁵ धवलीक्रियमाणकायः पशुपतिदर्शनहेतोर्बलादिव प्रतिपाद्यमानो भस्मव्रतम्, आयतनप्रवेशपुण्यैरिव परिगृह्यमाणः
इत्यभिधीयन्ते तैरिवेत्यर्थः, उच्चताः शिखाश्रृङ्गा ज्वालाश्च यस्य तेन शिखिमण्डलेन मयूरसमूहेन वह्निरागेन च परिवृताः परिवेष्टितास्तैः ।
दीक्षितैरिति । दीक्षितैः यज्ञे गृहीतव्रतैर्यजमानैरिव, कृतं विहितं कृष्णसारैः शृङ्गविशेषैः कर्तृभिः, विषाणैः शृङ्गैः करणैः कण्डूयनं येषां तेः, अन्यत्र तु—कृतं कृष्णसारविषाणैः शृङ्गविशेषशृङ्गैः कण्डूयनं शरीरखर्जनं यैस्तैः । सञ्जातदीक्षाणां कृष्णसारविषाणेनैवाङ्गनिस्तर्जनं प्राप्तपादनार्थदाशयः । तथा च श्रुतिः—'कृष्णविषाणया कण्डूयते' इति । 'कण्डूः कण्डूयनं खर्जूः कण्डूया' इत्यभिधानचिन्तामणिः ।
जरदिति । जरन्तो वृद्धा ये गृहमुनयो गृहस्थतपस्विनः तैरिव, जटासु मूलेषु आलवालानां सलिलाधाराणां मण्डलं समुदाये धरन्तीति तेः, अन्यत्र तु—जटालं जरायुक्तं बालकमण्डलं बालकगणं धरन्ति परिपुष्णन्तीति तैः । तेषां दायुक्तया सुतजननसंम्भव इत्यवधेयम् । 'मूले लग्नकचे जटा' इत्यमरः ।
इन्द्रेति । इन्द्रजालिकैर्लोकैरिव, दृष्टिकारिभिः मनोज्ञत्वाल्लोचनाकर्षिभिः अन्यत्र तु प्रकृत्या जनानां यथायथदृष्टिसाम्प्र्धहारिभिः । इह 'इन्द्रायुधैरिव' इत्यारम्य 'इन्द्रजालिकैरिव' इत्यन्तं पूर्णोपमालङ्कारः ।
पादपैरिति । पादपैः उक्तविशेषणगुर्युक्तैर्वृक्षैः परिवृतं परिवेष्टितम् । तस्य सरसः पश्चिमे तीरे प्रतीच्यां तटे ज्योत्स्नावदातया चन्द्रिकावच्छुभ्रनया प्रभया स्वकान्त्या तं प्रदेशं तस्याश्चेवर्त्तिभूभागं धवलयतः शुभ्रं विदधतः, चन्द्रप्रभनाम्नश्चन्द्रप्रभाभिधानस्य कैलासपादस्य कैलासप्रत्यन्तपर्वतस्य तलभागसन्निविष्टम् अधोभागसंस्थितं भगवतः सर्वसमर्थस्य शूलपाणेः महेश्वरस्य, शून्यं जनवर्जितं सिद्धायतनं लोकसिद्धिप्राप्तिभवनम् अपश्यत् दृष्टवान् ।
तञ्चेति । नद्यायतनं प्रविश्य प्रवेशं कृत्वा च त्र्यम्बकम् अद्वादीदिति सम्बन्धः । पवनेन वायुना उद्धूतैः परिचालितैः इतस्ततः समापतद्भिः यत्र तत्र निपतद्भिः केतकीगर्भधूलिपटलैः केतकीपुष्पमध्यवर्तिपरागसमूहैः धवलीक्रियमाणः श्वेतीक्रियमाणः कायः शरीरं यस्य सः तादृशः, अतएव पशुपतिदर्शनहेतोः महेश्वरावलोकनार्थं केतकीगर्भधूलिपटलैरिव बलात् हठात् भस्मव्रतम् लवनवेपु विभूतिधारणनियमं प्रतिपद्यमान अङ्गीक्रियमाण इव सन्न् । पशुपतिपूजने भस्मधारणस्यावश्यकतानाह कात्यायनः—
श्राद्धे यज्ञे जपे होमे वैश्वदेवे सुरार्चने ।
धृतत्रिपुण्ड्रः पूतात्मा मृत्युं जयति मानवः ॥
विना भस्मत्रिपुण्ड्रेण विना रुद्राक्षमालया ।
पूजितोऽपि महादेवो न स्यात्तस्य फलप्रदः ॥'
तथा तदायतनप्रवेशपुण्यैः सिद्धायतनप्रवेशसुकृतैः परिगृह्यमाण आश्लिष्यमाण इव च सन् । इह 'प्रतिपाद्यमान इव' 'परिगृह्यमाण इव' इत्युभयत्र क्रियोत्प्रेक्षालङ्कारः ।
ऊँची शिखावाले मयूरगणसे परिवेष्टित थे; यज्ञमें दीक्षित होकर यजमानगण जिसप्रकार शरीर-खुजलाने पर कृष्णसार (मृग) के सींगसे शरीर खुजलाते हैं, वे वृक्ष भी उसीप्रकार कृष्णसारगणके सींगोंसे खुजलाये जाते थे; वृद्ध गृहस्थ मुनिगण जिसप्रकार जटाधारी बालकोंका परिपालन करते हैं, उन वृक्षोंने भी उसीप्रकार बालवालोंको धारण किये हैं—अर्थात् जड़के पास क्यारी हैं और थाले बने हुए हैं; ऐन्द्रजालिकगण जैसे अपनी छन्ताइरते लोगोंके देखनेकी शक्ति हर लेते हैं, वे वृक्ष भी उसी प्रकार सुन्दर होनेसे दृष्टिका आकर्षण करते थे ।
चन्द्रापीडने जाकर उस मन्दिरके अन्दर प्रवेश किया, उस समय वायुसे उड़कर इधर उधर झरते आए हुए केतकीकुसुमके अभ्यन्तरके परागसे चन्द्रापोडका शरीर धवलवर्ण हो जानेके कारण ऐसा प्रतीत हो रहा था कि उससे मानो महादेवके दर्शनके लिए बलात्कार अपने शरीर पर भस्मको लगा दिया हो और मन्दिरमें प्रवेश करनेके पुण्य ही ने
१. दोर्ध्वज्व, ऽऽऽकमण्डलुधरैः ।
२. भूतलंऽऽऽ ।
३. क्वचिद् शून्यमिति पदं नोपलभ्यते ।
४. पवनोद्धूतैः, पवनोद्धतैः ।
५. ऽऽऽधूलिभिः, धूलिधवलैः ।
क० पू० शिवमहाश्वेतयोर्वर्णना ५१ ] चन्द्रकला-विद्योतिनीसहिता ३८६
प्रविश्याद्राक्षीत् चतुःस्तम्भस्फटिकमण्डपिकानलप्रतिष्ठितम्, अचिरोद्धृतैराद्रार्द्रदलशिखरैर्गलज्जलविन्दुभिः ऊर्ध्वविपाटित-चन्द्रविम्बशकलैरिव निजाट्टहासावयवैरिव शेषफणाशकलैरिव पाञ्चजन्यसहोदरैरिव क्षीरोदहृदयाकारैरुपपादितमौक्तिकमुकुटविभ्रमैः शुचिभिर्मन्दाकिनीपुण्डरीकैः कृतार्चनम्, अमलमुक्ताशिलाघटितलिङ्गम्, अशेषत्रिभुवनवन्दितचरणम् , चराचरगुरुं चतुर्मुखं भगवन्तं त्र्यम्बकम् ।
तस्य च दक्षिणां मूर्त्तिमाश्रित्याभिमुखीमासीनाम्³, उपरचितब्रह्मासनाम्, अतिविस्ता-
चतुरिति । चत्वारश्चतुःसंख्याकाः स्तम्भाः स्थूणा यस्याः सा चतुःस्तम्भा या स्फटिकमण्डपिका चन्द्रकान्तमयलघुमण्डपः तस्याः तलेऽधःप्रदेशे प्रतिष्ठितम् सन्निविष्टम् । त्र्यम्बक मित्यस्य विशेषणमेतत् । अचिरोद्धृतैः स्वल्पकालोत्खातैः अत एव च ऊर्ध्वे ऊर्ध्वप्रदेशे विपाटितस्य विदारितस्य चन्द्रबिम्बस्य शशिमण्डलस्य दलैः खण्डैरिव विद्यमानैः तेभ्योऽपि पीयूषबिन्दुनिःसरणादित्याशयः । निजस्य स्वकीयस्य शिवसम्बन्धिन इत्यर्थः । अट्टहासस्य महतो हासस्य अवयवैरिव । शेषस्य नागाधिपतेः फणानां फटानां शकलैः खण्डैरिव, तेषामपि स्वच्छधवाग्रोत्तुङ्गसदृशत्वाच्चेत्याशयः । पाञ्चजन्यः पाताल्योत्पन्नो लक्ष्मीपतेः शङ्खः तस्य सहोदरैः एकोदरसमुत्पन्नभ्रातृभिरिव स्वच्छभवर्तुलाकारत्वादित्याशयः । इह······'चन्द्रबिम्बदलैरिव' 'निजाट्टहासावयवैरिव' 'शेषफणाशकलैरिव' 'पाञ्चजन्यसहोदरैरिव' सर्वत्र जात्युत्प्रेक्षालङ्कारः । क्षीरोदस्य दुग्धसिन्धोः हृदयाकारैः हृत्पुण्डरीकसदृशैः तुल्यश्वेतत्वादित्यभिप्रायः । इहार्थोपमा । तथा उपपादितो निरीक्षकाणां विहितो मौक्तिकमुकुटविभ्रमः स्वेषु शोद्भवमयकिरीटभ्रान्तिर्यैस्तैः । इह भ्रान्तिमानलङ्कारः । शुचिभिः पूतैः मन्दाकिनीपुण्डरीकैः आकाशगङ्गासमुत्पन्नशुभ्रकमलैः, कृता विहिता अर्च्चना पूजा यस्य तं तादृशम् । अमलया स्वच्छया मुक्ताशिलया रमोद्भवत्तुङ्गयशुभ्रपाषाणेन घटितं रचितं लिङ्गं स्वरूपं यस्य तं तादृशम् , चत्वारि मुखानि यस्य स तं चतुर्मुखं भगवन्तं माहात्म्यवन्तं त्र्यम्बकं शिवम् । ननु भगवतो महेश्वरस्य पञ्चवक्त्रत्वेनैव लोके प्रसिद्धिरुक्तमत्र चतुर्मुखत्वोपपादनमिति चेत् ? अत्राहुः-
‘तदूर्ध्वभागः सञ्जातश्चतुर्वक्त्रश्चतुर्भुजः । पद्मकेशरगौराङ्गकायो ब्रह्मा महेश्वरः ॥'
इति कालिकापुराण-(द्वादशाध्याय) वचनाच्चतुर्मुखी अपि शिवस्य मूर्त्तिरिति प्रतिपादनेनोक्तशङ्कानिरवकाशात् ।
तस्येति । किञ्चेति चार्थः । तस्य त्र्यम्बकस्य दक्षिणां याम्यामभिमुखीं मूर्त्तिं प्रतिमम् आश्रित्य अवलम्ब्य अभिमुखीम् आसीनां तत्समक्षे उत्तरमुखीं सतीं निषण्णाम्, 'प्रतिपन्नपाशुपतव्रतां कन्यकां ददर्श'-दूरवत्तिदूरस्थायिन्या क्रियया सम्बन्धः । इहं द्वितीयैकवचनान्तानि पदानि कन्यकामित्यस्य विशेषणानि ।
उपरचितेति । उपरचितं विहितं ब्रह्मणः प्रजापतेः आसनमिव आसनं यया तां तादृशीं कमलासनोपविष्टामित्यर्थः ।
अतीति । अतिविस्तारिणा अतिशयप्रसरणशीलेन सर्वदिङ्मुखानां प्लावकेन आच्छादकेन प्रलय-
मानो उसे आलिङ्गन कर (घेर) लिया हो। वहाँ उसने चराचरके गुरु, समस्त त्रिभुवनवन्दित-चरण भगवान् चतुर्मुखी महादेवको देखा। उनका लिङ्ग निर्मल मुक्ताके समान श्वेतवर्ण प्रस्तरद्वारा निर्माण किया हुआ था। उसे चार स्तम्भवाले छोटेसे स्फटिकमय मण्डपमें स्थापित किया गया था और आकाशगङ्गासे तत्काल तोड़े हुए, अत्यधिक आर्द्र, दलाग्रसे जलकी बूँदें टपकने पवित्र श्वेतकमलोंसे उसकी पूजा की गई थी। वे श्वेतकमलके ऊपर भागसे विदारित होने पर चन्द्रमण्डलके खण्डसमूह (टुकड़ों) के समान, अपने (महादेवके) अट्टहासके (ठहाकेकी हँसीके) अवयवोंके समान, शेषनागकी फणके टुकड़ोंके समान, पाञ्चजन्यशङ्खके सहोदरोंके समान एवं क्षीरसमुद्रके हृदयके समान थे तथा उन्हें देखकर मोतीके मुकुटकी भ्रान्ति होती थी।
