कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
| ४२४ | कादम्बरी- | [ कथायाम्- |
|---|
मुनिमायामयो मकरकेतुरुत्पादितः। मन्ये च सकलजगन्नयनआनन्दकरं शशिबिम्बं विरचयता लक्ष्मी-लीलावासभवनानि कमलानि सृजता प्रजापतिना एतदाननाकार-करणकौशलाभ्यास एव कृतः, अन्यथा किमिव हि सदृशवस्तुविरचनायै कारणम्। अलीकञ्चेदं यथा किल सकलाः कलाः कलावतो बहुलपक्षे क्षीयमाणस्य सुषुम्नन्नाम्ना रश्मिना रविरापिवतीति, ताः खल्वस्य गभस्तयः समस्ता वपुरिदमाविशन्तीति, कुतोऽन्यथा रूपापहारिणि क्लेशबहुले तपसि वर्त्तमानस्येदं लावण्यम्। इति चिन्तयन्तीमेवं मामविचारितगुणदोषविशेषो रूपैकपक्ष-
वेषधारीत्यर्थः, अयं पुरोऽवलोक्यमानः कुमारः, अपरो मकरकेतुः द्वितीयः कामः कृत्वा उत्पादितो जनितः विधात्रेति शेषः। सृष्टिकर्तुः तत्साधनभाण्डागारस्य क्षयिष्णुत्वे तदेकमकरकेतुनिष्पादनेनैव तत्क्षयात्पुनरस्य तथाविधभावेन निष्पादनासम्भव इत्याशयः। मुनिमायामय इत्यत्र प्रकृतं प्रतिषिध्यान्यस्थापनादपह्नुतिः।
मन्य इति। किञ्चेति चार्थः। प्रथमं सकलजगतः समग्रसंसारस्य नयनानन्दकरं प्रमोदजनकं शशिबिम्बं चन्द्रमण्डलं विरचयता निर्माणं कुर्वता, तथा लक्ष्म्याः पद्मा याः लीलया क्रीडया वासस्य वसतेः भवनानि आधाररूपाणि कमलानि पङ्कजानि सृजता सृष्टिं विदधता प्रजापतिना ब्रह्मणा, एतस्य मुनिकुमारकस्य आननाकारस्य मुखाकृतेः करणकौशलस्य रचनापयोगिनैपुण्यस्य अभ्यासः पौनःपुन्येन प्रवृत्तिरेव (शिक्षैव) कृतो विहितः, इति मन्य इत्यर्थः। अन्योऽपि रमणीयं वस्तुविशेषं रचयितुं प्रथमं तद्रूपान्यवस्तुराचनया तत्कौशलं शिक्षते। इह 'मन्ये' शब्दप्रयोगाद्वाच्या क्रियोत्प्रेक्षा, तेन च शशितः पद्माच्च मुनिकुमारमुखस्यात्यन्तरमणीयत्वोधनेन व्यतिरेकोऽवगम्यत इत्यलंकारेणालङ्कारध्वनिः।
नन्विदं कथं प्रतीयत इत्यत आह-अन्यथेति । अन्यथा उक्तवैपरीत्ये, सदृशवस्तुविरचनायाः समानपदार्थनिर्माणस्य, किमिव कारणं नियामकम् ।
अलीकमिति। अपि चेति चार्थः। रविः सूर्यः सुषुम्ननाम्ना सुषुम्नासंज्ञकेन रश्मिना निजकिरणविशेषेण, बहुलपक्षे कृष्णपक्षे क्षीयमाणस्य कृशतां प्राप्यमाणस्य कलावतश्चन्द्रस्य सकलाः समग्राः कलाः षोडशांशाः आपिबति पानं करोति इति इदं पुराणवचनम् अलीकम् असत्यम्। तथा च विष्णुपुराणम्—
'सूर्य्यरश्मिः सुषुम्नो यस्तर्पितस्तेन चन्द्रमाः। कृष्णपक्षेऽमरैः सार्धं पीयते वै सुधामयः ॥'
इहालीकत्वसम्बन्धाभावेऽपि तत्सम्बन्धप्रतिपादनादतिशयोक्तिः।
अथैवं परमार्थतः किं नाम सत्यमित्यत आह—ता इति । अस्य चन्द्रस्य खलु निश्चयेन ताः कलाः समस्ता गमस्तयो रश्मयश्च इदम् अवलोक्यमानं वपुः मुनिकुमारकंशरीरम् आविशन्ति प्रजापतेरिच्छया प्रविशन्ति, इत्येवं सत्यमित्याशयः।
इहापि शशिकला रश्मीनां तच्छरीरे प्रवेशसम्बन्धाभावेऽपि तत्सम्बन्धप्रतिपादनादतिशयोक्तिः।
नन्वेवं कथमवगम्यत इत्यत आह—कुत इति। अन्यथा शशिनः कलानां रश्मीनाञ्चाप्रवेशे रूपापहारिणि क्लेशातिशयात् सौन्दर्यविघातके तपसि तपस्यायां वर्त्तमानस्य स्थितस्य इदं लावण्यं सर्वोत्कृष्टसौन्दर्यं कुतः स्यात् कुतोऽपि नेत्यर्थः, कारणव्यतिरेकेण कार्यानुदयादित्याशयः।
इतीति । इति चिन्तयन्तीमेव इति ध्यायन्तीमेव मां महाश्वेतां न विचारितो नालोचितो गुणदोषयोः विशेषो वैषम्यं येन सः, अनेनस्मिन् ममासक्तौ दोष एवासोदित्यवगम्यते। रूपैकपक्षपाती सौन्दर्ये
(सौन्दर्यशाली) मुनिवेषधारी यह एक दूसरा कामदेव बनाया। मुझे प्रतीत होता है कि ब्रह्माने समस्त जगत्के नयनोंको आनन्द देनेवाले चन्द्रमण्डलको, एवं लक्ष्मीके लीलागृह कमलोंको उत्पन्न करके इस कुमारकी मुखाकृति निर्माण करनेमें दक्ष होनेके लिए पहले अभ्यास किया था; नहीं तो एक तरहकी अनेक वस्तुके निर्माण करनेका क्या कारण ? फिर यह पौराणिक प्रवाद भी मिथ्या है कि—'सूर्यदेव स्वकीय सुषुम्ननामक रश्मिद्वारा कृष्णपक्षके क्षीयमाण चन्द्रकी समस्त कलाओंका पान करता है;' चन्द्रकी वे कलाएँ और किरणसमूह तो सचमुच इसके ही शरीरमें प्रवेश करते हैं; नहीं तो सौन्दर्यका हरण करते—क्लेशते परिपूर्ण तप करनेवालेका इस प्रकारका लावण्य कैसे हो सकता है ? यों मैं चिन्तन करती थी कि, इतनेमें गुण-दोषका वैषम्य न देख, केवल सौन्दर्यका ही
१. मुनिर्मायामयः। २. ब्रह्मणा, प्रथममे। ३. विरचनायां । ४. अभूष्य ।.. ५. सुषुम्ना । ६. विचिन्तयन्तीमेव ।
पुण्ड० अवने० महाश्वेतादशावर्ण० ६० ] चन्द्रकला-विद्योतिनीसहिता । ४२५
पापी नवयौवनसुलभः कुसुमायुधः कुसुमासव-मद इव मधुकरों परवशामकरोत् । उच्छ्वसितैः सह विस्मृतनिमेषेण किञ्चिदामुकुलितपक्ष्मणा जिह्मित-तरल-तर-तार-शा-रोदरेण दक्षिणेन चक्षुषा मस्पृहमापिबन्तीव, किमपि याचमानेव, 'त्वदायत्तास्मि' इति वदन्तीव, अभिमुखं हृदयमर्पयन्तीव, सर्वात्मनानुप्रविशन्तीव, तन्मयतामिव गन्तुमीहमाना, 'मनोभवाभिभूतां त्रायस्व' इति शरणमिवोपयान्ती, 'देहि मे हृदयेऽवकाशम्' इत्यर्थितामिव दर्शयन्ती, 'हा हा किमिदमसाम्प्रतमतिहेपणमकुलकुमारीजनोचितमिदं मया प्रस्तुतम्' इति जानानाप्यप्रभवन्ती करपानाम्, स्तम्भितेव, लिखितेव, उत्कीर्णेव, संयतेव, मूर्च्छितेव, केनापि³
पञ्चमात्रावदभ्र्दी नवयौवनसुलभः प्रत्यग्रतारुण्यसुलभः कुसुमायुधः कामः, कुसुमासवमदः पुष्परसपानजनितमदमत्तां मधुकरों भ्रमरीमिव, परवशां पराधीनामकरोत् व्यदधात् । इहोपमा । तथा कुसुमासवमदो भ्रमरों पराधीनां करोति, इत्यत्र हि कालभेदादप्रनप्रक्रमनादोषः समापतति, स च कुसुमासवमदो मधुकरों यथा करोति, तथा परवशां मामकरोदिति पाठेन समाधेय इति कुशला वदन्ति ।
उच्छ्वसितैरिति । उच्छ्वसितैः निश्वासमारुतैः सह विस्मृतो विस्मरणं प्राप्तो निमेषो निमीलनं येन तेन, कामवेगाद्विस्मयवशादवरुद्धश्वासप्रशमानां निर्निमेषेणेत्यर्थः, किञ्चिदामुकुलितानि ईषद्सङ्कुटितानि पद्मानि रोमाणि यस्य तेन, लाजिह्मिते किञ्चित्कुटिलीकृते तरलतरे नितान्तचपले तारे कनीनिके यस्य तच्च तद् शारोदरं विचित्रमध्यभागञ्चेति तनेन तादृशेन, दक्षिणेन अपसव्येन चक्षुषा नयनेन सस्पृहं साभिलाषं यथा स्यात्तथा आपिबन्तीव अत्यादरेणावलोकयन्तीव, किमपि अनिर्वचनीयस्वरूपं याचमानेव प्रार्थयमानेव, 'त्वदायत्ता त्वदधीना अस्मि' इति वदन्तीव, ब्रुवन्तीव, अभिमुखं तत्सम्मुखं हृदयं चित्तम् अर्पयन्तीव निक्षिपन्तीव, सर्वात्मना सर्वप्रयत्नेन अनुप्रविशन्तीव तच्चित्तं प्रविशन्तीव, तन्मयतां तत्साद्दश्यं गन्तुं प्राप्तुम् ईहमाना चेष्टमानेव, 'मनोभवेन कामेन अभिभूतां पराभूतां त्रायस्व पाहि' इति हेतोः शरणं त्राणम् उपयान्तीव गच्छन्तीव, 'हृदये स्वस्य चित्ते मे मम अवकाशं स्थानं देहि' इति अर्थितां याचकत्वं दर्शयन्तीव प्रकाशयन्तीव, 'हा' इति खेदे किमिदम् असाम्प्रतं झटित्येव सम्मेलनोद्योगादयुक्तम्, अतिहेपणं झटित्येव तयाभावादात्यन्तलज्जाकरम्, कुलकुमारीजनस्य वंशोद्भवकन्यकावर्गस्य उचितं योग्यं न भवतीति अकुलकुमारीजनोचितं कुलकन्यासु सर्वथा नोचितमित्याशयः, इदम् एतादृशं कर्म मया महाश्वेतया प्रस्तुतम् आरब्धम्' इति पूर्वं जानानापि बुध्यमानापि करणानां लोचनादीनामिन्द्रियाणाम् अप्रभवन्ती असमर्था सती लोचनादीनीन्द्रियाणि निरोद्धुमसमर्थवती सतीत्यर्थः, तमविचिरं व्यलोकयमिति सम्बन्धः । इह प्रतिवाक्ये एव वाच्या क्रियोत्प्रेक्षा ।
अथान्यान्यपि तत्समयोत्पन्नानि स्वविशेषणानि प्रतिपाद्यति—लम्भितेवेति । स्तम्भितेव जडीकृतेव, लिखितेव चित्रितेव, उत्कीर्णेव काष्ठे प्रस्तरं वा मन्तश्चर प्रकटितेव संयतेव, बद्धेव, मूर्च्छितेव मूर्च्छया चेतणारहितेव, तया केनापि अनिर्वचनीयपुटपेग विघृतेव गृहीतेव सती, निष्पन्दानि चेष्टा-
पन्नन कर, नवयौवनसुलभ उस कामने, वसन्तसुन्दका मधुजनजनित मद जिस प्रकार भ्रमरीको पराधीन कर देता है उसी प्रकार मुझे अपने अधीन कर दिया ।
उस समय मेरे श्वास-प्रश्वास नहीं चलते थे, एवं में निमेष रहित कुछ कुछ नीची हुई, टेढ़ी और अनिर्वचल पुतलो से मध्यदेश विचित्र हुई दाई आँखके द्वारा अभिलाषा के साथ (तृष्णासे) उसका मानो पान करतो थी । इन रूपमें—मैं मानो, कुछ प्रार्थना करती (मांगती) थी, 'मैं तेरे अधीन हूँ' इस प्रकार मानो कहती थी, उसके सामने मानो हृदय-समर्पण करती थी, सर्वप्रयत्नसे उसके हृदयमें मानो प्रवेश करती थी, तन्मयता लाभ करनेके लिए मानो चेष्टा करती थी, 'कामोत्पीड़िता सुन्दरी की रक्षा करो' इस प्रकार कहकर मानो रक्षाके निमित्त शरणागत होती थी, 'तुम अपने हृदयमें मुझे एक स्थान दो' इस प्रकार कहकर मानो याचकभाव जनाती थी । हाय ! हाय ! मैने क्या अन्याय आचरण आरम्भ कर, यह अत्यन्त लज्जाजनक, कुलीनकुमारियोंके पक्षमे विशेषतः अनुचित किया ! ऐसा समझती भी मैं इन्द्रियोंको दमन करनेमें समर्थ नहीं हो सकी । उस समय मैं मानो स्तम्भित (स्तब्ध) के समान, चित्रितके समान, उत्कीर्ण (उत्कीर्ण) के समान, बाँधी गईके समान, मूर्च्छितके समान एवं
१. कुसुमस्तनमद इव ।
२. किन्दन् ।
३. क्वचित् 'केनापि' इति पाठो नास्ति ।
२७ का०
| ४२६ | कादम्बरी- | [ महाश्वेता- |
|---|
विष्टम्भेनेव, निष्पन्दसकलावयवा तत्कालाविर्भूतेनावष्टम्भेन, अक्रियतशिक्षितेन अनाख्येयेन स्वसंवेद्येन केवलम्, न विभाव्यते, किं तद्रूपसम्पदा, किं मनसा, किं मनसिजेन, किमभिनवयौवनेन, किमनुरागेण वा उपदिश्यमानौ किमन्येनैव वा केनापि प्रकारेण, अहमपि न जानामि कथं कथमिति तमनिचिरं व्यलोकयम् ।
इतितश्च नीयमानेव तत्समीपमिन्द्रियैः पुरस्तादाकृष्यमाणेव हृदयेन, पृष्ठतः प्रेर्य्यमाणेव पुष्पधन्वना, कथमपि मुक्तप्रयत्नप्यात्मानम् अवधारयम् । अनन्तरञ्च मेऽन्तर्भङ्गने
सकलाः समग्रा अवयवा अङ्गानि यस्याःसा तादृशी अहम्, अक्रियतोगपि लोचनं विष्टम्भिदुन्मुद्रद्विट्टोऽपि शिक्षितस्तत्र निपुणः तेन, अनाख्येयेन आख्यातुमकथयितुं शक्यः कीदृश इति कशयितुं वक्तुमसमर्थेन, अत एव स्वसंवेद्येन स्वकीयकेवलमनोगम्येन, तत्काले तद्भावे आविर्भूतेन प्रकटीतेन, अवष्टम्भेन निश्चेष्टतापप्रयोजक-सात्त्विकविकारविशेषप्रयत्नेन, केवलं तमनिचिरं व्यलोकयमिति सम्बन्धः। इहापि प्रतिविशेपणं दूव दाप्या क्रियोत्प्रेक्षा।
नेति । न विभाव्यते निरूपदिष्यमानानां मध्ये केन उपदिश्यमाना सती तमनिचिरं व्यलोकयमिति न निर्णतुं शक्यत इत्यर्थः । किं तस्य तापसकुमारस्य रूपसम्पदा सौन्दर्यसमृद्धया उपदिश्यमाना सती तमनिचिरं व्यलोकयम् एवं सर्वत्र सम्बन्धः । किं मनसा चित्तेन, किं मनसिजेन कामेन, किम् अभिनवयौवनेन प्रत्यग्रतारुण्येन, किंवा अनुरागेण अन्तःप्रप्रेम्णा वा अथवा किम् अन्येनैव एकव्यतिरिक्तेनैव व्यतिरिक्तरेण केनापि प्रकारेण अनिर्वचनीयभावेन उपदिश्यमाना उपदेशविषयीक्रियमाणा सती, कथं केनाप्यतिदुर्वचनीयस्वरूपेण, अतिचिरम् अत्याधिकतरकालं यावत् तं तापसकुमारं व्यलोकयम् अवश्यम्, किन्तु कथं से तथा व्यलोकयमित्यहमपि न जानामि नावगच्छामीत्यर्थः ।
इह विप्रलम्भशृङ्गारमस्य विवकेसंज्ञको भावोऽहमिति प्रेयोनामाऽलङ्कारः। इह गर्भितत्वं दोषो न किन्तु 'गर्भितत्वं गुणः क्वापि' इति साहित्यदर्पणदिशा विविक्षतविषयप्रकटनाद् गुण एवेत्यवधेयम्।
