काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
कविरहस्ये तृतीयोऽध्यायः । ७
यात्रा । कविशब्दश्च कवृ वर्ण इत्यस्य धातोः काव्यकर्मणो रूपम् । काव्यैकरूपत्वाच्च सारस्वतेयेऽपि काव्यपुरुष इति भक्त्या प्रयुञ्जते । ततश्च विनिवृत्ता वाग्देवी तत्र पुत्रमपश्यन्ती मध्येहृदयं चक्रन्द । प्रसङ्गागतश्च वाल्मीकिर्मुनिर्वृषा सप्रश्रयं तमुदन्तमुदाहृत्य भगवत्यै भृगुमूर्तेराश्रमपदमदर्शयत् । सापि प्रस्रुतपयोधरा पुत्रायाङ्कपालीं ददाना शिरसि च चुम्बन्ती स्वस्तिमना चेतसा प्राचेतसायापि महर्षये निभृतं सच्छन्दांसि वचांसि प्रायच्छत् । अनुप्रेक्षितश्च स तया निषादनिहतसहचरीकं क्रौञ्चयुवानं करुणक्रेङ्कारया गिरा क्रन्दन्तमुदीक्ष्य शोकवान् श्लोकमुज्जगाद । “मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः । यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥” [ इति ] ततो दिव्यदृष्टिर्देवी तस्मा अपि श्लोकाय वरमदात्, यदुतान्यदन- धीयोनो यः प्रथममेनमध्येष्यते स सारस्वतः कविः सम्पत्स्यत इति । स तु महामुनिः प्रवृत्तवचनो रामायणमितिहासं समदृभत् । द्वैपायनस्तु श्लोकप्रथमाध्यायी तत्प्रभावेन शतसाहस्रीं संहितां भारतम् । एकदा तु ब्रह्मर्षिवृन्दारकयोः श्रुतिविवादे दाक्षिण्यवा- न्देवः स्वयम्भूस्तामिमां निर्णेत्रीमुदिदेश । उपश्रुतवृत्तान्तश्च मातरं व्रजन्तीं सोऽनुवव्राज । 'वत्स परमेष्ठिनाऽननुमतस्य ते न ब्रह्मलोक- यात्रा निःश्रेयसाय' इत्यभिदधाना हठाद्यवर्त्तयदेनमात्मना तु प्रव- वृते । ततः स काव्यपुरुषो रुषा निष्क्रक्राम । प्रियं मित्रमस्य च कुमारः साक्रन्दं रुदन्नभ्यधीयत गौर्या 'तात तृष्णीमास्स्व साऽहमेषा निषेधोमि' इति निगदन्ती समचिन्तयत् । प्रायः प्राणभृतां प्रेमाण- मन्तरेण नान्यद्वन्धनमस्ति, तदेनस्य वशीकरणं कामपि स्त्रियं सृजामीति विचिन्तयन्ती साहित्यविद्यावधूमूदपादयत् । आदिशच्चैना- मेष ते रुषा धर्मपतिः पुरः प्रतिष्ठते। तदनुवर्त्तस्वैनं निवर्त्तय च । भव- न्तोऽपि हन्त मुनयः काव्यविद्यास्नातकाश्ररितमेतयोः स्तुध्वमेनंर्द्धि
पादटिप्पण्यः (Footnotes): १ A भृगूभूतेः. २ A B अनुप्रेषितश्च. ३ A भयात्. ४ B omits रुषा. ५ B निषेधयामीति. ६ B एतद्विधं.
वः काव्यसर्वस्वं भविष्यतीत्यभिधाय भगवती भवानी जोषमासिष्ट। तेऽपि तथा कर्तुमवतस्थिरे । अथ सर्वे प्रथमं प्राचीं दिशं शिश्रियुर्यत्राङ्गवङ्गसुह्मब्रह्मपुण्ड्राद्या जनपदाः । तत्राभियुञ्जाना तन्मौमेयी यं वेषं यथेष्टमसेविष्ट स तत्रत्याभिः स्त्रीभिरन्वक्रियत । सा प्रवृत्तिरौड्रमागधी । तां ते मुनयोऽभितुष्टुवुः— “आद्रार्द्रचन्दनकुचार्पितसूत्रहारः सीमन्तचुम्बिसिचयः स्फुटबाहुमूलः । दूर्वाप्रकाण्डरुचिरास्वगुरूपभोगा- द्रौडाङ्गनासु चिरमेष चकास्तु वेषः ॥” यदृच्छयाऽपि यादृङ्नेपथ्यः स सारस्वतेय आसीत् तद्वेषाश्च पुरुषा बभूवुः । साऽपि सैव प्रवृत्तिः । यदपरं वृत्तवाद्यादिकमेषा चक्रे सा भारती वृत्तिः । तां ते मुनय इति समानं पूर्वेण । तथाविधाकल्प- यापि तया यद्वशंवदीकृतः समासवदनुप्रासवद्योगवृत्तिपरम्परा- गर्भं जगाद सा गौडीया रीतिः । तां ते मुनय इति समानं पूर्वेण । वृत्तिरीतिस्वरूपं यथावसरं वक्ष्यामः । ततश्च स पञ्चालान्प्रत्युच्चचाल यत्र पाञ्चालशूरसेनहस्तिनापुरका- श्मीरवाहीकबाहीकबाह्लवेयादयो जनपदाः । तत्राभियुञ्जाना तन्मौ- मेयीति समानं पूर्वेण । सा पाञ्चालमध्यमा प्रवृत्तिः । तां ते मुन- योऽभितुष्टुवुः— “ताटङ्कवल्गनतरङ्गितगण्डलेख- मानाभिलम्बिदरदोलिततारहारम् । आश्रोणिगुल्फपरिमण्डलितोत्तरीयं वेषं नमस्यत महोदयसुन्दरीणाम् ॥” किञ्चिदार्द्रितमना यन्नेपथ्यः स सारस्वतेय आसीदिति समानं पूर्वेण । साऽपि यदीषन्नृत्तगीतवाद्यविलासादिकं दर्शयाम्बभूव सा सात्त्वती वृत्तिः । आविद्धगतिमत्त्वात्सा चारभटी । तां ते मुनय इति समानं पूर्वेण । तथाविधाकल्पयाऽपि तया यदीषद्वशंवदीकृत
