मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
The provided image is completely blank (pure white) and contains no text or content to transcribe. Please upload a clear image of the page you would like transcribed.
THE MÂLATÎMÂDHAVA OF BHAVABHÛTI WITH The Commentaries of Tripurâri and Jagaddhara. EDITED BY MANGESH RÂMAKRISHṆA TELANG REVISED BY WÂSUDEV LAXMAṆ S'ÂSTRÎ PAṆS'ÎKAR. Fifth Edition. PUBLISHED BY PÂNDURANG JÂWAJÎ, PROPRIETOR OF THE 'NIRNAYA-SÂGAR' PRESS, BOMBAY. 1926. Price 2½ Rupees.
[ All rights reserved by the publisher. ] —————— PUBLISHER:—Pandurang Jawaji, } at the 'Nirnaya-sagar' Press, PRINTER:—Ramchandra Yesu Shedge, } 26-28, Kolbhat Lane, Bombay.
॥ श्रीः ॥ महाकविश्रीभवभूतिप्रणीतं मालतीमाधवम् । त्रिपुरारि-जगद्धरकृताभ्यां टीकाभ्यां समेतम् । मङ्गेश रामकृष्ण तेलङ्ग इत्यनेन संशोधितम् । पणशीकरोपाह्वविद्वद्वरलक्ष्मणशर्मतनुजनुषा वासुदेवशर्मणा संस्कृतं च । ( पञ्चमं संस्करणम् । ) तच्च मुम्बय्यां पाण्डुरङ्ग जावजी इत्येतैः स्वीये 'निर्णयसागराख्ययन्त्रालयेऽङ्कयित्वा प्रकाशितम् । शाके १८४८, सन १९२६. मूल्यं २। सपादरूप्यकद्वयम् ।
The provided image is completely blank (solid white) and does not contain any visible text, page content, or Sanskrit drama script.
Please re-upload or provide a clear image of the page you would like transcribed.
अस्य प्रकरणस्य प्रणेतुः श्रीमद्भवभूतिकवेरितिवृत्तं न कापि विस्तरेण लभ्यते । अनेन स्वविरचितमहावीरचरित-मालतीमाधव-उत्तररामचरिताख्यरूपकत्रयस्य प्रस्तावनासु किंचित्स्ववंशादिवर्णनं कृतमस्ति । तद्यथा—आसीद्दक्षिणापथे विद्- र्भेषु पद्मपुरं नाम नगरम् । तत्र केचित्तैत्तिरीयाः काश्यपा उदुम्बरोपाभिधाना ब्रह्मवादिनो द्विजा वसन्ति स्म । तेषां वंशे महाकविर्नाम कश्चिद्वाजपेययाजी विप्रो बभूव । अस्मात्पञ्चमः पुरुषो भवभूतिः । भवभूतेः पिता नीलकण्ठः, जननी जतुकर्णी, पितामहो भट्टगोपालः, गुरुश्च ज्ञाननिधिः । अधीतवानयं तर्कव्याकरण- पूर्वोत्तरमीमांसादीनि शास्त्राणि । अस्य पितृकृतं नाम श्रीकण्ठ इति । ‘तपस्वी कां गतोऽवस्थामिति स्मेराननाविव । गिरिजायाः स्तनौ वन्दे भवभूतिसिताननौ ॥’ इति पद्यकरणोत्तरं तस्यैव भवभूतिरिति नामान्तरं जातम् । अनेनैव च नाम्नायं कविर्लोके प्रसिद्धो बभूवेति । कान्यकुब्जाधिपतेर्यशोवर्मणः सभायां भवभूतिरासीदिति राजतरङ्गिणीतो ज्ञायते । यशोवर्मसमयश्च ख्रिस्तवर्षीयसप्तमशतकपूर्वार्धे बभूव । अतो भवभूतेरपि समयो निरुक्तसप्तमशतकमित एवेत्यर्वाचीनपण्डितानामूहः । भवभूतिकृतिषु महावीरचरित-मालतीमाधवउत्तररामचरिताख्यं रूपकत्रयमप- हाय नान्यः कोऽपि प्रबन्धः प्राप्यते । तथापि शार्ङ्गधरपद्धतौ— ‘निरवद्यानि पद्यानि यदि नाट्यस्य का क्षतिः । भिक्षुकक्षाविनिक्षिप्तः किमिक्षुर्नीरसो भवेत् ॥’ इति पद्यम्, गदाधरभट्टसंकलिते रसिकजीवने च— ‘अलिपटलैरनुयातां सहृदयहृदयज्वरं विलुम्पन्तीम् । मृगमदपरिमललहरीं समीर किं पामरेषु रे किरसि ॥’ र. जी. प्र. ३।