भारतकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

किरातार्जुनीयम्

प्रथम सर्गः

अर्धाङ्गीकृत-दाम्पत्यमपि गाढानुरागि यत् । पितृभ्यां जगतस्तस्मै कस्मैचिन्महसे नमः॥ आलम्बे जगदालम्बं हेरम्बचरणाम्बुजम् । शुष्यन्ति यद्रजःस्पर्शात्सद्यः प्रत्यूहवार्धयः तद्दिव्यमव्ययं धाम सारस्वतमुपास्महे । यत्प्रकाशात्प्रलीयन्ते मोहान्धतमसच्छटाः॥

वाणीं काणभुजीमजीगणदवाशासीच्च वैयासकी-
मन्तस्तन्त्रमरंस्त पन्नगगवीगुम्फेषु चाजागरीत् ।
वाचामाकलयद्रहस्यमखिलं यश्चाक्षपादस्फुरां
लोकेऽभूदुपज्ञमेव विदुषां सौजन्यजन्यं यशः॥

मल्लिनाथकविः सोऽयं मन्दात्मानुजिघृक्षया ।
तत्किरातार्जुनीयाख्यं काव्यं व्याख्यातुमिच्छति ॥

नारिकेलफलसम्मितं वचो भारवेः सपदि तद्विभज्यते ।
स्वादयन्तु रसगर्भनिर्भरं सारमस्य रसिका यथेप्सितम् ॥

नानानिबन्धविषमैकपर्दैर्नितान्तं साशङ्कचङ्क्रमणखिन्नधियामशङ्कम् । कर्तुं प्रवेशमिह भारविकाव्यबन्धे घण्टापथं कमपि नूतनमातनिष्ये । इहान्वयमुखेनैव सर्वं व्याख्यास्यते मया । नामूलं लिख्यते किञ्चिन्नानपेक्षितमुच्यते ॥

अथ तत्रभवान् भारविनामा कविः 'काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यः परनिर्वृतये कान्तासम्मिततयोपदेशयुजे'।। इत्याद्यालङ्कारिकवचनप्रमाण्यात्काव्यस्यानेकश्रेयःसाधनताम् 'काव्यालापांश्च वर्जयेत्' इति निषेधनाज्ञाशास्त्रस्यासत्काव्यविषयतां च पश्यन्किरातार्जुनीयाख्यां महाकाव्यं चिकीर्षुश्चिकीर्षितार्थविघ्नपरिसमाप्तिसाम्प्रदायाविच्छेदलक्षणफलसाधनत्वात् 'आशीर्नमस्क्रिया वस्तु निर्देशो वापि तन्मुखम्' इत्याद्याशीर्वादाद्यन्यतमस्त प्रबन्धमुखलक्षणत्वाच्च वनेचरस्य युधिष्ठिरप्राप्तिरूपं वस्तु निर्दिशन्कथामुपक्षिपति—

२ किरातार्जुनीयम् [प्रथमः

श्रियः कुरुणामधिपस्य पालनीं प्रजासु वृत्तिं यमयुङ्क्त वेदितुम्।
स वर्णिलिङ्गी विदितः समाययौ युधिष्ठिरं द्वैतवने वनेचरः॥ १॥

श्रिय इति। आदितः श्रीशब्दप्रयोगाद्गर्णार्णाद्गणगणादिशुद्धिर्नात्रातीवोपयुज्यते। तदुक्तम्-‘देवतावाचकाः शब्दा ये च भद्रादिवाचकाः। ते सर्वे नैव निन्द्याः स्युर्लिपितो गणतोऽपि वा’ इति। कुरूणां निवासाः कुरवो जनपदाः। ‘तस्य निवासः’ इत्यणप्रत्ययः। जनपदे लुप्। तेषामधिपस्य सम्बन्धिनीम्। शेषे षष्ठी। श्रियो राजलक्ष्म्याः ‘कर्तृकर्मणोः कृति’ इति कर्मणि षष्ठी। पाल्यतेऽनयेति पालनी ताम्। प्रतिष्ठापिकामित्यर्थः। प्रजारागमूलत्वात्सम्पद इति भावः। ‘करणाधिकरणयोश्च’ इति करणे ल्युट्। ‘टिड्ढाणञ्—’ इत्यादिना ङीप्। प्रजासु जनेषु विषये। ‘प्रजा स्यात्सन्ततौ जने’ इत्यमरः। वृत्तिं व्यवहारं ज्ञातुं यं वनेचरमयुङ्क्त नियुक्तवान्। वर्णः प्रशस्तिरस्यास्तीति वर्णी ब्रह्मचारी। यदुक्तम्— ‘स्मरणं कीर्तनं केलिः प्रेक्षणं गुह्यभाषणम् । सङ्कल्पोऽध्यवसायश्च क्रियानिर्वृतिरेव च ॥ एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनिषिणः। विपरीतं ब्रह्मचर्यमेतदेवाष्टलक्षणम्। एतदष्टविधमैथुनाभावः प्रशस्तिः। ‘वर्णाद् ब्रह्मचारिणि’ इतीनिप्रत्ययः। तस्य लिङ्गं चिह्नमस्यास्तीति वर्णिलिङ्गी। ब्रह्मचारिवेषवानित्यर्थः। स नियुक्तः वने चरतीति वनेचर किरातः। ‘भेदाकिरातशबरपुलिन्दा म्लेच्छजातयाः’ इत्यमरः। ‘चरेष्ट’ इति टप्रत्ययः। ‘तत्पुरुषे कृति बहुलम्’ इत्युलुक्। विदितं वदनमस्यास्तीति विदितः। ‘परवृत्तान्तज्ञानवानित्यर्थः। ‘अर्शआदिभ्योऽच्’ इत्यच्प्रत्ययः। उभयत्रापि ‘पीता गावः’ ‘भुक्ता ब्राह्मणाः’ विभक्ता भ्रातरः’ इत्यादिवत्साधुत्वम्। न तु कर्तरि क्तः। सकर्मकेभ्यस्तस्य विधानाभावात्। अत एव भाष्यकारः— अकारो मत्वर्थीयः विभक्तमेषामस्तीति ‘विभक्ताः’ पीतमेषामस्तीति पीताः’ इति सर्वत्र। अथवात्तरपदलोपोऽत्र द्रष्टव्यः। विभक्तधना विभक्ताः, पीतोदकाः पीता इति। अत्र लोपशब्दार्थमाह कैयटः- ‘गम्यार्थस्याप्रयोग एव लोपोऽभिमतः। ‘विभक्ता भ्रातरः’ इत्यत्र च धनस्य यद्विभक्तत्वं तद्भ्रातृषूपचरितम्। ‘पीतोदका गावः’ इत्यत्राप्युदकस्य पीतत्वं गोष्वारोप्यते इति। तद्वदत्रापि वृत्तिगतं विदित्वं वेदित्त्वं वेदितरि वनेचर उपचर्यते। एतेन ‘वनाय पीतप्रतिबद्धवत्साम्’, पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु या ‘एवमादयो व्याख्याताः अथवा विदितवान्। अकर्मकादप्यविविक्षिते कर्मणि कर्तरि क्तः। यथा ‘आसितः कर्त्ता’ इत्यादौ। यथाहूः— ‘धातोरर्थान्तरे

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ३

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ३

वृत्तेर्धात्वर्थेनोपसंग्रहात् । प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया' ।। इति द्वैतवने द्वैताख्ये तपोवने । यद्वा द्वे इते गते यस्मात्तद् द्वीतम् । तच्च तद्वनञ्च तस्मिन् । शोकमोहादिवर्जित इत्यर्थः। युधि रणे स्थिरं युधिष्ठिरं धर्मराजम् 'हलदन्तात्सप्तम्याः संज्ञायाम् इत्यलुक् । 'गवियुधिभ्यां स्थिरः' इति षत्वम् । समाययौ सम्प्राप्तवान् । अत्र 'वने वनेचरः इति द्वयोः स्वरव्यञ्जनसमुदाययोरेकदैवावृत्त्यनुप्रासो नामालङ्कारः। अस्मिन्सर्गे वंशस्थवृत्तम् तल्लक्षणम्- 'जतौ तु वंशस्थमुदीरितं जरौ' इति ॥१॥

या नीलाम्बुदसन्निभा भगवती संसारतापान्वितान्
सद्यश्चञ्चलदृष्टिकोणकिरणैरालोक्य गर्जद्गिरा ।
कारुण्यामृतधारया विदधती मोहान्वितान् प्राणिनो
भक्तत्राणपरायणा विजयते जाग्रत्प्रभावा शिवा ।।

अन्वयः- कुरूणाम्, अधिपस्य, श्रियः, पालनीं प्रजासु, वृत्तिम्, वेदितुम्, यम्, अयुङ्क, सः, वर्णिलिङ्गी, विदितः, वनेचर, द्वैतवने, युधिष्ठिरं, समाययौ ॥१॥

