कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
| ५३४ | कादम्बरी- | [ कथायाम्- |
|---|
तथाहि—'चामरिके ! मिथ्यामुग्धतां प्रकटयन्ती कमभिसन्धातुमिच्छसि ? अयि यौवनविलासैरुन्मत्तीकृते ! विज्ञातासि, या त्वं स्तन-कलस-भारावनम्यमानमूर्तिर्मणिस्तम्भ-मयूरानालम्बसे³। परिहासकाङ्क्षिणि ! रत्नभित्तिपतितमात्मप्रतिबिम्बमालपसि⁴। पवनहतो-त्तरीयांशुके ! हारप्रभायासितकरतला सङ्कलयसि⁵। मणिकुट्टिमेषूपहारकमलस्खलनभीते ! निजमुखप्रतिबिम्बकानि परिहरसि । निजसौकुमार्य-गर्व-खर्वित-बिसप्रसून-सौभाग्ये ! जालं-
आकर्णितवान् । एतद्धि कुमारीपुराध्यक्ष्या निखिलाः परिचारिकाः सम्बोध्य सम्बोध्य निजनिजव्यापारे नियोजयन्तीत्यवधेयम् । प्रायेणान्वर्थनामिका इमाः । अनेन कादम्बर्याः सुविशाला खलु विलासोपकरण-सम्पत्तिर्व्यञ्जिता भवति ।
परिहासभाषितानि प्रकटयति—तथाहीति । मिथ्यामुग्धताम् असत्यमार्दवतां प्रकटयन्ती प्रदर्श-यन्ती । अभिसन्धातुं भावप्रकटनेन वञ्चयितुम् इच्छसि अभिलषसि । अनेन क्वापि क्षुविचेष्टादिकं बोधयित्वा परिहसितम् ।
अयीति । अयीति कोमलामन्त्रणे । यौवनविलासैः तारुण्यविभ्रमैः उन्मत्तीकृते मदमत्तीकृते ! विज्ञातासि सम्यग्रूपेण त्वं मया विदितासि । स्तनकलसयोः कुचकलसयोः भारेण गुरुत्वेन अवनम्यमाना मूर्तिः स्वहृपं यस्याः तथोक्ता त्वं मणिस्तम्भेषु रत्नस्थूणासु ये मयूराः रत्नराचता एव कलापिनः तान् आलम्बसे आलिङ्गसि । अनेन कुचकण्डूयनापनोदनाय त्वं मणिमयूरानारिलप्स्यसीति परिहसितम् ।
परीति । परिहासकांक्षिणि परिहामभिलाषिणि ! रत्नभित्तिपतितं मणिकुड्यसंक्रान्तम्, आत्मप्रति-बिम्बं निजप्रतिरूपम् आलपसि परिभाषसे परिश्रमेणेत्याशयः। अनेन कस्यचिच्चिन्तया त्वं बाह्यबोधशून्या-सीति परिहसितम् । इह निजप्रतिबिम्बे अपरतरुणीभ्रमाद् भ्रान्तिमानलङ्कारः प्रतीयत इति कुशलाः ।
पवनेति । पवनेन समीरणेन हृतं नीतम् उत्तरीयां शुकम् उपरिव्यवस्त्रं यस्यास्तत्सम्बोधनम् । आयामितकरतला पुनस्तद्ग्रहणप्रयासेन परिश्रमितहस्ता, उत्तरीयां शुकं परिहितवक्षोपरिस्थितवस्त्रम् आदातुं ग्रहीतुं वारंवारं प्रसारणादित्याशयः, हारप्रभां हारद्युति सङ्कलयसि उत्तरीयवस्त्रम् मन्यसे । अनेन हारप्रभायामुत्तरीयवसनं संसूच्य परिहसितम्, अत एवेहापि उक्तालंङ्कारः प्रतीयते ।
मणिकुट्टीति । उपहारकमलानि शोभासम्पादनाय भूमौ विक्षिप्तानि पङ्कजानि तेषु स्खलनभीता पतनत्रस्ता या तत्सम्बुद्धौ रूपम् । मणिकुट्टिमेषु रत्नबद्धभूमिषु निजमुखप्रतिबिम्बकानि स्ववदनप्रतिच्छा-यानि परिहरसि त्यक्त्वा व्रजसि, तदुपहारपद्मभ्रान्त्येत्याशयः । अनेन निजवदनप्रतिच्छायासु उपहारपद्म-भ्रान्तिबोधनेन शून्यहृदयत्वं बोधयित्वा परिहसितम् । इहापि पूर्ववदलङ्कारः प्रतीयते ।
निजेति । निजसौकुमार्यगर्वेण स्वमार्दवाहङ्कारेण खर्वितं न्यूनीकृतं बिसप्रसूनस्य पङ्कजस्य सौभाग्यं मार्दवं यया सा तत्सम्बुद्धौ रूपम्, अतएव सौकुमार्याधिक्याद्यच्चोदितसूर्यालोकभ्रान्त्यापि छत्रीकरणफल-
परिहास-वाक्यों को उसने सुना ।
जैसे—'अरी चामरिके ! तू यों मिथ्या मुग्धता प्रकाश कर किसको वञ्चना करनेकी इच्छा करती हो ? अरी यौवनविलासोन्मत्ते ! वह हमने जान लिया कि—कलशतुल्य स्तनयुगलके भारके कारण शरीरके अवनत हो (झुक) जानेसे तू मणिस्तम्भके मयूरोंका आलिङ्गन करती है; अरी परिहासकाङ्क्षिणि ! तू तो मणिमय भित्तिमें पड़े हुए अपने ही प्रतिबिम्बके साथ आलाप (बातचीत) करती है;–हे शून्यहृदये ! वायु तुम्हारे उत्तरीय वस्त्रको उड़ा ले गया है, उसको समेटनेके बदले तू तो हाथको परिश्रान्त कर अपने हारकी प्रभाको उत्तरीयवस्त्र (दुपट्टा) समझती हो; अरी बाह्यज्ञानशून्ये ! तू तो मणिवद्ध भूतल पर शोभासम्पादनके लिए रखे कमलों पर गिरनेके भयसे अपने मुखप्रतिबिम्बोंको ही छोड़कर जाती है; अरी कोमलाङ्गि ! तू अपने कोमलताके अभिमानमें कमलकी
१. वृथा ।
२. ज्ञाता ।
३. '''स्तम्भनमयूरानवलम्बते ।
४ '''प्रतिनामाल्पयसि न
५. आकलयसि ।
६. क्वचित् 'निजसौकुमार्य '''इत्यारभ्य 'जाल' पर्यन्तं न विद्यते । क्वचिच्च सम्पूर्णतन्तोषनान्तमेव पदं न दृश्यते ।
कन्यापुरोदन्तवर्णनम् ८१ ] चन्द्रकला-विद्योतिनीसहिता । ५३५
वातायनपतितपद्मरागालोकं^१ प्रति बालातपशङ्कया^२ करतलमातपत्रीकरोषि । खेद-स्रस्त^४-हस्त-गलित-चामरे^५ ! नखमणिमयूख^३कलापमाधूनोषि' इत्येतान्यन्यानि च शृण्वन्नेव कादम्बरी-भवनसमीपम् उपययौ^७ । पुलिनायमानमुपवनलता-गलित-कुसुम-रेणु-पटलैः, दुर्दिनायमाननिभृत-परभृत-नख-क्षताङ्ग^८-सहकारफल-रस-वर्षैः, नीहारायमाणमलिन-विप्रकीर्णैर्वकुल-सेक-सीधु-धारा-धूलिभिः,
सुप्रस्थितमित्याशयः । 'विसप्रसूनराजीवपुष्कराम्भोरुहाणि च' इत्यमरः । जालवातायने जालरूपे गवाक्षे पतितः संस्पृष्टः पद्मरागस्य लोहितमणेः आलोकः प्रकाशः तं प्रति तद्विषये, बालातपशङ्कया प्रत्यग्रोदित-सूर्यप्रकाशभ्रान्त्या करतलं स्वहस्तमेव आतपत्रीकरोषि तत्प्रतिषेधेच्छया छत्रीकरोषि ।
इह लोहितकमणिप्रकाशे बालातपभ्रान्त्या भ्रान्तिमानलङ्कारः । विसप्रसूनादपि तेऽधिकं सौकुमार्यं येन हि नवोदितसूर्यालोकभ्रान्त्यापि सातपत्रकरव्यापारैवेति परिहासः ।
खेदेति । खेदेन मञ्चालनपरिश्रमेण त्रस्तात् शिथिलात् हस्तात् करात् गलितं प्रच्युतं चामरं बाल-व्यजनं यस्यास्तत्सम्बुद्धौ रूपम्, अतएव बालव्यजनभ्रान्त्या नखमणिरश्मिसमूहान्दोलनमित्याशयः । नखमणीनां नखस्थापिताभरणरत्नानां मयूखकलापं रश्मिसमूहम् आधूनोषि चालयस्यजनभ्रान्त्यान्दोल-यसि । इह हि वाचकशब्दाभावादुत्प्रेक्षालङ्कारः प्रतीयते । तयाविधभ्रान्तिवशाच्चोपहासप्रतीतिः । इत्येतानि पूर्वोक्तानि अन्यानि एतदतिरिक्तानि च वाक्यानि शृण्वन्नेव आकणर्यन्नेव कादम्बरीभवनं गन्धर्वराजपुत्री-गृहम् उपययौ जगाम चन्द्रापीड इति शेषः ।
पुलिनेति । उपवनं पार्श्ववर्त्युद्यानं तस्य लताभ्यो वल्लीभ्यो गलितानि पतितानि यानि कुसुमरेणु-पटलानि पुष्पपरागपुञ्जानि तैः पुलिनायमानं श्वेतत्वसादृश्यात् बालुकामयवदाचरन्तम् । इत आरभ्य द्वितीयान्तानि पदानि अग्रेतनस्य 'मार्गमद्राक्षीत्' इत्यत्र मार्गमित्यस्य विशेषणान्यवगन्तव्यानि ।
दुर्दिनेति । अनिभृताश्चञ्चला ये परभृताः कोकिलाः तेषां नखैः नखरः क्षतानि विदीर्णानि अङ्गानि अवयवा येषां तथोक्तानां सहकारफलानां पार्श्वस्थानाम्राम्रफलानां रसवर्षैः, दुर्दिनायमानं दृष्टित्वासम्पदा-चरन्तम् ।
नीहारेति । अनिलविप्रकीर्णैः पवनविक्षेपैः वकुलानां केसराणां वृक्षाणां सेके कुसुमप्रस्फुटनाय सेचनकाले सीधुधाराणां सुन्दरीवदनमद्यप्रवाहाणां धूलिभिः कणैः, नीहारायमाणं श्वेतत्वसादृश्यात् तुहिनपुञ्जवदाचरन्तम् ।
ननु 'रेणुर्द्वयोः स्त्रियां धूलिः' इत्यमरेण धूलिशब्दस्य स्त्रीलिङ्गत्वेन कथमिह पुंल्लिङ्गतेति चेत् ? सत्यम् 'द्विरदघटाकुम्भभित्तिसम्भवेन धातुंधूलिने'ति प्रयोगात् 'धूलिः पुंस्यपि' इत्यमरटीकायां रघुनाथोपा-ध्यायापनिरासात् ।
कोमलताको भी न्यून करती हो, अतएव गवाक्ष जाल (खिड़कियों की जाली) में पड़े पद्मरागमणिके प्रकाशको ही नवोदित सूर्यालोक समझ कर उसे निवारण करनेके लिए छत्र करती (छतरी का काम लेती) हो; अरी अवले ! आन्दोलन-जनित परिश्रमसे तेरे हाथमेंसे चामर गिर पड़ा है—इसे तू जानती नहीं है और केवल नखमणियों ही चामर समझकर आन्दोलन किया (हिलाया) करती है—इस प्रकारके और अन्यान्य अनेक प्रकारके वाक्योंको सुनते-सुनते ही चन्द्रापीड जाकर कादम्बरीके भवनके समीप उपस्थित हुआ (आया) ।
वहाँ उपस्थित होकर उसने एक मार्गको देखा; वह मार्ग पार्श्ववर्ती उद्यानकी लताओंके फूलोंमेंसे पराग गिरनेसे पुलिन (बालुकामय) के समान लगता था; चञ्चल (•आर करती) कोकिलोंके नखसे क्षत-विक्षत (फुँदरे) हुए आम्रोंके फलका रस वर्षण होने (टपकने) से वहाँ वृष्टिके दिनके समान दीखता था; पवनसे इतस्ततः विक्षिप्त किए (बिखरे) हुए—पुष्पविकासके लिए बकुलवृक्षके ऊपर सुन्दरी मुखमद्यधाराके-कणोंसे वह
१. अवलोकम् । २. आशङ्किनी । ३. सानन्दं । ४. खेदग्रस्त••• । ५. कलितचामरा, कलितचामरैः । ६. किरण••• । ७. भवनमुपसृत्य ययौ, भवनमुपययौ । ८. ०क्षताग्रन••• ।
२३६ कादम्बरी- [ कथायाम्-
काञ्चनद्वीपायमानं चम्पकदलोपहारैः१, नीलाशाोक२वनायमानं कुसुम-प्रकर-पतित-मधुकर-वृन्दान्धकारैः, तथा च सञ्चरतः३ स्त्रीजनस्य रागसागरायमाणं चरणालक्तकरसविस्तरैः, अमृतोत्पत्तिदिवसायमानमङ्गरागामोदैः, चन्द्रलोकायमानं दन्तपत्रप्रभामण्डलैः४, प्रियङ्गुवनायमानं कृष्णागुरुपत्रभङ्गैः५, लोहितायमानं कर्णपूराशोकपल्लवैः६, धवलायमानं चन्दनरसविलेपनैः, हरितायमानं शिरीषकुसुमाभरणैः, अथ सेवार्थमागतेनोभयत ऊर्ध्वस्थितेन स्त्रीजनेन प्राकारेणेव लावण्यमयेन कृतदीर्घरथ्यामुखाकारं मार्गमद्राक्षीत्। तेन चान्तर्निपतन्तम्७ आभरण-
काञ्चनेति। चम्पकानां हेमकुसुमानां यानि दलानि पर्णानि तेषाम् उपहारैः शोभासम्पादनाय प्रक्षेपैः, काञ्चनद्वीपायमानं पीतत्वसादृश्यात् सुवर्णद्वीपवदाचरन्तम्।
नीलेति। कुसुमप्रकरेषु पुष्पसमूहेषु पतितानि उपविष्टानि मधुकरवृन्दान्येव भ्रमरपुञ्जान्येव अन्धकाराः तिमिराणि तैः नीलाशाोकवनायमानं श्यामाशाोकारण्यायमानम्।
तथेति। तथा च किञ्चेत्यर्थः। सञ्चरतो गच्छतः स्त्रीजनस्य वनितावर्गस्य चरणालक्तरसानां पादरञ्जनार्थयावकरसानां विस्तरैः प्रसरणैः, रागसागरायमाणं रक्तिम्नः पयोधिबदाचरन्तम्।
अमृतेति। अङ्गरागाणां विलेपनानाम् आमोदैः परिमलैः, अमृतोत्पत्तिदिवसवत् पीयूषोत्पत्तिदिनवदाचरन्तम्।
चन्द्रेति। दन्तपत्राणि गजदन्तरचितपत्राकारश्रवणभूषणानि येषां प्रभामण्डलैः कान्तिसमूहैः चन्द्रलोकायमानं शुभ्रप्रकाशप्रसरणसादृश्याच्चन्द्रलोकवदाचरन्वम्।
प्रियङ्ग्चिति। कृष्णागुरोः काकतुण्डस्य पत्रभङ्गैः पत्राकारतिलकविशेषैः, प्रियङ्गुवनायमानं श्यामत्वसादृश्यात् फलिनीलताविपिनवदाचरन्तम्।
लोहितेति। कर्णपूरभूताः श्रवणालङ्कारीभूता ये अशोकपल्लवाः कङ्कोलकिसलयाः तैः लोहितायमानं रक्तवदाचरन्तम्।
धवलेति। चन्दनरसस्य मलयजद्रवस्य विलेपनैः अङ्गरागैः, धवलायमानं श्वेतवदाचरन्तम्।
हरितेति। शिरीषस्य कपीतनस्य कुसुमाभरणैः पुष्पाscienceलङ्कारैः, हरितायमानं हरित्त्वर्णयुक्तवदाचरन्तम्।
अथेति। अथ अनन्तरम्। उभयतः पार्श्वद्वययोः, लावण्यमयेन सौन्दर्यमयेन सेवार्थं परिचर्यार्थम् आगतेन आयातेन प्राकारेणेव प्राचीरेणेव ऊर्ध्वस्थितेन उपरि विद्यमानेन दण्डायमानेनेत्यर्थः स्त्रीजनेन योषिद्वर्गेण, कृतो विहितः दीर्घरथ्यामुखवत् विस्तृतप्रतोलीमुखवत् आकारो यस्य तम्। प्राग्यदीर्घरथ्याया मुखभागे उभयतो वृत्तिः मध्ये च स्वस्त्यायानो दीर्घा मार्गोऽवलोकयत इत्यभिप्रायः। मार्गं पन्थानम् अद्राक्षीत् आलोकितवान् महाश्वेतया सह गच्छंश्चन्द्रापीड इति शेषः। जात्युत्प्रेक्षा।
तेनेति। वहन्तं प्रसरन्तम्, नद्याः सरितो वेगिकावत् कचकलापवेणीवत् (अर्थात् सरतः) यो जलप्रवाहः सलिलधारा तमिव, तेन मार्गेण च अन्तर्निपतन्तम् अभ्यन्तरादायान्तं संपिण्डितम्
