भारतकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

१२६ | किरातार्जुनीयम् | [ द्वितीयः

भाषार्थः— स्वच्छन्द पशु-पक्षियों को भी अपने मीठे अवलोकन से शान्त करते हुए और पापों को नाश करने वाले, चमकदार तथा दर्शनीय तेज को धारण किये हुए व्यास युधिष्ठिर के यहाँ उपस्थित हुए ॥ ५५ ॥

सहसोपगतः सविस्मयं तपसां सूतिरसूतिरापदाम्।
ददृशे जगतीभुजा मुनिः स वपुष्मानिव पुण्यसञ्चयः ॥ ५६ ॥

सहसेति । पुनः सहसोपगतोऽकस्मादागतस्तपसां सूतिः प्रभव आपदामसूतिरप्रभवः । निवर्तकः इति यावत् । स मुनिर्व्यासो वपुष्मान्देहधारी पुण्यसञ्चयः पुण्य-राशिरिवेत्युत्प्रेक्षा । जगतीभुजा राज्ञा सविस्मयं ददृशे दृष्टः ॥ ५६ ॥

अन्वयः— सहसा, उपगतः, तपसां सूतिः, आपदां, असूतिः, सः, मुनिः, वपुष्मान्, पुण्यसञ्चयः इव, जगतीभुजा, सविस्मयं ददृशे ॥ ५६ ॥

सुधा— सहसा = अकस्मात्, उपगतः = प्राप्तः, समागत इत्यर्थः । तपसां = तपश्चरणस्य, सूतिः = जनकः, आपदां = दुःखानाम्, असूतिः = अनुत्पादकः, विनाशक इत्यर्थः । सः = एवम्भूतः, मुनिः = योगी, व्यास इति शेषः । वपुष्मान् = देहवान्, पुण्यसञ्चयः = सुकृतराशिः, इव, जगतीभुजा = राज्ञा, युधिष्ठिरेणेति भावः, सविस्मयं = साश्चर्यं सचकितमित्यर्थः । अहो धन्या वयं, यदस्मिन्दुःखसमरे दुःस्तौघध्वंसकस्य व्यासस्य दर्शनमभवत् कवेदृशो धर्म आसीत् येन ममेदृक् सौभाग्यमुपस्थितं, लौकिकी गाथाऽपि सत्यैव 'एति जीवन्तमानन्दो नर वर्षशतादपि' वा० रा० एवं सबहुचकितं, ददृशे = दृष्टः ॥ ५६ ॥

समासः— विस्मयेन सह यथा स्यात्तथेति क्रियाविशेषणम् । जगतीं भुनक्तीति जगतीभुक् तेन जगतीभुजा । पुण्यानां सञ्चयः पुण्यसञ्चयः ॥ ५६ ॥

व्याकरणम्— ददृशे = दृशेः कर्मणि लिट् ॥ ५६ ॥

वाच्यान्तरम्— जगतीभुक्, सहसोपगतं तपसां सूतिम्, आपदामसूतिम्, मुनिम्, वपुष्मन्तं पुण्यसञ्चयमिव ददर्श ॥ ५६ ॥

कोषः— 'अतर्किते तु सहसा' इत्यमरः । 'विस्मयोऽद्भुतमाश्चर्यं चित्रमंवे' इत्यमरः । 'तपः कृच्छ्रादिकर्म च' इत्यमरः । 'स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृष' इत्यमरः ॥ ५६ ॥

सारार्थः— यदा भीमं प्रति युधिष्ठिर उपदेशं ददाति स्म, तदानीमकस्मादपरिमेयपुण्यपुञ्जस्तपःप्रचारको व्यासस्तत्रोपस्थितो बभूव ॥ ५६ ॥

भाषार्थः— एकाएक (अचानक) पहुँचे हुए, तपस्याओं को पैदा करने वाले, विपत्तियों का संहार करनेवाले, देहधारी पुण्य के ढेर के जैसे महात्मा व्यास मुनि को बड़े अचरज के साथ महाराज युधिष्ठिर ने देखा ॥ ५६ ॥

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । १२७

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । १२७

अथोच्चकैरासनतः परार्ध्यादुद्यन् स धूतारुणवल्कलाग्रः ।
रराज कीर्णाकपिशांशुजालः शृङ्गात्सुमेरोरिव तिग्मरश्मिः ॥५७॥

अथेति । अथ दर्शनानन्तरम् । उच्चकैरुन्नतात्परार्ध्याच्छ्रेष्ठात् । ‘अर्ध्याद्यत्’ । ‘परावरार्धमोत्तमपूर्वाच्च’ इति यत्प्रत्ययः । आसनतः सिंहाशनादुद्यन्नुत्तिष्ठन्नत एव धूतानि कम्पितान्यरुणानि वल्कलाग्राणि यस्य स तथोक्तः । स नृपः कीर्णं विस्तृतमाकपिशमंशुजालं यस्य स तथोक्तः सुमेरोः शृङ्गादुद्यंस्तिग्मरश्मिरिव रराज ॥ ५७ ॥

**अन्वयः—**अथ उच्चकैः, परार्ध्याद्, आसनतः, उद्यन्, धूतारुणवल्कलाग्रः, सः, कीर्णाकपिशांशुजालः सुमेरोः शृङ्गाद् उद्यन् तिग्मरश्मिरिव रराज ॥ ५७ ॥

**सुधा—**परार्ध्यात् = महामूल्यवत इत्यर्थः । आसनतः = पीठात्, सिंहासनादित्यर्थः । उद्यन् = उत्तिष्ठन्, अकस्मादागतं व्यासं विलोक्य ससम्भ्रमं सिंहासनादुत्थित इत्यर्थः । अत एव, धूतारुणवल्कलाग्रः = कम्पितरक्तवृक्षत्वक्प्रान्तः, सः = युधिष्ठिरः, सुमेरोः = सुवर्णाद्रेः, शृङ्गाद् = शिखराट्, उद्यन्, अत एव कीर्णाकपिशांशुजालः = व्याप्तपीतवर्णकिरणनिकरः, तिग्मरश्मिः = सूर्यः, इव, रराज = शुशुभे । अत्रेतः पूर्ववृत्तान्तस्य दुःखरूपत्वाद्, अतः परं सम्भ्युदयलाभसम्भवाद् भिन्नेन पद्येन कविर्वर्णयति । इदं वंशस्थवृत्तम् । तल्लक्षणञ्च ‘जतौ तु वंशस्थमुदीरितं जरौ’ इति ॥

**समासः—**वल्कलस्याग्राणि वल्कलाग्राणि, अरुणानि वल्कलाग्राणि, इत्यरुणवल्कलाग्राणि, धूतान्यरुणवल्कलाग्राणि यस्य स धूतारुणवल्कलाग्रः । अंशुनां जालम् अंशुजालम्, आसमन्ताद्भावेन कपिशं पीतमंशुजालमिति आकपिशांशुजालं, कीर्णे आकपिशांशुजालं यस्य स कीर्णाकपिशांशुजालः । तिग्मा रश्मयो यस्य स तिग्मरश्मिः ॥ ५७ ॥

**व्याकरणम्—**उद्यन् = उद् + इण् + शतृ । रराज = राज् + लिट् ॥ ५७ ॥

**वाच्यान्तरम्—**अथ उच्चकैः परार्ध्यादासनात् उद्यता, धूतारुणवल्कलाग्रेण तेन सुमेरोः शृङ्गादुद्यता कीर्णाकपिशांशुजालेन तिग्मरश्मिनेव रेजे ॥ ५७ ॥

कोषः—‘पीठमासनम्’ इत्यमरः । ‘मुख्यवर्येवरेण्याश्च प्रवर्होऽनवराध्यवत् । परार्ध्याग्रप्रामहरप्राग्रयाग्रयीयमग्रियम्’ इत्यमरः । ‘वल्कद्रुत्वगित्युकम्’ इति कोषः । ‘कदारः कपिलः पिङ्गपिशङ्गी कद्रुपिङ्गलौ’ इत्यमरः ॥ ५७ ॥

**सारार्थः—**यथा सुमेरोः शृङ्गादुदितः सूर्यो भाति, तथैवासनादुत्थितो युधिष्ठिरः शुशुभे ॥ ५७ ॥

भाषार्थः व्यासजी को देखने के बाद झट ऊँचे अच्छे आसन पर से उठे हुए, इसीसे डोलता हुआ लाल पेड़ की छाल के वस्त्र का किनारा है जिसका, ऐसे युधिष्ठिर उस समय सुमेरु के शिखर से उदय हुए, पीली किरण समूहों से दिगन्त को ढाँकते हुए सूर्य के समान शोभित हुए ॥ ५७ ॥