१ A तान्तरीयं.
कविरहस्ये तृतीयोऽध्यायः । ९
ईषदसमासमीषदनुप्रासमुपचारगर्भञ्च जगाद सा पाञ्चाली रीतिः । तां ते मुनय इति समानं पूर्वेण । ततः सोऽवन्तीन्प्रत्युच्चचाल यत्रावन्तीवैदिशसुराष्ट्रमलवार्बुदभृ- गुकच्छादयो जनपदाः । तत्राभियुञ्जाना तमौमेयतीति समानं पूर्वेण । सा प्रवृत्तिरावन्ती । पाञ्चालमध्यमादाक्षिणात्ययोरन्तरचारिणी हि सा। अत एव सात्त्वतीकैशिक्यौ तत्र वृत्ती । तां ते मुनयोऽभितुष्टुवुः— “पाञ्चालनेपथ्यविधिर्नराणां स्त्रीणां पुनर्नन्दतु दाक्षिणात्यः । यज्जल्पितं यच्चरितादिकं त- दन्योन्यसंभिन्नमवन्तिदेशे ॥” ततश्च स दक्षिणां दिशमाससाद यत्र मलयमेकलकुन्तलकेरल- पालमञ्जरमहाराष्ट्रगङ्गकलिङ्गादयो जनपदाः । तत्राभियुञ्जाना तमौमेयीति समानं पूर्वेण । सा दाक्षिणात्या प्रवृत्तिः । तां ते मुनयोऽभितुष्टुवुः । “आमूलतो वलितकुन्तलचारुचूड- श्चूर्णालकप्रचयलाञ्छितभालभागः । कक्षानिवेशनिबिडीकृतनीविरेष वेषश्चिरं जयति केरलकामिनीनाम् ॥” तामनुरक्तमनाः स यन्नेपथ्यः सारस्वतेय आसीदिति समानं पूर्वेण । साऽपि यद्विचित्रनृत्तगीतवाद्यविलासादिकमाविर्भावया- मास सा कैशिकी वृत्तिः । तां ते मुनय इति समानं पूर्वेण । यदत्यर्थं च स तया वशंवदीकृतः स्थानानुप्रासवदसमासं योगवृत्तिगर्भं च जगाद सा वैदर्भी रीतिः । तां ते मुनय इति समानं पूर्वेण । तत्र वेषविन्यासक्रमः प्रवृत्तिः, विलासक्रमो वृत्तिः, वचन- विन्यासक्रमो रीतिः । “चतुष्टयी गतिर्वृत्तीनां प्रवृत्तीनां च, देशानां पुनरानन्त्यं तत्कथमिव कार्त्स्न्येन परिग्रहः” इत्याचार्याः । “अनन्ता- मपि हि देशांश्चतुर्धैवाकल्प्य कल्पयन्ति चक्रवर्तिक्षेत्रं सामान्येन,
१ B मानिनीनाम्. २
१० काव्यमीमांसायाम् तदवान्तरविशेषैः पुनरनन्ता एव” इति यायावरीयः । दक्षिणा- त्समुद्रादुदीचीं दिशं प्रति योजनसहस्रं चक्रवर्तिक्षेत्रं, तत्रैष नेपथ्य- विधिः । ततः परं दिव्याद्या अपि यं देशमधिवसेयुस्तद्देश्यं वेषमा- श्रयन्तो निबन्धनीयाः । स्वभूमौ तु कामचारः । द्वीपन्तरभवानां तदनुसारेण वृत्तिप्रवृत्ती । रीतयस्तु तिस्रस्तास्तु पुरस्तात् । तत्रास्ति मनोजन्मनो देवस्य क्रीडावासो विदर्भेषु वत्सगुल्मं नाम नगरम् । तत्र सारस्वतेयस्तामौमेयीं गन्धर्ववत्परिणिनाय । ततस्तद्वधूवरं विनिवृत्य तेषु प्रदेशेषु विहरमाणं तुषारगिरिमेवाजगाम यत्र गौरी सरस्वती च मिथः सम्बन्धिन्यौ तस्थतुः । तौ च कृतवन्दनौ दम्पती दत्त्वाऽऽशिषं प्रभावमयेन वपुषा कविमानवनिवासिनौ चक्रतुः । तयोश्च कविलोकस्वर्गसर्गं तमकल्प[ये]तां, यत्र काव्यमयेन शरीरेण मर्त्त्यमधिवसन्तो दिव्येन देहेन कवय आकल्पं मोदन्ते । इत्येष काव्यपुरुषः पुरा सृष्टः स्वयम्भुवा । एवं विभज्य जानानः प्रेत्य चेह च नन्दति ॥ इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमेऽधिकरणे तृतीयोऽध्यायः काव्यपुरुषोत्पत्तिः ॥ चतुर्थोऽध्यायः पदवाक्यविवेकः । द्विविधं शिष्यमाचक्षते यदुत बुद्धिमानाहार्य्यबुद्धिश्च । यस्य निस- र्गतः शास्त्रमनुधावति बुद्धिः स बुद्धिमान् । यस्य च शास्त्राभ्यासः संस्कुरुते बुद्धिमसावाहार्य्यबुद्धिः । त्रिधा च सा, स्मृतिमतिः प्रज्ञेति । अतिक्रान्तस्यार्थस्य स्मर्त्री स्मृतिः । वर्त्तमानस्य मन्त्री मतिः । अना- गतस्य प्रज्ञात्री प्रज्ञेति । सा त्रिप्रकाराऽपि कवीनामुपकर्त्री । तयो- र्बुद्धिमान् शुश्रूषते शृणोति गृह्णीते धारयति विजानात्यूहतेऽपोहति तत्त्वं चाभिनिविशते । आहार्य्यबुद्धेरप्येत एव गुणाः किन्तु प्रशा- स्तारमपेक्षन्ते । अहरहः सुगुरूपासना तयोः प्रकृष्टो गुणः । सा हि बुद्धिविकासकामधेनुः । तदाहुः—
