भारतकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पञ्चदशः सर्गः ३४३

**हिन्दी—**शत्रु (अर्जुन) के दुस्तर महान् बाणरूप समुद्र में विद्यमान शिवजी-की सेना शिवजीको पार करनेवाले तटके समान पाकर आश्वस्त हुई ॥ ३२ ॥

स बभार रणापेतां चमू पश्चादवस्थिताम् ।
पुरःसूर्यादपावृत्तां छायामिव महातरुः ॥ ३३ ॥

**मल्लि०—**स इति । स शिवो रणापेतां=रणादपावृत्तां पराङ्मुखीभूतामत एव पश्चात् पृष्ठभागेऽवस्थितां चमू पुरोऽग्रे स्थितः सूर्यः पुरःसूर्यः । रणोपमानमेषः । तस्मात्, अपावृत्तां परावृत्तां छायां महातरुरिव बभार । छायां तरुरिवात्मकशरणं तां चमूं न मुमोचेत्यर्थः ॥ ३३ ॥

**हिन्दी—**शिवजीने युद्धसे विमुख अत एव पृष्ठ भागमें अवस्थित सेनाको आगे रहे हुए सूर्यसे हटी हुई छायाको जैसे महावृक्ष धारण करता है वैसे ही धारण कर लिया अर्थात् नही छोड़ा ॥ ३३ ॥

मुञ्चतीशे शराञ्जिष्णौ पिनाकस्वनपूरितः ।
दध्वान ध्वनयन्नाशाः स्फुटन्निव धराधरः ॥ ३४ ॥

**मल्लि०—**मुञ्चतीति । ईशे=हरे कर्तरि, जिष्णावर्जुने विषये शरान्मुञ्चति सति पिनाकस्य=शिवकार्मुकस्य स्वनेन=ध्वनिना पूरितो धराधर इन्द्रकीलः स्फुटन्निव = विदीर्यमाण इवेत्युत्प्रेक्षा । आशा दिशो ध्वनयन्=शब्दयुक्ताः कुर्वन्, दध्वान = शब्दमकरोत् । 'दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः' । इत्यमरः ॥ ३४ ॥

**हिन्दी—**शिवजीने अर्जुनके प्रति बाण छोड़नेपर शिवधनु पिनाकके शब्दके पूर्ण इन्द्रकील पर्वत मानों विदीर्ण होता हुआ दिशाओंको शब्दमय करता हुआ शब्द करने लगा ॥ ३४ ॥

तद्गणा ददृशुर्भीमं चित्रसंस्था इवाचलाः ।
विस्मयेन तयोर्युद्धं चित्रसंस्था इवाचलाः ॥ ३५ ॥
(द्विचतुर्थयमकम्)

**मल्लि०—**तदिति । भीमं तयोर्हरपाण्डवयोः । तत् प्रसिद्धं युद्धं गणाः प्रमथाश्चित्रसंस्थाश्चित्राकारा अचलाः शैला इव । तथा चित्रे आलेख्ये, संस्था = स्थितिर्येषां ते चित्रसंस्थाश्चित्रलिखिता इव, अचला आश्चर्यवशान्निश्चलाः सन्तो विस्मयेन ददृशुः ॥ ३५ ॥

**हिन्दी—**शिवजी और अर्जुनके उस युद्धको प्रमथलोग चित्राकार पर्वतोंके

३४४किरातार्जुनीयम्

समान और आश्चर्यसे चित्रलिखित पर्वतोंके समान निश्चल होते हुए आश्चर्यसे देखने लगे। यह पद्य द्वितीय और चतुर्थ चरणमें समान वर्णन्यास होनेसे द्विचतुर्यमक-का उदाहरण है ॥ ३५ ॥

परिमोहयमाणेन शिक्षालघवलीलया ।
जैष्णवी विशिखश्रेणी परिजह्रे पिनाकिना ॥ ३६ ॥

मल्लि०—परीति । शिक्षालघवलीलयाऽभ्यासपाटवातिशयेन हेतुना परिमोहयमाणेन व्यामोहयता । 'अणावकर्मकाच्चित्तवत्कर्तृकात्' इति परस्मैपदे प्राप्ते 'न पादम्या'त्यादिना तत्प्रतिषेधादात्मनेपदं शानच् । 'णेर्विभाषा' इति कृत्वस्य नस्य वा णत्वम् । पिनाकिना = हरेण जिष्णोरर्जुनस्येयं जैष्णवी विशिखश्रेणी बाणसंघातः परिजह्रे = निरस्ता ॥ ३६ ॥

**हिन्दी—**अधिक अभ्यासकी कुशलतासे परिमोहित करनेवाले शिवजीने अर्जुनके बाणसमूहको दूर कर डाला ॥ ३६ ॥

अवद्यन्पत्रिणः शंभोः सायकैरवसायकैः ।
पाण्डवः परिचक्राम शिक्षया रणशिक्षया ॥ ३७ ॥
( आद्यन्तयमकम् )

मल्लि०—अवद्यन्निति । पाण्डवोऽर्जुनः । अवसायकैरवसानकरैः । स्यतेर्ण्यन्तात् ण्वुल्प्रत्ययः । सायकैर्बाणैः शंभोः पत्रिणः = शरान् । अवद्यन् = खण्डयन् । द्यतेः शतृप्रत्ययः । 'ओतः श्यनि' इत्योकारलोपः । शिक्षया शक्तुं प्रभवितुमिच्छया । उत्साहेनेत्यर्थः । रणे शिक्षयाऽभ्यासेन च परिचक्राम । उत्साहेनेष्वभ्यासाच्चचारेत्यर्थः ॥ ३७ ॥

**हिन्दी—**अर्जुनने अन्त करनेवाले बाणोंसे शिवजीके बाणोंको खण्डित कर दिया, उत्साहसे और युद्धके अभ्याससे भी वे घूमने लगे ।

इस श्लोकमें चतुर्थ चरणमें 'शिक्षया रणशिक्षया' इस प्रकार आदि और अन्तमें 'शिक्षया' की आवृत्ति होनेसे आद्यन्तयमक अलंकार है ॥ ३७ ॥

चारुचुञ्चुशिरारत्नो चञ्चच्चीररुचा रुचः ।
चचार रुचिरश्चारु चारोराचारचञ्चुरः ॥ ३८ ॥
( द्वयक्षरः )

पञ्चदशः सर्गः [३४५]

मल्लि०—चारेति। चारं गतिविशेषं वेत्तीति चारचुञ्चुः। 'तेन वित्तश्चुञ्चु-
प्चणपौ' इति चुञ्चुप्प्रत्ययः। चिरमारेचयति = रिक्तीकरोति शत्रूनिति चिरारेची।
सञ्चतश्चलतश्चीरस्य = वल्कलस्य, रुचा = प्रभया। रोचत इति रुचः = शोभमानः।
'इगुपधे—'ति कः। रुचिरः = सुन्दरः। चञ्चूर्यते भृशं चरतीति चञ्चूरः।
चरतेर्यङन्तात्पचाद्यच्। 'वररुलोम्व' इति नुमागमः। 'यङोऽचि च' इति यङो
लुक्। आचारस्य = युद्धव्यवहारस्य, चञ्चूरो भृशमाचरितः स मुनिश्चारु यथा तथा
चारैश्चक्रादिद्वन्द्यंगतिविशेषैः। चचार। 'चारः प्रियाऽवृत्ते स्याद् गतौ बन्धापसर्पयोः'
इति विश्वः ॥ ३८ ॥

**हिन्दी—**गतिविशेषसे प्रसिद्ध, बहुत समय तक शत्रुओंको रिक्त करनेवाले,
हिलते हुए वल्कलकी कान्तिसे शोभित, युद्ध व्यवहारका अतिशय आचरण किये
हुए वे मुनि (अर्जुन) सुन्दर गतिभेदोंसे घूमने लगे।
इस श्लोकमें च और र इन दो अक्षरोंका अनुप्रास है ॥ ३८ ॥


स्फुरत्पिशङ्गमौर्वीकं धुनानः स बृहद्धनुः।
धुतोल्कानलयोगेन तुल्यमंशुमता बभौ ॥ ३९ ॥

मल्लि०—स्फुरदिति। स मुनिरर्जुनः स्फुरन्ती पिशङ्गी=पिशङ्गवर्णा मौर्वी =
ज्या यस्य तत्तथोक्तम्। 'नद्यृतश्च' इति कप्प्रत्ययः। बृहद्धनुर्गाण्डीवं, धुनानः =
कम्पयन्। उल्कैवानलस्तेन धुतो योगो येन तेन। अंशुमताऽर्केण सूर्येण तुल्यं बभौ।
उपमा ॥ ३९ ॥

