काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पुष्णाति। मुष्णाति। षग्रहणमुत्तरार्थे, ष्टुत्वेनैव हि सिद्धमेतत्। समानपद- इति किम्। अग्निर्नयति। वायुर्नयति ॥ ऋवर्णाच्चेति वक्तव्यम् ॥ * ॥ तिसृ- णाम्। चतसृणाम्। मातृणाम्। पितृणाम्। ऋऌतिसामान्यनिर्देशात्सिद्धम्। वर्णभक्त्या च व्यवधानेऽपि णत्वं भवतीति तृभ्नादिषु नृनमनतृप्रतिषेधं ज्ञाप- कम्। अथ वा ऋवर्णादपि णत्वं भवतीत्येतदेवानेन ज्ञाप्यते ॥ अट्कुप्वाङ्नुम्व्यवायेऽपि ॥ २ ॥ अट् कु पु आङ् नुम् इत्येतैर्व्यवायेऽपि रेफषकाराभ्यामुत्तरस्य नकारस्य णकार आदेशो भवति। अड्व्यवाये तावत्। करणम्। हरणम्। किरिणा। गिरिणा। कुरुणा। गुरुणा। कवर्गव्यवाये। अर्केण। मूर्खेण। गर्गेण। अर्घेण। पवर्गव्यवाये। दर्पेण। रेफेण। गर्भेण। चर्मणा। वर्मणा। आङ्कव्यवाये। पर्याणद्धम्। निराणद्धम्। अड्व्यवाय इति सिद्धे आङ्ग्रहणं पदव्यवाय इत्यस्य प्रतिषेधस्य बाधनार्थम्। नुम्व्यवाये। बृंहणम्। बृंहणीयम्। नुम्ग्रहणमनुस्वा- रोपलक्षणार्थं द्रष्टव्यम्। तेन तृंहणं तृंहणीयमित्यत्रानुस्वारव्यवाये नुमभावेऽपि णत्वं भवति। सत्यपि च नुमि यत्रानुस्वारो न श्रूयते तत्र न भवति। प्रेन्व- नम्। प्रेन्वनीयमिति। व्यवायोपलक्षणार्थत्वादडादीनामिह व्यस्तैः समस्तैश्च व्यवायेऽपि णत्वं भवति ॥ पूर्वपदात्संज्ञायामगः ॥ ३ ॥ पूर्वपदस्थान्निमित्तादुत्तरस्य गकारवर्जिताह नकारस्य णकार आदेशो भवति संज्ञायां विषये। द्रुगणः। वाङ्गणः। खरशसः *। शूर्पणखा। संज्ञा- यामिति किम्। चर्मनासकः। अग इति किम्। ऋगयनम्। के चिदेतन्निय- मार्थं वर्णयन्ति। पूर्वपदात्संज्ञायामेव णत्वं नान्यत्रेति। समासपदेऽपि हि समान- पदे निमित्तनिमित्तिनोर्भावादस्ति पूर्वेण प्राप्तिरिति। सच नियमः पूर्वपदसंब- न्धादुत्तरपदस्यैव णत्वं निवर्त्तयति चर्मनासिक इति। न तद्धितपूर्वपदस्य। क्षारपायणः। मातृभोगीणः। करणप्रिय इति। अग इति योगविभागेन णत्वप्रति- षेधो न नियमप्रतिषेध इति। अपरे तु पूर्वसूत्रे समानमेव यत् नित्यं पदं तत्स- मानपदमित्याश्रयन्ति समानग्रहणात्। तेषामप्राप्तमेव णत्वमनेन विधीयते। समासे हि पूर्वपदोत्तरपदविभागादसमानपदत्वमप्यस्तीति ॥ वनं पुरगामिश्रकासिध्रकाशारिकाकोटराग्रेभ्यः ॥ ४ ॥ पूर्वपदात्संज्ञामिति वर्तते। पुरगा मिश्रका सिध्रका शारिका कोटरा अग्रे इत्येतेभ्यः पूर्वपदेभ्य उत्तरस्य वननकारस्य णकारादेशो भवति संज्ञायां