**सुधा-**कुरूणाम्=कुरुसंज्ञकभूनिवासप्रसिद्धदेशानाम् (यथोक्तं शब्दकल्पद्रुमे 'कुरुः धार्तराष्ट्रपाण्डवानां पूर्वपुरुषः' यथा- 'योजमीढसुतस्त्वन्य ऋक्षः संवरणस्ततः। तपस्यां सूर्यकन्यायां कुरुक्षेत्रपतिः कुरुः। परीक्षित् सधनुर्जह्नुर्निषधाद्यः कुरोः सुताः॥' अत्रसंज्ञकदेशानामिति न युक्तम्, यतः कुरुवर्षन्तु, सिद्धपुरसमीपेर्वर्त्तते, तंतु भारतवर्षान्तर्गतं न, प्रत्युत भारतदेशादुत्तरस्यां किन्नरहरिवर्षरम्यक हिरण्मयवर्षेऽप्यऽनन्तरं कुरुवर्षमस्तीति सिद्धान्तशिरोमणेर्गोलाध्याये भुवनकोशे भास्कराचार्यैरन्यैश्च भूगोलवर्णनशीलैरवर्णि)। अधिपस्य = स्वामिनः, दुर्योधनस्येति शेषः। श्रियः = राजसम्पदः, सम्बन्धिनीं, पालनीं=सकलनियमसेवनीं, प्रजासु = जनेषु तदङ्गान्तर्गतिष्विति शेषः। वृत्तिम् = व्यवहारम्, वा वार्त्ताम्, वेदितुम् = विज्ञातुम्, यम् = अज्ञातनामानम् वनेचरमिति शेषः। अयुङ्क्त = नियुक्तवान्, सः = मान्यः, वर्णिलिङ्गी = ब्रह्मचारित्वरूपधारी, 'नान्यो मां लोकप्रकृतिपरीक्षकं जानातु, अपि तु, साधुरूपमवलोक्य मत्तः किमप्यनाशङ्क्य स्वयथार्थं स्वभावं प्रकाशयतु, इतिधिया कपटब्रह्मचारिवेषधर इत्यर्थः। विदितः = ज्ञाताखिलज्ञातव्य वनेचरः = आरण्यकः, द्वैतवने = एतन्नाम्ना विदिते विपिने, युधिष्ठिरम् = ज्येष्ठपाण्डवमेतन्नामानम् प्रति समाययौ = समागतः।

किरातार्जुनीयम्[प्रथमः

अस्मिन् सर्गे वंशस्थसंज्ञं वृत्तम् । तल्लक्षणञ्च 'जतौ तु वंशस्थमुदीरितं जरौ ।'

यथा—

। ऽ ।ऽ ऽ ।। ऽ ।ऽ । ऽ
'श्रियः कु—रूणाम्—धिपस्य—पालनीम् ।

समवृत्तत्वाच्चतुर्ष्वपि पादेषु समानमेव लक्षणं ज्ञेयमिति ॥१॥

समासो व्युत्पत्तिश्च— अधिपातीति अधिपः तस्याधिपस्य । पाल्यतेऽनयेति पालनी ता पालनीम् । वर्णः पशस्तिरस्यास्तीति वर्णी तस्य वर्णिलिङ्गम् तदस्यास्तीति वर्णिलिङ्गी । वने चरतीति वनेचरः युधि स्थिरो युधिष्ठिरः। द्वे इते गते यस्मात्तद् द्वीतं द्वीतमेव द्वैतं तच्च वने द्वैतवनम् तस्मिन् द्वैतवने ॥२॥

व्याकरणम्— वेदितुम् = विद् + तुमुन् । अयुङ्क्त = युज् + लङ् । समाययौ = सम् + आङ् + या + लिट् ॥२॥

वाच्यान्तरम्— दुर्योधनस्य प्रजापालनपद्धतिमवगन्तुं युधिष्ठिरेण योऽयुज्यत, तेन वर्णिलिंगिना वनेचरेण द्वैतवने युधिष्ठिर समायते ॥१॥

कोषः 'लक्ष्मीः पद्मालया पद्मा कमला श्रीर्हरिप्रिया' इत्यमरः। 'कुरुवर्षकुरुश्चन्द्रवंशीयोऽपि नृपः कुरुः'। 'अधिभूर्नायको नेता प्रभुः परिवृढोऽधिपः' इत्यमरः। 'प्रजास्यात्सन्ततौ जने' इत्यमर। 'वृत्ति प्रवृत्तराख्याता वृत्तिर्वचनमुच्यते' 'वृत्तिर्वार्ता वृत्तमपि'। 'वनेचरो वनप्रिय इति स्मृतः'।॥१॥

सारार्थः— यदा कौरवेश्वरेण दुर्योधनेन द्यूतक्रीडया सब्याजं पराजितो युधिष्ठिरो राज्यप्रभृति सर्वस्वं हारयित्वा भीतादिभिरनुजैर्द्रौपद्या स्त्रिया चानुगतो द्वादशः वर्षात्मके वनवासे वसन्नास्ते, तदानीं तस्य मनसीत्थं विचार उत्पन्नः। स दुर्जनों दुर्योधनः कथमिव राज्यं करोति नयेनानयेन वेति ज्ञातव्यमित्यतस्तत्रत्यमेकं गूढचरोचिताचाचतुरं वनेचरं दुर्योधनस्य राज्यशासनपद्धतिज्ञानाय प्रेषितवान् । स च ब्रह्मचारिवेषं सर्वविश्वासयोग्यं धृत्वाऽर्थात् अयमस्मद्गोष्यविषयज्ञानाशया कोऽपि युधिष्ठिरस्य गूढचर' इति यथा कौरवाणां मनसि शंका न भवेत्तथा विधाय तत्र गत्वा सर्वमुदन्तमशेषेणावगम्य युधिष्ठिराय तदादेशकारी निवेदनार्थ द्वैतवने समागतः॥३॥

भाषाऽर्थः— जब महाराज युधिष्ठिर अपने चचेरे भाई दुर्योधन के कपट भरे जुआ के खेल से हारकर सपरिवार द्वैतवन में रहकर बारह वर्ष का वनवास व्यतीत

सर्गः १] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ५

सर्गः १] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ५

कर रहे थे, उस समय अपने विरोधी दुर्योधन के 'शील' और 'कैसे प्रजाओं को पालता है' यह समझने के लिए जिस ब्रह्मचारी के वेषवाले वनेचर को भेजा था, वह वहाँ जाकर, पूरा हाल समझकर जहाँ कि द्वैतवन में युधिष्ठिर थे, वहाँ आ पहुँचा ॥१॥

सम्प्रति तात्कालोचितत्वमादेशयंस्तस्य तद्गुणसम्पन्नत्वमादर्शयन्नाह— कृतप्रणामस्य महीं महीभुजे जितां सपत्नेन निवेदयिष्यतः। न विव्यथे तस्य मनो न हि प्रियं प्रवक्तुमिच्छन्ति मृषा हितैषिणः॥२॥

कृतप्रणामस्येति। कृतप्रणामस्य तात्कालोचितत्वात्कृतनमस्कारस्य, सपत्नेन रिपुणा दुर्योधनेन 'रिपौ वैरिरिसपत्नारिद्विष्टद्द्वेषणदुर्हृदः' इत्यमरः। जितां स्वायत्तीकृतां महीं महीभुजे युधिष्ठिराय क्रियाग्रहणात्सम्प्रदानत्वम्। निवेदयिष्यतो ज्ञापयिष्यत 'लृटः सद्वा' इति शतृप्रत्ययः। तस्य वनेचरस्य मनो न विव्यथे। कथमयीदृगप्रियं राज्ञे विज्ञापयामीति मनसि न चचालेत्यर्थः। 'व्यथ भयचलनयोः' इति धातोर्लिट् । उक्तमर्थमर्थान्तरन्यासेन समर्थयते— न हीति । हि यस्मात् । हितमिच्छन्तीति हितैषिणः स्वामिहितार्थिनः पुरुषा मृषा मिथ्याभूतं प्रियं प्रवक्तुं नेच्छन्ति अन्यथा कार्यविघातकतया, स्वामिद्रोहिणः स्युरिति भावः। 'अमौढ्यममान्द्यममृषाभाषित्वामभ्यूहकत्वं चेति चारगुणाः' इति नीतिवाक्यामृते ॥२॥

अन्वयः—कृतप्रणामस्य, सपत्नेन जितां, महीं महीभुज, निवेदयिष्यतः, तस्य मनः, न, विव्यथे । हि, हितैषिण मृषा, प्रियं प्रवक्तुं न, इच्छन्ति ॥२॥

सुधाकृतप्रणामस्य = विहितनमस्कारस्य, कृताभिवादनस्येत्यर्थः। सपत्नेन= शत्रुना, दुर्योधनेनेत्यर्थः। जितां = ब्याजद्यूतेनात्मसात्कृताम्, महीं = पृथ्वीम्, महीभुजे = भूपतये, युधिष्ठिरायेत्यर्थः। निवेदयिष्यतः = निवेदयितुं विज्ञापयितु मिच्छतः भवतो हस्तान्निजहस्ते राज्यं कृत्वा एवमेव स राज्यं प्रशास्तीति कथयिष्यत इत्यर्थः। तस्य = पूर्वप्रेषितस्य वनेचरस्य, मनः= मानसम्, हृदयमित्यर्थः। न विव्यथे = न व्यथितम्, अहो कथमेवं शत्रुप्रशंसां प्रभवे निवेदयामीत्येवं मनागपि मनो न विचलितं, न वा भयान्यितं जातम्। हि=यतः, यस्मात्कारणात्, हितैषिणः= प्रभुकल्याणेच्छवः, भृत्याः आज्ञाप्या इति यावत् । मृषा = मिथ्यात्मकम्, कपोलकल्पितमिति भावः। प्रियं = श्रवणसुखदं वचनम्, प्रवक्तुम् = निवेदयितुम्,

