मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
सूत्रवार्तिकभाष्याकाराणां विगानस्य परिहारः त० वा० ५९५
( ४३ ) सूत्रवार्तिकभाष्याकाराणां विगानस्य परिहारः त० वा० ५९५ सूत्रप्रत्याख्यानस्य समाधानम् त० वा० ५९५ सत्यं ब्रूयादित्यस्य स्मृतिविहितस्य सत्यद्वयस्य निर्वचनम् त० वा० ५९५ साधुनियमप्रयोगनियमार्थाय व्याकरणम् त० वा० ५९६ वार्तिकभाष्यकारयोः परिहारं कृत्वा चिन्तान्यायेन आत्मज्ञानस्याभ्युदयनिः श्रेयसफलकत्वेन अप्रकरणस्थत्वे- नार्थवादत्वमिति वर्णनम् त० वा० ५९६-५९७ आदिमद्व्याकरणस्यानादिविधिमूलकत्वं व्यवहारनित्यतामादायो- पपत्तिः त० वा० ५९७-५९८ व्याकरणाधिकरणसिद्धान्तपक्षः न्या० सु० ५९८-६१५ भा० प्र० ६१५-६१६ आकृत्यधिकरणे पूर्वपक्षः शा० भा० ६१६-६१९, भा० वि० ६१९-६२३ लोकवेदाधिकरणम् त० वा० ६२३-६२५ आकृत्यधिकरणे पूर्वपक्षः त० वा० ६२५ वार्तिकमतम् त० वा० ६२६-६२७ भाष्योक्तपक्षद्वयस्य समर्थनम् त० वा० ६२७ पुनरुक्तिसमाधानं त० वा० ६२७ संस्थानाकृत्योर्भेदप्रतिपादनम् ६२७ शब्दान्तरादिभिः षड्भिः प्रमाणैः कर्मभेदः त० वा० ६२७-६२८ तार्किकजैमिनिमतयोरोपन्यासः त० वा० ६२८ तन्निरासः त० वा० ६२८-६२९ अत्र शङ्कासमाधाने त० वा० ६२९ स्वमतोपन्यासः त० वा० ६२९-६३० भर्तृहरिणा वाक्यपदीयेऽभिहितस्यार्थस्यानुवादः त० वा० ६३० तन्निरासः त० वा० ६३०-६३२ वक्ष्यमाणेन निरासहेतुना अस्य पक्षस्य निराकरणम् त० वा० ६३२ हरिणोक्तस्य दृष्टान्तस्य प्रतिक्षेपः त० वा ६३२-६३३ अपूर्वदेवतास्वर्गादिशब्दानामर्थान्तरपरत्वम्, न सत्तावाचित्वमित्यु- पपादनम् त० वा० ६३३ संशयस्योपसंहारः त० वा० ६३३-६३५ पूर्वपक्षः न्या० सु० ६३५-६५६ आकृतिशक्त्यधिकरणम् भा० प्र० ६५६-६६०
( ४४ ) शङ्कानिरासौ शा० भा० ६६०, भा० वि० ६६०-६६१ त० वा० ६६१, न्या० सू० ६६१-६६३, भा० प्र० ६६३-६६४ सिद्धान्तपक्षः शा० भा० ६६४-६६७, भा० वि० ६६७-६७२ त० वा० ६७२-६७४ परगतेनाधिकरणं व्याख्याय स्वमतेन नामाख्यातयोरर्थनिर्णयः इति निरूपणम् त० वा० ६७४ आख्यातार्थविचारस्य भावार्थाधिकरणे कृतत्वात् अत्र प्रकृत्यर्थविचारः त० वा० ६७४ अत्र सिद्धस्यैव तत्र व्यवहारो भाष्यकृतः त० वा० ६७४-६७५ अपूर्वं कस्मादिति प्रधानविचारे न पुनरुक्तिशङ्का त० वा० ६७५ संगतिसंशययोरुपपादनम् त० वा० ६७५ आकृतिपक्षेऽपि क्रियाया उपपत्तिर्व्यक्तिमादायैव वाच्येति फलवैलक्षण्याभावशङ्कासमाधाने त० वा० ६७५ ६७६ आकृतिशब्दार्थ इत्यत्र