चक्षुरिति। इन्द्रियैर्लोचनादिभिःकरणैः सहिप्य उच्चैल्य तस्य तापसकुमारस्य समीपम् अन्तिकं नीयमानेव प्राप्यमानेव । एतेनोत्कण्ठा निरूपिता । हृदयेन चेतसा पुरस्ताद् अग्रे आकृष्यमाणेव, पुष्पधन्वना कामेन पृष्ठतः पश्चात्तः प्रेर्य्यमाणेव चाष्टद्यमानेव सती, मुक्तस्त्यक्तः प्रयत्नः तदन्तिकप्राप्तिनिवारणव्यापारो येन तं तादृशमपि आत्मानं शरीरं कथमपि महता वलेनेवेत्यर्थः, अधारयं न्यरुन्धान् एवारक्षयम् । अनेन धृतिः प्रतिपादिता । इह 'नीयमानेव' 'आकृष्यमाणेव' 'प्रेर्य्यमानेव' इति तिसृणामेव क्रियोत्प्रेक्षाणां परस्परं नैरपेक्ष्येण विद्भानात्वत्संसृष्टिः ।
अनेति। किञ्चेति चार्थः। अनन्तरं मे मम स्वतः हृदयाभ्यन्तरे अवकाशं तस्य तापसकुमारस्य निवासस्थानं दातुमभितुनिव मदनेन कामेन सहित इत्यादितः सन्ताने विस्तारो येषां ते तादृशाः
किसी व्यक्ति द्वारा पकड़ी गईके समान हो गई। उस समय सब अवयव निश्चल हो गये, इस प्रकार तत्काल एक प्रकारका निष्पन्दता (निश्चलता) प्रयोजक सात्त्विकविकारविशेष उपस्थित हुआ सुनिपुणकरणके प्रति दृष्टिदान करानेके लिए उस विकार विशेषको उपदेश नहीं देनेपर भी वह उस विषयमें पूर्ण विशेषज्ञथा, एवं उस विकार का स्वरूप वर्णन नहीं किया जा सकता था, केवल मनसे ही ज्ञात हो सकता था, मैं उस विकार विशेषके प्रभावसे ही केवल उसे देखने लगी। मैं निश्चय करके कह नहीं सकती हूँ कि—उसे देखनेके लिए क्या उसकी सौन्दर्य-समृद्धि, या मेरा मन, अथवा कामदेव, या मेरा नवयौवन, अथवा अनुराग, या स्वव्यतिरिक्त अन्य कोई अनिर्वचनीय प्रकारका व साधन जिससे मुझे उपदेश दिया गया। इस तरह मैंने किस अनिर्वचनीय भावसे अधिक देर तक उसे देखा—यह मेरी समझ में नहीं आता।
[उसके बाद] मेरी इन्द्रियादि शंखेर्या मानो मुझे चलाकर उसके समीप ले जाने लगीं, आगेसे हृदय मानो आकर्षण करने लगा एवं पीछेसे कामदेव मानो प्रेरणा करने लगा। उस हालतमें मैंने उसके समीप जानेने निवारण करनेको चेष्टापरित्याग कर रहनेपर भी कठिनाईसे अपनेको अपने अधीनतामें ही रक्खा।
१. कान्त्या। २. रूपेणेव। ३. व्यापदिश्यमानां। ४. नाहं। ५. मुग्धप्रयत्नामात्मानं आत्मानमपि। ६. उन्मदनेन हन्मदमनेन।
पु० अवलो० महाश्वेताव० ६० ] चन्द्रकला-विद्योतिनीसहिता । ४२७
अवकाशमिव दातुमाहितसन्ताना निर्ययुः श्वासमरुतः । साभिलाषं हृदयमाख्यातुकाममिव स्फुरितमुखमभूत् कुचयुगलम् । स्वेद-लवं-लेखा-क्षालितेवागलल्लज्जा । मकरध्वज-निशित-शर-निकर-निपातैस्त्रस्तेवाकम्पत गात्रयष्टिः । तद्रूपातिशयं द्रष्टुमिव कुतूहलादालिङ्गन लालसेभ्योऽङ्गेभ्यो निरगाद्रोमाञ्चजालकम् । अशेषतः स्वेद्दाम्भसा धौतश्चरणयुगलादिव हृदयमविशद्रागः ।
आसीच्च मम मनसि- 'शान्तात्मनि दूरीकृतसुरतव्यतिकरेऽस्मिन् जने मां निक्षिपता किमिदमनार्येणासदृशमारब्धं मनसिजेन । एवञ्च नामातिमूढं हृदयमङ्गनाजनस्य, यदनु-
श्वासमरुतो निःश्वसितवायवो निर्ययुर्निःसृताः, श्वासनिसरणेनैव हृदयेऽवकाशजननमित्याशयः । क्रियोत्प्रेक्षा ।
साभीति । कुचयुगलं स्तनद्वयं कर्तृ, साभिलाषं सस्पृहं तत्तपस्विकुमारलाभेच्छापरिपूर्णमित्यर्थः, हृदयं मनः कर्म, आख्यातुकाममिव 'नूनं त्वमेनं लप्स्यसे' इति प्रियोदन्तं कथयितुम् इच्छुरिव सत्, स्फुरितं स्पन्दितं मुखम् अग्रप्रदेश एवाननं यस्य तत्तादृशम् अभूत् बभूव । अन्योऽपि किञ्चिद्विवक्षुः स्फुरितवदनो भवति । एतेनाभिलाषः प्रतिपादितः । इह गुणोत्प्रेक्षानुप्राणिता अग्रदेशमुखयोर्व्यतिरेकेऽपि श्लेषेण तदध्यतिरेकाध्यवसायादतिशयोक्तिः ।
स्वेदेति । लज्जा त्रपा, स्वेदलवलेखा धर्मबिन्दुपंक्त्या क्षालिता धौतेव सती अगलत् अक्ष्रवत् , रजोवदित्याशयः । अनेन स्वेदो निरूपितः । क्रियोत्प्रेक्षा ।
मकरेति । गात्रयष्टिः शरीरयष्टिः, मकरध्वजस्य कन्दर्पस्य ये निशिताः तीक्ष्णाः शरा बाणाः तेषां निकरस्य समूहस्य निपातात् आघातात् त्रस्ता भीतेव सती अकम्पत कम्पयामास । एतेन कम्प उक्तः । उक्तालंङ्कारः ।
तदिति । रोमाञ्चानां पुलकानां जालकं समूहः, तस्य तापसकुमारस्य यो रूपातिशयः सौन्दर्योत्कर्षः तं द्रष्टुं वीक्षितुमिव आलिङ्गनलालसेभ्यः उपगूहनलोलुपेभ्यः अङ्गेभ्यो हस्तपादादिभ्योऽवयवेभ्यः कुतूहलात् कौतुकात् निरगात् निःसृतो बभूव, ऐन्द्रजालिकक्रियादिकमवलोकयितुं भवनात् कुलवधुमुखवदित्याशयः । एतेन रोमाञ्चोऽभिहितः । इहापि 'द्रष्टुमिव' इति दर्शनक्रियारूपफलोत्प्रेक्षा ।
अशेषत इति । स्वेदाम्भसा श्रमोत्थधर्मवारिणा अशेषतः सामस्त्येन धौतः प्रक्षालितः रागोऽलक्तरूणारुण्यमिव रागोऽनुरागः चरणयुगलात् अङ्घ्रिगुग्मात् हृदयम् अविशदिव प्रवेशमकरोदिव । एतेन रतिर्नाम स्थायिभावोऽभिहितः । इह क्रियोत्प्रेक्षानुप्राणिता आरुण्यानुरागयोर्व्यतिरेकेऽपि रागपदश्लेषेणाव्यतिरेकाध्यवसायरूपातिशयोक्तिः । स्थायिभावस्वरूपं तु दर्पणे—
'अविरुद्ध विरुद्धो वा यं तिरोधातुमक्षमाः । आस्वादाङ्कुरकन्दोऽसौ भावः स्थायीति सम्मतः ॥' इति ।
आसीदिति । किञ्चेति चार्थः । तत्समये मम मनसि चेतसि एषा धारणा जातेत्यर्थः । शान्तः सत्त्वगुणसंयुतः आत्मा मनो यस्य तस्मिंस्तादृशे, तथा दूरीकृतः दूरीजितः सुरतव्यतिकरः सम्भोगसम्बन्धो येन तस्मिन्, अस्मिन् जने मां विक्षिप्ता प्रहरता अनार्येण असभ्येन मनसिजेन कामेन किमिदम् अलदृशम् असाधुजनोचितम् आरब्धं प्रारब्धम् ।
एवमिति । किञ्चेति चार्थः । एवं पूर्वोक्तप्रकारेण नामेति कोमलामन्त्रणे । अङ्गनाजनस्य स्त्रीलोकस्य हृदयं वित्तम् अतिमूढम् अतिमुग्धम् , यद् यस्मात् कारणात् अनुरागविषययोग्यतामपि 'अस्मिन् स्थलेऽ-
तदनन्तर कामदेवको मानो मेरे हृदयमें वास करनेका स्थान देनेके लिए ही मेरे शरीरमेंसे श्वासवायु विस्तृत होकर बराबर बाहर निकलने लगा । उसके प्रति अभिलाषी मेरे मनके प्रियसम्वादको कहनेके लिए ही मानो मेरे स्तनयुगलके मुख स्फुरित होने ( कापने ) लगे । घर्म-जल-बिन्दुओं ( पसीनेकी बूँदों ) से प्रक्षालित होकर ही मानो मेरी लज्जा [ धूलिकी तरह ] गलने लगी । कामदेवके तीक्ष्णवाणसमूह ( पैने शरों ) के प्रहारसे डर कर ही मानो मेरा शरीर कापने लगा । उसके असाधारण सौन्दर्यको देखनेके लिए ही मानो कौतुकवशात्ते आलिङ्गन करनेके लिए तड़पते हुए अवयवोंसे रोमाञ्चसमूह निकलने लगे । एवं घर्मजल ( पसीने ) से सम्पूर्ण प्रक्षालित होकर ही मानो राग ( लौहित्य, अनुराग ) ने चरणोंमेंसे मेरे हृदयमें प्रवेश किया।
उस समय मेरे मनमें होने लगा कि-जिसने स्त्री-सम्भोग छोड़ दिया है ऐसे शान्तचित्त जनपर मुझे मोहित कर असभ्य कामदेवने कैसा अन्याय आचरण आरम्भ किया है ? स्त्रियोंका हृदय, निःसन्देह ऐसा
१. स्वेदसलिललव...। २. ...पात...।
| ४२८ | कादम्बरी- | [ कथायाम्- |
|---|
रागविषययोग्यतामपि विचारयितुं नालम्। क्वेदमतिभास्वरं धाम तेजसां तपसाञ्च, क्व च प्राकृतजनाभिनन्दितानि मन्मथपरिस्पन्दितानि¹। नियतमयं मामेवं मकरलाञ्छनेन विडम्ब्य-मानामुपहसति। मनसा चित्रञ्चेदं यदहमेवं गच्छन्त्यपि न शक्नोम्यात्मनो विकारमुपसंहर्तुम्²। अन्या अपि कन्यकास्त्रपां विहाय स्वयमुपयाताः पतीन्, अन्या अप्यनेन दुर्विनीतेन मन्म-थेनोन्मत्ततां नीता नार्य्यः, न पुनरहमेका यथा। कथमनेन क्षणेनाकारमात्रालोकनाकुली-भूतामेवमस्वतन्त्रतामुपैत्यन्तःकरणम्। कालो हि गुणाश्च दुर्निवारतामारोपयन्ति मदनस्य सर्वथा। यावदेव सचेतनास्मि, यावदेव च न परिस्फुटमनेन विभाव्यते मे मदनदुश्चेष्टितलाघ-
नुरागो युक्तः, अस्मिन् स्थले न युक्तः' इति विषयविभागोचितामपि विचारयितुं नालं न समर्थम्। इहा-प्रकृतात् स्त्रीहृदयसामान्यात् प्रकृतस्यात्महृदयरूपविशेषस्यावगमादप्रस्तुतप्रशंसा।
ननु स्त्रीलोकस्य हृदयं कथं नामातिमुग्धमित्यत आह—क्केदमिति। तेजसां तपसां च अतिभास्वरम् अत्यन्तदीप्तस्वभावम् इदं तापसकुमारस्वरूपं धाम आश्रयः क्व, तथा प्राकृतजनैः साधारणपुरुषैः अभि-नन्दितानि अनुमोदितानि मन्मथपरिस्पन्दितानि कन्दर्पचेष्टितानि च क्व, द्वौ क्वौ महदन्तरं सूचयतः, एवं-विधमुनिजने मन्मथचेष्टायाः सर्वथैव निष्प्रयोजनत्वात्तन्निमित्तक्षोभोगान्मम हृदथमतिमुग्धमित्याशयः। इहं विसदृशयोः संयोजनया विषमः।
नियतमिति। अयं कुमारः, मकरलाञ्छनेन कामेन एवम् अनेन प्रकारेण विडम्ब्यमानां प्रतार्यमाणां मां महाश्वेतां नियतं निश्चितमेव मनसा चेतसा उपहसति उपहासं करोति, असम्भवनीयविषयप्रवृत्ते-रित्याशयः।
चित्रमिति। अपि चेति चार्थः। इदं प्रत्यक्षातो वर्त्तमानं चित्रम् आश्चर्यम्, यद् यस्मात्कारणात् अहम् एवं पूर्वोक्तप्रकारेण कामद्वारा विडम्बनां तपस्विकुमारद्वारोपहासञ्च अवगच्छन्त्यपि जानन्त्यपि आत्मनः स्वस्य विकारं विकृतिम् उपसंहर्तुं दूरीकर्त्तुं न शक्नोमि न समर्था भवामि।
अन्या इति। अन्या मह्यतिरिक्ता अपि कन्यका दारिकाः त्रपां लज्जां विहाय परित्यज्य स्वयम् आत्मना पतीन् स्वामिन उपयाता उपगता, अन्या अपि याः काश्चनातिकामुका नोपयातास्ता अपि दुर्वि-नीतेन दुराचारेण अनेन मन्मथेन कन्दर्पेण उन्मत्ततां सविकारतां नीताः प्रापिताः, न पुनरहमेका यथा, अत एव नास्मदधिकारो विद्यत इत्याशयः।
कथमिति। अनेन क्षणेन समयेन आकारमात्रस्य अस्य तापसकुमारस्य केवलाकृतेः आलोकनेनैव निरीपणेनव आकुलीभूतं व्यग्रीभूतम् अन्तःकरणं मम हृदयम्, एवम् अनेन प्रकारेण अस्वतन्त्रताम् इत्यं तदायत्ततां कथम् उपैति प्राप्नोति।
तत्र हेतुं प्रदर्शयति—काल इति। हि यस्मात्, कालो वसन्तादिः, गुणाः सौन्दर्यप्रभृतयश्च, मद-नस्य कामस्य सर्वथा सर्वप्रकारेण दुर्निवारताम् आरोपयन्ति व्यवस्थापयन्ति, तस्मादनेन वसन्तसमयेन अस्य गुणेन च दुःशक्यकामारोपणान्मम हृदयमेवं पराधीनतां प्राप्नोतीत्याशयः। अत एवेहाप्रकृतात् सामान्यात् प्रकृतस्य विशेषस्यावगमादप्रस्तुतप्रशंसा।
यावदिति। यावदेव यावत्कालं सचेतनाऽस्मि अस्य रूपादलोकनैन अत्यधिकमदनावेशवशाद् विधेयाविधेयज्ञानरहिता न भवामीत्यर्थः। यावदेव योवत्कालम् अनेन कुमारेण मे मम एतत्, मदनदुश्चे-
नितान्त मूढ होता है कि वह अनुरागके विषयको भी विवेचना नहीं कर सकता। क्योंकि, यह देदीप्यमान तेज और तपस्याका आधार ही कहाँ, और प्राकृत जनोंकी आदरणीय (प्रिय) कामचेष्टा ही कहाँ ! निःसन्देह यह कुमार मुझे इस प्रकार कामदेव द्वारा वञ्चित देखकर अपने मनमें हँसता होगा। और यह भी एक आश्चर्य ही है कि मैं इतना समझनेपर भी अपने मनका विकार दूर नहीं कर सकती। अन्यान्य कन्याएँ भी लज्जा परित्याग कर अपने आप पतिकी प्राप्ति की है। अन्य बहुत-सी सुन्दरियां भी इस अविनीत कामदेवके प्रभावसे उन्मत्त हुई हैं, किन्तु मेरे समान एक भी नहीं हुई है। केवल आकृति ही देखनेसे व्यग्र हो (घबटा) कर मेरा अन्तःकरण इस प्रकार क्यों परतन्त्र हो गया है? काल और गुण ये दोनों ही सर्वथा कामदेवको दुर्निवारणीय कर देते हैं। अतएव जब तक मैं सचेतन हूँ एवं जब तक मेरी कामविकारजनित लघुता स्पष्टरूपसे समझनेमें नहीं आती तब
१. ०° परिस्पन्दितानि । २. अपहाय ।
हाश्वेतावलो० पुण्डरीकदशाव० ६१] चन्द्रकला-विद्योतिनीसहिता । ४२६