६ किरातार्जुननीयम् [प्रथमः

न = न भ्रमादपि, इच्छन्ति = अभिलषन्ति, स्वप्नेऽपीति शेषः। मिथ्या तु मिथ्यैव, सत्यं सत्यमेव, तेन मिथ्याप्रियवचननिवेदनेन, यथार्थविषयस्थितिमज्ञात्वा नरपतिः प्रमत्तो भवन् राज्यात्पतति, ताकालिकमप्रियमपि वचनं निशम्य, तत्प्रतीकारतत्परो राजा न जात्वरिवशङ्कतो भवति, अतो गूढचरस्यायं मुख्यो धर्मोऽस्ति, यत्स्वमिनेऽसत्यं प्रियं न निवेदनीयमिति भावः। अत एवोक्तं 'सत्यं ब्रूयात्प्रियं ब्रूयात्' इति । अनेन यथार्थो भृत्यसमुदाचारो वर्णितः। एवम् ‘अमौढ्यममान्द्यममृषाभाषितवमभ्यूहकत्वञ्चेति चारगुणाः' इति नीतिवाक्यामृते कथितम् ॥२॥

समासः- कृतः प्रणामो येन सः कृतप्रणामस्तस्य कृतप्रणामस्य । महीं भुनक्तीति महीभुक् तस्मै महीभुजे । हितमिच्छन्तीति हितैषिणः॥२॥

व्याकरणम्- विव्यथे = व्यथ + लिट् । इच्छन्ति = इष् + लट् ॥२॥

वाच्यान्तरम्- वनेचरस्य मनसा न विव्यथे, हितैषिभिर्मृषा प्रियं न प्रवक्तुं मिष्यते ॥२॥

कोषः- 'गोत्रा कुः पृथिवी पृथ्वी क्ष्माऽवनिर्मेदिनी मही' इत्यमरः। 'पार्थिवो भूपतिर्भूपो महीभुक् क्ष्मापतिर्नृपः'। 'रिपौ वैरिसपत्लारिद्विषद्वेषणदुर्हृदः' इत्यमरः। 'चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मन' इत्यमरः 'मृषा मिथ्या तु वितथे' इत्यमरः॥२॥

सारार्थः- स च वनेचरो युधिष्ठिरं प्रणम्य यथादृष्टं प्रभुद्रोहिप्रशंसामपरमपि दुर्योधनकृतराज्यशासनविधिं प्रवक्तुमुद्यतः। परन्तु कथमेवं शत्रूत्कर्षं स्वप्रभवे निवेदयामिति मनागपि तस्य मनो न कम्पितम् । यतो हितेच्छोर्भृत्यस्य स्वामिनं प्रति सत्यकथनमेव परो धर्मः। कथमन्धथा भृत्यस्य विश्वासः। तथा शत्रुकृते प्रतीकारः क्रियते स्वामिभिरिति॥२॥

भाषार्थः- किया है प्रणाम जिसने और दुर्योधन से वशीकृत राज्य के बारे में कहने की इच्छा है जिसकी, ऐसे उस वनेचर का चित्त जरा भी विचलित नहीं हुआ । इसलिए कि मालिक के कल्याण चाहने वाले नौकर कभी झूठी मीठी बात मालिक से नहीं कह सकते ॥२॥

तथापि प्रियार्हे राशि कटुनिष्ठुरोक्तिर्न युक्तेत्याशङ्क्य स्वाभ्यनुज्ञया न दुष्यतीत्याशयेनाह—

द्विषां विघाताय विधातुमिच्छतो रहस्यनुज्ञामधिगम्य भूभृतः।
स सौष्ठवौदार्यविशेषशालिनीं विनिश्चितार्थामिति वाचमाददे ।। ३ ।।

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ७

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ७

द्विषामिति । रहस्येकान्ते स वनेचरो द्विषां शत्रूणाम् । कर्मणि षष्ठी । विघाताय, विहन्तुमित्यर्थः। 'तुमर्थाच्चभाववचनात्' इति चतुर्थी । 'भाववचनाच्च' इति तुमर्थे घञ्प्रत्ययः। अत्र तादर्थ्यमपि न दोषः तथापि प्रयोगवैचित्र्यविशेषस्या-प्यलङ्कारत्वादेयं व्याचक्षते । विधातुं व्यापारं कर्तुमिच्छतः। समानकर्तृकेषु तुमुन् द्विषो विहन्तुमुद्युञ्जानस्येत्यर्थः। अतः एव भूभृतो युधिष्ठिरस्यानुज्ञामधिगम्य । सुष्ठुभावः सौष्ठवं शब्दसामर्थ्यम् । सुष्ठुशब्दादव्ययादुद्गात्रादित्वादञ्प्रत्ययः। उदारस्य भाव औदार्यमर्थसम्पत्तिः तयोर्द्वन्द्वः सौष्ठवौदार्ये । अत्रौदार्यशब्दस्याजाद्यन्तत्वेऽपि 'लक्षणहेत्वोः क्रियायाः' इत्यत्राल्पस्वरस्यापि हेतुशब्दस्य पूर्वनिपातमकुर्वता सूत्र कृतेव पूर्वनिपातस्यानित्यत्वज्ञापनान्न पूर्वनिपातः। उक्तं च काशिकायाम्— अयमेव लक्षणहे- त्वोरिति निर्देशः। 'पूर्वनिपातव्यभिचारचिह्नम्' इति । ते एव विशेषः तयोर्वा विशेषः तेन शालते इति सौष्ठवौदार्यविशेषशालिनी ताम् । ताच्छील्येणिनिः। विनिश्चिताथी विशेषतः प्रमाणतो निर्णीतार्थामिति वक्ष्यमाणरूपां वाचमाददे स्वीकृतवान् । उवाचेत्यर्थः॥३॥

अन्वयः--सः द्विषां, विघाताय, विधातुम्, इच्छतः, भूभृतः, रहसि, अनुज्ञाम् अधिगम्य, सौष्ठवौदार्यविशेषशालिनी, विनिश्चिताथीम् , इति, वाचम्, आददे॥३॥

सुधा-सः = वनेचरः, क्विक्सुरिति शेषः। द्विषाम् = शत्रूणाम्, विघाताय=नाशाय, विधातुम् = विधानं, कर्तुम्, येनोपायेन शत्रुसंहरणम् भवेत्तं प्रकर्तुमित्यर्थः। इच्छतः = अभिलषतः भूभृतः=भूपतेः, युधिष्ठिरस्येति शेषः। रहसि = एकान्ते; निर्जने इति यावत्, अनुज्ञाम् = आज्ञाम्, अधिगम्य = प्राप्य, अर्थात् 'भो वनेचर ! तत्र गत्वा दुर्योधनस्य राजशासनपद्धति सम्यगवगतां ब्रूहि' इत्येवंरूपामाज्ञां शिरसि धृत्वा, सौष्ठवौदार्यविशेषशालिनीम् = शब्दार्थगुणशोभिताम्, विनिश्चिताथर्थाम् = विशेषरूपेण प्रकटार्थाम्, स्पष्टातमिति यावत्, इति = वक्ष्यमाणरूपाम्, वाचम् = वाणीम्, आददे = स्वीकृतवान्, उवाचेत्यर्थः॥३॥

समासः-भुवं विभर्तीति भूभृतः तस्य भूततः। सुष्ठु भावः सौष्ठवम्, उदारस्य भाव औदार्यम्, सौष्ठवं चौदार्यञ्च सौष्ठवौदार्ये, तयोः सौष्ठवौदार्ययोविशेषः सौष्ठवौदार्यविशेषः, तेन शालते शोभते या सा सौष्ठवौदार्यविशेषशालिनी, ताम् सौष्ठवौदार्यविशेषशालिनीम् । विशेषेण निश्चितः, निर्णीतोऽर्थो यस्तास्तां विनिश्चितार्थाम् ॥३॥

८ किरातार्जुनीयम् [प्रथमः

व्याकरणम्—विधातुं = वि + धा + तुमुन् । आदेद = आ + दा + लिट् । इच्छतः = इष् + शतृ ॥३॥

वाच्यान्तरम्— भृभृतोऽनुज्ञामधिगम्य तेन सौष्ठवौदार्यविशेषशालिनी विनिश्चितार्था इति, वाक् आददे ॥३॥

कोषः— 'रिपौ वैरिसपत्लारिद्विषद्वेषणदुर्हृदः। द्विद्विपक्षाहितामित्रदस्युशात्रवशत्रवः' इत्यमरः। विविक्तविजनच्छन्ननिःशलाकास्तया रहः इत्यमरः। 'भूभृद्भूमिधरे नृपे' इत्यमरः॥३॥

सारार्थः— कथं दुर्योधनो राज्यं करोति, कथं च पराजितो भविष्यतीत्येतत्सर्ववृत्तान्तज्ञानायाज्ञापितो वनेचरस्तत्र गत्वा सर्वमवगम्य, तत आगत्य युधिष्ठिरं प्रति शब्दार्थचमत्कारलसितं वचनं समुवाच ॥३॥

भाषार्थः—शत्रुओं का नाश करने के लिए उपाय करने की इच्छा रखनेवाले महाराज युधिष्ठिर की गुप्त रीति से आज्ञा पाकर वनेचर वहाँ सब कुछ समझकर शब्द और अर्थ के गुणों से पूर्ण वाक्य युधिष्ठिर से बोला ॥३॥

प्रथमं यावदप्रियनिवेदकमात्मानं प्रत्यक्षोभं याचते—

क्रियासु युक्तैर्नृप ! चारचक्षुषो न वञ्चनीयाः प्रभवोऽनुजीविभिः । अतोऽर्हसि क्षन्तुमसाधु साधु वा हितं मनोहारि च दुर्लभं वचः ॥४॥