चन्द्रापीडने उनकी दक्षिणामूर्त्तिके सामने प्रशस्त और पाशुपत-व्रत धारण करके बैठी हुई एक कन्याको
१. अचिरोद्धतैः । २. चार्द्रार्द्रदल···, चार्द्रार्द्ररेणुर··· । ३. अभिमुखमासीनाम् ।
| ३१० | कादम्बरी- | [ कथायाम्- |
|---|
रिणा सर्वदङ्मुखप्लावकेन प्रलय-परिलुप्त-क्षीरपयोधि-पूर-पाण्डुरेण अतिदीर्घकालसञ्चितेन तपोराशिनेव सर्वतो विसर्पता पादपान्तरैस्त्रिस्रोतोजलनिभेन पिण्डीभूय बहतेव देहप्रभावित्तानेन सगिरिकाननं चन्द्रमयमिव तं प्रदेशं कुर्वतीम्, अन्यथैव धवलयन्तीं कैलासगिरिम्, अन्तर्दृष्टुरपि लोचनपथप्रविष्टेन श्वेतिमानमिव मनो नयन्तीम्, अतिधवलप्रभापरिगतदेहतया स्फाटिकगृहगतामिव दुग्धसलिलमग्नामिव विमलचीनांशुकान्तरितामिव आदर्शतलसंक्रान्तामिव शरदभ्रपटलतिरस्कृतामिव अपरिस्फुट-विभाव्यमानावयवाम्, पञ्चमहाभूतमय-
काले कल्पान्तसमये परिलुतस्य उद्वेलितस्य क्षीरपयोधेः दुग्धसमुद्रस्य पूरवत् प्रवाहवत् पाण्डुरेण श्वेतवर्णेन । सर्वतो विसर्पता परितः प्रसरता, अतिदीर्घकालसञ्चितेन अतिविस्तृतसमयैकत्रीकृतेन तपोराशिन। तपःसमूहेनेव विद्यमानेन । त्रिस्रोतसो वियद्गङ्गायाः जलनिभेन सलिलसदृशेन । पादपान्तरैः तरूणामन्तरालदेशैः पिण्डीभूय समूहीभूय प्रसरणे तरुभिः प्रतिबन्धकत्वाचरणात् मिश्रः समूहीभूय वहतेव, देहप्रभावित्तानेन शरीरकान्तिपरम्परया सगिरिकाननं सपर्वतवनं तं प्रदेशं चन्द्रमयमिव कुर्वतीं विदधतीम्, तत्कान्तेर्धवलत्वादित्यभिप्रायः ।
इह......'क्षीरपयोधेः पूरवत् शुभ्रवर्णेन' इत्यत्र लुप्तोपमा, 'तपोराशिनेव' इत्यत्र तपसः शास्त्रीय-क्लेशरूपत्वेन गुणत्वाद् गुणोत्प्रेक्षा, 'त्रिस्रोतो जलनिभेन' इत्यत्र श्रौत्योपमा ।... 'पिण्डीभूय वहतेव, इत्यत्र क्रियोत्प्रेक्षा । 'चन्द्रमयमिव तं प्रदेशं कुर्वतीम्' इत्यत्र क्रियोत्प्रेक्षा-गुणोत्प्रेक्षयोः सङ्करः ।
अन्यथेति । अन्यथा भिन्नप्रकारेणैव देहप्रभयैव कैलासगिरिं रजताद्रिं धवलयन्तीं स्वतः शुभ्रमपि पुनः कृत्रिमश्वेतिमानमापादयन्तीमिव विद्यमानाम् । प्रतीयमाना क्रियोत्प्रेक्षा ।
अन्तरिति । द्रष्टुरपि विलोकयितुरपि जनस्य अन्तःशरीराभ्यन्तरे लोचनपथप्रविष्टेन नेत्रमध्यमार्गगतेन देहप्रभावित्तानेन मनश्चित्तं श्वेतिमानं धवलिमानं नयन्तीं प्रापयन्तीमिव विद्यमानाम् । केवलावलोकनेनैव विलोकयितुश्चित्तस्य सन्तोषेण प्रसन्नत्वादित्याशयः । क्रियोत्प्रेक्षा ।
अतिधवलेति। अतिधवलया अत्यन्तशुभ्रया प्रभया कान्त्या परिगतो व्याप्तो देहः शरीरं यस्यास्तस्या भावस्तया कारणेन, स्फटिकगृहगतामिव स्फटिकमणिभवनप्राप्तामिव, दुग्धसलिलमग्नामिव क्षीरोदकहितामिव, विमलचीनांशुकान्तरितामिव निर्मलसूक्ष्मवस्त्रविशेषावृतामिव, आदर्शतले दर्पणे संक्रान्तां प्रतिबिम्बितामिव, तथा शरदभ्रपटलेन शरत्कालीनस्वच्छमेघसमूहेन तिरस्कृतामन्तर्हितामिव, अत एव प्रभावरणात् अपरिस्फुटम् अस्पष्टं यथा स्यात्तथा विभाव्यमाना ज्ञायमाना अवयवा अङ्गप्रत्यङ्गानि यस्यास्ताम् । इह पञ्चक्रियोत्प्रेक्षायां मिथो नैरपेक्ष्येण विद्यमानत्वात्संसृष्टिः ।
पञ्चेति । पञ्चमहाभूतमयं पृथिव्यप्तेजोवाय्वाकाशस्वरूपं द्रव्यात्मकम् अङ्गनिष्पादनोपकरणकलापं देहरचनासामग्रीसमुदायम् अपहाय परित्यज्य प्रजापतिना केवलेन एकेन धवलगुणेन शुभ्रगुणेन उत्पा-
देखा। उसके शरीरका कान्तिप्रवाह अतिविस्तृतत्वसे निकलकर सभी दिशाओंको प्लावित करता (डुबाता) था, प्रलयकालीन उद्वेलित (उमड़े) क्षीरसमुद्रके प्रवाहके समान शुभ्रवर्ण था, सर्वदिग्व्यापी दीर्घकाल-सञ्चित तपस्या-राशिके समान विराजमान था एवं आकाशगङ्गाके जलप्रवाहके समान वृक्षोंके बीच-बीचमें एकत्र संमिलित होकर बह रहा था, इस प्रकार शरीरकी प्रभाद्वारा वह मानो पर्वत और वनके सहित उस प्रदेशको सम्पूर्ण चन्द्रविम्बमय करती (पाठान्तरसे हाथी दाँतका बना हो ऐसा कर देती) थी, कैलाश पर्वतको अन्य प्रकारसे ही मानो धवलित करती थी, उस कन्याको केवल देखनेसे ही उसके शरीरका कान्तिप्रवाह देखनेवालेके नयनमार्गके भीतरसे प्रवेश करके ही मानो मन पर्यन्त शुक्लवर्ण कर देती थी। अत्यन्त धवलवर्ण प्रभायुक्तसे उसका शरीर परिवेष्टित होनेके कारण अङ्ग-प्रत्यङ्ग स्पष्टरूपसे देखनेमें नहीं आते थे, अतएव वह, मानो स्फटिक-मय गृहके अभ्यन्तरमें बैठी हो, दुग्ध-मिश्रित जलमें निमग्न हो, निर्मल चीनदेशीय महीन वस्त्रसे आच्छादित हो, दर्पणके अभ्यन्तरमें प्रतिबिम्बित हो एवं शरत्कालीन मेघसमूहसे आवृत्त हो ऐसी प्रतीति होती थी। विधाताने पञ्चमहाभूतस्वरूप द्रव्यात्मक शरीर-
१. '...विप्लुत' । २. '...पयःपूरपाण्डरेण । ३. तपोराशिनैव विसर्पता । ४. दन्तमयमिव, हतमयममिव । ५. लोचनपथे प्रविश्य, '...प्रविष्टेन । ६. अतिबहुल... । ७. '...चेलांशुकान्तरितामिव । ८. परिस्फुट... ।
महाश्वेता वृत्तान्त एवं पुण्डरीक कथा
महाश्वेतावर्णना ५२ ] चन्द्रकला-विद्योतिनीसहिता । ३६१
मपहाय द्रव्यात्मकमङ्ग¹-निष्पादनोपकरणकलापं धवलगुणेनैव केवलेनोत्पादिताम् , दक्षा- ध्वर² क्रियामिवोद्धतै³-गण-कच-ग्रह-भयोपसेवितत्र्यम्बकाम्, निरन्तरभस्मोल्लुण्ठनसिताङ्गीं⁴ रतिमिव मदनदेहनिमित्तं हरप्रसादनार्थमागृहीतहराराधनाम्, क्षीरोदधि⁵-देवतामिव सहवास- परिचित-हर-चन्द्रलेखोत्कण्ठाकृष्टाम्⁶, इन्दुमूत्तिमिव स्वर्भानु-भयकृत-त्रिनयन-शरण-गम- नाम्⁷ , ऐरावतदेहच्छविमिव गजाजिनावगुण्ठनोत्कण्ठित-शितिकण्ठचिन्तितोपनताम्, पशुपति-दक्षिण-मुख-हासच्छविमिव बहिरागत्य⁸ कृतावस्थानाम्, शरीरिणीमिव रुद्राद्धूलनभूतिम्⁹
दितां निर्मितामिव पृथिव्यादिसामग्र्युत्पन्ने तु तद्गुणानां नीलपीतादीनामप्यत्र सम्मेलनेन एवंविधशौ-क्लयासम्भवादित्याशयः । क्रियोत्प्रेक्षा ।
दक्षेति । उद्धतैर्बलंगर्वितैः गणैः प्रमथादिभिर्यः कचग्रहः केशाकर्षणं तस्माद् भयेन त्रासेन उपसेवितः रक्षणार्थमवलम्बितः त्र्यम्बको महेश्वरो यया तां तादृशीम् , दक्षस्य प्रजापतेः अध्वरक्रिया यज्ञकर्म तामिव विद्यमानाम्, तस्या अप्यत्युत्कृष्टधर्मरूपत्वेन शुक्लत्वादित्यभिप्रायः । क्रियोत्प्रेक्षा ।
पुरा किल दक्षप्रजापतिना शङ्कररामानार्थमेवाध्वरः समारब्धस्तत्र महेशोऽनाहूत इति विज्ञाय तद्गणाः समेत्य तमध्वरं विनाशयामासुरिति पौराणिकी कथा ।
निरन्तरेति । मदनदेहनिमित्तं भूयोऽपि स्वामिनः कामस्य शरीरप्राप्त्यर्थं यद् हरस्य शम्भोः प्रसादनं तदर्थं तन्निमित्ताय आगृहीतहराराधनां प्रारब्धमहेशोपासनाम् अत एवानवरतविभूतिधारणेन शुक्लशरीरां रतिं कामपत्नीमिव विद्यमानाम् । यच्चात्र 'हर' पदस्य द्विवारमुपादानेन पुनरुक्ततादोषः समापतति स चागृहीततदाराधनामिति पाठविधानेन परिहार्यः ।
क्षीरोदेति । सहवासेन एकस्मिन् क्षीरसमुद्रे मन्थनात्प्रागवस्थानेन परिचिता ज्ञाता या हरललाटस्था महेशभालस्था चन्द्रलेखा शशिकला तस्या उत्कण्ठया आकृष्टाम् आकर्षितां क्षीरोदस्य दुग्धान्बुधेः अधिदेवतामिव अधिष्ठात्रीं देवीमिव, अत्यधिकश्वेतक्षीरसमुद्राधिष्ठातृत्वात्तस्या अपि अत्यधिकश्वेतसम्भवादित्याशयः ।
इन्द्विति । स्वर्भानो राहोर्यो भयं त्रासस्तेन कृतं विहितं त्रिनयनस्य शङ्करस्य शरणागमनं गृहगमनं यया तामिन्दोश्चन्द्रस्य मूर्त्तिः शरीरमिव । 'शरणं गृहरक्षित्रोः' इत्यमरः । द्रक्योत्प्रेक्षा ।
ऐरावतेति । गजाजिनं हस्तिचर्म तस्य अवगुण्ठने परिधाने उत्कण्ठितो हस्तिचर्मप्रियरवादुत्सुको यः शितिकण्ठो महादेवस्तेन चिन्तिता समीहिता अनन्तरमेव उपनता उपस्थिता ताम्, ऐरावतस्य सुराधिपशर्वतगजस्य देहच्छविं वपुःप्रभामिव विद्यमानाम् । गुणोत्प्रेक्षा ।