मार्ग मानो तुषार-राशिके समान दीखता था; शोभा-सम्पादनके लिए एकत्रित चम्पकपुष्पके पत्रके ढेरसे वह मानो सुवर्णमय एक द्वीपके समान प्रतीत होता था; विविध स्थानमें विक्षिप्त (बिखेरे) सन्तान्य पुष्पसमूहके ऊपर बैठे हुए भ्रमरोंके अन्धकारसे वह मानो नीलवर्ण अशोक-वनके समान शोभामान था। वहाँ सुन्दरियाँ सर्वदा ही इतस्ततः विचरण करती थीं, अत एव उनके चरणोंके अलक्तक (महावर) रससे वह मानो रक्तिमाके समुद्रके समान देखनेमें आता था; अङ्गलेपके सौरभसे वह मानो अमृतोत्पत्ति-दिनके समान हो; हस्ति-दन्त-निर्मित कर्णभूषणके आलोकसे वह मानो चन्द्रलोकके समान हो; स्तन-कपोलादि स्थानमें गोरोचनकी पत्राकार तिल-रेखाओंसे जड़ित रहनेके कारण मानो प्रियङ्गुलताओके वनके समान हो; अशोकपल्लवके कर्णभूषणसे मानो रक्तवर्ण हो गया हो; शरीरमें लगाए चन्दनमय अङ्गलेपसे मानो धवलवर्णके समान बन गया हो; और शिरीष-पुष्पके आभूषणोंसे मानो हरिद्वर्णके समान प्रतीत हो-ऐसा दीखता था। कादम्बरीकी सेवा करनेके लिए आई हुई, दोनों बगल खड़ी हुई स्त्रियोंसे मानो लावण्यके समान हो ऐसा—दीर्घरथ्याके सम्मुखभाग (चौड़ी सड़कके मुख) के आकारवाला मार्ग उसने देखा। और भी उसने देखा कि—केशपाशवेणीके समान सरल नदीका स्रोत
१. चम्पकोपहारेः। २. लीलाशाोक...। ३. सञ्चरन्। ४. पत्रमण्डलैः। ५. प्रियङ्गुवनायमानं रोचनातिलकभङ्गिभिः, नीलायमानं कृष्णागुरुपत्रभङ्गैः। ६. कर्णाशोकपल्लवैः। ७. निपतितम्।
- कादम्बरीदर्पणे ८६ ] . चन्द्रकला-विद्योतिनीसहिता । १२७
किरणालोकं मणिकुट्टिमं नदीवेणिकाजलप्रवाहमिव वहन्तमपश्यत् । तन्मध्ये च प्रतिस्रोत इव गत्वा प्रतीहारीमण्डलाधिष्ठितपुरोभागं श्रीमण्डपं ददर्श । तत्र च मध्यभागे पर्यन्तरचितमण्डलेनाध उपविष्टेन¹ चानेकसहस्रसंख्येन परिस्फुरदाभरणसमूहेन कल्पलतानिवहेनेव कन्याकाजनेन परिवृताम्, नीलांशुकप्रच्छदपटप्रावृतस्य नातिमहतः² पर्यङ्कस्योपाश्रये धवलोपधानन्यस्त-द्विगुण-भुजलतावष्टम्भेनावस्थिताम्, महावराहदंष्ट्रावलम्बिनीमिव महीं, विस्तारिणि देहप्रभाजालजले³ भुजलताविक्षेपपरिश्रमैः प्रतरन्तीभिरिव चामरग्राहिणीभिरुपवीज्यमानाम्, निपतितप्रतिविम्बतयाऽधस्तान्मणिकुट्टिनेषु
एकत्रीभूतम् चामर० किरणालोकं नानामण्युत्प्रभाप्रवाहम् अपश्यत् दृष्टवान् । इहोपमाऽलङ्कारः ।
तदिति । किञ्च, तस्य चामरकिरणालोकस्य मध्ये प्रतिस्रोत इव गत्वा स्रोतसि तरङ्गानुसारेण स्रोतोऽन्तरमिव व्रजित्वा चन्द्रापीडः, प्रतीहारीमण्डलेन द्वारपालिकासमूहेन अधिष्ठित आश्रितः पुरोभागः संमुखदेशो यस्य तं तथोक्तम्, श्रीम्युक्तं मण्डपः तम् अनेकविधाद्भुतकान्तिशोभितम् एकं भवनमित्यर्थः ददर्श अवलोकितवान् । इह श्रौतीनोपमाऽलङ्कारः ।
तत्रेति । अपि च, चन्द्रापीडः, तत्र श्रीमण्डपे मध्यभागे 'कादम्बरीं ददर्श' इत्यग्रिमविद्यया क्रियया सम्बन्धः । इह श्रीलिङ्गद्वितीयेकवचनान्तानि पदानि अग्रेतनस्य 'कादम्बरीम्' इत्यस्य विशेषणानि बोध्यानि । पर्यङ्केषु पर्यङ्कप्रान्तदेशेषु रचितं विहितं मण्डलं मण्डलरूपेणावस्थानं येन तेन, अधः पर्यङ्काधोभागे उपविष्टेन आसीनेन, अनेकानि बहूनि सहस्राणि दशशतानि सङ्ख्या गणना यस्य तेन, परिस्फुरन् दीप्यमान आभरणसमूहः भूषणगुञ्जो यस्य तेन, तथा कल्पलतानां मन्दारवल्लीनां निवहेन समूहेनेव विद्यमानेन च कन्याकाजनेन कुमारीगणेन परिवृतां परिवेष्टिताम् । कल्पलता अपि अर्थिजनमनोरथपूरणानानेकविद्याभूषायुक्ता इत्युभयोः सादृश्यम्, अत्रोत्प्रेक्षाऽलङ्कारः ।
नीलेति । नीलांशुकमेव नीलवसनमेव प्रच्छदपट आस्तरणवस्त्रं तेन प्रावृतस्य उपर्याच्छादितस्य नातिमहतः स्वल्पविस्तृतस्य पर्यङ्कस्य पल्यङ्कस्य उपाश्रये पार्श्वदेशे, धवलं शुभ्रं यत् उपधानम् तच्छीर्षकं तत्र न्यस्ता स्थापिता द्विगुणा भुजनयग्रन्थिसुन्नलया द्विरावृत्ता या भुजलता वामबाहुवल्ली तस्या अवष्टम्भेन आश्रयणेन अवस्थिताम् ।
रूव इव महावराहस्य नारायणस्य शूकराख्यद्वतीयावतारस्य दंष्ट्रावलम्बिनी दन्ताश्रितां महीं वसुधामिव विद्यमानाम् । तथा च धवलोपधानन्यस्तभुजलता कादम्बरी महींव इत्युपमा, भुजलतावष्टम्भस्य वराहदंष्ट्रासाम्यादिति ।
विस्तारिणीति । विस्तारिणि परितः प्रसारिणि, कादम्बर्या देहप्रभाजालमेव शरीरकान्तिसमूह एव जलं सलिलं तस्मिन्, भुजलताः चामरग्राहिणीनां परिचारिकाणां बाहुलना एव विक्षेपाः सेवनीयदण्डाः तेषां परिश्रमैः आन्दोलनैः प्रतरन्तीभिः भ्रमन्तीभिरिव विद्यमानाभिः, चामरग्राहिणीभिः बालव्यजनधारिणीभिः परिचारिकाभिः उपवीज्यमानां सञ्चाल्यमानाम् । इह परम्परितरूपकं क्रियोत्प्रेक्षा चेत्युभयोः सङ्कीर्णावावडरः । चामरचालनार्थं हस्तो न कम्प्यते अपि तु जले हस्तक्षेपेन तास्तरन्ति इत्यभिप्रायः ।
निपतितेति । अवस्ताद् अधः मणिकुट्टिमेषु रत्नबद्धभूमिषु निपतितप्रतिविम्बतया सङ्क्रान्तप्रति-
विस्तार प्रवाहित होता ई. इसीप्रकार अन्तःपुरस्थित एकत्रित चामरोंके किरण, उस उस मार्गसे निकलता था। वह (चन्द्रापीड) प्रतिस्रोतके समान उस किरणपुञ्जके मध्य होकर अब आगे गया तब उसने नानाविध अलौकिक-शोभा-शोभित एक श्रीमण्डप (गृह) देखा जिसके आगे प्रतिहारियोंका मण्डल बैठा था।
उस श्रीमण्डपके मध्यभाग (बीच) में, पलङ्गके चारों ओर नीचे कल्पलतानसमूहके समान मण्डलाकारसे बैठी, और देदीप्यमान आभूषणोंसे शोभित होती—अनेक सहस्र कन्याओंसे परिवृत, उसने नीलवर्णके एक आस्तरणवस्त्र (चादर) से आच्छादित ढके हुए जो बहुत विशाल न था ऐसे—एक पर्यङ्क (पलङ्ग) के मध्यमें श्वेतवर्ण उपधान (तकिए) पर वक्र करके रखी वाम-बाहुलताके अवलम्बन (सहारे) से बैठी हुई, प्रलयव महावराहकी दंष्ट्रापर लम्बित ठहरती पृथिवीके समान देखनेमें शोभायमान, कादम्बरीको उस (चन्द्रापीड) ने देखा। उसकी शरीरकान्तिके विस्तीर्ण जलमें, अपने अपने भुजलतास्प क्षेपोदण्ड सञ्चालनपूर्वक मानो
१. '०मण्डलेनोपविष्टेन, मण्डलेनाधोऽपविष्टेन ।
२. क्वचित् 'नाति' इति पदं न दृश्यते, क्वचित् 'नातिमहतः' इत्येव दृश्यते ।
३. जालके, लजाये ।
१४ का०
| ५३८ | कादम्बरी- | [ कथायाम्- |
|---|
नागैरिवापह्रियमाणाम्, उपान्ते च रत्नभित्तिषु दिक्पालैरिव पृथक् पृथक्¹ नीयमानाम् उपरि मणिमण्डपेष्वमरैरिवोत्क्षिप्यमाणाम्, हृदयमिव प्रवेशितां महामणिस्तम्भैः, आपीतामिव भवनदर्पणैः, अधोमुखेन श्रीमण्डपमध्योत्कीर्णेन विद्याधरलोकेन गगनतलमिवारोप्यमाणाम्, चित्रकर्मच्छलेनावलोकनकुतूहलसम्पुञ्जितेन त्रिभुवनेनेव परिवृताम्, भूषण-रव-प्रनृत्त-शिखि-शते² चित्र-चन्द्रकेण भवनेनापि कौतुकोत्पादितलोचनसहस्रेणेव दृश्यमानाम्, आत्म-परिजनेनापि दर्शनलोभादुपार्जितदिव्यचक्षुषेवानिमिषनयनेन निर्वर्ण्यमानाम्, लक्षणैरपि
च्छायतया कारणेन, नागैः पातालतलवासिभिः सर्पैः अधस्तात् अपह्रियमाणामिव अन्यत्र नीयमानामिव। अनेन लावण्यातिशयादस्यां सर्पाणामप्यनुरागो व्यञ्जितः। अपि च, उपान्ते निकटे रत्नभित्तिषु मणिकुड्येषु निपतितप्रतिविम्बतया कारणेन, दिक्पालैः इन्द्रप्रभृतिभिर्दशभिर्दिक्पतिभिः पृथक् पृथक् नीयमानामिव प्राप्यमाणामिव, परित एव प्रतिबिम्बपतनादित्यभिप्रायः। अनेनास्यां दिगीश्वराणामप्यासक्तिः सूचिता। उपरि मणिमण्डपेषु ऊर्ध्वस्थरत्नमयच्छद्दिःषु निपतितप्रतिविम्बतया कारणेन, अमरैर्देवैः उत्क्षिप्यमाणामिव उत्तोल्य नीयमानामिव। अनेनास्यां देवानां भावावेशः प्रकाशितः। इह प्रत्येकविशेषण एव क्रियोत्प्रेक्षा।
हृदयमिति। महामणिस्तम्भैः महारत्नस्थूणाभिः हृदयं प्रवेशितामिव चित्तान्तर्गतामिव तेष्वपि प्रतिबिम्बपतनादित्यभिप्रायः। भवनदर्पणैः भित्तिलग्नादर्शैः, आपीतामिव कण्ठाधःकृतामिव, तेष्वपि प्रतिबिम्बपतनादित्याशयः। तथा अधोमुखेन, श्रीमण्डपस्य मध्ये छदिषि उत्कीर्णेन रत्नप्रस्तरं निस्तक्ष्य रचितेन, विद्याधरलोकेन विद्याधरपुत्तलिकाभिः गगनतलम् आकाशतलम् आरोप्यमाणामिव स्थाप्यमानामिव, तेष्वपि प्रतिच्छायापतनादिति भावः। अनेन चैतन्यरहितानामपि भावावेशप्रकाशनादस्या निरतिशयं सौन्दर्यं द्योतितम्। इहाऽप्युक्तरूपेणैवालङ्काराः।
चित्रेति। चित्रकर्मच्छलेन आलेख्यमूर्त्तिव्याजेन, अवलोकनकुतूहलात् कादम्बर्या एव वीक्षणकौतुकात् सम्पुञ्जितेन साक्षात्पिण्डीभावेन, त्रिभुवनेन त्रिविष्टपस्थितसमस्तवस्तुना, परिवृतामिव आच्छादितामिव। इह सापह्नवा क्रियोत्प्रेक्षा। अनेन तत्रानेकविधमालेख्यं तस्याश्च निरतिशयं सौन्दर्यं ध्वन्यते।
भूषणेति। भूषणानाम् आभरणानां रवेण शब्देन प्रनृत्तं नर्त्तनाय प्रवृत्तं यत् शिखिशतं कलापिसमूहः तस्य चित्रचन्द्रका विविधवर्णमेचका यत्र तेन, भवनेनापि तेन श्रीमण्डपेनापि कौतुकेन कादम्बरीवीक्षणकुतूहलेन उत्पादितं जनितं लोचनसहस्रं नयनसमूहं येन तथोक्तेनेव सता मेचकानां नयनतुल्यत्वादित्याशयः, दृश्यमानमिव प्रेक्ष्यमाणामिव। क्रियोत्प्रेक्षा। अनेन तस्याः कलापिसम्पत्तिः सौन्दर्यातिशयश्च प्रतीयते।
आत्मनेति। आत्मनः स्वस्य परिजनेनापि परिचारिकावर्गेणापि, दर्शनलोभात् कादम्बर्या एवावलोकनतृष्णातः उपार्जितानि तपसा प्राप्तानि दिव्यानि निमेषरहितत्वात् स्वर्गीयाणि चक्षूंषि लोचनानि येन तथोक्तेनेव, अनिमिषनयनेन मता, निर्वर्ण्यमानाम् अवलोक्यमानाम्। उपार्जनक्रियोत्प्रेक्षणादुत्प्रेक्षालङ्कारः। अस्या निरतिशयसौन्दर्यं च ध्वन्यते।
लक्षणैरिति। लक्षणैरपि ध्वजवज्रप्रभृतिभिः सर्वसुलक्षणचिह्नैरपि रागाविष्टैरिव कादम्बर्यामासक्ति-
विचरण करती रहती ही चामरधारिणी परिचारिकाएँ चामर-आन्दोलन (ढुग) करती थीं; नीचेकी मणिमय-भूमिमें कादम्बरीके प्रतिबिम्ब पड़नेके कारण, पातालवासी नागगण ही मानो उसे नीचे लिए जाते थे; एव समीपवर्त्ती मणिमय भित्ति (दीवारों) में प्रतिबिम्ब पड़नेके कारण, इन्द्रादिदिक्पालगण ही मानो उसको पृथक् पृथक् रूपमें लिए जाते थे, और ऊपरके मणिमय तलमें, प्रतिबिम्ब पड़नेके कारण, अन्यान्य देवगण ही मानो उसे उठाकर लिए जाते थे। बड़े-बड़े मणिमय स्तम्भोंने मानो उसको अपने हृदयके भीतर प्रवेश कराया था भवन-दर्पणोंने मानो उसका पान किया था; और श्रीमण्डपमें अधोमुखसे उत्कीर्ण (खोदे) हुए विद्याधरमूर्त्तियां मानो उसको आकाशमें उठाकर लेजाती थीं—चित्रित प्रतिमूर्त्तिके ब्याज (बहाने) से त्रिभुवन ही मानो उसके दर्शन करनेके कुतूहलसे आस-पासमें एकत्रित होकर परिवेष्टन किए (घेर लिए) थे। श्रीमण्डप भी मानो उसको देखनेके कौतुकसे आभूषणोंका शब्द सुनकर नाचने सैकड़ों मयूरोंके विचित्र चन्द्रक-रूपी हजारों नेत्रोंसे देखता था; उसके परिजनवर्ग भी, दर्शन करनेके लोभसे ही मानो दिव्य-नेत्र प्राप्त किए हों इस प्रकार निर्निमेष दृष्टि-
१. क्वचित् 'पृथक् पृथग्'ति नास्ति ।
२. क्वचिदिह' 'चित्तन' इति पदमधिकं विद्यते ।
कादम्बरीवर्णना ८६ ] चन्द्रकला-विद्योतिनीसहिता । ४३६
रागातिरेकेणावधिष्टितमर्वाङ्गीम्, अकृतपुण्यमिव मुञ्चन्तीं बालभावम्, अदत्तमपि मन्मथा- वेश-परवशेनैव गृह्यमाणां यौवनेन, अविचलित-चरणराग-दीधितिभिरिव निर्गताभिः अलक्त- करसपाट लित-लावण्यजल-वेणिकाभिरिव गलिताभिः, निवसित-रक्तांशुक-दशा शिखाभिरिव अवलम्बिताभिः, पादाभरण-रक्तांशुलेखा-सन्देहदायिनीभिः, अतिकोमलतया नखविवरेण वमन्तीभिरिव रुधिरधारावर्षमङ्गुलीभिरुपेताभ्यां क्षितितलतारागणमिव नखमणिमण्डल- मुद्वहद्भ्यां विद्रुमरसनदीमिव चरणाभ्यां प्रवर्त्तयन्तीम्, नूपुर-मणि-किरणचक्रवालेन गुरु-
गृहीतैरिव विद्यमानैः, अधिष्ठितानि आश्रितानि सर्वाणि समन्तानि अङ्गानि अवयवा यस्याः ताम् । ध्वज- वज्रादिचिह्नानि यानि तस्यास्तत्तदङ्गेषु विद्यन्ते, तान्यपि कादम्बर्यामासक्तिवशादाश्रितानीति क्रियोत्प्रेक्षा। अनेन सर्वसुलक्षणसम्पत्त्वं सूचितम् ।
अकृतेति । न कृतं विहितं पुण्यं सुकृतं येन तमिव, बालभावं शैशवं मुञ्चन्तीं त्यजन्तीम् । इह भावा- भिमानिनी क्रियोत्प्रेक्षा । सुकृतं विना कादम्बर्याः कायस्पर्शोऽपि न भवतीति सूचितम् ।