क्रियास्त्विति । हे नृपः। क्रियासु कृत्यवस्तुषु युक्तैर्नियुक्तैरनुजीविभिर्भृत्यैः। चारादिभिरित्यर्थः। चरन्तीति क्षराः। पचाद्यच् । त एव चाराः चरेः पचाद्यजन्तात्प्रज्ञादित्वाद्णप्रत्ययः। त एव चक्षुर्येषां ते चारचक्षुषः। 'स्वपरमण्डले कार्याकार्यावलोकने चाराश्चाक्षूंषि क्षितिपतीनाम्' इति नीतिवाक्यामृते । प्रभवो निग्रहानुग्रहसमर्थाः स्वामिनो न वञ्चनीया न प्रतारणीयाः। सत्यमेव वक्तव्या इत्यर्थः। चारापचारे चक्षुरपचारिवद्राज्ञां पदे पदे निपात इति भावः अतोऽप्रतार्थत्वाद्धेतोः। असाध्वप्रियं साधु प्रियं वा मदुक्तमिति शेषः। क्षन्तुं सोढुमर्हसि । कुतः हितं पथ्यं मनोहारि प्रियं च वचो दुर्लभम् । अतो मद्वचोऽपि क्षन्तव्यमित्यर्थः॥५॥

अन्वयः- हे नृप !, क्रियासु, युक्तैः, अनुजीविभिः, चारचक्षुषः, प्रभवः, न, वञ्चनीयाः। अतः, असाधु, वा, साधु, क्षन्तुम्, अर्हसि । हितं, मनोहारिच, च, वचः, दुर्लभम् (भवति) ॥४॥

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ९

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ९

सुधा-हे नृप ! नरेश !, युधिष्ठिर !, क्रियासु = कर्तव्यविषयेषु, युक्तैः=नियुक्तैः, संयोजितैरिति शेषः। अनुजीविभिः = अनुचरैः, भृत्यैरित्यर्थः। चारचक्षुषः = गूढचरदृशः, चारनयना इति शेषः। प्रभवः = स्वामिनः न, वञ्चनीयाः = प्रतारणीयाः न हि मिथ्यावाक्यैस्तत्कालश्रवणप्रियैर्वञ्चनीया इत्यर्थः। अतः = अस्मात्कारणात् (यदि मन्निवेद्यमानं वचः) असाधु = असम्यक्, अप्रियमित्यर्थः। वा साधु = सम्यक्, प्रियं श्रवणहारीति यावत् (भवेत् तत् त्वम् सेवकोक्तकोमलोक्तिश्रवण योग्योऽपि, ममाप्रियमपि तत्रत्यं सत्यमुदन्तं निगद्यमानं, तत्) क्षन्तुम् = सोढुम्, अर्हसि = योग्योऽसि । (अहो.सत्यमपि प्रियमेव प्रयोक्तव्यम्, तदा त्वं कथमप्रियं सत्यं वक्तुमुद्यतोऽसीति चेत्तदाह) हितं = परिणामकल्याणकरम्, (तथा) मनोहारि = सद्यः प्रियम्, वचः = वचनम्, दुर्लभम् = दुष्प्रयोज्यम्, अर्थादुक्तमिथोविरुद्धगुणद्वयवद्वचनप्रयोगे प्रवीणा अपि मनीषिणो विचारणपरायणा भवन्ति, अस्मादृशमाजन्मवनवृत्तीनां कथैव का, नियतमप्रियमेव मद्वचो भविष्यतीति पूर्वं मपराधक्षमापनं सर्वथा समुचितमिति भृत्यस्योचितः परमः शिष्टाचार इति ॥४॥

समासः-चरन्तीति चराः, चरा एव चारा एव चक्षूंषि येषां ते चारचक्षुषः। मनो हरतीति मनोहारि । दुःखेन लभ्यते यत्तत् दुर्लभम् ॥४॥

व्याकरणम्- वञ्चनीयाः = वञ्च् + अनीयर । क्षन्तुम् = क्षम् + तुमुन् अर्हसि = अर्ह + लट् ॥४॥

वाच्यान्तरम्- क्रियासु युक्ता अनजीवितः चारचक्षुष प्रभून् न वञ्चयेयुः। अतः असाधु वा साधु वचनम् त्वया अर्ह्यते। हितेन मनोहारिणा वचसा दुर्लभेन भूयते ॥

कोषः-'राजा तु प्रणताशेषसामन्तः स्यादधीश्वरः। चक्रवर्ती सार्वभौमो नृपोऽन्यो मण्डलेश्वरः, इत्यमरः। 'अधिभूर्नायको नेता प्रभुः परिवृढोऽधिपः' इत्यमरः। 'सेवकार्य्यनुजीविनः' इत्यमरः॥४॥

सारार्थः-कार्यमात्रे नियुक्तैः सेवकैः सर्वथा प्रभवे सत्यमेव वचो निवेद्यम् । सत्यवचनप्रयोगशीलैरेव भृत्यैः स्वामिनो नयनवन्तो भवन्ति । असत्यभाषणैर्भृत्यैः प्रमादिनो नृपाः अन्धा एव । तथा अन्धः कूपे पतति, तथाऽप्ययथार्थभाषणशीलैश्चरैः सेवितो भूतः शत्रुप्रपञ्चकूपे पतति । अतो न कदापि मिथ्यावचनं निवेदनीयंसेवकैः।

२ किरात प्र. सर्ग

१० | किरातार्जुनीयम् | [प्रथमः

तथा चाप्रियमपि सत्यं भृत्यमुखोक्तं श्रोतव्यं स्वामिभिः। विनाऽनृतयोगेन सर्वं सर्वथा प्रियं न भवति । केवलं यथार्थस्थितिवर्णनात्मकं स्वाभाविकं वाक्यजालं न हि सर्वथा प्रियं भवतीति । केवलप्रियवचनश्रवणादरो न विधेयो राज्यशासकैः। यदि पुरुषं सत्यं श्रुत्वा भृत्योपरि स्वामी कुप्येतदा भयात्सङ्कोचाच्च भृत्यः कथं पुनः सत्यं कथयिष्यति । सत्याभावे कथं नरपतिः स्वापत्तिदूरीकरणार्थं यत्नं करिष्यति । तथा सति राज्यनाश एवं फलम्, तस्मात् भृत्येन सत्यं निवेदनीयम्, स्वामिनाऽपि सादरं सत्यं परुषमपि श्रोतव्यमिति भावः॥४॥

भाषार्थः- किसी काम का भार शिर पर लेकर नौकर को चाहिए कि मालिक को न ठगे, इसलिए मै आप को सच बताता हूँ । पर केवल सत्य बात मीठी नहीं होती, सो अगर मेरी बात कड़वी भी हो तो आप कृपा कर उसको क्षमा कर सकते हैं । क्योंकि जो बात भली और मीठी हो, ऐसी बात दुर्लभ हैं, उसमें भी मेरे जैसे भिल्ल-बनैले आदमी के लिए तो बिलकुल असम्भव ही है ॥४॥

तर्हि तूष्णींभाव एव वरमित्याशङ्क्याह-
स किंसखा साधु न शास्ति योऽधिपं हितान्न यः संशृणुते स किंप्रभुः।
सदाऽनुकूलेषु हि कुर्वते रतिं नृपेष्वमात्येषु च सर्वसम्पदः ॥५॥

स इति । सः सखामात्यादिरधिपं स्वामिनः साधु हितं न शास्ति नोपदिशति। 'ब्रुविशासि' इत्यादिना शासेर्दुहादिपाठाद् द्विकर्मकत्वम् । स हितानुपदेष्टा कुत्सितः सखा किंसखा । दुर्मन्त्रीत्यर्थः। 'किमः क्षेपे' इति समासान्तप्रतिषेधः। तथा यः प्रभुर्निग्रहानुग्रहममर्थः स्वामी हितादाप्तजनाद्धितोपदेष्टुः सकाशात् । 'आख्यातोपयोगे' इत्यपादानात्पञ्चमी । संशृणुते न शृणोति हितमिति शेषः। 'समो गम्यूच्छि' इत्यादिना सम्पूर्वाच्छृणोतेरकर्मकादात्मनेपदम्, अकर्मकत्वम् वैवक्षिकम् । स हितमश्रोता प्रभुः किंप्रभु कुत्सितस्वामी पूर्ववत्समासः। सर्वथा सचिवेन वक्तव्यं श्रोतव्यं स्वामिना। एवं च राजमन्त्रिणोरैकमत्यं स्यादित्यर्थः। ऐकमत्यस्य फलमाह— सदेति । हि यस्मान्नृपेषु अमा सह भवा अमात्यास्तेषु । 'अव्ययात्त्यप्' अनुकूलेषु परस्परानुरक्तेषु सत्सु सर्वसम्पदः सदा रतिमनुरागं कुर्वते 'कुर्वन्ति । न जातु जहती त्यर्थः। अतो मया वक्तव्यं त्वया च श्रोतव्यमिति भावः। अत्रैवं राजमन्त्रिणोर्हितानुपदेशतदश्रवणनिन्दा-

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ११

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ११

सामर्थ्यसिद्धैरेकत्यमलक्षणकारस्य निर्दिष्टस्य सर्वसम्पत्सिद्धि रूपकार्येण कारणसमर्थन- रूपोऽर्थन्तरन्यासोऽलङ्कारः। तदुक्तम्—'सामान्यविशेषकार्यकारणभावाभ्यां निर्दिष्टप्रकृतसमर्थनमर्थान्तरन्यासः' इति ॥५॥