कविरहस्ये चतुर्थोऽध्यायः । ११ “प्रथयति पुरः प्रज्ञाज्योतिर्यथार्थपरिग्रहे तदनु जनयत्यूहापोहक्रियाविशदं मनः । अभिनिविशते तस्मात्तत्त्वं तदेकमुखोदयं सह परिचयो विद्यावृद्धैः क्रमादमृतायते ॥” ताभ्यामन्यथावृत्तिर्दुर्बुद्धिः । तत्र बुद्धिमतः प्रतिपत्तिः । स खलु ५ सकृदभिधानप्रतिपन्नार्थः कविमार्गं मृगयितुं गुरुकुलमुपासीत । आहार्यबुद्धेस्तु द्वयमप्रतिपत्तिः सन्देहश्च । स खल्वप्रतिपन्नमर्थं प्रतिपत्तुं सन्देहं च निराकर्तुमाचार्यानुपतिष्ठेत । दुर्बुद्धेस्तु सर्वत्र मतिविपर्यास एव । स हि नीलीमेचकितसिचयकल्पः । अनाधेयगुणा- न्तरत्वात् । तं यदि सारस्वतोऽनुभावः प्रसादयति तमौ(दौ)पनिषदिके १० वक्ष्यामः । “काव्यकर्मणि कवेः समाधिः परं व्याप्रियते” इति श्यामदेवः । मनस एकाग्रता समाधिः । समाहितं चित्तमर्थान्पश्यति । उक्तञ्च— “सारस्वतं किमपि तत्सुमहद्रहस्यं यद्गोचरे च विदुषां निपुणैकसेव्यम् । १५ तत्सिद्धये परमयं परमोऽभ्युपायो यच्चेतसो विदितवेद्यविधेः समाधिः ॥” “अभ्यासः” इति मङ्गलः । अविच्छेदेन शीलनमभ्यासः । स हि सर्वगामी सर्वत्र निरतिशयं कौशलमाधत्ते । “समाधिरन्तरः प्रयत्नो बाह्यस्त्वभ्यासः । तावुभावपि शक्तिमुद्भासयतः । सा केवलं २० काव्ये हेतुः” इति यायावरीयः । विप्रसृतिश्च सा प्रतिभाव्युत्पत्ति- भ्याम् । शक्तिकर्तृके हि प्रतिभाव्युत्पत्तिकर्मणी । शक्तस्य प्रति- भाति शक्तश्च व्युत्पद्यते । या शब्दग्राममर्थसार्थमलङ्कारतन्त्रमुक्ति- मार्गमन्यदपि तथाविधमधिहृदयं प्रतिभासयति सा प्रतिभा । अप्रतिभस्य पदार्थसार्थः परोक्ष इव । प्रतिभावतः पुनरपश्यतोऽपि २५ १ B क्रियाविसरं. २ BC बुद्धिः. ३ B काव्यहेतुः. ४ Explained in A in the margin as दूरवर्तिनी.
१२ काव्यमीमांसायाम्
प्रत्यक्ष इव । यतो मेधाविरुद्रकुमारदासादयो जात्यन्धाः कवयः श्रूयन्ते । किन्नु न महाकवयोऽपि देशद्वीपान्तरकथापुरुषादिदर्शनेन तत्तत्यां व्यवहतिं निबध्नन्ति स्म ? । तत्र देशान्तरव्यवहारः— “प्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षे वने तोये काञ्चनपद्मरेणुकपिशे पुण्याभिषेकक्रिया । ध्यानं रत्नशिलागृहेषु विबुधस्त्रीसन्निधौ संयमो यत्काङ्क्षन्ति तपोभिरन्यमुनयस्तस्मिंस्तपस्यन्त्यमी ॥” द्वीपान्तरव्यवहारः—“अनेन सार्द्धं विहराम्बुराशे- स्तीरेषु तालीवनमर्मरेषु । द्वीपान्तरानीतलवङ्गपुष्पै- रपाकृतस्वेदलवा मरुद्भिः ॥” कथापुरुषव्यवहारः—“हरोऽपि तावत्परिवृत्तधैर्य- श्चन्द्रोदयारम्भ इवाम्बुराशिः । उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि ॥” आदिग्रहणात्— “तथागतायां परिहासपूर्वं सख्यां सखी वेत्रभृदाबभाषे । बाले व्रजामोऽन्यत इत्यथैनां वधूरसूयाकुटिलं ददर्श ॥” सा च द्विधा कारयित्री भावयित्री च । कवेरुपकुर्वाणा कार- यित्री । साऽपि त्रिविधा सहजाऽऽहार्यौपदेशिकी च । जन्मान्तर- संस्कारापेक्षिणी सहजा । जन्मसंस्कारयोनिरहार्या । मन्त्रतन्त्राद्युप- देशप्रभवा औपदेशिकी । ऐहिकेन कियताऽपि संस्कारेण प्रथमां (मा)। तां सहजेति व्यपदिशन्ति । महता पुनराहार्या । औपदेशिक्याः पुनरैहिक एव उपदेशकालः, ऐहिक एव संस्कारकालः । त इमे
१ A ०रणौष्ठे. २ A सख्या.
कविरहस्ये चतुर्थोऽध्यायः । १३
त्रयोऽपि कवयः सारस्वत, आभ्यासिक, औपदेशिकश्च । जन्मा- न्तरसंस्कारप्रवृत्तसरस्वतीको बुद्धिमन्सारस्वतः । इह जन्माभ्यासो- द्भासितभारतीक आहार्यबुद्धिराभ्यासिकः। उपदेशित(श)दर्शितवा- ग्विभवो दुर्बुद्धिरौपदेशिकः । "तस्मान्नेतरौ तन्त्रशेषमनुतिष्ठताम् । नहि प्रकृतिमधुरा द्राक्षा फाणितसंस्कारमपेक्षते” इत्याचार्याः । “न” ५ इति यायावरीयः । एकार्थ हि क्रियाद्वयं द्वैगुण्याय सम्पद्यते । “तेषां पूर्वः पूर्वः श्रेयान्” इति श्यामदेवः । यतः— “सारस्वतः स्वतन्त्रः स्याद्गवेदाभ्यासिको मितः । उपदेशकविस्त्वत्र वल्गु फल्गु च जल्पति ॥” “उत्कर्षः श्रेयान्” इति यायावरीयः । स चानेकगुणसन्निपाते १० भवति । किञ्च— “बुद्धिमत्त्वं च काव्याङ्गविद्यास्वभ्यासकर्म च । कवेश्चौपनिषच्छक्तिस्त्रयमेकत्र दुर्लभम् ॥ काव्यकाव्याङ्गविद्यासु कृताभ्यासस्य धीमतः । मन्त्रानुष्ठाननिष्ठस्य नेदिष्ठा कविराजता ॥” १५ कवीनां तारतम्यतश्चैष प्रायोवादः । “एकस्य तिष्ठति कवेर्गृह एव काव्य- मन्यस्य गच्छति सुहृद्भवनानि यावत् । न्यस्यावि(स्यद्वि)दग्धवदनेषु पदानि शश्व- त्कस्यापि सञ्चरति विश्वकुतूहलीव ॥” २० सेयं कारयित्री । भावकस्योपकुर्वाणा भावयित्री । सा हि कवेः श्रममभिप्रायं च भावयति । तया खलु फलितः कवेर्व्यापारतरुः । अन्यथा सोऽवकेशी स्यात् । “कः पुनरनयोर्भेदो यत्कविर्भावयति भावकश्च कविः” इत्याचार्याः । तदाहुः— “प्रतिभातारतम्येन प्रतिष्ठा भुवि भूरिधा । २५ भावकस्तु कविः प्रायो न भजत्यधमां दशाम् ॥”