**हिन्दी—**अर्जुन चमकती हुई पीली प्रत्यञ्चासे युक्त विशाल धनु (गाण्डीव)-
को कम्पित करते हुए उल्कारूप अग्निसे युक्त सूर्यके समान शोभित हुए ॥ ३९ ॥


पार्थबाणाः पशुपतेरावव्रुर्विशिखावलीम् ।
पयोमुच इवारन्धाः सावित्रीमंशुसंहतिम् ॥ ४० ॥

मल्लि०—पार्थेन। पार्थबाणा अर्जुनशराः पशुपतेर्विशिखावलीं=शरसंघातम् ।
सवितुरियं सावित्रीं ताम्। अंशुसंहति किरणसमूहम् । अरन्धा निबिडाः पयोमुचो
मेघा इव। आवव्रुस्तिरोदधुः ॥ ४० ॥

**हिन्दी—**अर्जुनके बाणने शिवजोको बाणपङ्क्तिको जैसे घने मेघ सूर्यकी
किरणपङ्क्तिका आच्छादित करते हैं उसी तरह आच्छादित कर दिया ॥ ४० ॥

१४६ | किरातार्जुनीयम्

शरवृष्टि विधूयोर्वीमुदस्तां सव्यसाचिना ।
रुरोध मार्गणैर्मार्गं तपनस्य त्रिलोचनः ॥ ४१ ॥

मल्लि०-- शरेति । त्रिलोचनः=शिवः । सव्येन सचते = समवैतीति तेन सव्यसाचिनाऽर्जुनेन । उदस्तां क्षिप्तामुर्वीं महतीं शरवृष्टिं मार्गणैः शरैर्विधूय = निरस्य तपनस्य रवेर्मार्गं रुरोधावव्रे ॥ ४१ ॥

हिन्दी— शिवजीने अर्जुनसे छोड़ी गई घनी बाणवृष्टिको अपने बाणोंसे हटाकर सूर्यके मार्गको अवरुद्ध कर डाला ॥ ४१ ॥


तेन व्यातेनिरे भीमा भीमार्जनफलाननाः ।
न नानुकम्प्य विशिखाः शिखाधरजवाससः ॥ ४२ ॥
( शृङ्खलायमकम् )

मल्लि०-- तेनेति । तेन = शिवेन भीमा भयंकरास्तथा भियो भयस्य मार्जनं निरासस्तदेव फलं प्रयोजनं येषां तान्याननान्यग्राणि येषां ते भीमार्जनफलाननाः । तथा शिखाधरा मयूरास्तेषु जातानि शिखाधरजानि = बर्हाणि तानि वासांसीव पक्षाः येषां ते शिखाधरजानि मयूरपक्षिण इत्यर्थः । विशिखा बाणा अनुकम्प्य=कृपां कृत्वा न व्यातेनिर इति न । किन्त्वनुकम्प्यैवेत्यर्थः । अनुजिघृक्षुत्वादिति भावः । संभाव्यनिषेधने द्वौ प्रतिषेधावित्युक्तम् ॥ ४२ ॥

हिन्दी— शिवजीने भयङ्कर भयनिवारणरूप प्रयोजनरूप अग्रभाग ( नोक )-वाले तथा मयूरके पंखरूप जिनके वस्त्र थे ऐसे बाणोंको दयासे नहीं छोड़ा था यह नहीं, किन्तु दयासे छोड़ा था ।

इस श्लोकमें प्रथम चरणके अन्तमें और द्वितीय चरणके आरम्भमें भीमाः इन दो वर्णोंकी और तृतीय चरणके अन्त्यमें 'शिखा( : )' और चतुर्थ चरणके आरम्भमें 'शिखा—' इन दो वर्णोंकी आवृत्तिसे 'शृङ्खलायमक' नामक अलंकार है ॥ ४२ ॥


द्युवियद्गामिनी तारसंरावविहतश्रुतिः ।
हैमीषुमाला शुशुभे विद्युतामिव संहतिः ॥ ४३ ॥
( गूढचतुर्थपादः )

मल्लि०-- द्युवियदिति । द्यां = स्वर्गं वियदन्तरिक्षं च गामिनी व्यापिनी

पञ्चदशः सर्गः ३४७

द्युवियद्गामिनी । द्वितीयाप्रकरणे श्रितादिषु गम्यादीनामुपसंख्यानात्समासः । तारेणोच्चैस्तरेण संरावेण = नादेन विहता विद्धाः श्रुतयः कर्णा यया सा तथोक्ता । हैमी हेममयी इषुमाला शिवशरावलिर्विद्युतां संहतिरिर्वोक्तविशेषणा । विद्युन्मालेव । शुशुभे चतुर्थपादवर्णानां त्रिपाद्यां संभवाद् गूढचतुर्थपादमाहुः ॥ ४३ ॥

हिन्दी—स्वर्ग और आकाशको व्याप्त करनेवाली और ऊँची आवाजसे कानोंको विद्ध करनेवाली ( फाड़नेवाली शिवजीकी सुनहली बाणपङ्क्ति बिजलीके श्रेणीकी तरह शोभित हो गई ।

इस पद्यके चतुर्थ चरणके वर्णोंका पहलेके तीन चरणोंमें सम्भव होनेसे 'गूढचतुर्थपाद' कहते हैं ॥ ४३ ॥

विलङ्घ्य पत्रिणां पङ्क्ति भिन्नः शिवशिलीमुखैः ।
ज्यायो वीर्यमुपाश्रित्य न चकम्पे कपिध्वजः ॥ ४४ ॥

मल्लि०विलङ्घ्येति । शिवशिलीमुखैः पत्रिणां पङ्क्तिं निजशरावलिं विलङ्घ्यातिक्रम्य भिन्नो विद्धः कपिध्वजोऽर्जुनो ज्यायः = प्रशस्तम् । 'वृद्धप्रशस्ययोर्ज्यायान्' । इत्यमरः । वीर्यं सत्त्वम् । उपाश्रित्यावस्थाय, न चकम्पे = न चचाल । किन्तु तान्सहन्नवतस्थवित्यर्थः ॥ ४४ ॥

हिन्दी—शिवजीके बाणोंसे अपने बाणोंकी पङ्क्ति को काटकर विद्ध होकर अर्जुन उत्तम बलका अवलम्बन करके युद्धस्थलसे विचलित नहीं हुए ॥ ४४ ॥

जगतोशरणे युक्तो हरिकान्तः सुधासितः ।
दानवर्षी कृतार्थंसो नागराज इवाबभौ ॥ ४५ ॥
( अर्थत्रयवाची )

मल्लि०जगतीति । अर्थत्रयवाची श्लोकोऽयम् । तत्रादौ 'अगराज' इति पदच्छेदमाश्रित्य प्रथमोऽर्थोऽभिधीयते—( १ ) ईशस्य रणे युक्तः शक्तः । अन्यत्र, जगतोशरणे = भूरक्षणे, युक्तः = स्थितः । विधिनेति शेषः । हरिः = सिंह इव कान्तो मनोहरः । अन्यत्र, हरीणा = सिंहानां कान्त आवासदानात्प्रियः । सुष्ठु दधाति = पालयति प्रजा इति सुधाः । क्विबन्तः । असितः कृष्णवर्णः । ततो विशेषणसमासः । अन्यत्र—सुधालेपद्रव्यविशेषस्तद्वत् सितो = धवलः । दानवर्षी = बहुप्रदः, कृतार्थंसः = कृतजयाभिलाषः । अन्यत्र, दानवैर्दैत्यैर्ऋषिभिः इना कामेन न च कृतार्शसा = नानाफलाभिलाषी यस्मिन्स ना = नरोऽर्जुनः । अगराजो हिमवानिव अगस्त्यावभावित्ये-

३४८ | किरातार्जुनीयम्

-कोऽर्थः ॥ ( २ ) अथ ऐरावतसाम्यमुच्यते—जगतीं=भुवं, श्यन्ति=तनुकुर्वन्तीति ते जगतीशा राक्षसास्तेषां रणस्तत्र युक्तो विहितसमर्थः । हरिकान्त इन्द्रप्रियः । उभयत्रापि समानमेतत् । सुधासितोऽमृतः स्वच्छः । एकत्र—शीलतः, अन्यत्र—वर्णत इति विवेकः । दानवर्षी = धनप्रदो मदस्रावी च । कृताशंस उभयत्र कृतजिगीषः । पार्थो नागराज इव=ऐरावत इव । आवभाविति द्वितीयोऽर्थः । ( ३ ) अथ शेषौपम्यमुच्यते—जगतोशरणे=भूरक्षणे युक्तो नियुक्तः । दैवेनेति शेषः । 'शरणं गृहरक्षित्रोः' इत्यमरः । हरिकान्तः = कृष्णप्रियः । उभयत्रापि तुल्यम् । सुष्ठु दधातीति सुधा । वसुधेति केचित् । एकदेशग्रहणात् समुदायग्रहणम् । तत्र सितो बद्धः । 'षिञ् बन्धने' क्तः । वन्यत्र—सुधयाऽमृतेन सितो बद्धः । अमृतप्रिय इत्यर्थः । दानवाश्च क्ष्म्यश्च ( ईर्लक्ष्मीश्च ताभिः ) कृताशंसो = विहितशंसः । उभयत्रापि तुल्यमेतत् । सोऽर्जुनो नागराजः=शेष इवावभाविति तृतीयोऽर्थः ॥ ४५ ॥