मेतत्, तावदेवास्मात् प्रदेशादपसर्पणं श्रेयः, कदाचिदनभिमत-स्मर-विकार-दर्शन-कुपि- तोऽयं शापामिग्नां करोति माम् । अदूरकोपा हि मुनिजनप्रकृतिः।' इत्यवधार्यापसर्पणाभि- लाषिण्यहमभवम् । अशेषजनपूजनीया चेयं जातिरिति कृत्वा तद्वदनाकृष्टदृष्टिप्रसरम्, अच- लितपक्ष्ममालम्, अदृष्टभूतलम्, ईषदुल्लसित-कर्णपल्लवोन्मुक्त-कपोलमण्डलम्, आलोलालक- लता- लमत्कुसुमावतंसम्, अंसदेश-दोलायित-मणिकुण्डलम् ; अस्मै प्रणाममकरवम् ।
अथ कृतप्रणामायां मयि दुर्लङ्घ्यशासनतया भगवतः मनोभुवः, मदजननतया च मधु- मासस्य, अतिरमणीयतया च तस्य प्रदेशस्य, अविनयबहुलतया चाभिनवयौवनस्य, चञ्चल- प्रकृतितया चेन्द्रियाणाम्, दुर्निवारतया चाभिलाषाणाम्, चपलतया च मनोवृत्तेः, तथा भवि-
चित्तलाघवं कामविकारजनितलघुत्वं परिस्रुटं स्पष्टं न विभाव्यते ज्ञायते, तावदेव तावत्कालम् अस्मात् प्रदेशात् स्थानात् अपसर्पणं दूरीभवनं श्रेयः कल्याणकृत् ।
नन्वेवमपीहावस्थितौ को दोष इत्यत आह—कदाचिदिति । अयं कुमारः, अनभिमतस्य स्वानभीष्टस्य स्मरविकारस्य मदीयमनोभवविकृतेः दर्शनेन अवलोकनेन कुपितः क्रुद्धः सन्, मां महाश्वेतां शापाभिन्नाम् अभिसम्पादनेनेनमोगिनीं करोति कुर्यादित्यर्थः । यद्ययं क्रुद्धः स्यात्तदा शापः कीदृशो भवति इति मां स्फुटमनुभावयेदित्याशयः । ननु विशेषापराधाभावे कथं क्रोध इत्यत आह—अदूरेति । हि यतः, मुनिजनप्रकृतिः तपस्विलोकस्वभावः अदूरकोपा निरन्तरसमीपक्रोधा, अत एव शापाय विशेषापराधं नाकाङ्क्षत इत्याशयः । इति एवम् अवधार्य निश्चित्य अहम् अपसर्पणामिलाषिणी दूरीभवनेच्छुका अभवं जाता । इह कारणेन कार्यसमर्थनरूपोऽर्थान्तरन्यासः ।
अशेषेति । किञ्चेति चार्थः । इयं जातिः तापसजातिः, अशेषजनपूजनीया समस्तलोकार्चनीया, इति मनसि हृदये कृत्वा विधाय तस्य कुमारस्य वदनात् मुखात् अकृष्टः तन्मदनावेशादेवासङ्कुचितः दृष्टिप्रसरोऽवलोकनप्रन्तानः यत्र कर्मणि तद् यथा स्यात्तथा क्रियाविशेषणम्, एवमग्रेऽपि । अचलिता निश्चेष्टा पक्ष्ममाला लोचनरोमपङ्क्तिर्यत्र कर्मणि तद् यथा स्यात्तथा, न दृष्टम् अवलोकितं भूमलं यत्र कर्मणि तद् यथा स्यात्तथा, ईषदुल्लसिताभ्यां किञ्चिदुत्थिताभ्यां कर्णपल्लवाभ्यां श्रवणकिसलयाभ्याम् उन्मुक्ते परित्यक्ते कपोलमण्डले गण्डबिम्बयुगलं यत्र तत्, आलोलायां किञ्चिचपलायाम् अलकलतायां छतावत्तन्दमानविच्छित्तिकेशसमूहे लसन् शोभमानः कुसुमावतंसः पुष्पभूषणं यत्र तत्, तथा अंसदेशयोः स्कन्धप्रदेशयोर दोलायिते चलिते मणिकुण्डले रत्नकुण्डले यत्र कर्मणि तद् यथा स्यात्तथा, तस्मै तापसकुमाराय प्रणामं नमस्कारम् अकरवम् । स्वभावोक्तिः ।
अथेति । कृतप्रणामायां विहितनमस्कारायां मयि महाश्वेतायां भगवत ऐश्वर्यादिमाहात्म्यवतो मनोभुवः कामस्य दुर्लङ्घ्यशासनतया अनतिक्रमणीयादेशतया कारणेन, एवमन्यत्रापि हेतौ तृतीया । मधुमासस्य वसन्तस्य मदजननतया मत्ततोत्पादकतया, तस्य पूर्वोक्तस्य प्रदेशस्य स्थानस्य अतिरमणीयतया अतिमनोहरतया, अभिनवयौवनस्य प्रत्यग्रतारुण्यस्य अविनयबहुलतया अशिष्टाचारधिक्येन, इन्द्रियाणां चक्षुरादिकरणानां चञ्चलप्रकृतितया चपलस्वभावतया, अभिलाषाणां मनोरथानां दुर्निवारतया दुःखेन
तक ही इस प्रदेशसे मुझे खिसक जाना उचित है। क्योंकि कहीं अप्रिय कामविकार मुझमें देखनेसे क्रुद्ध होकर किसी समय यह शाप न दे बैठे। क्योंकि मुनियोंके स्वभाव में सर्वदा ही क्रोध उपस्थित रहता है। इस प्रकार मन ही मन निश्चय कर मैंने लौटना चाहा और—'इस जातिकी तो सब लोग पूजा करते हैं' यों विचार उसके मुखकी ओर दृष्टि रख, एकाग्रतासे (टकटकी बांधकर) कपोलस्थल परसे कुछ ऊँचे कर्णपल्लव सहित केशकलापकी चञ्चल लटोंमें शोभायमान पुष्पान्तरणसहित, और स्कन्धपर लटकते मणिमयकुण्डल सहित, पृथिवीकी ओर देखे बिना ही, मैंने उसको प्रणाम किया।
मेरे प्रणाम कर लेने के बाद ही, भगवान् कामदेवके अनुल्लङ्घनीय शासनसे, चैत्रमासकी मस्तोत्पादक शक्तिसे, उस स्थानकी अत्यन्त मनोहरतासे, नवयौवनके अधिक अविनय-पूर्ण होनेसे, इन्द्रियोंकी स्वभावतः चञ्चलतासे, विषयाभिलाषाकी दुर्निवारतासे, मनोवृत्तिकी चञ्चलतासे, और ऐसी-ऐसी (सुख-दुःखादि) घटनाओंकों
१. उत्स्रस्तित्... । २. ऽपि । ३. क्वचित् 'भगवतः' इति पदं न विद्यते ।
| ४३० | कादम्बरी- | [ कथायाम्- |
|---|
तव्यतया च तस्य तस्य वस्तुनः, किं बहुना मम मन्दभाग्यदौरात्म्यादस्य चेदृशस्य क्लेशस्य विहितत्वात्तमपि मद्विकारदर्शनापहृतधैर्य्यं प्रदीपमिव पवनस्तरलतामनयदनङ्गः ।
तदा तस्याप्यभिनवागतं मदनं प्रत्युद्गच्छन्निव रोमोद्गमः प्रादुरभवत् । मत्सकाशमभिप्रस्थितस्य मनसो मार्गमिवोपदिशद्भिः पुरः प्रवृत्तं श्वासैः । वेपथुगृहीता व्रतभङ्गभीतेवाकम्पत करतलगताक्षमाला । द्वितीयेव कर्णावसक्तकुसुममञ्जरी कपोलतलांसङ्गिनी समदृश्यत स्वेदसलिलशीकरजालिका। मदर्शनप्रीतिविस्तारितस्य चोत्तानतारकस्य पुंडरीकमयमिव तमुद्देशमुपदर्शयतो लोचनयुगलस्य विसर्पिभिरंशुसन्तानैर्यदृच्छयाच्छोदसलिलमपहाय विकच-
दूरीकर्त्तुं शक्यतया, मनोवृत्तेश्चित्तवृत्तेः चपलतया चञ्चलतया, तस्य तस्य वस्तुनः सुखदुःखादेः तथा भवितव्यतया तथा तथा भावितया भाग्यवशादित्यभिप्रायः । किं बहुना बहुत्वेन मन्दभाग्यस्य दुरदृष्टस्य दौरात्म्याद् दुष्टत्वेन हेतोः, ईदृशस्य एवंविधस्य क्लेशस्य मम तपश्चरणामकदुःखस्य विहितत्वात् कृतत्वात्, पवनो वायुः प्रदीपमिव, अनङ्गः कामः, मम विकारदर्शनेन अपहृतं दूरीभूतं धैर्यं धृतिर्यस्य तम्, तमपि मुनिकुमारम्, तरलतां चञ्चलताम् अनयत् प्रापितवान् । इहोपमा । पाठभेदेन भग्नप्रक्रमतादोषो वारणीयः ।
तदेति । तस्य तापसकुमारस्यापि अभिनवागतं नूतनायातं मदनं कामं प्रत्युद्गच्छन्निव आदरं कर्तुं सम्मुखं व्रजन्निव, रोमोद्गमो रोमाञ्चः प्रादुरभवत् प्रकटीबभूव । अन्योऽपि नवीनागतं स्वामिनं समादर-णाय सम्मुखं व्रजति । इह प्रत्युद्गमनक्रियारूपफलोत्प्रेक्षा ।
मदिति । मत्सकाशं मत्संविधम् अभिप्रस्थितस्य सम्मुखं चलितस्य मनसो हृदयस्य मार्गं पन्थानम् उपदिशद्भिरिव आदेशं ददद्भिरिव श्वासैः निःश्वासपवनैः पुरोऽग्रतः प्रवृत्तं प्रस्थितम् । अन्योऽप्यपरिचितस्य पन्थानमादिशन्नग्रतो गच्छति । तस्यापि निःश्वासो निःसृत इत्यर्थः । उत्तालंकारः ।
वेपय्विति । वेपथुगृहीता शरीरोत्पन्नकम्पाभिभूते सात्त्विकभावसङ्क्रान्ता करतलगता पाणिस्यिता अक्षमाला जपमाला, व्रतभङ्गभीतेव ब्रह्मचारिणोऽपि मदनावेगाद् ब्रह्मचर्यनाशनस्त्वेव सती अकम्पत अचलत् । इह त्रासात्मकहेतूत्प्रेक्षा ।
द्वितीयेति । द्वितीया कस्याश्चित् पारिजातमञ्जर्याः प्रागेव श्रवणे विद्यमानत्वात्तदन्या, कर्णावसक्त-कुसुममञ्जरीव श्रवणसंलग्नपुष्पवल्लरीव, कपोलतला सङ्गिनी गह्वापरप्रदेशाश्लेषिणी स्वेदसलिलस्य घर्म-जलस्य शीकरजालिका विन्दुश्रेणीः समदृश्यत समालोक्यत । इह द्रश्योत्प्रेक्षा ।
मदिति । अपि च, मम दर्शनप्रीत्या वीक्षणजनितहर्षेण विस्तारतस्य प्रसारितस्य, उत्ताने ऊर्ध्वंगते तारके कनीनिके यस्य तस्य, तमुद्देशं तं प्रदेशं पुण्डरीकमयमिव नयनयोः शुभ्रत्वात् सिताम्भोजव्याप्तमिव, उपदर्शयतः अन्येभ्यो ज्ञापयतः लोचनयुगलस्य नेत्रद्वयस्य विसर्पिभिः प्रसारिभिः अंशुसन्तानैः रश्मि-
भवितव्यतासे—अधिक कहाँ तक कहूँ, मेरे दुरदृष्टकी कुटिलतासे और उस कुमारको विधाताद्वारा इतना क्लेश-विहित होनेसे—मेरा कामविकार देखकर उस कुमारका भी धैर्य विनष्ट हो गया। उस समय वायु जिस प्रकार प्रदीपको चञ्चल करता है उसी प्रकार कामदेवने उसको भी चञ्चल कर दिया।
उस समय नवागत कामदेवके प्रत्युद्गमन (सम्मान) करनेके लिए ही मानो उसके शरीरमें भी रोमाञ्च आविर्भूत हो गया। उसका मन भी मेरे निकट आ गया था; अतएव उसके मार्ग दिखलानेके लिए मानो उसका भी निश्वास आगे आगे चलने लगा। प्रकम्पमान हस्तस्थित उसकी अक्ष (जप) माला, मानो ब्रह्मचर्यके लोपके भयसे ही काँपने लगी। उसके गण्डस्थल (गाल) पर लगे धर्म-जल विन्दुसमूह (स्वेदजलकण की माला) कर्णमें पहनी हुई दूसरी कुसुममञ्जरीके समान दीखने लगे। उसके नयनयुगल मेरे दर्शनकी प्रीतिसे विस्तारित (विस्फारित) हो गये, दोनों कनीनिकाएँ ऊपर हो उठीं, अतएव वह नयनयुगल उस प्रदेशको मानो श्वेतपद्ममय होकर प्रतीति उत्पन्न करने लगा, एवं उस नयनयुगलसे किरण-जाल निकल कर दशों दिशाओंको व्याप्त कर दिया। उस समय
१. मद्विकारापहृतधैर्य्यं । २. ॰॰॰आगतमदनं । ३. प्रत्युद्गतवानिव । ४. वेपथुन्ना । ५. अकम्पर्त गात्रयष्टिरक्षमाला च । ६. मदन ।
पुण्डरीकदर्शनवर्णनम् ६१ ] चन्द्रकला-विद्योतिनीसहिता । ४३१
कुवलयवनैरिव गगनतलमुत्पतितैरुरुध्यन्त दशदिशः । तदा तु तस्यातिप्रकटया विकृत्या द्विगुणीकृतमदनावेगा तत्क्षणमहमवर्णनयोग्यां का- मप्यवस्थामन्वभवम् । इदञ्च मनस्यकरवम्-‘अनेक-सुरत-समागम-लास्य-लीलोपदेशोपाध्यायो मकरकेतुरेव विलासानुपदिशति, अन्यथा विविध-रसासङ्ग-ललितेष्वीदृशेषु व्यतिकरेष्वप्रविष्ट- बुद्धेरस्य जनस्य कुत इयेयम् अनभ्यस्ताकृति' रतिरसनिष्यन्दिनिव क्षरन्ती, अमृतमिव वर्ष- न्ती', मदमुकुलितेव, खेदालसेव, निद्राजडेव, आनन्द-भर-मन्थर तरत्तार'-सञ्चारिणी, अनि-
प्रवाहैः, यदृच्छया स्वेच्छया अच्छोदस्य तत्संज्ञकसरसः सलिलं जन्म अपहाय त्यक्त्वा गगनतलम् आकाशतलम् उत्पतितैः उद्गतैः, विकचकूवलयवनैरिव प्रस्फुटितनीलोत्पलारण्यैरिव विद्यमानैः, तेषां रश्मीनां तु नीलकनीनिकाजनितत्वेन नीलत्वादित्याशयः, दशदिशः अरुध्यन्त आच्छाद्यन्त ।
इह 'पुण्डरीकमहमिव' इत्यत्र क्रियोत्प्रेक्षा, 'विकचकूवलयवनैरिव' इत्यत्र जात्युत्प्रेक्षा, तया दशदिशानाच्छादनसम्बन्धाभावेऽपि तत्सम्बन्धप्रतिपादनादतिशयोक्तिश्चेति परस्परनेषामङ्गाङ्गिभावसङ्करः ।
तदेति । तस्य मुनिकुमारस्य अतिप्रकटया बाहुल्येन प्रकाशितया, विकृत्या मदनविकारेण द्विगुणीकृतमदनावेक्षा द्विगुणां नीतकामावेशा अहं तत्समयं वर्णनस्य ( कथनस्य ) योग्या न भवतीत्यवर्णनयोग्या ताम्, कामपि अनिर्वचनीयां दशाम् अवस्थाम् अन्वभवम् अनुभूतवती ।
इदमिति । किञ्चेति चार्थः । मनसि चित्ते इदम् अकरवम् इदमचिन्तयमित्यर्थः । अनेके बहुविधा ये सुरतसमागमाः सम्भोगसंसर्गाः त एव लास्यलीला नृत्यव्यापाराः तासाम् उपदेशे शिक्षणे उपाध्याय आचार्यः, मकरकेतुः काम एव विलासान् जनानां लीलाकटक्षापादनावधिविभ्रमान् उपदिशति शिक्षयति । अन्यथा कामद्वारा शिक्षणाभावे, रस्यन्ते आस्वाद्यन्ते साक्षादनुभवविषयीक्रियन्ते ये ते रसाः शब्दस्पर्शप्रभृतयो भोग्यविषयाः, विविधानाम् अनेकानां रसानां शब्दस्पर्शादिविविधानाम आस्वादेन रतिसंसर्गेण तद्वत्सुहृदैश्चोत्पद्येनेत्यर्थः । ललितेषु सुन्दरेषु ईदृशेषु, पूर्वविदेषु व्यतिकरेषु विलासुक्तदृष्टियानसयोगेषु अप्रविष्टा मुनिभावनया तदनवबोधामवाप्तप्रसन्नता बुद्धिर्मनीषा यस्य तस्य, अस्य जनस्य तपस्विकुमारस्य कुत इयं दृष्टिरस्यादित्यर्थः । दृष्टिविशेषणानि प्रदर्शयति - रनन्दलोत्यादि । अनभ्यन्ता मुहुर्मुहुरपाठिना आकृतिः स्वरूपं यस्या सा । रतिरसस्य सम्भोगायानुरागस्य निष्पन्दं निर्याममन्तर्ति क्षरन्तीव स्रवन्तीव, अमृतं पीयूषं वर्षन्तीव वृष्टिं कुर्वन्तीव, मदिष्ठानां कामिनीनां नितान्ततृप्तिदायकत्वादित्याशयः । मदेन अनङ्गमत्ततया मुकुलितेव किञ्चित् प्रकाशितेव, खेदान्त्सेव परिश्रममन्यग्येव, निद्रया प्रमीलया जडेव दृष्टिरिव, आनन्दभरेण हर्षातिशयेन मन्थरं मन्दं यथा स्यात्तथा, तरन्ती विस्तारं प्राप्नुवन्ती तारा कनीनिका यत्र कर्मणि सद् यथा स्यात्तथा सञ्चरितुं भ्रमितुं शीलं स्वभावो यस्याः सा । तया अनिभृतं स्फुरं मूटने लम्बमानश्रूद्वयम् उल्लासितुं नर्त्तयितुं शीलं यस्याः सा ।