२२ १ ‘जातुकर्णी’ इत्यपि रूपान्तरम् । २ आर्यासप्तशत्या अनन्तपण्डितकृतटीकायां ‘भवभूतेः संबन्धात्’ इत्याद्यार्या- व्याख्याने द्रष्टव्यम् । वीरराघवविरचितायां महावीरचरितटीकायामप्येवमेवोक्तम् । परंतु तत्र ‘साम्बा पुनातु भवभूतिपवित्रमूर्तिः’ इत्यादि पद्यं निर्मितमिति प्रोक्तम् । ३ मालतीमाधवावतरणिकायां श्रीमद्भिर्डाक्टरभाण्डारकरैरुक्तम् । एतद्विष- यको राजतरङ्गिणीस्थः श्लोकस्त्वयम्— ‘कविवाक्पतिराजश्रीभवभूत्यादिसेवितः । जितो ययौ यशोवर्मा तद्गुणस्तुतिवन्दिताम् ॥’ राज. ४।१४५
२ 'किं चन्द्रमाः प्रत्युपकारलिप्सया करोति गोभिः कुमुदावबोधनम् । स्वभाव एवोन्नतचेतसां सतां परोपकारव्यसनं हि जीवितम् ॥' र. जी. प्र. ३१९५ इति पद्यद्वयं च भवभूतिनाम्ना समुद्धृतं लभ्यते । अतो भवभूतिना विरचितोऽन्यः कोऽपि प्रबन्ध आसीत्, उत तत्कृतानि सुभाषितान्येवैतानि, आहोस्विदेतत्पृथक्क- र्तान्यः कोऽपि भवभूतिर्बभूवेति निश्चेतुं नैव शक्यते । अत्र प्रकाशितयोर्मालतीमाधवटीकयोः प्रथमा भावप्रदीपिकाख्या दाक्षिणात्येन पर्वतनाथतनयत्रिपुरारिसूरिणा विरचिता । इयं सप्तमाङ्कपर्यन्तमेव लब्धा । अव- शिष्टाङ्कत्रयस्य टीका विबुधरत्नावल्याख्या नान्यदेवेन पूरिता । द्वितीया श्रीरत्न- धरात्मजजगद्धरपण्डितविरचिता पाठान्तरैः सह पुस्तकान्ते निवेदिता । एवं टीकाद्वयसंवलितमेतन्मालतीमाधवं प्रकरणं प्रकाशितं चेन्नितरां रसिकजनहृदया- ह्लादकं स्यादिति समालोच्य कृतोऽयं प्रकृतो यत्नः । अत्र च मुद्रणादिष्वनवधा- नतयापतितं दोषजातं क्षन्तव्यं सदयैः सद्द्भिरिति विज्ञापयति विद्वदनुचरो मङ्गेशशर्मा ।
॥ श्रीः ॥ मालतीमाधवम् । प्रथमोऽङ्कः । चूडापीडकपालसंकुलगलन्मन्दाकिनीवारयो विद्युत्प्रायललाटलोचनशिखिज्वालाविमिश्रत्विषः । भावप्रदीपिका । ऐन्द्व्या कलयावतंसितकचं सौन्दर्यसारास्पदं कारुण्यामृतपूरपूरितलसल्लीलाकटाक्षाङ्कुरम् । उद्यत्कोटिदिनेशमण्डलरुचिन्यक्कारिभाभासुरं वन्दे पाशसृणीक्षुचापसुमनोबाणापहं तन्महः ॥ यत्तुण्डमण्डलगलन्मदवारिधाराः कर्णद्वयव्यजनवातविधूतशीर्णाः । भक्तान्तरायनिवहा इव सार्यमाणा भान्ति द्विपेन्द्रवदनं तमुपाश्रयामः ॥ एकाग्रमूलनिलयकरिभूधरनायकौ । काञ्चीपुरीश्वरौ वन्दे कामितार्थप्रसिद्धये ॥ पदवाक्यप्रमाणज्ञो भवभूतिर्महाकविः । मालती
-like shape below, typical of 'दु' in older fonts, which can resemble 'खु', but it is clearly 'दु'). Wait, look at 'खलाः' at the end of the line: the 'ख' has a completely different shape (round loop connected to vertical line with loop inside). The letter in 'विदुरन्ये' is clearly 'दु'! So it is "विदुरन्ये".
Let's check line 10: "अथ तत्रभवान्भवभूतिः कीर्त्यादिसत्काव्यनिर्माणप्रयोजनप्राप्तये प्रेक्ष्यप्रबन्धभे-" Yes, "प्रेक्ष्यप्रबन्धभे-"
Line 11: "-दानां प्रधानं प्रकरणं साङ्गं मालतीमाधवं नाम रूपकमततान । तत्र प्रकरणलक्षणं"
Line 12: "भरते—'तत्र कविराजबुद्ध्या वस्तुशरीरं च नायकं चैव । स्वयमुत्पाद्य विरचयेत्स ज्ञेयं"
Line 13: "प्रकरणं नाम ॥' इति । दशरूपकेऽपि—'अथ प्रकरणे वृत्तमुत्पाद्यं लोकसंश्रयम् ।"
Line 14: "अमात्यविप्रवणिजामेकं कुर्यात्तु नायकम् ॥ धीरप्रशान्तं सोपायं धर्मकामार्थतत्प-"