हिन्दी--इस श्लोकमें अर्जुन की पर्वतमें, ऐरावत हाथी में और शेषनागमें समानता दिखलाई गई है । पहले पर्वत पक्षमें—

( १ )—जगति = लोकमें, ईशरणे = शिवजीके युद्धमें, युक्तः = समर्थ, हरिकान्तः=हरि ( सिंह ) के समान कान्त ( सुन्दर ), सुधासितः = सुधाः ( प्रजाओंके पालक ) असित ( कृष्ण वर्ण ), दानवर्षी = दानकी वृष्टि करनेवाले, कृताशंसः = जयकी आशंका ( संभावना ) किये हुए अर्जुन, जगतोशरणे = जगती ( पृथ्वी ) की रक्षामें युक्तः = ब्रह्माजीसे नियुक्त, हरिकान्तः = हरि ( सिंह ) को आश्रय देनेसे, कान्तः ( प्रिय ) सुधासितः=सुधा ( चूने ) के समान सित ( शुक्लवर्ण ) । दानवर्षी=अनेक प्रकारके रत्नोंके दानकी वृष्टि करनेवाला, ऐसा अगराजः=अगों ( पर्वतों ) के राजा हिमालयके समान । आवभौ=शोभित हुए ।

( २ )—नागराज ऐरावत हाथीके पक्षमें योजना—
जगतींशरणे=जगती=पृथ्वीको जो श्यन्ति = क्षीण करते हैं ऐसे राक्षसोंके रण- ( युद्ध ) में युक्त=समर्थ । हरिकान्तः = हरि ( इन्द्र ) का कान्त=प्रिय, सुधासितः = सुधा ( अमृत ) के समान सितः = स्वच्छ । दानवर्षी=दान ( मदजल ) की वृष्टि करनेवाला, कृताशंसः = जयकी संभावनावाला ऐसे ऐरावतके समान अर्जुन शोभित हुए । अबभौ = शोभित हुए ।

( ३ )—शेषनागके पक्षमें योजना—
जगतींशरणे=जगती ( पृथ्वी ) के शरणे ( रक्षामें ) अर्थात् धारण करनेमें युक्तः=

पञ्चदशः सर्गः ३४९

ब्रह्माजीसे नियुक्त, हरिकान्तः = हरि ( भगवान् विष्णु ) के कान्तः = शयनका आधार होनेसे प्रिय। सुधासितः = सुधा ( अमृत ) के पान करानेमें, सितः = बद्ध अर्थात् आसक्त। दानवर्षा कृताशंसः = दानव, ऋषि और ( ई ) लक्ष्मीसे आशंसा ( प्रशंसा ) किये गये, ऐसे नागराज = नागोंके राजा शेषके समान, आवभौ=अर्जुन शोभित हुए। इस पद्यमें श्लेष और उपमाका सङ्कर अलङ्कार है ॥ ४५ ॥

विफलीकृतयत्नस्य क्षतबाणस्य शंभुना।
गाण्डीवधन्वनः खेभ्यो निश्चक्राम हुताशनः ॥ ४६ ॥

मल्लि०--विफलीति। शंभुना क्षतबाणस्य अत एव विफलीकृतयत्नस्य निष्फलप्रयत्नस्य, गाण्डीवं धनुर्यस्य तस्य गाण्डीवधन्वनोऽर्जुनस्य। 'वा संज्ञायाम्' इत्यनङादेशः। खेभ्य इन्द्रियरन्ध्रेभ्यः। 'खमिन्द्रिये सुखे स्वर्गे' इति विश्वः। हुताशनोऽग्निः। निश्चक्राम = निष्क्रान्तः। क्रोधादिति भावः ॥ ४६ ॥

**हिन्दी--**शिवजीसे क्षीण बाणोंवाले, निष्फल यत्नवाले, अर्जुनके इन्द्रियोंके छिद्रोंसे क्रोधके कारण आग निकल पड़ी ॥ ४६ ॥

स पिशङ्गजटावलिः किरन्नुरु तेजः परमेण मन्युना।
ज्वलितोषधिजातवेदसा हिमशैलेन समं विदिद्युते ॥ ४७ ॥

मल्लि०--स इति। पिशङ्गजटावलिः पिशङ्गजटाजूटः परमेणोत्कृष्टेन मन्युना क्रोधेन। उरु = महत्तेजः किरन् = विक्षिपन् सोऽर्जुनो ज्वलिता ओषधयस्तृणज्योतींषि जातवेदा दवाग्निश्च यस्मिंस्तेन हिमशैलेन समं=तुल्यं हिमाद्रिरिव विदिद्युते हिमाद्रिवच्छुशुभे इति बिम्बप्रतिबिम्बभावोपमा ॥ ४७ ॥

**हिन्दी--**पीली जटापङ्क्ति वाले बढ़े हुए क्रोधसे अधिक तेजको विकीर्ण करते हुए अर्जुन जलती हुई तृणज्योति और दवाग्निवाले हिमालयकी तरह शोभित हुए ॥ ४७ ॥

शतशो विशिखानवद्यते भृशमस्मै रणवेगशालिने।
प्रथयन्ननिवार्यवीर्यतां प्रजिघायेसुमघातुकं शिवः ॥ ४८ ॥

मल्लि०--शतश इति। शिवः शतशो विशिखानवद्यते खण्डयते रणवेगशालिने रणसंरम्भशोभिनेऽस्मै पार्थाय भृशमत्यर्थम्। अनिवार्यवीर्यताम्। विद्धामिति शेषः। तस्मै प्रथयन् दर्शयन्। किं तु अघातुकममारकम्। 'लष पते'--त्यादिना

३१०किरातार्जुनीयम्

हन्तेरक्वन् । इषुम् । जातावेकवचनम् । प्रजिघाय=प्रयुयुजे । 'हि गतौ' इति धातो- लिट् । 'हेरचङि' इति कुत्वम् ॥ ४८ ॥

हिन्दी--शिवजीने सैकड़ों बाणोंको खण्डित करते हुए, युद्ध-वेगसे शोभित होनेवाले अर्जुनको अपने अनिवार्य पराक्रमको दिखलाते हुए हत्या न करनेवाले बाणोंसे प्रहार किया ॥ ४८ ॥


शम्भोधनुर्मण्डलतः प्रवृत्तं तं मण्डलादंशुमिवांशुभर्तुः ।
निवारयिष्यन्विदधे सिताश्वः शिलीमुखच्छायवृतां धरित्रीम् ॥ ४९ ॥

मल्लि० - शम्भोरिति । सिताश्वोऽर्जुनः शम्भोधनुर्मण्डलतो धनुर्वलयात् प्रवृत्तं निष्क्रान्तं तमिषुम् । अंशुभर्तुरर्कस्य मण्डलात् प्रवृत्तं अंशुमिव । अत्रापीषुषुज्जातावेक- वचनम् । निवारयिष्यन्=निवारयितुकामः । क्रियार्थक्रियायाम् लुटि तस्य शत्रादेशः । धरित्रीं = भुवं, शिलीमुखानां छाया शिलीमुखच्छायम् । 'छादा बाहुल्ये' इति नपुंसकत्वम् । तेन वृतां = व्याप्तां विदधे = कृतवान् । शरजालच्छायावृतां धरित्रीं मकरोदित्यर्थः । उपमालंकारः ॥ ४९ ॥

हिन्दी--अर्जुनने सूर्यमण्डलसे निकले हुए किरणके समान शिवजीके धनु- (पिनाक) से निकले हुए बाणको निवारण करनेकी इच्छा कर पृथिवीको बाणोंकी छायासे व्याप्त कर डाला ॥ ४९ ॥


घनं विदार्यार्जुनबाणपूगं ससारबाणोऽयुगलोचनस्य ।
घनं विदार्यार्जुनबाणपूगं ससारबाणोऽयुगलोचनस्य ॥ ५० ॥