१२८ किरातार्जुनीयम् । [द्वितीयः

अवहितहृदयो विधाय सोऽर्हामृषिवदृषिवरे गुरूपदिष्टाम्।
तदनुमतमलञ्चकार पश्चात् प्रशम इव श्रुतमासनं नरेन्द्रः॥ ५८॥

अवहितेति। स नरेन्द्रोऽवहितहृदयोऽप्रमत्तचित्तः सन्। ऋषिवरे मुनिश्रेष्ठे। ऋषिवदृष्यार्हाम्। अर्हार्थे वतिप्रत्ययः। गुरूपदिष्टाम्। शास्त्रीयामित्यर्थः। अर्हा पूजां। 'गुरोश्च हलः' इत्यकारप्रत्ययः। विधाय पश्चादनन्तरं तदनुमतं तेनानुज्ञातमासनम्। प्रशमः शान्तिः श्रुतं शास्त्रश्रवणमिव। अलञ्चकार। उक्तं च—'प्रशमस्तस्य भवत्यलङ्क्रिया' इति। मुन्याज्ञयोपविष्टवानित्यर्थः ॥ ५८॥

अन्वयः—सः, नरेन्द्रः, अवहितहृदयः, (सन् ), ऋषिवरे, ऋषिवद्, गुरूपदिष्टाम्, अर्हा विधाय, पश्चात्, तदनुमतम्, आसनम्, प्रशमः, श्रुतम्, इव, अलञ्चकार।

सुधासः = युधिष्ठिरः, नरेन्द्रः = राजा, अवहितहृदयः = सावधानचित्तः सन्, ऋषिवरे = योगिश्रेष्ठे, मुनिवरे, व्यास इत्यर्थः। ऋषिवद् = ऋषियोग्यां, गुरूपदिष्टां = गुरुपदेशानुसारां, शास्त्रविहितामित्यर्थः। यथा (पाद्यं, मधुपर्कः, आचमनीयं, स्नानीयं, भोज्यं, पुनराचमनीयं, शयनं चेत्यादि, सर्वविधरूपाम्) अर्हाम् = पूजां, विधाय = कृत्वा, पश्चात् = पूजाऽनन्तरं, सुस्थे मुनौ, तदनुमतं = तदनुज्ञातं, व्यासेन निर्दिष्टम्, आसनम् = पीठम्, प्रशमः = शान्तिः, श्रुतं = शास्त्रश्रवणम्, इव, अलञ्चकार = परिगृहीतवान्, व्यासपूजां कृत्वा तदाज्ञया स्वयमप्युपविष्ट इत्यर्थः ॥ ५८ ॥

पद्यपरिचयः—इदं 'पुष्पिताग्रा' नाम वृत्तम्। इदमर्धसमम, अथाधं समं यस्य तत्, तथाहि = प्रथमपादलक्षणं तृतीयपादलक्षणेन समम्। द्वितीयपादलक्षणं तु चतुर्थेन सममिति भावः। ततस्तल्लक्षणञ्च 'अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा' इति। अस्यायामाशयः—विषमे प्रथमतृतीयचरणे, नगणनगणरगणयगणा भवन्ति, समे च चरणेऽर्थात् द्वितीयचतुर्थपादयोः नगणजगणजगणरगणा एको गुरुश्चैते यत्र पद्यार्धे; तत्पुष्पिताग्रा नाम वृत्तम्। प्रकृतौ यथा—

। । ।। । ।ऽ । ऽ। ऽ ऽ। । ।। ऽ ।। ऽ ।ऽ । ऽ
अ व हित हृ दयो वि धाय सो ऽर्हामृ षि वदृ षि प्रव रे गुरू प दिष्टाम्
। । ।। । ।ऽ । ऽ। ऽ ऽ। । ।। ऽ ।। ऽ ।ऽ । ऽ
त द नुम त मल ञ्च कार प श्चात्प्र श मइ व श्रुत मा सनं न रेन्द्रः

समासः—अवहितं हृदयं यस्य सः अवहितहृदयः। ऋषिषु प्रवरः ऋषिवरः तस्मिन् ऋषिवरे। गुरुणोपदिष्टा या सा तां गुरूपदिष्टाम् ॥ ५८ ॥

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । १२६

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । १२६

व्याकरणम्--विधाय = वि + धा + क्त्वा + ल्यप् । अलञ्चकार = अलं + कृ + लिट् ॥ ५८ ॥

वाच्यान्तरम्--तेन नरेन्द्रेणावहितहृदयेन सता, ऋषिप्रवरे ऋषिवदर्हा विधाय तदनुमतमासनं प्रशमेन श्रुतमिवालञ्चक्रे ॥ ५८ ॥

कोषः--‘चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मन’ इत्यमरः । ‘पूजा नमस्याऽपचितिः सपर्याऽर्चाऽर्हणाः समाः’ इत्यमरः । ‘श्रुतं शास्त्रावधृतयोः’ इत्यमरः ॥ ५८ ॥

सारार्थः--व्यासं समागतं विलोक्यासनादुत्थाय मन्वादिस्मृतिप्रोक्तगुरुजनोचितसत्कारेण तं सन्तोष्य स्वयमपि युधिष्ठिरस्तेनानुज्ञातः ( स्वमप्यासन उपविश एवम् ) आसने उपविवेश ॥ ५८ ॥

भाषार्थः--वह महाराज युधिष्ठिर स्थिरचित्त होकर, ऋषिमुनियों की जैसी होनी चाहिए वैसी गुरुजनों के मुख से निकली हुई, व्यास की पूजा ( अर्घ्य, पाद्य, आसन, भोजन इत्यादि ) करके उन्हीं की आज्ञा से आसन पर बैठे ॥ ५८ ॥

व्यक्तोदितस्मितमयूखविभासितोष्ठस्तिष्ठन्मुनेरभिमुखं स विकीर्णधाम्नः । तन्वन्तमिद्धमभितो गुरुमंशुजालं लक्ष्मीमुवाह सकलस्य शशाङ्कमूर्तेः ॥ इति भारविकृतौ महाकाव्ये किरातार्जुनीये द्वितीयः सर्गः॥ २ ॥

व्यक्तेति । व्यक्तोदितैः स्फुटोद्गतैः स्मितमयूखैर्विभासितावोष्ठौ यस्य स तथोक्तः । विकीर्णधाम्नो विस्तीर्णतेजसो मुनेरभिमुखं तिष्ठन् स नृपः । इद्धं दीप्तमंशुजालं तन्वन्तं गुरुं गीष्पतिम् ; ‘गुरुर्गीष्पतिपित्रादौ’ इत्यमरः । ‘अभितः परितः-’ इत्यादिना द्वितीया । अभितोऽभिमुखम् । तिष्ठत इति शेषः । सकलस्य सम्पूर्णस्य शशाङ्को मूर्तिर्यस्य तस्येन्दोर्लक्ष्मीमुवाह वहतिस्म । अत्रोपमेयस्य राज्ञ उपमानेन्दुधर्मेण लक्ष्म्याः साक्षात्सम्बन्धासम्भवात्तत्सदृशीं लक्ष्मीमिवेति प्रतिबिम्बकरणक्षेपादसम्भवद्वस्तुसम्बन्धारूढार्थवृत्तिर्निदर्शनालङ्कारः । तदुक्तम्—‘प्रतिबिम्बस्याकरणं सम्भवता यत्र योगेन । तत्साम्यं सम्भवता निदर्शना सा द्विधाऽभिमता ॥’ इति ॥ इति मल्लिनाथसूरिविरचितायां घण्टापथव्याख्यायां द्वितीयः सर्गः ॥

अन्वयः—व्यक्तोदितस्मितमयूखविभासितोष्ठः, विकीर्णधाम्नः, मुनेः, अभिमुखं, तिष्ठन् सः, इद्धम्, अंशुजालं, तन्वन्तं, गुरुम्, अभितः, सकलस्य, शशाङ्कमूर्तेः, लक्ष्मीम्, उवाह ॥ ५९ ॥

सुधा—व्यक्तोदितस्मितमयूखविभासितोष्ठः = स्पष्टनिर्गतमन्दहास्यहेतुकदन्तपङ्क्तिकिरणशोभितदशनच्छदः, विकीर्णधाम्नः = परितः प्रसृततेजसः, मुनेः = व्यासस्य, अभिमुखं = संमुखं, तिष्ठन्, सः = युधिष्ठिरः, इद्धं = दीप्तं, चञ्चदित्यर्थः । अंशुजालं = किरणनिकरं, तन्वन्तं = विस्तारयन्तं, गुरुम् = बृहस्पतिम्, अभितः = अभिमुखस्थि-