Line 15: "रम् । शेषं नाटकवत्संधिप्रवेशकरसादिकम् ॥' इति
वृत्तम् । सानन्दं नन्दिहस्ताहतमुरजरवाहूतकौमारबर्हि- त्रासान्नासामरन्ध्रं विशति फणिपतौ भोगसंकोचभाजि । गण्डोड्डीनालिमालामुखरितककुभस्ताण्डवे शूलपाणे- र्वैनायक्यश्चिरं वो वदनविधुतयः पान्तु चीत्कारवत्यः ॥ २ ॥ भुशिरोगङ्गाया वारिधारा यासु ताः । तडिद्वत्येनालिकनेत्रतेजसा साक्षात्तादृशे- षेण मिश्रीभूता दीप्तियोगां ताः । कीदृश्या केतकर्यास्तोमेश्या सह संदिग्धाः समा- नाकृतिवर्णत्वात्किं केतकशिखेयमुत शशिरेखेति संदेहगोचरो मुग्धो मनोहर इन्दुर्यासु ताः । जटीकृता बद्धासु जूटीकृतासु विप्रकीर्णासु । एकस्याश्चन्द्रकलाया- स्तिरोधानप्रसङ्गेन केतकर्याशखासंशयजनकत्वायोगात् । भुजङ्गा एव वलयो लतास्ता- भिरेव वलयैर्बलयीकृतैः । लतासदृ
अपि च । दन्तश्रेणिषु संगलत्कलकलव्यावर्तनव्याकुला नासालोचनकर्णकुञ्जकुहरेषूद्गद्गदध्वानिनः । गण्डग्रन्थ्यभिघातशीर्णकणिकाश्चूडास्रवन्त्युर्मयः शंभोर्ब्रह्मकपालकंदरपरिस्पन्दोल्वणाः पान्तु वः ॥ ३ ॥ अन्यच्च । पक्ष्मालीपिङ्गलिम्नः कण इव तडितां यस्य कृत्स्नः समूहो यस्मिन्ब्रह्माण्डमीषद्विघटितमुकुले कालयज्वा जुहाव । अर्चिर्निष्टप्तचूडाशशिगलितसुधासारशात्कारिकोर्णं तार्तीयीकं पुरारेस्तदवतु मदनप्लोषणं लोचनं वः ॥ ४ ॥ (नान्द्यन्ते ।) सूत्रधारः—अलमलम् । उदितभूयिष्ठ एव भगवानशेषभुवन- द्वीपदीपः । तदुपतिष्ठे । (प्रणम्य ।) दौ पन्थाः ॥२॥ दन्तश्रेणिष्वित्यादि श्लोकद्वयं प्रक्षिप्तमिति पूर्वैर्व्याकृतमपि क्वचि- त्पुस्तकेषु दृष्टत्वादस्माभिर्व्याख्यायते—दन्तेति । चूडास्रवन्त्युर्मयः शिरोनदीतर- ङ्गा वः पान्तु । ब्रह्मकपालकंदरपरिस्पन्दोल्वणा विधिशिरःकरोटिपरिखलनप्रभूताः दन्तपङ्क्तिषु संगलन्त्यः क्षरन्त्यः कलकलसहितेन व्यावर्तनेन परिश्र मणेन व्याकुलाः। नासादिषुषि रप्रदेशेषु बुद्बुदशब्दवत्यः । गण्डस्थलाभिघाताद्विशीर्णा अत्युन्नतप्रदेशा- दधो विषमस्थले पतन्त्यो निर्भरवारिधारा यासां ताः । स्वभावोक्तिरलंकारः ॥ ३॥ पक्ष्मेति । तृतीयमेव तार्तीयीकम् । 'तीयादीकक् खार्थे वक्तव्यः' इतीकक् । मदनप्लोषणं स्मरदाहि लोचनं वोऽवतु। कीदृक्। यत्पक्ष्मपङ्क्तिपिङ्गलतयाः सर्वोऽपि तडित्संघो लेशः । कालो मृत्युरेव यज्वा। ईषद्विघटितमुकुले किंचिदुन्मीलिते यस्मिन्नाहवनीयस्थाने जगद्धुतवान् । ज्वालासंतापितशिरश्चन्द्रकलासुधाधारानि- पातेन प्रतप्तायसि जलबिन्दुसेचनेनेव शात्कारिप्रीन्तम् । उदात्तालंकारः ॥४॥ अथ प्रस्तावनां विवक्षुस्तदङ्गतयोः प्ररोचनामुखयोः प्रथमं प्ररोचनां प्रस्तौति—नान्द्यन्त इति । कृतपूर्वरङ्गे प्रथमप्रविष्टे सूत्रधारे नान्दीं पठित्वावशिष्टं च प्रत्याहारमार्जनाद्ये- षनादिपूर्वरङ्गाङ्गकलापं निष्पाद्य विनिर्गते तत्सदृशोऽन्यः सूत्रधारः प्रविश्य प्रस्ताव- यतीत्यर्थः । तदुक्तं दशरूपके—'पूर्वरङ्गं विधायादौ सूत्रधारे विनिर्गते । प्रविश्य तद्वदपरः काव्यमाख्यापयेन्नटः ॥' इति । प्ररोचनामुखलक्षणं तु—'निवेदनं प्रयो- ज्यस्य निर्देशो देशकालयोः । काव्यार्थसूचकैः शब्दैः सभायाश्चित्तरञ्जनम् ॥ कवि- काव्यनटादीनां प्रशंसा च प्ररोचना ॥' आदिशब्देन सभावस्तुनायकानां ग्रहणम् । 'सूत्रधारो नटीं ब्रूते मारिषं वा विदूषकम् । स्वकार्यप्रस्तुताक्षेपि चित्रोक्त्या यत्तदा- मुखम् ॥' इति । अलमिति । अनेकनान्दीश्लोकपाठकं पूर्वसूत्रिणं प्रति विलम्ब-