पश्विति । स्वस्थानान्मुक्ताञ्च बहिरागत्य कृतं विहितम् अवस्थानं स्थितियंया ताम् , पशुपतेः महेश्वरस्य दक्षिणमुखे तन्त्रत्यपशुपतेश्चतुर्मुखत्वाद्विणदिक्स्थायिवदने यो हासो हास्यं तस्य छविं शोभामिव पूर्वोत्प्रेक्षा ।
शरीरेति । शरीरिणीं नारीदेहधारिणीं एतीम् आविर्भूतां प्रकटीभूतां रुद्रस्य शङ्करस्य उद्दूलभूतिमिब शरीरमर्दनसमये रजोभूय प्रसृतशरीरमस्मेव । जात्युत्प्रेक्षा ।
निर्माणोपयोगी सामग्रीसमूह परित्याग कर श्वेतगुणद्वारा ही मानो उसका निर्माण किया था । उद्दत प्रकृतिवाले प्रमथगणके द्वारा केश खींचे जानेके भयसे दक्षकी यज्ञक्रिया ही मानो आत्मरक्षाके लिए महादेवकी सेवा करने आई हो; फिरसे कामदेवके शरीरके निमित्त शिवको प्रसन्न करनेके लिये रति देवी (कामपत्नी) मानो उनके आराधनमें प्रवृत्त होकर निरन्तर भस्मलुण्ठन करनेसे श्वेताङ्गी होकर वहाँ रहती हो; पहले एकत्र वास करनेसे परिचित शङ्करके ललाटस्थ चन्द्रकलाके साथ मिलनेकी उत्कण्ठासे आकृष्ट होकर ही मानो क्षीरसमुद्रकी अधिष्ठात्री देवी आई हो; राहुके भयसे चन्द्रकी मूर्त्ति मानो महादेवके शरणापन्न हुई हो; गजचर्म ओढ़नेके लिए उत्कण्ठित होकर महादेवकी चिन्ता करते ही उपस्थित हुई ऐरावतहस्तीके देहप्रभाके समान हो; महादेवके दक्षिण मुखकी हास्य-शोभा मानो बाहर निकलकर बैठी हो; अङ्गमर्दन करनेके समयमें शङ्करके अङ्गकी भस्म-धूलियां मानो स्त्री-मूर्त्ति
१. '...मङ्ग...' ।
२. अध्वर'...' ।
३. उद्धत'...' ।
४. क्वचित् 'निरन्तरभस्मोल्लुण्ठनसिताङ्गी' इति पाठो न विद्यते ।
५. क्षीरोदधिः... ।
६. ...'लेखोत्कण्ठोत्कृष्टाम् ।
७. ...'शरणागमनम् ।
८. बहिर्निर्गत्य, इव निर्गत्य ।
९. रुदोद्दूलनभूतिमिव् ।
| ३६२ | कादम्बरी- | [ कथायाम्- |
|---|
आविर्भूताम् , ज्योत्स्नामिव हरकण्ठान्धकारविघटनोद्यमप्राप्ताम् , गौरीमनःशुद्धिमिव^१ कृत-देहपरिग्रहाम् , कार्तिकेयकौमारव्रतक्रियामिव मूर्त्तिमतीम् , गिरीश^२वृषभ, देहद्युतिमिव पृथगवस्थिताम्, आयतन-तरु-कुसुम-समृद्धिमिव शङ्कराभ्यर्चनाय स्वयमुद्यताम्, पितामह तपः-सिद्धिमिव महीतलमवतीर्णाम्, आदियुगप्रजापतिकीर्त्तिमिव सप्तलोकभ्रमणखेदविश्रान्ताम् , त्रयीमिव कलियुग-ध्वस्त धर्मशोक-गृहीत-वनवासाम्, आगामि-कृतयुगबीजकलामिव प्रमदा-रूपेणावस्थिताम्, देहवतीमिव मुनिजन-ध्यानसम्पदम्, अमर-गज-वीथिमिवअभ्रगङ्गाभ्यागम-वेगपतिताम् , कैलासश्रियमिव दशमुखोन्मूलनक्षोभनिपतिताम् , श्वेतद्वीप-लक्ष्मीमिवान्य-
ज्योत्स्नामिति । हरस्य महादेवस्य कण्ठे योऽन्धकारः अन्धकारसदृशकृष्णवर्णः तस्य विघटनोद्यमनेन स्वयं दूरीकरणप्रयत्नेन प्राप्तां तरकण्ठत एवोपगतां ज्योत्स्नां प्रभामिव । गुणोत्प्रेक्षा ।
गौरीति । कृतदेहपरिग्रहां विहितशरीरस्वीकारां गौर्याः सतीमूर्द्धन्यायाः पार्वत्याः मनःशुद्धिं चित्त-पवित्रतामिव । पूर्वोत्प्रेक्षा ।
कीर्त्तीति । मूर्त्तिमतीं सशरीरां कार्तिकेयस्य षडाननस्य कौमारव्रतक्रियां ब्रह्मचर्यनियमानुष्ठानमिव । क्रियोत्प्रेक्षा । दुष्कृतस्य मलिनतया निरूपणीयत्वात्तद्विरुद्धस्य सुकृतस्य तु श्वेतस्यैव निरूपणौचित्या-देवमभिधानमित्यवधेयम् ।
गिरीशेति । पृथगवस्थितां शरीराद्विनिर्गम्य पृथग्विद्यमानां गिरीशवृषभस्य महेशवृषस्य देह-द्युतिः शरीरकान्तिरिव । गुणोत्प्रेक्षा ।
ायतनेति । शङ्करस्य शिवस्य अभ्यर्चनाय पूजनाय स्वयमुद्यतां स्वेनैवोद्योगयुक्ताम्, आयतनस्य तस्यैव सिद्धभवनस्य तरुकुसुमानां वृक्षपुष्पाणां समृद्धिं संपदमिव । जात्युत्प्रेक्षा ।
पितेति । महीतलमवतीर्णां पृथिवीतलं कृतावतां पितामहस्य ब्रह्मणः तपः सिद्धिमिव । गुणोत्प्रेक्षा ।
आदीति । सप्तसु लोकेषु भूर्भुवःस्वर्महर्जनस्तपःसत्यलोकेषु भ्रमणेन पर्यटनेन यः खेदः परिश्रमस्तेन विश्रान्तां तत्र विहितविश्रामाम्, आदियुगे कृतयुगे प्रजापतेर्विधातुः या कीर्त्तिः प्रजानिर्माणप्रशंसा तामिव । पूर्वोल्लेख ।
आगामीति । प्रमदारूपेण नारीरूपेण अवस्थितां कृतोपविष्टाम्, आगामिनो भविष्यतः कृतयुगस्य सत्ययुगस्य बीजकलामिव आदिकारणमात्रामिव, कृतयुगस्य पुण्यमयत्वेन श्वेतत्वात्तदादिहेतोरपि श्वेत-त्वमित्याशयः । जात्युत्प्रेक्षा ।
देहेति । देहवतीं शरीरधारिणीं मुनिजनानां तपस्विनां ध्यानसम्पदमिव प्राणायामसमृद्धिमिव । गुणोत्प्रेक्षा ॥
अमरेति । अभ्रगङ्गायाः आकाशगङ्गाया अभ्यागमस्य तत्रोपस्थितेः वेगेन त्वरया पतितां स्वर्गा-द्विच्युताम् , अमरगजानां देवहस्तिनाम् - ऐरावतप्रभृतीनामित्यर्थः । वीथिं पंक्तिमिव, तस्यात्यन्तश्वेतत्वा-दित्याशयः । परमार्थतस्तु समुदायसमुदायिनोः परस्परं भेदाभावेऽपि यौषिद्रूपभेदमादायेदमुक्तमित्यवधेयम् । जात्युत्प्रेक्षा ।
कैलासेति । दशमुखो रावणः तस्य उन्मूलनम् उत्पाटनं तेन यः क्षोभः सञ्चलनं तेन निपतितां खस्ताम् , कैलासस्य रजताद्रेः श्रियं शोभामिव ।
श्वेतेति । अन्यद्वीपानां द्वीपान्तराणां यदवलोकनकुतूहलं वीक्षणकौतुकं तेन आगतां प्राप्तां श्वेत-द्वीपलक्ष्मीमिव श्वेतद्वीपशोभामिव ।
धारण कर आविर्भूत हुई हो; महादेवके कण्ठदेशकी नीलिमा दूर करनेके लिए उसके कण्ठकी प्रभा प्रत्यक्ष बाहर होकर आई हो; पार्वतीकी मनकी पवित्रता मानो शरीर धारण करके आई हुई हो; कार्तिकेयकी मानो मूर्त्तिमती कुमारावस्थाकी तपश्चर्या हो; शङ्करके वृषभके शरीरकी प्रभा मानो पृथक् होकर स्थित हो; उस सिद्धायतन (मन्दिर) के वृक्षोंकी पुष्प-समृद्धि मानो शङ्करकी पूजा करनेके लिए अपने आप ही उद्यत हुई हो; ब्रह्माकी तपःसिद्धि मानो पृथिवीतल पर उतरी हुई हो; सत्ययुगमें ब्रह्माकी जो कीर्ति उत्पन्न हुई थी, वह मानो सप्त भुवनोंमें भ्रमण करनेने थककर विश्राम करने आई हो; कलियुगके प्रभावसे धर्म विनष्ट हो जानेसे शोकातुर होकर मानो ऋक्, यजु और साम वेदोंकी त्रयी वनवास अवलम्बन कर उस स्थानमें आई हो; आगामी सत्ययुगके बीजकी कला मानो स्त्री-रूपमें स्थित हो; मुनिगणकी ध्यानसम्पत्ति मानो मूर्त्तिमती होकर रहती हो; देव-गज-पंक्ति मानो आकाशगङ्गाके आगमनके वेगमें पड़कर गिरी हो; कैलास-पर्वतकी शोभा मानो रावणद्वारा उन्मूलनके वेगसे नीचे गिरी हुई हो; श्वेतद्वीपकी
१. गौरीतपःसिद्धिमिव । २. गिरिश ** ।
.महाश्वेतावर्णनम् २२ ] चन्द्रकला-विद्योतिनीसहिता । ३६३
द्वीपावलोकन^१ कुतूहलागताम्, काशकुसुमविकासकान्तिमिव शरत्समयमुदीक्षमाणाम्, शेष-शरीरच्छायामिव रसातलमपहाय निर्गताम्, मुसलायुधदेहप्रभामिव मधुमदविघूर्णनायास-विगलिताम्, शुक्लपक्षपरम्परामिव पुञ्जीकृताम्, सर्वहंसैरिव धवलतया कृतसंविभागाम्, धर्महृदयादिव विनिर्गताम्^२ शङ्खादिवोत्कीर्णाम्, मुक्ताफलादिवाकृष्टाम्, मृणालैरिव विर-चितावयवाम्, दन्तदलैरिव घटिताम्, इन्दुकूरकूर्चकैरिव प्रक्षालिताम्^३, वर्णसुधाच्छटा-भिरिव च्छुरिताम्^४, अमृतफेनपिण्डैरिव पाण्डुरीकृताम्, पारदरसधारामिव धौताम्, रजत-
काशेति । शरत्समयं घनात्ययकालम् उदीक्षमाणां प्रतीक्षमाणां काशकुसुमानां 'काँस' इति लोक-प्रसिद्धपुष्पाणां विकासकान्तिमिव विकसत्प्रभामिव ।
शेषेति । रसातलं पातालं अपहाय त्यक्त्वा निर्गतां बहिर्निःसृताम्, शेषस्य नागराजस्य शरीरच्छा-यां वपुःकान्तिमिव, नागराजस्यापि श्वेतत्वादित्याशयः । 'छाया सूर्यप्रिया कान्तिः' इत्यमरः ।
मुसलेति । मधुमदेन कादम्बरीपानजनितमत्ततया यद् विघूर्णनं पर्यन्ततो भ्रमणं तदायासेन तत्प-रिश्रमेण विगलितां शरीरद्विच्युतां मुसलायुधस्य बलभद्रस्य देहप्रभामिव वपुःकान्तिमिव, तस्या अपि श्वेतत्वात् ।
इह 'कैलासशिखमिव दशमुखोन्मूलनक्षोभनिपतिताम्' इत्यारभ्य 'मुसलायुधदेहप्रभामिव मधु-मदविघूर्णनानायासविगलिताम्' इत्यन्तं सर्वत्र गुणोत्प्रेक्षा ।