अदत्तमिति । अदत्तमपि जनकादिभिरसमर्पितमपि मन्मथावेशपरवशेनैव कामावेगपरावशीनेन सता यौवनेन तारुण्येन स्वयमेव गृह्यमाणां स्वीक्रियमाणाम्, कामावेगपरवशा हि पित्रादिसमर्पणस्य प्रतीक्षां न विदधते । परमार्थतस्तु यौवनं कामावेगपरवशं भवत्येव स्वाभाविकम् । गुणोत्प्रेक्षा। तादृश्याद्रमश्च व्यञ्जितः।
अविचलितेति । इह तृतीयाबहुवचनान्तानि पदानि अग्रेतनस्य 'अङ्गुलीभिः' इत्यस्य विशेषणानि । निर्गताभिः पादरागादेव प्रकर्टिताभिः अविदलिता निष्क्रान्ताः चरणयोः पादयोः रागस्य लौहित्यस्य या दीधितयः किरणाः ताभिरिव विद्यमानाभिः, सर्वत्र लौहित्यसादृश्यादियदाशयः । जात्युत्प्रेक्षा । गलिताभिः चरणद्वयादेव स्यन्दिताभिः, अलक्तरसेन यावकद्रवेण पाटलीतं आरक्तीकृतं यत् लावण्यमेव निरति- शयसौन्दर्यमेव जलं तस्य वेणिकाभिः धाराभिरिव विद्यमानाभिः । इह जात्युत्प्रेक्षा सा च निरङ्गकेवलरूप- केण सङ्कीर्णा । अवलम्बिताभिः, लम्बनानाभिः, निवसितं परिधानीकृतं यत् रक्तांशुकं लोहितवसनं तस्य दशाशिखाभिः वस्त्राग्रैरिव । वस्तुरुत्प्रेक्षा । पादाभरणानां चरणपरिहितनूपुराणां या रक्तांशुलेखा लोहि- तदीधितिश्रेणी तस्याः सन्देहं भ्रमं ददतीति ताभिः । इह भ्रान्तिमान् । अतिकोमलतया अत्यन्तमुदुल- तया कारणेन नखविवरेण नखान्तरेण करणेन रुधिरधारावर्षं रक्तप्रवाहवृष्टिं वमन्तीभिः उद्गिरन्तीभिः इतिविद्यमानाभिः । क्रियोत्प्रेक्षा । एवंविधाभिः अङ्गुलीभिः तादृशाक्ताभिः उपेताभ्यां युक्ताभ्याम्, नखस्य पृथिवीतलस्य तारागणमिव नक्षत्रमण्डलमिव वर्तुलोञ्चलत्वसादृश्यादियाशयः, नखमणि- मण्डलं नखाख्यद्रौणिपुञ्जरत्ननिकरम्, उद्वहद्भ्यां धारयद्भ्याम्, चरणाभ्यां पादाभ्यां करणाभ्याम्, विद्रुमर- मस्य प्रवालगिर्याख्यस्य नदीं सरितं प्रवर्त्तयन्तीम् अवतारयन्तीमिव विद्यमानां कादम्बरीम् । तथा च 'चर- णाभ्यां विद्रुमरसनदीमिव प्रवर्त्तयन्तीम्' इति विशेषणवाक्यास्यायं निर्गलितोऽर्थः—कोमलरक्तयोश्चरणयोः अरुणा प्रभा मन्दवान् प्रसरति अत एव विद्रुमरसनदीप्रवर्त्तनस्योत्प्रेक्षा । पादौ च अङ्गुलीभिस्तेनैव, अङ्गुष्ठ- यश्च पादरागरुचिना इव, लावण्यजलवेणिका इव इत्यादिनिश्शेषवार्तानिर्गजित इत्यहो कवयितुश्चातुर्य्यम् ।
नूपुरेति । गुर्वीः बृहत्यः निस्रवन्त्यः कटिपश्चाद्भागयोः मदेन भारेण चिन्नं क्लान्तं यत् ऊरुयुगलं
(रक्षक) से उसकी सेवा करते थे; समस्त शुभलक्षण भी उसमें अवशेष रूपपर था मानों उसके समस्त अवयवोंमें अधिष्ठित (आबद्ध) हुए थे; शैशवावस्था ने पुण्य नहीं किया है इसलिए ही मानों उसने उनका परित्याग कर (छोड़ दी थी; पिता-माताके द्वारा दान नहीं किए जाने पर भी, मन्मथकाल के आवेश से ही मानों पराधीन हो- कर मानों अपने से ही उसका ग्रहण किया था; चरणोंको स्थिर रक्तिमा (रंग) की किरणों मान बाहर निकलती थीं, अलक्तक-रस-रंजित (अलता, महावर के रस से युक्त हुए) लावण्यजलकी धारा बहती हो, पूर्व परिहित (पहने हुए) रक्ताम्बरकी किनारीके अग्रभाग (पल्लीकी कोरें) मानो लटकता हुआ हो, ऐसे पादाभरणोंमेंसे निसृत होती-लालवर्ण किरणोंकी लताओका भ्रम उत्पन्न कराती और अत्यधिक कोमल होनेके कारण नखान्द्रद्वारा मानो रुधिरधारा वमन करती (उगलती) अंगुलियोंवाले भूतलके नक्षत्रसमूहके समान नखमणि-मण्डलको संवह्नित चरणोंसे वह मानो प्रवालनदीके रसकी एक नदीकी सृष्टि करती थी; उसके नूपुरोंके मणियोंमेंसे निकलने किरणों-
१. ०मर्वाङ्गाम्, सर्वत्रैववत् ।
२. गलिताभिय, विनिसृताभिः
३. निर्गमितम्...
४. ददातिरिति ।
५. वामिनीभिरिव ।
६. बहुभिर्मिः ।
| ५४० | कादम्बरी- | [ कथायाम्- |
|---|
नितम्ब-भर-खिन्नोरुयुगलं-सहायतामिव कर्तुमुद्गच्छता स्पृश्यमानजघनभागाम्, प्रजापति-कर-दृढ-निपीडित॑-मध्यभाग-गलितं जघन-शिलातल-प्रतिघाताल्लावण्य॑स्रोत इव द्विधागत-मूरुद्वयं दधानाम्, सर्वतः प्रसारित-दीर्घ-मयूख-मण्डलेनेर्ष्यया परपुरुषदर्शनमिव निरुन्धता³ कुतूहलेन विस्तारमिव तन्वता स्पर्शसुखेन रोमाञ्चमिव मुञ्चता काञ्चीदाम्ना नितम्बबिम्बस्य विरचित-परिवेषाम्, निपतित-सकल-लोक-हृदय-भरेणेवातिगुरुनितम्बाम्, उन्नतकुचान्तरित-मुख-दर्शन-दुःखेनैव क्षीयमाण-मध्यभागाम्, प्रजापतेः स्पृशतोऽतिसौकुमार्यात् अङ्गुली-
सखिद्वन्द्वं तस्य सहायताम् ऐकदेशिकनितम्बभारवहनेन साहाय्यम्, कर्तुं विधातुमिव उद्गच्छता ऊर्ध्वं वजता, नूपुरयोः पादकटकयोः मणिकिरणानां रत्नश्मीनां चक्रवालेन मण्डलेन स्पृश्यमानौ स्पर्शविष-यीक्रियमाणौ जघनभागौ जघनदेशौ यस्यास्ताम् । इह क्रियाफलोत्प्रेक्षा ।
प्रजापतीति । प्रजापतेः सृष्टिकर्तुः कराभ्यां हस्ताभ्यां दृढनिपीडितः रचनासमये नितान्तकृशत्वस-म्पादनाय अत्यन्तनियन्त्रितो यो मध्यभागः कटिदेशः तस्माद् गलितं प्रच्युतम्, अथ च जघनमेव ऊरु-रेव शिलातलं प्रस्तरमलं गुरुत्वात् कर्कशत्वाच्चेत्याशयः, तेन प्रतिघातात् कारणात् द्विधागतं द्विधाविभक्तं लावण्यस्रोत इव सौन्दर्यप्रवाह इव, ऊरुद्वयं जघनयुगलं दधानां धारयन्तीम् ।
इह घायुत्प्रेक्षा, सा च निरङ्गकेवलरूपकेन सङ्कीर्णा । अनेन च मध्यभागस्यातीव कृशत्वम् । जघनभागस्य गुरुत्वं कर्कशत्वञ्च, ऊरुद्वयस्य च लावण्यमयत्वं प्रतीयत इत्यलङ्कारेण वस्तुध्वनिः ।
सर्वत इति । सर्वतः प्रसारितं परितो विस्तारितं मयूखमण्डलं किरणसमूहो येन तेन, अतएव ईर्ष्यया परपुरुषदर्शनम् अन्यपुरुषावलोकनं निरुन्धतेव अवरोधं विदधतेव निजावरणादित्याशयः, कुतूह-लेन कौतुकेन विस्तीर्णस्यापि विस्तारं विशालं तन्वतेव विदधतेव निजरश्मिभिरित्याशयः, तथा स्पर्श-सुखेन संश्लेषानन्देन रोमाञ्चं पुलकं मुञ्चता त्यजंतेव निजरश्मिषु पुलकभ्रममुत्पादयतेत्यर्थः, काञ्ची-दाम्ना रशनागुणेन नितम्बबिम्बस्य विरचितो विहितः परिवेषः परिवेष्टनं यस्यास्ताम् ।
इह 'निरुन्धतेव' 'तन्वतेव' 'त्यजतेव' इति त्रिष्वेव क्रियोत्प्रेक्षालङ्कारः, 'रोमाञ्चम्' इत्यादौ वृत्त्यनु-प्रासश्छेकानुप्रासावलङ्कारावित्येतेषां परस्परं नैरपेक्ष्येण संसृष्टिः ।
निपतितेति । निपतितानि अत्यन्तरमणीयत्वादारूढानि सकलानां समस्तानां लोकानां जनानाम् यानि हृदयानि चेतांसि तेषां भरेण भारेणेव अतिगुरु अत्यन्तविशालो नितम्बो यस्यास्ताम् । इह हेतूत्प्रेक्षा ।
उन्नतेति । उन्नताभ्याम् उच्चाभ्यां कुचाभ्यां स्तनाभ्याम् अन्तरितं निजोच्चत्वाद् व्यवहितं यद् मुखदर्शनं वदनावलोकनं तस्य दुःखेनेव कृच्छ्रेणेव कारणेन क्षीयमाणः कृशत्वं प्राप्यमाणो मध्यभागः कटि-देशो यस्यास्ताम् । इहाप्युक्तालंकारः ।
प्रजेति । अतिसौकुमार्यात् कादम्बरीवपुषोऽतीवमार्दवत्त्वाद्धेतोः स्पृशतः सर्जनसमये दृघतः प्रजापतेः
विशाल नितम्बयुगलके भारसे खिन्न हुई जंघाओंकी मानो सहायता करनेके लिए ही—ऊँचे उठकर जघनस्थलका स्पर्श करती थी; उसके निर्माण करनेके समयमें विधाताके हाथसे अत्यन्त दबाव पाकर मध्यभाग (कमर) में से विगलित होकर (गल कर) गिरा, जघनरूपी शिलातलके प्रतिघात (टक्कर) से दो भाग में विभक्त हुआ लावण्य-स्रोतके समान हो ऐसे ऊरु-युगलको वह धारण की थी; चारों ओर दूर तक किरणें फैलाकर, ईर्ष्यावश मानो; पर-पुरुषके अवलोकनका निवारण करते, कौतूहलसे मानो और भी अधिक विस्तार उत्पन्न करते, और स्पर्शसुखद्वारा अपने किरणोंमें रोमाञ्च-भ्रमको मानो उत्पादन करते चन्द्रहारने उसके नितम्ब-बिम्बका परिवेष्टन कर रखा था । (आकृष्ट होकर) गिरे हुए सब लोगोंके हृदयके भारसे ही मानो उसके नितम्बमण्डल अत्यन्त भारी हो गए थे; उन्नत स्तनमण्डलके व्यवहित हो जानेके कारण, मुखका दर्शन न मिलनेके दुःखसे ही मानो उसका मध्यभाग (कमर) क्षीण हो गया था; शरीर अत्यन्त कोमल होनेके कारण, निर्माण करनेके समयमें स्पर्श करते हुए
१. सहायम्, सहायतन्द् । २. प्रजापतिदृढनिपीडित । ३. क्वचिदिह 'जल' इत्यधिकः पाठः । ४. तन्व्यता । ५. सौकुमार्याद् ।
कादम्बरीवर्णना ८६ ] चन्द्रकला-विद्योतिनीसहिता । ५४१
मुद्रामिव निमग्नां नाभिमण्डलीम्¹ आवर्त्तिनीमुद्वहन्तीम्, त्रिभुवन-विजय-प्रशस्ति-वर्णावली-मिव लिखितां मन्मथेन रोमराजिमञ्जरीं² बिभ्राणाम्, अन्तःप्रविष्ट कर्ण-पल्लव-प्रतिबिम्बेनाति-भरे³स्विद्यमानहृदय-करतल-प्रेर्यमाणेनेव निष्पतता मकरकेतुपादपीठेन स्तनभरेण भूषिताम्, अधोमुख-कर्णाभरण-मयूखाभ्यामिव प्रसूताभ्याममल-लावण्य-जल-मृणाल-काण्डाभ्यां⁴ बाहुभ्यां नख-किरण-विसर-वर्षिणा च माणिक्यवलयगौरवश्रमवशात्⁵ स्वेदजल-धाराजालकमिव मुञ्च-ता करयुगलेन समुद्भासिताम्, स्तनभारावनम्यमानमाननमिवोन्नमयता हारेणोद्यैः⁶ करैर्गृहीत-
स्रष्टुः निमग्नां देहे प्रविष्टाम् अङ्गुल्या अङ्गुल्यस्य मुद्रां चिह्नमिव आवर्त्तिनीम् आवर्त्तवत् अम्भसां भ्रमिवत् मध्यगतौ यस्यास्तादृशीं नाभिमण्डलीम् उद्वहन्तीं धारयन्तीम् । जात्युत्प्रेक्षा ।
त्रिभुवनेति । मन्मथेन कामेन लिखितां 'सौन्दर्येणानया त्रिभुवनं विजितम्' इति कामदेवसदृशेन ( निर्णायकेन ) लिपीकृतामित्यर्थः स्वस्य त्रिभुवनविजयस्य प्रशस्तिवर्णावलीम् आत्मप्रशंसावोधकाक्षर-पङ्क्तिमिव रोमराजिमञ्जरीं तनूरुहसमूहवल्लरीं बिभ्राणां दधानाम् । उक्तालंकारः ।
अन्तरिति । अन्तःप्रविष्टं निर्मलत्वादन्तर्गतं कर्णपल्लवप्रतिबिम्बं श्रवणकिसलयप्रतिच्छाया यस्य तेन अतिभरेण कुचयोरत्यन्तभारेण स्विद्यमानं पीड्यमानं हृदयं वक्षस्तेन कर्त्रा करतलेन ( हृदयपतितमेतद्वि-म्बमेव हृदयस्य करतलं तेन ) 'करणेन' प्रेर्यमाणेन नोद्यमानेन, अतएव च निष्पतता निःसरता, मकर-केतोः कामस्य पादपीठेनेव पदासनेनेव विद्यमानेन स्तनभरेण भारवत् कुचमण्डलेन भूषितां मण्डिताम् । अयमाशयः—स्रष्टु हृदयं कामपीठातितस्तनभारेण नितान्तं स्विन्नम्, अतएव कर्णपल्लवप्रतिविम्वरूपेण आत्मनः ( हृदयस्य ) करतलेन तत् ( स्तनरूपं कामपदासन्म् ) खेदभरासहनतया बहिर्निस्सार्यमाण-मस्ति, अतएव तु क्रमेण बहिर्निस्सरतीति । उक्तालंकारः अतएव हि कुचयोर्निर्मलत्वं कामोद्दीपकत्वं विशालत्वञ्च ध्वन्यत इत्यलङ्कारेण वस्तुध्वनिः ।
अधोमुखेति । प्रसूताभ्यां सुदूरपर्यन्तं विस्तृताभ्याम्, अधोमुखयोः अवाङ्मुखयोः कर्णाभरणयोः सुवर्णरचितश्रवणालङ्कारयोः मयूखाभ्यां स्थूलरश्मिभ्यामिव विद्यमानाभ्याम् । उक्तालंकारः, अतएव च भुजयोर्निर्मलत्वं ध्वन्यते । तथा श्रमलं स्वच्छं यत् लावण्यमेव जलं तस्य मृणालकाण्डाभ्यां बिसदण्ड-रूपाभ्यां बाहुभ्यां भुजाभ्यां समुद्भासितां शोभितामिति सम्बन्धः । इह परम्परितरूपकम्, अतएव च भुजयोर्मार्द्दवत्वं प्रतीयते । तथा नखकिरणानां करशाखारश्मीनां विसरं समूहं वर्षति वृष्टिं करोतीति तेन, अतएव माणिक्यवलययोः रत्नमयकटकयोः गौरवेण उद्वहनभारेण यः श्रमः तद्वशात्, अनेन नितान्तको-मलत्वं ध्वन्यते, स्वेदजलधाराणां प्रस्वेदसलिलप्रवाहाणां जालकं समूहमिव मुञ्चता त्यजता करयुगलेन हस्तद्वयेन च समुद्भासितम् ।
इह नखकिरणसमूहे स्वेदसलिलप्रवाहसमूहत्वमुत्प्रेक्षितमिति जात्युत्प्रेक्षा ।
स्तनेति । स्तनयोर्वक्षोजयोः भारेण अवनम्यमानं नम्रत्वं नीयमानम् आननं मुखम् उन्नमयतेव उच्चैः कुर्वतेव विद्यमानेन, हारेण मुक्ताकलापेन कर्त्रा, उच्चैः उत्तोलितैः करैः रश्मिभिरेव हस्तैः करणैः, गृहीतः चिबुकदेशः अधराघोभागो यस्यास्ताम् ।