प्रथमोऽङ्कः । ६ कल्याणानां त्वमसि महसां भाजनं विश्वमूर्ते धुर्यां लक्ष्मीमिह मयि भृशं धेहि देव प्रसीद । यद्यत्पापं प्रतिजहि जगन्नाथ नम्रस्य तन्मे भद्रं भद्रं वितर भगवन्भूयसे मङ्गलाय ॥ ५ ॥ (नेपथ्याभिमुखमवलोक्य ।) मारिष, सुविहितानि रङ्गमङ्गलानि । संनिपतितश्च भगवतः कालप्रियनाथस्य यात्राप्रसङ्गेन नानादिगन्त- वास्तव्यो जनः । तत्किमित्युदासते भरताः । आदिष्टोऽस्मि विद्वत्प- रिषदा यथा—अद्य त्वयाऽपूर्ववस्तुप्रयोगेण वयं विनोदयितव्या इति । तत्परिषदं निर्दिष्टगुणप्रबन्धेनोपतिष्ठामः । मसहमानस्योक्तिः । प्रभातकालं निर्दिशति—उदितेति । भूयसा मण्डलेन भा- गेनोदितः । उदितकल्प इति भावः । उपतिष्ठे स्तोत्रेणाराधयामि । ‘पथ्याराधन- योश्च
६ | मालतीमाधवे
नटः—(प्रविश्य ।) भाव, कतमे ते गुणा यानुदाहरन्त्यार्य- मिश्रा भगवन्तो भूमिदेवाः । सूत्रधारः— भूम्ना रसानां गहनाः प्रयोगाः सौहार्दहृद्यानि विचेष्टितानि । औद्धत्यमायोजितकामसूत्रं चित्राः कथा वाचि विदग्धता च ॥ ६ ॥ नटः—भाव, कस्मिन्प्रकरणे ।
आर्या इति सर्वविद्यास्थानवेदिनः । मिश्रा इति पूज्यनिर्देशः । भूमिदेवा इति तत्प्रधानत्वात्, सभाया गुणदोषविवेचनस्य तदधीनत्वात्, देवतात्मकत्वेन तेषामाराधनीयत्वाच्च । अनेन सभाप्रशंसा कृता ॥ एते यानुदाहरन्ति त एते गुणाः क इति नटस्य प्रश्नः । तानेव गुणानाह—भूम्नेति । भूम्ना प्राचु- र्येण रसानामङ्गाङ्गिभावेन निविष्टानां शृङ्गारादीनां प्रयोगा अभिनया गहनाः स्थूलदर्शिभिर्भावयितुमशक्याः । रसनां हि व्यञ्जनेन विषयाणामगूढतवे गुणीभावप्र- सङ्गात्, गूढतयैव कामिनीकुचकलशवदिति भावनाचर्वणादौ सूक्ष्ममतय एव सहृदयाः समर्थाः । न तु पदपदार्थज्ञानकृतार्थाः पण्डितंमन्याः । यदाह ध्वनिकृत्— 'शब्दार्थशासनज्ञानमात्रेणैव न वेद्यते । वेद्यते स हि काव्यार्थतत्त्वज्ञैरेव केवलम् ॥' इति । अनेन रसैकप्रवणत्वं प्रबन्धस्य जीवितभूतो गुणो दर्शितः । तथा सौहार्देन निरुपाधिकस्नेहेन हृद्यानि मनोहराणि विचेष्टितानि नायकतन्मित्रादीनां व्यापाराः । अनेन धीरप्रशान्तनायकोपेतत्वं नाम गुणो दर्शितः । तथा औद्धत्यं शृङ्गाररसप्र- धानस्यापि नायकस्य तद्विरोधिबीभत्साद्भुतरौद्ररसालम्बनत्वम् । तथा आयोजि- तमानुकूल्येन संघटितं कामसूत्रं नायिकानायकयोरन्योन्यानुरागबीजं येन तादृशम् । कामोऽनुरागः । स एव वर्तिष्यमाणसर्वकार्यबीजभूतत्वात्सूत्रमिव सूत्रम् । अयं भावः—महामांसविक्रयाघोरघण्टादौ यद्वीभत्सरौद्रशृङ्गारविरोधिरसोपादानं तदपि प्रधानमालतीलाभलक्षणप्रयोजनानुगुण्येन शृङ्गाराङ्गभावपत्त्या विरोधपरिहारेणौ- चित्यमेव संपादयतीति । तदुक्तम्—'विवक्षिते रसे लब्धप्रतिष्ठे तु विरोधिनाम् । भावानामाङ्गभावं वा प्राप्तानामुकिरच्छला ॥' इति । अत्र खल्ववधानवता कविना भवितव्यम् । यद्विरोधिरसोपादानेऽप्यनौचित्यलेशोऽपि नास्पदं लभते । यदा- ह—'अनौचित्यादृते नान्यद्रसभङ्गस्य कारणम् । प्रसिद्धौचित्यबन्धस्तु रसस्यो- पनिषत्परा ॥' इति । अनेनौचित्यशालित्वं नाम गुणो दर्शितः । कथाश्चित्राः । वस्तु पुनराश्चर्यजनकमिति वृत्तवैचित्र्यं गुणः । वाचि विदग्धता उक्तौ चातुर्यम् । निर्दोषगुणालंकारयोगोऽनेन दर्शितः । ईदृशगुणगरिष्ठप्रबन्धप्रयोगार्थमादिष्टोऽस्मीति भावः ॥ ६ ॥ कस्मिन्निति । नैतादृशः प्रबन्धः प्रायेण लक्ष्यत इत्याशयः ॥