हेतूपन्यासाथमिति कथनम् त० वा० ६७६ आकृतेश्शब्दार्थत्वं पूर्वसिद्धं व्यक्तैर्वाच्यावाच्यत्वचिन्ता त० वा० ६७६ शब्दनित्यत्वाधिकरणे लौकिकशब्दानामभेदो विचारितः, अत्र लौकिकानां वैदिकानां शब्दानां भेदाभेदविचार इति प्रकारान्तरम त० वा० ६७७ लौकिकवैदिकानां शब्दानांमर्थभेदाभेदविचारः त० वा० ६७७ पूर्वपक्षः त० वा० ६७७-६७८ भेदपक्षे हेत्वन्तरोपन्यासः त० वा० ६७८-६७९ सिद्धान्तः त० वा० ६७९-६८० पक्षाणामानन्त्येऽपि भाष्यमतेन पक्षचतुष्टयोपपादनम् त० वा० ६८०-६८१ पूर्वपक्षः त० वा० ६८२-६८३ सिद्धान्तः त० वा० ६८३-६८४ सामान्यस्य वाच्यत्वसमर्थनम् त० वा० ६८४ व्यक्तैर्वाच्यत्वेऽनुपपत्तिप्रदर्शनम् त० वा० ६८४ समुदायस्य वाच्यत्वनिरासः त० वा० ६८५ एतावता वार्त्तिकेन व्यक्तिसमुदायपक्षौ दूषयित्वा जातिपक्षः समर्थितः अपरभाष्यव्याख्यायाम् त० वा० ६८५-६८८ सिद्धान्तपक्षः त० वा० ६८८, न्या० सू० ६८८-७११, भा० प्र० ७११-७१६ मीमांसादर्शनस्थश्लोकानां सूची ७२१-७४१ मीमांसादर्शनस्थशब्द सूची ७४२-७४६
मीमांसादर्शनम् [ भावप्रकाशिकाभावार्थोपबृंहित-भाष्यविवरण- न्यायसुधाव्याख्योपेत-तन्त्रवार्त्तिकव्याख्यान- सनाथीकृत-शाबरभाष्यसहितं जैमिनि- प्रणीतं मीमांसादर्शनम् ] प्रथमो भागः
(यह पृष्ठ रिक्त है / Blank page)
मीमांसादर्शनम् प्रथमाध्याये द्वितीयः पादः आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानां तस्माद- नित्यमुच्यते ॥ १.२.१ ॥ [पू०] शाबरभाष्यम् 'सोऽरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वम्' १। प्रजापतिरात्मनो वपामुदक्खिदत् २। देवा वै देवयजनमध्यवसाय दिशो न प्राजानन्' ३ इत्येवमादीनि समाम्नातारः समामनन्ति वाक्यानि । तानि किं कञ्चिद्धर्मं प्रमिमते, उत नेति भवति विचा- रणा । तदभिधीयते । क्रिया कथमनुष्ठीयेतेति हि तां ४वेदितुं समाम्नातारो वाक्यानि समामनन्ति । तद्यानि वाक्यानि क्रियां नावगमयन्ति, क्रियासम्बद्धं वा किञ्चित्, एवमेव भूतमर्थमन्वाचक्षते रुदितवान्रुद्रो, वपामुच्चिखेद प्रजापतिः, देवा वै दिशो न प्रजज्ञिर इत्येवं जातीयकानि, तानि कं धर्मं प्रमिमीरन् ? अथोच्येत—अध्याहारेण वा विपरिणामेन वा, व्यवहितकल्पनया वा, व्यव- धारणकल्पनया वा, गुणकल्पनया वा कश्चिदर्थः कल्पयिष्यत इति, स कल्प्य- मानः कः कल्प्येत ? रुद्रः किल रुरोद अतोऽन्येनापि रोदितव्यम् । उच्चि- खेदात्मनो वपां प्रजापतिरतोऽन्योऽप्युत्खिदेदात्मनो