- क पुस्तके खरशस इति नास्ति।
८१० ॥ काशिका ॥ ८ । ४ ॥ विषये । पुरगावणम् । मिश्रकावणम् । सिध्रकावणम् । शारिकावणम् । कोट- रावणम् । अग्रेवणम् । सिद्धे सत्यारम्भो नियमार्थः । एतेभ्य एव परस्य वनन- कारस्य णकारादेशो भवति, नान्येभ्य इति । कुबेरवनम् । शतधारवनम् । असिपत्रवनम् ॥ प्रनिरन्तः शरेत्तुप्लक्षाम्रकार्ष्यखदिरपीयूक्षाभ्यो- संज्ञायामपि ॥ ५ ॥ प्र निर् अन्तर् शर इत्तु प्लक्ष आम्र कार्ष्य खदिर पीयूक्षा इत्येतेभ्य उत्त- रस्य वननकारस्य संज्ञायामसंज्ञायामपि णकारादेशो भवति । प्र । प्रवणे यष्ट- व्यम् । निर् । निर्वणे प्रतिधीयते । अन्तर् । अन्तर्वणे । शर । शरवणम् । इत्तु । इत्तुवणम् । प्लक्ष । प्लक्षवणम् । आम्र । आम्रवणम् । कार्ष्य । कार्ष्यवणम् । खदिर । खदिरवणम् । पीयूक्षा । पीयूक्षावणम् ॥ विभाषौषधिवनस्पतिभ्यः ॥ ६ ॥ वनमित्येव । ओषधिवाचि यत्पूर्वपदं वनस्पतिवाचि च तत्स्थानिमि- त्तादुत्तरस्य वननकारस्य णकार आदेशो भवति विभाषा । ओषधिवाचिभ्यस्ता- वत् । दूर्वावणम् । दूर्वावनम् । मूर्वावणम् । मूर्वावनम् । वनस्पतिभ्यः । शिरी- षवणम् । शिरीषवनम् । बदरीवणम् । बदरीवनम् ॥ द्वयक्षरत्र्यक्षरेभ्य इति वक्त- व्यम् ॥ * ॥ इह मा भूत् । देवदारुवनम् । भद्रदारुवनम् ॥ इरिकादिभ्यः प्रतिषेधो वक्तव्यः ॥ * ॥ इरिकावनम् । तिमिरकावनम् । सत्यपि भेदे वृक्षव- नस्पत्योरिहाभेदेन ग्रहणं द्रष्टव्यम् । फली वनस्पतिर्ज्ञेयो वृक्षाः पुष्पफलोपगाः । ओषध्यः फलपाकान्ता लता गुल्माश्च वीरुधः ॥ अह्नोऽदन्तात् ॥ ७ ॥ अदन्तं यत्पूर्वपदं तत्स्थानिमित्तादुत्तरस्याह्नो नकारस्य णकार आदेशो भवति । पूर्वाह्णः । अपराह्रः । अदन्तादिति किम् । निरह्नः । दुरह्नः । अह्नोऽह्न एतेभ्य इत्याह्लादेशः । अह्न इत्यकारान्तग्रहणाद् दीर्घाह्नी शरदित्यत्र न भवति ॥ वाहनमाहितात् ॥ ८ ॥ आहितवाचि यत्पूर्वपदं तत्स्थानिमित्तादुत्तरस्य वाहननकारस्य णकार आदेशो भवति । इत्तुवाहणम् । शरवाहणम् । दर्भवाहणम् । वाहने यद् आरोपितमुह्यते तदाहितमुच्यते । आहितादिति किम् । दात्तिवाहनम् । दात्ति- स्वामिकं वाहनमित्यर्थः ॥
मनुष्याभिधानेपि देशाभिधानं गम्यते । सुरा-"
Line 6: "पाणाः प्राच्याः । सौवीरपाणा बाह्लीकाः । कषायपाणा गन्धाराः । देशइति" ("बाह्लीकाः" with h-l ligature).