इह 'क्षरन्तीव, वर्षन्तीव, मुकुलितेव' एतेषु क्रियोत्प्रेक्षा । 'खेदालसेव, निद्राजडेव' इत्यनयोस्तु
प्रतीत होने लगा मानो विकसित नीलोत्पलवन, अकस्मात् अच्छोद सरोवर के जलको छोड़कर आकाशकी ओर चढ़ रहा है ।
किन्तु उसके इस प्रकार कामविकार अत्यन्त प्रकाशित देखकर मुझमें कामविकार द्विगुणित हो गया और उस क्षण मेरी अवस्था वर्णन करनेके योग्य नहीं रही (अर्थात् वह अवस्था अनिर्वचनीयताका अनुभव करने लगी। फिर मैंने इस प्रकार विचार किया कि—'नानाविध सम्भोग समागम रूपी नृत्यशिक्षाका अध्यापक कामदेव ही लोगोंको कटाक्षपातप्रभृति विलासितकी शिक्षा देता है; ऐसा न होने पर तो, नानाप्रकार विषयसंमोगजनित रसोंके संसर्गसे मनोहर प्रतीत होने ऐसे कटाक्षपातादि व्यापारोंमें जिसका मन किसी समय भी प्रविष्ट नहीं हुआ ऐसे इस व्यक्तिकी अनभ्यस्त अर्थात् अङ्गुरूप आकृति वाली (कटाक्षादि युक्त ) दृष्टि-मानो अनुरागका रस निस्तारण करती (क्षरन्ती), अमृतवृष्टि करती, मदप्रयुक्त मानी मिची, खेदसे मन्द (अलस) हुई, निद्रासे जड़ हुई, अत्यन्त आनन्दसे बहुत ही धीमी और चञ्चल पुतली-सहित सञ्चारित होती (फिरती) भ्रूलताको स्फुरतासे
१. तत्क्षणमहमवर्णनीयोद्दशाम् । २. कुत इयम् । ३. अनभ्यस्ता जाता । ४. ***निष्यन्दमिव ।
५. वर्षन्ती, क्षरन्ती अमृतमिव । ६. तरलतार ।
४३२ | कादम्बरी- | [ कथायाम्-
भृत-भ्रूलतोल्लासिनी¹ दृष्टिः। कुतश्चेदमतिनैपुण्यम्, यच्चक्षुषैवानक्षरमेवमन्तर्गतो हृदयाभि- लाषः कथ्यते'।
प्राप्तप्रसरो² चोपसृत्य तं द्वितीयमस्य सहचरं मुनिबालकं प्रणामपूर्वकमपृच्छम्-‘भग- वन् ! किमभिधानः³, कस्य चायं तपोघनस्य युवा ?⁴ किन्नामन्नश्च तरोरियमनेनावतंसीकृता⁵ कुसुम-मञ्जरी ! जनयति हि मे मनसि महत् कौतुकमस्याः समुत्सर्पन्नसाधारणसौरभोऽय- मनाघ्रातपूर्वी गन्धः' इति ।
स तु सामीपद्विहस्यान्रवीत्—'बाले ! किमनेन पृष्टेन प्रयोजनम्, अथ कौतुकमावेद- यामि, श्रूयताम्—
अस्ति खलु सकलत्रिभुवन-प्रख्यातकीर्तिरत्युदारतपाः सुरासुरसिद्धवृन्दवन्दित॑⁷-चरण- युगलो महामुनिर्दिव्यलोकनिवासी श्वेतकेतुर्नाम । तस्य च भगवतः⁸ सुरासुरलोकसुन्दरी⁹-हृद-
कुत इति । किञ्च, चक्षुषैव निरीक्षणविशेषेणैव, एवम् अनेन प्रकारेण अन्तर्गतो हृदयाभिलाषः चित्ताभिप्रायः अनक्षरं वचनरहितं यथा स्यात्तथा यत् कथ्यते उच्यित स्फुटं ज्ञाप्यते, इदं प्रत्यक्षेण विद्यमानम् अतिनैपुण्यम् अत्याधिकदक्षत्वं कुतः स्यादित्यर्थः, अत एव मदनोपदेशादेवैवंविधा दृष्टिः इदञ्च नैपुण्यमित्यभिप्रायः ।
प्राप्तेति । किञ्च, प्राप्तप्रसरा स्वस्य तथाविधदृष्टिविषयत्वाह्लब्धावकाशा अहम् उपसृत्य समीपमेत्य अस्य तपस्विकुमारस्य तं द्वितीयम् अपरं सहचरं सखायं मुनिबालकं तपस्विकुमारं प्रणामपूर्वकं नमस्कार-पूर्वकम् अपृच्छं पृष्टवती । भगवन् महाभाग ! किमभिधानः किंनामा कस्य किंनाम्नो वा तपोघनस्य मुनेः अयं युवा तरुण आत्मज इत्यर्थः । किन्नाम्नः किमभिधानस्य तरोर्वृक्षस्य इयं दृश्यमाना कुसुम-मञ्जरी पुष्पवल्लरी अवतंसीकृता कर्णभूषणीकृता ?, हि यतोऽस्याः कुसुममञ्जर्याः समुत्सर्पन् प्रसरन् असाधारणसौरभः असामान्यगन्धवृतिकारिसुगन्धिः अनाघ्रातपूर्वो नासिकयाऽगृहीतपूर्वोऽयं गन्धो मे मम मनसि चित्ते महत्कौतुकं महदाश्चर्यं जनयति उत्पादयति ।
स इति । स मुनिबालको मां प्रति ईषद्विहस्य किञ्चित् स्मितं कृत्वा अग्रवीत् अवोचत्—बाले कुमारिके ! अनेन पृष्टेन पृच्छया किं प्रयोजनं कोऽर्थः ?, अथ यदि तव कौतुकं कुतूहलं विद्यते तदा आवेदयामि कथयामि, श्रूयताम् आकर्ण्यताम्—
अस्तीति । सकलत्रिभुवने त्रैलोक्यस्य निखिलस्थानेष्वित्यर्थः प्रख्याता प्रसिद्धा कीर्त्तिर्यशो यस्य सः, अत्युदारम् अत्युत्कृष्टं तपो यस्य सः, सुरासुराणां देवदानवानां सिद्धानां तत्संज्ञकदेवयोनिविशेषाणाञ्च वृन्देन समूहेन वन्दितं नमस्कृतं चरणयुगलं पादद्वयं यस्य सः, दिव्यलोकनिवासी स्वर्गलोकवसनशीलः महामुनिः महातपस्वी श्वेतकेतुर्नाम श्वेतकेतुसंज्ञः अस्ति विद्यते ।
तस्येति । तस्य भगवतः श्वेतकेतोः, सुरासुरलोकयोः देवदानवलोकयोः याः सुन्दर्यः कामिन्यः तासां
नाचती-ऐसी क्यों होती है ? और इस प्रकारकी अत्यधिक निपुणता इसमें कहाँसे आई कि एक अक्षरके उच्चारण नहीं करने पर भी केवल नयन द्वारा ही यह अन्तरस्थित मनकी अभिलाषा इस प्रकार व्यक्त हुई !
इसके बाद अवसर पाकर उसके सहचारी द्वितीय मुनिबालकके निकट जाकर प्रणाम-पूर्वक मैंने पूछा—'भगवन् ! इन (युवक मुनि) का नाम क्या है ? ये किस तपस्वीके पुत्र हैं? किस वृक्षकी यह कुसुममञ्जरी इन्होंने कानमें करणी (रखी) है ? इसकी असाधारण प्राणवृत्ति करनेवाली, अनाघ्रातपूर्व विस्तृत हुई सुगन्धिने मेरे मनमें महान् कौतुक उत्पन्न हुआ है।'
उस समय वह कुछ मुस्कुरा कर मुझसे कहने लगा—'बालिके ! इस विषयमें पूछनेसे तेरा क्या प्रयोजन ! तथापि यदि कौतुक उत्पन्न हुआ है तो कहता हूँ; सुनो:—
जिनका यश समस्त त्रिभुवनमें प्रसिद्ध है, तपस्या जिनकी अतिबृहद् है, और देव-दानवों और सिद्धोंके समूह जिनके चरणोंकी सेवा करते हैं ऐसे श्वेतकेतु नामके एक महर्षि स्वर्गलोकमें निवास करते हैं। उन भगवान् महर्षिका रूप भी समस्त त्रिभुवनके मध्यमें परम सुन्दर था; वह रूप, देवलोक और दानवलोकके
१. ल्तोल्लासिनी । २. लब्धप्रसरा । ३. भगवन् किमभिधानः । ४. कस्य चायं तपोभृत्पुत्रः । ५. ऽयमनवंसीकृता । ६. ऽस्ति त्रिभुवनप्रख्यातकीर्त्तिरत्युदारतपा । ७. ऽसुरसिद्धवृन्द, सिद्धवृन्दमौलिगलित... । ८. तस्य भगवतः । ९. सुरलोकसुन्दरी, सकललोकसुन्दरी... ।
पुण्डरीकजन्मोदन्तवर्णनम् ६२ ] चन्द्रकला-विद्योतिनीसहिता ४३३
द्यानन्दकरम्, अशेषत्रिभुवनसुन्दरम्, अतिशयितनलकूबरं रूपमासीत् । स कदाचिद्देवता-र्चनकमलान्युद्धर्तुमैरावत-मदजल-विन्दुबद्ध-चन्द्रक-शत-खचित-जलाम्, हर-हसितसित-स्रोतसम्, मन्दाकिनीमवततार । अवतरन्तञ्च तं तदा कमलवनेषु सतत्-सन्निहिता विकचं-सहस्रपत्र-पुण्डरीकोपविष्टा देवी लक्ष्मीर्ददर्श । तस्यास्तु तमवलोकयन्त्याः प्रेममन्दँ-मुकुलिते-नानन्द-बाष्प-भर-तरङ्ग-तरलतारेण लोचनयुगलेन रूपमास्वादयन्त्या जृम्भिकारम्भ-मन्थर-मुखविन्यस्त-हस्तपल्लवाया मन्मथविकृतं मन आसीत् । आलोकनमात्रेण च समासादित-सुरत-समागम-सुखायास्तस्मिन्नेवासनीकृते पुण्डरीके कृतार्थतासीत्, तस्माच्च कुमारः समुद-
हृदयानन्दकरं चित्तप्रमोदोत्पादकम्, अशेषे त्रिभुवने त्रिविष्टपस्य समस्तस्थाने सुन्दरं सर्वेभ्यो हृद्यमित्यर्थः । तथा अतिशयितः अतिक्रान्तः नलकूबरः तत्संज्ञको धनपतिपुत्रः तदीयरूपं तत्सौन्दर्यं येन तत्तथोक्तम् । 'आसीत्' इति भूतकालानिरूपणेन वार्धक्यात् सम्प्रति तथाविधं सौन्दर्यं न विद्यत इति ध्वनितम् ।
त इति । स श्वेतकेतुः कदाचित् कस्मिंश्चित्समये देवतानां सुराणाम् अर्चनार्य पूजनाय कमलानि पङ्कजानि उद्धर्तुम् उत्तोलयितुम्, ऐरावतस्य सलिले अवगाहमानस्य सुराधिपगजस्य मदजलविन्दुभिः दानवारिकणैः बद्धम् उत्पादितं यत् चन्द्रकशतम् अनेकरूपं देदीप्यमानं वर्तुलाकारं विह्ववृन्दं तेन खचितं व्याप्तं जलं सलिलं यस्याः ताम्, तथा हरहसितवत् महेशहास्यवत् सितं श्वेतं स्रोतः प्रवाहो यस्याः ताम्, मन्दाकिनीम् स्वर्गदीम् अवततार अवतीर्णवान् । इह हरेत्यादौ लुप्तोपमाच्छेकानुप्रासयोरेकाश्रयानुप्रवेशसङ्करः ।
अवेति । किञ्च, तदा तस्मिन् समये अवतरन्तम् आकाशादागच्छन्तं तं श्वेतकेतुं मुनिं कमलवनेषु नलिनखण्डेषु सततं निरन्तरं सन्निहिता निकटवर्त्तिनी, विकचं प्रस्फुटितं सहस्रपत्रं सहस्रदलारमर्क यत् पुण्डरीकं सितकमलं तत्र उपविष्टा आसीना लक्ष्मीर्देवी ददर्श अवलोकितवती ।
तस्या इति । तं मुनिम् अवलोकयन्त्याः पश्यन्त्याः तस्याः लक्ष्म्याः, प्रेम्णा कामानुरागेण मन्दमुकुलितेन किञ्चिन्मुकुलितेन सानन्दवाष्पभरस्य हर्षनेत्राम्बुसमूहस्य तरङ्गेन कलोलेन तरला चपला तारा कनीनिका यस्य तेन, लोचनयुगलेन नेत्रद्वयेन रूपं सौन्दर्यम् आस्वादयन्त्याः सादरमवलोकयन्त्याः, जृम्भिकायाः कामावेशजनितशरीरभङ्गस्य आरम्भेण आरम्भणेन मन्थरम् अलसं यत् मुखं वदनं तत्र विन्यस्तः स्थापितो हस्तपल्लवः करकिसलयो यया तस्याः मनश्चित्तं मथ्नाति आलोदयतीति मन्मथः कामः तेन विकृतं विह्वलीकृतं मनश्चित्तम् आसीत् अभूत् ।
आलोकनेति । किञ्च, आलोकनमात्रेण केवलं निरीक्षपेनैव समासादितं लब्धं सुरतसमागमसुखं सम्भोगारमकसंयोगानन्दी यया तस्याः, तस्मिन्नेव आसनीकृते विष्टरीकृते पुण्डरीके श्वेतपद्मे कृतार्थता सम्भोगस्य सफ़लना वीजपात इत्यर्थः, आसीत् अभूत् किन्वेति चार्थः । तस्मात् पुण्डरीकात् कुमारः अयं युवा समुत्पदि उत्पन्नः ।
अहो ! प्रजापतिसहोदरा कविकल्पना विलक्षणं विष्टपाम्तरमपि रचयितुं शक्नोति यस्यान्य अद्भुतेयं कुमारसृष्टिः कविकल्पनया सञ्जाता । अत एवाहु-
'अपारे काव्यसंसारे कविरेकः प्रजापतिः । यथाऽस्मै रोचते विश्वं तथेदं परिवर्त्तते ॥ शृङ्गारी चेत् कविः काव्ये जातं रसमयं जगत् । स एव वीतरागश्चेत् सर्वं तन्नीरासं भवेत् ॥' इति ॥
सुन्दरियोंके हृदयमें आनन्द उत्पन्न करता था, कुवेरन्दन नलकूबरके रूपको भी परास्त किया था। वे किसी समयमें देवपूजाके निमित्त कमल तोडनेके लिए, आकाशगङ्गाके जलमें उतरे । उस समय वह जल ऐरावत हस्तीके मदजल-विन्दुनिर्मित सैकडों चन्द्राकारसे व्याप्त था एवं उसका प्रवाह, महादेवके हास्यके समान शुभवर्णथा । जब वे जलमें उतर रहे थे उस समय उनको, सर्वदा कमलवननिवासिनी विकसित सहस्र-पत्रवाले श्वेतकमलमें बैठी लक्ष्मीने देखा। उनको देखते ही मदनानुरागसे ईषत उन्मीलित (अधि मिचे) और आनन्दाश्रुजलकी तरङ्गसे चञ्चल हुई कनीनिका (पुतली) वाले नयनोंसे उन महर्षिके रूपका आस्वादन करते-करते और जँभाई आनेके कारण अलस हुए मुखमण्डल पर हस्तपल्लव स्थापन करते-करते उसके मनमें काम-विकार उत्पन्न हो गया । किन्तु दर्शनमात्रसे ही उस (लक्ष्मी) को सम्भोगसमागमका आनन्द प्राप्त हुआ और जिस पुण्डरीकमें वह बैठी थी
१. हरहसितस्रोतसम्, हरहसितनीराम् । २. ''''सन्निहितविकच'''' । ३. देवी कमलवदना लक्ष्मीः । ४. प्रेममन्द'''' ।
| ४३४ | कादम्बरी- | [ कथामुखम्- |
|---|
पादि। ततस्तमुत्सङ्गेनादाय' 'भगवन्! गृहाण तवायमात्मजः' इत्युक्त्वा तस्मै श्वेतकेतवे ददौ। असावपि बालजनोचिताः सर्वाः क्रियाः कृत्वा तस्य पुण्डरीकसम्भवतया तदेव पुण्ड- रीक इति नाम चक्रे। प्रतिपादितव्रतञ्च तमागृहीतसकलविद्याकलापमकार्षीत्। सोऽयम्।
इयञ्च सुरासुरैर्मथ्यमानात् क्षीरसागरादुद्गतः पारिजातनामा पादपस्तस्य मञ्जरी। यथा चैषा व्रतविरुद्धमस्य श्रवणसंसर्गमंसादितवती, तदपि कथयामि। अथ चतुर्दशीति भग- वन्तमम्बिकापतिं कैलासगतमुपासितुममरलोकान्मया सह नन्दनवनसमीपेनायमनुसरन्नि-