मल्लि०--घनमिरिति । अयुगलोचनस्य=विषमनेत्रस्यालोचनस्य । लोच्यतेऽसौ लोचनः । कर्मणि ल्युट् । न लोचनोऽलोचनस्तस्य अलोचनस्याचाक्षुषज्ञानविषयस्य संबंधी सारो बलं बाणः शब्दताभ्यां सारबाणाभ्यां सह वर्तत इति ससारबाणः । बवयोरभेद इत्युक्तम् । न युज्यते कुत्रापोत्यपीत्ययुक्=सङ्गरहितः । क्विप् । बाणः= शरः । जातावेकवचनम् । घनं सान्द्रम् अर्जुनस्य बाणपूगं=शरव्रातं, विदार्य=विभिद्य घनं = निबिडं विदार्या भूमिकूष्माण्डयो लताविशेषा अर्जुनाः = ककुभवृक्षा बाणा नीलसैरेयकाः पूगाः क्रमुकास्तेषाम् । 'विभाषा वृक्षे—'त्यादिना द्वन्द्वैकवद्भावः । विदार्यार्जुनबाणपूगं ससार । विवेशेत्यर्थः । 'सृ गतौ' । यद्वा,—तदानीमेव युगलो- चनस्यार्जुनस्य ससारेत्यर्थः ॥ ५० ॥

पञ्चदशः सर्गः ३११

हिन्दी--अयुग्मलोचन (विषम नेत्र) अर्थात् शिवजीका अलोचनस्य = लोचन (नेत्र) उनसे रहित अर्थात् नेत्रमे अलक्ष्य ज्ञानसे रहित सार (बल) और वाण (शब्द) से युक्त और मल्लसे रहित बाणने गाढ़ रूपसे अर्जुनके बाणसमूहको विदारण कर गाढ रूपमे भूमिकूष्माण्डी [लताविशेष] अर्जुनवृक्ष, वाणवृक्ष और मुचरीक पेड़ोंका विदारण कर अर्जुनके बाणसमूहके भीतर प्रवेश किया।
इस पद्यमें पूर्वार्द्ध और उत्तरार्द्धके वर्ण तुल्यरूप हैं ॥ ५० ॥

रुजन्महैषूनबहुधाशुपातिनो मुहुः शरौघैरपवारयन्दिशः ।
चलाचलोऽनेक इव क्रियावशान्महर्षिसंघैर्बुबुधे धनञ्जयः ॥ ५१ ॥

मल्लि०—रुजन्नित्यादि। बहुधाशुपातिनः शीघ्रमापततो महेषून् मुहुः शरौघै रुजन् = भञ्जयन्। तथा दिशश्चापवारयन्नाच्छादयन्। क्रियावशाद् युद्धकर्मान्नततया। चलाचलोऽतिचञ्चलो धनञ्जयोऽर्जुनो महर्षिसङ्घैरनेको बहुविध इव बुबुधे = ददृशे ॥ ५१ ॥

हिन्दी--अनेक प्रकारसे शीघ्र आ पड़नेवाले विशाल बाणोंको बारंबार अपने बाणसमूहोंसे काटते हुए और दिशाओंको आच्छादित करते हुए युद्धकर्ममें लगे रहनेसे अति चञ्चल अकेले अर्जुनको महर्षिसमूहने अनेक अर्जुनके समान देखा ॥ ५१ ॥

विकाशमोयुर्जगतोशमार्गणा विकाशमोयुर्जगतोशमार्गणाः ।
विकाशमोयुर्जगतोशमार्गणा विकाशमोयुर्जगतोशमार्गणाः ॥ ५२ ॥
(महायमकम् ।)

मल्लि०—विकाशमिति । जगतीशस्य पृथिवीपतेरर्जुनस्य मार्गणा बाणा विकाशं=प्रसारम् ईयुः । तथा, जगन्ति लोके ईशमार्गणाः=शंभुशरा विकाशं विषमगतिम् । ईयुः भङ्गमयुरित्यर्थः । तथा जगतों श्यन्ति = तनुकुर्वन्तीति जगतोशा दानवाः । ‘आतोनुपसर्गे कः’ । तन्मारयन्तीति जगतोशमाराः । म्रियतेण्यन्तात्क्विप् । ते च ते गणाः = प्रमथाः जगतोशमार्गणा विकाशमुल्लासं हर्षम् । ईयुः । प्रापुरित्यर्थः । अहो देवेऽप्यस्य पराक्रमप्रसर इति विस्मयादिति भावः । तदानीं मार्गयन्तीति मार्गणा अन्वेषकाः । कर्तरि ल्युट् । जगतीशस्य त्रैलोक्यनाथस्य मार्गणा अन्वेषकाः शिवद्रष्टारो देवर्ष्यादयो वोनां = पक्षिणां काशो गतिरत्रेति विकाशमाकाशम् । ईयुः । दिदृक्षयेति भावः ॥ ५२ ॥

३५२ | किरातार्जुनीयम्

**हिन्दी—**जगतीश [पृथिवीके स्वामी अर्जुन] के मार्गणाः = बाण, चारों ओर फैल गये, तथा जगति=लोकमे, ईशमार्गणाः शिवजीके बाण विकासम्= विषम गतिको ईयुः = प्राप्त हुए, अर्जुन खण्डित हुए । इसी प्रकार जगतीम् = पृथ्वोको श्यन्ति = तनूकुर्वन्ति इति जगतीशाः = अर्थात् पृथ्वोको क्षीण करनेवाले असुर, जगतीशान् = अर्थात् असुरोंको, मारयन्तीति जगतीशमारः = असुरोंको मारने वाले, ते च ते गणाः असुरोंको मारनेवाले गण, विकासम्=हर्षम् हर्षको ईयुः = प्राप्त हुए । एवम्जगतीशमार्गणाः = जगतीशस्य = शिवस्य मार्गणाः = अन्वेषकाः, अर्थात् शिवजीका अन्वेषण करनेवाले अर्थात् देवता ओर ऋषि आदि। विकाशं = वीनाम् [ पक्षिणाम् ] काशः [ गतिः ] अस्मिन् इति विकाशम् अर्थात् जहाँ पक्षियोंकी गति है अर्थात् आकाशको ईयुः = प्राप्त हुए, शिवजीको देखनेके लिए आकाशमें प्राप्त हुए ॥

**भावार्थ—**अर्जुनके बाण चारों ओर फैल गये, लोकमें शिवजीके बाण विषम गतिको प्राप्त हुए । अर्जुनके बाण खण्डित हुए । असुरोंको मारनेवाले प्रमथगण आश्चर्यको प्राप्त हुए । शिवजीका अन्वेषण करनेवाले देवता और ऋषियोंके समूह आकाशमें प्राप्त हुए ।

इस पद्यमें चारों चरणोंकी पदावली समान रूपमें रहनेसे महायमक नामक अलङ्कार है ॥ ५२ ॥

संपश्यतामिति शिवेन वितायमानं लक्ष्मीवतः क्षितिपतेस्तनयस्य वीर्यम् । अङ्गान्यभिन्नमपि तत्त्वविदां मुनीनां रोमाञ्चमञ्चिततरं बिभ्रांबभूवुः ॥ ५३ ॥

इति भारविकृतौ किरातार्जुनीये महाकाव्ये पञ्चदशः सर्गः ।

**मल्लि०—**संपश्यतामिति । इति=इत्थं शिवेन वितायमानं = विस्तार्यमाणम् । 'तनोतेर्यकि' इति वैकल्पिक आकारादेशः । लक्ष्मीवतो जयश्रीमन्तः । 'मादुपधाया-' इत्यादिना मतुपो मस्य वकारः । क्षितिपतेस्तनयस्यार्जुनस्य वीर्यं शौर्यं संपश्यतां तत्त्वविदामपि हरेरंशावतारोऽयमिति विदुषामपि । किमुतान्येवामिति भावः । मुनीनामङ्गानि गात्राणि । अभिन्नमविरलम् । अञ्चिततरमतिरुचिरतरं रोमाञ्चं

षोडशः सर्गः ३१३

रोमहर्षं बिभ्रांबभूवुर्बुधः । 'ओहा—'त्यादिना विकल्पादाम्प्रत्ययः ॥ ५३ ॥
इति महाकविभारविकृतौ महाकाव्ये किरातार्जुनीये पञ्चदशः सर्गः ।

**हिन्दी—**इस प्रकार शिवजीसे विस्तीर्ण किये जाते हुए राजकुमार अर्जुनके पराक्रमको देखते हुए तत्त्ववेत्ता मुनियोंके भी शरीर लगातार अति रमणीय रोमाञ्चको धारण करने लगे अर्थात् तत्त्ववेत्ता मुनिलोग भी रोमाञ्चित हो गये ॥ ५३ ॥
किरातार्जुनीय महाकाव्यका पन्द्रहवां सर्ग समाप्त हुआ ।