Line 7: "किम् । दाक्षीणां पानं दाक्षिपानम् ॥"
Line 10: "वा पूर्वपदस्थान्निमित्तादुत्तरस्य । क्षीरपाणं वर्त्तते । क्षीरपानम् । कषायपाणम् ।"
Line 11: "कषायपानम् । सुरापाणम् । सुरापानम् । करणे । क्षीरपाणः कंसः । क्षीरपानः ॥"
Line 14: "प्रातिपदिकान्तनुम्विभक्तिषु च ॥ ११ ॥"
Line 15: "वेति वर्त्तते । प्रातिपदिकान्ते नुम्विभक्तौ च यो नकारस्तस्य पूर्वपद-"
Line 16: "स्थान्निमित्तादुत्तरस्य वा णकार आदेशो भवति । प्रातिपदिकान्ते तावत् । माष-"
Line 17: "वापिणौ । माषवापिनौ । नुमि । माषवापाणि । माषवापानि । व्रीहिवापाणि ।"
Line 18: "व
८१२ ॥ काशिका ॥ ८ ॥ ४ ॥ क्षीरपेण। सुरापेण। ण इति वर्तमाने पुनर्ब्रहणं विकल्पाधिकारनिवृत्तेर्वि- स्पष्टीकरणार्थम् ॥ कुमति च ॥ १३ ॥ कवर्गवति चोत्तरपदे प्रातिपदिकान्तनुम्विभक्तिषु पूर्वपदस्थान्निमित्तादु- त्तरस्य नकारस्य णकारादेशो भवति। वस्त्रयुगैणौ। वस्त्रयुगिणः। स्वर्गका- मिणौ। वृषगामिणौ। नुमि। वस्त्रयुगाणि। खरयुगाणि। विभक्तौ। वस्त्र- युगेण। खरयुगेण ॥ उपसर्गादसमासेपि णोपदेशस्य ॥ १४ ॥ ण उपदेशे यस्यासौ णोपदेशः। णोपदेशस्य धातोर्यो नकारः तस्य उपसर्गस्थान्निमित्तादुत्तरस्य णकारादेशो भवति असमासेपि समासेपि। प्रणमति। परिणमति। * प्रणायकः। परिणायकः। उपसर्गादिति किम्। प्रयता नायका अस्माद्देशात्। प्रनायको देशः। असमासेपीति किम्।
'?
Wait, look:
नौ ज ढ दि ति
Wait, could it be नौजढदिति?
Let's look at the top:
There is an i-matra on 'ढ' -> 'ढि'?
And an i-matra on 'त' -> 'ति'.
Wait, does 'द' have an i-matra?
No, it's नौजढदिति or नौजढिदिति or नौजढदिति?
Wait, if it's औजढत्, why would it be ढि?
Wait, look at:
"तेन नौजढदिति सिद्धं भवति"
Wait, could the letter be 'नौजढदिति'?
Let's check the transcriptions of this Kashika passage online or in books:
"नौजढदिति"
Search memory for: "तेन नौजढदिति सिद्धं भवति"
Yes! Root: जढि (जढि खण्डे or similar) or अढ्?
Wait, what if it's:
"तेन नौजढदिति सिद्धं भवति"
Yes, "नौजढदिति"!
Wait, look at the letters:
नौ - ज - ढ - द - ि - त - ि
Wait, the matra is on 'द'? No, 'दि' - 'ति'!
Wait, in "नौजढदित
८१४ ॥ काशिका ॥ ८ ॥ ४ ॥ हन्तेरत्पूर्वस्य ॥ २२ ॥ अकारपूर्वस्य हन्तिनकारस्य उपसर्गस्थान्निमित्तादुत्तरस्य णकार आदेशो भवति । प्रहण्यते । परिहण्यते । प्रहणनम् । परिहणनम् । अत्पूर्वस्येति किम् । प्रघ्नन्ति । परिघ्नन्ति । तपरकरणं किम् । विद्धि प्राघानि । पर्यघानि ॥ वमोर्वा ॥ २३ ॥ हन्तेरिति वर्तते । वकारमकारयोः परतो हन्तिनकारस्योपसर्गस्थान्नि- मित्तादुत्तरस्य वा णकारादेशो भवति । प्रहण्वः । परिहण्वः । प्रहन्वः । परि- हन्वः । प्रहण्मः । परिहण्मः । प्रहन्मः । परिहन्मः * ॥ अन्तरदेशे ॥ २४ ॥ अन्तःशब्दादुत्तरस्य हन्तिनकारस्यात्पूर्वस्य णकारादेशो भवति चादे- शाभिधाने । अन्तर्हण्यते । अन्तर्हणनं वर्तते । आदेशइति किम् । अन्तर्हनने । देशः अत्पूर्वस्येत्येव । अन्तर्घ्नन्ति । तपरकरणं किम् । अन्तर्घानि ॥ अयनं च ॥ २५ ॥ अन्तरदेशइति वर्तते । अयननकारस्य चान्तः शब्दादुत्तरस्य णकारादेशो भवति अदेशाभिधाने । अन्तरयणं वर्तते । अन्तरयणं शोभनम् । अदेशइ- त्येव । अन्तरयनो देशः ॥ छन्दस्यदवग्रहात् ॥ २६ ॥ पूर्वपदादिति वर्तते । ऋकारान्तादवग्रहात्पूर्वपदादुत्तरस्य णकारादेशो भवति छन्दसि विषये । नृमणाः । पितॄयाणम् । अत्र हि नृमणा पितॄयाण- मिति ऋकारोऽवगृह्यते । अवग्रहग्रहणं किमर्थमुच्यते । यावता संहिताधिकार आध्यायपरिसमाप्तेरित्युक्तम् । विषयोपलक्षणार्थमवग्रहग्रहणं,प्रगृह्यमाणाद्यथा स्यादनवगृह्यमाणान्मा भूत् । अपदान्ते चावग्रहो नास्ति ॥ नश्च धातुस्थोरुषुभ्यः ॥ २७ ॥ नस् इत्येतस्य नकारस्य णकारादेशो भवति धातुस्थान्निमित्तादुत्तरस्यो- रुशब्दात्पुशब्दाच्च छन्दसि विषये । धातुस्थात्तावत् । अग्ने रक्षाणः । शिक्षाणो अस्मिन् । उरुशब्दात् । उरूणस्कृधि । षुशब्दात् । अभी षु णः सखीनाम् । ऊर्ध्व ऊ षु ण ऊतये । अस्मदादेशोयं नस्शब्दो बहुवचनस्य वस्नसौविति ॥ उपसर्गाद्बहुलम् ॥ २८ ॥ उपसर्गस्थान्निमित्तादुत्तरस्य नसो नकारस्य णकारादेशो भवति । प्रणः
- पूर्वेण नित्ये प्राप्ते विकल्प इत्यधिकमन्त्र ।
शूद्रः । प्रणसः प्रणो राजा । न च भवति । प्र नो मुञ्चतम् । बहुलग्रहणाद्भा- षायामपि भवति । प्रणसंमुखम् * । उपसर्गाच्चेति नासिकाया नसादेशः ॥ कृत्यचः ॥ २९ ॥ कृत्यस्थो यो नकारो ऽच उत्तरस्तस्योपसर्गस्थान्निमित्तादुत्तरस्य णकारा- देशो भवति । अन मान अनीय अनि इनि निष्ठादेश एते णत्वं प्रयोजयन्ति । अन । प्रयाणम् । परियाणम् । प्रमाणम् । परिमाणम् । मान । प्रयायमाणम् । परियायमाणम् । अनीय । प्रयाणीयम् । परियाणीयम् । अनिः । अप्रयाणिः । अपरियाणिः । इनि । प्रयायिणी । परियायिणी । निष्ठादेशः । प्रहीणः । परिहीणः । प्रहीणवान् । परिहीणवान् । अच इति किम् । प्रभुग्नः । परि- भुग्नः । भुजो कौटिल्ये । अस्य निष्ठाप्रत्ययः । ओदितश्चेति निष्ठानत्वम् । चोः कुरिति कुत्वे सिद्धं परिभुग्न इति † ॥ कृत्यस्य णत्वे निर्विण्णस्योपसं- ख्यानं कर्तव्यम् ॥ * ॥ निर्विण्णोऽस्मि खलसङ्गेन । निर्विण्णोहमत्र वासेन ॥ णेर्विभाषा ॥ ३० ॥ ण्यन्ताद्यो विहितः कृत्प्रत्ययः तत्स्थस्य नकारस्योपसर्गस्थान्निमित्तादुत्त- रस्य विभाषा णकारादेशो भवति । प्रयापणम् । प्रयापनम् । परियापणम् । परियापनम् । प्रयाप्यमाणम् । प्रयाप्यमानम् । प्रयापणीयम् । प्रयापनीयम् । अप्रयापणिः । अप्रयापनिः । प्रयापिणौ । प्रयापिनौ । विहितविशेषणं किम् । प्रयाप्यमाणमित्यत्र यका व्यवधानेपि यथा स्यादिति ॥ हलश्चेदुपधात् ॥ ३१ ॥ कृत्यच इति वर्तते । हलादिर्यो धातुरिदुपधस्तस्मात्परो यः कृत्प्रत्ययः तत्स्थस्य नकारस्याच उत्तरस्योपसर्गस्थान्निमित्तादुत्तरस्य विभाषा णकारादेशो भवति । प्रकोपणम् । प्रकोपनम् । परिकोपणम् । परिकोपनम् । हल इति किम् । प्रेहणम् । प्रेहनम् । इदुपधादिति किम् । प्रवपणम् । परिवपणम् । कृत्यच इति नित्ये प्राप्ते विकल्पः । अच इत्येव । परिभुग्नः । इदुपधस्य सर्वस्य हलन्तत्वादिह हल्ग्रहणमादिविशेषणम् ॥ इजादेः सनुमः ॥ ३२ ॥ हल इति वर्तते । तेनेह सामर्थ्यात्तदन्तविधिः । इजादेः सनुमो हल- न्ताद्धातोर्विहितो यः कृत्तत्स्थस्य नकारस्योपसर्गस्थान्निमित्तादुत्तरस्य णकारो भवति । प्रेङ्खणम् । परेङ्खणम् । प्रेङ्खणम् । परेङ्खणम् । प्रोम्भणम् । परोम्भणम् ।
- क चित्पुस्तके छन्दसीति निवृत्तं तेन भाषायामपि भवतीति पाठः । † क चित्भुजो कौटिल्यइत्यारभ्यैतत्पर्यन्तं नास्ति ।
'डु' and 'ह': 'ड' with 'ु' = डु, then 'ह' with 'म्' = हम्! Yes, "प्रावनडुहम् । पर्यवनडुहम् ।"! And next: "प्रगाजयामः । परिगाजयामः ॥ पदव्य-" Wait, "प्रगाजयामः" or "प्रगाथयामः" or "प्रगाययामः"? Wait, look at: "प्र - गा - थ - या - मः" or "प्रगापयामः"? In Kasika: "प्रगापयामः, परिगापयामः" (from गै + णिच् + लट् -> गापयति -> प्रगापयामः, परिगापयामः! Because गै with पुक् is गापि). Wait, look at the letter between 'गा' and 'या': Is it 'प' or 'थ' or 'ज'? Look at L31: "प्रगापयामः । परिगापयामः" In "प्रगापयामः": Letters: प, ्र, ग, ा, then 'प' (or 'ज'?), then 'या', 'म', 'ः'! Wait, 'प' in this font: look at 'प' in 'परिगापयामः' and 'पदव्य-'. Yes, 'प'! It is "प्रगापयामः । परिगापयामः ॥ पदव्य-". Wait, look at "पदव्य
" then "॥ हरि ॥" or "। हरि ।"? It has: "। कुबेर ॥ हरि ॥" - wait, look at L14 end: "समीर । कुबेर ॥ हरि ॥" Wait, why ॥ हरि ॥? Ah, it might be separated by danda. Wait, let's look at L15: "कर्म्मारइत्युत्तरपदवनशब्दस्यस्य संज्ञायाम् ॥" Wait, in Kashika: "हरिकर्म्मारयोरुत्तरपदवनशब्दस्य" or similar. Wait, let's look at L14-15: "कुबेर । हरि ।" or "॥ हरि ॥"? There are two vertical lines before हरि and two after! Yes, "॥ हरि ॥".
: "कर्म्मारइत्युत्तरपदवनशब्दस्यस्य संज्ञायाम् ॥ क्षुभ्नादिराकृतिगणः । अविहितल-" Wait, "वनशब्दस्यस्य" - exactly as printed: "वनशब्दस्यस्य".
: "क्षणो णत्वप्रतिषेधः क्षुभ्नादिषु द्रष्टव्यः ॥"
: "स्तोः श्चुना श्चुः ॥ ४० ॥"
: "सकारतवर्गयोः शकारचवर्गाभ्यां सन्निपाते शकारचवर्गावादेशौ भवतः ।" (Wait, is it "सन्
८१८ ॥ काशिका ॥ ८ ॥ ४ ॥ ष्टुना ष्टुः ॥ ४१ ॥ स्तोदिति वर्तते। सकारतवर्गयोः षकारटवर्गाभ्यां संनिपाते षकारटव- र्गावादेशौ भवतः। अत्रापि तथैव संख्यातानुदेशाभावः। षकारेण सकारस्य। वृक्षष्षण्डे। प्लक्षष्षण्डे। तस्यैव टवर्गेण। वृक्षष्टीकते। प्लक्षष्टीकते। वृक्षष्टकारः। प्लक्षष्टकारः। तवर्गस्य षकारेण। पेष्टा। पेष्टुम्। पेष्टव्यम्। कृषीष्ट। कृषीष्ठाः। तस्यैव टवर्गेण। अग्निचित्टीकते। सोमसुट्टीकते। अग्निचिट्टकारः। सोमसुट्ट- कारः। अग्निचिड्डीनः। सोमसुड्डीनः। अग्निचिट् ढौकते। सोमसुट् ढौकते। अग्निचित्षण्ढकारः। सोमसुत्षण्ढकारः। अतृट्। अदृतृत्ति। अदृड्। अदृह्नि॥ न पदान्ताट्टोरनाम् ॥ ४२ ॥ पदान