विधाताके मानो अङ्गुष्ठ का चिह्न जिसके भीतर निमग्न हो गया हो ऐसे-नदीके जलावर्त्तके समान-गोल नाभि-मण्डलको उसने धारण किया था; कामदेवने मानो अपने त्रिभुवन-विजयकी कीर्त्तिसूचक वर्णमाला लिखकर रखा हो इस प्रकारकी रोमपंक्तिको वह धारण करती थी; कामदेवके पादपीठके समान भारी उसका स्तन-युग—इस प्रकार बाहर निकल पड़ा था मानो कर्णपल्लवके प्रतिबिम्बका अन्तःप्रवेश हो जानेके कारण हृदय, अत्यन्त भारसे परिश्रान्त हो (थक) कर नीचे दब जानेसे, हस्तद्वारा उसको ठेल देता (सरकता) हो; उसके बाहु; मानो कर्णा-भरणके अधोमुख फैलती किरणोंके समान एवं निर्मल लावण्य-जलमें उगे मृणालदण्डके समान प्रतीत होते थे; नखोंमेंसे बरसते किरणोंके मेहसे उसके दोनों हाथ ऐसे दीखते थे मानो मणिनय-वलय (कङ्कण) पहननेके भारसे श्रान्त होकर घर्मजल (पसीने) की धारा गिराते हों; स्तनके भारसे अवनत हुए (नीचे झुके) मुखमण्डलको मानो फिरसे उन्नत (ऊँचा) करनेके लिए किरणमय हस्त उठा करके हार उसके चिबुकदेश (अधराधो भाग),
१. नाभिमण्डलम्, नाभित्थलीम् ।
२. रोमराजी ।
३. ॰॰॰मर॰॰॰ ।
४. ॰॰॰मृणालकान्त्यामिव, मृणालाभ्याम् ।
५. वहनश्रमात् ।
६. रुच्चैः ।
| ५४२ | कादम्बरी- | [ कथायाम्- |
|---|
चिबुकदेशाम्, अभिनवयौवनपवनक्षोभितस्य रागसागरस्य तरङ्गाभ्यामिवोद्गताभ्यां विद्रुम-लतालोहिताभ्यामधराभ्यां रक्तावदातस्वच्छकान्तिना च मदिरारसपूर्णमाणिक्यशुक्तिसम्पुटच्छविना कपोलयुगलेन रति-परिवादिनी-रत्नकोण-चारुणा नासावंशेन च विराजमानम्, गतिप्रसरनिरोधि श्रवणकोपादिव किञ्चिदारक्तापाङ्गेन निजमुखलक्ष्मीनिवासदुग्धोदधिना लोचनयुगलेन लोचनमयमिव^१ जीवलोकं कर्तुमुद्यताम्, उन्मदयौवनकुञ्जरमदराजिभ्यां मनः-
इह 'उन्नामयता इव' इत्यत्र क्रियोत्प्रेक्षा, करशब्दश्लेषमूलकेन चिबुककर्मकस्पर्श-ग्रहणयोरभेदाध्यवसायेनातिशयोक्तिश्चेत्युभयोरङ्गाङ्गिभावसङ्करः।
अभिनवेति। अभिनवं नूतनं यौवनं तारुण्यमेव पवनः चापल्यकारणत्वाद्वायुः तेन क्षोभितस्य उद्वेलितस्य रागोऽनुराग एव सागरः समुद्रः तस्य, उद्गताभ्याम् उत्थिताभ्यां तरङ्गाभ्यां वीचिभ्यामिव, तया विद्रुमलतावत् प्रवालवततिवत् लोहिताभ्यां रक्ताभ्याम् अधराभ्यां दन्तच्छदाभ्यां विराजमानां शोभमानामिविति सम्बन्धः। तथा रक्ता लोहिता च सावदाता धवला च स्वच्छत निर्मला च कान्तिद्युतिर्यस्य तेन, अतएव मदिरारसेन मद्यद्रवेण पूर्णं यत् माणिक्यशुक्तिसम्पुटं रत्नमयशुक्तिपुटं तद्वत् छविर्द्युतिर्यस्य तेन, कपोलयुगलेन गण्डद्वयेन च विराजमानम्। तथा रतेः कामपत्न्याः या परिवादिनी सप्ततन्त्रीयुता वीणा तस्या रत्नकोणवत् मणिमयवादनदण्डवत् चारुणा रमणीयेन, कामोद्दीपनसूचनाय 'रतिपरिवादिनी' इत्यभिहितम्। नासावंशेन नासिकादण्डेन च विराजमानम्।
इह '******यौवनपवने'त्यत्र 'रागसागर' इत्यत्र च परम्परितरूपकम्, 'तरङ्गाभ्याम्' इत्यत्र जात्युत्प्रेक्षा, '******लतालोहिताभ्याम्' इत्यत्र लुप्तोपमा चेत्येतेषामङ्गाङ्गिभावसङ्करः। '******सम्पुटच्छविना' इत्यत्र '******रत्नकोणचारुणा' इत्यत्र च लुप्तोपमालङ्कारः। तथा 'तरङ्गाभ्याम्' इत्यत्र रक्तविशेषणानुपादानेन न्यूनपदत्वदोषस्तु न शङ्क्यः, 'रक्तौ च क्रोधरागौ' इति कविसमयानुसारान् अनुरागसागरस्य रक्तत्वेन वक्तस्तरङ्गयोरपि रक्तत्वावगमादिति कुशलाः। 'विपञ्ची सा तु तन्त्रीभिः सप्तभिः परिवादिनी' इत्यमरः।
गतीति। गतिप्रसरनिरोधिनोः श्रवणयोः कोपादिव स्वस्य गतिवेगनिरोधोत्पन्नो यः श्रोत्रद्वयं प्रति क्रोधस्तस्मादिवेत्यर्थः, किञ्चिदारक्तौ ईषदालोहितौ अपाङ्गौ प्रान्तदेशौ यस्य तेन, अनेन नेत्रद्वयस्य श्रोत्रान्तविस्तृतत्वं प्रतीयते। निजम् आत्मसम्बन्धि यन्मुखं वदनं तस्य लक्ष्मीः शोभैव श्रीः तस्या निवासे वसतौ दुग्धोदधिना क्षीरसमुद्रेण, अनेन नयनयोरेव मुखशोभोत्पादकत्वं ध्वन्यते। एवंविधेन लोचनयुगलेन नेत्रद्वयेन जीवलोकं लोचनमयमिव निजावलोकनाय केवलनेत्रग्राह्यमिव कर्तुमुद्यतां विधातुं तत्पराम्, अनेन नेत्रद्वयस्यानुपमसौन्दर्यं ध्वन्यते।
इह 'गति*********कोपादिव' इत्यत्र हेतूत्प्रेक्षालङ्कारः '******लक्ष्मीनिवासे'त्यादौ श्लिष्टपरम्परितरूपकम्। 'लोचनमयमिव' इत्यत्र क्रियोत्प्रेक्षा। तथा 'लोचनयुगलेन लोचनमयमिव' इत्यत्र लोचनपदस्य द्विरुपादानात् पुनरुक्ततादोषः समापतति, तेन 'तन्मयमिव' इति पाठविधानेनादोषात्।
उन्मदेति। यौवनं तारुण्यमेव कुञ्जरो दुष्प्रतिषेध्यवेगत्वादस्ती इति यौवनकुञ्जरः, उन्मद उन्मत्तो
दाढ़ी को धारण करता था; उसके प्रवालके समान रक्तवर्ण ओष्ठयुगल, नवयौवन-रूप वायु-वेगसे उद्वेलित (क्षोभ पाए हुए) अनुराग सागरमेंसे उठती तरंगोंके समान दीखते थे; उसके गण्डयुगल (गाल) की शोभा, निर्मल और श्वेतरक्त-मिश्रित (स्वच्छ गुलाबी) थी, अत एव वे गण्डयुगल, मद्य-रससे परिपूर्ण मणिमय शुक्तिकाके सम्पुटके समान दीप्ति पाते थे; उसकी नासिका, रति-देवीके वीणा के रत्नमयवादनदण्ड (मिजराब) के समान विशेष सुन्दर लगती थी; उसका नयन युगल, अपने मुख-लक्ष्मीके बसने का क्षीरसागरस्वरूप था; जिसके प्रान्तभाग कोने और भी दीर्घ होनेके लिए अपने गतिके मार्गमें विघ्न डालते कानों पर मानो क्रुद्ध होकर ही ईषद् आरक्तवर्ण (जरा-सा लाल) हो गए थे; उससे समस्त जीवलोकको मानो वह लोचनमय करनेको उद्यत हुई थी; मदमत्त यौवन-हस्तीकी दो मद-जल-रेखाके समान दोनों भौंहें और अनुरक्त कामदेवके
^१. नयनमयमिव ।
कादम्बरीवर्णना ८६ ] चन्द्रकला-विद्योतिनीसहिता । ५४३
शिलापङ्कलिखितेन च रागाविष्टेनं मन्मथहृदयेनेव वदनलग्नेन तिलकविन्दुना विद्योतित-ललाटपट्टाम्, उत्कृष्टहेमतालीपट्टाभरणमयमामुक्तकर्णोत्पलच्युतमधुधारासन्देहकारिणं कर्ण-पाशं दोलायमानपत्रमकरं माणिक्यकुण्डलं दधतीम्, पाटलीकृतललाटेन सीमन्तचुम्बिन-श्चूडामणेः क्षरतांशुजालेन मद्रारसेनेव प्रक्षाल्यमानदीर्घकेशकलापाम्, देहार्द्धप्रविष्टहर-गर्वित-गौरी-विजिगीषयेव सर्वाङ्गानुपविष्ट मन्मथदर्शितसौभाग्यविशेपाम्, उरःसमारोपितैक-लक्ष्मी-मुदितनारायणावलेप-हरणाय प्रतिबिम्बकैर्निजरूपतो लक्ष्मीशतानीव सृजन्तीम्,
यो यौवनकुञ्जरः तस्य मदराजिभ्यां दानवारिरेखाभ्यां अलक्ताभ्याम् , मनःशिलाया 'मैनशिल' इति निजाभिधेयप्रख्यातस्य धातुविशेषस्य पङ्केन निर्यासेन लिखितश्चित्रितः तेन, रागाविष्टेन अनुरागसंयुतेन मन्मथस्य कामदेवस्य हृदयेनेव, हृदयस्यापि दार्शनिकदिशा विन्दुरूपत्वादित्याशयः, वदनलग्नेन आनन-संसक्तेन तिलकविन्दुना विद्योतित उल्लासितः ललाटपट्टो भालफलकं यस्यास्ताम् ।
इह 'उन्मदयौवनकुञ्जरे'त्यत्र परम्परितरूपकम्, मन्मथहृदयेनेव' इत्यत्र च जात्युत्प्रेक्षालङ्कारः ।
उत्कृष्टेति । उत्कृष्टम् अत्यन्तसुन्दरं यत् हेमन्तः सुवर्णस्य तालीपत्रवत् तालीपत्रवत् आभरणम् आभूषणं तन्मयं तद्व्याप्तम् आमुक्तात् परिधानीकृतात् कर्णोत्पलात् श्रवणकुवलयात् च्युता गलिता या मधुधारा मकरन्दप्रवाहः तस्याः सन्देहं भ्रमं कत्तुं शीलं यस्य तम्, तन्मधुप्रवाहस्यापि पीतत्वादित्याशयः, तथा दोलायमानं दोलावदाचरत् पत्रं स्वर्णपत्रं यत्रैवंविधं मरकतमाणिक्याभ्यां निर्मितं कुण्डलं यत्रेति बहुव्रीहिगर्भो बहुव्रीहिः, कर्णे कुण्डलं कुण्डले च तदवयवभूतं स्वर्णपत्रमिति तदर्थः, एतादृशं कर्णपाशं प्रशस्तकर्ण दधतीं धारयन्तीम् । ईह भ्रान्तिमानलङ्कारः ।
पाटलीति । सीमन्तः केशवेशः तं चुम्बति स्पृशतीति सीमन्तचुम्बी तस्मात् तादृशात् चूडामणेः शिरोमणेः क्षरता स्रवता, तथा पाटलीकृतं श्वेतरक्तीकृतं ललाटं भालं येन तेन, मद्रारसेनेव मद्यद्रवेनेव विद्यमानेन लौहित्यसादृश्यादित्याशयः, अंशुजालेन किरणसमूहेन, प्रक्षाल्यमानः स्पृश्यमानः दीर्घो विस्तृतः केशकलापः कचसमूहो यस्यास्ताम् । उपमा ।
देहार्द्धेति । देहार्द्ध शरीराद्धैमात्रे प्रविष्टेन हरेण महेशेन गर्विता अहङ्कारयुता या गौरी पार्वती तस्या विजिगीषयेव विजेतुमिच्छयेव, सर्वषु समस्तेषु अङ्गेषु अवयवेषु अनुप्रविष्टेन शिवद्वेषिणा मन्मथेन मदनेन दर्शितः प्रकाशितः सौभाग्यविशेषः शैलात्मजातः शुभागशतिशयं यस्यास्ताम् , शरीराद्धैमात्रप्रविष्टापेक्षया निखिलावयवप्रविष्टदेवतायाः मर्वतोऽपि सौभाग्यविशेषः सम्भवितुमर्हतीत्याशयः । हेतूत्प्रेक्षा ।
उर इति । उरसि वक्षःस्थले समारोपिता स्थापिता या एका केवला लक्ष्मीः श्रीः तया मुदितस्य प्रसन्नस्य नारायणस्य विष्णोर्यः अवलेपः 'मत्सदशः कोऽपि नास्ति यान्त्येषां लक्ष्मीः सा वहिरेव संयोग-वियोगमात्रेण न शरीरान्तर्गता' इत्येवं तल्लक्ष्मीसमारोपणजनितोऽहङ्कारः तस्य हरणाय दूरीकरणाय, प्रतिबिम्बकैः कुड्यादिषु स्वस्य प्रतिच्छायाभिः, निजरूपतः स्वराकारात् लक्ष्मीणां श्रीणां शतानि समूहान् सृजन्तीमिव कुर्वन्तीमिव, एकैकप्रतिच्छायास्यैवकैकश्रीसदृशत्वादित्याशयः ।
इह 'सृजन्तीमिव' इति क्रियोत्प्रेक्षा । अनेनार्याः लक्ष्मीसदृशसौन्दर्यं प्रमीयते ।
हृदयके समान मानों वदन पर चित्रित हो ऐसा तरल मनःशिलाके लेपका तिलक बिन्दु उसके ललाटदेशमें विशेष शोभा पाता था; सुन्दर कर्णमें उसने उत्कृष्ट सुवर्णके ताली-पट्ट-भूषणमय कर्णपाश पहने थी, जिनमें सुवर्णके पत्ते हिलते थे ऐसे मरकत और माणिक्यके कुण्डल पहने थी,—उनसे मानो कमलमेंसे मधुधारा छूटती हो ऐसा भ्रम उत्पन्न होता था; ललाटदेशको श्वेतरक्त (गुलाबी) कर देती, सीमन्त पर पड़नो चूडामणिमेंसे मदिराके समान श्वेतरक्तवर्ण निकलनी किरणें दीर्घकेशकलापको प्रक्षालिन करती थी; महादेवने शरीरके केवल अर्द्धाशमें पार्वतीको प्रविष्ट कर लिया था, उसने पार्वतीको जो गर्व उत्पन्न हुआ, उसको हटानेकी अभिलापासे ही मानो कामदेव उस (कादम्बरी) के समस्त अङ्गमें प्रवेश कर पार्वतीके अतिरिक्त इसके सौभाग्यको अधिक प्रकाशित करना था; एकमात्र लक्ष्मीको वक्षःस्थल पर स्थापित करनेसे ही आनन्दित-चित्त नारायणको जो अहङ्कार उत्पन्न हुआ था, उसे दूर करनेके लिए ही मानो वह अपनी आकृतिमें से प्रतिबिम्बद्वारा सैकड़ों लक्ष्मियोंको उत्पन्न करती थी;
१. रागाविष्ट...। २. एकमाश्लिष्टहेमतालीपुटामरणमयम् । ३. ००० मरकत ००० । ४. ००० चुम्बितचूडामणेः । ५. रागेण । ६. उरःसमारोपितलक्ष्मी ००० । ७. एकलक्ष्मी ००० ।
५४४ कादम्बरी- [ कथायाम्-
उत्तमाङ्गनिहितैकचन्द्रविस्मितहराभिमाननाशाय विलासस्मितेश्चन्द्रसहस्राणीव दिक्षु विक्षिपन्तीम्, निर्दयदग्धैकमन्मथप्रमथनाथरोषेणेव प्रतिहृदयं मन्मथायुतान्युत्पादयन्तीम्, रजनी-जागरखिन्नस्य^१ परिचितचक्रवाकमिथुनस्य स्वप्तुं क्रीडानदिकासु कमलधूलिवालुकाभिर्बालपुलिनानि कारयन्तीम् 'परिजननुपूररवप्रस्थितं वल्लभं^२ हंसमिथुनं^३ मृणालनिगडेन बद्ध्वानय' इति हंसपालीमादिशन्तीम्, आभरणमरकतमयूखान् लिहते^४ भवनहरिणशावकाय सखीश्रवणादपनीय यवाङ्कुरप्रसरं^६ प्रयच्छन्तीम्, आत्मसंवर्द्धितं^७ लता-प्रथम कुसुम-
उत्तमेति । उत्तमाङ्गे मस्तके निहितेन स्थापितेन एकेनैव अद्वितीयैनैव चन्द्रेण शशिना विस्मितस्य स्वस्य तस्थाने आश्चर्ययुक्तस्य हरस्य महेशस्य यः अभिमानः चन्द्रस्थापनजनितो गर्वः तस्य नाशाय दूरीकरणाय विलासस्मितैः सविभ्रममन्दहासैः दिक्षु आशासु चन्द्राणां सहस्राणि समूहान् विक्षिपन्तीमिव विकिरन्तीमिव, एकैकस्यैव स्मितस्य एकैकचन्द्रसदृशत्वादित्याशयः । उत्प्रेक्षालङ्कारः ।
निर्दयेति । निर्दयं निष्करुणं यथा स्यात्तथा दग्धो भस्मीकृत एकोऽद्वितीयो मन्मथः कामदेवो येन तथोक्ते प्रमथनाथे महेशे यो रोषः कोपः तेनेव कारणेन, तरुणानां प्रतिहृदयं प्रतिचित्तं मन्मथानाम् अयुतानि दशसहस्राणि समूहानित्यर्थः उत्पादयन्तीं जनयन्तीम्, कटाक्षादिनेति शेषः !