१३० | किरातार्जुनीयम्। | [ द्वितीयः-

तस्य, सकलस्य = कलापरिपूर्णस्य, वा पूर्णस्य, शशाङ्कमूर्तेः=चन्द्रबिम्बस्य, लक्ष्मी= शोभाम्, उवाह = वहति स्म, यथा गुरुसम्मुखस्थितचन्द्रो भवति तथैव व्यासाभि- मुखो युधिष्ठिर इत्यर्थः ॥ ५९ ॥

समासः—स्मितस्य मयूखाः स्मितमयूखाः, व्यक्तं यथा स्यात्तथा उदिता व्यक्तो- दिता ये स्मितमयूखास्ते व्यक्तोदितस्मितमयूखास्तैर्विभासितौ ओष्ठौ यस्य स व्यक्तोदितस्मितमयूखविभासितोष्ठः। विशीर्णं धाम यस्य स विशीर्णधामा तस्य विशीर्णधाम्नः। अंशूनां जालमंशुजालम्। कलाभिः सहितः सकलस्तस्य। शश एवाङ्को यस्यां सा शशाङ्का, शशाङ्का मूर्तिर्यस्य स शशाङ्कमूर्तिश्चन्द्रस्तस्य शशाङ्कमूर्तेः ॥

व्याकरणम् -तिष्ठन् = ष्ठा + लट् + शतृ । उवाह = वह् + लिट् ॥ ५९ ॥

वाक्यान्तरम्—व्यक्तोदितस्मितमयूखविभासितोष्ठेन विशीर्णधाम्नो मुनेरभिमुखं तिष्ठता तेनंशुमंशुजालं तन्वन्तं गुरुमभितः सकलस्य शशाङ्कमूर्तेर्लक्ष्मीरुहे ॥ ५९॥

कोषः—'स्म मनाक् स्मितम्' इत्यमरः । 'किरणोस्रमयूस्वांशुगभस्तिघृणिघृष्णयः' इत्यमरः 'ओष्ठाधरौ तु रदनच्छदौ दशनवाससी' इत्यमरः । 'बृहस्पतिः सुराचार्यो गीष्पतिर्धिषणो गुरुः' इत्यमरः ॥ ५९ ॥

सारार्थः—यथा बृहस्पतेः सम्मुखे वर्तमानस्य पूर्णचन्द्रस्य शोभा जायते तथैव व्यासाभिमुखोपविष्टस्य युधिष्ठिरस्य ओद्यभूवेति भावः ॥ ५९ ॥

भाषार्थः—जैसे अपने किरणों को फैलाते हुए वृहस्पति के सामने चन्द्रमा की शोभा होती है, ठीक वैसे ही परम प्रखर तेजवाले व्यास मुनि के सामने बैठे हुए महाराज युधिष्ठिर शोभित होते थे ॥ ५९ ॥

वृत्तपरिचयः—इदं वसन्ततिलकसंज्ञं वृत्तम्—तल्लक्षणञ्च—'उक्तं वसन्ततिलका तभजा जगौ गः'—इति। अथात्र तत्प्रतीतिः—

ग ग
ऽ ऽ ।ऽ । ।। ऽ ।। ऽ ।ऽ ऽ
व्यक्तोदितस्मितमयूखविभासितोष्ठः ।

एवं समवृत्तत्वाच्चतुर्ष्वपि पादेषु विज्ञेयं विज्ञैः।

इति मिश्रोपनामकेन श्रीगङ्गाधरशर्मणा कृता द्वितीयसर्गस्य सुधाव्याख्या परिपूर्णेति ।

महाकविभारविप्रणीतं

किरातार्जुनीयम्

( तृतीयः सर्गः )

महामहोपाध्याय मल्लिनाथसूरिविरचितया 'घण्टापथ'-व्याख्यया
पं० श्रीगङ्गाधरशर्मकृतया 'सुधा'-व्याख्यया च सहितम्

(इस पृष्ठ पर कोई पाठ नहीं है / This page contains no text.)

भूमिका

१. संस्कृत काव्य

संस्कृत में सभी प्रकार की साहित्यिक रचनाओं को दो भागों में बाँटा गया है। दृश्य-काव्य और श्रव्यकाव्य । दृश्यकान्य के अन्तर्गत नाटकादि आ जाते हैं। श्रव्यकाव्य के भी तीन भेद हो जाते हैं :- १. पद्य २. गद्य ३. चम्पू ( 'पद्यं गद्यं च मिश्रं च तत् त्रिधैव व्यवस्थितम्'—दण्डिनः) । पुनः पद्य के भी दो प्रकार होते हैं :- १. महाकाव्य—जैसे रघुवंशम्, किरातार्जुनीयम्, शिशुपालवधम् इत्यादि, २. खण्डकाव्य—जैसे, मेघदूत, भामिनीविलास, अमरुकशतक इत्यादि । गद्य के भी दो प्रकार होते हैं :—( १ ) कथा—जैसे कादम्बरी और ( २ ) आख्यायिका—जैसे, हर्षचरित । श्रव्यकाव्य का तीसरा भेद है चम्पू, जो गद्य और पद्य दोनों का मिश्रण होता है; जैसे भारतचम्पू, विश्वगुणादर्श चम्पू इत्यादि ( 'गद्यपद्यमयं काव्यं चम्पूरित्यभिधीयते' ) ?

२. महाकाव्य के लक्षण

'किरातार्जुनीयम्' एक महाकाव्य है जैसा नाम ही से स्पष्ट है । 'महाकाव्य' एक बड़ा काव्य होता है जो विस्तार में तो बड़ा होता ही है, हर दृष्टि से बड़ा होता है । संस्कृत के आलंकारिकों ने महाकाव्य के लक्षणों की विस्तृत विवेचना की है। अग्निपुराण, काव्यादर्श साहित्यदर्पण, काव्यालङ्कार एवं सरस्वतीकण्ठाभरण ग्रन्थों में महाकाव्य की परिभाषा दी गई है । यहाँ हम 'साहित्यदर्पण' से महाकाव्य की विस्तृत परिभाषा उद्धृत करते हैं :—

सर्गबन्धो महाकाव्यं तत्रैको नायकः सुरः । सद्वंशः क्षत्रियो वाऽपि धीरोदात्तगुणान्वितः ॥
एकवंशभवा भूपाः कुलजा बहवोऽपि वा । शृङ्गारवीरशान्तानामेकोऽङ्गी रस इष्यते ॥
अङ्गानि सर्वेऽपि रसाः सर्वे नाटकसंधयः । इतिहासोद्भवं वृत्तमन्यद्वा सज्जनाश्रयम् ॥
चत्वारस्तस्य वर्गाःस्युस्तेष्वेकं च फलं भवेत् । आदौ नमस्क्रियाऽऽशीर्वा वस्तुनिर्देश एव वा ॥
क्वचिन्निन्दा खलादीनां सतां च गुणकीर्तनम् । एकवृत्तमयैः पद्यैरवसानेऽन्यवृत्तकैः ॥
नातिस्वल्पा नातिदीर्घा सर्गा अष्टाधिका इह । नानावृत्तमयः क्वापि सर्गः कश्चन दृश्यते ॥
सर्गान्ते भाविसर्गस्य कथायाः सूचनं भवेत् । संध्यासूर्येन्दुरजनीप्रदोषध्वान्तवासराः ॥
प्रातर्मध्याह्नमृगयाशैलर्तुवनसागराः । संभोगविप्रलम्भौ च मुनिस्वर्गपुराध्वराः ॥
रणप्रयाणोपयममन्त्रपुत्रोदयादयः । वर्णनीया यथायोगंसाङ्गोपाङ्गा अमी इह ॥
कवेर्वृत्तस्य वा नाम्ना नायकस्येतरस्य वा । नामास्य सर्गोपादेयकथया सर्गनाम तु ॥

सर्वप्रथम महाकाव्य सर्गों में विभक्त होता है। नायक—या तो कोई देवता या उच्चवंशोत्पन्न क्षत्रिय होता है, वह धीरोदात्त प्रकृति का नायक होता है। नायक एक वंश

( ४ )