१४ काव्यमीमांसायाम् “न” इति कालिदासः । पृथगेव हि कवित्वाद्भावकत्वं, भाव- कत्वाच्च कवित्वम् । स्वरूपभेदाद्विषयभेदाच्च । यदाहुः— “कश्चिद्वाचं रचयितुमलं श्रोतुमेवापरस्तां कल्याणी ते मतिरुभयथा विस्मयं नस्तनोति । 5 नह्येकस्मिन्नतिशयवतां सन्निपातो गुणाना- मेकः सूते कनकमुपलस्तत्परीक्षाक्षमोऽन्यः ॥” “ते च द्विधा । अरोचकिनः, सतृणाभ्यवहारिणश्च” इति मङ्गलः। “कवयोऽपि भवन्ति” इति वामनीयाः । “चतुर्द्धा” इति याया- वरीयाः “मत्सरिणस्तत्त्वाभिनिवेशिनश्च” । “तत्र विवेकिनः पूर्वे 10 तद्विपरीतास्तु ततोऽनन्तराः” इति वामनीयाः । “अरोचकिता हि तेषां नैसर्गिकी ज्ञानयोनिर्वा । नैसर्गिकीं हि¹ संस्कारशतेनापि वङ्गमिव कालिकां ते न² जहति । ज्ञानयोनौ तु तस्यां विशिष्टज्ञे- यवति वचसि रोचकितावृत्तिरेव” इति यायावरीयः । किञ्च सतृ- णाभ्यवहारिता सर्वसाधारणी । तथाहि व्युत्पित्सोः कौतुकिनः 15 सर्वस्य सर्वत्र प्रथमं सा । प्रतिभाविवेकविकलता हि न गुणागुण- योर्विभागसूत्रं पातयति । ततो बहु त्यजति बहु च गृह्णाति । विवे- कानुसारेण हि बुद्धयो मधु निष्पन्दन्ते । परिणामे तु यथार्थदर्शी स्यात् । विभ्रमभ्रंशश्च निःश्रेयसं सन्निधत्ते । मत्सरिणस्तु प्रतिभा- तमपि न प्रतिभानं, परगुणेषु वाचंयमत्वात् । स पुनरमत्सरी ज्ञाता 20 च विरलैः³ । तदुक्तम्— “कस्त्वं भोः कविरस्मि काव्यभिनवा सूक्तिः सखे पठ्यतां त्यक्ता काव्यकथैव सम्प्रति मया कस्मादिदं श्रूयताम् । यः सम्यग्विभिनक्ति दोषगुणयोः सारं स्वयं सत्कविः सोऽस्मिन्भावक एव नास्त्यथ भवेद्दैवान्न निर्मत्सरः ॥” 25 तत्त्वाभिनिवेशी तु मध्येसहस्रं यद्येकः । तदुक्तम्— “शब्दानां विविनक्ति गुम्फनविधीनामोदते सूक्तिभिः सान्द्रं लेढि रसामृतं⁴ विचिनुते तात्पर्यमुद्रां च यः । १ A reads न after हि. २ A omits न. ३ A विरलं. ४ A रसोदयं.
कविरहस्ये चतुर्थोऽध्यायः । १५ पुण्यैः सङ्घटते विवक्तृविरहादन्तर्मुखं ताम्यतां केषामेव कदाचिदेव(ष) सुधियां काव्यश्रमज्ञो जनः ॥ स्वामी मित्रं च मन्त्री च शिष्यश्चाचार्य एव च । कवेर्भवति ही चित्रं किं हि तद्यन्न भावकः ॥ काव्येन किं कवेस्तस्य तन्मनोमात्रवृत्तिना । नीयन्ते भावकैर्यस्य न निबन्धा दिशो दश ॥ सन्ति पुस्तकविन्यस्ताः काव्यबन्धा गृहे गृहे । द्वित्रास्तु भावकमनःशिलापट्टनिकुट्टिताः ॥ सत्काव्ये विक्रियाः काश्चिद्भावकस्योल्लसन्ति ताः । सर्वाभिनयनिर्णीतौ दृष्टा नाट्यसृजा न याः ॥ वाग्भावको भवेत्कश्चित्कश्चिद्बुद्ध्यभावकः । सात्त्विकैराङ्गिकैः कश्चिदनुभावैश्च भावकः ॥ गुणादानपरः कश्चिद्दोषहानपरोऽपरः । गुणदोषाहृतित्यागपरः कश्चन भावकः ॥ अभियोगे समानेऽपि विचित्रो यदयं क्रमः । तेन विद्मः प्रसादोऽत्र नृणां हेतुरमानुषः ॥ न निसर्गकविः शास्त्रे न क्षुण्णः कवते च यः । विडम्बयति सात्मानमाग्रहग्रहिलः किल ॥ कवित्वं न स्थितं यस्य काव्ये च कृतकौतुकः । तस्य सिद्धिः सरस्वत्यास्तन्त्रमन्त्रप्रयोगतः ॥ प(य)दाऽन्तरं वेत्ति सुधीः स्ववाक्यपरवाक्ययोः । तदा स सिद्धो मन्तव्यः कुकविः कविरेव वा ॥” कारयित्रीभावयित्र्यावितीमे प्रतिभाभिदे । अथातः कथयिष्यामो व्युत्पत्तिं काव्यमातरम् ॥ इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमेऽधिकरणे चतुर्थोऽध्यायः पदवाक्यविवेकः । काव्यविशेषेषु कारयित्रीभावयित्री नाम समीक्षा ॥
