मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
388 मानमेयरहस्यश्लोकवार्तिके अन्वयस्य सपक्षेऽपि विपक्षवददर्शनात् । द्वाभ्यां च व्यावृत्त एषः धूमस्संशयको भवेत् ॥ तथाचापोहहूपार्थो लोके नैव प्रसिद्ध्यति । अतोऽन्वयोऽप्यङ्गमिति स्वीकृतुमुचितं बुधैः ॥ अन्वयस्य क्वचिद्दृष्टौ ह्यतद्व्यावृत्तिनिश्चयः । यत्तु सर्वत्रान्वयोऽयं दुर्गहस्स्यादितीरितम् ॥ तत्तुल्यं व्यतिरेकेऽपि नैषोऽदर्शनमात्रतः । किन्तु दृश्यादर्शनात, एकदेशास्थितस्य तु ॥ न कदाचिद्धि सर्वत्र दृश्यादर्शनसंभवः । तेन सर्वत्रान्वयेऽथ व्यतिरेके च सर्वतः ॥ अविज्ञातेऽपि बहुशः साहित्यावगमात्पुनः । व्यभिचारादर्शनेन सनाथादनुमोदयः ॥ सर्वैरभ्युपगन्तव्यः एवं शब्देऽपि दृश्यताम् । तद्वस्तुविषयौ लिङ्गशब्दौ नापोहगोचरौ ॥ अपोहवार्तिकश्लोकभाव एवं निरूपितः । 7 अन्वयव्यतिरेकी च तथा स्यात्केवलान्वयी ॥ केवलव्यतिरेकी च हेतुः व्याप्तिप्रभेदतः । अतस्त्रिधाऽनुमानं स्यादिति न्यायविदां मतम् ॥ कौमारिलाद्याः नेच्छन्ति हेतुं तं व्यतिरेकिणम् । तथा वादीन्द्रादयश्च नेच्छन्त्यन्वयिनं पुनः ॥
व्याप्तिः 38 अन्वयव्यतिरेक्येकहेतुमात्रविदस्ति चेत् । तृतीयश्शोभते पन्थाः स च द्वावपि दूषयेत् ॥ नैयायिकास्तु तान्सर्वान् दूषयेयुः महाधियः । अत्रायमभिसंधिस्स्यात् केवलव्यतिरेकिणः ॥ निरासे वेदविदुषां न्यायशुद्ध्यादिसूचितः । हैतुकास्साधयन्त्यत्र केवलव्यतिरेकिणा ॥ यद्यदिच्छन्ति तत्सर्वं स चादौ भज्यते यदि । त्र्यंशोऽवरोपितो भारो भवेद्धैतुकभञ्जने ॥ प्रमाणवादारम्भे च तद्विस्तर उदीरितः । साध्याप्रसिद्धिः वैषम्यं व्यर्थतोपनयस्य च ॥ अन्वयेनैव सिद्धिश्च व्यतिरेकिणि दूषणम् । तत्स्थाने ह्यभिषिञ्चन्ति पञ्चमीं प्रमितिं तु ते ॥ व्यतिरेकव्याप्तिबुद्ध्या साऽन्यथाऽकारि तार्किकैः । यच्चानुकूलतर्के सत्यप्रसिद्धविशेषणः ॥ न दोष इति भाषन्ते तार्किकाः तदसङ्गतम् । तर्को हि नाप्रसिद्धार्थं क्वचित्साधयितुं क्षमः ॥ अतोऽप्रसिद्धतादोषः तर्के सत्यपि दुस्त्यजः । केवलव्यतिरेकी च स क्वचिद्भावगोचरः ॥ अभावगोचरश्चेति द्विविधो विबुधैर्मतः । गौरिति व्यवहर्तव्य इति स्याद्भावगोचरः ॥
इतरेभ्यो भिद्यत इत्यभावाविशेषयो मतः । व्यावृत्तिर्व्यवहारश्च लक्षणस्य प्रयोजनम् ॥ इति व्यवहृतिः प्राचां विदुषां तन्निबन्धना । 8 केवलान्वयिहेतुश्च सम्मतो न्यायवेदिभिः ॥ अत एवाविनाभावः दुर्ग्रहः तत्र कथ्यते । धर्मादयः प्रमेयत्वात् प्रत्यक्षाः कस्यचित्त्विति ॥ उदाहरन्ति न्यायज्ञाः केवलान्वयिनं क्वचित् । इदं वाच्यं ज्ञेयतयेत्यपि क्वापि प्रयुज्यते ॥ तद्दूषयति वादीन्द्रः समाधिस्तत्र हि श्रुतः । वाच्यत्वं ज्ञायते चैवं ज्ञेयत्वमभिधीयते ॥ विरोधो व्यक्तिभेदेन यथावदुपशाम्यति । वाच्यत्वेऽपि च वाच्यत्वं ज्ञेयत्वे ज्ञेयता तथा ॥ व्यक्तिभेदाद्विरोधस्य शान्तिः बीजाङ्कुरादिवत् । नात्माश्रयप्रसक्तिर्वा नान्योन्याश्रयताऽपि वा ॥ प्रमेयत्वाभिधेयत्वप्रसङ्गे इति निर्णयः । तथापि विफलं त्वेतदिति केचन जानते ॥ इदं प्रयोजनं ज्ञेयं तत्त्वमुक्ताकलापतः । यतो वाचो निवर्तन्त इति श्रुत्येकदेशिनाम् ॥ सद्विवर्तविदां मार्गनिरोधः प्रथमं फलम् । दुस्साधं क्वचिदप्येवमवाच्यत्वादि चेत्तदा ॥
अनुमेयवादः 391 किं पुनस्सर्ववचसां प्रतिष्ठा यत्र तत्रतु । 9 महाविद्या नाम कश्चिद्धेतुः वादीन्द्रसम्मतः ॥ स केवलान्वयी यावत्सपक्षेषु स्थितो मतः । महाविद्यासूत्रकर्ता यः कुलार्काभिधो बुधः ॥ महाविद्याप्रवीणश्च शिवादित्याभिधो बुधः । तस्यास्ति किंचिद्व्याख्यानं महाविद्याविडम्बनम् । तस्य प्रणेता वादीन्द्रः यस्स्याच्छङ्करकिङ्करः । विवादाध्यासितं स्वस्वेतरवृत्तित्ववर्जितः ॥ यस्सकर्तृकनिष्ठस्स्यात्तस्याधिकरणं भवेत् । प्रमेयत्वात्कलशवत् इत्यादिः केवलान्वयी ॥ एतेन क्षित्यङ्कुरादेस्स्यात्सकर्तृकतेति च । तर्कानुकूल्यतस्तत्र बलाबलविनिर्णयः ॥ इति प्राचीनसिद्धान्ताः प्रायस्संगृह्य दर्शिताः । वेदान्तसूरिभिर्न्यायपरिशुद्धाविति स्थितम् ॥ (79) अनुमेयवादः. 1 न्यायवार्तिकतात्पर्यटीकायां कारिका इमाः । दिङ्नागकथिताः वाचस्पतिमिश्रैरुदाहृताः ॥ केचिद्धर्मान्तरं मेयं लिङ्गस्याव्यभिचारतः । संबन्धं केचिदिच्छन्ति सिद्धत्वाद्धर्मधर्मिणोः ॥
392 मानमेयरहस्यश्लोकवार्त्तिके लिङ्गं धर्मे प्रसिद्धं चेत् किमन्यत्तेन मीयते । अथ धर्मिणि तस्यैव किमर्थं नानुमेयता ॥ संबन्धेऽपि द्वयं नास्ति षष्ठी श्रूयेत तद्वति । अवाच्योऽनुगृहीतत्वात् न चासौ लिङ्गसंगतः ॥ लिङ्गस्याव्यभिचारस्तु धर्मेणान्यत्र दृश्यते । तत्र प्रसिद्धं तद्युक्तं धर्मिणं गमयेदिति ॥ २ मीमांसकानां सिद्धान्ते त्वनुमेयमिदं मतम् । इदानीं पर्वते वह्निरस्तीत्यनुमितिः भवेत् ॥ देशकालानुरक्तस्य वह्नेः प्रागप्रसिद्धितः । सिद्धसाधनशङ्का तु वारितैवं कुमारिलैः ॥ पर्वतस्याग्निरस्तीति संबन्धोऽस्तीति वा तयोः । न हि प्रयुञ्जते धीराः संबन्धोऽतो न साध्यते ॥ तस्माद्धर्मविशिष्टस्य धर्मिणः स्यात् प्रमेयता । तत्र धर्मी धूम एव प्राच्यतार्किकसम्मता ॥ ३ गुरुभिस्त्वन्यथा तत्र निर्णीतं तत्प्रदर्श्यते । व्याप्तिग्रहणवेलायां धूमवत्यखिले स्थले ॥ वह्निमत्ताऽस्तीतिबुद्धेः प्रकृते पर्वते पुनः । धूमवत्त्वं ग्रहीतव्यं नच तेजस्विता पुनः ॥ सा हि पूर्वगृहीतैव संस्कारात्स्मर्यते तदा । प्रत्युत्पन्ननिदानोत्था संगतिस्त्वनुमा ततः ॥