के कई राजा भी हो सकते हैं जैसे रघुवंश में। प्रधान रस शृङ्गार, वीर या शान्तरस होता है और अन्य रस उसके सहायक होते हैं। कथावस्तु नाटक के समान ही होती है, वह ऐतिहासिक हो सकती है या किसी सज्जन के सत्कर्मसम्बन्धी। पुरुषार्थचतुष्टय की प्राप्ति इसका ध्येय होता है और उसकी प्राप्ति के साधनों का वर्णन प्रधान होता है। काव्य के प्रारम्भ में इष्टदेव की स्तुति, मङ्गलकामना या कथा का निर्देश होता है। दुर्जनों की निन्दा तथा सज्जनों की प्रशंसा, सन्ध्या, सूर्योदय, चन्द्रोदय, रात्रि, गोधूलि, दिन, अन्धकार, प्रेमियों का मिलन-वियोग, आखेट, ऋषि, स्वर्ग, नगर, यज्ञ, युद्ध, आक्रमण, विवाह, उपदेश, पुत्रजन्म इत्यादि इसके वर्ण्य विषय होते हैं। महाकाव्य में एक सर्ग में एक ही छन्द का प्रयोग होता है और सर्ग के अन्त में छन्द बदल दिया जाता है। सर्ग न तो बहुत छोटे और न बहुत बड़े होने चाहिये, उनकी संख्या कम से कम आठ होनी चाहिये। कभी-कभी एक ही सर्ग में कई वृत्तों का भी प्रयोग पाया जाता है। सर्ग के अन्त में आगे आने वाले सर्ग की कथा का उल्लेख होता है। महाकाव्य का नाम—कवि, वर्ण्यविषय, नायक या किसी अन्य व्यक्ति के नाम पर रखा जा सकता है किन्तु प्रत्येक सर्ग का नामकरण उसके अन्तर्गत वर्ण्य विषय के अनुसार ही होना चाहिये।

३. महाकवि भारवि

**व्यक्तिगत जीवन—**संस्कृत साहित्य के महाकवियों में भारवि का दूसरा स्थान है। कवि के व्यक्तिगत जीवन के विषय में हमारा ज्ञान अनिश्चित सा ही है। कदाचित हमारे महाकवि को अत्यन्त दुःखमय एवं निर्धनतापूर्ण जीवन व्यतीत करना पड़ा था जैसे जीवन का वरदान सदैव से सभी भाषा के महाकवियों को मिलता रहा है। अपने यौवन में उनकी प्रतिभा का आदर करने वाला, एवं उन्हें आश्रय देने वाला भी शायद कोई न मिला था। भारवि की निर्धनता के सम्बन्ध में एक रोचक कथा भी प्रचलित है। महाकवि के घर में निर्धनता का ताण्डवनृत्य हो रहा था और महाकवि थे जो काव्य सरोवर में गोते लगाने में आनन्द ले रहे थे। कविप्रिया से कवि की यह लापरवाही कैसे सही जा सकती थी ? अपने व्यंग्य बाणों से वह कवि के हृदय को बेधती, खरी-खोटी सुनाती ही रहती। पत्नी की डाँट-फटकार से ऊबकर कवि ने अपनी अकर्मण्यता का अनुभव किया। आसन डोला, और वे चल पड़े राजा का आश्रय ढूँढ़ने के लिये। कुछ ही दूर गये होंगे कि एक सुन्दर सरोवर मिला; प्रकृति के प्रेमी कवि के लिये सरोवर का आकर्षण प्रबल हो गया और थका-माँदा कवि वहीं विश्राम करने लगा। वहीं कवि ने इस श्लोक की रचना की :—

सहसा विदधीत न क्रियामविवेकः परमापदां पदम्।
वृणुते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः ॥ (कि० २ : ३०)

• कवि को अपनी दशा का अनुभव तो हो ही चुका था अतः श्लोकानुसार ही वह जिसे

( ५ )

ढूँढ़ने चला था वह वहीं मिल गया। आखेट के लिये निकला हुआ राजा कवि की रचना को सुनकर अत्यन्त प्रसन्न हुआ और उन्हें राजधानी चलने को कहकर शिकार के लिये चल पड़ा, इधर कवि की रचना को लेकर राजा चलते बने और उधर जब कवि फटे कपड़े पहने, सुदामाजी की तरह राजमहल के फाटक पर पहुँचा तो उसे भी प्रवेश का अधिकार न मिल सका। निराश होकर उसे वैसे ही लौटना पड़ा जैसे प्रायः गुणी एवं विद्वान् भी बाह्याडम्बर के अभाव में तिरस्कृत होते हैं। राजा ने कवि के इस श्लोक को अपने कक्ष में स्वर्णाक्षरों में अङ्कित कराया था। एक वर्ष बाद वह एक बार शिकार पर निकला। राजा एक सप्ताह के लिये राजधानी से बाहर गया था, किन्तु दूसरी रात को पड़ाव निकट ही होने से वह महल में लौट आया। उसने अपनी शय्या पर रानी के साथ किसी अन्य व्यक्ति को सोते हुए देखा। अत्यन्त क्रोधावेश में तलवार से दोनों का काम तमाम करने ही वाला था कि उसका ध्यान उन स्वर्णाक्षरों की ओर गया 'सहसा विदधीत न क्रियाम्' इस वाक्य को देखते ही राजा ने उन दोनों को जगाकर फिर उन्हें दण्ड देने का निश्चय किया। जब उसने उन दोनों को जगाया तो यह देखकर उसके आश्चर्य का ठिकाना न रहा कि रानी के साथ उसका एकलौता पुत्र सोया था जिसे एक दाई चुरा ले गई थी और जो उसी शाम को मिल गया था। राजा ने उस कवि का पता लगाया जिसके लिखे श्लोक की पंक्ति ने राजा को शोकसागर में डूब जाने से बचाया और उसे अतुल धनराशि से सम्मानित किया।

कवि के व्यक्तिगत जीवन के विषय में उसका एकमात्र महाकाव्य एकदम मौन है। किरातार्जुनीयम् से केवल इतना ही हम कह सकते हैं कि ये शैव थे। अपने पिता, पितामह या गुरु किसी का भी उल्लेख इन्होंने 'किरातार्जुनीयम्' में नहीं किया है जैसा अन्य कवियों ने अपनी रचनाओं में अपना परिचय दिया है। 'अवन्तिसुन्दरीकथा' में दण्डी ने अपने पूर्वजों का विस्तृत वर्णन दिया है। इसके अनुसार दक्षिणभारत में कौशिक गोत्र के ब्राह्मण रहते थे जो बाद में अचलपुर (बरार के अन्तर्गत एलिचपुर) में आकर बस गये। इसी वंश में 'नारायणस्वामी' उत्पन्न हुए। इनके पुत्र दामोदर हुए, यही दामोदर कवि 'भारवि' नाम से विख्यात हुए। भारवि पहले क्षेत्रीय नरेश विष्णुवर्धन के आश्रित थे फिर वे राजा दुर्विनीत के मित्र हो गये। दुर्विनीत ने 'किरातार्जुनीयम्' के सर्वाधिक क्लिष्ट पन्द्रहवें सर्ग पर टीका भी लिखी। अन्त में भारवि पल्लववंशी सम्राट् सिंहविष्णु के दरबार में रहने लगे। भारवि का पुत्र मनोरथ' था। उसका चौथा पुत्र वीरदत्त था जिसने गौरी से विवाह किया; इसी वीरदत्त और गौरी का पुत्र था दण्डी।

अवन्तिसुन्दरीकथा के अनुसार कवि का निवास स्थान एलिचपुर ही सिद्ध होता है, किन्तु स्वर्गीय प्रो० आर० आर भागवत ने निम्न श्लोक में आये सह्य पर्वत के आधार पर इनका निवास स्थान दक्षिण भारत में माना है :-

उरसि शूलभृतः प्रहिता मुहुः प्रतिहति ययुरर्जुनमुष्टयः ।
भृशमया इव सह्यमहीभृतः पृथुनि रोधसि सिन्धुमहोर्मयः ॥ ( १७. ५)

( ६ )

किन्तु इस कथन से पूर्णरूपेण सहमत नहीं हुआ जा सकता। यह सम्भव है कि कवि ने पश्चिमी समुद्र तटों पर भ्रमण किया हो और लहरों की क्रीडाओं को जी भर देखा हो; इससे यह नहीं कहा जा सकता कि वे एलिचपुर में रहते हों। महाकवि का हिमालय वर्णन कुछ खटकने वाला एवं कालिदास की तुलना में अधूरा लगता है, अत एव यह कहा जा सकता है कि वे उत्तर भारतीय कवि नहीं थे और न उन्होंने उत्तर भारत की यात्रा ही की थी।

स्थितिकाल—महाकवि भारवि के स्थितिकाल के विषय में निम्न विचार एवं प्रमाण प्रस्तुत किये जाते हैं:—

(१) दक्षिण के चालुक्यवंशी नरेश पुलकेशी द्वितीय के समय के ऐहोल शिलालेख में भारवि का नाम कालिदास के साथ मिलता है। यह शिलालेख बीजापुर में ऐहोल ग्राम के एक जैन मन्दिर में मिला है। इसका समय ५५६ शकाब्द अर्थात् ६३४ ई० है। प्रशस्तिलेखक रविकीर्ति कोई जैन कवि है जो अपने को कालिदास और भारवि के समान यशस्वी बताता है ( स विजयतां रविकीर्तिः कविताश्रित-कालिदासभारविकीर्तिः )। इससे यह तात्पर्य निकलता है कि सातवीं शताब्दी के उत्तरार्ध के पूर्व भारवि इतनी प्रसिद्धि प्राप्त कर चुके थे जिससे उनका नाम कालिदास के नाम के साथ लिया जाने लगा था।