इह हेतूत्प्रेक्षा । अनेन चास्या निखिलानामेव मदनोद्दीपकत्वं व्यञ्जितम् ।
रजनीति । रजन्यां रात्रौ जागरणेन अन्योन्यवियोगक्लेशोत्थाजागरेण खिन्नस्य क्लान्तस्य, परिचितं यत् चक्रवाकमिथुनं रथाङ्गयुगलं तस्य इह सम्बन्धविवक्षया कर्त्तरि षष्ठी, तुमून् प्रयोगे 'न लोकाव्यये'ति षष्ठीनिषेधात् । स्वप्तुं निद्रातुं क्रीडानदिकासु खेलातटिनीषु कमलधूलयः पङ्कजपरागा एव बालुकाः सिकताः ताभिः, बालपुलिनानि, लघुसैकतानि, कारयन्तीं परिजनवगैरिति शेषः । अनेन तस्याः परिचितेषु निरतिशयवात्सल्यं पशुसम्पच्च प्रतीयते ।
परिजनेति । 'परिजनस्य प्रचालितायाः कस्याश्चित्परिचारिकायाः, नूपुररवेण पादकटकशब्देन तदनुसरणेनेत्यर्थः, प्रस्थितम् इतो यातम्, वल्लभं मम प्रियं च हंसमिथुनं चक्राङ्गयुगलं मृणालनिगडेन विसस्वरूपशृङ्खलया बद्ध्वा नियम्य आनय मदन्तिकं प्रापय' इति एवं हंसपालीं स्वस्य चक्राङ्गरक्षिकां काञ्चित् परिचारिकां सेविकाम् आदिशन्तीम् आज्ञापयन्तीम् । अनेनास्याः हंसयुगलप्रियत्वं ध्वनितम् ।
आभरणेति । आभरणभूता भूषणभूना ये मरकतमणयः अश्मगभीणि तेषां मयूखान् श्यामरश्मीन् लिहते तृणभ्राम्येण जिह्वया आस्वादयते भवनहरिणशावकाय गृहसृगशिशवे सखीश्रवणात् सहचरीश्रोत्राद् अपनीय दूरीकृत्य यवाङ्कुरप्रसरं विस्तृतयवकिसलयं प्रयच्छन्तीं ददतीम् ।
इह मरकतमणिमयूखानां श्यामत्वाद्धरितघासबुद्ध्या भवनहरिणशावकैरास्वादनाद् भ्रान्तिमानलङ्कारः प्रतीयते ।
आत्मेति । आत्मना स्वयमेव संवर्द्धिताया जलसेकादिना वृद्धिं प्रापिताया लताया वल्ल्रयाः प्रथमः
एकमात्र चन्द्रको मस्तकमें धारण करनेनें ही विस्मित हुए महादेवजी के अभिमान हुआ था, उसे विनष्ट करनेके लिए अपने विलास मय ईषद् हास्य से वह मानो प्रत्येक दिशानें हजारों चन्द्रका निक्षेप करती (चन्द्र फेंकती) थी; महादेवने निर्दयतासे एकमात्र कामदेवको दग्ध कर (जला) दिया था, उससे मानों कुपित होकर ही वह प्रत्येक व्यक्तिके हृदयमें लाखों काम उत्पन्न करती थी; परस्पर वियोगजनित रात्रिमें जागरण करनेसे खिन्न हुए परिचित (पालतू) चक्रवाक-दम्पतिके निद्राके लिए, क्रीडानदियोंके अभ्यन्तरमें कमल-धूलि-रूप वालुका (रेतीं) के द्वारा वह छोटे-छोटे पुलिन वनवाती थी; 'मेरा प्रीति-भाजन हंस-मिथुन किसी परिचारिकाके नूपुर शब्दका अनुसरण कर इस स्थानसे चला गया है, इसलिए तुम उसे मृणालकी रस्सीसे बांधकर ले आओ' - इस प्रकार वह हंस-रक्षिणी परिचारिकाको आज्ञा दे रही थी; आभूषणोंमें जड़े हुए मरकतमणि की किरणोंको तृण मानकर चाटते हुए गृहपालित हरिणके बच्चों को वह किसीके कानमें से एक विस्तृत यवांकुरको निकालकर देती थी; अपनेते
१. खिन्नस्य ।
२ दुर्लभा ।
३. प्रस्थितं च वल्लभहंसमिथुनं ।
४. लिहते च, लिहते हरिततृणोच्छोले-भेन ।
५. क्वचिद 'भवन' पदं न दृश्यते ।
६. प्रसवं ।
७. आत्मवर्द्धित ।
कादम्बरीवर्णना ८६] चन्द्रकला-विद्योतिनीसहिता । ५४५
निर्गम-निवेदनागतामुद्यानपालीमशेषाभरणदानेन सम्मानयतीम्, उपनीत-विविध-वन-कुसुम-फल-पूर्ण-पत्रपुटामविज्ञायमानालापत्या हासहेतुं पुनः पुनः क्रीडापर्वत^१पात्-शबरीमालाप-यन्तीम्^२, करतलविनिहतैः^३ मुहुर्मुहुरुत्पतद्भिर्भु^४ मुखपरिमलान्वैर्नीलकन्दुकैरिव^५ मधुक़रैः क्रीडन्तीम्, पञ्जरहारीतक^६-रुत-श्रवण-कृत-दुष्टस्मितां चामरग्राहिणीं विहस्य लीलाकमलेन शिरसि विघट्टयन्तीम्, मुक्ताफल-खचित-चन्द्रलेखिका-संक्रान्तप्रतिमां^७ स्वेदजल-बिन्दुर्जाल-चित-नख-पदाभिप्रायेण ताम्बूलकरङ्कवाहिनीं पयोधरे^९ पटवासमुष्टिना ताडयन्तीम्,
आद्यो यः कुसुमनिर्गमः प्रसूननिस्सरणं तस्य निवेदनाय कथनाय आगतां प्राप्ताम्, उद्यानपालीम् उपवनरक्षाकारिणीम् अशेषाभरणदानेन समस्तालङ्कारप्रदानेन संमानयन्तीं संमानं कुर्वन्तीम् ।
उपनीतेति । उपनीतम् आनीतं विविधैः नानाप्रकारैः वनकुसुमफलैः अरण्यप्रसूनसस्यैः पूर्णं पत्रपुटं यया ताम्, अविज्ञायमाना आयन्तविरूपशब्दप्रचुरत्वाद्विशेषेणाप्रतीयमानार्थका आलापा भाषा यस्याः तस्या भावः तया कारणेन, हासहेतुं कुतूहलेन हास्यनिमित्तीभूताम्, क्रीडापर्वतं खेलागिरिं पाति रक्षतीति क्रीडापर्वतपात्री सा चासौ शबरी किरातपत्नी चेति ताम्, पुनः पुनर्भूयोभूयः आलपन्तीं कुतूहलविधानाय निजभाषां भाषयन्तीम् । अनेन कादम्वर्या निरतिशयकुतूहलप्रियत्वं प्रतीयते । प्राकृतपर्वते निवसन्ती शबरी मानवीं भाषां न जानाति, किन्तु कृत्रिमक्रीडापर्वतपालिकाऽपि निजभर्तुर्भाषां न ज्ञायते इति कल्पनातिशयमेव महाकवेरिति विभावयन्तु सुधियः।
करतलेति । नीलकन्दुकैरिव श्यामवर्णगेन्दुकैरिव करतलाभ्यां हस्ततलाभ्यां विनिहतैः दूरीकरणाय उत्दोलनाय च ताडितैः, अतएव मुहुर्मुहुः वारंवारम् उद्दडयनं कुर्वद्भिः, मुखस्य वदनस्य परिमलेन आमोदेन अन्धैः मत्तैः, मधुक़रैर्रभ्रमरैः क्रीडन्तीं खेलन्तीम्।
इह 'नीलकन्दुकैरिव' इत्युपमा, ज्ञनया च तथाविधभ्रमरैः क्रीडनसम्बन्धाभावेऽपि तत्सम्बन्धप्रतिपादनादतिशयोक्तिः सङ्कीर्यते । तया च तद्वदनस्य निरतिशयामोदवत्वं प्रतीयते ।
पञ्जरेति । पञ्जरे पञ्जरबन्धनगृहे विद्यमानो हारीतको 'हरियाल' इति लोकप्रसिद्धः पक्षिविशेषः तस्य रुतश्रवणेन कूजनाकर्णनेन कृतं विहितं दुष्टं निन्दासूचकं स्मितं यया ताम्, चामरग्राहिणीं बालव्यजनधारिणीं विहस्य हास्यं विधाय शिरसि मस्तके लीलाकमलेन लीलापद्मेन विघट्टयन्तीं ताडयन्तीम् । अनेन तस्या अन्यनिन्दया विरक्तिर्ध्वन्यते ।
मुक्ताफलेति । मुक्ताफलैः रत्नोद्भवैः खचिता उपरि सम्बद्धा या चन्द्रलेखिका लघुचन्द्राकृतिः आभूषणविशेषः तस्याः सकाशात् सङ्क्रान्ता स्तनमण्डले एव पतिता प्रतिमा प्रतिच्छाया यस्यास्ताम्, ताम्बूलकरङ्कवाहिनीं नागवल्लीदलपिटिकाधारिणीम्, स्वेदजलबिन्दुजालेन घर्मसलिलकणसमूहेन चितं व्याप्तं यत्त नखपदं कामुककृतनखक्षतं तदभिप्रायेण तदाशयेन तत्सम्भावनां व्यञ्जयित्वेत्यर्थः, पटवासमुष्टिना मुष्टिपरिमितरक्षपिष्टातकचूर्णप्रक्षेपेणेत्यर्थः, पयोधरे कुचमण्डले ताडयन्तीं विघटयन्तीम्, तद्दिहाच्छादनाभिप्रायेणेत्याशयः । लघुचन्द्रलेखाप्रतिच्छाया नखचिह्नसदृशी लघुमुक्ताप्रतिविम्बानि च स्वेदसलिलकण-
हो जिस लताको परिवर्धित की थी उसमें निकले हुए प्रथम-पुष्पको निवेदन करनेके लिए आई हुई उद्यानपालिका (मालिन) को वह नानाविध आभूषणोंको देकर सन्तुष्ट करती थी; क्रीडापर्वतकी रक्षा करनेके लिए जिसको नियुक्त किया था वह शबरी (भीलनी, म्लेच्छविशेष), नानाविध वन्यपुष्प और फलसे परिपूर्ण एक पत्रपुटक (पत्तोंकी दोनी) को लेकर उपस्थित हो निवेदन करती थी, किन्तु उसके कहनेके अभिप्रायको अच्छी तरहसे नहीं समझनेके कारण हँस-हँस कर वह उससे बार-बार बातें करती थी; हाथसे नीचे झटकार देने पर भी बारम्बार उड़कर ऊपर आते, मुख-सौरभसे अन्धे बने भ्रमरके साथ कन्दुक (काली गेंद) के समान क्रीड़ा करती थी; पञ्जरस्थित हारीतका शब्द सुनकर निन्दासूचक हास्य करती अपनी किसी चामरधारिणीके मस्तक पर हँसती-हँसती लीलापद्मद्वारा ताड़न करती थी; ताम्बूलकरङ्कवाहिनीके कुचमण्डल पर उसकी ही मुक्तरचित चन्द्रलेखाका प्रतिबिम्ब पड़नेसे वहाँ घर्मबिन्दुसे परिपूर्ण नख-चिह्न जान कर मुष्टिपरिमित लोहितपिष्टातक (अबीर) चूर्ण लेकर वह उस
^१. ० पत्र- ०पर्वतका शबरीम्, पर्वतकापात् ०।
^२. आलपन्तीम् ।
^३. विनिहितैः ।
^४. अभिहतैर्मुहुरपसर्पद्भिरुपसर्पद्भिः ।
^५. नीलकन्दुकैरिव ।
^६. हारीतक.रुत ।
^७. लेखिकाप्रतिमा ।
^८. ०...जालश्चित ।
^९. स्तनतटे ।
| ४४६ | कादम्बरी- | [कथामुख- |
|---|
रत्नकुण्डल^१प्रतिबिम्ब-सान्द्र-दत्त-नव-नखपद-मण्डलाशङ्कया चामरग्राहिणीं विहस्य कपोले प्रसादव्याजेन दत्तेन^२ आत्मकर्णपूरपल्लवेनाच्छादयन्तीम्; पृथिवीमिव समुत्सारित-महाकुलभू^३भृद्वर-व्यतिकर-शेषभोगनिषण्णाम्; मधुमासलक्ष्मीमिव^४ षट्पद-पटलापह्रियमाण-कुसुम-रजोधूसर-पादपरागाम्; शरदभिवोत्पादितमानसनजन्मपक्षिरवापनीतनीलकण्ठमदाम्;
समूहाकाराणीति कवेरभिप्रायः । अनेनापि नितान्तकौतूहलप्रियत्वमस्या व्यज्यते ।
रत्नकुण्डलेति । रत्नकुण्डलस्य प्रतिबिम्बे बालव्यजनधारिण्या एव गण्डपतिते तदीयस्तनजनितपद-श्रवणकुण्डलप्रतिच्छाय इत्यर्थः, सान्द्रं गाढं यथा स्यात्तथा दत्ते रतिकाल कामुकेन अर्पितं नवं नूतनं यन्नखपदमण्डल गोलाकारनखतचिह्नं तस्य साशङ्कया वासन्देहं व्यञ्जयित्वेत्यर्थः, विहस्य हास्यं विधाय, प्रसादव्याजेन पनुग्रहच्छद्मना, दत्तेन आत्मनैवार्पितेन, सात्मनः स्वकीयस्य कर्णपूरपल्लवेन श्रवणाभरण-किसलयेन, कपोले चामरग्राहिणीम् आच्छादयन्तीं बालव्यजनधारिण्याः कपोलदेशम् लावण्यवतीमित्यर्थः, सन्देपां बोधभयेन तदाच्छादनाशयेनेत्याशयः । यथार्थनो भ्रान्तेरभावाशयं भ्रान्तिमानलङ्कारः । ननु कपोलदेशे नखक्षतस्याप्रसिद्धत्वात् 'नखरे करजक्षतं नृणादशः' इति दर्पजोदाहृततद्विद्याविरुद्धत्वदोषः कथमनेति चेद् ? नैवम्, —
'कक्षस्थले च कर्णान्ते कपोले बाहुमूलके । ग्रीवायां स्तनदेशे च नखाघातं समाचरेत् ॥'
इति कामशास्त्रप्रयातत्वेनोक्तदोषाभावादिति समादधते विचक्षणचातुरीसमुल्लसितान्तःकरणः शास्त्रविदामः ।
पृथिवीमिति । पृथिवीं महींमिव, समुत्सारितो 'महाश्वेतायां सलोकायां नाहं कथम्विदपि पाणिं ग्राहयिष्यामि' इति पूर्वाभिहितप्रतिज्ञानुसारं दूरीकृतः, महाकुलानाम् उच्चवंशोत्पन्नानां भूसुराणां नृपतिश्रेष्ठानां मध्ये यः कश्चिन्नृपतिरूपो भर्त्ता तस्य यो व्यतिकरः सहमसुखं तस्मात् शेषेषु अवशिष्टेषु भोगेषु स्रक्चन्दनस्त्रीविनोदादिषु निषण्णाम् उपविष्टाम्, पूर्वोक्तप्रतिज्ञानुमारेण स्वामिसहमुत्सुखानि-रिक्तेषुखभोगिनीमिति तात्पर्यम् । पक्षान्तरे तु-समुत्सारितः स्वसमीपं प्रापितः महद्भिः प्रशस्तैः कुलभू-भृद्वरैः महेन्द्रप्रभृतिकुलपर्वतश्रेष्ठैः व्यतिकरः सम्बन्धो यया सा तादृशी चासौ शेषभोगेषु नागाधिर-फणासु निषण्णा उपविष्टा चेति सा तादृशी ताम् । ननु 'समुत्सारित' पदस्य प्राचुर्ये प्रयोगाभावाद-प्रयुक्तता दोषः समापततीति चेत् ? श्लेषादयुक्तदोषप्रसक्तेरभावात् । तदुक्तं साहित्यदर्पणे—
'ख्यानानदोषो श्लेषादौ निहताथप्रयुक्तते' इति ।
मधुमासेति । मधुमासः चैत्रमासः तस्य लक्ष्मीमिव श्रियमिव, षट्पदपटलेन मधुकरसमूहेव लपहि-यमाणानि स्वीयमालादिभ्यो नीयमानानि यानि कुसुमरजांसि प्रसूनधूलयः तैस्तत्त्वन्नैरित्यर्थः, धूसरः ईषत्पाण्डुः पादयोश्चरणयोः पराग उपरागो यस्यास्ताम् । पक्षान्तरे तु तथाविधधूलिभिर्धूमराः पाङ्गानां तरुणां रागा वर्णा यस्यास्ताम् ।
'परागः कौसुमे रेजौ धूलिस्नानीययोरपि । गिरिप्रभेदे द्विरदातावुपरागे च चन्दने ॥' इति मेदिनी ।