तत इति । ततः कुमारोत्पत्तेरनन्तरम् उत्सङ्गेन क्रोडेन तं कुमारम् आदाय गृहीत्वा लक्ष्मीरिति शेषः। भगवन् स्वामिन् !, गृहाण स्वीकुरु अयं ममोत्सङ्गे विद्यमानः कुमारः तवात्मजः तव सुतः त्वदव- लोकनेनैव संवृभितानुकूलोऽसावनात्वादित्याशयः। इत्युक्त्वा इत्यभिधाय तस्मै श्वेतकेतवे मुनये तं कुमारकं ददौ दत्तवती।
असाविति । असौ श्वेतकेतुरपि गृहीतवेति शेषः। बालजनोचिताः शिशुजनयोग्याः सर्वाः समस्ताः क्रियाः जातकर्मोदिकाः कृत्वा विधाय तस्य कुमारस्य पुण्डरीकसम्भवतया सितकमलोद्भवतया 'पुण्डरीक' इति नाम इत्यन्वर्थामिधानं चक्रे कृतवान्। पुण्डं सुन्दरेषु तिलकमार्थे मुखरावे शिति व्रजति लभत इति पुण्डरी तरुः स्वार्थिकः कप्रत्ययः।
प्रतिष्ठेति । किञ्च, प्रतिपादितं सम्पादितं व्रतं यज्ञोपवीतं यस्य तम् तथा आ गृहीतः पाठितः सकल- विद्याकलापः समस्तविद्यासमूहो येन तम्, तं पुण्डरीकम् अकार्षीत् कृतवान् श्वेतकेतुरिति सम्बन्धः। अयं युवा सः पुण्डरीकः।
इयमिति । इयमित्यस्य 'तस्य च मञ्जरी' इत्यत्रान्वयः। सुरासुरैः देवराक्षसैः मध्यमानात् विक्षो- भ्यमानात् क्षीरसागराद् दुग्धाम्बुधेः पारिजातनामा मन्दारसंज्ञकः पादपो वृक्ष उद्गतो निःसृतः तस्य वृक्षस्य इयं कर्णावतंसीकृता मञ्जरी वल्लरी एषा कुसुममञ्जरी च व्रतविरुद्धं विलासासङ्गीत्वेन ब्रह्मचर्य- प्रतीपं यथा स्यात्तथा अस्य पुण्डरीकस्य श्रवणसंसर्गं कर्णसंयोगं यथा येन प्रकारेण आसादितवती प्राप्त- वती तदपि वृत्तं कथयामि निवेदयामि।
अथेति । अथ अस्मिन्नहनि चतुर्दशी विधिः इति हेतोः,
उपासना हरेत्त्या चैकादश्यां महामुने ! । चतुर्दश्यां शिवस्येति महापुण्यफलप्रदा ॥
इत्युक्त्या शिवोपासनायां चतुर्दशीदिनेऽधिकमाहात्म्यादित्यभिप्रायः। कैलासगतं रजताद्रिस्यं भगवन्तं माहात्म्यवन्तम् अम्बिकापतिं महेशम् उपासितुं सेवितुम्, अयं पुण्डरीकः, मया ( कपिञ्जलेन ) सह अमरलोकात् स्वर्गात् नन्दनवनसमीपेन इन्द्रोद्याननिकेतेन अनुसरन् कैलासपर्वतमागच्छन्, निर्गत्य इन्द्रोद्यानाद्वहिर्निःसृत्य साक्षान्नन्दनवनदेवतया प्रत्युद्गीभूत्वा इन्द्रोद्यानाधिष्ठात्र्या देव्या प्रणम्य नमस्कृत्य अभिहित उक्त इति सम्बन्धः। तृतीयाया एकवचनान्तानि पदानि 'नन्दनवनदेवतया' इत्यस्य विशेष-
उसीमें उसका मनोरथ पूर्ण हुआ एवं उस श्वेतकेतुसे एक बालकका जन्म हुआ। इसके बाद उसको गोदमें लेकर महर्षिके समीपमें जाकर उसनेने-'भगवन् ! अपने इस पुत्रको ग्रहण करो'-यों कह कर श्वेतकेतुके हाथमें दे दिया। उन्होंने भी उसे ग्रहण कर बालकके उपयुक्त जातकर्मप्रभृति समस्त क्रियाएँ सम्पादन करके पुण्डरीक में उत्पत्ति होने के कारण उसका नाम 'पुण्डरीक' रक्खा। बाद उसका उपनयन संस्कार कराके उसे सब विद्याएँ पढ़ाईं। वही है यह पुण्डरीक।
देव-दानवोंके क्षीरसमुद्रको मन्थन करनेसे जो पारिजात-नामक एक वृक्ष उत्पन्न हुआ था, उसकी यह मञ्जरी है। इस मञ्जरीका धारण करना ब्रह्मचर्यके विरुद्ध होने पर भी जैसे इसने (पुण्डरीकके) कानमें आई यह भी कहता हूँ। आज चतुर्दशी तिथि होनेके कारण, कैलासगामी भगवान् महादेवकी पूजा करनेके लिए ये मेरे साथ स्वर्गलोकसे नन्दन-वनके समीप होकर उस कैलासमें जारहे थे, इतनेमें नन्दन-वनकी साक्षात् अधिष्ठात्री
१. उत्सङ्ग आदाय ।
कुसुममञ्जरीप्राप्त्युदन्त० ६३ ] चन्द्रकला-विद्योतिनीसहिता । ४३५
र्गत्य साक्षान्मधुमासलक्ष्मीदत्तललित-हस्ताव लम्बया, बकुलमालिकामेखलया, पारिजात-कुसु-मपल्लव-ग्रथिताभिरानुलम्बिनीभिः कण्ठमालिकाभिर्निरन्तराच्छादितविग्रहा, नवचूताङ्कुरकर्णपूरया, पुष्पासव-पान-मत्तया, नन्दनवन-देवतया, पारिजातकुसुममञ्जरीमिमामादाय प्रणम्याभिहितः-'भगवन् ! सकलत्रिभुवनदर्शनाभिरामायास्तवाकृतेरस्याः सुसदृशोऽयम् अलङ्कारः, प्रसादीक्रियताम्, इयमवतंस-विलास-दुर्ललिता समारोप्यतां श्रवणशिखरम्, व्रजतु सफलतां जन्म पारिजातस्य' इत्येवमभिधानाञ्चायमात्मरूप-स्तुतिवादं त्रपावनमित-लोचनंः तामनादृत्यैव गन्तुं प्रवृत्तः । मया तु तामनुयान्तीमालोक्य 'को दोषः, सखे ! क्रियतामस्याः प्रणयपरिग्रहः' इत्यभिधाय बलादियमिच्छतोऽप्यस्य कर्णपूरीकृता । तदेतत् कार्त्स्न्येन
णानि । मधुमासलक्ष्म्या वसन्तमासश्रिया दत्तोऽर्पितः ललितहस्तस्य स्वस्य सुन्दरकरस्य अवलम्ब आश्रयो यस्याः तया, वसन्तलक्ष्म्या ललितहस्तधारिण्येत्यर्थः । बकुलमालिका केसरस्रक् मेखला काञ्ची यस्याः तया, पारिजातकुसुमैः मन्दारपुष्पैः पल्लवैः किसलयैश्च ग्रथिताभिर्गुम्फिताभिः आजानुलम्बिनीभिः जानुकीलालम्बमानाभिः कण्ठमालिकाभिः गलदत्तस्रग्भिः निरन्तरं सान्द्रम् आच्छादित आवृतो विग्रहः शरीरं यस्याः तया, नवा नूतनः चूताङ्कुरा आम्रमुकुलाः कर्णपूराः कर्णावतसा यस्याः तया, पुष्पासवस्य प्रसूनमधुरूपमद्यस्य पानेन मत्ता क्षीवा तया ।
किमुक्त इत्यत आह- भगवन्निति । भगवन् स्वामिन् ! सकलत्रिभुवनस्य जगत्त्रयनिवासिनः समस्तलोकस्य दर्शने अवलोकने अभिरामायाः सर्वथा मनोरमायाः, अस्या अवलोक्यमानायाः तवाकृतेः तव स्वरूपस्य सुसदृशोऽनुरूपः अयम् अलङ्कारो भूषणम्, प्रसादीक्रियतां प्रसादपात्रीक्रियताम् अनुग्रहेण स्वीक्रियतामित्यर्थः । नन्वनया मया किं विधेयमिति जिज्ञासायामाह- इयमिति । अवतंसे भूषणस्थाने कर्णे यो विलासः अनया द्युतिसंपादनं तत्र विषये, दुर्ललिता अन्येन दुर्लभतया क्लेशेन लिप्सिता दुष्प्रापेत्यर्थः, इयं पारिजातकुसुममञ्जरी श्रवणशिखरं श्रोत्रोध्वँदेशं समारोप्यतां संस्थाप्यताम्, पारिजातस्य मन्दारस्य जन्म उत्पत्तिः सफलतां सार्थकतां व्रजतु गच्छतु, तव तन्मञ्जरीधारणादित्यभिप्रायः ।
इतीति । किञ्च, इत्येवं पूर्वोक्तप्रकारेण अभिदधानां कथयन्तीम् अयं पुण्डरीकः, आत्मरूपस्य स्वसौन्दर्यस्य स्तुतिवादेन प्रशंसनेन या त्रपा हीः तया अवनमिते नम्रीकृते लोचने नयने येन स तथोक्तः सन्, तां नन्दनवनदेवताम् अनादृत्यैव तिरस्कृत्यैव गन्तुं चलितुं प्रवृत्तः उद्यतोऽभूत् ।
मयेति । तां नन्दनवनदेवताम् अनुयान्तीं पुण्डरीकमनुव्रजन्तीम् आलोक्य दृष्ट्वा, 'हे सखे मित्र ! को दोषः अस्या वनदेवताया अनुरोधस्वीकारे (मञ्जरीग्रहणे ) को दोष इत्यर्थः, प्रणयपरिग्रहः प्रीतिदान-ग्रहणं क्रियतां विधीयताम्' इत्यभिधाय इत्युक्त्वा इयं कुसुममञ्जरी अनिच्छतोऽपि श्रवणोपरिस्थापनमनभिलषितस्यापि अस्य पुण्डरीकस्य, बलात् हठात् कर्णपूरीकृता श्रवणाभरणकृता । तत्तस्मात् कारणात्
देवीने, इस परिजात-पुष्पकी मञ्जरीको लेकर वसन्तलक्ष्मीके हस्त-धारणपूर्वक नन्दन-वनसे निकल कर इन्हें प्रणाम किया । उस समयमें उसने वकुल-पुष्प-मालकी मेखला ( चन्द्रहार ) धारण की थी । पारिजातके पुष्प और पल्लवद्वारा गूँथी हुई और जांघों तक लटकती कण्ठमालाओंसे उसका समस्त शरीर आच्छादित हो गया था और आमके नूतन अङ्कुरका उसने कर्णपूर धारण किया था, एवं पुष्पोंका मद्य पीनेसे मत्त हुई थी । उसके बाद उसने इनसे कहा-'भगवन् ! आपकी यह आकृति, त्रिभुवननिवासी समस्त लोगोंकी दृष्टिसे ही अत्यन्त सुन्दर है, अत एव इसके सुयोग्य इस आभूषणको अनुग्रहपूर्वक ग्रहण कीजिए । कानमें रखकर शोभा सम्पादन करनेमें दूसरेको दुष्प्राप्य 'इस मञ्जरीको अपने कानके ऊपर धारण कीजिए और आज पारिजातवृक्षका जन्म सफल कीजिए ।' वनदेवता इसप्रकार कह रही थी उस समय ये ( पुण्डरीक ) अपने सौन्दर्यकी प्रशंसा सुन कर लज्जासे नयनयुगल अवनत कर उनका अनादर करके ही चलने लगे । इधर उनको भी इनके पीछे-पीछे आती देख इनसे मैंने कहा कि 'मित्र ! इसमें क्या दोष है ? जो यह प्रेमसे देती है उसे स्वीकार करो' इतना कह कर इनकी इच्छा नहीं रहने पर भी मैंने बलपूर्वक यह मञ्जरी इनके कानमें धरत ( पहना ) दी । अत एव यह जो है जिनके
१. क्वचित् 'पारिजाते'ति पदं न विद्यते । २. क्वचित् 'नन्दन' इति पदं न विद्यते । ३. सदृशोऽयम् तु सदृशः । ४. प्रसीद,० क्रियताम्,। ५. आरोप्यताम् । ६. शिखरे । ७. आत्मन्नतिवाद ००० । ८. ००विलोचनः ।
| ४३६ | कादम्बरी- | [ कथायाम्- |
|---|
योऽयम्, यस्य चायम्, या चेयम्, यथा चास्य श्रवणशिखरं² समारूढा तत्सर्वमावेदितम्' १। इत्युक्तवति तस्मिन् स तपोधनयुवा किञ्चिदुपदर्शितस्मितो मामेवादीत्³-'अयि कुतूह- लिनि ! किमनेन प्रश्नायासेन⁴ । यदि रुचितैषा⁵ सुरभिपरिमला तदा॑⁶ गृह्यतामियम्'⁷ इत्युक्त्वा समु- पसृत्यात्मीयात् श्रवणादपनीय कलैरलिकुलक्वणितैः प्रारब्धरतिसमागम-प्रार्थनामिव मदीये श्रवणपुटे तामकरोत् । मम तु तत्करतलस्पर्शलोभेन तत्क्षणमपरमिव पारिजातकुसुमावतंस- स्थाने पुलर्कम्⁸ आसीत् । स च मत्कपोलस्पर्शसुखेन तरलीकृताङ्गुलिजालकात् करतलाद्- अक्षमालां लज्जया सह गलितामपि नाज्ञासीत् । अथाहं तामसम्प्राप्तामेव भूतलमक्षमालां
एतत् जिज्ञासाविषयीभूतं कात्स्न्येन साकल्येन, यश्चायं तपोधनयुवा, यस्य चायं पुत्रः, या चेयं कुसुम-मञ्जरी यदुरुपेत्यर्थः। अपि चेयं कुसुममञ्जरी यथा येन विधिना, अस्य कुमारस्य श्रवणशिखरं कर्णोर्ध्वभागं समारूढा प्राप्ता तत्सर्वं तत्समस्तम् आवेदितं कथितम् ।' इह 'कात्स्न्येन' इत्यस्य स्थाने साकल्येनेति पाठो विधेयः, तथा सत्येव न दुःश्रवत्वदोष इत्यवधेयम् ।
इतीति । तस्मिन् सहचरे इत्युक्तवति सति स तपोधनयुवा पुण्डरीकः, किञ्चित् ईषत् उपदर्शितं प्रकटितं स्मितं मन्दहसं हास्यं येन स तथोक्तः सन् मां महाश्वेताम् अवादीत् प्रत्यवोचत्-'अयि कुतूहलिनि कौतुकवति ! अनेन प्रश्नायासेन पृच्छापरिश्रमेण किं किं प्रयोजनमित्यर्थः । यदि रुचिरतो जिज्ञासितो सुरभिर्घ्राणतृप्तिकरः परिमलः सौरभं यस्याः सा इयं मञ्जरी तदा तर्हि गृह्यतां स्वीक्रियताम्' इत्युक्त्वा इत्यभिधाय मसृपसृत्य समीपमेत्य आत्मीयात् स्वकीयात् श्रवणात् श्रोत्रात् अपनीय उन्मुच्य, तां कुसुममञ्जरीम् , 'कलैः अव्यक्तमधुरैः अलिकुलक्वणितैः सौरभलोभेन तदन्तिकागतमधुकरगणझङ्कृतः करणैः प्रारब्धा प्रस्तुता रतिसमागमस्य सम्भोगसंसर्गस्य प्रार्थना याच्या यया तामिव सतीम् अकरोत् अर्पितवान् । इह सुरतसमागसयाचनोपक्रमेगोत्प्रेक्षणात् क्रियोत्प्रेक्षा ।
ममेति । मम महाश्वेतायास्तु तत्करतलस्पर्शलोभेन पुण्डरीकपाणितलस्पर्शवृष्णया तत्क्षणं तत्काले अवतंसस्थाने तत्कर्णे, अपरं द्वितीयं पारिजातकुसुममिव मन्दारपुष्पमिव उच्चतावनतमुखसादृश्यादित्याशयः, पुलकं ( पुल्लकः ) रोमाञ्चः आसीत् अभवत् । इह द्रव्योत्प्रेक्षा । अत्र 'पुलकम्' इति रोमाञ्चार्थे नपुंसको न युक्तः किन्तु पुल्लिङ्ग एव पाठः साधीयान् अन्यथा च्युतसंस्कृतिदोषस्य वारयितुं कः शक्नुयात् । 'हृदयम्' इति पाठपरिवर्त्तने तु साम्याभावादनुचितार्थदोषापत्तिरित्यवधेयम् ।
स इति । स च सोऽपि युवा, मत्कपोलस्पर्शसुखेन मदण्डस्थलस्पर्शानन्देन, तरलीकृतं कम्पितम् अङ्गुलीनां हस्तात्रयवानांजालकं समूहो यस्य तस्मात् करतलात् पाणितलात् लज्जया त्रपया सह गलितामपि पतितामपि अक्षमालां जपमालां नाज्ञासीत् न ज्ञातवान् । इह सहोक्तिः।
अथेति । अथ अनन्तरम् अहम् भूतलं पृथ्वीतलम् असम्प्राप्तामेव अपतितामेव ताम् अक्षमालां