षोडशः सर्गः

ततः किराताधिपतेरलघ्वीमाजिक्रियां वीक्ष्य विवृद्धमन्युः ।
स तर्कयामास विविक्ततर्कश्चिरं विचिन्वन्निति कारणानि ॥ १ ॥

**मल्लि०—**तत इति । ततोऽनन्तरं किराताधिपतेः संबन्धिनीम् । अलघ्वीम् आजिगुर्वीम् क्रियां रणकर्म वीक्ष्य विवृद्धमन्युर्विवृद्धक्रोधो विविक्तो निष्कलङ्कस्तर्क ऊहो ज्ञानं वा यस्य सोऽर्जुनः कारणानि रणभराशक्तिकारणानि विचिन्वन् विमृशन् । इति इत्थं वक्ष्यमाणप्रकारेण तर्कयामासाम्यूहितवान् ॥ १ ॥

**हिन्दी—**तब अर्जुन किरातराजका गौरवपूर्ण युद्ध कर्म देखकर बढ़े हुए क्रोधसे युक्त और निष्कलङ्क ज्ञानवाला होकर उनसे साथ अपने असामर्थ्यके कारणोंका विचार करते हुए इस प्रकार तर्कना करने लगे ॥ १ ॥

अथ त्रयोविंशतिश्लोकैर्वितर्कमेवाह—
मदस्रुतिश्यामितगण्डलेखाः क्रामन्ति विक्रान्तनराविरूढाः ।
सहिष्णवो नेह युधामभिज्ञा नागा नगोच्छ्रायमिवाक्षिपन्तः ॥ २ ॥

**मल्लि०—**मदेत्यादि । इहास्मिन्युद्धे मदस्रुतिभिर्मदप्रवाहैः श्यामाः कृता इति श्यामिताः गण्डलेखाः कपोलभागा येषां ते विक्रान्ताः पराक्रमं कुर्वन्तः । कर्तरि क्तः । 'शूरो वीरश्च विक्रान्तः' इत्यमरः । तैनरैरधिरूढाः सहिष्णवो रणभरक्षमा
२३ कि०

३५४ | किरातार्जुनीयम्

युधां युद्धानामभिज्ञाः । शिक्षिता इत्यर्थः । कृद्योगारकर्मणि षष्ठी । किंच, नभस्त-
च्छ्रायं पर्वतानामोन्नत्यम् । घञन्तेनोपसर्गस्य समासो नोपपदाद् घञ्प्रत्ययः । 'द्विषस्तथा
भुवोऽनुपसर्गे' इत्यत्रानुपसर्गे इति निषेधात् । आक्षिपन्तः प्रतिषेधयन्त इव स्थिताः
तथोन्नता इत्यर्थः । नागा गजा इह संग्रामे न क्रामन्ति न चरन्ति । यदा युद्धानभि-
ज्ञ्विति शेषः । एवमुत्तरत्रापि सर्वत्र द्रष्टव्यम् । तथापि कथं मे शक्तिह्रासोऽग्रेऽपि
सर्वत्र तात्पर्यार्थः ॥ २ ॥

हिन्दी—इस युद्ध में मदोंके प्रवाहसे काले किये गये कपोलभागोंसे युक्त वीर पुरुषोंसे अधिरूढ़, युद्धभार धारण करनेमें सहिष्णु, युद्ध करनेमें शिक्षित पर्वतकी ऊँचाईको भी आक्षेप करते हुए, अर्थात् पर्वतके समान ऊँचे हाथी भी नहीं विचरण करते हैं ॥ २ ॥

विचित्रया चित्रयतेव भिन्नां रुचं रवेः केतनरत्नभासा ।
महारथौघेन न संनिरुद्धा पयोदमन्द्रध्वनिना धरित्री ॥ ३ ॥

मल्लि०विचित्रयेति । विचित्रया नानावर्णया केतनानां रत्नानि तेषां भासा प्रभया भिन्नां संवलितां रवे रुचं कान्तिं चित्रयता विचित्रवर्णां कुर्वता इव स्थितेनेति केतनोन्नत्यनिमित्तेयमुत्प्रेक्षा । पयोदमन्द्रध्वनिना मेघगम्भीरघोषेण महतां रथानामोघेन समूहेन धरित्री न संनिरुद्धा नावृता ॥ ३ ॥

हिन्दी—अनेक वर्णोंवाली पताकाओंकी कान्तिसे मिश्रित, सूर्यकी कान्तिको विचित्र वर्णोंवाली करते हुएके समान स्थित मेघके समान गम्भीर शब्द करनेवाले विशाल रथोंके समूहसे पृथिवी भी आच्छादित नही है ॥ ३ ॥

समुल्लसत्प्रासमहोर्मिमालं परिस्फुरच्चामरफेनपङ्क्ति ।
विभिन्नमर्यादमिहातनोति नाश्वीयमाशा जलधेरिवाम्भः ॥ ४ ॥

मल्लि०समुल्लसदिति । इह = युद्धे प्रासाः = कुन्ताः । 'प्रासस्तु कुन्त-' इत्यमरः । ते महोर्मय इव तेषां मालाः समुल्लसन्त्यो यत्र तत् समुल्लसत्प्रासमहोर्मिमालम् । चामराणि फेना इव चामरफेनास्तेषां पङ्क्तयः परिस्फुरन्त्यश्चामरफेनपङ्क्तयो यत्र तत्तथोक्तम् । अश्वीयमश्वसमूहः । 'बृन्दे त्वश्वीयमाश्ववत्' इत्यमरः । जलधेरम्भ इव विभिन्नमर्यादमुन्मर्यादमुच्छृङ्खलं यथा तथा, आशा दिशो नातनोति = नावृणोति ॥ ४ ॥

षोडशः सर्गः ३५५

षोडशः सर्गः ३५५

हिन्दी—इस युद्धमें बड़ी तरङ्गोंके समान चमकती हुई मालोंकी पङ्क्तिवाले फेनोंके समान चामरोंकी पङ्क्तिवाले, घोड़ोंके समूह जलके समान मर्यादाका उल्लङ्घन नहीं करते हैं ॥ ४ ॥

हताहतेत्युद्भटभीष्मघोषैः ममुज्झिता योद्धृभिरभ्यमित्रम् ।
न हेतयः प्राप्ततडित्विषः खे विवस्वदंशुज्वलिताः पतन्ति ॥ ५ ॥

मल्लि०—हतेति । हत = प्रहर । आहत = विध्यत । हन्तेर्लोट् । मध्यमपुरुषबहुवचनम् । 'अनुदात्तोपदेशे-'त्यादिनाऽनुनासिकलोपः । आह्तेत्यत्र कर्मणः प्रयोगासंभवेऽपि हन्तेः स्वाभाविकमकर्मकत्वस्यानपायात् । अकर्मकत्वस्य चात्राविवक्षितत्वेन कर्मनिवृत्त्यैव तन्निवृत्तेः 'आङो यमहन्ः' इति नात्मनेपदम् । इत्येवमुद्धताः = प्रगल्भा भीष्माश्च घोषा येषां तैः । योद्धृभिर्योधैः । अभ्यमित्रम् = मित्रानभि ममुज्झिता मुक्ता विवस्वतोऽंशुभिः । प्रतिफलितैरिति भावः । ज्वलिता = दीपिताः अत एव प्राप्तस्तडितां त्विष इव त्विषो याभिस्ता हेतयः शस्त्राणि । खे न पतन्ति । समुल्लसन्तो न दृश्यन्त इत्यर्थः । 'हेतिः स्यादायुधे' इति विश्वः ॥ ५ ॥

हिन्दी—इस युद्धमें 'मारो, बेध करो', इस प्रकार उद्धत और भयङ्कर शब्द करनेवाले योद्धाओंसे शत्रुओं पर छोड़े गये प्रतिबिम्बित सूर्यकिरणोंसे प्रदीपित, बिजलीकी समान कान्तिको प्राप्त करने वाले शस्त्र भी आकाशमें नहीं गिर रहे हैं ॥ ५ ॥

अभ्यायतं संततधूमधूम्रं व्यापि प्रभाजालमिवान्तकस्य ।
रजः प्रतूर्णैरवशाङ्गनुन्नं तनोति न व्योमनि मातरिश्वा ॥ ६ ॥