शरदमिति । शरद् घर्मात्ययममद्यः तानिव, उत्पादितस्य निजसौन्दर्येणैव पुनर्जमितस्य मानसं चेतः तस्मात् जन्म उत्पत्तिर्यस्य तस्य कामस्येत्यर्थः, पक्षिणां कङ्करहंसानां वाजानां शगानां रवेण शब्देन अपनीतः दूरीकृतो नीलकण्ठस्य महेशस्य मदः मदनभस्मजनितगर्वो यया ताम् । ( महेशेन तु
(मुखमण्डल पर) पर वादन करती थी; मणिमय कुण्डलका प्रतिबिम्ब चामरधारिणीके गण्डस्थल (गाल) पर पड़नेसे वहाँ नाखक्षतका गोलाकार आर्द-नखचिह्न जानकर, अनुग्रहके बहाने दिया हुआ कर्णपल्लव रख कर हँसती-हँसती, उसको वह आच्छादित कर देती थी। पृथिवी जिस प्रकार बड़े-बड़े कुल-पर्वतोंके साथ शेष-नागके फणोंपर स्थित है, वह भी उसी प्रकार उच्चकुलके राजाओंके साथ विवाह करना अस्वीकार कर पतिसंसर्गसुखके अतिरिक्त अन्यान्य सुखभोग पर स्थित थी; चैत्रमासके अन्दरगत भ्रमरगण मुख्य पुष्पोंकी रजका अपहरण कर उस पर हो उसको गिर कर जिस प्रकार उन्हें धूसरवर्ण कर देते हैं, वहां भी उसी प्रकार वे वृत्त (कदम्बरी) की मान्दके पुमरेणुका अपहरण कर उसके चरणों पर गिराकर उन (चरणों) में लगे हुए सुगन्धित सोन्दोंको धूसरवर्ण कर देते थे; शरत्काल, जिसप्रकार हंसों (मानस-सरोवरमें उत्पन्न हुए पक्षियों) के शब्दसे मयूरोंके मानन्दोत्थके अभिमान
१. प्रतिविम्बसान्द्रदत्तनवनख० । २. व्याजेनादत्तेन । ३. ....भृद्वरादिकरां ४. -शेषभोगेषु निषण्णाम् । ५. लक्ष्मीव ।
कादम्बरीवर्णना ८६ ] चन्द्रकला-विद्योतिनीसहिता । ५४७
गौरीमिव श्वेतांशुक'रचितोत्तमाङ्गाभररणाम्, उदधिवेलावन'लेखामिव मधुकरकुलनीलतमाल-काननाम्, इन्दुमूत्तिमिवोद्दाम-मन्मथविलास-गृहीत-गुरु-कलत्राम्, वनराजिमिव पाण्डुश्याम-वलीलतांकृतमध्यां, दिनमुखलक्ष्मीमिवै भास्वन्मुक्तांशु-भिन्न-पद्मरागप्रसाधनाम्, आकाश-
स्वशक्त्या कामो दग्धः, कादम्वर्या तु स्वसामर्थ्येनोत्पादित इत्याशयो बोध्यः, अतएव तद्दर्वापहरग्णमिति हृदयम् । पक्षान्तरे तु—उत्पादितैः शरदेव जनितैः, मानसे तदाख्यसरोवरे जन्म उत्पत्तिः स्थितिरित्यर्थः येषां पक्षिणां तेषां हंसानां रवैः अपनीतो दूरीकृतो नीलकण्ठानां मयूराणां मदः स्वरमाधुर्यगर्वो यया ताम् । 'शारदमिव' इत्यस्यानुरूपभावः श्लोको यथा शिशुपालवधे—
'समय एव करोति बलाबलं प्रणिगदन्त इतीव शरीरिणाम् ।
शरदि हंसखैः परुषीकृतः स्वरमयूरमयूरमणीयताम् ॥'
गौरीमिति । गौरीं पार्वतीं तामिव, श्वेतं शुभ्रम् अंशुकं वस्त्रं यस्याः सा चासौ रचितं धृतम् उत्तमाङ्गाभरणं शिरोभूषणं यया चेति ताम् । पक्षान्तरे तु—श्वेतांशोः महेशमस्तकस्थितशशिनः करैः रश्मिभिः चितम् अर्द्धनारीश्वरत्वेन एकगात्रत्वाद् व्याप्तम् उत्तमाङ्गाभरणं शिरोभूषणं यस्यास्ताम् ।
उदधीति । उदधिः समुद्रः तस्य वेलावनलेखा तटवर्तिविपिनपङ्क्तिः तामिव, मधुकरकुलवत् षट्पदसमूहवत् नीलतमा नितान्तश्यामा अलकावूर्णकुन्तला यत्र तत्तथोक्तं आननं मुखं यस्याः ताम् । पक्षान्तरे तु-मधुकरकुलवत् नीलं श्यामं तमालकाननं तापिच्छवनं यस्याः ताम् ।
इन्दुमूत्तिमिति । इन्दोश्चन्द्रस्य मूत्तिः शरीरं तामिव, उद्दाममन्मथविलासैः अत्यन्तमदनविभ्रमैः गृहीतम् अवलम्बितं गुरु विस्तृतं कलत्रं श्रोणि ( नितम्ब ) मण्डलं यया ताम् । इन्दुमूत्तिपक्षे तु—उद्दाममन्मथविलासेन उत्कटमदनचेष्टितेन गृहीतम् अपहृतं गुरोः बृहस्पतेः कलत्रं भार्या यया ताम् । 'दुर्गश्याने नृवादीनां कलत्रं श्रोगिमादयोः' इति रभसः ।
अत्रायमितिहासः—चन्द्रो हि राजसूयक्रतुमनुष्ठाय ततोऽद्भुतमामर्थ्यञ्च प्राप्य तारानामिकां गुरुपत्नीमपहृतवानिति । स्पष्टश्चायं देवीभागवते हरिवंशे चेति विशेषजिज्ञासुभिस्तत्रैवावलोकनीयम् । विस्तरभयान्न प्रतन्यते ।
वनराजिमिति । वनराज़िः अरण्यपङ्क्तिः तामिव, पाण्डुः ऊर्ध्वदेशे पाण्डुवर्णा श्यामला गर्त्तभागे च कृष्णवर्णा तथैवावलोक्यमानत्वादित्याशयः, या वलीलता त्रिवलीलता तया अलङ्कृतो भूषितो मध्यः देहमध्यदेशो यस्याः ताम् । पक्षान्तरे तु—पाण्डुः श्यामा च लवलीलती तया अलङ्कृतो मध्यो देशो यस्याः ताम् ।
दिनमुखेति । दिनमुखस्य प्रभातस्य या लक्ष्मीः श्रीः तामिव, भास्वत्यो दीप्तिमयो या मुक्ता मौक्तिकानि तासाम् अंशुभिः रश्मिभिः भिन्नानि संमिश्राणि पद्मरागप्रसाधनानि पद्मरागरत्नचिताभूषणानि यस्याः ताम् । पक्षान्तरे तु-भाः दीप्तिरस्ति अस्येति भास्वान् तेन सूर्येणेत्यर्थः, मुक्तैः विक्षिप्तैः अंशुभिः रश्मिभिः भिन्नानि प्रस्फुटितानि यानि पद्मानि कमलानि तेषां रागो लौहित्यमेव प्रसाधनम् आभरणं यस्याः ताम् ।
आकाशेति । आकाशकमलिनीमिव वियद्गङ्गास्थनलिनीमिव, स्वच्छाम्बरेण निर्मलवस्त्राभ्यन्तरेण
(घमण्ड) को दूर कर देता है, वह भी उसीप्रकार पुनरुज्जीवित कामदेवके बाणोंके शब्दसे महादेवके अभिमानको दूर करती थी; पार्वतीके मस्तकका आभूषण जिस प्रकार अर्धनारीश्वर-शिवके मस्तकस्थित चन्द्रकी किरणोंसे व्याप्त था, उसके भी उसी प्रकार पहने हुए वस्त्र स्वच्छ थे एवं मस्तकका आभूषण सज्जित था; समुद्रतीरस्थ वनश्रेणीके अभ्यन्तरमें जिस प्रकार भ्रमरगणके समान श्यामवर्ण तमाल-वन रहता है, उसका भी उसी प्रकार भ्रमरगणके समान अत्यन्त श्यामवर्ण केशकलापसे शोभित मुख-मण्डल था; चन्द्रने जिस प्रकार कामावेशवश वृहस्पतिकी भार्या (तारा) का ग्रहण किया था, मदन-विभ्रमने भी उसी प्रकार उसके नितम्बदेशका ग्रहण किया था (अर्थात् कादम्बरीके स्थूल-नितम्बको देखकर काम प्रदीप्त होता था); वनश्रेणीका अभ्यन्तर जिस प्रकार श्वेत और श्यामवर्ण लवतीलतासे शोभित रहता है; उसके शरीरका मध्यभाग भी उसी प्रकार पाण्डु और श्यामवर्ण त्रिवलीसे शोभित था; सूर्य-किरणसे प्रस्फुटित कमलकी रक्तिम ही जिस प्रकार प्रभातकालीन शोभाका अलङ्कार है, उसका भी उसी प्रकार देदीप्यमान मुक्ता (मोतियों) की किरणोंसे मिश्रित पद्मरागमणि-निर्मित ही अलङ्कार था; आकाश-
१. विरचित ।
२. ....घन.... ।
३. दिनमुखमिव ।
५४८ | कादम्बरी- | [ कथायाम्-
कमलिनीमिव स्वच्छाम्बरदृश्यमानमृणालकोमलोरुमूलाम्, मयूरावलीमिव नितम्बचुम्बि-शिखण्डभारविस्फुरच्चन्द्रकान्ताम्, कल्पतरुलतामिव कामफलप्रदाम्, शयनसमीपे सम्मुखोपविष्टम् 'कोऽसौ, कस्य वाऽपत्यम्, किमभिधानो वा, कीदृशमस्य रूपम्, कियद्वा वयः, किमभिधत्ते, भवता किंमभिहितः, कियच्चिरं दृष्टस्त्वया, कथञ्चास्य महाश्वेतया सह परिचय उपजातः, किमयमत्रागमिष्यति' इति मुहुर्मुहुश्चन्द्रापीडसम्बद्धमेवालापं तद्रूपवर्णनामुखरं केयूरकं पृच्छन्तीं कादम्बरीं ददर्श।
तस्य तु दृष्ट्वाकादम्बरीवदनचन्द्रलेखालक्ष्मीकस्य सागरस्येवामृतमुल्ललास हृदयम्।
दृश्यमानम् अवलोक्यमानं मृणालवत् कोमलं मृदुलं ऊरुमूलं सक्थिमूलं यस्याः ताम् पक्षान्तरे तु—स्वच्छा-म्बरे निर्मलगगने दृश्यमानं मृणालस्य विसस्य कोमलम् उरु विस्तृतञ्च मूलं ग्रन्थिदेशो यस्याः ताम्।
मयूरेति। मयूरावलीमिव कलापिश्रेणीमिव, नितम्बचुम्बी नितम्बस्पर्शी शिखण्डभारः कचकलापो यस्याः सा चासौ विस्फुरन् शोभमानः चन्द्र इव कान्ता कमनीया चेति ताम्। पक्षान्तरे तु—नितम्ब-चुम्बिनि शिखण्डभारे पिच्छनिकरे विस्फुरन्तः प्रकाशमानाः चन्द्रकाणां मेचकानाम् अन्ताः प्रान्तभागा यस्याः ताम्।
कल्पतरुरिति। कल्पतरुः मन्दारवृक्षः तस्य लतां वल्लींमिव, कामफलं मन्मथविकारफलं वाञ्छित-पदार्थञ्च प्रददातीति सा तादृशी ताम्।
इह 'पद्मिनीमिव' इत्यारभ्य 'कल्पतरुलतामिव' इत्यन्तं सर्वत्र पूर्णोपमालङ्कारः।
शयनेति। शयनस्य तल्पस्य समीपे निकटे, सम्मुखम् अभिमुखं यथा स्यात्तथा उपविष्टम् आसी-नम्, अग्रेतनस्य 'केयूरक' इत्यस्य विशेषणमेतत्। असौ तरुणः। अपत्यं प्रजाः। किमभिधानः किन्नामा। रूपं सौन्दर्यम्। कियद्वयः कियत्प्रमाणमवस्थाविशेषः। कियच्चिरं कियत्समयम्। अस्य पुरोवर्त्तमानस्य यूनः। परिचयः संस्तवः। चन्द्रापीडसम्बद्धं चन्द्रापीडविषयकम् आलापं भाषणम्, तस्य चन्द्रापीडस्य रूपवर्णनायां सौन्दर्यवर्णनायां मुखरम् अश्रान्तवक्तारम्। पृच्छन्तीं प्रश्नविषयं कुर्वन्तीम्। ददर्श अवलोकयामास।
तस्येति। कादम्बर्या गन्धर्वराजपुत्र्या वदनं मुख चन्द्रलेखा शशिरखेवेत्युपमितसमासः स च 'उपमितं व्याघ्रादिभिः सामान्याप्रयोगे' इति सूत्रेण बोध्यः, सागरस्येवेत्युपमासाहचर्यात्। दृष्टा अवलोकिता कादम्बरीवदनचन्द्रलेखाया लक्ष्मीः शोभा येन तस्य, तस्य चन्द्रापीडस्य हृदयं चेतः कर्तृ, दृष्टचन्द्रलेखा-लक्ष्मीकस्य सागरस्य समुद्रस्य, अमृतं जलमिव उल्ललास उच्छ्वसितं बभूव।
इह 'कादम्बरीवदनचन्द्रलेखेव' इत्यत्र लुप्तोपमा, 'अमृतमिव' इत्यत्र श्रौतोपमा चेत्युभयोरङ्गाङ्गि-भावसङ्करः। तथा केवलम् 'उल्ललास' इति भूतकालिकप्रयोगे भग्नप्रक्रमत्वदोषः समापतातं तद्वारणाय 'सागरस्य' हृदयं यधोल्लसति तथा तस्य 'हृदयमुल्ललास' इति पाठो विधेय इति मान्याः।
गङ्गाके तटपर पद्मिनीमृणालका कोमल और विस्तृत मूलदेश, जिस प्रकार निर्मल आकाशमें दीखता है, उसका भी उसी प्रकार मृणालके समान कोमल ऊरु-युगलका मूलदेश, निर्मल वस्त्रके अभ्यन्तरमें दीखता था; मयूरगणके नितम्बस्पर्शी पुच्छदेशमें जिस प्रकार चन्द्राकृति चिह्नका प्रान्तभाग मनोहर प्रतीत होता है, उसकी मनोहर आकृति भी उसी प्रकार चन्द्रके समान मनोहर थी, एवं केशकलाप नितम्ब-पर्यन्त लम्बित थे; कल्पतरुकी लता जिस प्रकार अभिलषित फलप्रदान करती है, वह भी उसी प्रकार कामफल देती थी। और वह शय्याके समीपमें ही सम्मुख बैठे, मुख्यतया चन्द्रापीडके सौन्दर्यका ही वर्णन करते, केयूरकसे—'वे कौन हैं? किसके पुत्र हैं? उनका नाम क्या है? उनका रूप कैसा है? उनकी अवस्था कितनी है? वे क्या चाहते थे? तूने क्या कहा? कहाँ तक उनको तूने देखा? महाश्वेताके साथ उनका परिचय किस प्रकारसे हुआ? एवं वे क्या यहाँ आवेंगे? यों बारम्बार चन्द्रापीडसम्बन्धी बातें ही पूछ रही थी।
चन्द्रमाको देखकर समुद्रका जल जिस प्रकार उच्छ्वसित होने (उछलने) लगता है, कादम्बरी वदन-रूप चन्द्र-रेखाकी शोभा देखते ही चन्द्रापीडका हृदय भी उसी प्रकार आनन्दसे उच्छ्वसित होने (उछलने)
१. पुरस्तन्नीपे।
२. भवतां च।
३. सन्निहितम्।
४. '...सम्बद्धालापम्, सम्बन्धालापम्।
५. क्वचित् 'इह' इति पदं न दृश्यते।
कादम्बरीचन्द्रापीडयोर्भावावेश० ८७] चन्द्रकला-विद्योतिनीसहिता । २४६
आसीच्चास्य मनसि—'शेषेन्द्रियाण्यपि मे वेधसा किमिति लोचनमयान्येव न कृतानि । किं वानेन कृतमवदातं कर्म चक्षुषा, यदिवारितमेनां पश्यति । अहो ! चित्रमेतदुत्पादितं वेधसा सर्वरमणीयानामेकं धाम । कुत एते रूपातिशयपरमाणवः ममासादिताः । तन्नूनमेनामुत्पादयतो विधेः करतलपरामर्शक्लेशेन ये विगलिता लोचनयुगलादश्रुबिन्दवस्तेभ्य एतानि जगति कुमुद-कमल-कुवलय-सौगन्धिकवनान्युत्पन्नानि' इत्येवं चिन्तयत एवास्य तस्या नयनयुगले¹ निपपात चक्षुः । तदा तस्या अपि 'नूनमयं स केयूरक णावेदित' इति चि-न्तयन्त्या रूपातिशयविलोकिनविस्मयस्मेरं निश्चलनिबद्धलक्ष्यं² चक्षुस्तस्मिन् सुचिरं पपात । लोचनप्रभावधवलितस्तु कादम्बरीदर्शनविह्वलो बल इव⁴ तत्क्षणमराजत चन्द्रापीडः । दृष्ट्वा च