१ BC दोषादान०. २ A गुणदोषा हृदि. ३ A सोत्मानं. ४ C शिष्यविशेषेषु.
१६ काव्यमीमांसायाम् पञ्चमोऽध्यायः काव्यपाककल्पः । “बहुज्ञता व्युत्पत्तिः” इत्याचार्याः । सर्वतोदिक्का हि कविवचः । तदुक्तम्— “प्रसरति किमपि कथञ्चन नाभ्यस्ते गोचरे वचः कस्य । इदमेव तत्कवित्वं यद्वाचः सर्वतोदिक्काः ॥” “उचितानुचितविवेको व्युत्पत्तिः” इति यायावरीयः । “प्रति- भाव्युत्पत्त्योः प्रतिभा श्रेयसी” इत्यानन्दः । सा हि कवेरव्युत्प- त्तिकृतं दोषमशेषमाच्छादयति । तदाह— “अव्युत्पत्तिकृतो दोषः शक्त्या संव्रियते कवेः । यस्त्वशक्तिकृतस्तस्य झगित्येवावभासते ॥” शक्तिशब्दश्चायमुपचरितः प्रतिभाने वर्तते । “एतत्किं शिरसि स्थितं मम पितुः खण्डं सुधाजन्मनो लालाटं किमिदं विलोचनमिदं हस्तेऽस्य किं पन्नगाः । इत्थं क्रौञ्चरिपोः क्रमादुपगते दिग्वाससः शूलिनः प्रश्ने वामकरोपरोधसुभगं देव्याः स्मितं पातु वः ॥” “व्युत्पत्तिः श्रेयसी” इति मङ्गलः । सा हि कवेरशक्तिकृतं दोषमशेषमाच्छादयति । तथा हि— “कवेः संव्रियतेऽशक्तिर्व्युत्पत्त्या काव्यवर्त्मनि । वैदग्धीचित्त(त्र)चित्तानां हेया शब्दार्थगुम्फना ॥” व्युत्पत्तिर्यथा— “कृतः कण्ठे निष्को नहि किमुत तन्वी मणिलता कृशं लीलापत्रं श्रवसि निहितं कुण्डलमुचि । न कौशेयं चित्रं वसनमवदातं तु वसितं समासन्नीभूते निधुवनविलासे वनितया ॥” “प्रतिभाव्युत्पत्ती मिथः समवेते श्रेयस्यौ” इति यायावरीयः । न खलु लावण्यलाभादृते रूपसम्पत् । ऋते रूपसम्पदो १वा लावण्यल- ब्धिर्महते सौन्दर्याय । उभययोगो यथा— १ B omits वा.
कविरहस्ये पञ्चमोऽध्यायः । १७
“जङ्घाकाण्डोरुनालो नखकिरणलसत्केसरालीकरालः प्रत्यग्रालक्तकाभाप्रसरकिसलयो मञ्जुमञ्जीरभृङ्गः । भर्तुर्नृत्यानुकारे जयति निजतनूस्वच्छलावण्यवापी- सम्भूताम्भोजशोभां विदधदभिनवां दण्डपादो भवान्याः॥” प्रतिभाव्युत्पत्तिमांश्च कविः कविरित्युच्यते । स च त्रिधा । शास्त्रकविः काव्यकविरुभयकविश्च । “तेषामुत्तरोत्तरीयो(रो) गरी- यान्” इति श्यामदेवः । “न” इति यायावरीयः । यथा स्वविषये सर्वो गरीयान् । नहि राजहंसश्चन्द्रिकापानाय प्रभवति, नापि चको- रोऽङ्ग्यः क्षीरोद्धरणाय । यच्छास्त्रकविः काव्ये रससम्पदं विच्छि- नत्ति । यत्काव्यकविः शास्त्रे तर्ककर्कशमप्यर्थमुक्तिवैचित्र्येण श्लथ- यति । उभयकविस्तूभयोरपि वरीयान्यद्युभयत्र परं प्रवीणः स्यात् । तस्मात्तुल्यप्रभावावेव शास्त्रकाव्यकवी । उपकार्योपकारकभावं तु मिथः शास्त्रकाव्यकव्योरनुमन्यामहे । यच्छास्त्रसंस्कारः काव्यमनु- गृह्णाति शास्त्रैकप्रवणता तु निगृह्णाति । काव्यसंस्कारोऽपि शास्त्र- वाक्यपाकमनुरुणद्धि काव्यैकप्रवणता तु विरुणद्धि । तत्र त्रिधा शास्त्रकविः । यः शास्त्रं विधत्ते, यश्च शास्त्रे काव्यं संविधत्ते, योऽपि काव्ये शास्त्रार्थं निधत्ते । काव्यकविः पुनरष्टधा । तद्यथा रचना- कविः, शब्दकविः, अर्थकविः, अलङ्कारकविः, उक्तिकविः, रसकविः, मार्गकविः, शास्त्रार्थकविरिति । तत्र रचनाकविः— “लोल्लाङ्गूलवलीवलयितबकुलानोकहस्कन्धगोल्लै- र्गोलाङ्गूलैर्नदद्भिः प्रतिरसितजरत्कन्दरामन्दिरेषु । खण्डेषूदण्डपिण्डीतगरतरलकाः प्रापिरे येन वेला- मालङ्घ्योत्तालतल्लस्फुटितपुटकितीबन्धवो गन्धवाहाः ॥” त्रिधा च शब्दकविर्नामाख्यातार्थभेदेन । तत्र नामकविः— “विद्येव पुंसो महिमेव राज्ञः प्रज्ञेव वैद्यस्य दयेव साधोः ।
१ B विदधदभिनयाह. २ B तान. ३
लज्जेव शूरस्य मृजेव यूनो विभूषणं तस्य नृपस्य सैव ॥” आख्यातकविर्यथा—"उच्चैस्तरां जहसुराजहृषुर्जगर्ज्रु- राजग्मिरे भुजतटीनिकरैः स्फुरद्भिः । सन्तुष्टुवुर्मुमुदिरे बहु मेनिरे च वाचं गुरोरमृतसम्भवलाभगर्भा॒म् ॥” नामाख्यातकविः—"हतत्विषोऽन्धाः शिथिलांसबाहवः श्रि(स्त्रि)यो विषादेन विचेतना इव । न चुक्रुशुर्नो रुरुदुर्न सस्वनु- र्न चेलुरासुर्लिखिता इव क्षणम् ॥” अर्थकविः—"देवी पुत्रमसूत नृत्यत गणाः किं तिष्ठतेत्युन्भुजे हर्षाच्छृङ्गिरिटावुदाहृतगिरा चामुण्डयाऽऽलिङ्गिते । पायाद्वो जितदेवदुन्दुभिघनध्वानप्रवृत्तिस्तयो- रन्योन्याङ्गनिपातजर्जरजरत्स्थूलास्थिजन्मा रवः ॥” द्विधाऽलङ्कारकविः शब्दार्थभेदेन । तयोः शब्दालङ्कारः— "न प्राप्तं विषमरणं प्राप्तमपापेन कर्मणा विषमरणम् । न मृतो भागीरथ्यां मृतोऽहमुपगृह्य मन्दभागी रथ्याम् ॥” अर्थालङ्कारः—"भ्रान्तजिह्वापताकस्य फणच्छत्रस्य वासुकेः । दंष्ट्राशलाकादारिद्र्यं कर्तुं योग्योऽस्ति मे भुजः ॥” उक्तिकविः—"उदरमिद़मनिन्द्यं मानिनीश्वासलैाव्यं स्तनतटपरिणाहो दोर्लतालेह्यसीमा । स्फुरति च वदनेन्दुर्दृक्प्रणालीनिपेय- स्तदिह सुदृशि कल्याः केलयो यौवनस्य ॥” यथा वा—"प्रतीच्छत्याशोकीं किसलयपरावृत्तिमधरः कपोलः पाण्डुत्वादवतरति ताडीपरिणतिम् । १ C जहसुरुजहृषु. २ C भुजतढानि करैः. ३ A रन्योन्याङ्क. ४ BC प्राप्तं पापेन कर्मणा विषमरणं च. ५ B लभ्यं.