मल्लि०—अमीति । अभ्यायतो वीरान्हन्तुमभ्यागच्छतः । इणः शतृप्रत्ययः । अन्तकस्य ० कालस्य संबन्धि संततं = सततं धूमवद्धूम्रं व्यापि व्यापकं प्रभाजाल मिव स्थितं प्रतूर्णैः = वेगवद्भिरश्वै रथाङ्गैः = रथचक्रैश्च नुन्नं = प्रेरितं रजो मात- रिखा मरुत् । व्योमन्यन्तरिक्षे न तनोति = न विस्तारयति ॥ ६ ॥

हिन्दी—इस युद्धमें वीरोंको मारनेके लिए सम्मुख आते हुए यमराजके निरन्तर धूमके समान धूम्रवर्णवाली व्यापक, कान्तिसमूहके समान स्थित, वेगवाले घोड़ों और रथोंके पहियोंसे प्रेरित धूलको हवा भी आकाशमें नहीं फैला रही है ॥ ६ ॥

३५६किरातार्जुनीयम्

भूरेणुना रासभधूसरेण तिरोहिते वर्त्मनि लोचनानाम्।
नास्त्यत्र तेजस्विभिरुत्सुकानामह्नि प्रदोषः सुरसुन्दरीणाम् ॥ ७ ॥

मल्लि०— भूरेणुनेति । अत्राऽऽहवे रासभो गर्दभस्तद्वद्धूसरेणेषद्वपाण्डुना। 'रासभो गर्दभः खरः' इत्यमरः । 'ईषत्पाण्डुस्तु धूसरः' इति च । भूरेणुना = रजसा लोचनानां वर्त्मनि = चक्षुर्मार्गे तिरोहिते सति तेजस्विभिस्तेजस्विषु वीरेषु । उत्सुकानाम् । वीरवरणाद्यमागतानामित्यर्थः । 'प्रसितोत्सुकाभ्यां तृतीया च' इति विकल्पात्तृतीया । सुरसुन्दरीणामह्नि दिवस एव प्रदोषो रात्रिमुखं नास्ति । अन्धकारवत्त्वात् दृष्टेस्तिरोधानाद्रात्रिभ्रमः स्यादिति भावः ॥ ७ ॥

हिन्दी— इस युद्धमें गधेके समान धूसर जमीनकी धूलसे नेत्रमार्गके तिरोहित होनेपर तेजस्वियोंसे वीरोंके वरणमे उत्सुक देवसुन्दरियोंका दिनमें भी रात्रिका भ्रम भी नहीं देखा जा रहा है ॥ ७ ॥

रथाङ्गसंक्रोडितमश्वहेषा बृहन्ति मत्तद्विपवृंहितानि।
संघर्षयोगादिव मूर्च्छितानि ह्रादं निगृह्णन्ति न दुन्दुभीनाम् ॥ ८ ॥

मल्लि०— रथाङ्गेति । रथाङ्गसंक्रोडितं = रथचक्रकूजितम् । अश्वानां हेषातानि = शब्दितानि । 'अश्वानां हेषा हेषा च निःस्वनः' इत्यमरः । बृहन्ति = महान्ति । मत्तद्विपानां वृंहितानि । 'वृंहितं करिगर्जितम्' इत्यमरः । संघर्षयोगादिव=परस्परस्पर्द्धारावन्त्वादिव मूर्च्छितानि वृद्धिं गतानि सन्ति । 'नपुंसकमनपुंसके'-त्यादिना नपुंसकैकशेषः । दुन्दुभीनां = भेरीणां, ह्रादं = निर्घोषम् । 'स्वाननिर्घोषनिर्ह्रादे-'त्यमरः । न निगृह्णन्ति = न तिरस्कुर्वन्ति ॥ ८ ॥

हिन्दी— इस युद्धमें रथोंकी पहियोंकी आवाज, घोड़ोंकी हिनहिनाहट और मत्तहाथियोंकी भारी चिघाड़ भी संघर्षके सम्बन्धसे वृद्धिको प्राप्त करती हुई भेरीकी आवाजोंका भी तिरस्कार नहीं कर रही है ॥ ८ ॥

अस्मिन् यशःपीयूषलोलुपानामरातिभिः प्रत्युरसं क्षतानाम्।
मूर्च्छान्तरायं मुहुराच्छिनत्ति नासारशीतं करिशीकराम्भः ॥ ९ ॥

मल्लि०— अस्मिन्निति । अस्मिन् रणे यशपीयूषयोर्लोलुपानां गृध्नुनामत एव अरातिभिः प्रत्युरसमुरसि । 'प्रत्युरसः सप्तमीस्थात्' इति समासान्तः । क्षतानां = विद्धानां सम्बन्धिनां मूर्च्छवान्तरायो रणविघ्नस्तम् । असारशीतं = वर्षधाराशीत-

षोडशः सर्गः

षोडशः सर्गः ३१७

लम् । 'धारासम्पात आसार' इत्यमरः । करिणां शीकर एव अम्भः कर्तृ मुहुर्नो- च्छिनत्ति = न नाशयति ॥ ९ ॥

हिन्दी — इस युद्धमें कीर्त्ति और युद्धार्थमें लोलुप अत एव शत्रुओंसे छातीमें विद्ध सैनिकोंके मूर्च्छास्वरूप युद्धके विघ्नको वर्षाऋतुके मूसलधार जलके समान शीतल हाथियोंके जलकण भी बारंबार नष्ट नहीं कर रहे हैं ॥ ९ ॥

असृङ्नदीनामुपचीयमानेविदारयद्भिः पदवीं ध्वजिन्याः । उच्छ्रायमायान्ति न शोणितौधैः पङ्कैरिवाश्यानघनैस्तटानि ॥ १० ॥

मल्लि० — असृगिति । असृङ्नदीनां तटान्युपचीयमानेरुपचयं नेयमानेरुदयो ध्वजिन्याः पदवीं विदारयद्भिर्दुःसंचारां कुर्वद्भिः । 'विदूरयद्भिः' इति पाठे विदूरां दूरसंचारां कुर्वद्भिः । आश्याना = ईषच्छुष्काः । 'संयोगादेरातो धातोर्यण्वतः' इति श्यायतेर्निष्ठानत्वम् । घनाः = सान्द्रास्तैः । आश्यानघनैः = शोणितौघैः पङ्कैरिवोच्छ्रायं वृद्धिं नायान्ति = न प्राप्नुवन्ति ॥ १० ॥

हिन्दी — इस युद्धमें रुधिरोंकी नदियोंके तट भी वृद्धिको प्राप्त किये जाते हुए तथा सेना (फौज) के मार्गको दुर्गम करते हुए कुछ सूखे हुए घने कीचड़ोंके समान रुधिर समूहसे नहीं बढ़ रहे हैं ॥ १० ॥

परिक्षते वक्षसि दन्तिदन्तैः प्रियाङ्कशोता नभसः पतन्ती । नेह प्रमोहं प्रियसहसानां मन्दारमाला विरलीकरोति ॥ ११ ॥

मल्लि० — परोति । इह = रणे, दन्तिदन्तैर्गजदन्तैः, परिक्षते = ताडिते, वक्षसि नभसः पतन्ती प्रियाया अङ्क इव शीता = शीतला सुखकरी मन्दारमाला । सुरैर्मुक्तेति शेषः । प्रियं साहसं येषां तेषां प्रियसहसानाम् । यतो गजाभियायिनामिति भावः । प्रमोहं = प्रहारमूर्च्छा न विरलीकरोति = न मन्दीकरोति । नापनयतीति यावत् ॥ ११ ॥

हिन्दी — इस युद्धमें हाथियोंके दांतोंसे ताड़ित छातोपर आकाशसे गिरती हुई प्रियाकी गोदके समान शीतल मन्दार पुष्पोंकी माला साहसको प्रिय माननेवाले वीरोंको प्रहारसे हुई मूर्च्छाको मन्द भी नहीं करती हैं ॥ ११ ॥

निषादिसंनाहमणिप्रभोधे परीयमाणे करिशीकरेण । अर्कत्विषोन्मीलितमभ्युदेति न खण्डनाखण्डलकार्मुकम् ॥ १२ ॥

३५८किरातार्जुनीयम्

मल्लि० — निषादीति। करिणां शीकरेण = पुष्करतुषारेण परीयमाणे व्याप्यमाने निषादिनो हस्त्यारोहाः। ‘हस्त्यारोहा निषादिनः’ इत्यमरः। तेषां संनाहाः = कवचानि, तेषा मणिप्रभोधे = रत्नांशुजाले। अर्कस्य त्विषा तेजसा। उन्मीलितमुत्पादितम्। आखण्डलकार्मुकस्य = इन्द्रधनुषः। ‘आखण्डलः सहस्राक्षः’ इत्यमरः। खण्डं नाभ्युदेति ॥ १२ ॥