आसीदिति । अस्य चन्द्रापीडस्य मनसि चित्ते ( एवम् ) आसीद् बभूव । वेधसा ब्रह्मणा मे मम शेषेन्द्रियाण्यपि चक्षुर्व्यतिरिक्ताकरणान्यपि किमिति हेतोः लोचनमयान्येव न कृतानि विहितानि तथा सति वीक्षणस्य पूर्णता स्यादित्याशयः । अनेन मम चक्षुषा, अवदातं शुद्धं कर्म कृत्यं पुण्यमित्यर्थः । यद्य-स्मात् अनिवार्य्यतम् अप्रतिषिद्धं यथा स्यात्तथा एनां कादम्बरीं पश्यति अवलोकयति । अनेनास्यातुपमं सौन्दर्यं प्रतीयते ।
अहो इति । चित्रम् आश्चर्यम् । वेधसा विधात्रा सर्वरमणीयां समस्तसौन्दर्याणाम् एकमद्वि-तीर्यं धाम स्थानम् उत्पादितं निर्मितम् । रूपातिशयस्य असामान्यभव्याकृतेः परमाणव उपादानकारणी भूताशुद्रव्याणि समासादिताः प्राप्ताः । परमाणुलक्षणञ्चाह—
'जालान्तर्गते मानौ यत्सूक्ष्मं दृश्यते रजः । तस्य षष्टितमो भागः परमाणुः स उच्यते ॥
न्यायवैशेषिके हि उक्तपरमाणुतो द्व्यणुकादिक्रमेण स्थूलोत्पत्तिरिति तन्मतमाश्रित्येदमभिहित मिथ्यवधेयम् ।
तदिति । एनां कादम्बरीम् उत्पादयतो जनयतो विधेर्ब्रह्मणः करतलपरामर्शक्लेशेन रचनाकालीन-पाणितलामर्दनकष्टेन लोचनयुगलात् नेत्रद्वयात् विगलिताः च्युता ये अश्रुविन्दवः कादम्बर्या एव नयन-युगलाः तेभ्यो जगति संसारे एतानि पुरो दृश्यमानानि, कुमुदानि कैरवाणि, कमलानि नलिनानि कुवल-यानि उत्पलानि सौगन्धिकानि कह्वाराणि उत्पन्नानि समुद्भूतानि । अस्य चन्द्रापीडस्य चक्षु, तस्याः कादम्बर्या नयनयुगले नेत्रद्वये निपतात दृढसंलग्नं बभूव ।
तदेति । रूगत्तिशयविलोकेनेन अत्यधिकसौन्दर्यवीक्षणेन यो विस्मय आश्चर्यं तेन स्मेरं विकसितम्, तया निश्चलं स्थिरं यथा स्यात्तथा निबद्धं गृहीतल्लक्ष्यं येन तत्तथोक्तम् । तस्मिश्चन्द्रापीडे । इह नूनमित्युत्पादा-नाट्टाच्या भावाभिमानिनी क्रियोत्प्रेक्षा, तया चास्या निरतिशयसौकुमार्यं ध्वन्यत इत्यलङ्कारेण वस्तुध्वनिः ।
लोचनेति । लोचनप्रभया कादम्बर्या आत्मनश्च नयनालोकेन धवलितः श्वेतीकृतश्चन्द्रापीडः तत्क्षणं तस्मिन् समये बलो बलराम इव, कादम्बर्या गन्धर्वराजपुत्र्याः सुरायाश्च दर्शनेन अवलोकनेन विह्वलः कामाकुलः पानाय धैर्य्यरहितश्च सन् अराजन अशोभत् । बलरामः सुरापानतत्पर आसीदिति पौराणिकी वार्त्ता । पूर्णोपमा ।
दृष्ट्वेति । अपि च, तं चन्द्रापीडं दृष्ट्वा विलोक्य स्थितायाः कादम्बर्याः प्रथमम् आदौ रोमोद्गमः
तथा । उस समय उसके मनमें होने लगा कि—'विधाताने मेरी अवशिष्ट इन्द्रियोंको भी नयनमय क्यों नहीं बनाया ? अथवा मेरे ये नेत्र ही पुण्यकार्य किये हैं जो कि इसको अबाधगति (बे रोकटोक) से देखते हैं। विधाताने समस्त सौन्दर्यका एक ही कैसा विचित्र भण्डार उत्पन्न किया है? ऐसे अतिशय सौन्दर्यनिर्माण करनेके परमाणुका आनयन कहाँसे किया है ? अत एव मुझे प्रतीत होता है कि इसके निर्माण करनेमें विधाता के हाथ घर्षण-क्लेशसे, इसके नेत्रोंमेंसे जो अश्रुबिन्दु (आंसूकी बूँदें) टपके उतने ही संसारमें ये समस्त श्वेतोत्पल, पद्म, नीलोत्पल और रक्तोत्पल उत्पन्न हुए हैं।' इस प्रकार चिन्ता करते ही उसकी दृष्टि कादम्बरीके नेत्रोंपर जा पड़ी और उसी क्षण वह भी भावना करती थी कि—'केयूरकने जिसका वर्णन किया है, निश्चय ही ये वही युवा पुरुष हैं' तब चन्द्रापीडका अत्यन्त सौन्दर्य देखकर विस्मयवश विस्तृत हो उसकी दृष्टि चन्द्रापीड पर पड़ी और निश्चल भावसे बहुत देर तक अपने लक्ष्य पर स्थिर रही। स्वकीय-नयन-प्रभासे शुक्लवर्ण बलराम जिस प्रकार मदिरा देखकर विह्वल हो गये, उस समय चन्द्रापीड भी उसी प्रकार कादम्बरी की नयन-प्रभासे शुक्लवर्ण होकर
१. आनने । २. ०००लक्ष्यं । ३. नयनेन । ४. अचल इव । ५. क्वचित् 'तव' इति पदं न दृश्यते ।
| ५५० | कादम्बरी- | [ कथायाम्- |
|---|
तं^१ प्रथमं रोमोद्गमः, ततो भूषणरवः, तदनु कादम्बरी समुत्तस्थौ ।
अथ तस्याः कुसुमायुध एव स्वेदमजनयत् , ससम्भ्रमोत्थानश्रमो ^२व्यपदेशोऽभवत् । ऊरुकम्प एव^३ गतिं रुरोध, नूपुररवाकृष्टहंसमण्डलमयशो^४ लेभे । निश्वासप्रवृत्तिरेव^५ अंशुकं चलं चकार, चामरानिलो निमित्ततां ययौ । अन्तःप्रविष्ट-चन्द्रापीड^६-स्पर्श-लोभेनेव निपपात हृदये हस्तः, स एव^७ स्तनावरणव्याजो बभूव । आनन्द एवाश्रुजलमपातयत् , चलितकर्णावतंसकुसुमरजो व्याज आसीत्^९ । लज्जैव वक्तुं न ददौ, मुखकमलपरिमलागतालिवृन्दं द्वार-
रोमाञ्चः समुत्तस्थौ उत्थितवान् , मदनविकारोदयादित्याशयः, ततो भूषणरवः आभरणसिञ्जितं समुत्तस्थौ उत्थानवेगादित्याशयः, तदनु तत्पश्चाच्च कादम्बरी समुत्तस्थौ, अतिथेः सत्कारप्रदर्शनार्थमित्याशयः ।
इह 'समुत्तस्थौ' इत्येकक्रियया अनेककर्त्रा सहाभिसम्बन्धात्तुल्ययोगिता । तथा च साहित्यदर्पणे-
'पदार्थानां प्रस्तुतानामन्येषां वा यदा भवेत् । एकधर्माभिसम्बन्धः स्यात्तदा तुल्ययोगिता ॥'
अथेति । अथ समुत्थानानन्तरम् । कुसुमायुधः काम एव स्वेदं घर्मवारि अजनयत् उत्पादितवान् । ससम्भ्रमं सत्वरं यद् उत्थानम् उत्थितिः तस्मात् श्रमः खेदः स एव व्यपदेशश्छलम् । अयमाशयः-मदनविकारवशादेव तस्याः स्वेदोऽभवत् , किन्तु सा समुत्थानपरिश्रमादेवायं मम स्वेदः सञ्जात इति व्याजेन सहचरीणां पुरतो हेतुगोपनं विहितवतीति । अत एवेह व्याजोक्तिः तल्लक्षणञ्च साहित्यदर्पणे-
'व्याजोक्तिर्गोपनं व्याजादुद्भिन्नस्यापि वस्तुनः ।' इति ।
ऊरुकम्प इति । ऊरुकम्प एव गतिं गमनं रुरोध रुद्धवान् । नूपुरे पादकटके तयोः रवो रञ्जितं तेन आकृष्टम् आकर्षितं यत् हंसमण्डलं चक्राङ्गसमूहः तत् अपयशः अकीर्तिं लेभे प्राप । ममायं गतिरोधो नोरुकम्पात् किन्तु पादकटकख्वाकृष्टन हंसमण्डलेन पादनिरोधादित्याशयः ।
इह कार्यकारणयोर्वैयधिकरणयादसङ्गतिः, प्राग्वद्व्याजोक्तिश्चेत्युभयोरङ्गाङ्गिभावसङ्करः ।
निश्वासेति । निश्वासप्रवृत्तिरेव प्रमाणाधिकश्वासप्रवर्त्तनमेव अंशुकं कुचवस्त्रम्, चलं चपलं चकार कृतवती, चामरानिलो बालव्यजनपवनो निमित्ततां कारणतां ययौ प्राप, बालव्यजनपवन एवेदं वस्त्रं चालयति न पुनः श्वासारम्भ इति कृत्वा प्रस्तुतहेतुगोपनं विहितवतीत्याशयः । व्याजोक्तिरलङ्कारः ।
अन्तःप्रविष्टेति । अन्तःप्रविष्टः अनुपमसौन्दर्य्यात्तत्कालादेव हृदयं गतो यश्चन्द्रापीडः तस्य स्पर्शलोभेनेव स्पर्शंतृष्णयैव हृदये हस्तः करो निपपात निपतितो बभूव । स एव हस्त एव, स्तनावरणव्याजः कुचाच्छादनकपटो बभूव जातः । एवञ्च अकस्मादुत्थानेन कुचयोराच्छादनापसरणात् पुनस्तयोराच्छादनार्थमेव हृदये करः समर्पितः, न पुनरभ्यान्तःप्रविष्टस्य स्पर्शंतृष्णयेति व्याजेन सहचरीणां पुरतः प्रस्तुतहेतुगापनं कृतवतीत्यभिप्रायः । उक्तालङ्कारः ।
आनन्द इति । आनन्दः प्रमोद एव अश्रुजलं नयनसलिलम् अपातयत् पातितवान् , चलितस्य वालव्यजनपवनेन उत्थानरभसा वा कम्पितस्य कर्णावतंसकुसुमस्य श्रवणालङ्कारीभूतपुष्पस्य रजः परागः व्याजः कपटः । कुसुमपराग एव मम नयनजलमपातयत् न तु प्रमोद इत्याशयः । उक्तालङ्कारः ।
लज्जेति । लज्जा त्रपा सैव वक्तुम् अभिधातुं न ददौ दत्तवती, मुखकमलस्य वदनपङ्कजस्य परिमलेन
उसे देख विह्वल हो गये । इधर चन्द्रापीडको देखकर पहले कादम्बरी को रोमाञ्च उत्पन्न हुआ; उसके बाद आभूषण का शब्द हुआ और उसके पीछे ( अन्तमें ) कादम्बरी स्वयं उठ खड़ी हुई ।
तदनन्तर कामदेवने ही कादम्बरीमें स्वेद ( पसीना ) उत्पन्न किया, किन्तु सखियोंके समीपमें उतावलीसे उठनेका परिश्रम उसका बहाना हुआ । ऊरुकम्पन ही उसके गतिरोध करनेवाला था, किन्तु उसका अपयश, नूपुर-स्वर सुनकर दौड़ आए, हंस-मण्डलको मिला । निःश्वास चलने से ही स्तनका वस्त्र कम्पित होने लगा; किन्तु समीपमें डोलते चमर का पवन उसका कारण समझा गया । हृदयमें प्रविष्ट चन्द्रापीडका स्पर्श करनेकी अभिलाषा ने ही उसका हाथ तत्काल वक्षःस्थल ( छाती ) पर पड़ा, किन्तु स्तनोंके आवरण करनेके बहानेसे रखा प्रतीत हुआ । आनन्दसे ही वास्तविक उसके नेत्रोंमें आँसू भर आये, किन्तु बाहरमें कम्पित (हिले हुए) कर्णपूरकी
१. क्वचित् 'तन्' इति पदं न विद्यते ।
२. व्यपदेशेन ।
३. जरूस्तम्भ एव^१ ।
***४. नपदशो ।
५. निश्वासप्रवृत्तिरेव निश्वास एव ।
६. ***चन्द्रापीडस्य ।
७. हस्तपल्लवः, स एव करः ।
८. स्तनावरणम् ।
९. व्याजमासीत् , व्यपदेशतान्यासीत् ।
चन्द्रापीडस्य भावावेश० ८८ ]' चन्द्रकला-विद्योतिनीसहिता । ५५१
तामगात्¹ । मदनशरप्रथमप्रहारवेदनैव सीत्कारम्² अकरोत्, कुसुमप्रकरकेतकीकण्टकक्षतिः साधारणतामवाप । वेपथुरेव करतलम कम्पयन्, निवेदनोद्यतप्रतीहारीनिवारणं कपटमभूत् । तदा च कादम्बरीं विशतो मन्मथस्यापि मन्मथ इवाभूद् द्वितीयः, तया सह यो विवेश-चन्द्रापीडहृदयम् । तथाहि, असावपि तस्या रत्नाभरणद्युतिमाप तिरोधामममस्त, हृदयप्रवेशमपि परिग्रहमगणयत्, भूषणरवमपि सम्भाषणममन्यत, सर्वेन्द्रियाहरणमपि प्रसादमचिन्त-
आमोदेन आगतम् आयातञ्च तत् अलिवृन्दं मधुकरसमूहश्चेति तत्, द्वारतां गोपनसाधनताम् अगात् अगमन् । मधुकरसमूह एव वक्तुं प्रतिबध्नाति न पुनस्त्रपेत्याशयः । उक्तालंकारः ।
मदनेति । मदनशरस्य कामबाणस्य यः प्रथमप्रहारः आद्याभिघातः तस्य वेदनैव व्यथैव सीत्कारं ‘सी सी’ इति शब्दविशेषम् अकरोत् अजनयत्, कुसुमप्रकरेषु उपहारपुष्पपुञ्जेषु मध्ये या केतकी केतकीकुसुमं तस्याः कण्टकक्षतिः कण्टकेन पादभेदनं साधारणतां सीत्कारसाधारणनिमित्तताम् अवाप प्राप । केतकीकण्टकक्षतिरेव मे सीत्कारमेन मकरोत्, न तु कामबाणव्यथयेति छलं विधाय प्रस्तुतगोपनं कृतवतीत्याशयः । उक्तालंकारः ।
वेपथुरिति । वेपथुरेव मदनावेषोपलक्ष कम्प एव करतलं हस्ततलम् अकम्पयत् कम्पितवान्, निवेद-नाय वस्तुविशेषबोधनाय उद्यता या प्रतीहारी द्वारपालिका तस्या निवारणं हस्तविधूननेन निषेधनं कपटं छलम् अभूत् । प्रतीहारीनिषेधेन कैतवेन प्रादुर्भूतस्यापि गात्रकम्पनस्य गोपनं कृतवतीत्याशयः । उक्तालंकारः । एतेन कादम्बर्याश्चन्द्रापीडविषयको भावावेशः स्पष्टीकृतः ।
अथ चन्द्रापीडस्यापि तद्विषयकं भावावेशं निरूपयति—तदेति । कादम्बरीं विशतः प्रवेशं कुर्वतः मन्मथस्यापि कन्दर्पस्यापि द्वितीयः स्वसदृशोऽपरः मन्मथ इवाभूत् , यः तया कादम्बर्या सह चन्द्रापीडहृदयं विवेश प्रविष्टवानिति सम्बन्धः । अन्यथैकस्यैकस्मिन्समये स्थानद्वये प्रवेशासम्भवादित्याशयः । एवञ्च यथा चन्द्रापीडावलोकनानन्तरमेव तेन सह कामदेवः कादम्बरीहृदयं प्रविष्टवान्, तथैव कादम्बरीवीक्षणानन्तरमपि तया सह कामदेवः चन्द्रापीडहृदयमपि प्रविष्टवानिति निष्कर्षः ।
इह द्वव्योत्प्रेक्षा । तथा ‘यत्तदोर्नित्यसम्बन्ध’ इति न्यायादुत्तरवाक्ये यच्छब्दोपादानेऽपि पूर्ववाक्ये तदनुपादानाद्विधेयाविमर्शादोषस्तु न शङ्क्यः, ‘आत्मा जानाति यत्पापम्’ इतिवत् यच्छब्दस्य तच्छब्दानपेक्षत्वात् ।