वपाम् । देवा वै देवयजन- काले दिशो न प्रज्ञातवन्तः, अतोऽन्योऽपि दिशो न प्रजानीयादिति । तच्चाशक्यम् । इष्टवियोगेन५, अभिघातेन वा यद् बाष्पनिर्मोचनम्, तद्रोदन- मित्यच्यते । न च तदिच्छातो भवति । न च कश्चिदात्मनो वपामुत्खिद्य, तामग्नौ प्रहृत्य तत उत्थितेन तूपरेण पशुना यष्टुं शक्नुयात् । न च देव- यजनाध्यवसानकाले केचिद् दिशो मुह्येयुः । अत एषामानर्थक्यम् । तस्मादेवं जातीयकानि वाक्यान्यनित्यानीत्युच्यन्ते । यद्यपि च नित्यानि, तथाऽपि न नित्यमर्थं कुर्वन्तीति । स एष वाक्यैकदेशस्याऽऽक्षेपो न कृत्स्नस्य वाक्यस्य । नन्वेकदेशाद्विना साकाङ्क्षः पदसमूहो न पर्याप्तः स्वस्मै प्रयोजनाय । अत आक्षिप्त एवेति । नैवम् । भवति हि कश्चित्पदसमूहो योऽर्थवादेभ्यो विनाऽपि विदधाति किञ्चिदर्थम् । यानि पुनस्तैः सह संयुज्यार्थान्तरे वर्तन्ते, तान्येक- देशाक्षेपेणाऽऽक्षिप्यन्ते ॥ १ ॥ १. तै० सं० १-५-१ । २. तै० सं० २-१-१ । ३. तै० सं० ६-१-५ । ४. अनुष्ठेयेति॰वदि॰ पु० । ५. अ इष्टवियोगादिना ।
पाद्यते । न चैवं सत्यर्थवादमात्रोदाहरणसंभवः सामान्यविनियोगप्रतिपादन-
४ मीमांसादर्शनम् [ सू० भाष्यविवरणम् यस्मादाविर्भूद्विश्वं यत्र च प्रविलीयते । तत्स्वतः सच्चिदानन्दं नमस्यामः परं महः ॥ १ ॥ प्रणमामि गणेशानं देवीं वाचं तथा गुरून् । यत्कृपालोकनादेव मनो मे शुद्धतामगात् ॥ २ ॥ श्रीमच्छाबरभाष्यस्य मया शिष्यहितैषिणा । कुमारिलोकभावस्य क्रियते विवृतिर्मया ॥ ३ ॥ अस्याधिकरणस्य विषयमाह--सोरोदीदित्यादिना । सङ्गतयस्त्वेवंद्रष्टव्याः- अथातो धर्मजिज्ञासेति प्रमाणादिभिः धर्मे जिज्ञास्यतया प्रतिज्ञाते किं तत्र प्रमाणमित्यपेक्षायां प्रथमेऽध्याये प्रमाणं निरूप्यते, तेनार्थवादादिप्रामाण्यनिरूप- णस्यापि धर्मप्रमाणविचारत्वादस्त्यध्यायसङ्गतिः, पादसङ्गतिस्तु प्रथमे सूत्रे समस्तस्य वेदस्य विवक्षितार्थतया प्रामाण्यप्रतिज्ञायां सत्यामपि अर्थवादादि- प्रायाण्यस्य विधिप्रामाण्याधीनत्वात् विधिभागस्यैव धर्मे प्रामाण्यं प्रतिज्ञाय प्रसाधितं प्रथमे पादे, अधुना धर्मप्रमितार्थवादादोनामुपयोगातद्विशेषाभावेना- प्रामाण्यमाशङ्क्य, तत्प्रतिपादनेन प्रामाण्यं प्रतिपाद्यत इत्येवं मन्तव्याः । यद्वोत्तरसूत्रसन्दर्भपर्यालोचनया चोदनाशब्दस्य वेदमात्रपरत्वावगमात् समस्तस्यैव वेदस्य धर्मे प्रामाण्यं चोदनासूत्रे प्रतिज्ञातम् । तच्च परतः प्रामाण्या- दिनिषेधेन समस्तस्य