An exact line-by-line transcription of the Sanskrit text from the image into Unicode Devanagari:
प्रथमोऽङ्कः । सूत्रधारः—(विचिन्त्य ।) स्मृतम् । अस्ति दक्षिणापथे पद्मपुरं नाम नगरम् । तत्र ब्राह्मणाः केचित्तैत्तिरीयाः पङ्क्तिपावनाः काश्यपाः पञ्चा- ग्नयः सोमपीथिनो धृतव्रता उदुम्बरनामानो ब्रह्मवादिनः प्रतिवसन्ति । ते श्रोत्रियास्तत्त्वविनिश्चयाय भूरिश्रुतं शाश्वतमाद्रियन्ते । इष्टाय पूर्ताय च कर्मणेऽर्था- न्दारानपत्याय तपोऽर्थमायुः ॥ ७ ॥ तदामुष्यायणस्य तत्रभवतो भट्टगोपालस्य पौत्रः पवित्रकीर्तेर्नील- कण्ठस्य पुत्रः श्रीकण्ठपदलाञ्छनः पदवाक्यप्रमाणज्ञो भवभूतिर्नाम **कविर्निसर्गसौहृदेन भरतेषु वर्तमानः स्वकृतिमैवंगुणभूय
८ मालतीमाधवे उत्पत्स्यते मम तु कोऽपि समानधर्मा कालो ह्ययं निरवधिर्विपुला च पृथ्वी ॥ ८ ॥ तदुच्यन्तां तत्प्रस्थापनाय सर्वे कुशीलवा यथा—स्वसंगीतकप्रयोगे वर्णिकापरिग्रहे च त्वर्यतामिति । कविवर्णनां प्रति तेनैवमुक्तम् । गुणैः सतां न मम को गुणः प्रख्यापितो भवेत् । यथार्थनामा भगवान्यस्य ज्ञाननिधिर्गुरुः ॥ ९ ॥ अपि च । यद्वेदाध्ययनं तथोपनिषदां सांख्यस्य योगस्य च ज्ञानं तत्कथनेन किं नहि ततः कश्चिद्गुणो नाटके । अत्र प्रमुखे विनयप्रदर्शनं कवित्वगर्वोद्धत्यप्रकटनं च । नामेति प्रसिद्धौ । मदपे- क्षयापि प्रसिद्धा ये केचिन्महात्मानो नोऽस्माकमवज्ञां प्रथयन्ति कियदेतदित्यव- जानन्ति, ते हि विवेकसलिलसंक्षालितसंसारवासनापङ्ककलङ्के मनसि प्रत्यगात्म- वस्त्वेव परिभावयन्तस्तृणमिव जगदशेषमवलोकयन्तः किमपि रहस्यमुपनिषदेक- गम्यं वस्तु जानन्त इति युक्तैव तेषामस्मद्विद्यापरतन्त्रेष्ववज्ञा । अत एव तानुद्दिश्य नायं यत्नः । किं तर्ह्यतीतानामनेन प्रयोजनाभावाद्वर्तमानानामप्युत्त- माधमानांमत्राप्रवृत्तेः सदृशस्य चैवंविधग्रन्थनिर्माणदक्षस्यैतदनुपादानात् । यो मत्सदृश उत्पत्स्यते तं प्रतीति यत्तदोरनुपादानेऽपि सामर्थ्यात्तदुभयलाभः । तादृशस्योत्पत्तिः संभाव्यत इत्यत आह-काल इति । निरवधिरनन्तः । विपुला विस्तीर्णा । अतः कस्मिंश्चिद्देशे कस्मिंश्चित्काले मत्सदृशोऽपि कचिदेतदुपादायी जनिष्यत इति संभाव्यत इत्यर्थः । अथवा नामेति किलार्थे । ये केचिद्यादृशास्तादृशा नोऽवज्ञां किल प्रथयन्ति स्वमहिम्ना जगत्सर्वमभिभवतामस्माकमपि । उडुभिरिव भानोः क्षुद्रैः काचिदवज्ञावार्तेति चित्रमिति भावः । ते किं जानन्ति । न किमपीत्यर्थः। अज्ञत्वान्न तदवज्ञयास्माकं काचित्क्षतिरिति भावः । अपिशब्दो भिन्नक्रमः । एष यत्नोऽपि तान्प्रति न । तेषामलक्ष्यत्वात् । कं प्रति तर्हि । अतीतः प्रयोजनभा- वाद्वर्तमानस्य च मत्सदृशस्याभावाद्यः कश्चिन्मादृश उत्पत्स्यते तं प्रति । कथ- मिदानीमेतावति प्रपञ्चेऽप्यविद्यमानस्त्वादृश इतः परमुत्पत्स्यत इति संभावनेत्यत आह— अनवधौ कालेऽप्यपरिच्छिन्ने देशे यथाहमेक एतावतः कालस्योत्पन्नस्तद्देव को जानीते कदा वा कुत्र वा तादृशः कश्चिदुत्पद्येतापीत्यर्थः । हेत्वलंकारः ॥