पुत्र हैं, और यह मञ्जरी जिस वृक्षसे उत्पन्न हुई है एवं जिस रूपसे इनके कान पर आरूढ़ हुई यह आनुपूर्विक सब वृत्तान्त मैंने कह दिया है।'
उसके यों कह चुकने पर वह तपस्वी युवक कुछ मन्द-मन्द हँस कर स्वयं ही मुझसे कहा—'अयि कौतुकवति ! इस प्रश्न करनेके परिश्रमसे क्या प्रयोजन ? यदि इस मञ्जरीके घ्राणतृप्तिकर सौरभमें तुम्हारी अभिलाषा है तो तूँ इसे ले ले'—इतना कह मेरे समीप आकर, भ्रमरगणके अस्पष्ट और मधुर झङ्कार (गुञ्जार) से मानों सम्भोग सम्मिलनकी प्रार्थना करते हुए उस मञ्जरीको, अपने कानमेंसे निकाल कर, मेरे कानमें पहना दिया । उसके करस्पर्शकी आशासे, उसी समय, एक दूसरे पारिजात-कुसुमके समान कर्णाभरण-स्थानमें मुझे रोमाञ्च हो आया । मेरे कपोलस्थल (गाल) के स्पर्श सुखसे उसके भी हाथके अङ्गुलिसमूह काँपने लगे और हाथमेंसे लज्जाके साथ गिरती अपनी जप-मालाको भी वह जाननेमें समर्थ न हुआ । उस जपकी मालाको पृथिवीपर गिरते-गिरते
१. चोऽयं या चेयम् । २. श्रवणशिखरे । ३. क्वचित् 'माम्' इति पदं न विद्यते । ४. प्रश्नाशवेन । ५. क्वचित् 'रुचिते'ति पदं न विद्यते । ६. क्वचित् 'तदे'त्यपि न दृश्यते । ७. क्वचित् 'इयम्' इति पदं नास्ति । ८. हृदयम् ।
पुण्डरीकाद्योपदेशारम्भ० ६४ ] चन्द्रकला-विद्योतिनीसहिता । [ ४३७
गृहीत्वा सलीलं तद्भुज-पाश-सन्दानितकण्ठग्रहसुखमिवानुभवन्ती दर्शितापूर्व-हारलता-लीलां कण्ठाभरणतामनयम्।
इत्थम्भूते च व्यतिकरे छत्रग्राहिणी मामवोचत्-‘भर्त्तृदारिके ! स्नाता देवी, प्रत्यासीदति गृहगमनकालः, तत्क्रियतां मज्जनविधिः’ इति । अहन्तु तेन तस्या वचनेन नवग्रहा करिणीव प्रथमाङ्कुशपातेनानिच्छन्ती कथं कथमपि समाकृष्यमाणा तन्मुखाल्लावण्यपङ्कमग्नामिव कपोल-पुलकैः-कण्टक-जालक-लग्नामिव, मदन-शर-शलाका-कीलितामिव, सौभाग्यगुण-स्यूतामिव अतिकृच्छ्रेण दृष्टिमाकृष्य स्नातुमुदचलम् । उच्चलितायाञ्च मयि द्वितीयो मुनिदारकस्तथाविधं तस्य धैर्य्यस्खलितमालोक्य किञ्चित्प्रकटितप्रणयकोप इवावादीत्—
गृहीत्वा आदाय, तस्य तरुणस्य भुजपाशाभ्यां बाहुपाशाभ्यां सन्दानितः परिवेष्ट्य संयतो यः कण्ठस्तत्र ग्रहसुखं तदालिङ्गनसुखम् अनुभवन्तीव साक्षात्कुर्वन्तीव, दर्शिता प्रकटीता अपूर्वा या आश्चर्य्यरूपया, हारलताया मुक्तालताया लीला शोभा यया तां तादृशीं सतीम्, सलीलं यथा स्यानया कण्ठाभरणतां कण्ठभूषणताम् अनयम् आनीतवती ।
इह 'अनुभवन्तीव' इति क्रियोत्प्रेक्षा, हारलताया लीलेव लीलेति औपम्याक्षेपादसम्भवद्वस्तुसम्बन्धा निदर्शना चेत्यनयोः परस्परं नैरपेक्ष्येण संसृष्टिः ।
इत्यमिति । इत्थम्भूते एतादृशे, व्यतिकरे अन्योन्यासक्तिनिबन्धनाचारे छत्रग्राहिणी सदातपत्रधारिणी माम् अवोचत् अब्रवीत्—‘भर्त्तृदारिके राजपुत्रि ! स्नाता कृतमज्जना देवी स्वन्माता वर्तते अथ च गृहगमनकालः भवनव्रजनसमयः प्रत्यासीदति निकटगतो भवति उपस्थितो भवतीत्यर्थः, तत्तस्मात् मज्जनविधिः स्नानकार्यं क्रियतां विधीयताम्' इति ।
अहमिति । तु किन्तु अहं प्रथमाङ्कुशपातेन आद्यसृणिप्रहारेण, नवो नूतनो ग्रहो धारणं यस्याः सा तथोक्ता करिणी हस्तिनीव, तस्याः छत्रग्राहिण्याः तेन वचनेन वाक्येन, अनिच्छन्त्या अनीहया कथं कथमपि महता कष्टेन समाकृष्यमाणा सती, लावण्यं तस्य सौन्दर्यमेव पङ्कः कर्दमः तत्र मग्नां लीनामिव, क्लेशेनार्कषणादित्याशयः । कपोलयोः तदीयगण्डयोः पुलका रोमाञ्चा एव कण्टकाः क्षुद्रशत्रवः तेषां जालके जाले लग्नां संसक्तामिव कष्टेनाकर्षणादित्याशयः । ‘कण्टकः क्षुद्रशत्रौ च' इति विश्वः । मदनस्य कामस्य शरशलाकाभिः बाणेषिकाभिः कीलितां विद्धामिव, सौभाग्यमेव गुणः तन्तुः तेन स्यूतां कृतसीवनामिव क्लेशेनाकर्षणादिति प्राग्वदिवाशयः । तन्मुखात् तदाननात् अतिकृच्छ्रेण अतिवलेशेन दृष्टिं चक्षुः समाकृष्य परावर्त्य स्नातुं मज्जितुम् उदचलम् उदव्रजम् ।
इह 'नवग्रहा करिणी' इत्यत्रोपमा, 'लावण्यपङ्कमग्नामिव' इत्यत्र निरङ्गकेवलरूपकक्रियोत्प्रेक्षयोरङ्गाङ्गिभावसङ्करः, एवं 'कपोलपुलके' त्यत्र, 'सौभाग्यगुणस्यूतामिद' इत्यत्र चोक्ताऽलङ्कार एव । 'मदनशरशलाकाकीलितामिव' इत्यत्र तु क्रियोत्प्रेक्षा ।
उच्चलितेति । किञ्च, उच्चलितायां मद्व्रजितायां मयि द्वितीयो मुनिदारकः अपरस्तपस्विबालकः तस्य पुण्डरीकस्य धैर्य्यस्खलितं मदनविकारेण धृतिमङ्गम् आलोक्य निरीक्ष्य किञ्चित् प्रकटितः ईषदावि-
रोक कर मैने ले लिया और उस कुमारके भुज-पाशको मानो अपने कण्ठमें वेष्टन कर आलिङ्गन करनेका सुख मान कर अपूर्व हार-लताकी शोभा दिखाती उस मालाको मैंने लीलाके साथ अपने कण्ठका आभरण कर लिया ।
आसक्तिवश परस्पर इस प्रकारका व्यवहार हो जानेपर, मेरी छत्रधारिणी परिचारिकाने मुझसे कहा—'राजकन्ये ! महारानी स्नान कर चुकीं और घर चलनेका समय उपस्थित हो गया है अतः एव आप भी स्नान कर लें' अंकुशके प्रथम ही प्रहार (चोट) से पकड़ी हुई अभिनवा हस्तिनीके समान मैं उस परिचारिकाके वचनसे अनिच्छापूर्वक ही बड़े बड़े प्रयत्नसे पीछे हटी; उस समय मेरी दृष्टि, उसके लावण्यरूपी पङ्कमें मानो फँस गई थी, उसके गण्डस्थल (गाल) पर उत्पन्न हुए रोमाञ्चरूपी कण्टक जालमें मानो प्रविष्ट कर गई थी; कामदेवकी शर-शलाका (बाणरूपी सलाई) से मानो विद्ध हो गई थी; एवं सौभाग्यरूपी सूत्रसे मानो सिल गई थी; अत एव मैं अतिकष्टसे उसके मुखमण्डलसे उस दृष्टिको हटाकर स्नान करनेको चली । मेरे स्नान करनेके लिए चले जाने पर, वह द्वितीय मुनिकुमार पुण्डरीकका इस प्रकार मदनविकारसे धैर्य्यस्खलन देखकर मानो कुछ प्रणय-कोप प्रकट करके ही कहने लगा—
१. क्वचित् ‘अपि’ इत्यधिकं पदमत्र दृश्यते । २. स्नानाय । ३. तथाविधः ।
| ४३८ | कादम्बरी- | [ कथायाम्- |
|---|
'सखे ! पुण्डरीक ! नैतदनुरूपं भवतः। क्षुद्रजनक्षुण्ण एष मार्गः।१ धैर्यधना हि साधवः। किं यः कश्चित्२ प्राकृत इव विह्वलीभवन्तमात्मानं न रुणत्सि। कुतस्तवापूर्वोऽयमचेन्द्रियोपप्लवैः३ ? येनास्येवं कृतः। क्व ते तद्धैर्यम्, कासाविन्द्रियजयः, क्व तद्वशित्वं चेतसः, क्व सा प्रशान्तिः, क्व तत् कुलक्रमागतं ब्रह्मचर्यम्, क्व सा सर्वविषय्निरुत्सुकता, क्व ते गुरूपदेशाः, क्व तानि श्रुतानि, क्व ता वैराग्यबुद्धयः, क्व तदुपभोगविद्वेषित्वम्, क्व सा सुखपराङ्मुखता, कासौ तपस्यभिनिवेशः, क्व सा संयमिता४, क्व सा भोगानामुपर्युरुचिः५, क्व तद्यौवनानुशासनम्। सर्वथा निष्फला प्रज्ञा, निर्गुणो धर्मशास्त्राभ्यासः, निरर्थकः संस्कारः, निरुपकारका गुरूपदेशविवेकः, निष्प्रयोजना प्रबुद्धता, निष्कारणं ज्ञानम्, यदत्र६
प्रकृतः प्रणयकोपः स्नेहक्रोधो येन सः तथोक्त इव सन् भवादीत् अवोचत्—
सख इति। सखे पुण्डरीक मित्र पुण्डरीक ! एतद् विधीयमानं भवतस्तव नानुरूपं नोचितम्। एष मार्गः सुन्दरीदर्शने कामभाव इत्यर्थः, क्षुद्रजनक्षुण्णः नीचजनैराचरितो न तु भवद्विधैरित्यभिप्रायः, हि यतः साधवो मुनयो धैर्यधना धृतिधनाः, हेतुविशेषेणाधैर्यतासम्भवेऽपीत्यभिप्रायः। यः कश्चित् अनिर्दिष्टनामा प्राकृत इव साधारणपुरुष इव, विह्वलीभवन्तं कामावेशेन व्यग्रीभवन्तम् आत्मानं मनः किं न रुणत्सि निरुद्धं करोषि ? तव भवतः अयम् अपूर्वः अनुत्पन्नपूर्वः कुतः कस्मात् इन्द्रियाणां करणानाम् उपप्लवः क्षोभः उद्वेलनम् ? येन इन्द्रियोपप्लवेन एवं कृतः अधीरीकृतः।
क्वेति। ते तव तद्धैर्यं क्व, तथा इन्द्रियाणां करणानाम् असौ जयो निरोधः क्व, तथा चेतसो मनसस्तद्वशित्वं निवृत्तिमार्गे तत्स्वातन्त्र्यं क्व, सा अनिर्वचनीयस्वरूपा प्रशान्तिः शमगुणाश्रयणं (सात्त्विकता) क्व, तथा कुलक्रमेण वंशपरिपाट्या आगतम् आयातं ब्रह्मचर्यं कामविरतिः क्व, तथा सर्वविषयेषु समस्तेन्द्रियार्थेषु निरुत्सुकता निरुत्कण्ठता क्व, तथा गुरूणां हिताहितोपदेष्टृणां ते उपदेशाः शिक्षावचनानि क्व, तथा तानि पूर्वोक्तानि श्रुतानि ज्ञानानि क्व, ताः सर्वाधिका वैराग्यबुद्धयः विरक्तिमतयः क्व, तासाम् अङ्गनानां कामिनीनाम् उपभोगः पुनःपुनरासेवनं तस्मिन् विद्वेषित्वं वैरित्वं क्व, सुखात् सौख्यात् पराङ्मुखता व्यावृत्तता क्व, तपसि व्रतविशेष एव अभिनिवेश आग्रहः क्व, सा प्रसिद्धा संयमिता संयतभावः स्रक्चन्दनवदितादिभिरनाकर्षणमित्यर्थः क्व, भोगानां विषयाणाम् उपरि सा अरुचिः अस्पृहा क्व, तद् यौवनानुशासनं यौवनविकारनिग्रहः क्व।
सर्वथेति। सर्वथा सर्वप्रकारेण प्रज्ञा प्रतिभा निष्फला निष्प्रयोजना, निर्गुणः सदसज्ज्ञानोत्पत्तिरूपगुणरहितः धर्मशास्त्राभ्यासः मन्वादिस्मृतीनां भूयो भूयः पठनम्, संस्कारः शिक्षाजनितचित्तशुद्धिः निरर्थको निष्प्रयोजनः, गुरूपदेशात् आचार्योपदेशाद् यो विवेको बोधः स निरुपकारकः उपकाराकरणाद्व्यर्थक इत्यर्थः। प्रबुद्धता विषयेषु प्रकृष्टज्ञानवत्ता भोग्यानां साररहितत्वमिति ज्ञानमित्यर्थः, निष्प्रयोजना निष्फला, ज्ञानं तत्त्वावबोधः निष्कारणं निर्हेतुकम्, यद् यस्मात् कारणात् भवादृशाः त्वद्विधा अपि रज्यन्ते
'मित्र पुण्डरीक ! इस प्रकारका आचरण करना आपके योग्य नहीं है, क्योंकि यह तुच्छ मनुष्योंके ही व्यवहार करनेका मार्ग है, साधुओंका तो धैर्य ही धन है। क्यों एक साधारण मनुष्यके समान अधीरचित्त होकर आप अपनेको नहीं रोकते ? आज कैसे आपमें यह अपूर्व इन्द्रियोंका उपद्रव उपस्थित हो गया कि जिससे आपकी यह दशा कर दी गई ? आपका वह धैर्य कहाँ गया ? आपकी वह जितेन्द्रियता कहाँ गई ? चित्तकी वह स्वाधीनता कहाँ गई ? वह प्रशान्ति कहाँ गई ? वह वंश-परम्परागत ब्रह्मचर्य कहाँ गया ? समस्त विषयोंके प्रति वह निरुत्सुकता कहाँ गई ? वे गुरुके उपदेश कहाँ गए ? वे सब शास्त्रज्ञान कहाँ गए ? वह वैराग्य-बुद्धि कहाँ गई ? उपभोगके प्रति वह विद्वेष कहाँ गया ? वह सुखपराङ्मुखता कहाँ गई ? तपस्याके प्रति वह आग्रह कहाँ गया ? वह संयतभाव कहाँ गया ? भोगोंके ऊपर वह अरुचि कहाँ गई ? एवं यौवनविकारका वह अनुशासन कहाँ गया ? आज प्रतिभा, सब प्रकारसे निष्फल हुई। धर्मशास्त्रोंका अभ्यास सदसद्विवेकजनननरूपगुणहीन निकला। शिक्षाजनित चित्तशुद्धि निरर्थक हुई ! गुरूपदेशजनित-विवेक किसी प्रकारका उपकारक नहीं हुआ ! विषयों का असारताज्ञान, प्रयोजन-विहीन हुआ ! एवं तत्त्वज्ञान निष्फल (निरुपयोगी) हुआ ! क्योंकि आपके समान लोग भी
१. क्व एष मार्गः।
२. कश्चन।
३. अयेन्द्रियोपप्लवः।
४. क्वचित् 'क्व सा संयमिता' इति पाठो नास्ति।
५. सङ्गानाम्।
६. यत्र।
कादम्बरी-महाश्वेतादशा० ६५ ] चन्द्रकला-विद्योतिनीसहिता । ४३६
भवादृशा अपि रागाभिषङ्गैः कलुषीक्रियन्ते प्रमादैश्चाभिभूयन्ते । कथं करतलाद्गलिताम- पहृतामक्षमालामपि न लक्षयसि । अहो ! विगतचेतनत्वम् । अपहृता नामेयम्, इदमपि तावदपाह्रियमाणम् अनया अनार्यया निवार्यतां हृदयम्' ।
इत्येवम् अभिधीयमानश्च तेन किञ्चिदुपजातत्रप इव प्रत्यवादीत्, कपिञ्जल ! किं मामन्यथा सम्भावयसि । नाहमेवमस्या दुर्विनीतकन्यकाया मर्षयान्यक्षमालाग्रहणापराव- मिमम्' इत्यभिधाय अलीक-कोप-कान्तेन प्रयत्नविरचित-भीषण-भ्रुकुटिभङ्गरेण चुम्बनाभिला- पस्फुरिताधरेण मुखेन्दुना मामवदत्-चपले ! प्रदेशादस्मादिमामक्षमालामदत्त्वा पदात् पद-