अन्वयः – य अधिपं, साधु, नः शास्ति, स, किं, सखा? वा किंसखा, यः हितात्, न, संशृणुते, स, किं, प्रभुः? वा किंप्रभुः हि, सदा अनुकूलेषु, नृपेषु अमात्येषु, च, सर्वसम्पदः, रतिं, कुर्वते ॥५॥

**सुधा-**साधु = सम्यक् परिणामहितकरं वचनमित्यर्थः। न = नहि, शास्ति = उपदिशति, स = असम्यगुपदेष्टाजनः, कि सखा?=किं विचारतः ? नासौ सखेत्यर्थः वा किंसखा =कुत्सितामात्यः, तदुपदेशेन प्रभुः पतत्येव राज्यादित्यर्थः। (तथा च) यः = कश्चित्, प्रभुः हितात् = हितोपदेशात्, येनोपदेशेन न कदापि पराभवं प्राप्नु यात्तादृशोपदेशदातुरित्यर्थः। जनद्वाऽमात्यादेरिति शेषः। न संशृणुते = नोपदेश शृणोति, हितवाक्यस्य प्रायः कुटत्वादुपेक्षां करोति, सः = हितवचनश्रवणविमुखः किं प्रभुः? = न प्रभुरित्यर्थः। वा किंप्रभुः कुत्सितप्रभुः, अविवेकवान् स इत्यर्थः। अत एव मया भवता चोक्तनीती पालनीये, अन्यथा शिष्टाचारविच्छेदापत्तिः सं गच्छेत । अहो तादृशनियमपालने न केवलं शिष्टाचाररक्षणं फलमपि तु महॉल्लाभो विभवस्थैर्याभिलाषिणा भवतीत्याह— हि = यस्मात् कारणात्, सदा = सर्वदा सततमित्यर्थः। अनुकूलेषु = अविरुद्धेषु, अन्योन्यानुरक्तेषु, नृपेषु = स्वामिषु, अमात्येषु = मन्त्रिषु, च = अपि मन्त्रिणोऽप्रियमपि वचनं श्रुत्वा भूपो भेषजमिव गृह्णीयात् एकदाचित्कुष्येत् । एवं स्वामिनोऽप्यप्रियमपि वाक्यं निशम्यऽमात्योपि न क्रोधं कुर्यादिति भावः। तथा सति, सर्वसम्पदः = सकलसम्पत्तयः, रतिं = अनुरागम् तदा स्थित्यभिलाषमित्यर्थः। कुर्वते = कुर्वन्ति । मिथोऽनुरागरज्जुकन्द्रेषु नृपामात्येषु न कदाऽपि राज्यलक्ष्मीर्मुञ्चतीत्यर्थः॥५॥

समासः- सर्वाः सम्पदः सर्वसम्पदः॥५॥

**व्याकरणम्-**शास्ति = शास् लट् । संशृणुते = सम् + श्रु + लट् । कुर्वते = कृ+लट् ॥५॥

**वाच्यान्तरम्-**येन अधिपो न साधु शिष्यते, तेन किंसख्य भूयते, येन हितान्ना संश्रूयते, तेन किंप्रभुना भूयते । हि सदानुकूलेषु नृपेष्वमात्येषु सर्वसम्पद्भिः रति क्रियते ॥५॥

१२ किरातार्जुनीयम् [प्रथमः

कोषः- 'वयस्यः स्निग्धः सवया अथ मित्रं सखा सुहृत्' इत्यमरः। 'किं पृच्छायां जुगुप्सने इत्यमरः। 'सुन्दरं रुचिरं चारु सुषमं साधु शोभनम्' इत्यमरः। हि हेताववधारणे' इत्यमरः, 'अथ सम्पदि। सम्पत्तिः श्रीश्च लक्ष्मीश्च' दृत्यमरः॥५॥

सारार्थः- य एवामात्यादेरुपदेशं श्रुत्वा स्वीकरोति स योग्यः स्वामी, य एवं प्रभुं हितवाक्यं वदति स एव योग्योऽमात्यादिः। अत एवान्योन्यानुरागवतो-स्तयोर्भवने गुणबद्धेव राज्यलक्ष्मीर्नान्यतो गन्तुं पदमेकमप्युत्थापयति ॥५॥

भाषार्थः- जो कोई अपने मालिक को हित की बातों का उपदेश नहीं देता, वह क्या मंत्री है? कभी नहीं, या वह खराब नौकर है। ऐसे ही जो मालिक अपने हितचिन्तक मन्त्री आदियों की बात नहीं सुनता, क्या वह मालिक है? कभी नहीं, या वह नीच मालिक है। क्योंकि सदा आपस में मेल रखते हुए राजा और मन्त्रियों में हर एक तरह की सम्पत्तियाँ बनी रहती हैं ॥५॥

सम्प्रति स्वाहङ्कारं परिहरति- निसर्गदुर्बोधमबोधविक्लवाः क्व भूपतीनां चरितं क्व जन्तवः ।
तवानुभावोऽयमवेदि यन्मया निगूढतत्त्वं नयवर्त्म विद्विषाम् ॥ ६॥

निसर्गेति । निसर्गदुर्बोधं स्वभावदुर्ग्रहम् । 'ईषददुः—' इत्यादिना खल्प्रत्ययः। भूपतीनां चरितं क्व । अबोधविक्लवा अज्ञानोपहता जन्तवः। मादृशाः पामरजना इत्यर्थः। क्व नोभयं सङ्घटत इत्यर्थः । तथाऽपि निगूढतत्त्वं संवृतयाथार्थ्यं विद्विषां नयवर्त्म षाड्गुण्यप्रयोगः। 'सन्धिविग्रहयानानि संस्थाप्यासनमेव च । द्वैधीभावश्च विज्ञेयाः षड्गुणा नीतिवेदिनाम् ॥' इत्यादिरूपो यन्मयाऽवेदि । ज्ञातमिति यावत् । विदेः कर्मणि लुङ् । अयम् । इदं वेदनमित्यर्थः। विधेयप्राधान्यात्पुंल्लिङ्गनिर्देशः। तवानुभावः सामर्थ्यम् । अनुगतो भावोऽनुभाव इति घञन्तेन प्रादिसमासः। न तूपसृष्टाद्धन्प्रत्ययः। 'ऋणीभुवोऽनुपसर्गा'द्वित्येधर्तावित्येवधानात् अत एव काशिकायाम्—'कथं प्रभावो राज्ञां प्रकृष्टो भाव इति प्रादिसमासः' इति। दोषपरिहारौ सम्यग्ज्ञात्वैव विज्ञापयामि । न तु वृथा कर्णकठोरं प्रलपामीत्याशयः॥६॥

अन्वयः- निसर्गदुर्बोधम्, भूपतीनाम्, चरितम्, क्व । अबोधविक्लवाः, जन्तवः क्व । मया, विद्विषाम्, निगूढतत्त्वम्, नयवर्त्म, यत् अवेदि, (तत्) अयम्, तव, अनुभावः॥६॥

सर्गः] घण्टापथ-सुधाव्याख्याद्वयोपेतम्। १३

सर्गः] घण्टापथ-सुधाव्याख्याद्वयोपेतम्। १३

सुधाः- निसर्गदुर्बोधम् = प्रकृतिदुर्ज्ञेयम्, न केनापि सुबोधमित्यर्थः। तादृशं, भूपतीनाम् = महीपतीनाम् राज्ञामित्यर्थः। चरितम् = कृत्यम्, राज्यशासनरूपमित्यर्थः। क्व = कुत्र, वर्तते। (तथा च) अबोधविकलवाः = दुर्बोधजडाः जन्तवः = शरीरिणः (मादृशवनचरा इत्यर्थः) क्व = कुत्र, वर्त्तन्ते, (अनयोर्महदन्तरमस्ति। अर्थात् राज्ञश्चरित्रं तु तीक्ष्णमतिभिरपि न हि ज्ञातुं शक्यते, तत्कथं मादृशैरबोधोपहतैर्ज्ञायते इति भावः। 'नृपस्य चित्तं कृपणस्य वित्तं देवो न जानाति कुतो मनुष्यः' इति। अथ तादृशत्वेऽपि तस्य) मया = वनेचरेण, विद्विषाम् = भवच्छत्रूणाम्, दुर्योधनादीनां, निगूढतत्त्वं = अतिगुप्तसारम्, नयवर्त्म = राजनीतिपथः यत् = यत्किञ्चित्, अवेदि = ज्ञातम्, तत् = ज्ञानरूपम् (तु) अयम् तव = युधिष्ठिरस्य, अनुभावः = प्रभावः महिमेत्यर्थः। विज्ञस्य महतः संसर्गादज्ञो लघीयानपि महीयान् भवतीति भावः। 'काचः काञ्चनसंसर्गाद्धत्ते मारकती द्युतिम्' इति कश्चत्ता सहवेशनोपवेशान्मयाऽपि किञ्चिज्ज्ञानमाप्तमिति ॥६॥

समासः- निसर्गाद् दुर्बोधम् निसर्गदुर्बोधम्। अबोधेन विक्लवा अबोधविक्लवाः। निश्चयेन गूढं तत्वं यस्य तद् निगूढतत्त्वम्। नयस्य वर्त्म नयवर्त्म अनुगतो भावः अनुभावः। प्रादिसमासः॥६॥