कविरहस्ये पञ्चमोऽध्यायः । १९
परिम्लानप्रायामनुवदति दृष्टिः कमलिनी- मितीयं माधुर्यं स्पृशति च तनुत्वं च भजते ॥” रसकविः—"एतां विलोकय तनूदरि ताम्रपर्णी- मम्भोनिधौ विवृतशुक्तिपुटोद्गतानि । यस्याः पयांसि परिणाहिषु हारमूर्त्या वामभ्रुवां परिणमन्ति पयोधरेषु ॥” मार्गकविः—"मूलं बालकवीरुधां सुरभयो जातीतरूणां त्वचः सारश्चन्दनशाखिनां किसलयान्यर्दाण्यशोकस्य च । शैरीषी कुसुमोद्गतिः परिणमन्मोचं च सोऽयं गणः ग्रीष्मेणोष्महरः पुरा किल ददे दग्धाय पञ्चेषवे ॥” शास्त्रार्थकविः—"आत्माराम्रा विहितरतयो निर्विकल्पे समाधौ ज्ञानोद्रेकाद्विघटिततमोग्रन्थयः सत्त्वनिष्ठाः । यं वीक्षन्ते
शसमकालं कवते स आवेशिकः। यो यदैवेच्छति तदैवाविच्छिन्न- वचनः सोऽविच्छेदी। यः कन्याकुमारादिषु सिद्धमन्त्रः सरस्वतीं सङ्क्रामयति स सङ्क्रामयिता। सततमभ्यासवशतः सुकवेः वाक्यं पाकमायाति। “कः पुनरयं पाकः?” इत्याचार्याः। “परिणामः” इति मङ्गलः। “कः पुनरयं प- रिणामः?” इत्याचार्याः। “सुपां तिङां च श्रवः यैषा व्युत्पत्तिः” इति मङ्गलः। “सौशब्द्यमेतत्। पदनिवेशनिष्कम्पता पाकः” इत्याचार्याः। तदाहुः— “आवापोद्धरणे तावद्यावद्दोलायते मनः। पदानां स्थापिते स्थैर्ये हन्त सिद्धा सरस्वती॥” “आग्रहपरिग्रहादपि पदस्थैर्यपर्यवसायस्तस्मात्पदानां परिवृत्ति- वैमुख्यं पाकः” इति वामनीयाः। तदाहुः— “यत्पदानि त्यजन्त्येव परिवृत्तिसहिष्णुताम्। तं शब्दन्याय(स)निष्णाताः शब्दपाकं प्रचक्षते॥” “इयमशक्तिर्न पुनः पाकः” इत्यवन्तिसुन्दरी। यदेकस्मिन्वस्तुनि महाकवीनामनेकोऽपि पाठः परिपाकवान्भवति। तस्माद्रसोचित- शब्दार्थसूक्तिनिबन्धनः(नं) पाकः। यदाह— “गुणालङ्काररीतियुक्तिशब्दार्थग्रथनक्रमः। स्वदते सुधियां येन वाक्यपाकः स मां प्रति॥” तदुक्तम्— “सति वक्तरि सत्यर्थे शब्दे सति रसे सति। अस्ति तन्न विना येन परिस्रवति वाङ्मधु॥” “कार्यानुमेयत्तया यत्तच्छब्दनिवेद्यः परं पाकोऽभिधाविषयः। त- त्सहृदयप्रसिद्धिसिद्ध एव व्यवहाराङ्गमसौ” इति यायावरीयः। स च कविग्रामस्य काव्यमभ्यस्यतो नवधा भवति। तत्राद्यन्तयो- रस्वादु पिचूमन्दपाकम्, आदावस्वादु परिणामे मध्यमं बदरपाकम्, आदावस्वादु परिणामे स्वादु मृद्वीकापाकम्, आदौ मध्यममन्ते चा- स्वादु वार्त्ताकपाकम्, आद्यन्तयोर्मध्यमं तिन्तिडीकपाकम्, आदौ १ A सिद्धिमन्त्रः. २ B संक्रमयति. ३ B संक्रमयिता. ४ BC श्रवः सैषा. ५ B अवापो०. ६ B च.