पुभिरिति रागाः स्रक्चन्दनकामिनीप्रभृतयो विषयाः तेषु अभिषङ्गैः आसक्तिभिः कलुषीक्रियन्ते मलिनी- क्रियन्ते साष्टपंगं विधाय दुष्टत्वं विधीयन्त इत्यर्थः, प्रमादैः निजकर्त्तव्यात् स्खलनरूपैः अभिभूयन्ते स्वाधीनीक्रियन्ते, तद्भवता सम्प्रति प्रस्तुतमहेशोपासनां विहाय सुन्दर्यामभिषङ्गो विधीयत इत्यभिप्रायः ।
कथमिति । करतलाद् हस्ततलाद् गलिता श्युता तया अपहृतां गृहीताम् अक्षमालां जपमालामपि कथं कस्माद्धेतोः न लक्षयसि जानासि । अहो आश्चर्यम्, विगतचेतनत्वं संज्ञारहितत्वम्, पतिताया अक्ष- मालाया अप्यज्ञानादित्याशयः ।
इति । अनया अनार्यया पुरोऽवलोक्यमानया धृष्टया नायिकया, इयम् अक्षमाला जपमाला अपहृता बलाल्लुष्ठिता नाम, सम्प्रति इदं तावत् अपह्रियमाणं समाकृष्यमाणं हृदयं चित्तमपि निवार्यतां स्वया निषिध्यताम्, एकस्य अपहरणे जाते सम्प्रति अपह्रियमाणस्य रक्षणावश्यकत्वादित्याशयः ।
इतीति । इत्येवं पूर्वोक्तप्रकारेण, तेन कपिञ्जलेन अभिधीयमानः कत्थ्यमानः पुण्डरीकः, किञ्चिदुप- जाता ईषदादुद्भूता लज्जा त्रपा यस्य स तादृश इव प्रत्यवादीत् प्रत्यवोचत्-'सखे कपिञ्जल वयस्य कपि- ञ्जल ! अन्यथा तया नायिकया हृतचित्तं मां किकथं सम्भावयसि नाहं तथेत्याशयः ।
तर्हि कथमेवं तवार्धेयमित्यत आह—नाहमिति । अहम् एवमस्या दुर्विनीतकन्यकाया इमम् अक्ष- मालाग्रहणापराधं जपमालास्वीकरणागसनं न मर्षयामि क्षमे, न खलु मदनविकारजनिता ममेयमधीरता अपि तु कोपजनितेवेत्यभिप्रायः।
इह द्योतिताया अपि मदनविकारजनिताया अधीरतायाः कोपजनितत्वव्याजेन गोपनाद् व्याजोक्तिः।
इतीति । इत्यभिधाय इत्युक्त्वा अलीककोपेन असत्यक्रोधेन कान्तः तान्नरूपतया पूर्वतोऽपिसुन्दरः तेन, प्रयत्नेन कोपाभावेन स्वयंजन्मभावाच्चेष्टया विरचिता विहिता भीषणा भयङ्करा भ्रूकुटिरेव भूषणम् स्फुरारो यस्य तेन तादृशेन, तथा चुम्बनाभिलाषेण चुम्बनेच्छया स्फुरितः स्पन्दितः अधरः ओष्ठो यस्य तेन, मुखमाननम् इन्दुरिव तेन, माम् अवदत् अबोचत्-चपले चञ्चले ! इमाम् अक्षमालां जपमालाम् अदत्त्वा असमर्प्य अस्मात् प्रदेशात् स्थानात् पदात् पदमपि एकपादपि न गन्तव्यं यातव्यम् ।
इह त्रासकारणीभूतभ्रुकुटिनोल्लङ्घारगुणशोभाजननाद् विषमालङ्कारः, 'मुखेन्दुना' इत्यत्र लुप्तोपमा चेत्युभयोः परस्परं नैरपेक्ष्येण स्थितत्वात् संसृष्टिः।
स्रक्चन्दनवनितादिरूप विषयासक्तिसे कलुषित और प्रमादसे अभिभूत होने लगे। क्या आपने अपने हाथमेंसे गिरी हुई और किन्हींके द्वारा अपहरण कर ले ली गई जपमालाको भी नहीं जानते? कितनी आश्चर्यदायिनी आपकी संज्ञाहीनता ! यह प्रगल्भा कन्या आपकी मालाका अपहरण करके तो ले गई पर आपके हृदयको भी जो आहरण कर ले जा रही है उसे तो निवारण कीजिए।'
इसप्रकार कपिञ्जलके कहे जाने पर, मानो कुछ लज्जित होकर, पुण्डरीकने प्रत्युत्तर दिया-'मित्र कपिञ्जल ! क्यों मेरे विषयमें तुम अन्यथा सम्भावना करते हो? मैं इस दुर्विनीत कन्याका अक्षमाला ग्रहण करनेका अपराध क्षमा नहीं करूँगा।' इतना कह कर, मिथ्या क्रोधसे और भी मनोहर लगने, यत्नपूर्वक रचे हुए भयङ्कर भ्रुकुटीरूपी आभूषणसे अलङ्कृत और चुम्बन करनेकी अभिलाषासे कांपने होंठवाले मुख-चन्द्रसे उसने मुझसे कहा-'चञ्चले ! मेरी इस जप-मालाको दिये बिना इस स्थानसे एक कदम भी नहीं गमन कर सकती हो।'
१. प्रमादैः। २. विगतचेतनत्वमपहृतानामेयम् । ३. ह्रियमाणम् । ४. दवन् । ५ चञ्चले ! ।
| ४४० | कादम्बरी- | [ कथायाम्- |
|---|
मपि न गन्तव्यम्' इति । तच्च श्रुत्वाहमात्मकण्ठादुन्मुच्य मकरध्वज-लास्यारम्भ-लीला-पुष्पाञ्जलिमेकावलीं 'भगवन् ! गृह्यतामक्षमाला' इति सन्मुखासक्तदृष्टेः शून्यहृदयस्यास्य प्रसारिते पाणौ निधाय स्वेदसलिलस्नातापि पुनः स्नातुमवातरम् । उत्थाय च कथमपि प्रयत्नेन निम्नगेव प्रतीपं नीयमाना सखीजनेन बलादम्बया सह तमेव चिन्तयन्ती स्वभवनमयासिषम् । गत्वा च प्रविश्य कन्यान्तःपुरं ततः प्रभृति तद्विरहावधुरा किमागतास्मि, किं तत्रैव स्थितास्मि,किमेकाकिन्यस्मि, किं परिवृतास्मि, किं तूष्णीमस्मि, किं प्रस्तुतालापास्मि, किं जागर्मि, किं सुप्तास्मि, किं रोदिमि, किं न रोदिमि, किं दुःखमिदम्, किं सुखमिदम्, किमुक्तण्ठेयम्, किं व्याधिरयम्, किं व्यसनमिदम्, किमुत्सवोऽयम्, किं दिवस एषः, किं निशेयम्, कानि रम्याणि, कान्यरम्याणीति सर्वं नावगच्छम् । अविज्ञातमदनवृत्तान्ता च क्व गच्छामि, किं करोमि, किं पश्यामि, किमालपामि, कस्य कथयामि, कोऽस्य प्रतीकार इति
तदिति । तत्पूर्वोक्तं श्रुत्वा निशम्य आत्मकण्ठात् स्वकीयगलात् अहम् उन्मुच्य, मकरध्वजेन कामेन यो लास्यारम्भः देहसञ्चालनात्मकनृत्यारम्भः तत्र लीलापुष्पाञ्जलिं क्रीडाप्रसूनाञ्जलिं तद्रूपाम्, नृत्यारम्भे पुष्पाञ्जलिप्रक्षेपस्य लोकव्यवहारसिद्धत्वात् अक्षमालायाश्च तद्वदवलोक्यमानत्वादित्याशयः । एकावलीं मदीयमेकपङ्क्तिकं हारम्, 'भगवन् तपोनिधे ! गृह्यताम् उपादीयताम् अक्षमाला स्फटिकाक्षमाला' इति एवं सन्मुखे मदानने आसक्ता आबद्धा दृष्टिरवलोकनं यस्य तस्य, शून्यं विषयान्तरज्ञानवर्जितं हृदयं चेतो यस्य तस्य, अत एव मन्मुक्तमालामपि निजस्फटिकमालात्वेनेवासौ निःशङ्कं जग्राहेत्याशयः । अस्य पुण्डरीकस्य प्रसारिते विस्तारिते पाणौ हस्ते तां निधाय स्थापयित्वा स्वेदसलिलेन घर्मजलेन स्नातापि कृतमज्जनापि पुनर्भूयः स्नातुं मज्जितुम् अवातरम् अवतीर्णवती ।
उत्थायेति । किञ्चेति चार्थः । अहम् उत्थाय सरोवरादुत्थानं विधाय सखीजनेन सहचरीवर्गेण कर्त्रा, प्रयत्नेन बलाच्च निम्नगा सरिदिव कथमपि कष्टेन, प्रतीपं प्रतिकूलं चेतः तपस्विकुमारदिग्गयायित्वेऽपि तत्प्रतिकूलदिशमित्यर्थः नीयमाना प्राप्यमाणा, तमेव मुनिकुमारं चिन्तयन्ती ध्यायती सती, अम्बया जनन्या सह साकं स्वभवनं निजगृहम् अयासिषम् आगतवती । 'निम्नगेव' इत्युपमा ।
गत्वेति । गतैत्य स्वभवनं कन्यान्तःपुरं कन्यावरोधं प्रविश्य प्रवेशं कृत्वा ततः प्रभृति तद्दिनादारभ्य तस्य पुण्डरीकस्य विरहेण वियोगेन विधुरा विह्वला सती, किम् आगता गृहम् आयातास्मि ? किं तत्रैव अच्छोदसरस्तीरे स्थितास्मि विद्यमानास्मि, किम् एकाकिनी असहाया अस्मि, किं परिवृता लोकैः परिवेष्टिता अस्मि, किं तूष्णीं मौनमस्मि, किं प्रस्तुतालापा सहचरीभिरारब्धकथनोपकथनास्मि, किं जागर्मि प्रबुद्धोऽस्मि, किं सुप्ता निद्रिताऽस्मि, किं रोदिमि विलपामि, किं न रोदिमि न विलपामि, किं दुःखं क्लेशमिदम्, किं सुखम् सातमिदम्, किम् उत्कण्ठा उत्सुका इयम्, किं व्याधिरामयः अयम् किं व्यसनं विपदिदम्, किम् उत्सवः समारोहोऽयम्, किम् एष दिवसो वासरः किम् इयं निशा रात्रिः, कानि वस्तूनि रम्याणि मनोहराणि, कानि चारम्याणि अमनोहराणि, इति सर्वं नावगच्छम् न ज्ञातवती ।
अविज्ञातेति । अविज्ञातः पूर्वमनवगतः मदनवृत्तान्तः अनङ्गप्रभावो यया सा, क्व गच्छामि व्रजामि,
उसका यह वचन सुन कर, कामदेवके नृत्यारम्भके समय विलासपुष्पाञ्जलिस्वरूप एक लट्की रुद्राक्षमालाको अपने कण्ठमेंसे उतार कर—'भगवन् ! लीजिए जपकी माला'—यों कह कर, मेरे ही सामने देखते शून्य-हृदय कुमारके माला ग्रहण करनेके लिए प्रसारित हाथमें रख, घर्मजल (पसीने) से स्नान की हुई भी मैं पुनः स्नान करनेके लिए सरोवरमें चली । स्नान कर लेनेके बाद प्रबल प्रयत्नसे मेरी सखियां लाकर मुझे, नदीके समान लौटा लाईं और माताके साथ मैं उस तपोघन युवा (कुमार) का चिन्तन करती-करती बलात्कार अपने घर आई । वहां जाकर कन्यान्तःपुरमें प्रविष्ट हो गई उस समयसे उसके वियोगसे शोकातुर रहनेके कारण—क्या मैं आ गई हूँ या वहीं खड़ी हूँ ? क्या एकाकिनी हूँ या सखियोंसे परिवेष्टित (घिरी हुई) हूँ ? क्या चुप हूँ या आलाप आरम्भ किये हूँ ? क्या जागती हूँ या सोती हूँ ? क्या रोती हूँ या नहीं रोती ? क्या यह दुःख है या सुख है ? क्या यह उत्कण्ठा है या व्याधि है ? क्या यह विपत्ति है या उत्सव है ? क्या यह दिन है या रात्रि है, क्या सुन्दर हैं और क्या कुत्सित है, वे समस्त विषय ही मुझे अवगत नहीं हुए । पहले और किसी समयमें भी मदनवृत्तान्तके अनभिज्ञ
१. क्वचित् 'उन्मुच्य' इति पदं न दृश्यते। २. प्रगतः । ३. सातमिदम् ।
कामाकुलमहाश्वेतादशाव० ६५] चन्द्रकला-विद्योतिनीसहिता। ४४१
सर्वञ्च नाज्ञासिषम्। केवलमारुह्य कुमारीपुरप्रासादं विसर्ज्य च सखीजनं द्वारि निवारि- ताशेषपरिजनप्रवेशा सर्वव्यापारानुत्सृज्यैकाकिनी मणिजालगवाक्षनिक्षिप्तमुखी, तामेव दिशं तत्सनाथतया प्रसाधितामिव कुसुमितामिव¹ महारत्ननिधानाधिष्ठितामिव अमृतरससागरे²पूर- प्लावितामिव पूर्णचन्द्रोदयालङ्कृतामिव दर्शनसुभगामीक्षमाणा, तस्माद्दिगन्तरादागच्छन्त- मनिलमपि वनकुसुमपरिमलमपि शकुनिध्वनिमपि तद्वार्त्ता प्रष्टुमीहमाना, तद्वल्लभतया तपः- क्लेशायापि स्पृहयन्ती, तत्प्रीत्येव गृहीतमौनव्रता, स्मरजनित-पक्षपाता च, तत्परिग्रहान्मुनि-
किं करोमि अनुतिष्ठामि, किं शृणोमि आकर्णयामि, किं पश्यामि अवलोकयामि, किम् आलपामि वदामि, किं कथयामि निवेदयामि, अस्य कः प्रतीकारः प्रतिक्रिया इति सर्वं निखिलं च नाज्ञासिषम् न ज्ञातवती।
केवलनिति। केवलम् अन्यनिरपेक्षं कुमारीपुरप्रासादं कन्यकावरोधगृहम् आरुह्य आरोहणं विधाय च पुनः सखीजनं सहचरीवर्गं विसर्ज्य स्वस्थानं व्रजेत्यभिधाय द्वारि प्रतोश्यां निवारितो निषिद्धः अशे- षाणां समस्तानां परिजनानां सेवकानां प्रवेशः अभ्यन्तरागमनं यया सा, सर्वव्यापारान् समस्तकृत्यानि उत्सृज्य विमुच्य एकाकिनी अद्वितीया, मणीनां रत्नानां जालं समूहो यत्र तथोके गवाक्षे वातायने निक्षिप्तं स्थापितं मुखं वदनं यया सा। तेन तपस्विकुमारेण सनाथतया संयुक्ततया कारणेन, प्रसाधितां भूषिता- मिव, कुसुमितां समुत्पन्नपुष्पामिव, महान्ति बहुमूल्यवन्ति रत्नानि मणयो यत्र तथोकेन निधानेन निधिना अधिष्ठिता आश्रिता तामिव, अमृतरसस्य पीयूषद्रव्यस्य यः सागरः समुद्रः तस्य पूरेण प्लवेन प्लावितामिव पूरितामिव, पूर्णचन्द्रोदयेन समग्रचन्द्रोद्गमेन अलङ्कृतां भूषितामिव, दर्शनसुभगाम् अव- लोकनेन मनोहरम्, तामेव तपस्विकुमारकाधिष्ठितामेव दिशं ककुभं केवलम् ईक्षमाणा अवलोकमाना सती, निष्पन्दं निश्चेष्टम् अतिष्ठमित्युत्तरेण सम्बन्धः। एवमन्येषामपि प्रथमान्तपदानां सम्बन्धो ज्ञेयः।
इह 'प्रसाधितामिव' इत्यारभ्य 'पूर्णचन्द्रोदयादलङ्कृतामिव' इत्यन्तानां पञ्चानामेव क्रियोत्प्रेक्षाणां परस्परं नैरपेक्ष्येण संसृष्टिः।
तस्मादिति। तस्मात् दिगन्तरात् तेन तपस्विकुमारकेणाश्रितादिग्विदेशात्, आगच्छन्तम् आयान्तम् अनिलं वायुमपि, वनकुसुमपरिमलमपि अरण्यपुष्पसौरभमपि तस्माद्दिगन्तरादागच्छन्तमित्यन्वीयते, शकुनिध्वनिमपि तादृशं पक्षिणिनादमपि, तस्य तपस्विकुमारस्य वार्त्ताम् उदन्तं प्रष्टुं प्रश्नविषयीकर्तुम् ईहमाना अभिलषन्ती सती, 'कामात्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु' इति न्यायादित्याशयः। पृच्छुधा- तोर्द्विकर्मकत्वात् 'अनिलम्' इत्यादिषु त्रिषु 'तद्वार्त्ताम्' इत्यत्र च द्वितीया बोध्या।