अनुमेयवादः 393 4 सामान्यव्याप्तिसहितपक्षधर्मत्वधीबलात् । सामान्ये पक्षनिष्ठत्वं विशेषः न्यायविन्मतः ॥ अनुमेयं च मत्त्वर्थः नान्यशब्दार्थ इत्यतः । संबन्धसाध्यतापक्षाक्षेपास्सर्वे निवारिताः ॥ तस्माल्लोकायिताशङ्काः सर्वा अप्याकुलीकृताः । इति नैयायिकैकान्तः विश्रुतस्सर्ववादिनाम् ॥ स एव प्रायशस्सर्वैः स्वीकृतो नव्यसूरिभिः । निरूढतर्कसंस्काराः सुधियः प्रथमं यतः ॥ 5 यत्सिषाधयिषन्त्यत्र तार्किकाः परमेश्वरम् । तत्रानुमाने यत्किंचित्प्रसङ्गादिह कथ्यते ॥ प्राधान्येनानुमानं तु त्रिविधं हीशसाधनम् । कार्यालिङ्गकमाद्यं स्यात् द्वितीयं वेदलिङ्गकम् ॥ अदृष्टलिङ्गकं चान्यत् विस्तरः कुसुमाञ्जलौ । वेदलिङ्गकमेवोपदेशलिङ्गकमुच्यते ॥ विवादाध्यासितं ह्येतत्कार्यत्वात्स्यात्सकर्तृकम् । कादाचित्कत्वतः कार्यं सर्ववित्कर्तृपूर्वकम् ॥ अन्वयव्यतिरेक्याद्यं द्वितीयं व्यतिरेकवत् । वेदवाक्यं कर्तृपूर्वं वाक्यत्वाद्भारतादिवत् ॥ वेदस्सर्वज्ञप्रणीतः वेदत्वात् व्यतिरेक्यदः । अदृष्टं सकलं साक्षात्कर्तृधीमदधिष्ठितम् ॥
394 मानमेयरहस्यश्लोकवार्तिके अचेतनत्वे च सति कार्यकारित्वतस्त्विति । अत्र दोषादोषचिन्ता प्रवृत्ता महती कथा ॥ (80) न्यायवादः. 1 प्रतिज्ञा चापदेशश्च तथैव च निदर्शनम् । तथैव चानुसंधानं प्रत्याम्नायश्च पञ्चमः ॥ 2 इति प्रशस्तपादोक्तमथ पक्षिलभाषितम् । प्रतिज्ञा च तथा हेतुरुदाहरणमित्यपि ॥ तथैवोपनयश्चापि भवेन्निगमनं ततः । जिज्ञासा संशयश्चैव शक्यप्राप्तिः प्रयोजनम् ॥ व्युदासस्संशयस्येति दशान्येऽवयवान्विदुः । प्रमाणसामर्थ्यबुद्धिः शक्यप्राप्तिरितीर्यते ॥ परे तु पञ्चावयवान् प्रतिज्ञादीन् प्रचक्षते । न्यायः परप्रत्ययार्थः वाच्यं यावदपेक्षितम् ॥ पञ्चावयवसंयुक्तमित्याहुरिह केचन । अत्रचावयवव्यूहे प्रमाणानि परस्परम् ॥ संभूयसंदिग्धमर्थं साधयन्तीति भाषितम् । शब्दः प्रतिज्ञाऽनुमानं हेतुः प्रत्यक्षमेव तत् ॥ उदाहरणमत्रोपमानं चोपनयो मतः । सर्वेषामुपसंहारो भवेन्निगमनं पुनः ॥
न्यायवादः ३९५ ३ स्वाभिप्रायानुसारेण परः प्रत्यायते परैः । तत्र स्वप्रतिपत्तिर्हि क्रमेणैवं प्रजायते ॥ प्रथमं पर्वतोऽध्यक्षः कथ्यते स प्रतिज्ञया। ततो लिङ्गस्योपलब्ध्या हेतुना तन्निवेद्यते ॥ ततो व्याप्तिस्मृतिः साऽपि दृष्टान्तेनाभिधीयते । ततः परामर्शसिद्धिः स चोपनयवेदितः ॥ ततश्चानुमितिस्सैषा प्रोक्ता निगमनादिह । एवं च पञ्चावयवाः जयन्तेन निगुम्भिताः ॥ ४ इति तार्किकसिद्धान्तं प्रायस्सर्वोऽनुमन्यते । अथ मीमांसकानां तु मते भेदः प्रदर्श्यते ॥ प्रतिज्ञया निगमनं हेतुनोपनयस्तथा । गतार्थ इति कः कुर्यात् पञ्चावयवघोषणाम् ॥ तदेवं पौनरुक्त्येन तथाऽध्याहारदोषतः । तर्कबौद्धमते हित्वा वयं त्र्यवयवे स्थिताः ॥ तत्तु पञ्चतयं केचित् द्वयमन्ये वयं त्रयम् । उदाहरणपर्यन्तं यद्बोद्राहरणादिकम् ॥ ५ तथाचावयवद्वैधवादिभिस्सौगतैरिह । यत्सत्तत् क्षणिकं सन्तश्चामी भावा इतीर्यते ॥ तत्रोदाहरणं चोपनयश्चेति द्वयं मतम् । सूच्यन्ते नहि पाठ्यन्ते धीमन्तो वादिनः खलु ॥
396 मानमेयरहस्यश्लोकवार्त्तिके पक्षस्य वचनं नाम प्रतिज्ञा स च दुर्वचः । ज्ञातव्ये पक्षधर्मत्वे पक्षो धर्म्यभिधीयते ॥ व्याप्तिकाले भवेद्धर्मः साध्यसिद्धौ पुनर्द्वयम् । तस्मान्नयाये प्रतिज्ञायाः प्रयोगो नेति जानते ॥ सपक्षः स्यात्समानोऽर्थः साध्यधर्मसहत्तवतः । सपक्षलक्षणं त्वेतद्दिङ्नागविबुधोदितम् ॥ अनुमेयेऽथ तत्तुल्ये सद्भावः नास्तिताऽसति । इत्येवं धर्मकीर्तेश्च सपक्षविषयं वचः ॥ एवं स्थितेऽपि कैश्चित्तु बौद्धैः क्षणिकवादिभिः । सपक्षलक्षणं साध्यधर्मवत्त्वमितीरितम् ॥ ततश्च पक्ष एव स्यात्सपक्ष इति तन्मतम् । सत्त्वेन क्षणभङ्गानुमाने सर्वसपक्षता ॥ ततश्च पक्षवचनमनपेक्षितमुच्यते । तत्तु सर्वैरपि परैः विबुधैः प्रतिषिद्ध्यते ॥ 6 प्रतिज्ञा हेतुरिति च द्वयमेवार्हता विदुः । मन्दबुद्धिविवेकाय दृष्टान्ताद्यपि कुत्रचित् ॥ 7 न च शक्यं प्रतिज्ञातुं पक्षो नास्तीति केवलम् । एतत्प्रतिज्ञावाक्यार्थे पक्षोपगमसंभवात् ॥ तस्य चानभ्युपगमे न हि पक्षो निषिद्ध्यते । न हेतुनिरपेक्षात्मा पक्षो नामास्ति कश्चन ॥
न्यायवादः ३९ प्रसाधयितुमिष्टो हि हेतुना पक्ष उच्यते । हेतुमात्रनिषेधोऽपि न च सर्वत्र शक्यते ॥ स्वप्रवृत्तिविरोधेन न कारकनिषेधनम् । ज्ञापकस्य निषेधस्तु व्यवहारविरोधकृत् ॥ न दृष्टान्तनिषेधोऽपि सर्वलोकविसम्मतेः । तत्पक्षहेतुदृष्टान्तमर्यादा सुप्रतिष्ठिता ॥ तथा न्यायनिरुक्त्याख्यवादेऽधिकरणात्मकः । न्यायो निरूप्यते चैवं नयोऽप्यार्हत उच्यते ॥ ८ यो वादिप्रतिवादिभ्यां निश्चितस्साधनं तु तत् । इति दिङ्नागोक्तमतः नासत्यात्सत्यधीः क्वचित् ॥ येऽपि रेखादयो दृष्टाः वर्णानां प्रतिपादकाः । न ते स्वेनापि रूपेण परमार्थत्ववर्जिताः ॥ वर्णात्मना न सत्याश्चेत्सर्वभावेष्वयं विधिः । पदार्थान्तररूपेण न सत्यं किंचिदिष्यते ॥ हेत्वादीनां तु भवतः स्वरूपेणाप्यसत्यता । तेन बाष्पादिवत्तेषामुपायत्वं न लेख्यवत् ॥ नन्वसत्यपि बाह्येऽर्थे बुद्ध्यारूढेन सिद्ध्यति । वासनाशब्दभेदोत्थविकल्पप्रविभागतः ॥ न्यायविद्भिरिदं चोक्तं धर्मादौ बुद्धिमाश्रिते । व्यवहारोऽनुमानादेः कल्प्यते न बहिः स्थिते ॥