शुक्लेति । पुञ्जीकृतां प्रजापतिना एकत्रीकृतां शुक्लपक्षाणां मामीयोत्तराद्धैपञ्चदशदिनात्मकानां समयानां परम्परां सन्ततिमिव, पक्षाणां समयत्वेन द्रव्यत्वादिति जात्युत्प्रेक्षा ।
सर्वैति । सर्वैः समस्तैः हंसैः सितच्छदैः धवलतया स्वस्वश्वेततागुणेन करणेन कृतो विहितः संवि-भागः विभज्य अर्पणं यस्यै तां प्रदत्तस्वस्वश्वेततामिवेत्यर्थः । इह विभागकरणेऽसंभवात् क्रियोत्प्रेक्षा ।
धर्मेति । धर्मस्य सुकृतस्य हृदयान्मानसात् विनिर्गतां विनिःसृतामिव, शङ्खादुत्कीर्णामिव शङ्खं निस्तक्ष्य बहिर्निर्मितामिव, मुक्ताफलाद् मौक्तिकाद् आकृष्टाम् आविर्भावितामिव, मृणालैः बिसैः विरचि-तावयवां विरचिताङ्गीमिव, दन्तदलैः गजदन्तखण्डैः घटितां रचितामिव, इन्दुकराश्चन्द्रकिरणा एव कूर्चकाः तूलिकाः तैः प्रक्षालितां परिष्कृत्य धौतामिव ।
इह निरङ्गकेवलरूपकं क्रियोत्प्रेक्षा च, अनयोरङ्गाङ्गिभावेन सङ्करः ।
वर्णसुधानां धवलिमसम्पादकसुधासंज्ञकलेपनद्रव्याणां छटाभिः समूहैः छुरितां लिप्तामिव, पारद-रसस्य रसेन्द्रद्रव्यम्य धाराभिः सन्ततिभिः धौतां प्रक्षालितामिव इह—'रसेन्द्रः पारदः प्रोक्तः पारतोऽपि निगद्यते । इति नारदः । 'पारतस्तु मनाक् पाण्डुः सूनस्तु रहितो मलात् । पारदस्तु मनाक् शीतः सर्वे तुल्यगुणाः स्मृताः ॥' इति शब्दानंदे । बत्तारपारदशब्दद्वयोः पर्यायतया पौनरुक्त्यप्रतीतेः अनन्तरस्य रसशब्दस्य द्रवाथ्ये पर्यवसानात् पुनरुक्तवदाभासः क्रियोत्प्रेक्षा चानयोरङ्गाङ्गिभावसङ्करः ।
कान्ति वन्दनाय द्वीप देखनेके कुतूहलसे आई हो; काशकुसुमोंकी विकासकान्ति मानो शरत्कालकी प्रतीक्षा करती हो; शेषनागके शरीरकी शोभा मानो पाताल छोड़कर बाहर निकल आई हुई हो; बलरामकी शरीर-कान्ति मानो मद्यपानकी मत्ततावश (नशा चढ़नेसे) घूमकर गिरी हो; शुक्लपक्षोंकी परम्परा मानो इकट्ठी होकर रखी हो; ऐसी शोभायमान प्रतीत होती थी। धवल होनेके कारण हंसोंने मानो अपनी-अपनी धवलता विभक्त कर इसे देदी थी; धर्मके हृदयसे मानो वह निकली हुई थी; विधाता द्वारा वह शङ्खको छीलकर बाहर की गई थी; मोतियों-मेंसे ही मानो निकली गई थी; मृणालद्वारा ही मानो उसके अवयव निर्माण किये गये थे; गजदन्त-खण्ड द्वारा ही मानो गढ़ी गई थी; चन्द्रकिरणरूपी कूँची द्वारा ही मानो वह प्रक्षालित कर परिष्कृत कर दी गई थी; चूर्णलेप (चूनेकी सफेदी) द्वारा ही मानो लिप्त कर दी गई थी; अमृतके फेनपुण्डद्वारा ही मानो शुक्लवर्ण की गई थी; पारद रस (पारे) की धारासे ही मानो धोई गई थी; चाँदीके रससे ही मानो उस पर मार्जन (पालिश) की
१. अन्यद्वीपान्तरावलोकन... । २. निर्गताम्, बद्धताम् । ३. अक्षालिताम् । ४. आच्छुरिताम् ।
२५ का०
| ३६४ | कादम्बरी- | [ कथायाम् - |
|---|
द्रवेणेव निर्मृष्टाम्, चन्द्रमण्डलादिवोत्कीर्णाम्, कुटज-कुन्द-सिन्धुवारे^१कुसुमच्छविभिरिवो-ल्लासिताम्, इयत्तामिव धवलिम्नः, स्कन्धावलम्बिनीभिरुदयतटगतादर्क-^३बिम्बादुदृष्टत्य बाल-रश्मि-प्रभाभिरिव निर्मिताभिरुन्मिषत्तडित्तरलं-^४तेजस्ताम्राभिरचिरस्नानावस्थित-विरल-वारि-कणतया प्रणाम-लग्न-पशुपति-चरण-भस्म-चूर्णाभिरिव जटाभिरुद्भासितशिरोभागम्, जटापाश-ग्रथित-मुत्तमाङ्गेन मणिमयं नामाङ्कमीश्वर-चरणद्वयमुद्वहन्तीम्, रवि-रथ-तुरग-खुर-मुख-क्षुण्णै-^५नक्षत्र-क्षोद-विशदेन भस्मनालङ्कृतं-^६ ललाटपट्टिकाम्- शिखर शिलारूिष्ट-शशाङ्ककलामिव शैलराजमेखलाम, अतुलभक्तिप्रसाधितया लक्ष्यीकृतँलिङ्गया द्वितीययेर्व पुण्डरीकमालया दृष्ट्या
रजतद्रवेण रौप्यरसेन निर्मृष्टामिव, चन्द्रमण्डलादिव शशिविम्बादिव उत्कीर्णाम् उत्कीर्णं कर्षिताम्, कुटजो गिरिमल्लिका, कुन्दो माघ्यम्, सिन्धुवारो निर्गुण्डी, एतेषां कुसुमच्छवयः पुष्पकान्तयस्ताभिः उल्लासितामिव परिशोभितामिव । क्रियोत्प्रेक्षा ।
इयत्तामिवेति । धवलिम्नः श्वेततायाः इयत्ताम् अन्तिमसीमामिव । गुणोत्प्रेक्षा ।
स्कन्धेति । स्कन्धावलम्बिनीभिः भुजान्तरप्रलम्बिनीभिः उदयतटगतात् उदयगिरिप्रदेशविद्यमानात् अर्कबिम्बात् सूर्यमण्डलात् उद्धृत्य बालरश्मिप्रभा एव निष्कास्य ताभिर्बालरश्मिप्रभाभिरभिनवमयख-कान्तिभिः करणैः सृष्ट्वा निर्मिताभिः रचितामिरिव विद्यमानाभिः उन्मिषन्ती द्योतमाना या तद्वित् विद्युत् तस्या यत्तरलं चञ्चलं तेजः तद्वत्ताम्राभिः ताम्रवर्णाभिः, तथा अचिरस्नानेन त्वरितमज्जनेन अवस्थिताः अभ्यन्तरे लग्नाः विरला अल्पसल्पा वारिकणा जलबिन्दवो यासु तासां भावस्तया कारणेन प्रणामे प्रणामकालेऽम्प्रान्ति संसक्तानि पशुपतेर्महेशस्य चरणभस्मचूर्णानि पादविभूतिचोदा यासु ताभिरिव विद्यमानाभिः जटाभिर्लग्नकचाभिः उद्भासितो द्योतितः शिरोभागः उत्तमाङ्गप्रदेशो यस्यास्ताम् ।
इह 'उदयततः...’ इत्यादौ 'प्रणामे'त्यादौ च क्रियोत्प्रेक्षा, 'उन्मिषद्' इत्यादौ लुप्तोपमा, आसां परस्परमङ्गाङ्गिभावेन सङ्करः ।
जटेति । उत्तमाङ्गेन शिरसा, जटापाशग्रथितं जटाजूटगुम्फितं मणिमयं रत्ननिर्मितं नाम्नः महेशनाम्नः अङ्कश्चिह्नं यत्र तथोक्तम् ईश्वरस्य महेशस्य चरणद्वयं पदद्वयप्रतिमाम् उद्वहन्तीं भक्त्यातिशयेन धारयन्तीम् ।
रवीति । रविरथस्य सूर्यस्यन्दनस्य तुरगाणां घोटकानां खुरमुखैः खुराग्रभागैः क्षुण्णानां विदारितानां नक्षत्राणां तारकाणां क्षोदश्चूर्ण तद्वत् विशदेन श्वेतेन भस्मना विभूतिकृततिलकेन अलङ्कृतो भूषितः ललाटपट्टो भालस्थलं यस्यास्ताम्, अत एव शिखरशिलया मध्यदेशशृङ्गस्थपाषाणेन आश्लिष्टा घृता शशाङ्ककला चन्द्ररेखा यस्याः तां शैलराजस्य हिमाचलस्य मेखलां नितम्बे मध्यभागमिव विद्यमानाम् ।
इह पदार्थहेतुकं वाक्यालिङ्गमलङ्कारः, तथा चन्द्रकलया विभूतितिलकस्य, विशदपाषाणेन सह ललाटपट्टस्य, मेखलया च सह कन्यायाः सादृश्यमिति द्वयोरुत्प्रेक्षा चांभयोः परस्परमङ्गाङ्गिभावसङ्करः ।
अतुलेति । अतूलया निरुपमया भक्त्या आराधनया प्रसाधितया अलङ्कृतरूपेण सज्जितया, लक्ष्योकृतं ध्यानालम्बनीकृतं लिङ्गं शिवमूर्त्तिर्यया तथा, द्वितोयया अपरया पुण्डरीकमालयेव सिताम्भोजपङ्क्त्यव
गई थी; चन्द्रमण्डलमेंसे ही मानो वह काटकर निकाली गई थी एवं कुटज, कुन्द और सिन्धुवारके फूलोंकी कान्तिसे ही मानो वह परिशोभित की गई (चमकाई गई) थी; तथा धवलता की वह मानो चरमसीमा प्रतीत हो रही थी। देदीप्यमान विद्युत्के चञ्चल तेजके समान ताम्रवर्ण एवं स्कन्ध-पर्यन्त लटकती जटा द्वारा उसका मस्तक शोभायमान था, विधाताने उदयाचल पर आये सूर्यविम्बमेंसे बाहर निकाली गई बाल-किरणोंकी प्रभाद्वारा ही मानो उन जटाओं का निर्माण किया था; एवं थोड़ी ही देर पहले स्नान करनेसे उस समय भी जटाओंके ऊपरमें थोड़े थोड़े जलबिन्दु थे, अतएव प्रतीन होता था कि मानो, प्रणाम करनेके समयमें शङ्करके चरणोंकी भस्म-धूलियाँ जटाके ऊपरमें लगी हों। मस्तकमें जटा-कलापके संग गुंथे हुए शिवनामाङ्कित शङ्करके दोनों चरणोंके मणिमय चिह्न उसने धारण किये थे; सूर्यके रथमें नियुक्त घोटोंके खुराग्रके आघातसे चूर्णीकृत (खुदे हुए) नक्षत्रोंके चूर्णके समान शुभ्रवर्ण भस्मके तिलककसे उसका ललाटदेश भूषित था, अतएव वह चोटीके प्रस्तरमें जड़ी हुई चन्द्रमाकी कलावाली हिमालयकी मेखलाके समान देखनेमें आती थी; अतुलनीय भक्तिसे परिशोभित हुई वह शिवलिङ्गको लक्ष्य करके—द्वितीय श्वेत-कमल-मालके समान निर्मल दृष्टिद्वारा आदरके साथ भूतनाथको देखती थी; अनवरत गान करनेसे उस
१. '... सिन्दुवार ।
२. उत्थिताश्च ... ।
३. '... गताकर्क ...।
४. '... तडित्तन्तुतरल ...।
५. '... तुरगखुरक्षुण्ण ...।
६. कृत ...।
७. लक्षीकृत ।
८. अपरयेव ।
| महाश्वेतावर्णना ५२ ] | चन्द्रकला-विद्योतिनीसहिता । | ३६५ |
|---|