तदेतत्समर्थयति — तथाहीति । असौ चन्द्रापीडोऽपि तस्याः कादम्बर्याः, रत्नाभरणद्युतिमपि मणिखचितभूषणकान्तिमपि तिरोधानं व्यवधानं समग्रमेवावलोकनप्रतिबन्धकमित्यर्थः अमन्यत ज्ञातवान् । इह प्रकाशरूपया कान्त्या तिरोधानासम्भवा द्विरोधः, लोचनाच्छादकत्वेन च तत्सम्भवात्परिहार इति विरोधाभासोऽलङ्कारः । हृदयप्रवेशमपि चित्तप्रवेशमपि परिग्रहं ‘पतित्वेन ममानया परिग्रहः कृतः’ इति कामुकस्वभावानुकूलम् अगणयत् ‘कामः स्वतां पश्यति’ इति न्यायादित्याशयः । इह निरङ्गकेवलरूपकम् । भूषणरवम् अलङ्कारझणकारमपि सम्भाषणम् अभ्यर्थनालापरूपम् अमन्यत अबुध्यत । इहाप्युक्तालंकारः ।
पुष्प-रेणु उसका बहाना हो गई। लज्जा ही वास्तविक्में बोलने नहीं दिया, किन्तु मुखकमलके सौरभसे आए भ्रमर उसको रोकने प्रतीत हुए। काम-बाणके प्रथम प्रहारकी वेदनाने ही वस्तुतः उसको सीत्कार होने लगा, किन्तु भूतलमें विक्षिप्त पुष्पोंके पुञ्झमेंसे केतकी (केवड़े) के कांटेसे आघात होने (छिंदने) के कारण उत्पन्न हुआ दीखा। कामकम्पसे ही उसका हाथ कम्पित होने लगा, किन्तु किसी विषयको निवेदन करनेके लिए उद्यत प्रतीहारीको निवारण करना उसका दशाना हुआ।
उस समय कादम्बरीके सहित जो कामदेव चन्द्रापीडके हृदयमें प्रवेश किया वह वही मानो कादम्बरीमें प्रवेश करते हुए कामदेवका भी एक द्वितीय कामदेव उत्पन्न हुआ, क्योंकि चन्द्रापीड भी, गन्धर्वराजकुमारी कादम्बरीके रत्नालङ्कारकी प्रभाको तिरोधान (दृष्टिको रोकनेवाली, विदाईके समय वर-वधूके मध्यमें लगाये गये वस्त्र) समझने लगा; कादम्बरी जो अपने हृदयमें प्रवेश की थी उसे ही पतित्वेन वरणका स्वरूप (स्वीकार, वर-ग्रहण) गणना करने लगा; उसके आभूषणोंके शब्दको भी सम्भाषण कह कर मानने लगा; अपने सब
१. द्वारपात्रताम् । २. सीत्कारम् ।
५५२ | कादम्बरी- | [ कथायाम्-
यत्त् , देहप्रभासम्पर्कमपि सुरतसमागमसुखमकल्पयत् ।
कादम्बरी तु कृच्छ्रादिव दत्तकतिपयपदा महाश्वेतां स्नेहनिर्भरं चिरदर्शनजातोत्कण्ठा^१ सोत्कण्ठं कण्ठे जग्राह । महाश्वेतापि दृढतरदत्तकण्ठग्रहा तामवादीत्-'सखि ! कादम्बरी ! भारते वर्षे राजा अनेक-वर-तुरग-खुर-मुखोल्लेखदत्त-चतुः-समुद्र-मुद्रो रक्षितप्रजापीडस्तारापीडो नाम, तस्यायं निज-भुज-शिलास्तम्भ-विश्रान्त-विश्व-विश्वम्भरापीडः चन्द्रापीडो नाम सूनुर्दिग्विजयप्रसङ्गेनाँगतः भूमिमिमाम् । एष च दर्शनात् प्रभृति प्रकृत्या मे निष्कारणबन्धुतां गतः, परित्यक्तसकलासङ्गेनिष्ठुरामपि मे सँविशेषस्वभावसरलैर्गुणैराकृष्यै
अचिन्तयत् । इह निजवस्तुहरणस्यानभिलषितत्वेनानुग्रहत्वासम्भवाद्विरोधः, मावाभिव्यक्तिपूर्वकंमनोनयनादिहरणाच्च नितान्तेष्टत्वेन तत्सम्भवात् परिहार इति प्राग्वद्विरोधाभास एवालङ्कारः । देहप्रभासम्पर्कमपि शरीरकान्तिसम्बन्धमपि सुरतसमागमसुखं सम्भोगाय सङ्गात्पन्नसुखरूपम् अकल्पयत् अगणयत् । इहापि प्राग्वद्रूपकमलङ्कारः ।
कादम्बरीति । कृच्छ्रादिव कष्टादिव दत्तानि अर्पितानि कतिपयानि कियन्ति पदानि पादानि यया सा तादृशी, चिरदर्शनात् अधिकसमयादनन्तरं साक्षात्कारात् जाता उत्पन्ना उत्कण्ठा औत्सुक्यं यस्याः सा तादृशी, सोत्कण्ठं सोत्सुक्यम्, स्नेहनिर्भरं प्रेम्णा गाढं यथा स्यात्तथा कण्ठे जग्राह आश्लेषं चकारेत्यर्थः ।
इह हेतूत्प्रेक्षा वृत्त्यनुप्रासश्चेत्युभयोर्मिथो नैरपेक्ष्येण संसृष्टिः । तथा 'सोत्कण्ठम्' इत्यस्य परित्याग एवोचितम्, अन्यथैतत्पदस्य द्विरुपादानेन पुनरुक्तत्वापत्तेरित्यवधेयम् ।
महाश्वेतेति । दृढतरं बलवत्तरं यथा स्यात्तथा दत्तः कण्ठग्रहः आश्लेषो यया सा तादृशी । अनेके नानाविधाः, वराः श्रेष्ठाः, ये तुरगा अश्वाः तेषां खुरमुखैः शफाग्रैः उल्लेिखेन भूमिभेदनेन दत्ताः चतुर्षु समुद्रेषु चतुःसंख्येषु सागरेषु मुद्रा जयचिह्नानि येन सः। रक्षिता सुशासनादिग्व्यवहारैर्निवारिता प्रजानां जनानां पीडा व्यथा येन सः तादृशः । छेकानुप्रासः ।
तस्येति । अयं तस्य सूनुरित्यन्वयः । निजौ स्वीयौ भुजौ बाहू एव दृढत्वसादृश्यात् शिलास्तम्भौ प्रस्तरस्थूणे तत्र विश्रान्ता सुखनावस्थिता विश्वा निखिला विश्वम्भरा पृथिवी सैव पीडा अनायासधार्यत्वसादृश्यादुत्तंस आभरणविशेषो यस्य सः । दिग्विजयप्रसङ्गेन इमाम् एनां भूमिं पृथिवीम् आगतः प्राप्तः । 'पीडात्तंसेर्मनोत्तंसकृपासु सरलद्रुमे' इति हैमः ।
इह निरङ्गकेवलरूपकद्वयं छेकानुप्रासश्चेत्युभयोर्मिथ्यो निरपेक्षतया संसृष्टिः ।
एष इति । एष चन्द्रापीडः दर्शनात्प्रभृति अवलोकनादारभ्य प्रकृत्या स्वभावेन, निष्कारणबन्धुतां निहैतुकस्वजनत्वं गतः प्राप्तः । सविशेषाः सातिरेका अलौकिका इत्यर्थः ते च ते स्वभावसरलाश्च स्वारसिकऋजव इति तैः गुणैः दयादाक्षिण्यादिभिः करणैः, परित्यक्तैः उज्झितैः सकलासङ्गैः समस्तसंसर्गैः निष्ठुरा कठिना तां तादृशीमपि मे मम चित्तवृत्तिं मनोवृत्तिम आकृष्य आकर्षणं विधाय वर्तते । हि यतः, दाक्षिण्यपरवशः निखिलानामेवानुकूलाचरण इत्यर्थः, निर्निमित्तमित्रम् अहेतुकबन्धुः, अकृत्रिमहृदयः ।
इन्द्रियों के हरणको भी अनुग्रह मानने लगा और उसकी शरीर-कान्तिके संपर्कसे भी सुरतसमागमके सुखकी मन ही मन कल्पना करने लगा ।
कादम्बरीने मानो बड़े क्लेशसे कितने ही कदम आगे आकर, बहुत कालके बाद दर्शन होनेसे उत्कण्ठित हुई महाश्वेताके कण्ठसे स्नेह और उत्कण्ठा-पूर्वक गाढ़ आलिङ्गन किया (लिपट गई) महाश्वेताने भी उसको गाढ़तर कण्ठालिङ्गन देकर कहा—सखि, कादम्बरि ! भारत वर्षमें सुशासनके गुणसे प्रजाओंके समस्त कष्टों का निवारण करनेवाले तारापीड नामक एक राजा हैं, उन्होंने बहुत उच्च घोड़ोंके खुराग्र (टापों) से भूमिविदारण कर चारों समुद्रों तक अपना विजय-चिह्न स्थापन किया है, ये उनके पुत्र हैं, इनका नाम चन्द्रापीड है, इनके निज-बाहु-युगलरूपी शिलास्तम्भों पर समग्र पृथ्वीरूप भूषण सुखसे स्थित है, ये दिग्विजयके प्रसङ्गसे इस प्रदेश तक आये हैं। जब से इनका साक्षात्कार हुआ है तबसे ही ये स्वभावतः मेरे अकारण-बन्धु हो गए हैं, एवं समस्त आसक्ति परित्याग करनेसे मेरी चित्तवृत्ति निष्ठुर होने पर भी इन्होंने लोकोत्तर और स्वभाव-सरल गुणोंसे उस
१. ॰॰॰जातोत्कण्ठं । २. ॰॰॰विश्रान्तिविश्वम्भरापीडः, विश्वबन्धुः । ३. अनुगतः । ४. सविशेषैः । ५. वाङ्गम्य ।
चन्द्रापीडमैत्रीव्यवहारावश्यकत्व०८९] चन्द्रकला-विद्योतिनीसहिता । ५५३
चित्तवृत्तिं वर्त्तने, दुर्लभो हि दाक्षिण्यपरवशो निर्निमित्तमित्रमकृत्रिमहृदयो विदग्धजनः१। यतो दृष्ट्वैवेमम् अहमिव त्वमपि निर्माणकौशलं प्रजापतेः, निःसपत्नताञ्च रूपस्य, स्थानाभिनिवेशित्वञ्च लक्ष्म्याः, सद्भर्तृ तासुखञ्च पृथिव्याः, सुरलोकातिरिक्तताञ्च मर्त्यलोकस्य, सफलताञ्च मानुषीलोचनानाम्, एकस्थानसमागमञ्च सर्वकलानाम्, ऐश्वर्य्यञ्च सौभाग्यस्य, अग्राम्यताञ्च मनुष्याणां ज्ञास्यसीति बलादानीतोऽयम् । कथिता चास्य मया बहुप्रकारं२ प्रियसखी। तदपूर्वदर्शनोऽयमिति विमुच्य लज्जाम्, अनुपजातपरिचय इत्युत्सृज्य अविश्रम्भताम्, अविज्ञातशील इत्यपहाय शङ्काम्, यथा मयि तथात्रापि वर्त्तितव्यम्३ । एष ते मित्रञ्च
सर्वेषां समस्तानाम् इन्द्रियाणां मनोलोचनादीनां करणानाम् आहरणम् आकर्षणमपि प्रसादम् अनुग्रहम् वञ्चनारहितचित्तं, विदग्धजनो विचक्षणपुरुषो दुर्लभो दुष्प्रापः, अत एवेष विचक्षणो मम मनोवृत्तिमाकृष्य विद्यत इत्याशयः ।
इह सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ।
यत इति । 'यतस्त्वमपि ज्ञास्यसि' इत्यन्वयः । प्रजापतेर्ब्रह्मणो निर्माणकौशलं रचनाचातुर्यम् । रूपस्य सौन्दर्यस्य निःसपत्नतां प्रतिस्पर्द्धिशून्यत्वम् सौन्दर्ये कोऽपि प्रतिद्वन्द्वी नास्तीत्यर्थः । लक्ष्म्या राज्यश्रियः स्थानाभिनिवेशित्वं यथास्थले स्थातुमाग्रहवत्त्वम् । पृथिव्या भूमेः सद्भर्तृ तया साधूच्चस्वामितया सुखम् आनन्दः । मर्त्यलोकस्य मृत्युभुवनस्य सुरलोकाद् देवाल्यात् (स्वर्गात् ) अतिरिक्तताम् उत्कृष्टत्वम् एतस्याधिपतित्वेन विद्यमानत्वादित्याशयः । अनेन सुरेशादपि चन्द्रापीडस्योत्कर्षो ध्वन्यते । मानुष्यो मानवजातीया नार्यः तासां लोचनानां नयनानां सफलतां साफल्यम, निरन्तरमेतस्य निरीक्षणादित्याशयः । सर्वकलानां समस्तनृत्यगीतादिकलाविद्यानाम्, एकस्थाने एकत्र समागमं संयोगम् । अनेन समस्तकलाविद्यावत्त्वं प्रतीयते । सौभाग्यस्य भाग्यवत्तायाः, ऐश्वर्यं महासमृद्धिम्, अस्य प्राप्तेरित्यादायः । अनेनायं सकलस्यैव दुष्प्राप इत्यवगम्यते । मनुष्याणां मानवानाम्, अग्राम्यतां नागरिकताम् । अनेनैतस्य सुरादिभ्योऽपि वैदग्ध्यं सूच्यते ।
इह तुल्ययोगितालङ्कारः, 'निर्माणकौशलम्' इत्यादीनां सर्वेषां 'ज्ञास्यसि' इत्येकक्रियायां कर्मत्वेनाभिसम्बन्धात् ।
कथितेति । अस्य कुमारस्य निकटे, प्रियसखी त्वम्, बहवोऽनेके प्रकारा भेदा यत्र क्रियायां तद् यथा स्यात्तथा कथिता निरूपिता । अयं कुमारः, अपूर्वम् अभिनवं दर्शनम् अवलोकनं यस्य स तथोक्तः, एवमूपेण सर्वत्रान्वयः। अनुपजातः अनुत्पन्नः परिचयः संस्तवो यस्य स तादृशः, नास्ति विश्रम्भो विश्वासो यत्र सः तस्य भावस्ताम्, उत्सृज्य त्यक्त्वा । अविज्ञातम् अविदितं शीलं स्वभावो यस्य सः, शङ्कां सन्देहम् अपहाय दूरीकृत्य, यथा मयि महाश्वेतायां तथा अत्रापि अस्मिन् कुमारेऽपि वर्त्तितव्यं त्वया आचरणीयम्, सकलगुणनिधित्वान्न तत्र दोष आशङ्कनीय इत्याशयः ।
एष इति । मित्रं सुहृत्, बान्धवः स्वजनः, परिजनः परिचारकश्च, अनेन सर्वथैवायमेव स्त्वानित्वेन
(चित्तवृत्ति) का आकर्षण कर लिया है; क्योंकि- सबके ही अनुकूलमें अकारण-बन्धु और प्रतारणा-हीन-चित्त इस प्रकारके विदग्धजनों का मिलन संसारमें दुर्लभ है। इस लिए मेरे समान, तुम भी इनको देखकर ही विधाताका निर्माण-नैपुण्य, सौन्दर्य की अतुलनीयता, राजलक्ष्मीका योग्यस्थानमें रहनेका आग्रह, उत्कृष्ट पतिप्राप्ति होनेसे पृथिवीको सुख, देवलोककी अपेक्षा मर्त्यलोकका उत्कर्ष, मनुष्य-रमणियाेंके लोचनोंकी सार्थकता, एक स्थानमें समस्त कलाओंका सम्मेलन, सौभाग्यकी सम्पत्ति एवं मनुष्योंकी भद्रता, इन सभीको ही समझोगी, इस लिए इनको मैं यहां बलपूर्वक ले आई हूँ, और तुम्हारे विषयमें इनके समक्ष मैने अनेक प्रकारसे परिचय दिया है अत एव-'इनके साथ यह पहली भेंट है'- इस धारणासे जो लज्जा हो उसे छोड़कर, 'इनका मुझसे कुछ परिचय नहीं है'इस प्रकार समझ्नेसे जो अविश्वास हो उसे भी छोड़, एवं 'इनके स्वभावसे मैं अज्ञात हूँ'-इस प्रकार समझकर जो कुछ आशंका उत्पन्न हो उसे भी दूर कर, जिस प्रकार तुम्हारा व्यवहार मेरे साथ
१. विदग्धो जनः। २. बहुतरं। ३. प्रवर्त्तितव्यम्।
३५ का०