३९८ मानमेयरहस्यश्लोकवार्तिके अस्तीदं वचनं तेषामिदं तत्र परीक्ष्यताम् । भेदोऽसतः कथं हि स्यात् बुद्धिशब्दप्रकल्पनात् निर्वस्तुके कथंचस्यात्प्रसवो बुद्धिशब्दयोः । शब्दभेदोऽपि भवतः तदभावान्न सिद्ध्यति ॥ ननु यद्वन्मया हेतुः नेष्यते दूषणं तथा । तेन मे दूषणाभावात् अदुष्टं किं न साधनम् ॥ नेदानीं दूषणं कार्यं साधनाभावतो यदि । त्वयैवास्मदभिप्रेता स्वपक्षासिद्धिराश्रिता ॥ एवमादिवचोभेदैः निरालम्बनसाधनम् । दूषितं विस्तरेणेदं वीक्ष्यतां श्लोकवार्तिके ॥ असत्यात्सत्यधीयुक्तिं समालम्ब्य हि शाङ्करे । शारीरके जगन्मिथ्यावाद एष समर्थितः ॥ नन्वेकत्वैकान्तवादे नानात्वं न प्रसिद्ध्यति । प्रत्यक्षादिप्रमाणानि व्याहतानि भवन्ति हि ॥ तथा विधिप्रतीषेधशास्त्राण्यप्यफलानि च । मोक्षशास्त्रं तथा शिष्यशासित्रादि विहन्यते ॥ कथंवा सत्यमेकत्वमनृतादवगम्यते । अत्रोच्यते प्राक्प्रबोधात् सर्वं सत्स्वाप्नवत्ततः ॥ सर्वोपपत्तिरेकत्वं त्वसत्यादपि गम्यते । यथा शङ्काविषाद्धेतोर्मरणाद्युपजायते ॥
हेत्वाभासाः 399 रज्जुसर्पान्मृगजलाद्दंशनस्नानधीरपि । सत्याप्रबोधनिर्बाधा फलमप्युपलभ्यते ॥ शुभाशुभस्वप्नदृग्भ्यां सूच्येते साध्वसाधुनी । तथा सत्याक्षरज्ञानमस्ति रेखानृताक्षरात् ॥ देहात्मप्रत्ययो यद्वत्प्रमाणत्वेन कल्पितः । लौकिकं तद्वदेवेदं प्रमाणं त्वात्मनिश्चयात् ॥ इत्यादिः विस्तरो ज्ञेयः, तत्र श्रीभाष्यकृत्पुनः । असत्ये विषयेऽप्यत्र प्राह ज्ञानस्य सत्यताम् ॥ तेन ज्ञानेन सत्येन मता सर्वत्र सत्यधीः । सत्यादसत्यधीर्वा स्यान्नासत्यात्सत्यधीः क्वचित् ॥ सर्वस्यास्य विवादस्य निदानं वचनं पुनः । अनिर्वाच्यविचारे प्राक् धर्मकीर्तेरुदाहृतम् ॥ (81) हेत्वाभासाः. 1 अनुमेयेन संबद्धं प्रसिद्धं च तदन्विते । तदभावे च नास्त्येव तल्लिङ्गमनुमापकम् ॥ विपरीतमतो यत्स्यात् एकेन द्वितयेन वा । विरुद्धासिद्धसंदिग्धमलिङ्गं काश्यपोऽब्रवीत् ॥ इति प्रशस्तपादेन प्रोक्तं वैशेषिकं मतम् । अथ नैयायिकमते विश्वनाथस्य संग्रहः ॥
00 मानमेयरहस्यश्लोकवार्तिके २ अनेकान्तो विरुद्धश्चाप्यसिद्धः प्रतिपक्षितः । कालात्ययापदिष्टश्च हेत्वाभासास्तु पञ्चधा ॥ आद्यस्साधारणस्तु स्यादसाधारणोऽपरः । तथैवानुपसंहारी त्रिधाऽनैकान्तिको भवेत् ॥ यस्सपक्षे विपक्षे च भवेत्साधारणस्तु सः । यस्तूभयस्माद्व्यावृत्तः स चासाधारणो मतः ॥ तथैवानुपसंहारी केवलान्वयिसाध्यकः । यस्साध्यवति नैवास्ति स विरुद्ध उदाहृतः ॥ आश्रयासिद्धिराद्या स्यात् स्वरूपासिद्धिरप्यथ । व्याप्यत्वासिद्धिरपरा स्यादसिद्धिरतः त्रिधा ॥ विरुद्धयोः परामर्शो हेत्वोस्सत्प्रतिपक्षता । साध्यशून्यो यत्र पक्षः त्वसौ बाध उदाहृतः ॥ ३ असिद्धिश्च विरुद्धश्चानैकान्तिक इति त्रयः । हेत्वाभासा इति प्राहुरार्हता अपि कोविदाः ॥ यस्संदिग्धविपक्षस्स्यात् स त्वनैकान्तिको मतः । बाधादिरप्यसिद्ध्यादावन्तर्भावमिहार्हति ॥ प्रमाणानां स्वरूपेण संख्यया विषयेण च । फलेन च चतुष्पात्त्वं आभासस्तद्विपर्ययः ॥ ४ प्रत्यक्षादिप्रमाणानामाभासस्यापि दर्शनात् । हेत्वाभासस्य चैकस्य ग्रहणं चोपलक्षणम् ॥
हेत्वाभासाः 4 5 अनुमानाभास एव साध्याभासादिसंभवात् । सोऽपि ग्राह्य इति प्राहुरपरे विबुधोत्तमाः ॥ 6 समासमाविनाभावावेकत्र स्तो यदा तदा । समेन यदि नो व्याप्तस्तयोर्हीनोऽप्रयोजकः ॥ विपक्षे बाधकाभावादुपाधेर्वाऽपि संभवात् । हेत्वाभासोऽन्यथासिद्धयन् अप्रयोजक इष्यते ॥ संदिग्धनैकान्तिकस्स्यादप्रयोजक इत्यपि । सौगतोक्तिरयुक्ता यदसिद्धेरुपजीव्यता ॥ 7 स्वेनैव स्वस्य रोधश्चेत्स्वव्याघातो ननूच्यते । स्वस्य सिद्धावासिद्धौ वा विरोधः किं करिष्यति। अत्रोच्यते या हि युक्तिः परपक्षापनुत्तये । उपात्ता तत्सजातीया स्वपक्षं चेत्प्रतिक्षिपेत् ॥ तादृश्या परपक्षस्य नच दोषः प्रसज्यते । स्वपक्ष एव दुष्टस्स्यादिति दूषकतोदिता ॥ दुष्टस्यापिच यद्यस्ति दूषकत्वं तदा भुवि । नित्यं स्यात्कलहः मौनं शरणं वाऽथ वादिनाम्। 8 सर्वं बाधितमेवास्तु वादिनामिति नैव सत् । बाधस्य बाधेऽबाधेऽपि सर्वाबाधोऽवतिष्ठते ॥ विचारो वस्तुरूपश्चेत्किं सिद्धयेत्सर्वशून्यता । विचारोऽवस्तुरूपश्चेदपि नो सर्वशून्यता ॥ M.R. 51
402 मानमेयरहस्यश्लोकवार्तिके 9 मीमांसकानां सिद्धान्ते त्वथाभासो निरूप्यते । दोषोऽनुमाने द्विविधः प्रतिज्ञाहेतुभेदतः ॥ त्रिधा प्रतिज्ञादोषस्स्यात् स्ववाग्विहतिलक्षणः । वन्ध्या मे जननीत्येवं सर्वं वाक्यं मृषेत्यपि ॥ यावज्जीवमहं मौनी धर्मिधर्मोक्तिरोधतः । असिद्धिश्चाप्यनैकान्तिकत्वं बाधकतेति च ॥ हेतुदोषस्त्रिधा ख्यातः पञ्चधाऽसिद्धिरुच्यते । स्वरूपासिद्धिसंबन्धासिद्धी च व्यतिरेकतः ॥ असिद्धिराश्रयासिद्धिः व्याप्त्यसिद्धिश्च पञ्चमी । शशशृङ्गादिहेतुत्वे स्वरूपासिद्धिरुच्यते ॥ पक्षावृत्तेस्तु हेतुत्वे संबन्धासिद्धिरुच्यते । व्यतिरेकासिद्धिरेषा हेतुः पक्षात्मको यदि ॥ आश्रयासिद्धिरत्र स्यान्नचेत्पक्षः प्रसिद्धयति । भिन्नाधारे साध्यहेत्वोः व्याप्यत्वासिद्धिसंभवः ॥ द्विधाऽनैकान्तिकत्वं स्याद्धेतुदोषोऽप्यनन्तरः । आद्यं सव्यभिचारं स्यात् परं सप्रतिसाधनम् ॥ बाधकत्वं विरुद्धत्वं तृतीयो दोष इष्यते । 10 भाट्टानां संशयोभीष्टः फलं सप्रतिसाधने ॥ गुरूणां तादृशो दोषः नेष्टः वस्तुविरोधतः । नहि वस्तु विकल्प्येत न विरुद्धसमुच्चयः ॥