॥ काशिका ॥ ८ ॥ ४ ॥ ८१६ अच इति वर्तते । यर इति च । अच उत्तरस्य यरो द्वे भवतो ऽनचि परतः । दद्ध्यत्र । मध्वत्र । अच इत्येव । स्मितम् । स्मातम् ॥ यणो मयो द्वे भवत इति वक्तव्यम् ॥ * ॥ के चिदत्र यण इति पञ्चमी मय इति षष्ठीति व्याचक्षते । तेषामुल्ल्का वाल्मीक इत्युदाहरणम् । अपरे तु यण इति षष्ठी मय इति पञ्चमीति तेषां दध्य्यत्र मध्व्वत्रेत्युदाहरणम् ॥ शरः खयो द्वे भवत इति वक्तव्यम् ॥ * ॥ अत्रापि यदि शर इति पञ्चमी खय इति षष्ठी स्यात् स्यादित्युदाहरणम् । अथ वा खय उत्तरस्य शरो द्वे भवतः । वत्त्सरः । आप्सराः ॥ अवसाने च यरो द्वे भवत इति वक्तव्यम् ॥ * ॥ वाक्क् । वाक् । त्वक्क् । त्वक् । षट््ट् । षट् । तत्त् । तत् ॥ नादिन्याक्रोशे पुत्रस्य ॥ ४८ ॥ आदिनौ परत आक्रोशे गम्यमाने पुत्रशब्दस्य न द्वे भवतः । अनचि चेति प्राप्तिः प्रतिषिध्यते । पुत्रादिनी त्वमसि पापे । आक्रोशेति किम् । तत्त्वकथने द्विवचनं भवत्येव । पुत्रानत्तीति पुत्रादिनी । शिशुमारी व्याघ्री ॥ तत्परे चेति वक्तव्यम् ॥ * ॥ पुत्रपुत्रादिनि त्वमसि पापे ॥ वा हतजग्धपरइति वक्तव्यम् ॥ * ॥ पुत्रहती । पुत्र्रहती । पुत्रजग्धी । पुत्र्रजग्धी ॥ चयो द्वितीयाः शरि पौष्करसादे ॥ * ॥ चयो द्वितीया भवन्ति शरि परतः पौष्करसादेराचा- र्यस्य मतेन । तकारस्य थकारः । वथ्सः । ककारस्य । खकारः । वाख्शरम् । पकारस्य फकारः । आफ्सराः ॥ शरोचि ॥ ४९ ॥ नेति वर्तते । शरोचि परतो न द्वे भवतः । अचो रहाभ्यामिति प्राप्तिः प्रतिषिध्यते । कर्षति । वर्षति । आकर्षः । आवर्षः । अचीति किम् । दर्श्यते ॥ त्रिप्रभृतिषु शाकटायनस्य ॥ ५० ॥ त्रिप्रभृतिषु वर्णेषु संयुक्तेषु शाकटायनस्याचार्यस्य मतेन न भवति । इन्द्रः । चन्द्रः । उष्ट्रः । राष्ट्रम् । आष्ट्रम् ॥ सर्वत्र शाकल्यस्य ॥ ५१ ॥ शाकल्याचार्यस्य मतेन सर्वत्र द्विवचनं न भवति । अर्कः । मर्कः । ब्रह्मा । आप्नुते ॥ दीर्घादाचार्याणाम् ॥ ५२ ॥ दीर्घादुत्तरस्याचार्याणां मतेन न द्वित्वं भवति । दात्रम् । पात्रम् । मूत्रम् । सूत्रम् ॥
or "शाङ्क्स्यते"? Wait, why does this example show "ययीति किम्"? In "शांक्स्यते", the अनुस्वार is followed by 'क' (which IS yay!) Wait, no! Is 'स' yay? In "शांस् + स्य + ते", the root is शंस्. When s-pratyaya follows: शंस् + स्य + ते -> अनुस्वार is followed by 'स' (which is NOT yay, 'स' is an ushman, yay includes all consonants except sh, sh, s, h: यय् = य, व, र, ल, ञ, म, ङ, ण, न, झ, भ, घ, ढ, ध, ज, ब, ग, ड, द, ख, फ, छ, ठ, थ, च, ट, त, क, प). Shar (श, ष, स) and hal (ह) are NOT in yay! Wait, where did 'क' come from in "शांक्स्यते"? "क्" comes from "स्कोः संयोगाद्योरन्ते च" or "खर्परे शरि..."? No! "शांस्-स्य-ते" -> by "क्ङिति च"? No, "शन्सः सम्प्रसारणम्"? No, "स्यसिच्सीयुट्तासीष्वङ्करुहाङ्गप्रत्यय..."? No! Wait! "शांक्स्यते" - look at the text