हिन्दी — हाथियोंके जल कणसे व्याप्त किये जाते हुए महावतोंके कवचोंमें स्थित रत्नोंके किरणसमूहमें उत्पादित इन्द्रधनुके खण्डका प्रकाश भी नहीं चमक रहा है ॥ १२ ॥

महीभृता पक्षवतेव भिन्ना विगाह्य मध्यं परवारणेन ।
नावर्तमाना निनदन्ति भीममपां निधेराप इव ध्वजिन्यः ॥ १३ ॥

मल्लि० — महीति। पक्षवता = सपक्षेण महीभृता = मैनाकेनेव परवारणेन = शत्रुगजेन मध्यं विगाह्य=प्रविश्य भिन्नाः = क्षोभिता ध्वजिन्यः = सेनाः। ‘ध्वजिनी वाहिनी सेना’ इत्यमरः। अपां निधेः = सागरस्य। आप इव। आवर्तमाना भ्रमन्त्यः सत्यः। ‘स्यादावर्तोऽम्भसां भ्रमः’ इत्यमरः। भीमं न निनदन्ति ॥ १३ ॥

हिन्दी — पङ्खवाला पर्वत (मैनाक) के समान शत्रुके हाथीसे मध्यभागमें प्रवेश कर क्षुब्धकी गई सेनाएँ भी समुद्रके जलके समान घूमती हुई भयङ्कर आवाज भी नहीं कर रही हैं ॥ १३ ॥

महारथानां प्रतिदन्त्यनीकमधिष्यदस्यन्दनमुत्थितानाम् ।
मामूललूनैरतिमन्युनेव मातङ्ग्रहस्तैर्न्रियते न पन्थाः ॥ १४ ॥

मल्लि० — महारथानामिति। प्रतिदन्त्यनीकं = दन्तिसैन्यं प्रति। ‘अनीकं तु रणे सैन्ये’ इति विश्वः। अधिष्यदा महारयाः स्यन्दना रथा यत्र तत्तथा। ‘रंहस्तरसी तु रयः स्यदः’ इत्यमरः। उत्थितानां = प्रस्थितानां महारथानां = रथिकविशेषाणाम्। ‘आत्मानं सारथिं चाश्वान् रक्षन्युध्येत यो नरः। स महारथसंज्ञः स्यादित्याहुर्नीतिकोविदाः ॥’ इति लक्षणात्। पन्था = मार्ग आमूलात् = लूनैःश्छिन्न्नैः । मातङ्गहस्तैर्नागकरैः। अतिमन्युनाऽतिक्रोधेनेव न म्रियते = न निरुध्यते ॥ १३ ॥

हिन्दी — हाथियोंकी सेनाके प्रति बड़े वेगवाले रथोंसे युक्त प्रस्थान किये हुए,

षोडशः सर्गः ३१९

महारथियोंका मार्ग भी मूलसे काटे गये हाथियोंके सूँड़से मानों अत्यन्त क्रोधसे नहीं रोका जा रहा है ॥ १४ ॥

धृतोत्पलापीड इव प्रियायाः शिरोरुहाणां शिथिलः कलापः ।
न बर्हभारः पतितस्य शङ्कोर्निषादिवक्षःस्थलमातनोति ॥ १५ ॥

मल्लि०— धृतेति । पतितस्य = वक्षसि भग्नस्य शङ्कोस्तोमरस्य संबन्धी । 'वा पुंसि शल्यं शङ्कुर्ना सर्वला तोमरोऽस्त्रियाम्' इत्यमरः । बर्हभारस्तन्मूलबद्धो लाञ्छनपिच्छकलापो धृत उत्पलापीडः कुवलयशेखरो यस्मिन् स प्रियायाः संबन्धी शिथिलः = स्रस्तः शिरोरुहाणां कलापः = केशपाश इव निषादिनो = हस्त्यारोहस्य वक्षःस्थलं नातनोति = न व्याप्नोति ॥ १५ ॥

हिन्दी— इस युद्धमें वक्षःस्थलपर पड़े हुए तोमर आयुधके मूलमें बाँधा गया चिह्नस्वरूप मयूरका पंख, कमलका फूल लगाये हुए प्रियाके शिथिल केशकलापके समान महावतके वक्षःस्थलपर आच्छादन भी नहीं कर रहा है ॥ १५ ॥

उज्झत्सु संहार इवास्तसंख्यमह्नाय तेजस्विषु जीवितानि ।
लोकत्रयास्वादनलोलजिह्वां न व्याददात्याननमत्र मृत्युः ॥ १६ ॥

मल्लि०— उज्झत्स्विति । अत्र = आहवे । संहारे = कल्पान्त इव, तेजस्विषु = वीरेषु । अस्तसंख्यमसंख्यं यथा तथा, अह्नाय = झटिति । 'द्राक्झटित्यञ्जसाह्नाय' इत्यमरः । जीवितान्युज्झत्सु = त्यजत्सु सत्सु मृत्युर्लोकत्रयस्यास्वादने = भक्षणे, लोला गृध्नुर्जिह्वा यस्मिंस्तत् । आननं न व्याददाति = न विवृणोति । 'व्याङो दोऽनास्यविहरणे' इत्यत्रानास्यविहरण इति निषेधात् परस्मैपदम् ॥ १६ ॥

हिन्दी— इस युद्धमें प्रलयसमयके समान वीरोंके असंख्यरूपमें झटपट जीवन छोड़नेपर मृत्यु भी तीनों लोकके भक्षणमें चञ्चल जिह्वावाला मुख नहीं खोल रहा है ॥ १६ ॥

सत्यमेवं, तथापि किमेतत्कुत्सितम, तत्राह—

इयञ्च दुर्वारमहारथानामाक्षिप्य वीर्यं महतां बलानाम् ।
शक्तिर्ममावस्यति हीनयुद्धे सौरीव ताराधिपधाम्नि दीप्तिः ॥ १७ ॥

मल्लि०— इयमिति । इयं मम शक्तिश्च दुर्वाराः पराक्रमिणो महारथा येषु तेषां महतां बलानां वीर्यमाक्षिप्य = निरस्य ताराधिपधाम्नि=चन्द्रतेजसि । सूर्यस्येयं

२६० | किरातार्जुनीयम्

तार्शं । 'सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः' इति स्त्रियां ङीप्। यकारस्य लोपः। दीप्तिरिव हीनदृष्टे किरातरणे। अवस्यत्वमीदति । एतच्च विरुद्धमप्युपपन्नं चेति भावः। 'षोऽन्तकर्मणि' इति धातोर्लट् ॥ १७ ॥

**हिन्दी—**इस युद्धमें वह मेरी शक्ति दुःखसे निवारण किये जानेवाले महारथियों के पराक्रमको दूर कर चन्द्रमाकी कान्तिमें सूर्यकी दीप्ति (तेज)के समान किरातके साथ युद्धमें शिथिल हो रही है ॥ १७ ॥

माया स्विदेषा मतिविभ्रमो वा ध्वस्तं नु मे वीर्यमुताहमन्यः ।
गाण्डीवमुक्ता हि यथा पुरा मे पराक्रमन्ते न शराः किराते ॥ १८ ॥

**मल्लि०—**मायेति । एषा शक्तिह्रासरूपा, माया स्वित् देवताक्षोभणं नाम । मतिविभ्रमो=बुद्धिविपर्ययो वा । अथवा मे वीर्यं ध्वस्तं= नष्टं नु । उताहमन्योऽर्जुनो न वा। कुतः । हि यस्मात्, गाण्डीवमुक्ता मे शराः यथा पुरा = यथापूर्वं परिपन्थिष्विवेत्यर्थः । किराते न पराक्रमन्तेऽप्रतिबन्धेन प्रवर्त्तन्ते । 'उपपराभ्याम्' इति वृत्तावात्मनेपदम् । वृत्तिरप्रतिबन्धः ॥ १८ ॥

**हिन्दी—**यह (मेरी शक्तिकी अवनति) माया है वा मेरी बुद्धिका वैपरीत्य है, अथवा मेरा पराक्रम नष्ट हो गया है, यद्वा मैं अर्जुन ही नहीं हूँ, क्योंकि मेरे गाण्डीव धनुसे छोड़े गये बाण किरातमें, शत्रुमें पहलेकी तरह रुकावटके बिना प्रवृत्त नहीं हो रहे हैं ॥ १८ ॥

पुंसः पदं मध्यममुत्तमस्य द्विधेव कुर्वन्धनुषः प्रणादैः ।
नूनं तथा नैष यथाऽस्य वेषः प्रच्छन्नमप्यूहयते हि चेष्टा ॥ १९ ॥