एतेन वस्तुनो नानाकारता भाट्टसम्मता । सोऽनेकान्तो वाद इति गुरुभिस्त्वधरीकृतः ॥ अतएवानित्यदोषं प्राहुर्नैयायिका अपि । रत्नकोशकृतोऽप्यत्र विदुस्संशयहेतुताम् ॥ असाधारणदोषस्य शाक्यास्संशयहेतुताम् । वदन्ति तच्चानुमतं दूषितं च कुमारिलैः ॥ 11 विरुद्धव्यभिचारीति केचिज्जात्यन्तरं विदुः । साधारणविशेषं तं प्राहुः केचन सूरयः ॥ असाधारणमित्यन्ये प्रतिपक्षं परे विदुः । यथा परोदितैरेव पक्षहेतुनिदर्शनैः ॥ विरुद्धसाधने तत्र विरुद्धव्यभिचारिता । सर्वसत्प्रतिपक्षाणां विरुद्धव्यभिचारिताम् ॥ कदाचिदूचुराचार्याः समासरुचयो बुधाः । 12 पक्षेण व्यभिचारस्य चोदना शाक्यसम्मता ॥ संदिग्धानैकान्तिकता सोच्यते, नान्यसम्मता । अनुमानस्य चोच्छित्तिस्तादृग्दोषानुधावने ॥ 13 स व्यधिकरणासिद्धः हेतुः पक्षेतरस्थितः । इत्याहुरपरे सोऽपि संबन्धासिद्धिमान् भवेत् ॥ 14 असाधारण एवायमनध्यवसिताभिधः । हेत्वाभासान्तरमिति भूषणन्यायसम्मतः ॥
भासर्वज्ञादयो न्यायसारादाविममाश्रिताः । पन्थानमिति विज्ञेयं मानमेयोदयादितः ॥ सर्वोदाहरणं न्यायमञ्जर्यादिषु विश्रुतम् । पश्यन्त्वपेक्षावन्तश्चेदयं दिङ्मात्रसूचकः ॥ (82) कथा. 1 एकाधिकरणौ धर्मौ तुल्यकालौ विरोधिनौ । पृथक्परिग्रहौ पक्षप्रतिपक्षावुदीरितौ ॥ परस्परविरुद्धार्थवादिनोर्हि विवादिनोः । व्यवहारः कथेत्युक्तः सा कथा त्रिविधा मता ॥ वादजल्पवितण्डाभिः तत्स्वरूपं पुनस्त्विदम् । वीतरागकथा वादः विजिगीषुकथा परः ॥ वितण्डा स्थापनाहीना परपक्षैकदूषणम् । प्रतिज्ञा साधनं चैव दूषणं च विनिर्णयः ॥ व्यवहारश्चतुष्पादः लोकवच्चैव निर्णयः । सर्वथा सदुपायानां वादमार्गः प्रवर्तते ॥ 2 अधिकारोऽनुपायत्वान्न वादे शून्यवादिनः । इति सत्यविदः प्राहुः, आद्यो वादस्स खण्डने । यदि शून्यविदं वादानधिकारं वदेत्सुधीः । तस्मिन्नेव विवादेनाधिकारं दित्सति स्वयम् ॥
[Header] कथा 40
यदि शून्यविदन्यं प्रत्याहानाधिकृतिं सुधीः । तस्य चाप्रतिवादित्वात् निग्रहस्थानमेव तत् ॥ अत्रोत्तरं पुनरिदं ते वादानधिकारिणः । इत्यन्तेवसतां सोऽयमुपदेशो भवेदिति ॥ कथानधिकारवाचा निष्प्रयोजनतोदिता । इति मार्गान्तरं न्यायपरिशुद्धावुदीरितम् ॥ प्रयोजनानुयोगेन वितण्डावादिनिग्रहः । वात्स्यायनोदितः सोऽध्वा विद्वद्भिरनुगम्यते ॥ विस्तरश्शतदूषण्यां वेदान्ताचार्यसूरिभिः । कृतः कथाऽनधिकारवादे नावमिके पुनः ॥ 3 वादेषु नियमा एते कल्प्यन्ते प्रौढिसिद्धये । अदन्त्यो वा निरोष्ठ्यो वा लुङ्प्रयोगोऽथवा तथा यङ्प्रयोगो यक्प्रयोगः इत्यादिश्शब्दगोचरः । अनुमानेनैव तथा शब्देनैव तथेति वा ॥ वैदिकेनागमेनैवेत्येवं मानव्यवस्थितिः । छलजात्यादयोऽप्येवं निग्रहस्थानलक्षणाः ॥ कक्ष्यादिनियमाश्चापि न्यायशास्त्रे हि विश्रुताः । एवंविधा हि निर्बन्धाः वादिनां जयहेतवः ॥ 4 अर्थिप्रत्यर्थिनोस्तावन्न द्वयोर्जयसंभवः । एकस्य विजयेऽपि स्यात् सफला सत्कथैव सा
यत्र द्वयोर्न विजयः नवा तत्त्वविनिश्चयः । कुकथां कथयन्त्येनां असदुक्तिपरंपराम् ॥ तां द्विकक्ष्यादिकामेके षट्कक्ष्यावधिकां विदुः । पूर्वत्रासंभवात् सभ्यैः उत्तरत्र निवारणात् ॥ असदप्रतिभादौ तु पक्षैकत्वमपि क्वचित् । सभ्येष्वसत्स्वदक्षेष्वप्युपर्युपरि धावति ॥ 5 अथ पत्रमुखो वादो विदुषां हृदयंङ्गमः । प्रमेयाम्बुजमार्त्तण्डोदाहृतः कश्चिदुच्यते ॥ प्रसिद्धावयवं वाक्यं स्वेष्टस्यार्थस्य साधकम् । साधुगूढपदप्रायं पत्रमाहुरनाकुलम् ॥ श्वान्तभासितभूताद्यत्यन्तात्मदुभान्तवाक् । परन्तद्योतितोदीप्तमितितस्वात्मकत्वतः ॥ चित्राद्यदन्तराणीयमारेकान्तात्मकत्वतः । यदित्थं न तदित्थं न यथाकिंचिदिति त्रयः ॥ तथाचेदमिति प्रोक्तौ चत्वारोऽवयवा मताः । तस्मात्तथेति निर्देशे पञ्च पत्रस्य कस्यचित् ॥ 6 छलैश्च निग्रहस्थानैः जातिभिश्चापि साधनम् । उपालम्भश्च वादे चेत् स जल्प इति निर्णयः ॥ विद्यायाः पालनार्थं सः न लाभाद्यर्थमिष्यते । छलं च त्रिविधं प्रोक्तं तद्द्वाविंशतिधा पुनः ॥
कथा 40 निग्रहस्थानमुदितं चतुर्विंशतिधा परम् । इति न्यायविदः प्राहुः परैर्विविधमिष्यते ॥ 7 छलं च प्रायशः विश्वव्यामोहनमिति स्थितम् । जातिः स्वव्याघातकत्वादसदुत्तरमुच्यते ॥ परापादितदोषाणामनभ्युपगमेन वा । तदुद्धारेण वा दोषं ब्रूयादिति विनिर्णयः ॥ तथैवाप्रतिपत्त्या वाऽथवा विप्रतिपत्तितः । प्रतिज्ञादिपरित्यागान्निग्रहस्थानसंभवः ॥ तूष्णींभावो यदा तूष्णींभावो निग्रहकारणम् । प्रलपेत्तु यदा तत्र भवेत्प्रलापितं तु तत् ॥ यथायथा चेष्टते सः तथा निग्रहहेतुता । अनन्तं निग्रहस्थानं कीर्तितं धर्मकीर्तिना ॥ एवं नानाविधकथाभासतत्त्वावलोकिनाम् । सदुत्तरैस्तदुत्थानात् तत्त्वधीजयसंभवः ॥ अन्यथा षण्डचेष्टावद्भवेयुरफलाः कथाः । इति प्रख्यापनायात्र कथाभास उदाहृतः ॥ 8 वादरूपैवैकधेति कथां तामार्हता विदुः । वीतरागकथा वाद इत्यतो विश्रुतो भुवि ॥ विश्रुता वीतरागास्ते नाम्नाऽपि प्रायशो बुधाः । पराजयभयाद्वीतरागता यशसेऽपि वा ॥