॥ काशिका ॥ ८ ॥ ४ ॥ ८२१ पदान्तस्यानुस्वारस्य ययि परतः वा परसवर्णोऽदेशो भवति । तङ् कथ- ञ्चित्पत्तण्डयमानन् नभःस्वम्पुषुषो वधीत् । तं कथं चित्पचं डयमानं नभःस्वं पुरुषवधीत् ॥ तोर्लि ॥ ६० ॥ तवर्गस्य लकारे परतः परसवर्णोऽदेशो भवति । अग्निचिल्लुनाति । सोमसुल्लुनाति । भवाँल्लुनाति । महाँल्लुनाति ॥ उदः स्थास्तम्भोः पूर्वस्य ॥ ६१ ॥ सवर्णे इति वर्तते । उद उत्तरयोः स्था स्तम्भ इत्येतयोः पूर्वसवर्णोऽदेशो भवति । उत्थाता । उत्थातुम् । उत्थातव्यम् । स्तम्भेः खल्वपि । उत्तम्भिता । उत्तम्भितुम् । उत्तम्भितव्यम् । स्थास्तम्भोरिति किम् । उत्स्रातः ॥ उदः पूर्व- सवर्णत्वे स्कन्देश्छन्दस्युपसंख्यानम् ॥ * ॥ अये दूरमुत्कन्दः ॥ रोगे चेति वक्त- व्यम् ॥ * ॥ उत्कन्दको नाम रोगः । कन्द्तेर्वा धात्वन्तरस्यैतद्रूपम् ॥ झयो होऽन्यतरस्याम् ॥ ६२ ॥ झय उत्तरस्य हकारस्य पूर्वसवर्णोऽदेशो भवति अन्यतरस्याम् । वाग्घ- सति । वाग् हसति । स्वालट् ढसति । स्वालिड् हसति । अग्निचिद्धसति । अग्निचित् हसति । सोमसुद्धसति । सोमसुत् हसति । त्रिष्टुब्भसति । त्रिष्टुब् हसति । झय इति किम् । प्राङ् हसति । भवान्हसति ॥ शश्छोऽटि ॥ ६३ ॥ झय इति वर्तते । अन्यतरस्यामिति च । झय उत्तरस्य शकारस्याटि परतश्छकारादेशो भवति अन्यतरस्याम् । वाक्छेते । वाक् शेते । अग्निचि- च्छेते । अग्निचित् शेते । सोमसुच्छेते । सोमसुत् शेते । खलिट् छेते । खलिड् शेते । त्रिष्टुप्छेते । त्रिष्टुप् शेते ॥ छत्वममीति वक्तव्यम् ॥ * ॥ किं प्रयोज- नम् । तच्छ्लोकेन तच्छ्मश्रुणेत्येवमर्थम् ॥ हलो यमां यमि लोपः ॥ ६४ ॥ अन्यतरस्यामिति वर्तते । हल उत्तराणां यमां यमि परतो लोपो भवति अन्यतरस्याम् । शय्या इत्यत्र द्वौ यकारौ क्रमजस्तृतीयस्तत्र मध्यमस्य वा लोपो भवति । शय्या । शय्य्या । अदितेरपत्यमादित्य इत्यत्र तकारात्पर एको यकारो यणो मय इति क्रमजो द्वितीयः । तत्र मध्यमस्य वा लोपो भव- ति । आदित्यो देवता अस्य स्थालीपाकस्येति चादित्यः । आदित्य इत्यत्रापि
८२२ ॥ काशिका ॥ ८ ॥ ४ ॥ द्वौ यकारौ क्रमजस्तृतीयः । तत्र मध्यमस्य मध्यमयोर्वा लोपो भवति । हल इति किम् । अवम् । यमामिति किम् । अग्निः । यमोति किम् । शार्ङ्गम् ॥ झरो झरि सवर्णे ॥ ६५ ॥ हल इति वर्तते हल उत्तरस्य झरो झरि सवर्णे परतो लोपो भवति वान्यतरस्याम् । प्रतङ्मवत्त्समित्यत्र त्रयस्तकाराः । क्रमजश्चतुर्थः । तत्र मध्य- मस्य मध्यमयोर्वा लोपो भवति । महत्छत्त्र इत्यत्र चत्वारस्तकाराः क्रमजः पञ्च- मस्तत्र । मध्यमस्य मध्यमयोर्मध्यमानां वा लोपो भवति । महच्छब्दस्य ह्युप- संख्यानसामर्थ्यादेव उपसर्गात्त इति तत्वं भवति । झर इति किम् । शार्ङ्गम् । झरीति किम् । प्रियपञ्च्चः । अल्लोपस्य च पूर्वत्रासिद्धे न स्थानिवदिति स्थानि- वद्भावप्रतिषेधादत्र चकारस्य अकारे लोपः स्यात् । सवर्णेइति किम् । तर्त्ता । तर्तुम् । तर्त्तव्यम् । सवर्णग्रहणसामर्थ्यादिह संख्यातानुदेशो न भवति । सव- र्णमात्रे लोपो विज्ञायते । तेन शिण्ठि पिण्ठि इति ठकारे ढकारस्य लोपो भवति ॥ उदात्तादनुदात्तस्य स्वरितः ॥ ६६ ॥ उदात्तादुत्तरस्यानुदात्तस्य स्वरितादेशो भवति । गार्ग्यः । वात्स्यः । पचति । पठति । चास्य स्वरितस्यासिद्धत्त्वादनुदात्तं पदमेकवर्जमित्येतच्च प्रव- र्तते । तेनोदात्तस्वरितावुभावपि श्रूयेते ॥ नोदात्तस्वरितोदयमगार्य्यकाश्यपगालवानाम् ॥ ६७ ॥ उदात्तोदयस्य स्वरितोदयस्य चानुदात्तस्य स्वरितो न भवति । पूर्वेण प्राप्तः प्रतिषिध्यते । अगार्य्यकाश्यपगालवानां मतेन । उदात्त उदयो यस्मात्स उदात्तोदयः । उदात्तपर इत्यर्थः । एवं स्वरितोदयः । उदात्तोदयस्तावत् । गार्ग्यस्तत्र । वात्स्यस्तत्र । तत्रशब्द आद्युदात्तः । तस्मिन्नुदात्ते परतो गार्ग्यशब्दः स्वरितो न भवति । स्वरितोदयः । गार्ग्यः क्व । वात्स्यः क्व । क्वशब्दः स्वरितः तस्मिन्परतो ऽनुदात्तः स्वरितो न भवति । अगा- र्य्यकाश्यपगालवानामिति किम् । गार्ग्यस्तत्र । गार्ग्यः क्व । तेषां हि मतेन स्वरितो भवत्येव । उदात्तपरस्येति वक्तव्यउदयग्रहणं मङ्गलार्थम् । अनेका- चार्य्यसंकीर्त्तनं पूजार्थम् ॥ अ अ इति ॥ ६८ ॥ एकोऽत्र विवृतो ऽपरः संवृतस्तत्र विवृतस्य संवृतः क्रियते । आकारो विवृतः संवृतो भवति । वृक्षः । प्लक्षः । इह शास्त्रे कार्यार्थमकारो विवृतः
॥ काशिका ॥ ८ ॥ ४ ॥ ८२३ प्रतिज्ञातस्तस्य तथाभूतस्यैव प्रयोगे मा भूदिति संवृतप्रत्यापत्तिरियं क्रियते ॥ दीर्घप्लुतयोश्चानेन विवृतेनाकारेण ग्रहणं नेष्यते ॥ तेन तयोः संवृता न भवति ॥ संवृतेन च सर्वगुणस्य मात्रिकस्य ग्रहणमिष्यते ॥ तेन सर्वगुणः प्रत्यापद्यते ॥ इष्ट्युपसंख्यानवति शुद्धगणा विवृतगूढसूत्रार्था । व्युत्पन्नरूपसिद्धिर्वृत्तिरियं काशिका नाम ॥ व्याकरणस्य शरीरं परिनिष्ठितशास्त्रकार्यमेतावत् । शिष्टः परिकरबन्धः क्रियते ऽस्य ग्रन्थकारेण ॥ इति श्रीवामनकृतकाशिकावृत्तावष्टमाध्यायस्य तुरीयः पादः ॥ समाप्तश्चायमध्यायो ग्रन्थश्च ॥ Printed and published by E. J. LAZARUS & Co. at the Medical Hall Press, Benares.
- پشت Vyākaraṇa Sanskrit - Vyākaraṇa " — Grammar
प्रस्तुत पृष्ठ रिक्त (blank) है। इसमें केवल स्कैनिंग के दाग/चिह्न (artifacts) दिखाई दे रहे हैं, कोई पाठ्य सामग्री (text) उपलब्ध नहीं है।
Cel- N2/2/76
Central Archaeological Library, NEW DELHI. 27200 Call No. Sa 4V/ V.J/ Bal. Author— Vamana and Jaya- ditya. Title— Kasika; A Commentary of Panini's Grammatical Aphorisms. | Borrower No. | Date of Issue | Date of Return |