**मल्लि०—**पुंस इति। किंच, उत्तमस्य पुंसः = पुरुषोत्तमस्य मध्यमं पदमाकाशं धनुषः प्रणादैः । 'उपसर्गादसमासेऽपि णोपदेशस्य' इति षत्वम् । द्विधा कुर्वन्निव= विदारयन्निव स्थितः स एष=किरातो नूनं तथा तथा भूतो न । कीदृशस्तत्राह-अस्य पुरुषस्य यथा यथामूतो वेषः । वर्तत इति शेषः । वेषत एवायं किरातो न स्वरूपत इत्यर्थः । कुतः । हि यस्मात्, चेष्टा = व्यापारः प्रच्छन्नमपि = निगूढमपि स्वरूपम् । ऊहयते = तर्कयते । तस्याः स्वभावादव्यभिचारादिति भावः ॥ १९ ॥

**हिन्दी—**एवम् भगवान् विष्णुके मध्यम पद विष्णुपद अर्थात् आकाश) को मानों विदारण कर स्थित यह किरात वैसा नहीं हैं अर्थात् साधारण किरात नहीं है, क्योंकि इसकी चेष्टा गूढस्वरूपकी भी तर्कना कर देती है ॥ १९ ॥

षोडशः सर्गः

षोडशः सर्गः ३६१

अथ चतुर्भिश्चेष्टामेवाचष्टे—
धनुः प्रबन्धध्वनितं रुषेव सकृद्विकृष्टा विततेव मौर्वी ।
संधानमुक्तत्कर्पमिव ध्नुदस्य मुष्टेरसंभेद इवापवर्गे ॥ २० ॥

**मल्लि०—**धनुरिति । धनु रुषेव, प्रबन्धेनाविच्छेदेन ध्वनितम् । 'इनतेः कर्तरि क्तः। मौर्वी च सकृद्विकृष्टा विततैरुवाराकंपंगादेव, विततेव स्थिता । संधानं = बाणसंधानमुक्तत्कर्पं तूणादुद्धरणं=त्युदस्येव = वर्जयित्वा । किमु कृतमिति दोषः । अपवर्गे = बाणमोक्षेऽपि, मुष्टेरसंभेदोऽसंघटनमिव । मुष्टिवन्धं विनैव बाणमोक्षः कृत इवेति हस्तलाघवोत्किः ॥ २० ॥

**हिन्दी—**धनु मानों क्रोधसे लगातार शब्द कर रहा है, प्रत्यञ्चा भी एकबार खींचनेसे फैलाई गई-सी है । बाणसन्धान तरकशसे निकाले बिना ही किया गया-सा है । बाणमोक्षमें भी मुष्टिका असम्वेद-सा प्रतीत होता है ॥ २० ॥

अंसाववष्टब्धनतौ समाधिः शिरोधराया रहितप्रयासः ।
धृता विकारांस्त्यजता मुखेन प्रसादलक्ष्मीः शशलाञ्छनस्य ॥ २१ ॥

**मल्लि०—**अंसाविति । किंच, अंसाववष्टब्धौ स्थिराववस्थापितौ च तौ नतौ चावष्टब्धनतौ, शिरोधरायाः = कंघरायाः समाधिः संस्थानविशेषश्च रहितः प्रयासो यस्य स तथोक्तः । निःप्रयास इत्यर्थः । तथा विकारांस्त्यजता । अमृतत्वान्निर्विकारेणेत्यर्थः । मुखेन, शशलाञ्छनस्य = इन्दोः प्रसादलक्ष्मीर्धृता । असंभवत्संबंधो निदर्शनालङ्कारः ॥ २१ ॥

**हिन्दी—**इस किरातराजके कन्धे स्थिर और झुके हुए हैं, ग्रीवा भी स्थितिविशेषोंसे अविचल है । निर्विकार मुखने चन्द्रमाकी निर्मलताकी शोभाका धारण किया है ॥ २१ ॥

प्रहीयते कार्यवशागतेषु स्थानेषु विष्टब्धतया न देहः ।
स्थितप्रयातेषु ससौष्ठवश्च लक्ष्येषु पातः सदृशः शराणाम् ॥ २२ ॥

**मल्लि०—**प्रहीयत इति । तस्य देहः कार्यवशेन = प्रयोजनवशेन, आगतेषु = स्थानेष्वालीढादिस्थानकेषु विष्टब्धतया स्थिरतया कश्च्या न प्रहीयते = न त्यज्यते । किंतु स्थिर इव तिष्ठतीत्यर्थः । सुष्ठु भावः सोष्ठवं = लाघवम् । उद्गात्रादित्वादञ्प्रत्ययः । तेन सह वर्तमानः ससौष्ठवः शराणां पातश्च, स्थितान्यचलानि =प्रयातानि = चलानि तेषु स्थितप्रयातेषु = चलाचलेषु लक्ष्येषु विषये सदृश एकरूपः ॥ २२ ॥

३६२ | किरातार्जुनीयम्

हिन्दी— इस (किरातराज) के शरीरको प्रयोजनवश पैंतरा बदलनेपर आलीढ आदि स्थानोंमें स्थिरता नहीं छोड़ती है, लाघवसे रहता हुआ बाणोंका प्रहार भी अचल और चल लक्ष्योंपर एकरूप है ॥ २२ ॥

परस्य भूयान्विवरेऽभियोगः प्रसह्य संरक्षणमात्मरन्ध्रे ।
भीष्मेऽप्यसम्भाव्यमिदं गुरौ वा न सम्भवत्येव वनेचरेषु ॥ २३ ॥

मल्लि०— परस्येति । किंच, परस्य विवरे = रन्ध्रे अल्पेऽपीति शेषः । भूयान् = भूयिष्ठः, प्रसह्य = झटिति अभियोगो ज्ञातृत्वम् । परस्य रन्ध्रज्ञातृत्वात्प्रहारौघोऽष इत्यर्थः । आत्मनो रन्ध्रे = विवरे । अनल्पेऽपीति शेषः । प्रसह्य = झटिति संरक्षणं = गोपनं च । भूयिष्ठमिति शेषः । इदं द्वयं भीष्मेऽपि, गुरौ वा द्रोणे वापि असम्भाव्यं दुर्वितर्क्यं वनेचरेषु न सम्भवत्येव । अतो नायं किरातः, किंत्वयं तिरोहितवेषः कोऽप्यमानुषः पुरुषः इति भावः ॥ २३ ॥

हिन्दी— शत्रुके थोड़े छिद्रमे भी उसके प्रचुर छिद्रोंको झटपट जान लेते हैं और अपने प्रचुर छिद्रोंको भी छिपाते हैं, ये दो विषय भीष्म पितामह और द्रोणाचार्य मे भी असंभाव्य हैं फिर वनेचरोंमे तो होना सम्भव नहीं है, इस लिए यह किरात नहीं है अतः यह देवयोनिमें उत्पन्न व्यक्ति है ॥ २३ ॥

अप्राकृतस्याहवदुर्मदस्य निवार्यमस्यास्त्रबलेन वीर्यम् ।
अल्पीयसोऽप्यामयतुख्यवृत्तेर्महापकाराय रिपोर्विवृद्धिः ॥ २४ ॥

मल्लि०— अप्राकृतस्येति । अप्राकृतस्योक्तरीत्याऽसाधारणस्य । आहवदुर्मदस्य = रणमत्तस्य । अस्य = किरातस्य वीर्यं = तेजोऽस्त्रबलेन = दिव्यशस्त्रमहिम्ना निवार्यं निवारणीयम् । अन्यथाऽनिवार्यत्वमस्येति भावः । तथा हि—अल्पीयसोऽप्यत्यल्पस्यापि । आमयतुख्यवृत्ते रोगसमानविक्रियस्य । 'रोगव्याधिगदामयाः' इत्यमरः । रिपोर्विवृद्धिर्महापकाराय, किंत्वयं महानुभाव इति भावः । कुलकम् ॥ २४ ॥

हिन्दी— असाधारण, युद्धमें मत्त इस किरातका पराक्रमका दिव्यशस्त्रके बलसे निवारण करना चाहिए, जैसे कि अतिशय अल्प होकर भी रोगके समान विकारवाले शत्रु की वृद्धि महान् अपकारके लिए हो जाती है ॥ २४ ॥

स संप्रधार्यैव महार्यसारः सारं विनेष्यन् सगणस्य शत्रोः ।
प्रस्वापनास्त्रं द्रुतमाजहार ध्वान्तं घनानाद्द इवार्धरात्रः ॥ २५ ॥

मल्लि०— स इति । अहार्यसारोऽनिवार्यवीर्यः सोऽर्जुन एवं सप्रधार्य = निश्चित्य