विध्याद्यात्मनो वेदस्यापातप्रतिपन्नैकवाक्यताबलेना- विवेचितावान्तरव्यापारं सामान्यतः प्रतिपादितम्, सम्प्रत्यर्थवादादीनामुपयोग- मात्राभावेन प्रातिस्विकोपयोगाभावेन चाक्रियार्थत्वादाक्षिप्योपयोगातद्विशेष- प्रतिपादनेन समाधीयत इति । वेदाधिकरणसङ्गतिस्तु चोदनानां प्रामाण्ये पदपदार्थसम्बन्धौत्पत्तिकत्वादिभिः प्रतिपादितेऽनन्तराधिकरणेन वेदपौरुषेयतया तदवयवानां तासां पौरुषेयत्वेना प्रामाण्यमाशङ्क्य, वेदापौरुषेयत्वप्रतिपादनेन चोदनानामपि तथात्वेन प्रामाण्ये प्रतिपादिते वेदावयवत्वेन धर्मप्रमाणतया बुद्धिसमारूढानामर्थवादादीनां तत्र प्रामाण्यमस्ति न वेति विचार्यते इति । अत्र चाद्येऽधिकरणे सर्वेषामेवार्थवादमन्त्र- नामधेयानामक्रियार्थत्वेनानर्थक्यमाशङ्क्याध्ययनविधिपरिग्रहाविशेषात् सामा- न्यतः क्रियार्थत्वं विधिना त्वेकवाक्यत्वात् इति सूत्रावयवेन प्रतिपाद्य, विशेषतोऽर्थवादानां द्वारविशेषाभावेनाक्रियार्थत्वमाशङ्क्य द्वारविशेषः प्रति- पाद्यते । न चैवं सत्यर्थवादमात्रोदाहरणसंभवः सामान्यविनियोगप्रतिपादन- दशाया मन्त्रनामधेययोरुपलक्षणत्वात् विशेषविनियोगप्रतिपादनाभिप्रायेण च तावन्मात्रोदाहरणं मन्त्रापेक्षया च प्रवृत्त्यङ्गत्वेन पदैकवाक्यत्वेन चार्थवादानां
१ ] प्रथमाध्याये द्वितीयपादः ५ विधिसन्निधानादर्थवादाधिकरणप्राथम्यम् । चिन्ताप्रयोजनं त्वर्थवादानां धर्म- प्रमित्युपयोगितया प्रामाण्यसिद्धिरिति । अध्ययनविधिपरिग्रहात् अक्रियार्थत्वाच्च संशयमाह—तानीति—कश्चि- दिति । यथाश्रुतशब्दप्रतिपादितं स्वार्थपर्यवसानानुपपत्तिकल्पितचोदनाप्रमाणकं वा स्वसन्निधिपठितविधिप्रमाणकं वेत्यर्थः । धर्ममित्यधर्मस्याप्युपलक्षणम्, तत्तस्यां विचारणायाम् अभिधीयते पूर्वपक्षः अक्रियार्थत्वेनानर्थक्ये साधनीये हेतोरन्यथासिद्धिनिरासाय सूत्रकृताम्नायस्य क्रियार्थत्वादित्युक्तम्, तस्यान्यथा- सिद्धिं परिहरन् पूर्वपक्षमाह—क्रियेत्यादिना । क्रिया=प्रवृत्तिनिवृत्तिलक्षणार्थ- भावना, सा कथम्, केन प्रकारेणानुष्ठेयेत्यपेक्षायां तत्प्रतिपत्तिद्वारेण तद्गतेष्टा- निष्टसाधनत्वप्रतिपत्तये वाक्यानि समामनन्तीत्यर्थः, क्रियाबोधनव्यापारेण वेदस्य धर्माधर्मयोः प्रामाण्यमिति प्रतिपादितम्, चोदनालक्षणो धर्म इत्यादिनेत्याशयः । ततः किमित्यपेक्षायां स्वशक्त्यवगतधर्मप्रामाण्यं तावन्न संभवतीत्यानर्थक्यमत- दर्र्थानामिति सूत्रांशं योजयन्नाह—तद्यानीति । तत्तथासत्येवंजातीयकानि यानि क्रियाभावं गमयन्ति, तानि न कश्चिद्धर्मं प्रमिमोरन्वित्यन्वयः । ननु क्रियाप्रातिपदिकत्वाभावेऽपि यथा साध्यसाधनेतिकर्तव्यताप्रतिपाद- कानां प्रामाण्यम् । तद्वत्किं न स्यात् अत आह—क्रियासम्बद्धमिति । किं तर्हि तान्यवगमयन्ति इत्यत्र आह—एवमिति । एवमित्युक्तं दर्शयति—रोदित्वा- निति । एवमर्थवादानां श्रुत्या क्रियार्थत्वाभावेन धर्मप्रामाण्ये निरस्ते, वृत्त्यन्तर- माश्रित्य क्रियार्थत्वं चोदयति—अथेति । कश्चित् क्रियारूपः साक्षात्क्रियार्थत्वा- भावेनानर्थक्यकल्पनात् कथञ्चित् क्रियार्थत्वेन धर्माधर्मप्रामाण्यकल्पनं वरम्, अन्यथाध्ययनविधिविरोधादिति भावः । वृत्त्यन्तराणामत्यन्तासंभवेनाध्याहार- पक्षमाश्रित्य समाधत्ते—स कल्प्यमान इति । यद्यप्युपादानवदुपेक्षाया अपि प्रमाणफलत्वेनाध्ययनविधेस्तद्विषयतयाप्युपपत्तेः न विधिकल्पकत्वं तथाभ्यु- पेत्योच्यत इति सूचयितुं कल्प्यमान इत्युक्तम् । अतीते रुद्ररोदनादौ प्रमाणान्त- राभा ॰ ॰ ॰ ॰ ॰ ॰ सत्यत्वनिश्चयात् तद्द्वारेणापि न विधिकल्पनेति किलकारः । दिशो न ज्ञातवन्तः—दिङ्मूढा आसन् । दिशो न प्रजानीयादिति दिक्षु मुह्येदिति यावत् । एवमध्याहारेण विधिकल्पना प्रकारमनूद्य दूषयति—तच्चेति । कल्पनं तच्छब्दार्थः । कुत इत्याशङ्क्य कल्प्यमानार्थस्येच्छाधीनतया दुरुपशां- नत्वेन दृष्टविरुद्धत्वादित्याह—इष्टेत्यादिना । अभिघातः—दण्डप्रहारादिः । न चेष्टवियोजनादिद्वारापि तत्कर्तुं शक्यम्, तत्रापोच्छाया असंभवत्, मङ्गलाचरणशीलतावादिशास्त्रविरोधाच्चेति भावः । वपोत्खननस्यापि इच्छा- संभवेन वाक्यशेषोक्ततूपरयागानुष्ठानासम्भवेन चाशक्यस्यानुष्ठानत्वेन दृष्टविरुद्ध-
६ . मीमांसादर्शनम् [ सू० त्वादामरक्षणकर्त्तव्यताप्रतिपादकशास्त्रविरोधाच्च न विधानमित्याह—न होति—दिङ्मोहस्य चापुन्तन्त्रत्वेन दृष्टविरुद्धत्वात् 'प्राङ्मुखोऽन्नानि भुञ्जीत' इत्यादिशास्त्रविरोधाच्च न कर्तव्यमित्याह—न चेति । ननु माभूद्विधिकल्पना स्वार्थपर्यवसानमेवैषामस्तु, अथ वा किं विधिकल्पनया प्रामाण्याभ्युपगमेन प्राशस्त्यादिलक्षणाद्वारेण स्वसन्निहितविध्येकवाक्यतया धर्मप्रामाण्योपपत्तेरिति शङ्कां परिहरन्नुपसंहरति—अत इति । अतः क्रिया- बोधनद्वारेण धर्माधर्मप्रमापकत्वाभावादेषामर्थवादानामानर्थक्यं निष्प्रयोजनत्व- मेव युक्तमित्यर्थः । अयं भावः प्रयोजनवदर्थपर्यवसायित्वमध्ययनविधिपर्यालोचनया