८॥ गुणैरित्यादि । सतामस्मद्गुरूणां गुणैः प्रख्याप्यमानैः । तच्छिष्यस्य मम को गुणो न प्रकटीकृतः तादृशैर्गुरुभिः शिक्षितत्वादेव स्वस्मिन्सर्वे संभाव्यन्त इत्यर्थः । तमेव गुरुं निदर्शयति—यथार्थेति ॥९॥ यद्वेदेति । उपनिषदां वेदशिरसां सांख्यस्य कापि- लस्य योगस्य पातञ्जलस्य च मोक्षशास्त्रस्य । नहीति । तत्परिज्ञानं न काव्यनिर्माणेनै- पुण्योपयोगमित्यर्थः । किं तर्हि नाटकरचनोपयुक्तमत आह-वचसां यत्प्रौढित्वं विव-
प्रथमोऽङ्कः। ९ यत्प्रौढित्वमुदारता च वचसां यच्चार्थतो गौरवं तच्चेदस्ति ततस्तदेव गमकं पाण्डित्यवैदग्ध्ययोः ॥ १० ॥ नटः—तावद्भूमिकाम्तथैव भावेन सर्वे वर्गाः पाठिताः। सौग- तजरत्प्रव्राजिकायाः कामन्दक्यास्तु प्रथमां भूमिकां भाव एक एवा- धीते। तदन्तेवासिन्यास्त्वहमवलोकितायाः। सूत्रधारः—ततः किम्। नटः—प्रकरणनायकस्य मालतीवल्लभस्य माधवस्य वर्णिकापरि- ग्रहः कथम्। सूत्रधारः—कलहंसमकरन्दयोः प्रवेशावसरे तत्सुविहितम्। नटः—तेन हि तत्प्रबन्धप्रयोगादेवात्रभवतः सामजिकानु- पासहे। क्षितार्थसमर्पणप्रावीण्यम्। ‘विवक्षितार्थनिर्वाहः काव्ये प्रौढिरिति स्मृता’ इति वच- नात्। ‘पदे वाक्यार्थरचना वाक्यार्थे च पदामिधा। प्रौढिर्व्याससमासौ च साभिप्राय- त्वमस्य च ॥’ इत्येवंरूपं वैचित्र्यं वा। उदारता प्रबन्धसौन्दर्यं श्लाघ्यार्थत्वं वा। अर्थतो गौरवमनेकार्थप्रतिपादनसामर्थ्यं गाम्भीर्यरूपं तदेतच्चेदस्ति, तदेव पाण्डित्यस्य व्युत्पत्तेर्वैदग्ध्यस्य कविताशक्तेश्च गमकं ज्ञापकम्। प्रबन्धगुणान्दृष्ट्वा स्वयमेव वि- द्वांसो मम वैदग्ध्यं ज्ञास्यन्ति। नत्वेतन्मया स्वकण्ठेन वक्तव्यमित्यर्थः॥१०॥एतावता कविकाव्यप्रशंसा कृतेति प्ररोचनां निर्वर्त्यामुखं प्रस्तौति—तावदित्यादि। वीथ्यङ्गानामामुखे विकल्पितत्वान्नात्र तेषामुपादानमिति मन्तव्यम्। तावत्साकल्येन भूमिकास्तत्तदभिनयकार्यं प्रति जनोचितवर्णवेषभाषामिनयादिपरिग्रहान्स्ववर्गान्त- र्गताः पाठिताः शिक्षिताः। सौगतजरत्प्रव्राजिकाया बौद्धवृद्धसंन्यासिन्याः प्रथमामा- दितः प्रवेशनीयाम् ॥ ततः किम्। ब्रूहीति शेषः। तत इति। आवाभ्यां तावत्काम- न्दक्या अवलोकितायाश्च भूमिकाद्वयं प्रथममेव गृहीतम्। प्रधाननायकभूमिकापरि- ग्रहस्तु कथं केन वा कर्तव्य इत्यर्थः। उत्तरमाह—कलहंसेति। कलहंसो माधवस्य चेटः, मकरन्दो मित्रम्, तत्प्रवेशावसर एवैतन्माधवभूमिकापरिग्रहणं भविष्यतीति नेदानीं तच्चिन्तनीयम्। तेन सर्वं सुष्ठु विहितम्, न किंचिदपि कर्तव्यमवशिष्टमि- त्यर्थः। तदनेन प्रथमं कामन्दक्यवलोकिताप्रवेशः सूचितः। केचित्तु यावन्त्यत्र प्रकरणे पात्राणि तेषां सर्वेषामपि प्रथमतः प्रवेशः सूचित इति व्याचक्षते। तदसं- गतम्। तत्प्रवेशावसर एव प्रवेशस्य सूचनीयत्वात्। न तु कृत्स्नप्रकरणपात्रप्रवेशः प्रथमतः सूचनीय इति प्रकरणलक्षणत्वे न क्वचिदपि ग्रन्थे दृश्यते। तत्तत्पात्रप्रवे- शसमये तत्तत्सूचनं स्फुटमेवाग्रे दृश्यत इत्यलम् ॥ तेनेति। सामाजिकनिर्दिष्ट- गुणयोगित्वेन वगैैरधीतत्वेन चेत्यर्थः। समाजे समवेतान्सामाजिकान्। 'पशूनां स-