(२) चूंकि भारवि का नाम कालिदास के साथ लिया गया है अतः कहा जा सकता है कि ये दोनों समकालीन रहे हों; किन्तु यह उचित नहीं। दोनों की शैली में इतना महान् अन्तर है कि दोनों दो भिन्न-भिन्न युगों के कवि हैं; दोनों के समय की काव्य की धारायें एक दूसरे से इतनी विपरीत हैं कि कालिदास से भारवि तक पहुँचने में काव्य को ६ शताब्दी का समय लग ही गया होगा। अतः भारवि कालिदास के समकालीन नहीं हो सकते।

(३) गंग नरेश दुर्विनीत के समय के गुमरेड्डीपुर के लेख से ज्ञात होता है कि दुर्विनीत ने 'किरातार्जुनीयम्' के १५ वें सर्ग पर टीका लिखी थी। लेख के समय के विषय में विद्वानों में मतभेद है; किन्तु नवीनतम अन्वेषणों से दुर्विनीत का राज्यकाल ५८० ई० ठहरता है और भारवि का समय इसके बाद किसी प्रकार नहीं रखा जा सकता है।

(४) अवन्तिसुन्दरी कथा के आधार पर भारवि विष्णुवर्धन के सभापण्डित थे। विष्णुवर्धन पुलकेशी द्वितीय का अनुज था और लगभग ६१५ में वह महाराष्ट्र पर राज्य करता था। उसका समकालीन होने से भारवि का समय सातवीं शताब्दी के प्रारम्भ होना चाहिये।

( ७ )

( ५ ) बाण ने कहीं भी भारवि का नाम नहीं लिया है। इससे स्पष्ट है कि भारवि बाण से बहुत पहले नहीं रहे होंगे और न बाण के समय में इतने प्रसिद्ध ही हुए होंगे कि बाण उनका उल्लेख करते। इन सभी विचारों से यही निष्कर्ष निकलता है कि भारवि का समय ५५० ई० से ६०० ई० तक ही माना जा सकता है।

४. किरातार्जुनीयम्

महाकवि भारवि का एकमात्र ग्रन्थ है महाकाव्य 'किरातार्जुनीयम्'। महाकाव्य का नामकरण किरातवेषधारी शङ्कर एवं पाण्डुपुत्र अर्जुन के युद्ध की घटना को लेकर किया गया है जो इस काव्य की प्रमुख घटना है। सम्पूर्ण महाकाव्य १८ सर्गों में निबद्ध है। महाकाव्य के नायक हैं वीर अर्जुन जो पाशुपतादि दिव्यास्त्रों की प्राप्ति के लिये इन्द्रकील पर्वत पर तपस्या करते हैं। नायक के चारित्रिक महत्त्व को बढ़ाने के लिये कवि ने शङ्कर भगवान् को किरात के रूप में उपस्थित किया है। काव्य का मुख्य रस है वीर रस, एवं शृङ्गारादि इसके सहकारी रस हैं। महाकाव्य 'श्री' शब्द से प्रारम्भ होता है और प्रत्येक सर्ग के अन्तिम छन्द में 'लक्ष्मी' शब्द का प्रयोग है। भारवि के युग कवियों की यह एक प्रमुख विशेषता है। 'माघ' एवं श्रीहर्ष ने भी क्रमशः 'श्री' एवं 'आनन्द' शब्द सर्गान्त में प्रयुक्त किये हैं।

कथा की पृष्ठभूमि—महाकाव्य की कथा महाभारत पर आधारित है। महाभारत को कई नाटक एवं महाकाव्यों का उपजीव्य होने का गौरव प्राप्त है। यह काव्य महाभारत की मुख्य कथा से ही सम्बन्धित है। पाण्डु की मृत्यु के बाद पाण्डव धृतराष्ट्र की संरक्षकता में रहने लगे। ज्येष्ठ पाण्डव युधिष्ठिर जब युवक हुए तो धृतराष्ट्र ने उन्हें हस्तिनापुर का युवराज बनाया। धृतराष्ट्र का ज्येष्ठ पुत्र दुर्योधन युधिष्ठिर के युवराज बन जाने से ईर्ष्या से जल रहा था और उनसे अत्यन्त द्वेष रखता था। दुर्योधन ने पाण्डवों को हर एक प्रकार से कष्ट देने एवं उन्हें नष्ट करने का जाल रचा, किन्तु पाण्डव बचते गये। उन्हें लाक्षागृह में जला देने का भी षड्यन्त्र उसने रचा किन्तु इस बार भी पाण्डव बच निकले। वे ब्राह्मणों का वेष बनाकर गुप्त रूप से रहने लगे और इसी बीच अर्जुन ने द्रौपदी के स्वयंवर में अपनी युद्धकला का प्रदर्शन किया। राजकुमारी द्रौपदी पाँचों पाण्डवों की पत्नी बनी। जब धृतराष्ट्र को पाण्डवों के जीवित होने का समाचार मिला तो उन्होंने उन्हें बुलाकर अपने पुत्रों एवं पाण्डवों में राज्य का विभाजन कर दिया। यमुना के तट पर इन्द्रप्रस्थ नगर को युधिष्ठिर ने अपनी राजधानी बनायी और चारों दिशाओं को जीतकर राजसूय यज्ञ किया। युधिष्ठिर की उन्नति देखकर ईर्ष्यालु दुर्योधन ने एक दूसरा षड्यन्त्र किया और अपने पिता से कहलाकर पाण्डवों को द्यूतक्रीड़ा के लिये निमन्त्रण दिया। दुर्योधन के मामा शकुनि की कपटपूर्ण चाल के आगे पाण्डव दाँव हारते गये और

( ८ )

अन्त में द्रौपदी को भी हार गये। भरी सभा में द्रौपदी का अपमान किया। क्रुद्ध भीम ने दुःशासन का रक्त पीने एवं दुर्योधन की जाँघ तोड़ने की प्रतिज्ञा की। उनकी प्रतिज्ञा की सूचना पाकर चतुर धृतराष्ट्र ने उन्हें बुलाकर फिर उनका राज्य वापस कर दिया। अपने इस षड्यन्त्र में भी असफल होने पर दुर्योधन ने फिर उन्हें द्यूतक्रीड़ा के लिये आमन्त्रित किया। इस बार शर्त यह रही की हारने वाला बारह वर्ष तक वनवास एवं एक वर्ष तक अज्ञातवास करेगा। यदि तेरहवें वर्ष में वह पहचान लिया जाय तो फिर उसी प्रकार १३ वर्ष और व्यतीत करने पड़ेंगे। पाण्डव इस बार भी हार गये। अपने भाइयों एवं पत्नी को साथ लेकर युधिष्ठिर ने वन की राह ली। महाकाव्य की कथा वहीं से प्रारम्भ होती है।

'महाकाव्य की कथा—द्वैतवन में निवास करते हुए युधिष्ठिर ने दुर्योधन की नीति एवं शासन-व्यवस्था जानने के लिये एक वनेचर को दूत के रूप में भेजा। ब्रह्मचारी वेष में वह वनेचर दुर्योधन के राज्य का सम्पूर्ण वृत्तान्त जानकर युधिष्ठिर के पास लौट आया।

श्रियः कुरुणामधिपस्य पालनीं प्रजासु वृत्तिं यमयुक्त वेदितुम्।
स वर्णिलिङ्गी विदितः समाययौ युधिष्ठिरं द्वैतवने वनेचरः॥
— कि. सर्गः १, श्लोक १.