व्याकरणम्- अवेदि = विद् + कर्मणि लुङ् ॥६॥

वाच्यान्तरम्- निसर्गदुर्बोधेन भूपतीनां चरितेन, क्व भूयते, अबोधविकलवैर्जन्तुभिः क्व भूयते। अहं विद्विषां निगूढतत्त्वं नयवर्त्म येनावेदिषम्, तेन तवानुभावेनानेन भूयते ॥६॥

कोशः- 'स्वरूपं च स्वभावश्च निसर्गश्चाथ वेपथुः' इत्यमरः, विक्लवो विह्वलः स्यात्तु विवशोऽरिष्टदुष्टधीः' इत्यमरः। 'प्राणी तु चेतनो जन्मी जन्तुर्जन्यःशरीरिणः' इत्यमरः। 'अनुभावः प्रभावे च सतां च मतिनिश्चये' इत्यमरः॥६॥

सारार्थः- राज्ञां चरितं सुबुद्धिनाऽपि सम्यग्ज्ञातुं न शक्यते, अतो मादृशेनमन्दमतिना कथं वेत्तुं शक्यते। तथात्वेऽपि मया यत् स्तोकं बहु वा ज्ञातं, तत्केवलं भवतः संसर्गमहिम्नैवेति ॥६॥

भाषार्थः- स्वभावतः नहीं समझने के लायक राजाओं के चरित कहाँ? फिर मेरे सरीखे मन्द समझने वाले आदमी कहाँ ? इन दोनों में बहुत ही अन्तर

१४किरातार्जुनीयम्[प्रथमः

हैं ऐसा होने पर भी मैं आपके विपक्षियों के गूढतत्त्व की राजनीति को समझ सका हूँ, सो केवल आप ही का प्रभाव है ॥६॥

सम्प्रति यद्वक्तव्यं तदाह-
विशङ्कमानो भवतः पराभवं नृपासनस्थोऽपि वनाधिवासिनः।
दुरोदरच्छद्मजितां समीहते नयेन जेतुं जगती सुयोधनः॥७॥

विशङ्कमान इति। सुखेन युध्यते सुयोधनः। 'भाषायां शासियुधिदृशिधृषिभ्यो युज्वाच्यः' नृपासनस्थः सिंहासनस्थोऽपि। वनमधिवसतीति तस्मात् वनाधिवासिनो वनस्थात्। राज्यभ्रष्टादपीत्यर्थः। भवतस्त्वतः पराभवं पराजयं विशङ्कमान उत्प्रेक्षमाणः सन्। दुष्टमुदरमस्येति दुरोदरं द्यूतम्। पृषोदरादित्वात्साधुः। 'दुरोदरो द्यूतकारे पणे द्यूते दुरोदरम्' इत्यमरः। तस्य छद्मना मिषेण लब्धां दुर्नयार्जितां जगतीं महीम्। 'जगती विष्टपे महां वास्तुच्छन्दोविशेषयोः' इति वेजयन्ती। नयेन नीत्या जेतुं वशीकर्तुं समीहते व्याप्रियते। न तुदास्त इत्यर्थः। बलवत्स्वामिकमविशुद्धागमञ्च धनं भुञ्जानस्य कुतो मनसः समाधिरिति भावः। अत्र दुरोदरच्छद्मजिताम् इति विशेषणपदार्थस्य चतुर्थपदार्थं प्रति हेतुत्वेनोपन्यासाद् द्वितीयकाव्यलिङ्गमलङ्कारः। तदुक्तम्— 'हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गमुदाहृतम् ॥७॥

अन्वयः- नृपासनस्थः, अपि वनाधिवासिनः, भवतः, पराभवं, विशङ्कमानः, दुर्योधनः, दुरोदरच्छद्मजितां, जगतीम्, नयेन, जेतुम्, समीहते ॥७॥

सुधा- नृपासनस्थः = राजसिंहासनारूढः, 'सन्' अपि, वनाधिवासिनः = (साम्प्रतम्) विपिने विहरतोऽपि भवतः = त्वतः पराभवं = पराजयम् विशङ्कमानः = मन्यमानः न जाने कदाऽपि पाण्डवाः समागत्यास्माकं समूलघातं कृत्वा राज्यं ग्रहीष्यन्ति एवं शङ्कया सदैव भयभीत इति भावः। सुयोधनः = अक्लेशयोद्धा, चैतन्नामकः धृतराष्ट्रज्येष्ठपुत्रः, दुरोदरच्छद्मजिताम् = द्यूतकपटवशीकृताम्, व्याजाक्षक्रीडयाऽऽत्मसात्कृतामित्यर्थः। जगतीम् = महीम्, नयेन = न्यायेन राज्यधर्मेणेत्यर्थः। जेतुं = वशीकर्त्तुम्, समीहते = सञ्चेष्टते। येन प्रजाजनाः सर्वे तद्वशवर्तिनोऽनुरागिणश्च भवेयुस्तथा यतते इति भावः॥७॥

समासः- नृपत्यासनं नृपासनम् तिष्ठतीति नृपासनस्थः। वनमधिवसतीति वनाधिवासी तस्माद् वनाधिवासिनः। दुरोदरस्य द्यूतस्य छद्म कपटं दुरोदरच्छद्म, तेन

सर्गः १] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । १५

सर्गः १] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । १५

दुरोदरच्छद्मना जिता इति दुरोदरच्छद्मजिता, तां दुरोदरच्छद्मजिताम्। सुखेन युध्यते इति सुयोधनः॥७॥

व्याकरणम्- समीहते = सम् + ईह् + लट् । जेतुम् = जि + तुमुन् ॥७॥

वाच्यान्तरम्- नृपासनस्थेनापि वनाधिवासिनो भवतः पराभवं विशङ्कमानेन सुयोधनेन दुरोदरच्छद्मजिता जगती नयेन जेतुं समीहते ॥७॥

कोषः- 'पराभवः परिभवः परिभूतः पराजयः' इति कोषः। 'अटव्यरण्यं विपिनं गहनं काननं वनम्' इत्यमरः। 'दुरोदरे द्यूतकारे पणे द्यूते दुरोदरम्' इत्यमरः। 'त्रिष्वथो जगती लोको विष्टपं भुवनं जगत्' इत्यमरः। कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे' इत्यमरः। 'ओपः प्लोषे नयो न्याये' इत्यमरः॥७॥

सारार्थः- राजासिंहासनारूढः सन् वनवासिनोऽपि भवतः सततं पराभवं मन्यमानो विक्रमेण भवन्तं जेतुमसम्भवं जानन् न्यायेन राष्ट्रं पालयन् स्वपक्षवर्ति कर्तुमीहते ॥७॥

भाषार्थ- राजसिंहासन पर बैठा हुआ दुर्योधन, वन में घूमते हुए भी आप लोगों से अनिष्ट की शङ्का करता हुआ कपट-पाश से जीती हुई पृथ्वी को राजनीति से अपने वश में करना चाहता है ॥७॥

'नयेन जेतुं जगतीं समीहते' इत्युक्तम् । तत्प्रकारमाह—

तथाऽपि जिह्मः स भवज्जिगीषया तनोति शुभ्रं गुणसम्पदा यशः। समुन्नयन् भूतिमनार्यसङ्गमाद्वरं विरोधोऽपि समं महात्मभिः॥८॥

तथाऽपीति । तथाऽपि साशङ्कोऽपि । जिह्मः वक्रः। वञ्चक इति यावत् । स दुर्योधनो भवज्जिगीषया। गुणैर्भवन्तमाक्रमितुमिच्छयेत्यर्थः। 'हेतौ' इति तृतीया । गुणसम्पदा दानदाक्षिण्यादिगुणगरिम्णा करणेन । शुभ्रं यशस्तनोति । स खल्वेवमुपलोभनीयां त्वत्सम्पदमात्मसात्कर्तुं त्यक्तोऽपि गुणाक्ततामात्मनः प्रकटयतीत्यर्थः। नन्वेवं गुणिनः सतोऽपि सज्जनविरोधी महानस्त्यस्य दोष इत्याशङ्क्य सोऽपि सत्संसर्गाल्लाभे नीचसङ्गमाद्वरमुत्कर्षावहत्वादित्याह—समिति तथा हि भूतिं समुन्नयन्नुत्कर्षमापादयन्। 'लटः शतृशानचौ—' इत्यादिना शतृप्रत्ययः। पुनर्सङ्ग्रहणः सामर्थ्यात्तथावासत्सामान्याधिकरण्यम् । महात्मभिः समम् । सहेत्यर्थः। 'सार्कं सत्रा समं सह' इत्यमरः। अनार्यसङ्गमाद् दुर्जनसंसर्गात् । 'पञ्चमी विभक्ते' इति पञ्चमी । विरोधोऽपि वरं

१६ किरातार्जुनीयम् [प्रथमः

मनाक्प्रियः 'दैवाद् वृते वरः श्रेष्ठे त्रिषु क्लीवं मनाक्प्रिये' इत्यमरः। अत्र मैत्र्यपेक्षया मनाक्प्रियत्वं विरोधम्य ‘भूतिं समुन्नयन्' इत्यस्य पूर्ववाक्यान्वये समाप्तस्य वाक्यार्थस्य पुनरादानात्समाप्तपुनरात्ताख्यानदोषापत्तिः। तदुक्तं काव्यप्रकाशे---'समाप्तपुन- रुपादानात्समाप्तपुनरात्तकम्' इति। न च वाक्यान्तरमेतत्, येनोक्तदोषपरिहारः स्यात्। अर्थान्तरन्यासालङ्कारः। स च भूतिसमुन्नयनस्य पदार्थविशेषणद्वारा विरोधित्वं प्रति हेतुत्वाभिधानरूपकाव्यलिङ्गाऽनुप्राणित इति ॥८॥