सम्भावयन्तीं भूतनाथम्, अनवरत-गीत परिस्फुरिताधरपुटवशात् अतिशुचिभिः शुद्धहृदय-मयूखैरिव गीतगुणैरिवं स्वरैरिव स्तुतिवर्णैरिव मूर्त्तिमद्भिर्मुखान्निपतद्भिर्दशनांशुभिः पुनरिव स्नपयन्तीं गौरीपतिम्³, अतिविमलैश्च वेदार्थैरिव साक्षात् पितामहमुखादाकृष्टैः, गायत्रीवर्णैरिव ग्रथितताम्⁴ उपगतैः, नारायणनाभिपुण्डरीक-बीजैरिवोद्धृतैः, सप्तर्षिभिरिव कर-स्पर्शपूत-मात्मानमिच्छद्भिस्तारकारूपेणो गतैः, आमलकीफलस्थूलैर्मुक्ताफलैरुपचितेनाक्षवलयेनाधिष्ठितकण्ठभागम्, परिवेष-परिगत-चन्द्रमण्डलामिव पौर्णमासीनिश्शाम्⁷, अवाङ्मुख-हर-शिरः-
विद्यमानया, दृष्टेराप विशदत्वादित्याशयः, दृष्टया निरीक्षनेन भूतनाथं महेशं सम्भावयन्तीं सभक्तिदर्शने-नाद्रियमानाम्। जात्युत्प्रेक्षा।
अनेति। अनवरतं निरन्तरं गीतेन गानेन परिस्फुरितं परिस्पन्दितं यदधरपुटम् ओष्ठद्वयं तद्वशात्, मुखाद्वदनात् निप्पतद्भिः निस्सरद्भिः, अतिशुचिभिः अत्यन्तश्वेतैः, शुद्धहृदयस्य पवित्रमनसः मयूखैः किरणैरिव, मूर्त्तिमद्भिः शरीरवद्भिः गोतगुणैः गानमाधुर्यैरिव, स्वरैः षड्जर्षभादिसप्तध्वनिभिरिव, स्तुति-वर्णैः महेशस्तवनाक्षरैरिव विद्यमानैः, दशनांशुभिर्दन्तकिरणैः गौरीपतिं महेशं पुनर्भुयः स्नपयन्तीमिव स्नपनं विदधतीमिव विद्यमानाम्। गीतगुणैरित्यादिप्रयागानेव 'मूर्त्तिमद्भिः' इति विशेषणम्। पूजाद्यव-क्तवारं स्नपनाच्च 'पुनः' पदमित्यवधेयम्।
इह आदितश्चतस्रो गुणोत्प्रेक्षाः अवशिष्टाश्च क्रियोत्प्रेक्षाः, आसां परस्परमङ्गाङ्गिभावसङ्करः।
अतीति। अतिविमलैरिति मुक्ताफलैरित्यस्य विशेषणम्। पितामहस्य विधातुः मुखाद् वदनाद् आकृष्टैः आकृष्य प्रापितैः साक्षात्प्रयवधानाद् वेदार्थैरिव ऋग्वेदप्रभृत्यभिधेयैरिव, निरतिशययथार्थतया तेषामप्यतिविशदत्वादित्याशयः। ग्रथिततां संयुक्तानाम् उपगतैः प्राप्तैः गायत्र्याः स्वनामप्रसिद्धस्य वैदिक-मन्त्रविशेषस्य वर्णैरक्षरैरिव, तेषामपि ब्रह्माभिप्रततयातिविमलत्वादित्यभिप्रायः। उद्धृतैः उत्तोलितैः नारायणस्य विष्णोः नाभिपुण्डरीकबीजैरिव नाभिकमलबीजैरिव ('कमलगट्टा' इति ख्यातैरिव)। तथा आत्मानं स्वकीयशरीरं करस्पर्शेण जपंस्मये तस्याः कन्यकायाः हस्तस्पर्शेन पूतं पवित्रं कर्तु-मिच्छद्भिः अमिलषद्भिः तारकारूपेण नक्षत्ररूपेण आगतैः प्राप्तैः सप्तर्षिभिर्मरीचिप्रभृतितपस्विभिरिव विद्यमानैः, तथा आमलकीफलवत् धात्रीफलवत् स्थूलैः पृथुलैः मुक्ताफलैः मौक्तिकैः उपर्चितेन कृतेन अक्षवलयेन जपमालिकया अधिष्ठित आध्रितः कण्ठभागो गलप्रदेशो यस्यास्ताम्, अत एव परिवेषेन परिधिना परिगतं परिवेष्टितं चन्द्रमण्डलं शशिनिम्बं यस्यां तां पौर्णमासीनिश्शामिव राकारात्रिमिव विद्य-मानाम्। 'परिवेषस्तु परिधिः' । 'पूर्ण राका निशाकरे' इति चामरः।
इह 'वेदार्थैरिव' 'गायत्रीवर्णैरिव' 'नाभिपुण्डरीकबीजैरिव' 'सप्तर्षिभिरिव' इति चतसृषु जात्यु-त्प्रेक्षा 'आमलकीफलस्थूलैः' इत्यत्र लुप्तोपमा, पदार्थहेतुकं काव्यलिङ्गम, तथा मुक्तामालायाः परिवेषेण सह, तन्मुखस्य चन्द्रमण्डलेन सह, तन्मूर्त्तेः पौर्णमासीनिश्शया च साम्यमिति श्रौत्युपमा चेत्यासां परस्पर-मङ्गाङ्गिभावसङ्करः।
अव इति। अधोमुखं हरस्य महेशस्य शिरसि उत्तमाङ्गे यत् कपालं मनुष्यमस्तकास्थि तद्वन्मण्ड-लाकारेण वर्त्तलाकृतिना, तथा मोक्षस्य केवल्यस्य यत् पुरं नगरं ब्रह्मलोकमित्यर्थः तस्य द्वारकलसवत्
कन्या का ओष्ठ-युगल हिल रहा था, अत एव मुखमें से निकलतीं, अत्यन्त निर्मल दन्त-रश्मियों से वह मानों फिर से शङ्करको स्नान करा रही है ऐसा प्रतीत होता था; वे दन्तरश्मियों उसके पवित्र हृदयकी किरणोंके समान एवं मूर्त्तिमान् गानके माधुर्यके समान मूर्त्तिमती स्वरलहरीके समान और मूर्त्तिमान् स्तुतिके अक्षरके समान देखनेमें आती थीं। आमलकी फलके समान बड़े बड़े और अत्यन्त निर्मल मोतियोंके दानोंसे ग्रथित एक जपकी माला (हार) उसके कण्ठदेशमें लम्बित थी, वह (माला) प्रजापतिके मुखमेंसे निकालकर लाये गये साक्षात् वेदार्थके समान, गुंथे हुए गायत्री-वर्णोंके समान, नारायणके नाभिस्थित श्वेतकमलमेंसे निकाले हुए बीजोंके समान, एवं उस कन्याके कर-स्पर्शने अपनेको पवित्र होनेकी इच्छासे नक्षत्ररूपमें आए सप्तर्षियोंके समान देखनेमें आ रहा था, इसप्रकारकी मुक्तामालासे वह परिवेष सहित चन्द्रमण्डलसे युक्त पूर्णिमाकी रात्रिके समान शोभामान प्रतीत होती थी। महादेवके
१. ...गीतस्फुरित...।
२. गुणैरिव; स्तुतिवर्णैरिव।
३. पुनरपि...गौरीनाथम्।
४. ग्रथनताम्, ग्रथनाम्, ग्रथनस्तीनताम्।
५. करतल...।
६. परिवेष...।
७. पौर्णमासीम्।
| ३६६ | कादम्बरी- | [ कथायाम्- |
|---|
कपाल-मण्डलाकारेण मोक्ष-पुर-द्वार-कलस^१-कान्तिना स्तनयुगलेन, एक-हंस-मिथुन^२-सनाथामिव गङ्गाम्^३, गौरीसिंहसटामयेनेव चामर-रुचिराकृतिना^४ स्तनयुगलमध्यनिबद्धग्रन्थिना कल्प-तरु-लतावल्कलेन कृतोत्तरीयकृत्याम्, अयुग्मलोचनसकाशात् प्रसादलब्धेन चूडामणिचन्द्र-मयूख-जालेनेव मण्डलीकृतेन ब्रह्मसूत्रेण पवित्रीकृतकायाम्, आप्रपदीनेन च स्वभावसितेना-पि ब्रह्मासनबन्धोत्तान-चरणतल-प्रभा-परिष्वङ्गाल्लोहितायमानेन दुकूलपटेन प्रावृतनितम्बाम्-
द्वारस्थापितघटवत् कान्तिः शोभा यस्य तेन तथोक्तेन स्तनयुगलेन कुचद्वयेनोपलक्षितामित्यर्थः, अत एव एकेन सन्चरहितेन हंसयोश्चक्राङ्गयोर्मिथुनेन द्वयेन सनाथा सहिता तां गङ्गां भागीरथीमिव विद्यमानाम् ।
इह 'अधो...कपालमण्डलाकारेण' इत्यत्र 'मोक्षपुरद्वारकलसकान्तिना' इत्यत्र च लुप्तोपमा, पदा-र्थहेतुकं काव्यलिङ्गम्, तथा हंसयुगलेन कुचद्वयस्य गङ्गया च कन्यकायाः साम्यमिति श्रौत्युपमा चेत्यासां परस्परसङ्गाद्भिवासङ्करः।
एवं कपालस्याधोमुखत्वप्रतिपादनञ्च दृष्टगोचरतत्पृष्ठभागस्य मण्डलाकारत्वप्रतिपादनाय, अन्यथा कपालस्योन्मुखत्वे मण्डलाकारत्वं न स्यात् तदूर्ध्वदेशस्योन्नतावनतत्त्वादित्यवधेयम् ।
गौरीति। गौरीसिंहस्य भवान्या वाहनीभूतकेसरिणः सटामयेनेव जटाविरचितेनेव, चामरवत् बालव्यजनेनवत् रुचिरा मनोहरा आकृतिः स्वरूपं यस्य तेन, तथा स्तनयुगलस्य कुचद्वयस्य मध्येऽन्तराले निबद्धः ग्रन्थिर्यस्य तेन कल्पतरुलतावल्कलेन मन्दारवृक्षवल्लीत्वचा कृतं सम्पादितम् उत्तरीयस्य उपसं-व्यानस्य कृत्यं कार्यं यस्याः ताम् ।
इह...'सटामयेनेव' इत्यत्र क्रियोत्प्रेक्षा, 'चामररुचिराकृतिना' इत्यत्र लुप्तोपमा च, अनयोः परस्परं नैरपेक्ष्येण संसृष्टिः।
अयुग्मेति । अयुग्मलोचनस्य त्र्यम्बकस्य महेशस्य सकाशात् प्रसादलब्धेन अनुग्रहप्राप्तेन, चूडा-मणेः महेशस्यैव मुकुटमणीभूतस्य चन्द्रस्य शशिनः मयूखजालेनेव रश्मिसमूहेनेव विद्यमानेन, श्वेत-त्वादित्यभिप्रायः, मण्डलीकृतेन वर्तुलीकृतेन ब्रह्मसूत्रेण यज्ञोपवीतेन पवित्रीकृतः पावनीकृतः कायः शरीरं यस्यास्ताम् । इह...'मयूखजालेनेव' इत्यत्र जात्युत्प्रेक्षा।
पुरा काले स्त्रिया ब्रह्मचर्यावस्थायां ब्रह्मसूत्रधारणं शास्त्रसम्मतमेव । तथा च वचनम्—
'पुरा कल्पे तु नारीणां मौञ्जीबन्धनमिष्यते । उपदेशं च तासां हि सावित्रीवचनं तथा ॥'
आप्रपदीति । क्लिन्नेति चार्थः आप्रपदं प्राप्नोतीति आप्रपदीनः चरणतलपर्यन्तव्यापकः तेन, स्वभा-वेन प्रकृत्या सितः शुभ्रः तेनापि विद्यमानेन, ब्रह्मासनबन्धनेन कमलासनविधानेन उत्ताने ऊर्ध्वमुखे ये चरणतले पादतले तयोः प्रभाया अर्थाद्रक्तवर्णायाः परिष्वङ्गात् सम्बन्धात् लोहितायमानेन अरुगाय-मानेन दुकूलपटेन सूक्ष्मवस्त्रेण प्रावृतौ आच्छादितौ नितम्बौ आरोहौ यस्यास्तान् । 'स्यात्त्रिष्वाप्रपदीनं तत् प्राप्नोत्याप्रपदं हि यत्' इत्यमरः । इह शुभ्रवस्त्रस्यारुणगुणग्रहणात्तद्गुणः ।