कविरहस्ये षष्ठोऽध्यायः । २१ मध्यममन्ते स्वादु सहकारपाकम्, आदावुत्तममन्ते चास्वादु क्रमुक- पाकम्, आदावुत्तममन्ते मध्यमं त्रपुसपाकम्, आद्यन्तयोः स्वादु नालिकेरपाकमिति । तेषां त्रिष्वपि त्रिकेषु पाकाः प्रथमे त्याज्याः । वरमकविर्न पुनः कुकविः स्यात् । कुकविता हि सोच्छ्वासं मरणम् । मध्यमाः संस्कार्याः । संस्कारो हि सर्वस्य गुणमुत्कर्षति । द्वादशव- ५ र्णमपि सुवर्णं पावकपाकेन हेमीभवति । शेषा ग्राह्याः । स्वभावशुद्धं हि न संस्कारमपेक्षते । न मुक्तामणेः शाणस्तारतायै प्रभवति । अन- वस्थितपाकं पुनः कपित्थपाकमामनन्ति । तत्र पलालधूननेन अन्न- कणलाभवत्सुभाषितलाभः । सम्यगभ्यस्यतः काव्यं नवधा परिपच्यते । १० हानोपादानसूत्रेण विभजेत्तद्धि बुद्धिमान् ॥ अयमत्रैव शिष्याणां दर्शितस्त्रिविधो विधिः । किन्तु वि(त्रि)विधमप्येतत्त्रिंजगलस्य(?) वर्त्तते ॥ इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमेऽधिकरणे शिष्यविशेषेषु काव्यपाककल्पः पञ्चमोऽध्यायः ॥ १५ षष्ठोऽध्यायः पदवाक्यविवेकः । व्याकरणस्मृतिनिर्णीतः शब्दो निरुक्तनिघण्ट्वादिभिर्निर्दिष्टः। तद- भिधेयोऽर्थः। तौ पदम्। तस्य पञ्च वृत्तयः-सुब्वृत्तिः, समासवृत्तिः, तद्धितवृत्तिः कृद्वृत्तिः, तिङ्वृत्तिश्च । गौरश्वः पुरुषो हस्तीति जाति- वाचिनः शब्दाः । हरो हरिर्हिरण्यगर्भः काल आकाशं दिगिति २० द्रव्यवाचिनः । श्वेत्तः कृष्णो रक्तः पीत इति च गुणवाचिनः । प्राद्- यश्चादयश्चासत्त्ववचनाः । नगरमुप प्रस्थितः पन्थाः, वृक्षमन्व द्योतते विद्युदिति कर्मप्रवचनीयाः । “सेयं सुब्वृत्तिः पञ्चतथ्यपि वाङ्मयस्य माता” इति विद्वांसः । सुब्वृत्तिरेव समासवृत्तिः । व्याससमासा- १ B हारो. २ B त्रिभ्य···वर्त्तते. ३ B निर्घण्टादिभिः.
२२ काव्यमीमांसायाम्
वेवानयोर्भेदहेतुः। सा च षोढा द्वन्द्वादिभेदेन। तत्र षट्समासीस- माससूक्तम्— “द्वन्द्वोऽस्मि द्विगुरस्मि च गृहे न मे सतत॒मव्ययीभावः। तत्पुरुष कर्म धारय येनाहं स्यां बहुव्रीहिः॥” [5] तद्धितवृत्तिः पुनरनन्ता। तद्धि शास्त्रप्रायोवादो यदुत तद्धितमूढाः पाणिनीयाः[इति]। माञ्जिष्ठं रौचनिकं सौरं सैन्धवं वैयासीयमिति तद्धितान्ताः। प्रातिपदिकविषया चेयम्। कृद्वृत्तिश्च धातुविषया। कर्ता हर्ता कुम्भकारो नगरकार इति कृदन्ताः। तिङ्वृत्तिर्दशधा दशलकारीभेदेन। द्विधा च सा धातुसौधातुविषयत्वेन। अपाक्षीत् [10] पचति पक्ष्यतीति धातवीयान्याख्यातानि। अपल्लवयत् पल्लवयति पल्लवयिष्यतीति सौधातवीयानि। तदिदमित्थङ्कारं पञ्चप्रकारमपि पदजातं मिथः समन्वीयमानमा- नन्त्याय कल्पते। तज्जन्मा चैष¹ विदुषां वादो यत्किल दिव्यं समा- सहस्रं बृहस्पतिर्वक्ता शतक्रतुरध्येता² तथापि नान्तः शब्दराशेरा- [15] सीत्[इति]। तत्र दयितसुब्वृत्तयो विदर्भाः। वल्लभसमासगतयो³ गौडाः। प्रियतद्धिता दाक्षिणात्याः। कृतप्रयोगरुचय उदीच्याः। अभीष्टतिङ्वृत्तयः सर्वेऽपि सन्तः। तेषां च विशेषलक्षणानुसन्धा- नेनावर्द्धताख्यातगणः। उक्तञ्च— “विशेषलक्षणविदां प्रयोगाः प्रतिभान्ति ये। [20] आख्यातराशिस्तैरेष प्रत्यहं ह्युपचीयते॥” पदानामभिधित्सितार्थग्रन्थनाकरः सन्दर्भो वाक्यम्। “तस्य च त्रिधाऽभिधाव्यापारः” इत्यौद्भटाः। वैभक्तः शाक्तः शक्तिविभक्ति- मयश्च। प्रतिपदं श्रूयमाणासूपपदविभक्तिषु कारकविभक्तिषु वा वैभक्तः। लुप्तास्वपि विभक्तिषु समाससामर्थ्यात्तदर्थावगतौ [25] शाक्तः। उभयात्मा च शक्तिविभक्तिमयः। तत्र वैभक्तः— “नमस्तस्मै वराहाय लीलयोद्धरते महीम्। खुरयोर्मध्यगो यस्य मेरुः खणखणायते॥”
१ A च. २ A adds च. ३ B वृत्तयो.
कविरहस्ये षष्ठोऽध्यायः । २३ शाक्तः—"विभ्रस्तशत्रुः स्पृहयालुलोकः प्रपन्नसामन्त उदग्रसत्त्वः । अस्ति क्षितीशस्तृणतोऽप्यपश्य- ।"वृत्ते- रेकमेवेदं वाक्यम्" इति यायावरीयः । १ B शक्तः. २ C हरिभीत्याश्रिताः शेष०. ३ C मेघसि.
कविरहस्ये षष्ठोऽध्यायः । २३ शाक्तः — "विभ्रस्तशत्रुः स्पृहयालुलोकः प्रपन्नसामन्त उदग्रसत्त्वः । अधिष्ठितौदार्यगुणोऽसिपत्र- जितावनिर्नास्ति नृपस्त्वदन्यः ॥ यथा वा — "कण्ठदोलायितोद्दामनीलेन्दीवरदामकाः । हेरम्भीत्याश्रिताशेषकालियाहिकुला इव ॥" शक्तिविभक्तिमयः — "अथागादेकदा स्पष्टचतुराशामुखद्युतिः । तं ब्रह्मेव शरत्कालः प्रोत्फुल्लकमलासनः ॥" तत्र वाक्यं दशधा। एकाख्यातम्, अनेकाख्यातम्, आवृत्ताख्या- तम्, एकाभिधेयाख्यातम्, परिणताख्यातम्, अनुवृत्ताख्यातम्, समुच्चिताख्यातम्, अध्याहृताख्यातम्, कृदभिहिताख्यातम्, अनपे- क्षिताख्यातमिति । तत्रैकाख्यातम् — "जयत्येकपदाक्रान्तसमस्तभुवनत्रयः । द्वितीयपदविन्यासव्याकुलाभिनयः शिवः ॥" अनेकाख्यातम् । तच्च द्विधा सान्तरं निरन्तरम् [इति]। तयोः प्रथमम् — "देवासुरास्तमथ मन्थगिरां विरामे पद्मासनं जय जयेति बभाषिरे च । द्राग्भेजिरे च परितो बहु मेनिरे च स्वाग्रेसरं विदधिरे च ववन्दिरे च ॥" द्वितीयम् — "त्वं पासि हंसि तनुषे मनुषे बिभर्षि विभ्राजसे सृजसि संहरसे विरौषि । आस्से निरस्यसि सरस्यसि रासि लासि सङ्क्रीडसे त्रुडसि मेध्यसि मोदसे च ॥" "आख्यातपरतन्त्रा वाक्यवृत्तिरतो यावदाख्यातमिह वाक्यानि" इत्याचार्याः । "एकाकारतया कारकग्रामस्यैकार्थतया च वचोवृत्ते- रेकमेवेदं वाक्यम्" इति यायावरीयः । १ B शक्तः. २ C हरिभीत्याश्रिताः शेष०. ३ C मेधसि.