वनेचर दुर्योधन के राज्य का सम्पूर्ण हाल बताता है कि किस प्रकार कपट से जीती हुई पृथ्वी को दुर्योधन नीति से जीत लेना चाहता है। सारी बातें बताकर वनेचर लौट जाता है। शत्रु के अभ्युदय का समाचार सुनकर एवं अपने पतियों की दुर्दशा देखकर द्रौपदी अत्यन्त ही दुःखित होती है। वह धर्मराज को उत्तेजित करने के लिये एवं शत्रु से शीघ्र बदला लेने के लिये नीतियुक्त वचन कहती है। तत्पश्चात् भीम भी द्रौपदी के सलाह की पुष्टि करते हैं और अपने बाहुबल के प्रयोग करने की आतुरता प्रदर्शित करते हैं। नीति विशारद युधिष्ठिर अपने वचनों से भीम को शान्त कर देते हैं एवं उन्हें शान्तिपूर्वक उपयुक्त समय की प्रतीक्षा करने का उपदेश देते हैं। इसी बीच भगवान् व्यास आते हैं वे अर्जुन को दिव्यास्त्र-प्राप्ति के लिये इन्द्र की तपस्या करने को कहते हैं। व्यास के भेजे गये गुह्यक के साथ अर्जुन इन्द्रकील पर्वत पर पहुँचते हैं। अर्जुन की कठिन तपस्या से डरकर इन्द्र तपस्या भङ्ग करने के लिये अप्सराओं को भेजते हैं जैसा वे बराबर करते-रहते हैं। किन्तु उससे भी जब अर्जुन का व्रत भंग नहीं होता है। तब स्वयं इन्द्र उन्हें शिव की तपस्या करने का उपदेश देते हैं। अर्जुन पुनः तपस्या करते हैं। इधर एक मायावी दैत्य अर्जुन को मारने के लिये सूअर का रूप धारण करता है। इस बात को जानकर भगवान् शिव भी अर्जुन की रक्षा के हेतु किरात का मायावी वेश धारण करते हैं। किरात और अर्जुन दोनों सूअर पर एक साथ ही बाण छोड़ते हैं। बाण के लिये—अर्जुन एवं किरात में विवाद चलता है और फिर युद्ध चल पड़ता है। अस्त्र-शस्त्रों के बाद वे मल्लयुद्ध पर

( ९ )

उतर आते हैं। अर्जुन की वीरता से प्रसन्न होकर भगवान् शिव प्रकट होते हैं तथा अर्जुन की पाशुपतास्त्र-प्राप्ति की अभिलाषा पूरी होती है और महाकाव्य पूरा होता है :-

व्रज जय रिपुलोकं पादपद्मानतः सन्, गदित इति शिवेन श्लाघितो देवसंघैः ।
निजगृहमथ गत्वा सादरं पाण्डुपुत्रो, धृतगुरुजयलक्ष्मीधर्मसूनुं ननाम ॥ १८.४०

'जाओ अपने शत्रुओं को जीतो' ऐसा आशीर्वाद प्राप्त कर अर्जुन लौट आते हैं एवं युधिष्ठिर के चरणों में सादर प्रणाम करते हैं।

महाभारत एवं किरातार्जुनीयम् की कथा में अन्तर

यद्यपि 'किरातार्जुनीयम्' की कथा 'महाभारत' पर ही आधारित है, फिर भी कवि ने अपनी ओर से काव्य में पर्याप्त सामग्री जोड़ डाली है। केवल कथामात्र का ही अवलम्बन करने पर सात सर्गों तक कथा समाप्त हो सकती थी, किन्तु कवि ने इसे १८ सर्गों में वर्णन किया है। वास्तव में कवि अपनी प्रतिभा से उसमें नवीन रुचि का सृजन करता है एवं कथा को सजीवता प्रदान करता है।

( १ ) सर्वप्रथम कवि ने पात्रों के स्वरूप में भी पर्याप्त परिवर्तन कर दिया है। महाभारत के उद्दत भीम भारवि के हाथों एक सुयोग्य राजनीतिज्ञ बन जाते हैं।

( २ ) महाभारत में व्यास मन्त्र का उपदेश युधिष्ठिर को देते हैं और युधिष्ठिर अर्जुन को, किन्तु 'किरातार्जुनीयम्' के व्यास अर्जुन को ही उपदेश देते हैं।

( ३ ) महाभारत में अर्जुन इन्द्रकील पर्वत पर मन की गति से भी तीव्र मन्त्र की शक्ति से पहुँच जाते हैं। 'किरात' में यक्ष उन्हें पहुँचाता है।

( ४ ) इन्द्र, अर्जुन को मोहित करने के लिये 'किरातार्जुनीयम्' में, अप्सराओं को भेजता है, जिनका वर्णन चार सर्गों में किया गया है, फिर इन्द्र एक वृद्ध तपस्वी का वेश धारण कर आते हैं और अर्जुन की तपस्या से विरत होने को कहते हैं। महाभारत के अनुसार अर्जुन के इन्द्रकील पर्वत पर पहुँचते ही इन्द्र तपस्वी वेश में मिलते हैं।

( ५ ) महाभारत में शिव किरात का वेश धारण कर उमा के साथ आते हैं, और अर्जुन से अकेले लड़ते हैं। 'किरातार्जुनीयम्' में वे सेनासहित लड़ते हैं; किन्तु अर्जुन उनकी सेना को तितर-बितर कर देते हैं। सेना का वर्णन करके कवि अर्जुन की वीरता के महत्त्व की वृद्धि कर देता है। युद्ध के वर्णन में भी कवि भारवि का वर्णन अधिक सजीव है जब कि महाभारत का युद्ध वर्णन नीरस एवं शुष्क है।

( ६ ) युद्ध का अन्त भी दोनों में भिन्न रूप से होता है। महाभारत में अर्जुन बेहोश हो जाते हैं और जब होश में आते हैं तो किरात के सिर पर वही माला देखते हैं जो

( १० )

उन्होंने शिवमूर्ति पर चढ़ायी थी और उसी के कारण शिव को पहचान लेते हैं। 'किरातार्जुनीयम्' के अनुसार जब द्वन्द्व युद्ध में अर्जुन शिव का पैर पकड़ते हैं तो शिव प्रसन्न होकर उन्हें हृदय से लगा देते हैं, प्रकट होते हैं एवं पाशुपतास्त्र प्रदान करते हैं ।

( ७ ) इसके अतिरिक्त भारवि ने अर्जुन की तपस्या का, वनस्थली एवं वन का तथा नाना दृश्यों का सजीव वर्णन कर 'किरातार्जुनीयम्' को कमनीय एवं मनोरम कलेवर प्रदान किया है ।

५. कवि एवं काव्य की समीक्षा

महाकवि भारवि, निःसन्देह एक उच्चकोटि के कवि हैं। उनका एकमात्र महाकाव्य 'किरातार्जुनीयम्' पञ्चमहाकाव्यों में एक है। महाकवि भारवि कलापक्ष के कवि हैं परन्तु अन्य कलावादी कवियों यथा माघ के समान न तो इनमें शब्द एवं अर्थ का उतना गाम्भीर्य है और न श्रीहर्ष की तरह प्रौढोक्ति को लम्बी उड़ान एवं पदलालित्य । उनकी महत्त्वपूर्ण विशेषता है उनका अर्थगौरव । अर्थ के गाम्भीर्य पर ही उनका ध्यान रहा है और इसमें वे सफल भी हैं। पण्डितों की उक्ति 'भारवेरर्थगौरवम्' उनके इसी गुण के कारण है। शब्दों की क्रीडा के फेर में वे हमेशा नहीं पड़ते। उनके काव्य की मान्यता उन्हीं के शब्दों में देखनी हो तो हम निम्न श्लोक से समझ सकते हैं :—

स्फुटता न पदैरपाकृता न च न स्वीकृतमर्थगौरवम् ।
रचिता पृथगर्थता गिरां न च सामर्थ्यमपोहितं क्वचित् ॥ २।२७ ॥

काव्य में अस्पष्टता का बहिष्कार, अर्थगौरव पर विशेष ध्यान एवं वाणी के अर्थ में पौनरुक्त्य से परहेज रखना ही उन्हें अभीष्ट था और यही विशेषता है 'किरातार्जुनीयम्' की कला की। कालिदास के महाकाव्यों से घटनाचक्र अविरल मैदान' नदी की गति के समान मन्थर गति से चलता है। उसमें अवरोध नहीं है, स्थान-स्थान पर सुन्दर वर्णन आते हैं और पाठक उनमें खो जाता है। कालिदास पाठक की मनोवैज्ञानिक स्थिति को पहचानते हैं और इसके पहले कि पाठक एक वर्णन से ऊबे वे आगे बढ़ जाते हैं। भारवि में ऐसी बात नहीं। किसी विषय को लेकर जब तक अपना सम्पूर्ण दिमाग खाली नहीं कर लेते हैं वे आगे नहीं बढ़ते हैं। अलंकारों, कल्पनाओं एवं शब्दों का आडम्बर खड़ा कर देते हैं। यही कारण है कि पाठक ऊब जाता है। भारवि में ऐसे स्थलों का अभाव नहीं है, तब उनका अनावश्यक लम्बा वर्णन खटकता है। अप्सराओं के आगमन एवं विहार का ही वर्णन चार सर्गों में करके कवि ने अपनी इस विशेषता का परिचय दिया है। तेरहवें सर्ग में भी किरात के मुख से जो वचन भारवि ने कहलाये हैं उनमें अजीब व्यतिक्रम एवं अनावश्यक वर्णन का आभास मिल सकता है।