नलकस्थित अधोमुख किए हुए नरमुण्डके समान वर्तुलाकार एवं ब्रह्मभवनके द्वारस्थित कलश-द्वयके समान कान्तियुक्त स्तनयुगल, उस कन्याके वक्षःस्थलमें शोभायमान थे, अत एव हंसोंके एक जोड़े सहित गङ्गाके समान वह दीखती थी । चामरके समान सुन्दर आकृतिवाला एक कल्पतरु-वल्कल, उसके स्तनोंके बीचमें बद्ध रहकर उत्तरीय वस्त्रका कार्य करता था, वह पार्वतीके सिंहकी जटाद्वारा मानो निर्मित हुआ हो ऐसा प्रतीत होता था । कण्ठदेशमें मण्डलीकृत एक ब्रह्मसूत्रसे उसका शरीर पवित्र हुआ था, वह (यज्ञसूत्र) महादेवसे प्रसन्न होकर दिए गए चूडामणिभूत चन्द्रके किरणसमूहके समान शोभायमान था । चरणके अग्रपर्यन्त लटके हुए सूक्ष्म (रेशमी) वस्त्रसे उसका नितम्ब-देश (कमर) आच्छादित था, वह वस्त्र स्वभावसे श्वेतवर्ण होने पर भी पद्मासनकी रचना कर बैठे रहने में ऊर्ध्व मुख करके रखे हुए चरण-तलोंकी प्रभाओंको उसके ऊपर गिरनेके कारण वस्त्रका वह अंग
१. मोक्षद्वारकलश, मोक्षद्वारनियुक्तकलश...। २. एकाण्डहंस...। ३. श्वेताङ्गाम्। ४. चौराष्ट्र-तिना। ५. पवित्रतरीकृतकायाम्।
महाश्वेतावर्णना ५२ ] चन्द्रकला-विद्योतिनीसहिता । ३६७
यौवनेनापि स्वकालोपसर्पिणा' निर्विकार-विनीतेने शिष्येणेवोपास्यमानाम्, लावण्येनापि कृतपुण्येनेव स्वच्छात्मना परिगृहीताम्, रूपेणापि रुचिरलोचनेन विगतचापलेन आयतनमृगेणेव निषेविताम्, उत्सङ्गगताञ्च स्वसुतामिव सूक्ष्म-शङ्ख-खण्डिकाङ्गुरीयक पूरिताङ्गु-लिना त्रिपुण्डूकावशिष्ट-भस्म-पाण्डुरेण प्रकोष्ठ-बद्ध-शङ्खखण्डकेन नख-मयूख-दन्तुरतया गृहीतदन्तकोणेनेव दन्तमयीं दक्षिणकरेण वीणामास्फालयन्तीम्, प्रत्यक्षीमिव गन्धर्वविद्याम्, मणिमण्डपिकास्तम्भलग्नाभिरात्मानुरूपाभिः सहचरीभिरिव सर्वाणाभिर्विलासवतीभिः प्रतिमाभिरुपेताम्, स्नपनार्द्र-लिङ्ग-संक्रान्त-प्रतिबिम्बतया अतिप्रबलभक्त्याराधितस्य हृदयमिव
यौवनेनेति । समुञ्चयार्थको ऽत्रापिः । स्वकाले उपयुक्तारवस्थायां स्वीयसेवावसरे च उपसर्पति आयातीति तेन, तथा निर्विकारं कामविकारशून्यं क्रोधादिविकारशून्यं च यथा स्यात्तथा विनीतेन शिष्टा-जनितविनयभावाद्वाहिना यौवनेन तारुण्येन, शिष्येणेव छात्रेणेव उपास्यमानाम् आश्रीयमाणां सेव्य-मानाञ्च । पूर्णोपमा ।
लावण्येनेति । कृतपुण्येन सुकृतिनेव विद्यमानेन स्वच्छात्मना निर्मलेन काममलरहितस्वरूपेण च लावण्येन परिगृहीताम् आश्रिताम् । इह 'कृतपुण्येनेव' इति पुण्यकरणोत्प्रेक्षणात् क्रियोत्प्रेक्षा ।
रूपेणेति । रुचिरे मनोहरे लोचने नयने यस्य यत्र च तेन, तथा विगतं दूरीभूतं चापलं प्राकृतिक-चाञ्चल्यं कामोद्रेगस्य यस्य यत्र च तेन, आयतनमृगेणेव तत्सिद्धायतनसारङ्गेणेव रूपेण सौन्दर्येण निषे-विताम् आश्रिताम् । पूर्णोपमा ।
उत्सङ्गेति । सूक्ष्माणाञ्च अल्पूलानां शङ्खखण्डिकानां कम्बुशकलानाम् अङ्गुलीयकैः अङ्गुलीभूषणैः पूरिता व्याप्ता अङ्गुलयः करशाखा यस्य तेन, त्रिपुण्डूकात् तन्नामकतिलकविधानात् अवशिष्टेन शेषेण भस्मना विभूतिना पाण्डुरेण श्वेतेन, तथा प्रकोष्ठे मणिबन्धदेशे बद्धो धृतः शङ्खखण्डं कम्बुकटको यस्य तेन, नखानां कररुहाणां मयूखैः किरणैः दन्तुरतया उन्नततया प्रसारितनखमयूखतयेत्यर्थः, कारणेन, गृहीतः आत्तः दन्तकोणः गजदन्तरचितवीणावादनसाधनं येन तथोक्तेनेव अवगम्यमानेन दक्षिणकरेण अपसव्यहस्तेन, उत्सङ्गगतां क्रोडस्थिताम्, दन्तमयीं गजदन्तालङ्कारबहुलां वीणां वल्लकीं स्वसुतां निजा-त्मजामिव आस्फालयन्तीं वादयन्तीं सप्रेम उत्थाप्योत्थाप्य लालयन्तीं च अत एव प्रत्यक्षाम् इन्द्रियगोचरां गन्धर्वविद्यां गानशास्त्रविद्यामिव स्थिताम् । 'कोणो वीणादिवादनम्' इत्यमरः ।
इह पूर्णोपमा-पदार्थहेतुककाव्यलिङ्गक्रियोत्प्रेक्षागुणोत्प्रेक्षाणां परस्परमङ्गाङ्गिभावसङ्करः । कम्बुम-याङ्गुरीयककटककाम्याञ्चैधव्यं प्रतीयत इति वस्तुना वस्तुध्वनिः ।
मनीति । मणिमण्डपिकारत्ननिर्मिता चतुकिका तस्याः स्तम्भेषु लग्नाभिः प्रतिबिम्बिताभिः, विला-सवतीभिर्विभ्रमशोभायुक्ताभिः सहचरीभिः सपर्याविधायिनीभिरिव विद्यमानाभिः सर्वाणाभिः सर्वङ्गीणीभिः प्रतिमाभिः आत्मप्रतिबिम्बैः उपेतां सहिताम् । श्रौतोपमा ।
स्नपनेति । स्नपनेन अभिषेकेण आर्दे क्लिन्ने लिङ्गे महेशप्रतिमायां सङ्क्रान्तं प्रविष्टं प्रतिबिम्बं प्रति-
रक्तवर्ण हो गया था। अपने समय पर उपस्थित और क्रोधादि-विकार-विहीन विनीत शिष्यके समान, उपयुक्त अवस्था में उपस्थित और कामविकार-विहीन वक्ष्य यौवनकाल आश्रय किया था। लावण्य भी, मानो पुण्योपार्जन करके ही इसका परिग्रह किया था। उस मन्दिर के हरिण के समान सुन्दर-नयन-सम्पन्न और चापल्यविहीन रूप भी, उसको सेवा करता था। और वह अपनी पुत्री के समान हस्तिदन्तभूषित एक वीणा उत्सङ्ग (गोद) में रखकर दक्षिणहस्तद्वारा बजा रही थी। उसके उस दक्षिणहस्त की अँगुलियों में सूक्ष्म शंख के टुकड़ों से बनी हुई अँगूठियाँ पहनी थीं, त्रिपुण्ड्र धारण करनेसे अवशिष्ट भस्म से वह दक्षिणहस्त शुभ्रवर्ण हो गया था। जिसके मणिबन्धप्रदेश (कलाई) पर शङ्खाभरण परिवेष्टित था, और जो नखकिरण फैलने से मानो हस्तिदन्त-निर्मित वीणा बजाने के साधन (मिजराब) से समन्वित दीखता था, जिससे वह प्रत्यक्ष गन्धर्व-विद्या के समान विद्यमान थी। मण्डप के मणिमय स्तम्भों में लीला-विलासमञ्जुल वीणा के साथ उसके शरीर के अनुरूप प्रतिबिम्ब पड़े हुए थे, वे उसके सहचरियों के समान देखने में आ रहे थे। स्नान करा देने के कारण आर्द्र शिवलिङ्ग में उसका प्रतिबिम्ब पड़ गया था, अत एव प्रतीत होता था कि मानो वह अति प्रबल-भक्तिसे आराधित शिव के हृदय में प्रविष्ट ही
१. यौवनेनादितेनोपसर्पिणा । २. निर्विकारेण विनीतेन, स्वकालोपसर्पिणिर्निर्विकारविनीतेन । ३. सेविताम् । ४. सूक्ष्मदण्डखण्डिकाङ्गुलीकपूरिताङ्गुलिना । ५. ०००पाण्डरेण । ६. सर्वाङ्गीणाभिः प्रतिमाभिः ।
३६८ | कादम्बरी- | [कथायाम्-
प्रविष्टां हरस्य, हारलतयेव^१ प्राप्तकण्ठयोगया ग्रहपङ्क्त्येव ध्रुवप्रतिबद्धया क्रुद्धयेव रक्तै^२-मुखव-र्णया मत्तयेव घूर्णित-मन्द^३-तारया उन्मत्तयेव अनेकै^४कृततालया मीमांसयेव अनेकभावनाव-विद्धया गीत्या देवं विरूपाक्षमुपवीणयन्तीम्^५, अतिमधुरगीतावकृष्टैर्ध्यानमिवाभ्यस्यद्भिर्निश्च-लकर्णपुटैर्मृग-वराह-वानर-वारण-शरभ-सिंहप्रभृतिभिर्वनचरैराबद्धमण्डलैराकर्ण्यमानगीतानु-विद्धविपञ्ची-घोषाम्, अमरापगामिव नभसोऽवतीर्णाम्, दीक्षितवाचमिवाप्राकृताम्,
हृदयं यस्यास्तस्या भावस्तया कारणेन, अतिप्रवलभक्त्या अत्युत्कृष्टाराधनेन आराधितस्य सेवितस्य हरस्य महेशस्य हृदयं चित्तं प्रविष्टां प्रवेशं कृतवतीमिव विद्यमानाम् । क्रियोत्प्रेक्षा ।
हरेति । हारलतयेव मुक्तामालयेव प्राप्तकण्ठयोगया लब्धगलसम्बन्धया, पक्षद्वयेऽपि तुल्यमिदम् । ग्रहाणां सूर्यादीनां पङ्क्त्या वीथ्येव, ध्रुवेण गानाङ्गविशेषेण प्रतिवद्धया नियमितया, पक्षे तु ध्रुवाभ्यां तत्संज्ञ-कतारकाभ्यां प्रतिवद्धया संयतया । गानाङ्गध्रुवस्वरूपमभिहितं सङ्गीतनारायणे—
'उत्तमः षट्पदः प्रोक्तो मध्यमः पञ्चमः स्मृतः।
कनिष्ठश्च चतुर्भिः स्याद् ध्रुवकोऽयं मयोदितः ॥'
ग्रहमण्डलस्य ध्रुवतद्द्वययोर्बन्धन-मभिहितं ज्योतिषे—
'भचक्रं ध्रुवयोध्बद्धमाक्षिप्तं प्रवहणानिलैः ।
पर्येट्यजस्रं तन्नद्धा ग्रहकक्षा यथाक्रमम् ॥'
क्रुद्धया कुपितया स्त्रिया योषित्तेव, रक्ताः श्रीरागादिसहिता मुखवर्णा वदनोच्चारितान्यक्षराणि यस्यां तया, पक्षे तु रक्तस्ताम्रो मुखवर्णो यस्यास्तया । मत्तया सुरादिपानाज्जातमदया स्त्रियेव, घूर्णितः मण्डपिकायां समन्तात्प्रसृतः मन्दो मृदुः तारो दीर्घश्च स्वरो यस्यास्तया, पक्षे तु घूर्णिते मदोद्रेकाच्चञ्चले मन्दे अलसे तारे कनीनिकायुगलं यस्यास्तया । उन्मत्तया उन्मादवायुग्रस्तया स्त्रियेव, अनेके बहवः कृताः विहिताः तालाः कालक्रियामानरूपाः करतलध्वनयश्च यस्यां यया च तया । मीमांसया जैमिनिकृत-पूर्वमीमांसा ( विचार ) शास्त्रेणेव, अनेकाभिः अनेकप्रकाराभिः भावनाभिर्मूच्छ्र्छनाभिः अनुविद्धया युष्टया, पक्षे-अनेकतया द्विपकारया भावनया भावयितुर्व्यापारेण तत्प्रतिपादनेनेत्यर्थः, अनुविद्धया स्यूतया । श्रीरागादिलक्षणमुक्तं संगीत रत्नाकारे । मीमांसाप्रसिद्धा भावना द्विविधा-शाब्दी आर्थी चात्र ज्ञेया । तथा च एवंभूतया गीत्या गानेन, विरूपाणि अग्निसूर्यचन्द्ररूपया वपुष्याणि अक्षीणि नयनानि यस्य तं तादृशं देवं महादेवम् उपवीणयन्तीं वल्लक्या उपगायन्तीम् । पूर्णा मालोपमा ।