अन्वयः- तथाऽपि, जिह्मः, भवज्जिगीषया, गुणसम्पदा शुभ्रं, यशः, तनोति। भूतिम्, समुन्नयन्, अनार्यसङ्गमात्, महात्मभिः समम्, विरोधः, अपि, वरम् ॥८॥

सुधा- तथापि = तादृशचेष्टावानपि, साशङ्कोऽपीत्यर्थः। जिह्मः = वक्रः, कपटकुशलः। सः = दुर्योधनः भवज्जिगीषया = भवन्तं जेतुमिच्छया, केनापि विधिना धर्मराजो युधिष्ठिरो जेतव्यस्तत्र यतोऽसौ महान्, धर्मतत्परः अतो न हि धर्माचरणमन्तरेण जेतुं शक्यः, 'यतो धर्मस्ततो जय' इत्युक्तत्वात्। अत एव भवतोऽप्यधिकं प्रजासु दानदाक्षिण्यादिभिः, गुणसम्पदा, शुभ्रम् = निर्मलम्, यशः = कीर्तिम्, तनोति = विस्तारयति। कुत एव तदाह—भूतिम् = विभूतिम् = ऐश्वर्यं वा, राजलक्ष्मीमित्यर्थः। समुन्नयन् = सवर्द्धयन् सन्, अनार्यसङ्गमात् = नीचजनसंसर्गात्, महात्मभिः = महानुभावैः, भवादृशैरित्यर्थः। समं = सह, विरोधः = विग्रहः, अपि, वरम् = ईषत्प्रियम्। यदि नीचसम्पर्केण तथा च महतो विरोधेनापि श्रियो वृद्धिस्तर्हि तदापि कर्तव्यमेवेति राजनीतिः॥८॥

समासः- जेतुमिच्छा जिगीषा, भवतो जिगीषा भवज्जिगीषा, तया भवज्जिगीषया। गुणानां सम्पद् गुणसम्पत् तथा गुणसम्पदा। न आर्यः, अनार्य, अनार्यस्य सङ्गमः अनार्यसङ्गमस्तस्मात्। महान् आत्मा यस्यासौ महात्मा, तैर्महात्मभिः॥८॥

**व्याकरणम्-**तनोति = तनु + लट्। समुन्नयन् = सम् + उत् + नी शतृ ॥८॥

वाच्यान्तरम्- तथापि जिह्मेन तेन भवज्जिगीषया गुणसम्पदा शुभ्रं यशः तन्यते। भूमिं समुन्नयता, अनार्यसङ्गमान्महात्मभिर्विरोधेनापि वरेण भूयते ॥८॥

कोषः- जिह्मस्तु कुटिलेऽलसे' इत्यमरः। 'शुक्लशुभ्रशुचिस्वेतविशदश्वेत- पाण्डुराः' इत्यमरः। 'यशः कीर्तिः समज्ञा च' इत्यमरः। विभूतिर्भूतिरैश्वर्यमणिमादिकमष्टधा'

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । १७

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । १७

इत्यमरः। 'नीचोऽनार्योऽकुलीनोऽपि शठो दुष्टः' इत्यमरः। संसर्गः सङ्गमः सम्पर्क इति प्रोच्यते सम' इति। 'देवाद्वृते वरः श्रेष्ठे क्लीबे मनाक् प्रिये' इत्यमरः। 'विरोधो विग्रहो मतः' इतिः कोषः॥८॥

सारांशः— यथा प्रजा भवतोऽपि तमुच्चदृष्ट्या पश्येतया प्रणिपातपूर्वकमधुना सर्वथा राज्यं दुर्योधनः पालयति । येन भवतः शासनविधिं स्मृत्वा भवद्वियोगेन विमनाः प्रजा न स्यात्, एवम्भूतोऽपि कृत्रिमसाधुः स भवतः सकाशाद्विशेषमेवेच्छति न हि साम्प्रतमपि दुःशासनादिदुर्जनसंसर्गं त्यजति । यतोऽसौ प्रकृत्या खलः। साधुताऽपि तस्य स्वार्थसाधनिकैव । तथा हि—नीचसङ्गात् महात्मभिर्भवत् दृशैः सह विरोधमपि वरमेव मनुते ॥८॥

भावार्थः— तो भी (हर समय चौकन्ना रहता हुआ भी) कपटी वह दुर्योधन आप से बढ़ने के ख्याल से देखौआ गुणों से अभी बेदाग (निर्मल) यश फैलाता है । क्योंकि ऐश्वर्य को बढ़ाते हुए आदमी के लिए नीचों के सङ्ग की अपेक्षा महान् जन से विरोध करना भी कुछ अच्छा ही है ।

ननु 'कातर्यं केवलाः नीतिः' इत्याशङ्क्य नीतियुक्तं पौरुषमस्त्येवेत्याह—

कृतारिषड्वर्गजयेन मानवीमगम्यरूप्रां पदवीं प्रपित्सुना ।
विभज्य नक्तन्दिवमस्ततन्द्रिणा वितन्यते तेन नयेन पौरुषम् ॥९॥

कृतेति । षण्णां वर्गः षड्वर्गः। अरीणामन्तः शत्रूणां कामक्रोधादीनां षड्वर्गोऽरिषड्वर्गः। शिवभागवतवत्समासः। तस्य जयः कृतोयेन तेन तथोक्तेन । विनीतेनेत्यर्थः। विनीताधिकारं प्रजापालनमिति भावः। अगम्यरूप्रां पुरुषमात्रदुष्प्रापाम् । मनोरिमां मानवीम् । मनूपदिष्टसदाचारक्षुण्णामित्यर्थः। पदवीं प्रजापालनपद्धतिं प्रपित्सुना प्रपत्तुमिच्छुना । प्रपद्यतेः सन्नन्तादप्रत्ययः 'सनिमीमा—' इत्यादिना सादेशः। 'अत्र लोपोऽभ्यासस्य' इत्यभ्यासस्य । अस्ता तन्द्रिरलस्यं यस्य तेनास्ततन्द्रिणा। अनलसेनेत्यर्थः। तदिः सौत्रो धातुः। तस्मात् 'कङ्कटादयश्च' इत्यौणादिकः क्रिन्नत्ययः 'कृदिकारदक्तिनो वा ङीष् वक्तव्यः' इति । 'चण्डीपतीतण्डीन्द्रौ' इति ङीबन्तोऽपि इति क्षीरस्वामी । तथा रामायणे प्रयोगः—निस्तन्द्रिरप्रमत्तश्च स्वदोषपरदोषवित् इति । तेन दुर्योधनेन । पुरुषस्य कर्म पौरुषं पुरुषकारः उद्योग इति यावत् । युवादिस्त्वादण्प्रत्ययः। पौरुषं पुरुषस्योक्ते भावे कर्मणि तेजसि' इति विश्वः। नक्तं

१८ किरातार्जुनीयम् [प्रथमः

च दिवा च नक्तन्दिवम् । अहोरात्रयोरित्यर्थः। ‘अचतुर-’ इत्यादिना सप्तम्यर्थवृत्त्यो- रव्ययोर्द्वन्द्वनिपातेऽच्समासान्तः। विभज्यास्यां वेलायामिदं कर्मेति विभागं कृत्वा नयेन नीत्या वितन्यते विस्तार्यते ॥९॥

अन्वयः- कृतारिषड्वर्गजयेन, अगम्यरूपाम्, मानवीम्, पदवीम्, प्रपित्सुना, अस्ततन्द्रिणा, तेन, नक्तन्दिवं, विभज्य, नयेन, पौरुषम्, वितन्यते ॥९॥

सुधा- कृतारिषड्वर्गजयेन = वशीकृतकामक्रोधादिषड्वैरिणा, अगम्यरूपाम् = दुर्विज्ञेयाम्, दुर्बोधैः साधारणजनैरिति शेषः। मानवीम्— मनुसम्बन्धिनीम् = मनुप्रोक्ताम्, कथं राज्ञा प्रजा पालनीयेति मनुस्मृत्युदितामिति भावः। पदवीम् = प्रजापालनपद्धतिम्, प्रपित्सुना=प्राप्तुमिच्छुना, ‘दुर्योधनस्तु यथार्थमनूपदिष्टप्रजापालनपद्धत्या प्रजाः पालयति, अयमपि धर्मात्मा राजा । नायं युधिष्ठिरान्न्यूनः। स्वबन्धुभ्यः पाण्डवेभ्यो यद्विरोधं विदधाति, तदिह संसारे केन न क्रियते स्वोन्नत्यै? अतो नायं कुनृपतिः। अयमेव चेदस्माकं सर्वदा पालकः स्यात्तथाऽपि न कोऽपि क्षतिलेशः’ इति यथा प्रजासु ख्यातिं प्राप्नोति, तथा तेनाचर्यते इत्यर्थः। अस्त तन्द्रिणा=निरलसेन, सदा दक्षेणेत्यर्थः। तेन=दुर्योधनेन, नक्तन्दिवम्=अहोरात्रम्, विभज्य=विभागं कृत्वा, ‘अस्मिन् समये इदं कर्म कर्तव्यमिदं न कर्तव्यम्’ एवं समयविभागं विधायेत्यर्थः। पौरुषम्=पौरुषाचरणं नयेन=न्यायेन, न तु स्वार्थान्धधिया अपि तु नीतिशास्त्रानुसारेणेत्यर्थः। वितन्यते= विस्तार्यते॥९॥