१० मालतीमाधवे सूत्रधारः—बाढम् । एषोऽस्मि कामन्दकी संवृत्तः । नटः—अहमप्यवलोकिता । (इति निष्क्रान्तौ ।) प्रस्तावना । (परिवृत्य रक्तपटिकानेपथ्य उभावुपविष्टौ प्रविशतः ।) कामन्दकी—वत्से अवलोकिते । अवलोकिता—आणवेदु भअवदी । कामन्दकी—अपि नाम कल्याणिनोर्भूरिवसुदेवरातपत्यो- १. आज्ञापयतु भगवती । मजोऽन्येषां समाजोऽथ सधर्मिणाम्' इत्यमरः ॥ बाढमिति । तथा कुर्म इत्य- र्थः । एष इति । सूत्रधाररूपपरित्यागेन कामन्दकीभूतोऽस्मि ॥ अहमप्यवलो- किता संवृत्तेत्येतदामुखाङ्गं प्रयोगातिशयः । तदुक्तम्—'एषोऽयमित्युपक्षेपात्सूत्र- धारप्रयोगतः । पात्रप्रवेशो यत्त्रायं प्रयोगातिशयो मतः ॥' इति । अन्यस्य पात्रस्य प्रवेश एषोऽयमित्युपक्षेपः । सूत्रधारस्यैव समनन्तरपात्रत्व एषोऽहमित्युपक्षेप इति नातीव भेदः ॥ इति प्रस्तावना ॥ परिवृत्य निर्गमनं नाटयित्वा । काषायशाटीविर- चितवेषावुपविष्टौ कामन्दक्यवलोकितावेषधारिणौ प्रविशतः । इत्येवं प्रस्तावनां परि- समाप्य सूचनीयकथांशसूचनार्थं मिश्रविष्कम्भमारभते—कामन्दकीत्यादि । वदतीति शेषः । विष्कम्भलक्षणं तु—'वृत्तवर्तिष्यमाणानां कथांशानां निद- र्शकः । संक्षेपार्थस्तु विष्कम्भो मध्यपात्रप्रयोजितः ॥' इति । 'शुद्धः संकीर्णो वा द्विविधो विष्कम्भकोऽपि वक्तव्यः । मध्यमपात्रैः शुद्धः संकीर्णो नीचमध्यमकृत ॥' इति । शेषं नाटकवदित्यतिदेशात्प्रकरणेऽपि विष्कम्भकनिवेशः । तथा चाहुः— 'प्रकरणनाटकविषये प्रवेशको नाम विज्ञेयः । विष्कम्भकस्तु कार्यो नाटकयोगे प्रकरणे च ॥' इति ॥ अवलोकितेति । आज्ञापयतु भगवती ॥ अपि नामेति । कल्या- णिनोः कल्याणं मङ्गलमन्योन्यानुरूपं वयोरूपभाग्यसौभाग्यादिकमनयोरस्तीति तौ तयोक्तौ । अनेन चान्योन्यानुगुणयोगान्मालत्येव माधवस्य योग्या वधूः, स एव तस्याः समुचितो वर इति सूचितम् । भूरिति श्लाघ्यवंशप्रसूतत्वेन कुलतत्संबन्धा- र्हत्वं ध्वनितम् । मालतीमाधवयोरितरेतरयोगद्वन्द्वनिर्देशेन साहित्यप्रतीतेः तद्धेतु- रन्योन्यानुरागोऽस्तीति द्योत्यते । अभिमतम् । तयोर्बन्धूनामन्येषां च सहृदयानाम- भिलषितमित्यर्थः । तदनेन मालतीमाधवयोरन्योन्यानुरागोऽत्र प्रकरणे बीजभूत- सूचितो भवति । यथा—'स्तोकोद्दिष्टः कार्यहेतुर्बीजं विस्तार्यनेकधा' इति । प्रथमं स्वल्पमेवोद्दिष्टः पश्चादनेकधा विस्तारी यः कार्यस्य प्रयोजनस्य हेतुः सोऽर्थो बी- जमित्युच्यते । अत्र च प्रकरणे मालतीप्राप्तिर्माधवस्य प्रधानं कार्यम् । तद्धेतुश्च
? No. Let's look at the strokes of that glyph: Horizontal top bar. Short vertical stroke down. Then it turns right, loops, comes down-left, and hooks down-right. That is precisely the letter ह! With a top slant: े = हे. Then the next letter: Vertical bar, loop to the left with a horizontal connection: that is precisely न! With a top slant: े = ने. So it is unmistakably "हेने"! Then व with ा: वा. Then स्मि: स्मि. So it is printed as: "आन्तरहेनेवास्मि-"! Even if it's an error for आन्तरस्नेहेनेव or आन्तरङ्गेणेव, the print clearly says "आन्तरहेनेवास्मि-". Wait, could it be "आन्तरङ्गेनैवास्मि-"? Wait, where would the ङ् and ग be? If ङ् and ग were there, it wouldn't look like ह at all. So it is printed as "आन्तरहेनेवास्मि-".