अतिमधुरेति । अतिमधुरेण कर्णसुखदेन गीतेन गानेन अवकृष्टैराकृष्य प्रापितैः, निश्चलकर्णपुटैः स्तिमित-कर्णयुगलैः, अत एव ध्यानं चित्तवृत्तिनिरोधं अभ्यस्यद्भिः शिक्षमाणैरिव विद्यमानैः, आबद्धं रचितं मण्डलं वलयाकारेणावस्थानं यैस्तैः, मृगा हरिणाः वराहाः शूकराः वानरा गोलाङ्गूलाः कपर्यश्च वारणा हस्तिनः शरभाः सिंहघातिनोऽष्टपदा जन्तुविशेषाः, एते प्रभृतय आद्या येषां तैः, वनचरैः अरण्यचारिभिः आकर्ण्यमानः श्रूयमाणः गीतानुविद्धः गानसंयुक्तः विपञ्चीघोषः सप्ततन्त्रीयुक्तवीणा निनादो यस्यास्ताम् । क्रियोत्प्रेक्षा ।
अमरेति । नभसः आकाशात् अवतीर्णाम् आगताम् अमरापगां मन्दाकिनीमिव विद्यमानाम् । द्रव्योत्प्रेक्षा ।
दीक्षितेति । दीक्षितस्य यागादौ नियमिनः वाचं वाक्यमिव, अप्राकृताम् अमर्त्यां दिव्याम्, पक्षे तु-
गई थी । वीणाध्वनिके साथ-साथ वह शङ्करकी स्तुतिका गान करती थी, वह गान मुक्तामय हारके समान उसके कण्ठमें संलग्न था, ग्रहपंक्ति जिस प्रकार ध्रुव नक्षत्र (तारा) संयुक्त रहती है, वह गान भी उसी प्रकार गानाङ्गध्रुव-लक्षणसे युक्त था एवं कुपित सुन्दरीके मुखका रङ्ग जिसप्रकार रक्तवर्ण होता है, उस गानमें भी उसी प्रकार मुखसे नानाविध राग-रागिणीयुक्त अक्षर उच्चारित होते थे; मदसे उन्मत्त सुन्दरी की जिसप्रकार नयनकी तारा अलस होकर घूमती रहती है, उस गानके स्वर भी उसीप्रकार कभी मन्द कभी तार होकर मण्डपिका मध्यमें विचरण करते रहते थे; उन्मत्त सुन्दरी जिसप्रकार बहुत करतल-ध्वनि करती है, उस गानमें भी उसी प्रकार बहुत ताल किये जाते थे; एवं जैमिनीप्रणीत मीमांसादर्शन जिसप्रकार शाब्दी और आर्थी नामकी द्विविध भावनासे युक्त है, वह गान भी उसीप्रकार बहुत मूर्च्छना-युक्त था। अत्यन्त मधुर गानसे आकृष्ट होकर हरिण, शूकर, वानर, हाथी, शरभ, सिंह आदि वनचर पशुगण निश्चल कर्णपुटसे मण्डल बांधकर उसके गानके साथ-साथ वीणाकी ध्वनि सुनते थे, इससे प्रतीत होता था कि मानो वे भी ध्यानका अभ्यास कर रहे हैं। और वह कन्या आकाशमें उतरी मन्दाकिनीके समान देखनेमें आती थी; यज्ञमें दीक्षित व्यक्ति जिसप्रकार प्राकृतभाषा नहीं
१. हारलेखयेव । २. रागरक्तः.... । ३. ...'पूर्णितमन्द्र'... । ४. उन्मत्तयानेक... । ५. उपवर्जयन्तीम ।
महाश्वेतावर्णना ५२ ] चन्द्रकला-विद्योतिनीसहिता । ३६६
त्रिपुरारिशरशलाकामिव तेजोमयीम्, पीतामृतामिव विगततृष्णाम्, ईशानशिरःशशिकलामिवानुपजातरागाम्, अमथितोदधिसलैलसम्पदमिवान्तःप्रसन्नाम्, असमस्तपदवृत्तिमिवाद्दन्दाम्, बौद्धबुद्धिमिव निरालम्बनाम् , वैदेहीमिव प्राप्तज्योतिःप्रवेशाम् , द्यूतकलाकुशलामिव वशी-
प्राकृतादिभाषातिरिक्तां संस्कृतात्मिकामित्यर्थः । तथा चात्र 'नापभाषितवै न म्लेच्छितवै, म्लेच्छो ह्येष यदपशब्द' इत्यादिशास्त्रेण दीक्षितस्यापभ्रंशभाषाव्यवहारनिषेधादित्याशयः ।
त्रिपुरेति । त्रिपुरारेर्महादेवस्य शरशलाकां त्रिपुरासुरहननसमये नारायणरूपां बाणशलाकामिव तेजोमयीं तेजोबहुलाम् ।
पीतेति । पीतमास्वादितम् अमृतं पीयूषं यया तां स्त्रियमिव, विगता नष्टा तृष्णा विषयलोभः सलिलपानेच्छा च यस्यास्ताम् ।
ईशानेति । ईशानस्य महेश्वरस्य शिरसः उत्तमाङ्गस्य शशिकलां चन्द्रकलामिव, अनुपजातः अनुत्पन्नः रागः कामानुरागो लौहित्यं च यस्यास्ताम् । तच्चन्द्रकलायाः प्रतिदिनमुदयास्तमनयोरभावादेव रक्तिमा नोत्पद्यत इत्यवधेयम् ।
अमथितेति । अमथितस्य अवलोडितस्य उदधेः सागरस्य जलसम्पदमिव सलिलसम्पत्तिमिव, अन्तःप्रसन्नां हृदये शुद्धां कामादिविकारशून्यहृदयामित्यर्थः, अन्यत्र तु अभ्यन्तराकलुषिताम् , मन्थने सति तस्मिञ्छाविलता सम्पद्यत इत्याशयः ।
असमस्तेति । असमस्तानि समासवर्जीतानि यानि पदानि सुबन्तरूपाणि तेषां वृत्तिमवस्थितिमिव, अद्वन्द्वां शीतोष्णसुख-दुःखादिद्वन्द्वानुभववर्जितामित्यर्थः, अन्यत्र तु द्वन्द्वसंज्ञकसमासवजितां युगल-संयुक्तवर्जितां वा ।
बौद्धेति । बौद्धानां माध्यमिकयोगाचारसौत्रान्तिकवैभाषिकासाम्प्रदायिकानामित्यर्थः, बुद्धिं ज्ञानमिव, निरालम्बनां सर्वत्रैवासक्तिवर्जिताम् , अन्यत्र तु निराश्रयाम् । माध्यमिकादयश्चत्वारो बौद्धाः तेषु योगाचारः विज्ञानातिरिक्तं पदार्थं न मन्यते, प्रतिपादयति च तत्तज्ज्ञानमेव घटादिरूपेण भासते, भेदस्तु भ्रान्तिवशादेवेति । तथा चोक्तं तैः-
'सहोपलम्भनियमादभेदो नीलतद्धियोः ।
अन्यच्चेत् संविदो नीलं न तद्भासेत संविदि ॥
भासेत चेत् कुतः सर्वं न भासेतैकसंविदि ।
नियामकं न संबन्धं पश्यामो नीलतद्धियोः ॥' इत्यादि
वैदेहीति । वैदेहीं मैथिलीमिव, प्राप्त आसादितो ज्योतिषि परमात्मनि प्रवेशो ध्यानगोचरता यथा ताम् अन्यत्र तु प्राप्तो ज्योतिषि सतीत्वनिर्णयार्थं प्रदीप्ताग्नौ प्रवेशो यया ताम् ।
द्यूतेति । द्यूतकलायां दुरोदरक्रीडायां कुशलां दक्षां स्त्रियमिव, वशीकृतानि स्वायत्तीकृतानि अक्षाणि इन्द्रियाणि हृदयं मनश्च यया ताम् , अन्यत्र तु वशीकृतम् अक्षहृदयं दुरोदरविद्यामर्म यया ताम् ।
बोलने हैं, वह कन्या भी उसीप्रकार प्राकृत मनुष्य (अदिव्य) नहीं थी, त्रिपुरासुरवधके समयमें शङ्कर के बाणशलाकाके समान वह भी तेजोमयी थी; अमृत-पान करनेवालीको जिसप्रकार पिपासा नहीं रहती है, उसको भी उसीप्रकार विषय-लालसा नहीं थी; शङ्करके मस्तकस्थित चन्द्रकलामें जिसप्रकार राग (रक्तिमा) उत्पन्न नहीं होती है, उनमें भी उसीप्रकार राग (काम आदिका अनुराग) उत्पन्न नहीं हुआ था; अमथित समुद्रजलके अन्दर निर्मलता रहती है, उसके अन्तःकरणमें भी उसीप्रकार मन्मथ-विकार न होनेसे निर्मलता (प्रसन्नता) विद्यमान थी; समासविहीन पदसमूहका जिसप्रकार परस्पर मिलन नहीं रहता है, उसमें भी उसीप्रकार शीतोष्णादिद्वन्द्व दुःख नहीं थे; बौद्धों (माध्यमिक-योगाचारादि साम्प्रदायिकों) के मनमें ज्ञानका जिसप्रकार विषय नहीं है (अर्थात् विज्ञानसे अतिरिक्त पदार्थ वे नहीं मानते हैं उनका कहना है कि ज्ञान ही व्यष्टिरूपसे भासित होता है भेद-प्रतीति भ्रान्ति है) उसीप्रकार उसमें भी आसक्ति नहीं थी; जानकीजीने जिसप्रकार अग्निमें प्रवेश किया था, उसने भी उसीप्रकार परब्रह्ममें प्रवेश किया था; द्यूतक्रीडामें निपुण स्त्रियां जिसप्रकार पाशकविद्या-रहस्यको स्वाधीन
१. तपोमयीम् । २. ॰॰॰दधितन्वदम् ।
४८० | कादम्बरी- | [ कथायाम्-
कृताक्षहृदयाम्, महीमिव जलभृतदेहाम्, हिमसमयदिवस¹-मुखलक्ष्मीमिव परिगृहीत²-भास्क- रातपाम्, आर्यामिव समुपात्त³-यतिगणोचितमात्राम्, आलिखितामिवाचलावस्थानाम्, अंशुमयीमिव तच्छायोपलिप्तभूतलाम्, निर्ममाम्⁴, निरहङ्काराम्, निर्मत्सराम्, अमा- नुषाकृतिम्, दिव्यत्वादपरिज्ञायमान-वयःपरिमाणाम्⁵ अप्यष्टादशवर्षदेशीया मिवोपलक्ष्यमा- णाम्, प्रतिपन्नपाशुपतव्रतां⁶ कन्यकां ददर्श । ततोऽवतीर्य तरुशाखायां बद्ध्वा तुरङ्गम्⁷ उपसृत्य भगवते भक्त्या⁸ प्रणम्य त्रिलोच-
महीमिति । महीं भूमिमिव, जलेन केवलसलिलपानेन भृतः देहः शरीरं यया ताम्, पक्षे तु जलेन भृतो वेष्टितो देहो यस्यास्ताम् ।
हिमेति । हिमसमयो माघफाल्गुनामऋतुहिनपतनकालः तस्य दिवसमुखलक्ष्मीमिव प्रभातश्रिय-मिव, परिगृहीतः पञ्चाग्निसाधनात् देहेऽङ्गीकृतः भास्करातपः सूर्यालोको यया ताम्, पक्षे—परिगृहीतः हिमैर्निबद्धः भास्करातपो यया ताम् ।