( ११ )

भारवि की शाब्दी क्रीडा उनका एक अन्य दोष है जो सहृदय पाठक को खटके बिना नहीं रह सकता। ऐसी ही शाब्दी क्रीडा का उदाहरण है किराताजुर्नीयम् का १५ वाँ सर्ग जो चित्रालंकार से परिपूर्ण है, इसी कारण मल्लिनाथ ने कहा है कि 'नारिकेलफलसंमितं वचो भारवेः' प्रो० कीथ का कथन है—

‘Bharavi, however, is guilty of error tastes from which Kalidasa is free. Especially in Canto XV he sets himself to try ‘tours deforce of the most foolish kind. redolent of the exce-sses of the Alexandrian poets’

किन्तु महाकवि भारवि की वर्णनात्मक प्रतिभा में सन्देह नहीं किया जा सकता है। वर्णन की सूक्ष्मता के आगे छोटी-छोटी वस्तु का वर्णन करने में भी नहीं चूकते हैं। जिस चित्र का वर्णन करते हैं पूरा जी खोल कर करते हैं, मानों उन्हें स्वयं ही सन्तोष नहीं होता और इसी कारण उनका वर्णन सर्वाङ्गपूर्ण लगता है चाहे वह अप्सराओं की कामकेलियाँ हों या अर्जुन एवं किरात का संघर्ष या भीम और युधिष्ठिर के नीतिवचन। वीर रस के वर्णन में भारवि अद्वितीय हैं। दूसरे सर्ग में भीम के वचनों की सजीवता से वीर रस की सृष्टि उनकी अद्वितीय वर्णन शैली का एक उदाहरण है। वीर रस के वे सिद्धहस्त एवं कुशल कवि हैं। अर्जुन के धनुष खींचने का वर्णन उदाहरण स्वरूप लिया जा सकता है :—

प्रविकर्षणनिनादभिन्नरन्ध्रः पदावष्टम्भनिपीडितस्तदानीम् ।
अभिरोहति गाण्डिवं महेषौ सकलः सशयमारुरोह शैलः ॥ ( १३. १६ )

वर्णन द्वारा जिस प्रकार की सजीवता भारवि-पाठकों के सम्मुख प्रस्तुत करते हैं उसके उदाहरणस्वरूप हम विद्ध सूकर के पृथ्वी पर गिरने का वर्णन पढ़कर जान सकते हैं :—

अथ दीर्घतमं तमः प्रवेक्ष्यन् सहसा रुग्णरयः स संभ्रमेण ।
निपतन्तमिवोष्णरश्मिमुर्व्या बलयीभूततरं धरां च मेने ॥ ( १३. ३० )
स गतः क्षितिमुष्णशोणिताद्र्रः खुरदंष्ट्राग्रनिपातदारिताश्मा ।
असुभिः क्षणवीक्षितेन्द्रसूनुर्विहितामर्षगुरुध्वनिनिरासे ॥ ३१ ॥

प्रकृति वर्णन में भी भारवि सफल हुए हैं। उनका प्रकृति-वर्णन यद्यपि कालिदास के समान मनोरम एवं चित्ताकर्षक नहीं हो सका है किन्तु जितना भी वर्णन किया है उनमें उनकी सूक्ष्म परख का और वर्णन की प्रभावोत्पादकता का परिचय मिलता है। एक-दो उदाहरण प्रस्तुत हैं—

मृणालिनीनामनुरक्षितं त्विषा विभिभ्रमम्भोजपलाशशोभया ।
पयः स्फुरच्छालिशिखापिशङ्गितं द्रुतं धनुखण्डमिवाहिविद्विषः ॥ ( ४. २० )

( १२ )

यही नहीं सरोवर का वर्णन, सूर्यास्त एवं रात्रि का वर्णन एवं प्रभात-वर्णन सभी उन्होंने कुशलता के साथ किया है। सब में सजीवता है और है एक अनूठापन।

वीर रस के वर्णन में भारवि अद्वितीय तो हैं ही शृङ्गार रस के वर्णन में भी वे कम नहीं। कालिदास में शृङ्गार का वर्णन है, किन्तु भारवि के समान वासना और विलासिता से परिपूर्ण नहीं। रघुवंश के अन्तिम सर्ग में कालिदास का शृङ्गार-वर्णन वासना से ओत-प्रोत है अवश्य, किन्तु भारवि इस क्षेत्र में उनसे बढ़ गये हैं। भारवि का शृङ्गार-वर्णन अत्यधिक उत्तेजक, ऐन्द्रिय एवं वासनामय है। अप्सराओं का वनविहार, पुष्पावचय, रतिकेलि, जलक्रीडा सबके वर्णन में शृङ्गार का नग्न वर्णन उन्होंने किया है। 'किरातार्जुनीयम्' के आठवें, नवें एवं दशवें सर्ग में इनका शृङ्गार-वर्णन देखा जा सकता है। उदाहरणार्थः —

विहस्य पाणौ विवृते धृताम्भसि प्रियेण वध्वा मदनाद्र्रचेतसः।
सखीव काञ्ची पयसा घनीकृता बभार वीतोच्चयबन्धमंशुकम्॥ (८. ५१)

'जलविहार के समय किसी नायिका ने हाथ में पानी लेकर नायक पर उछालना चाहा, इसे देखकर प्रिय ने हंसकर हाथ पकड़ लिया। स्पर्श के कारण नायिका का मन कामासक्त हो गया, उसका नीवीबंधन ढीला हो गया, पर पानी से सिमटी हुई करधनी ने उसके अंशुक को इसी तरह रोक लिया, जैसे वह सखी के समान ठीक समय पर नायिका की सहायता कर रही हो।'

उनके वर्णन की प्रभावोत्पादकता के विषय में प्रो० कीथ का कथन है—

'His style, at its best, has a calm dignity which is certainly attractive, while he excels also in the observation and record of the beauties and of maidens'.

पात्रों के चरित्र-चित्रण में भी भारवि सफल हुए हैं। महाभारत के क्रोधी भीम को महाकवि ने काव्य में एक कुशल नीतिज्ञ का रूप दिया है। अर्जुन की वीरता का वर्णन करने के लिए किरात एवं किरातसेना के साथ युद्ध दिखा कर उन्हें विजयी ही दिखाया है। युधिष्ठिर को नीतिज्ञता एवं शान्तिप्रियता का भी चित्रण उन्होंने कुशलता से किया है।

भारवि ने अपने काव्य को अलङ्कारों से सुसज्जित करने का प्रयत्न किया है। उनकी उपमाओं में कालिदास की उपमाओं के समान न तो स्वाभाविकता है और न आकर्षण। अपनी एक उपमा के कारण उन्हें 'आतपत्र-भारवि' की उपाधि भी मिली है। इस उपमा में इन्होंने कमल के उड़ते हुए पराग को लक्ष्मी के आतपत्र की उपमा दी है। उपमा, रूपक, उत्प्रेक्षा, समासोक्ति, निदर्शना के अतिरिक्त यमक, श्लेष तथा प्रहेलिकादि चित्रकाव्यों में भी ये दक्ष हैं। उनके अर्थान्तरन्यास का एक उदाहरण यह है :—

( १३ )

दनुजः स्विदयं क्षपाचरो वा वनजे बलं बतास्ति सत्त्वे ।
अभिभूयः तया हि मेघनीलः सकलं कम्पयतीव शैलराजम् ॥ ८ ॥

अतिशयोक्ति का उदाहरण :—
अपयनन्धुरः शिवान्तिकस्थैर्विवरेत्सद्भिरिमित्सया जिहानः ।
युगपद् ददृशे विशन्वराहं तदुपोढैश्च नमश्चरैः पृथक्तः ॥ २३ ॥

और यह है उनकी उपमा का एक उदाहरण :—
स तमालनिभे रिपौ सुराणां घननीहार इवाविवक्तवेगः ।
भयविप्लुतमीक्षितो नमःस्थैर्जगतीं ग्राह इवापगां जगाहे ॥ २४ ॥

कालिदास का अनुकरण करके इन्होंने व्याकरण से सम्बन्धित उपमाएं भी दीं है उनमें भी कालिदास के समान सफल नहीं हो पाये हैं। यथा—
स भवस्य भवक्षयैकहेतोः सितसप्तेश्च विधास्यतोः सहार्थम् ।
रिपुराप पराभवाय मध्यं प्रकृतिप्रत्ययोरिवानुबन्धः ॥ १९ ॥