**समासः-**षण्णां वर्ग षड्वर्गः अरीणां षड्वर्गोऽरिषड्वर्गः। कृतः अरिषड्वर्गस्य जयो येन सः तेन कृतारिषड्वर्गजयेन । न गम्यं रूप यस्याः साऽगम्यरूपा, ताम् आगम्यरूपाम् । मनोरियं मानवी ताम् मानवीम्। अस्ता तन्द्रिर्यस्य येन वा सः अस्ततन्द्रिः। तेनास्ततन्द्रिणा । पुरुषस्येदं पौरुषम् ॥९॥

**व्याकरणम्-**विभज्य=वि + भज् + क्त्वा +ल्यप् । वितन्यते = वि + तनु + य +त + कर्मणि लट् ॥९॥

वाच्यान्तरम्- कृतारिषड्वर्गजयः अगम्यरूपां मानवीं पदवीं प्रपित्सुः अस्ततन्द्रिः सः (दुर्योधनः) नक्तन्दिवं विभज्य नयेन पौरुषं वितनोति ॥९॥

कोषः-‘रिपौ वैरियसत्नारिद्विषद्वेषणदुर्हृदः' इत्यमरः। 'वृन्दभेदाः समैर्वर्ग सत्सार्थी तु जन्तुभिः' इत्यमरः। 'विजयो जयः' इत्यमरः। 'अयनं वर्त्ममार्गाध्वपन्थानः

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । १९

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । १९

पदवी सृतिः। सरणिः पद्धतिः पद्या वर्तन्येकपदीति च' इत्यमरः। 'नयो न्याये' इत्यमरः। 'पुम्भावे तत्क्रियायां च पौरुषम्' इत्यमरः। 'स्यान्निद्रा शयनं स्वापः स्वप्नः संदेश इत्यादि'। 'तन्द्री प्रमीला' इत्यमरः॥९॥

सारार्थः—कामक्रोधादिषड्रिपून् विवेकेन जित्वा, मनूपदिष्टप्रजापालनवि- धिप्रचारलब्धयशो लब्धुमिच्छुः, अस्मिन् समये यदस्मिंश्च समये इदं कर्मावश्यं कर्तव्यमेवं वेलाविभागं विधायालस्यरहितः सन् स्वकर्तव्यं प्रजासु प्रदर्शयति सव्याजस्वभावसौष्ठवं गोपायतीति ॥९॥

भाषार्थः—किया है काम, क्रोध, मोह, लोभ आदि शत्रुओं का जय जिसने, ऐसे और अत्यन्त कठिन, मनुस्मृति के अनुसार मार्ग (प्रजापालन-क्रम) को पाने की इच्छा करने वाले और दूर है आलस्य जिससे, ऐसे दुर्योधन ने दिन- रात्रि का ठीक विभाग (अभी यह काम करना चाहिए, उस वक्त यह करूँगा, ऐसे समय बाँट) कर न्याय (नीति) से अपने कर्तव्य को पूरा करता है ॥९॥

सम्प्रति भृत्यानुरागमाह- सखीनिव प्रीतियुजोऽनुजीविनः समानमानान् सुहृदश्च बन्धुभिः। न सन्ततं दर्शयते गतस्मयः कृताधिपत्यामिव साधु बन्धुताम् ॥१०॥

सखीनिवेति। गतस्मयो निरहङ्कारोऽत एव स दुर्योधनः सन्ततमनारतं साधु सम्यक् । अकपटमित्यर्थः। अनुजीविनो भृत्यान्। प्रीतियुजः स्निग्धान्सखीनिव मित्राणीव। दर्शयते । लोकस्येति शेषः। 'हेतुमति च' इति णिच् । 'णिचश्च' इत्यात्मनेपदम् । शोभनं हृदयं येषां तान्सुहृदो मित्राणि च। 'सुहृद्दुर्हृदौ मित्रामित्रयोः' इति निपातः। बन्धुभिर्भ्रात्रादिभिः समानमानांस्तुल्यसत्कारान् दर्शयते । बन्धूनां समूहो बन्धुता ताम्। 'ग्रामजनबन्धुसहायेभ्यस्तल्' कृतमाधिपत्यं स्वाम्यं यस्यास्तां कृताधिपत्यामिव दर्शयते । बन्धूनधिपतीनिव दर्शयतीत्यर्थः। यथा भृत्यादिषु सख्यादिबुद्धिर्जायते लोकस्य तथा तान्सम्भावयतीत्यर्थः। अनुजीव्यादीनाम् 'कर्तुरीप्सिततमं कर्म' इति कर्मत्वम्। पूर्वे त्वस्मिन्नेव पदान्वये वाक्यार्थमित्थं वर्णयन्ति-स राजाऽनुजीव्यादीनिव दर्शयते। सख्यादय इव ते तु तं पश्यन्ति । साख्यादिभावेन पश्यतस्तांस्तथा दर्शयते । स्वयमेव छन्दानुवर्तितया स्वदर्शनं तेभ्यः प्रयच्छतीत्यर्थः। अर्थात्तस्येप्सि- तकर्मत्वम् । अणि कर्तुरनुजीव्यादेः 'अभिवादिवृशोरारमनेपदे वेति वाच्यम्' इति

२०किरातार्जुनीयम्[प्रथमः

पक्षिकं कर्मत्त्वम्। एवं चात्राण्यन्तकर्मणो राज्ञो ण्यन्ते कर्तृत्वेऽपि 'आरोहयते हस्ती स्वयमेव' इत्यादिवदश्रूयमाणकर्मान्तरत्वाभावान्नायं णेरणादिसूत्रस्य विषय इति मत्वा 'णिचश्च' इत्यात्मनेपदं प्रतिपेदिरे। भाष्ये तु णेरणादिसूत्रविषयत्वमप्यस्योक्तम्। यथाऽऽह—'पश्यन्ति भृत्या राजानम्' 'दर्शयते भृत्यान् राजा', 'दर्शयते भृत्यै राजा', अत्रात्मनेपदं सिद्धं भवति' इति। अत्राह कैयटः-ननु कर्मान्तरसद्भावादात्मनेपदेन भाव्यम्। उच्यते-अस्मादेवोदाहरणाद्भाष्यकारस्यायमेवाभिप्राय उद्यते। अण्यन्तावस्थायां ये कर्तुकर्मणी तद्व्यतिरिक्तकर्मान्तरसद्भावादात्मनेपदं न भवति। यथा—'स्थलमारोहयति मनुष्यान्' इति। इह त्वण्यन्तावस्थायां कर्तॄणां भृत्यानां णौ कर्मत्वमिति भवत्येवात्मनेपदमिति ॥१०॥

अन्वयः—गतस्मयः, सः, सन्ततम्, अनुजीविनः, प्रीतियुजः, सखीन्, इव सुहृदः च, बन्धुभिः, समानमानान्, बन्धुतां, कृताधिपत्याम्, इव, साधु, दर्शयते ॥१०॥

सुधा—गतस्मयः + अपगतगौरवः, नम्रः सन् इत्यर्थः। सः=पूर्वोक्तो दुर्योधनः। सन्ततम् = सततम्, सर्वदेत्यर्थः। अनुजीविनः=अनुचरान्, किङ्करानित्यर्थः। प्रीतियुजः=स्नेहसमन्वितान्, प्रेमपूरितानित्यर्थः। सखीन् = मित्राणि, इव, (साधु=सम्यक्, दर्शयते इति सर्वत्र कर्मान्ते योजनीयम्)। अहो यदि मित्रवद् भृत्यगणं सः पश्यति, तदा मित्रगणं कया दृष्ट्या विलोकयतीत्याह-सुहृदः= मित्राणि, च = तु, बन्धुभिः= भ्रातृप्रभृतिनिजपरिवारैः, समानमानान् = समसत्कारान्, यथा स्वस- हजेषु भावस्तथैव कर्णप्रभृतिमित्रेष्विति भावः। अथाहो बन्धुवद्यदि मित्रमवलोकयति तदा बन्धुगणं किमिव पश्यति स इत्याह— बन्धुताम् = बान्धववृन्दम्, बन्धूनां समूहो बन्धुता, तां, बन्धुताम्, तां, बन्धुताम्, कृताधिपत्याम् = विहित सर्वाधिकाराम् इव, साधु = निर्व्याजम्, दर्शयते = बोधयते ॥१०॥

समासः—गतः स्मयो यस्य स गतस्मयः। प्रीत्या युञ्जन्ति ये ते प्रीतियुजः, तान् प्रीतियुजः। अनु पश्चात् (धावनेन) जीवनं येषां तेऽनुजीविनः, तान् अनुजीविनः। समानः मानो येषां ते समानमानाः, तान् समानमानान्। बन्धूनां समूहो बन्धुता, तां बन्धुताम्। अधिपतेः कर्म आधिपत्यम्, कृतमाधिपत्यं यया, तां कृताधिपत्याम् ॥१०॥

व्याकरणम्— दर्शयते = दृश् + णिच् + लट् ॥१०॥

वाच्यान्तरम्— गतस्मयेन तेन, अनुजीवितः (प्र०) प्रीतियुजः (प्र०) सखाय