तदिति। तस्य तपस्विकुमारस्य वल्लभतया प्रियतया तपःक्लेशस्येत्यभिप्रायः, तपःक्लेशायापि तपश्चरणकष्टमपि स्पृहयन्ती अभिलषन्ती, तस्य तपस्विकुमारस्य प्रीत्येव मौनव्रते प्रेम्णेव कारणेन, गृहीत- मौनव्रता अर्थात् तूष्णीमवस्थिता। प्रियजनस्य प्रियविषये स्वस्यापि प्रेम्णः सर्वत्र सिद्धत्वादिति स्थलद्वयेऽपी- त्यभिप्रायः। इह हेतूत्प्रेक्षा।
स्मरेति। स्मरेण कामेन जनित उत्पादितः पक्षपातः सङ्गीकारः तादृशे कुमारे प्रेम यस्याः
होनेसे—कहां जाऊं, क्या करूँ क्या देखूँ, क्या बोलूँ, किसके निकट कहूँ और इसका क्या प्रतीकार करना—ये सब कुछ भी मैं न समझ सकी। बाद कुमारियोंके निवास करनेके महल पर चढ कर, सब सखियोंको विदाकर, द्वार पर सब परिजनोंको भी प्रवेश करनेका निषेध कर, समस्त कार्य परित्याग कर, मणिमय जाली-युक्त गवाक्ष- (खिड़की) में मुखमण्डल संस्थापन कर, निरीक्षण करनेमें मनोहर लगती केवल उसी दिशाकी ओर अवलोकन करती मै अकेली (निश्चलभावसे) सीधी खड़ी रही। मुनिकुमारके उस दिशामें रहनेसे मुझे वह (दिक्) मानो अलङ्कृत हो, पुष्पसे ही मानो शोभित हो, बहुमूल्य-रत्नोंके भण्डारसे मानो परिपूर्ण हो, अमृत-रस-सागरके तरङ्गमें मानो डूबी हो और पूर्णचन्द्रके उदयसे मानो अलङ्कृत हो—ऐसी दीखने लगी। उस दिशासे आती पवनसे भी, वन्यपुष्पके सौरभसे भी, पक्षियोंके स्वरसे भी मैं उसका समाचार पूछनेकी चेष्टा करती थी। तपस्या उसे प्रिय होनेके कारण उस (तपस्या) का कष्ट उठानेकी भी मैं इच्छा करती थी। उसमें अपनी प्रीति होनेके कारण ही मानो मैंने मौनव्रत अवलम्बन किया था। कामदेवका उसके प्रति मेरा अत्यन्त पक्षपात उत्पन्न करनेसे
१. क्वचित् 'कुसुमितामिव' इति पाठो न दृश्यते। २. क्वचित् 'सार' इत्यधिकः पाठ उपलभ्यते।
२८ का०
४४२ कादम्बरी- [ कथायाम्-
वेशस्यै अग्राम्यतां तदास्पदतया यौवनस्य चारुतां तच्छ्रवणसम्पर्कात् पारिजातकुसुमस्य मनोहरतां तन्निवासात् सुरलोकस्य रम्यतां तद्रूपसम्पदा कुसुमायुधस्य दुर्जयताम् अध्यारोप-यन्ती दूरस्थस्यापि कमलिनीव सवितुः सागरवेलेव चन्द्रमसः मयूरीव जलधरस्य तस्यैवा-भिमुखी, तथैव तां तद्विरहातुर-जीवितोद्गम-रक्षावलीमिवाक्षावलीं कण्ठेनोद्वहन्ती, तथैव च तया प्रस्तुततद्रहस्यालापयेव कर्णलग् नया पारिजातमञ्जर्य्या, तथैव च तेन तत्करतलस्पर्शसुखज-न्मना कदम्बमुकुलकर्णपूरायमाणेन रोमाञ्चजालेन कण्टकितैककपोलफलका निष्पन्दमतिष्ठम्।
सा चाहम्, तेन तपस्विकुमारेण परिग्रहाद् आश्रयणादेव मुनिवेषस्य तापसनेपथ्यस्य अग्राम्यतां निर्दो-षताम्, अध्यारोपयन्ती प्रतिपादयन्ती, स तपस्विकुमारः आस्पदम् अवलम्बनं यस्य तस्य भावस्तत्ता तयैव कारणेन, यौवनस्य तारुण्यस्य चारुतां रमणीयत्वम् अध्यारोपयन्ती, तस्य तपस्विकुमारस्य श्रवण-संपर्कात् श्रोत्रसंसर्गादेव कारणात्, परिजातकुसुमस्य कल्पतरुपुष्पस्य मनोहरतां चारुताम् अध्यारो-पयन्ती, तस्य तपस्विकुमारस्य निवासात् अधिष्ठानादेव सुरलोकस्य देवालयस्य रम्यतां मनोहरताम् अध्यारोपयन्ती, तथा तस्य तपस्विकुमारस्य रूपसम्पदा सौन्दर्यसमृद्ध्या कारणेन, कुसुमायुधस्य कामस्य दुर्जयतां मया जेतुमशक्यत्वं च अध्यारोपयन्ती सती, सर्वत्र मदनविहितपक्षपातादित्याशयः । इह 'अध्यारोपयन्ती' इत्येकया क्रियया अग्राम्यताप्रभृतीनामनेकेषां कर्मत्वेनाभिसम्बन्धात्तुल्ययोगिता ।
दूरेति । दूरस्थस्यापि दविष्ठस्यापि सवितुः सूर्यस्य कमलिनीव पद्मिनीव, दूरस्थस्यापि चन्द्रमसः सुधांशोः सागरवेलेव समुद्रजलोच्छ्वास इव, तथा दूरस्थस्यापि जलधरस्य मेघस्य मयूरीव नीलकण्ठ-पत्नीव, दूरस्थस्यापि तस्यैव तपस्विकुमारस्य अभिमुखी संमुखी सती । इह मालोपमा ।
तथैवेति । तस्य तपस्विकुमारस्य विरहेण वियोगेन आतुरं पीडितं यत् जीवितं मम जीवनं तस्य उद्गमे शरीराद्विष्क्रमणविषये रक्षावलीं निर्गच्छतो जीवस्य रक्षणार्थम् अभिमन्त्रितां मालामिव, वियोगे प्रियननस्य यत्किञ्चिद्वस्तुनोऽपि आश्वासनसाधनत्वादित्याशयः । ताम् अक्षावलीं जपमालां तथैव पूर्ववदेव कण्ठेन गलेन उद्वहन्ती धारयन्ती सती । इह जात्युत्प्रेक्षा । सर्वथा निपुणतरा महाश्वेता तत्समये निजवद-नावदूदृष्टेक्षेत्रतोरहितस्य पुण्डरीकस्य करे 'अक्षमाला गृह्यताम्' इत्यभिधाय निजामेव मौक्तिकस्रजं दत्तवती, सा स्फटिकमयाक्षमाला तु तस्या गले एवावलम्बमानासीदिति कदापि न विस्मर्त्तव्यमिति कुशलाः ।
तथैवेति । प्रस्तुततः प्रक्रान्तः तस्य तपस्विकुमारस्य सम्बन्धे रहस्यालापः गोपनीयवार्त्ता यया तयैव, तथैव तपस्विकुमारदत्तक्रमेणैव कर्णलग्नया श्रवणप्राप्तया अन्योऽपि गोपनीयं वक्तुं श्रवणे लगति पारिजा-तमञ्जर्या कल्पवृक्षवल्लर्या उपलचिता । इह गोपनीयकथनप्रक्रान्तोत्प्रेक्षणात् क्रियोत्प्रेक्षा ।
तथैवेति । तस्य तपस्विकुमारस्य करतलस्पर्शसुखात् पाणितलस्पर्शानन्दात् जन्म उत्पत्तिर्यस्य तेन, कदम्बमुकुलस्य नीपकुड्मलस्य यः कर्णपूरः कर्णावतंसः तद्वदाचरता, तेन तत्स्मरणोत्पन्नेन रोमाञ्चजालेन च पुलकसमुहेन च, तथैव प्राग्वदेव कण्टकितं समुत्पन्नकण्टकम् एकम् अद्वितीयम् कपोलफलकं गण्ड-स्थलं यस्याः सा तथोक्ता च सती निष्पन्दं निश्चलम् अतिष्ठम् स्थितवती । इह 'कदम्बमुकुलकर्णपूरायमा-णेन' इत्यत्र क्यङ्लोपोपमा ।
मैं मुनिवेषको उसके धारण करनेके कारण अग्राम्य (निर्दोष) कहने लगी। उसके अङ्गमें यौवन था इसलिए ही यौवनका सौन्दर्य निश्चय करने लगी। पारिजातपुष्पने उसके कर्णका सम्पर्क पाया था इसलिए ही उसको रमणीय स्थिर करने लगी। सुरलोकमें उसका वास होनेके कारण ही मैं सुरलोककी मनोहरता मानने लगी एवं उसकी रूप-समृद्धिका साधन होनेका कारण ही मेरे लिये कामदेव अजेय है ऐसा स्थिर करने लगी। उसके दूरवर्ती होने पर भी, सूर्यके प्रति पद्मिनीके समान, चन्द्रके प्रति समुद्रजलके समान एवं मेघके प्रति मयूरीके समान मैं भी उसके ही अभिमुखी होकर देखा करती थी। उसके विरह-क्लेशसे घबरा कर वहिर्गमनोन्मुख मेरे जीवनकी रक्षामालाके समान वह स्फटिकमय जपमाला वैसी की वैसी मेरे कण्ठमें धारण की हुई थी। उसके सम्बन्धमें मानो गोपनीय आलाप करती हो इस भावसे वह पारिजातकुसुममञ्जरी भी मेरे कानमें वैसी की वैसी संलग्न थी; और उसके करतल-स्पर्शसुखसे उत्थित हुए—कदम्ब-कलिकाके कर्णपूरके समान शोभित—रोमाञ्चसमूहसे मेरे एक भागका गण्डस्थल (गाल) वैसाका वैसा ही कण्टकित हो रहा था।
१. मुनिवेषस्य । २. दूरस्यापि, दूरतः स्थितस्यापि ।
कादम्बर्यान्महाश्वेतावृत्ता० ६५ ] चन्द्रकला-विद्योतिनीसहिता । ४४३
अथ ताम्बूलकरङ्कवाहिनी मदीया तरलिका नाम मयैव सह गता स्नातुमासीत् । सा च पश्चाच्चिरादिवागत्य तथावस्थितां शनैःशनैः मामवादीत्—'भर्तृदारिके ! यौ तौ तापसकुमारकौ दिव्याकारावस्माभिरच्छोदसरस्तीरे दृष्टौ, तयोरेको येन भर्तृदुहितुरियमवतंसीकृता सुर-तरु-कुसुम-मञ्जरी, स तस्माद् द्वितीयादात्मनो रक्षन् दर्शनमतिनिभृतपदः कुसुमित-लता-सन्तान-गहनान्तरेणागत्य मामागच्छन्तीं पृष्ठतो भर्तृदारिकामुद्दिश्याप्राक्षीत्-'बालिके ! केयं कन्यका, कस्य वापत्यम्, किमभिधाना, क्व वा गच्छति' इति । मयोक्तम्-एषा खलु भगवतः श्वेतमानोरंशुसम्भूतायामप्सरसि गौर्य्यां समुत्पन्ना, देवस्य सकल-गन्धर्व-मुकुट-मणिशलाका-शिखरोल्लेख मसृणिते-चरण-नख-चक्रस्य प्रणय-प्रसुप्त-गन्धर्व-कामिनी-कपोल-पत्रलता-लाञ्छित-भुज-तरु-शिखरस्य पादपीठीकृत-लक्ष्मी-करकमलस्य गन्धर्वाधिपतेर्हंसस्य दुहिता
अथेति। ताम्बूलकरङ्कवाहिनी नागवल्लीपात्रधारिणी मदीया तरलिका, मयैव सह स्नातुं मज्जितुं गता याता आसीत् । सा ताम्बूलकरङ्कवाहिनी तरलिका च पश्चात् मद्गृहगमनानन्तरं चिरादिव बहुसमयादिव आगत्य एत्य तथावस्थितां विरहातुरामित्यर्थः । माम् शनैः शनैः मन्दं मन्दम् अवादीत् अवोचत्—'भर्तृदारिके राजपुत्रि ! यौ तौ तापसकुमारकौ मुनिदालकौ कपिञ्जलपुण्डरीकनामानौ दिव्याकारौ अत्यन्तमनेाहराकृती अस्माभिः अच्छोदसरस्तीरे अच्छोदामिधसरोवरतटे दृष्टौ अवलोकितौ, तयोर्द्वयोर्मध्ये एकः पुण्डरीक इत्यर्थः, येन भर्तृदुहितुः भवत्याः इयं पुरो दृश्यमाना सुरतरोः पारिजातस्य कुसुममञ्जरी पुष्पवल्लरी अवतंसीकृता कर्णभूषणीकृता, स तपस्वी पुण्डरीकः तस्माद् द्वितीयात् कपिञ्जलादित्यर्थः, आत्मनः स्वस्य दर्शनं वीक्षणं रक्षन् निवारयन् कपिञ्जलो यथारमानं नावलोकयति तथेत्यर्थः, अति निभृतपदः अत्यन्तनिश्छलचरणसञ्चारः, कुसुमितः पुष्पितः लतासन्तानः वल्लीसमूहो यत्र तयोक्तस्य गहनस्य सान्द्रवनस्य अन्तरेण मध्येन, आगच्छन्तीम् आयान्तीं मां पृष्ठतः पश्चाद्भागात् आगत्य एत्य भर्तृदारिकां भवतीम् उद्दिश्य आश्रित्य अप्राक्षीत् पृष्टवान्—
बालिके इति । 'बालिके कन्यके ! का इयं कन्यका बालिका ?' कस्य महात्मनः अपत्यं पुत्री ? किमभिधाना किनामिका ? क्व वा गच्छति व्रजति' इति । मया तरलिकया उक्तं कथितम्—भगवतो माहात्म्यवतः श्वेतमानोः शुभ्रांशोश्चन्द्रमसः, अंशुसम्भूतायां रश्मिभ्यः समुत्पन्नायां गौर्यां गौर्यभिधानायाम् अप्सरसि दिव्ययोषित्ति समुत्पन्ना सञ्जाता एषा कन्यका, सकलानां समस्तानां गन्धर्वाणां देवगायकानां मुकुटेषु शिरोभूषणेषु या मणिशलाका रत्नशलाकाः तासां शिखरैः अग्रैः उल्लेवेन प्रणामसमये घर्षणेन मसृणितं चिक्कणीकृतं चरणयोः पादयोः नखानां पुनर्नवाणां चक्रं समूहो यस्य तस्या एतेन महासाम्राज्यं व्यञ्जितम् । प्रणयेन प्रेम्णा प्रसुप्ताः सह शयिता या गन्धर्वकामिन्यः देवगायकसुन्दर्यः तासां कपोलेषु गण्डेषु या पत्रलताः पत्राकाराश्चित्रविशेषाः ताभिर्लाञ्छिते चित्रिते सम्भोगकाले आवेष्टनक्रमेण तासामुत्तमाङ्गग्रहणेन भुजयोर्गण्डसंसक्तत्वादित्यभिप्रायः, भुजौ बाहू तरू इव लम्बमानत्वात् स्थूलत्वाच्च वृक्षाविव तयोः शिखरे ऊर्ध्वदेशयुगले यस्य तस्य । अनेन कलाकौशलं ध्वनितम् । पादपीठाकृतं
इसके बाद तरलिका नामकी मेरी ताम्बूलकरङ्कवाहिनी (पानदान रखनेवाली), जो मेरे साथ ही स्नान करनेके लिए गई थी, पीछेसे मानो वह बहुत कालके बाद आकर, मुझसे धीरे धीरे कहने लगी—'राजकन्ये ! हमने अच्छोदसररोवरके तीर पर, जो मनोहराकृति उन दो मुनिकुमारों को देखा थी, उनमें एक, जिसने आपके कानमें इस पारिजात कुसुम-मञ्जरीको पहनाया था, वे उस द्वितीय मुनिकुमारसे अपनेको छिपाकर, पुष्पित-लता परिपूर्ण सघन वनके अभ्यन्तरसे मेरे समीप अत्यन्त निभृत पदसञ्चारसे आकर, मै आती थी तब पीछेसे मुझसे आपके विषयमें पूछने लगा—'बालिके ! यह कन्या कौन है ? किसकी सन्तान है ? इसका नाम क्या है ? और कहाँ गई है ?' तदनन्तर मैंने उत्तर दिया—'भगवन् ! नमस्कार करनेके समयमें समस्त गन्धर्वोंके मुकुटस्थित मणिशलाकाके अग्रभागके सङ्घर्षणसे जिनके चरण-नखसमूह चिकने हो गये हैं, प्रेमसे सोती हुई गन्धर्व-सुन्दरियोंके गण्डस्थल (गाल) पर पत्र-लता-चिह्नसे जिनके वृक्षतुल्य विशाल बाहुयुगलका ऊर्ध्वभाग चिह्नित है, और जिन्होंने लक्ष्मीके कर-कमलका आसन बनाया है (अर्थात् जो लक्ष्मीको अपने निकटसे नहीं सरकने-देते हैं); ऐसे
१. क्वचिद् 'शनैः' इत्येकमेव पदमुपलभ्यते ।
२. कर्णावतंसीकृता ।
३. सुरतरुमञ्जरी ।
४. अंशु संभूतायाम्, अंशुभूतायाम् ।
५. नखदशनानाम् ।