२४ काव्यमीमांसायाम्
आवृत्ताख्यातम्—"जयत्यमलकौस्तुभस्तबकितांसपीठो हरि- र्जयन्ति च मृगेक्षणाश्चलदपाङ्गदृष्टिक्रमाः । ततो जयति मल्लिका तदनु सर्वसंवेदना- विनाशकरणक्षमो जयति पञ्चमस्य ध्वनिः ॥” एकाभिधेयाख्यातम्— "हृष्यति चूतेषु चिरं तुष्यति बकुलेषु मोदते मरुति । इह हि मधौ कलकूजिषु पिकेषु च प्रीयते रागी ॥” परिणताख्यातम्—"सोऽस्मिन्जयति जीवातुः पञ्चेषोः पञ्चमध्वनिः । ते च चैत्रे विचित्रैलाकक्कोलीकेलयोऽनिलाः ॥” अनुवृत्ताख्यातम्—"चरन्ति चतुरम्भोधिहेलोद्यानेषु दन्तिनः । चक्रवालाद्रिकुञ्जेषु कुन्दभासो गुणाश्च ते ॥” समुचिताख्यातम्—"परिग्रहभराक्रान्तं दौर्गत्यगतिचोदितम् । मनो गन्त्रीव कुपथे चीत्करोति च याति च ॥” यथा च—"स देवः सा दंष्ट्रा कृतकिटिविलासस्मितसिता द्वयं दिश्यात्तुभ्यं मुदमिदमुदारं जयति(तु) च । उद्वच्छद्भिर्भूयस्तरलनिवेशा वसुमती यदग्रे यच्छासैर्गिरिगुरुकलीलामुद्वहत् ॥” अध्याहृताख्यातम्—"दोर्दण्डताण्डवभ्रष्टमुडुषण्डं बिभर्ति यः । व्यस्तपुष्पाञ्जलिपदे चन्द्रचूडः श्रिये स वः॥” कृदभिहिताख्यातम्—"अभिमुखे मयि संहृतमीक्षितं हसितमन्यनिमित्तकथो(कृतो)दयम् । विनयबाधितवृत्तिरतस्तया न विवृतो मदनो न च संवृतः ॥” अनपेक्षिताख्यातम्—"कियन्मात्रं जलं विप्र ? जानुदघ्नं नराधिप । तथापीयमवस्था ते न सर्वत्र भवादृशाः ॥” गुणवदलङ्कृतञ्च वाक्यमेव काव्यम् । "असत्यार्थाभिधायित्वा- न्नोपदेष्टव्यं काव्यम्” इत्येके । यथा—
कवि रहस्ये षष्ठोऽध्यायः । २५ “स्तेमः स्तोकोऽपि नाङ्गे श्वसितमविकलं चक्षुषां सैव वृत्तिः मध्येक्षीराब्धि मग्नाः स्फुटमथ च वयं कोऽयमीदृक्प्रकारः । इत्थं दिग्भित्तिरोधक्षतविसरतया मांसलैस्त्वद्यशोभिः स्तोकावस्थानदुस्थैस्त्रिजगति धवले विस्मयन्ते मृगाक्ष्यः ॥” यथा च— “भ्रश्यद्भूभृद्भोगीश्वरफणपवनाध्मातपातालतालुः(मूलः) त्रुट्यन्नानागिरीन्द्रावलिशिखरखरास्फाललोलाम्बुराशिः । उद्यन्नीरन्ध्रधूलीविधुरसुरवधूमूच्यमानोपशल्यः¹ कल्पोद्योगस्य यस्य त्रिभुवनदमनैः² सैन्यसम्मर्द आसीत् ॥” आहुश्च—“दृष्टं किंचिददृष्टमन्यदपरं वाचालवार्त्तार्पितं भूयस्तुण्ड(ङ्ग)पुराणतः परिणतं किञ्चिच्च शास्त्रश्रुतम् । सूक्त्या वस्तु यदत्र चित्ररचनं तत्काव्यमव्याहतं रत्नस्येव न तस्य जन्म जलधेर्नो रोहणाद्वा गिरेः ॥” “न” इति यायावरीयः । “नासत्यं नाम किश्चन काव्ये यस्तु स्तुत्येष्वर्थवादः³ (?) । स न परं कविकर्मणि श्रुतौ च शास्त्रे च लोके च⁴ ॥” तत्र श्रौतः—“पुष्पिण्यौ⁵ चरतो जङ्घे भूष्णुरात्मा फलेग्रहिः । शेरेऽस्य सर्व्वे⁶ पाप्मानः श्रमेण प्रपथे हताः ॥” शास्त्रीयः—“आपः पवित्रं प्रथमं पृथिव्या- मपां पवित्रं परमं च मन्त्राः । तेषां च सामर्ग्यजुषां पवित्रं महर्षयो व्याकरणं निराहुः ॥” किञ्च—“यस्तु प्रयुङ्क्ते कुशलो विशेषे⁷ शब्दान्यथावद्व्यवहारकाले । सोऽनन्तमाप्नोति जयं परत्र वाग्योगविद्दुष्यति चापशब्दैः ॥
१ A explains as उपकण्ठः. २ A ०दसनः. ३ B स्तुत्यर्थवादः. ४ B श्रुतौ शास्त्रे लोके च. ५ A पुष्पिन्वौ. ६ B सर्व्वपाप्मानः. ७ B पैः. ४