वेदमात्रस्य भवताभ्युपगतमेव । न चार्थवादानां स्वार्थपर्यवसायिनां तद्युज्यते, तत्प्रतीत्या प्रयोजनादर्शनात् । अतः प्राशस्त्यादिद्वारा विध्येकवाक्यत्वमेवैषां प्रामाण्य- प्रयोजकमाश्रयितव्यम् न च तत्र प्रमाणमस्ति, न च प्राशस्त्यादिणक्षणणैवेक- वाक्यत्वे प्रमाणम् सर्वत्रैकवाक्यताधीनत्वाल्लक्षणायाः तस्या अपि तदधीनत्वे परस्पराश्रयदोषप्रसङ्गात् । न च प्रयोजनवदर्थविवोधपरत्वं वेदस्य प्रतिपाद- यन्नध्ययनविधिरेवैकवाक्यत्वे प्रमाणमिति वाच्यम् । अध्ययनविधेरर्थवादशक्त्य- नुसारित्वेन तदवगमितस्यैव विशिष्टस्यार्थस्योपेक्षादिफलवत्त्वकल्पनायामेव तस्य सामर्थ्यादिति आनर्थक्यप्रतिपादनफलतया सूत्रशेषं व्याचष्टे—तस्मादिति । नन्वर्थवादेष्वप्यपौरुषेयत्वादिनित्यत्व हेतुसाम्यात् कथम नित्यत्वव्यपदेशः तत्राह—यद्यपीति । तथापि नित्यानां चोदनानां यत्कार्यं धर्माधर्मप्रमितिलक्षणम्, तन्न कुर्वन्तीति कृत्वा नित्या नित्यविलक्षणानि¹ अप्रमाणानीत्युच्येरन्नित्यर्थः । अन्यैर्वृत्तिकारैरिदं सूत्रं सर्ववेदप्रामाण्याक्षेपार्थं व्याख्यातम् । अर्थवादाप्रामाण्ये हि स्तुतिनिन्दादिलक्षणेतिकर्तव्यतांशाभावेन शब्दभावना- संभवात् चोदनाप्रामाण्यस्याक्षिप्तत्वं स्यादिति तां निराकरोति—स एष इति । वाक्यस्यैकदेशो वाक्यैकदेशः, विध्युद्देशातिरिक्तस्य वेदभागस्येति यावत् । अर्थवादादीनामविशेषेण धर्मं प्रत्यनुपयोगस्यापि पूर्वपक्षिणोऽभिमतत्वम् । न चेह वाक्यभेदमङ्गीकृत्य पूर्वपक्षप्रतिपादनात् एकवाक्यत्वासंभवेन वाक्यैकदेशत्वासंभवः, सिद्धान्त्यभिमतैकवाक्यत्वमाश्रित्यैकदेशत्वोक्त्यविरोधात् । यद्वा क्रय्योः, गौरियं हि सम्पन्नबहुक्षीरेत्यादौ कारकपदानाभिव स्तावक- पदानामप्येकवाक्यत्वदर्शनात्, वेदेऽप्येकवाक्यत्वसंभवमाश्रित्य तस्य वेदे द्वारा- भावेन निर्वाह मपश्यतः प्रत्यवस्थानात् पूर्वपक्षेप्येकवाक्यत्वमाश्रितमेवेति न विरोधः । १. नित्यानित्यविलक्षणानीति मातृकायां पाठः ।
१ ] प्रथमाध्याये द्वितीयपादः ७ ननु समस्ताक्षेपवादिनामप्येकदेशाक्षेप इष्ट एवेति आशङ्कावधारणं विव- क्षितमिति दर्शयन्नाह—नेति । विध्युद्देशानां धर्मप्रमितिहेतुत्वस्य प्रतिपादित- त्वादिति भावः । तत्र वृत्तिकाराभिप्रेतं सर्वाक्षेप हेतुं निराकर्तुमाविष्करोति— नन्विति । एकदेशोऽर्थवादादिः पदसमूहो विध्युद्देशः स्वस्मै प्रयोजनाय—स्वीय- धर्मप्रमितिरूपकार्यसम्पादनायेत्यर्थः । अपर्याप्तौ हेतुः साकाङ्क्ष इति । अतस्त- दाक्षेपेणाक्षिप्ता एव पदसमूहरूपा विध्युद्देशा इत्यर्थः । निराकरोति—नैवमिति । न तावत्सर्वो विध्युद्देशः सार्थवादः, वसन्ताय कपिञ्जलानालभतेत्यादेश्चुद्धस्यापि दर्शनात्, यत्र तु 'वायव्यं श्वेतमालभेते' त्यादौ तद्वत्त्वम्, तत्रापि न तदाक्षेपेण सर्वाक्षेपनियम इत्याह—भवति हीति । कश्चिद्व्वायव्यं श्वेतमित्यादिः, कश्चिदर्थमिवान्तरवाक्यार्थं श्वेतालम्भनादिरूपम्, किमर्थानि तर्ह्यर्थवादपदानीति चेत् तत्राह—तैरिति । अर्थान्तरे—स्तुतिस्तुत्य- सम्बन्धात्मके महावाक्यार्थे तर्ह्येकदेशाक्षेपेण महावाक्यस्याक्षेपः स्यादित्या- शङ्क्य सिद्धसाधनतामाह—तानीति । अर्थवादपदैः संयुज्य महावाक्यार्थे वर्तमानान्येकदेशाक्षेपेणाक्षिप्यन्त इति अर्थवादाप्रामाण्येन महावाक्यार्थाविव- क्षायामप्यवान्तरवाक्यार्थविवक्षा दुर्निवारेति भावः ॥ १ ॥ तन्त्रवार्त्तिकम् सिद्धप्रमाणभावस्य धर्मे वेदस्य सर्वशः । विध्यर्थवादमन्त्राणामुपयोगोऽधुनोच्यते ॥ १ ॥ सामान्यतः प्रामाण्ये सिद्धेऽधुना विभज्य विनियोगः प्रतिपाद्यते । अवधूत- प्रामाण्यस्य वा वेदस्येदानीं समस्तस्य विध्यर्थवादमन्त्रनामधेयात्मकस्य यथा- विभागं धर्मं प्रत्युपयोगः प्रतिपाद्यते । तत्र पूर्वपक्षवाद्यभिप्रायः । 'चोदना- लक्षणोऽर्थो धर्म; वै० सू० १।१।१० इत्युपक्रमात्, 'तस्य ज्ञानमुपदेशः' इति परा- मर्शात्, तद्भूतानां क्रियार्थेन समाम्नाय इत्युपसंहाराद्विधिप्रतिषेधयोरेव प्रामाण्यं प्रतिपादितम्, न च तद्व्यतिरिक्तशब्दगम्यत्वं धर्माधर्मयोः, नाप्यनधिगतार्थबोधनं मुक्त्वाऽन्यः शब्दस्य व्यापारोऽस्तीत्युक्तमेव । अतश्च यावन्त्येव साध्यसाधनेति- कर्तव्यतावाचित्वेन विधिप्रतिषेधान्तर्गतानि, तेषां भवतु प्रामाण्यम्, यानि त्वतिरिक्तान्यर्थवादमन्त्रनामधेयानुपातीनि 'सोऽरोदीदिषे त्वोर्जे त्वोद्भ्रिदेत्ये- वमादीनि, तानि सत्यप्यपौरुषेयत्वे, अर्थाभिधानसामर्थ्ये च धर्माधर्मयोरप्रमाणम्, अतदर्थत्वात् । यथाश्रुतगृहीतानां तावत्प्रतीत्यनुपलब्धेः प्रसिद्धमेवातदर्थत्वम् । अथ कयाचिच्छब्दवृत्त्या तादर्थ्यं कल्प्येत, एवमपि व्यवस्थाहेत्वभावान्न धर्माधर्मयोरवधारणं स्यात् । यदेव हि वाक्यं गृहीतं तदेवाध्याहारविपरिणा- मादिभिर्यथेष्टं कल्पयितुं शक्यते । तद्यथा सोऽरोदीदित्येवमेव तावद्वाक्यं विशिष्ट-