Wait, let's look at line 2 again: The first word of line 2: रनयोर्मावती... or रनयोर्माळती... or रनयोर्माध... wait! Let's look at the very first word of line 2: र न यो र्मा ल ती मा ध व यो र भि म तं
कामन्दकी—वत्से, मा मैवम् । यन्मां विधेयविषये स भवान्नियुङ्क्ते स्नेहस्य तत्फलमसौ प्रणयस्य सारः । प्राणैस्तपोभिरथवाभिमतं मदीयैः कृत्यं घटेत सुहृदो यदि तत्कृतं स्यात् ॥ १२ ॥ किं न वेत्सि । यदैव नो विद्यापरिग्रहाय नानादिगन्तवाससाहच- र्यमासीत्तदैवास्मत्सौदामिनीसमक्षमनयोर्भूरिवसुदेवरातयोः प्रवृत्तेयं प्र- गिजनोचितद्यूत्यादिकृत्येष्वमात्यभूरिवसुर्नियोजयतीति तस्य तावत्कार्यप्रस्तावाद- न्येन वास्य दुष्करत्वादनुचितेऽपि व्यापारे भगवतीं नियोजयतु नाम । तस्मिंश्चायासा- उत्खण्डित उच्छिन्नः संसार एवावग्रहो निःश्रेयसामृतवर्षप्रतिबन्धः । मोक्षान्तराय इति यावत् । स यस्य आत्मा युष्माभिरपि निक्षिप्यत इति यदेतत्सर्वमाश्चर्यमिति योजना ॥ कामन्दकी । वत्से इति । नैवं वक्तव्यमित्यर्थः ॥ यन्मामिति । स पू- ज्यो भवान्भूरिवसुर्मां विधेयविषये कृत्यविषये नियुङ्क्त इति यत्तत्स्नेहस्य प्रेम्णः फलम् । असौ विश्रम्भयोग्यं प्रेमैव प्रणय इ
१. अङ्क १-३: पद्मावती नगरी, कामन्दकी योजना, माधव-मालती प्रथम दर्शन व मकरन्द-मदयन्तिका अनुराग
प्रथमोऽङ्कः । १३ तिज्ञा अवश्यमावाभ्यामपत्यसंबन्धः कर्तव्य इति । तदिदानीं वि- दर्भराजस्य मन्त्रिणा सता देवरातेन माधवं पुत्रमान्वीक्षिकीश्रवणाय कुण्डिनपुरादिमां पद्मावतीं प्रहिण्वता सुविहितम् । अपत्यसंबन्धविधिप्रतिज्ञा प्रियस्य नीता सुहृदः स्मृतिं च । अलोकसामान्यगुणस्तनूजः प्ररोचनार्थं प्रकटीकृतश्च ॥ १३ ॥ अवलोकिना—किंति मालदिं अमच्चो माहवस्स अप्पणा ण प्पडिवादेइ । जेण चोरिअविआहे भअवदी तुवरावेदि । कामन्दकी— तां याचते नरपतेर्नर्मसुहृन्नन्दनो नृपमुखेन । तत्साक्षात्प्रतिषेधः कोपाय शिवस्त्वयमुपायः ॥ १४ ॥ १. किमिति मालतीममात्यो माधवस्यात्मना न प्रतिपादयति । येन चौर्यविवाहे भगवती त्वरयति । वितिवत् 'त्यदादीनि सर्वैर्नित्यम्' इत्येकशेषप्रसङ्गात् । द्विपर्यन्तानामेवत्यदादित्व- मिति तु त्यदायत्वमात्रनिरासार्थम् । तदिदानीमिति । तत्प्रतिज्ञातम् । मन्त्रिणे- तिपदं बहुप्रयोजनोद्देशेन पुत्रमत्र प्रेषितवानिति तस्य बुद्धिकौशलं प्रकटयितुम् । आन्वीक्षिकी न्यायशास्त्रम् । नीतिशास्त्रस्यापि न्यायमूलकत्वात्तदन्तर्गतिः । सुविहितं साधु संपादितम् । सुविधाने युक्तिमाह—अपत्येति । पूर्वमेव संबन्धस्य प्रतिज्ञात- त्वात्स्वयमेव भूरिवसुः सुतां माधवाय दास्यतीति यदि तमत्र देवरातो न प्रेषयेत्तदा स्मारकाभावात्कालविप्रकर्षाच्च भूरिवसुः प्रतिज्ञां विस्मरेदपि । तदनेन पुत्रप्रेषणेन सुहृदः प्रतिज्ञा स्मृतिविषयं प्रापिता । यदि वा कदाचिद्दृष्टवशात्स्मरणेपि वरगुण- परिज्ञानादतिलोकलावण्यशालिनीं सुतां दातुं संशयीत, तदपि निराकृतम् । यतः प्ररोचनार्थं संबन्धेच्छोत्पादनार्थं यूनोरन्योन्यानुरागजननार्थं चानितरसाधारणगु- णस्तनूजः प्रकटीकृतश्चेति युक्तिद्वयात्प्रतिज्ञातं सुतप्रेषणेन सुविहितमित्यर्थः ॥ १३ ॥ अवलोकिता—किमिति मालतीममात्यो माधवस्यात्मना न प्रतिपादयति । येन चौर्यविवाहे भगवती त्वरयति । माधवस्येति चतुर्थ्यर्थे षष्ठी ॥ स्वयमप्रदाने निमित्तमाह—कामन्दकी । तामिति । नरपतेर्नर्मसुहृत्क्रीडासचिवो नन्दनस्तां मालतीं नृपमुखेन याचते । नन्दनाय प्रयच्छेति राज्ञा याचयतीत्यर्थः । राज- गुणेन याचते न तु श्लाघ्यवरगुणेनेति भावः । तस्या नरपतिप्रार्थनायाः साक्षा- न्मुखतो न प्रयच्छामीत्येव निषेधो राज्ञः कोपाय स्यात् । अयं तु चौर्यविवाहरूप उपायः शिवः शोभनः । अभिमतसुहृत्संबन्धनृपद्वेषलक्षणेष्टानिष्टप्राप्तिपरिहारहेतु-