उनकी श्लेषाङ्गप्राणितोपमा निम्न छन्द में देखी जा सकती है :—
इति तेन विचिन्त्य चापनाम प्रथमं पौरुषचिह्नमाललम्बे ।
उपलब्धगुणः परस्य भेदे सचिवः शुद्धः इवाददे च बाणः ॥ १३-१४ ॥
कथाप्रसंगेन जनैरुदाहृतादनुस्मृताखण्डलसूनुविक्रमः ।
तवाभिधानाद्व्यथते नताननः सुदुःसहान्मन्त्रपदादिवोरगः ॥ १२ ॥

और यह है उनकी एक मालोपमा :—
अविवेकवृथाक्षमाविधार्यै क्षयलोभादिव संश्रितानुरागम् ।
विजिगीषुमिवानयप्रमादादवसादं विशिखौ विनिन्यतुस्तम् ॥ १३. २९ ॥

महाकवि भारवि की हृदयग्राही उक्तियाँ उनकी एक प्रमुख विशेषता है। वे राजनीति के निष्णात पण्डित थे और राजनीतिक ग्रन्थों का उन्हें पूर्ण ज्ञान था। उनके काव्य में सुन्दर उक्तियों का अभाव नहीं है जो अनायास ही काव्य में एक नवीन जीवन डाल देती है। यथा—
‘हितं मनोहारि च दुर्लभं वचः ।’, ‘सहसा विदधीत न क्रियाम् ।’
‘विमलं कलुषीभवच्च चेतः कथयत्येव हितैषिणं रिपुं वा ।’
‘संवृणोति खलु दोषमज्ञता ।’, ‘परवृद्धिषु बद्धमत्सराणां
किमिव अस्ति दुरात्मनामलङ्घ्यम्’ इत्यादि।

यही कारण है कि इनके काव्य में एक मनोरम गाम्भीर्य है और व्यावहारिक ज्ञान की चमत्कारिणी प्रौढ़ता भी।

( १४ )

भारवि की कविता अपनी सर्वोत्तम अवस्था में प्रसादगुण युक्त है। यद्यपि कालिदास के समान प्रसादगुण भारवि में नहीं मिलता; फिर भी माघ के समान निकट समासान्त पदावली का इनकी कविता में अभाव है। भारवि के अर्थ को समझना कुछ परिश्रमसाध्य है और नारियल के फल की भाँति ऊपर के कठोर आवरण को तोड़ने पर ही काव्य-रस का पान सम्भव है। भारवि की रीति गौड़ी तो नहीं है किन्तु ठीक कालिदास की वैदर्भी भी नहीं है। भारवि ने अपने पाण्डित्य-प्रदर्शन में भी कमी नहीं रखी है। उनका पाण्डित्य-प्रदर्शन ऐसा दोष हो गया है जो उनकी कविता के भावना-पक्ष को दुर्बल बना देता है। अपने व्याकरण-ज्ञान का उन्होंने बराबर प्रदर्शन करने का लोभ किया है और पाणिनि के अनेक सूत्रों के लिये उदाहरण भी प्रस्तुत किया है। उन्होंने व्याकरण के चक्कर में पड़कर उस प्रवृत्ति को जन्म दिया जो इनके बाद के कवियों—भट्टि, माघ, श्रीहर्ष में अधिक हो चली है।

'तन्' धातु का अत्यधिक प्रयोग कुछ खटकता है और अतीत की घटना का वर्णन करने में भारवि 'परोक्षभूते लिट्' का प्रयोग करते हैं और लङ्-लुङ् का प्रयोग अपरोक्ष भूत के लिये। व्याकरण की त्रुटियाँ भारवि में कम हैं किन्तु 'आजघ्ने' का प्रयोग व्याकरण-संगत नहीं है।

विविध छन्दों के प्रयोग में भारवि सिद्धहस्त हैं। वंशस्थ भारवि का प्रिय छन्द है और अधिक सफल भी वे वंशस्थ में ही हुए हैं। इसके अतिरिक्त इन्होंने इन्द्रवज्रा, उपेन्द्रवज्रा, द्रुतविलम्बित, प्रमिताक्षरा, प्रहर्षिणी आदि कई छन्दों का प्रयोग किया है। कालिदास के खास छन्द छः हैं, भारवि के बारह तो माघ के सोलह।

भारवि की कविता में गीतिमय माधुर्य की अपेक्षा वर्णनात्मक एवं तर्कात्मक ओज का प्राधान्य है। सुश्लिष्ट पद-विन्यास के आचार्य कालिदास के समान प्रसादमयी हृदयावर्जक पदावली का अस्तित्व इनके महाकाव्य में तो सचमुच नहीं है किन्तु अर्थगौरवमय पदों का विन्यास यहाँ पूर्ण मात्रा में है। भारवि ने जितना लिखा है प्रौढ़ता, अनुभूति एवं भावुकता के साथ लिखा है। संस्कृत काव्य की एक नवीन शैली विचित्रमार्ग की सृष्टि करने के लिये भारवि प्रबन्ध काव्यों के विकास में गौरवपूर्ण स्थान रखते हैं।'

जैसा कि डॉ० डे ने कहा है—'भारवि की कला प्रायः अत्यधिक अलंकृत नहीं है, किन्तु आकृति-सौष्ठव का नियमितता व्यक्त करती है। शैली दुष्प्राप्य कान्ति भारवि में सर्वथा नहीं है, ऐसा कहना ठीक नहीं होगा, किन्तु भारवि उसकी व्यंजना अधिक नहीं कराते। भारवि का अर्थगौरव, जिसके लिए विद्वानों ने उनकी अत्यधिक प्रशंसा की है, उनकी गम्भीर अभिव्यंजना शैली का फल है, किन्तु यह अर्थ गौरव एक साथ भारवि की शक्ति तथा दुर्बलता ( भावपक्ष की दुर्बलता ) दोनों को व्यक्त करती है। भारवि की अभिव्यंजना शैली का

( १५ )

परिपार्क अपनी उदात्त स्निग्धता के कारण सुन्दर लगता है, उसमें शब्द तथा अर्थ के सुडौलपन की स्वस्थता है, किन्तु महान् कविता की उस शक्ति की कमी है, जो भावों को स्फूर्ति तथा हृदय को उठाने की उच्चतम क्षमता रखती है।

श्री आर० सी दत्त Civilization of the Ancient India में लिख हैं :—

‘In the richness of a creative fancy, in true tenderness and Pathos, and even in the sweetness of melody of verse, Kalidasa is incomparably a greater poet. But nevertheless Bharavi boasts of a vigour of thought and of language, a spirited and lofty eloquence in expression, which Kalidasa seldom equals.’

निःसन्देह विचारों एवं भाषा की स्फूर्ति एवं उच्चकोटि की अभिव्यक्ति में भारवि कालिदास से भी बढ़ जाते हैं भले ही कल्पना का वैभव, कोमलता, भावुकता एवं गीति-काव्य की मधुरता में महाकवि कालिदास उनसे बहुत आगे हैं।

पण्डितों में यह उक्ति है कि भारवि से माघ बढ़कर है तथा माघ ने भारवि के प्रभाव को कम करने के लिये, उन्हें नीचा दिखाने के लिये अपने काव्य की रचना की थी।

तावद्भा भारवेर्भाति यावन्माघस्य नोदयः ।
उदिते च पुनर्माघे भारवेर्भा रवेरिव ॥

किन्तु माघ के काव्य में अस्वाभाविकता, शुष्कता एवं कृत्रिमता बढ़ ही गई है और उनकी रचना में भारवि का अनुकरण स्पष्ट है।

तृतीय सर्ग कथासार

युधिष्ठिर और अर्जुन के प्रति व्यास की उक्ति

हे राजन् ! संग्राम में उसी की जय होती है जिसके पास सेना तथा अस्त्रादि का विशेष बल है, यह बात परशुराम के साथ युद्ध करने में भीष्म ने उन्हें पराजित करके लोगों को दिखला दी है। और यमराज से भी नहीं डरनेवाले भीष्म तथा कर्ण एवम् प्रलयकालाग्नि के समान युद्ध में भयंकर द्रोणाचार्य आदि योद्धागण सब दुर्योधन के पक्ष में हैं अतः उन सबों को जिनसे जीत सकें उन दिव्य-अस्त्रों को पाने के लिये मैं अर्जुन को एक मन्त्र बतलाता हूँ जिसके द्वारा वे कठिन तपस्या कर इन्द्र भगवान् को प्रसन्न कर दिव्य अस्त्र तथा पराक्रम प्राप्तकर युद्ध में विजयी हों, बस यही मेरे आने का उद्देश्य है, ऐसा कह व्यासजी पुनः अर्जुन से कहने लगे—हे अर्जुन ! तुम अब मेरे कथनानुसार साथ में अस्त्रों को भी लिये हुए मुनियों की भाँति जाकर तपस्या करो, और जहाँ पर