आर्यामिति । आर्या स्वनाम्ना प्रख्यातं छन्दोविशेष इव, समुपात्ता स्वीकृता यतिगणस्य वश्येन्द्रिय-पुरुषवर्गस्य तपस्विगणस्येत्यर्थः, उचिता योग्या मात्रा दण्डकमण्डल्वादिसामग्री यया ताम्, पक्षे—समु-पात्ता स्वीकृता यतिर्जिह्वाविश्रामस्थानम्, गण-मगणनगणभगणप्रभृतयः, उचिता योग्या तत्तत्स्वरूप-प्रतिपादिता मात्रा उच्चारणसमयश्च यया ताम् । आर्यालक्षणन्तु श्रुतबोधे—
'यस्याः पादे प्रथमे द्वादशमात्रास्तथा तृतीयेऽपि । अष्टादश द्वितीये चतुर्थके पञ्चदश सार्या ॥'
आलीति । आलिखितां चित्रितामिव, अचले शैले अवस्थानं स्थितिः यस्यास्ताम्, पक्षे—अचलं निश्चलम् अवस्थानं यस्यास्ताम् ।
अंश्विति । अंशुमयीं तेजोमयीं देवीमिव, तनुच्छायया शरीरस्य प्रतिविम्बेन दीप्त्या च अनुलिप्तम् आच्छादितं भूतलं पृथिवीतलं यया ताम् ।
इह 'दीक्षितवाचमिव' इत्यारभ्य 'अंशुमयीमिव' इत्यन्तं सर्वत्र पूर्णोपमालङ्कारः ।
निर्ममामिति । ममावार्थे 'मम' पदमिदमव्ययः, निर्मलां ममत्ववर्जिताम्, निरहङ्कारां निरभिमानाम्, निर्मत्सराम् अन्यशुभद्वेषरहिताम्, अमानुषाकृतिं दिव्यस्वरूपाम्, दिव्यत्वाद् गन्धर्वपुत्रीत्वेन निर्जरा-मित्यर्थः, अपरिज्ञायमानं मनुष्यत्वास्वरूपावलोकनमात्रेणानिश्चीयमानं वयसः अवस्थायाः परिमाणं मानं यस्यास्तामपि, अष्टादशवर्षदेशीयामिव अष्टादशवयस ईषन्न्यूनवयोधामिव, 'ईषदसमाप्तौ कल्पब्देश्य-देशीयरः' इति पा० सूत्रेण 'अष्टादशवर्ष' शब्दाद्देशीयरप्रत्ययः । प्रतिपन्नं गृहीतं पशुपतिः महेशो देवता अस्येति पाशुपतं व्रतं महेशार्चनारूपो नियमो यया ताम् ।
तत इति । ततः कन्यादर्शनानन्तरम् अवतीर्य अश्वःदवनरणं विधाय तरुशाखायां वृक्षशाखायां तुरङ्गमम् इन्द्रायुधमश्वं बद्ध्वा बन्धनं कृत्वा उपसृत्य समीपमेत्य भक्त्या श्रद्धया भगवते ऐश्वर्यशालिने
करके रहती है, उसने भी उसीप्रकार इन्द्रियसामूह और चित्तको वशमें कर रखा था. पृथिवी जिसप्रकार जलसे परिवेष्टित शरीरवाली है, वह भी उसीप्रकार केवल जल-पानेने शरीर-धारण की थी; शीतकालके प्रभातकालकी शोभा जिसप्रकार हिमद्वारा सूर्यके आलोकको आच्छादित करता है ( जाड़ेके दिनोंमें प्रातःकाल हिमावृत होनेसे धूप नहीं दीखती है ) उसने भी उसीप्रकार पञ्चाग्नितपन्तसे शरीरमें सूर्यालोकको धारण किया था; आर्याच्छन्दमें जिसप्रकार यति ( विश्राम ) और गण उपयुक्त मात्राके अनुसार होते हैं, उसके भी उसी प्रकार मुनिगण के उपयुक्त दण्ड और कमण्डलु-प्रभृति उपकरण थे; चित्रित प्रतिमूर्त्ति जिसप्रकार निश्चल-भावसे स्थित रहती है, वह भी उसीप्रकार पर्वतपर स्थित रहती थी; तेजोमयी देवी जिसप्रकार शरीरकी कान्तिद्वारा भूतलको लिप्त ( रंग ) करती है, वह भी उसीप्रकार शरीरके प्रतिविम्बद्वारा भूतलको लिप्त करती थी, वह ममत्व, अहङ्कार और मत्सर ( अन्यशुभद्वेष ) रहित थी; उसका आकार अलौकिक था और दिव्य स्वरूपके कारण उसके वयका अनुमान यथार्थरूपमें नहीं हो सकता था तो भी वह मानो अठारह वर्षसे कुछ न्यूनवयस्कावत् प्रतीत होती थी ।
तदनन्तर चन्द्रापीडने घोड़ेसे उतरकर किसी वृक्षकी शाखा ( डाली ) में घोड़े को बांध, भगवान् महादेवके_
१. ॰॰॰दिन॰॰॰ । २. परिपीत॰॰॰ । ३. उपात्त॰॰॰ । ४. निर्मन्ताम् । ५. ॰॰॰ प्रमाणाम् । ६. व्रतां च । ७. तुरगम् । ८. महाभक्त्या ।
चन्द्रापीडमनोभाववर्णना ५३ ] चन्द्रकला-विद्योतिनोसहिता ४०१
नायं१, तामेव दिव्ययोषितमनिमिषे२-पक्ष्मणा निश्चल-निबद्धलक्ष्येण चक्षुषा पुनर्निंरूपयामास। उदपादि चास्य तस्या रूपसम्पदा कान्त्या प्रशान्त्या चाविर्भूत विस्मयस्य मनसि३- 'अहो ! जगति जन्तूनामसमर्थितोपनतान्यापतन्ति वृत्तान्तराणि । तथाहि, मया मृगयायां यदृच्छया निरर्थकमनुबध्नता तुरङ्गममुख४-मिथुनम् , अयमतिमनोहरो मानवानाम्गम्यो दिव्यजनसञ्चरणोचितः प्रदेशो वीक्षितः५ । अत्र च सलिलमन्वेषमाणेण हृदयहारि सिद्धजनोपस्पृष्टजलं६ सरॊ दृष्टम् । तत्तीरलेखाविश्रान्तेन चामानुषं गीतमाकर्णितम् । तच्चानुसरता मानुषदुर्लभदर्शना दिव्यकन्यकेयमालोकिता । नहि मे संशीतिरस्या दिव्यतां प्रति, आकृतिरेवानुमापयत्यमानुषताम् , कुतश्च मर्त्यलोके सम्भूतिरेवंविधानां गन्धर्व्व-ध्वनिविशेषाणाम्७ । 'तद् यदि मे सहसा दर्शन-
त्रिलोचनाय महेशाय प्रणम्य नमस्कृत्य, तामेव पूर्व्वव्यावर्णितस्वरुपामेव दिव्ययोषितं स्वर्गीयस्त्रियम, अनिमिषपक्ष्मणा निस्पन्दनेत्रलोम्ना निश्चलं स्थिरं यथा स्यात्तथा नियद्धं विहितं लक्ष्यं दृष्टियेंन तेन चक्षुषा लोचनेन पुनर्मण्डपिकाप्रवेशानन्तरं निरुपयामास साक्ष्येण ददर्शत्यर्थः ।
उदपादीति । किञ्चेति चार्थः । रूपसम्पदा सौन्दर्याधिक्येन, कान्त्या शरीरदीप्त्या, प्रशान्त्या प्रशमेन च करणेन, आविर्भूतः प्रकटीभूतः विस्मय आश्चर्यं यस्य तस्य, अस्य चन्द्रापीडस्य मनसि चित्ते उदपादि इयं वृत्तिः सञ्जाता ।
ननु सा वृत्तिः केत्यत आह—'अहो' इति । जगति संसारे जन्तूनां जीवानाम्, वृत्तान्तान्तराणि व्यापारविशेषाः असमर्थितोपनतानि अतर्कितप्राप्तानि सन्ति आपतन्ति चित्ते आयान्ति अनुभवविषयीभवन्तीत्यर्थः ।
प्रतिपादितविषयं समर्थयति—तथाहीत्यादिना । मया चन्द्रापीडेन मृगयायाम् आखेटकवृत्तौ यदृच्छया स्वेच्छया अनुबध्नता अनुगच्छता तुरङ्गममुखमिथुनं किन्नरयुग्मम्, अतिमनोहरः अतिसुन्दरः मानवानां मनुष्याणाम् अगम्यः अगोचरः दिव्यजनानां विद्याधरादीनां सञ्चरणं विचरणं तत्रोचितो योग्यः अयं पुरोऽवलोक्यमानः प्रदेशो भूभागो वीक्षितः अवलोकितः ।
अत्रेति । अत्र अस्मिन् प्रदेशे सलिलं जलम् अन्वेषमाणेन मृगयता मया हृदयहारि मनोहरम्, सिद्धजनैः देवयोनिविशेषैः तपस्पृष्टं सेवितं जलं यस्य तत्, सरः अच्छोदसरोवरः दृष्टम् अवलोकितम् । तस्य सरसः तीरलेखायां तटपङ्क्तौ विश्रान्तेन कृतविश्रामेण मयेश्यन्वयः, अमानुषं दिव्यं गीतं गानम् आकर्णितं श्रुतम् । तद् गीतम् अनुसरता अनुव्रजता मानुषाणां मानवानां दुर्लभदर्शना दुष्प्रापावलोकना इयं दृश्यमाना दिव्यकन्यका स्वर्गीयपुत्री आलोकिता वीक्षिता ।
ननु दिव्यकन्यकेयमिति कथं निर्णीयत इत्यत आह—नहीति । अस्या अवलोक्यमानायाः कन्यकाया दिव्यतां प्रति स्वर्गीयताविषये मे मम नहि संशीतिः नास्ति सन्देहः, आकृतिः आकार एव अमानुषतां देवरूपताम् अनुमापयति अनुमिति जनयति, न खलु मानुषीणामेवमाकारो भवतीत्याशयः । कारणान्तरमाह—कुत इति । एवंविधानाम् एतादृशानां गन्धर्वाणां देवगायकानां ध्वनेर्नादस्य विशेषाणां
निकट जाकर भक्तिपूर्वक प्रणाम किया और उस दिव्य तरुणीको टकटकी बांधकर निश्चल दृष्टिसे वह पुनः देखने लगा । उसका शारीरिक अलौकिक सौन्दर्य, कान्ति और शान्तिसे चन्द्रापीडको विस्मय उत्पन्न हुआ एवं मनसे वह विचारने लगा—अहो ! संसारमें प्राणियोंके समक्ष विशेष घटना अतर्कित रूपसे ( बिना विचारे ) ही उपस्थित हो जाती हैं, क्योंकि - मैने अपनी इच्छाके अनुसार मृगया (शिकार) में आया, निरर्थक किन्नर-मिथुनका अनुसरण किया और यह अत्यन्त मनोहर, मनुष्योंके पहुँचनेसे बाहर, दिव्य-पुरुषोंके भ्रमण करने योग्य प्रदेश देखा। फिर वहां जलका अन्वेषण करते-करते सिद्धगण जिसके जलका उपयोग करते हैं ऐसा मनोहर सरोवर देखा। उसके तीर पर विश्राम करते-करते दिव्य गान सुना और उसका अनुसरण करनेसे मनुष्योंको दुर्लभ दर्शनवाली इस दिव्य कन्याको देखा । इसकी दिव्यताके विषयमें मुझे थोड़ा भी किसीप्रकारका संशय नहीं है, क्योंकि—इसकी आकृति ही दिव्यता प्रकट करती है । विशेषतः मर्त्यलोकमें इस प्रकार गन्धर्व्वगीत-ध्वनिका सम्भव कैसे हो सकता है ? अत एव यदि यह सहसा ही मेरे दृष्टिथसे अन्तर्धान न हो जाय,
१. पार्व्वतीयतये ।
२. अनिमेष॰ ।
३. विस्मयमनसि, मनसि वितर्कः ।
४. तुरगमुख॰ ।
५. वीक्षितः क्षितः ।
६. ॰उपस्पृष्टजलं ।
७. विधानां गान्धर्व्वध्वनिविशेषाणां च ।