८ : मीमांसादर्शनम् [ सू० पुरुषाचरितोपन्यासद्वारा रोदनकर्तव्यतापरम् । अथ वा महतामप्येवंविधाः प्रमादाः संभवन्ति, तस्मात्प्रयत्नेन वर्जयितव्यमिति । अतो विधिप्रतिषेधयोर- स्फुटत्वादद्धर्माधर्मत्वेन निर्णये शक्त्यभावः । शास्त्रदृष्टविरोधादयश्च स्थिता एव । यत्तु भूतान्वाख्यानमात्रं यथावस्थितैः प्रतिपाद्यते, तत्र यद्यपि सत्यत्व- मस्त्येव । तथाऽपि न तेन प्रयोजनमित्यानर्थक्यम् । अपि च 'धूम एवाग्नेर्दि- वेत्यादीनां स्वार्थेऽप्यप्रामाण्यं वक्ष्यते । विध्येकवाक्यत्ववशेनैव तेषां रूपभङ्गः क्रियते । न च तस्यापि किञ्चित्प्रमाणमस्ति । भिन्नैरपि हि तैः किञ्चित्प्रतिपाद- यितुं शक्यमेव । न च तत्प्रतिपादयतां निष्प्रयोजनतेत्यविज्ञायमानप्रयोजन- वदर्थान्तरकल्पना शक्या । न हि लोष्टं पश्यतस्तद्दर्शनं निष्प्रयोजनमिति, सुवर्णदर्शनता कल्प्यते । सर्वाण्येव च प्रमाणान्युपयुज्यमानमनुपयुज्यमानं वाऽर्थमात्मगोचरतापन्नं गमयन्ति । तेनैव चैषां हानोपादानोपेक्षाबुद्धयः फलत्वेन वर्ण्यन्ते । अन्यथा ह्युपादानमेवैकं फलं स्यात् । अपि च प्रमाणोत्पत्त्युत्तरकालं प्रयोजनवत्त्वमप्रयोजनवत्त्वं वा विज्ञायते, न तु तद्वशेन प्रमाणोद्भूतिः । तस्माद्यो यद्रूपोऽर्थः प्रतीयते, स तथैव प्रयोजनवत्त्वमप्रयोजनवत्त्वं वा प्रतिपद्यते । न हि प्रयोजनवदेव प्रमातव्यमिति कश्चिन्नियमहेतुरस्ति । यत्रापि तावत्स्वाधीनः प्रमाणविनियोगः, तत्राप्येतद् दुर्लभं किमुताबुद्धिपूर्वनित्यावस्थितवेदोत्थापित- ज्ञानग्राह्ये । न च वेदस्य प्रयोजनवदर्थाभिधानशक्तिः प्रथममवधृता । अयमेव हि परीक्षाकालो वर्तते कीदृशं पुनर्ब्रवीतीति । तच्च विदित्वा यथानुरूपमनुष्ठातुं क्षमा वयम्, न तु वेदं पर्यनुयोक्तुम्, किमयं निष्प्रयोजनमभिदधाति तद्वाऽभिद- धत्किमर्थं प्रयत्नेन धार्यत इति । सर्वपुरुषाणां केवलं प्रतिपत्तृत्वेन पारतन्त्र्या- द्वेदग्रहणोत्तरकालं च परीक्षावसरात् । न ह्यनधीतवेद एवाऽऽदौ परीक्षितुं क्षमः । पश्चात्परीक्षमाणस्य तु नाबुद्धिपूर्वनिर्वृत्तमध्ययनं प्रकरणगत्न्यायेन निश्चय- हेतुर्भवति । तस्माद्यथैवाग्निहोत्रादिवाक्यानां गम्यमानप्रयोजनवत्त्वादानर्थक्यं निष्प्रमाणकमिति नाऽऽश्रीयते, तथैवेषां प्रयोजनवत्त्वं नाऽऽश्रयितव्यम् । न हि यथावगताभ्युपगमादन्यत्किञ्चित्साधीयः परोक्षकाणाम् । योऽपि च क्लेशेन स्तुतिनिन्दात्मकोऽर्थः कल्प्येत, स भावनयाऽशक्याऽनन्तःपातित्वान्न गृह्यते । तया चागृहीतं न विधिप्रतिषेधावाश्रयतः । तदानाश्रितं च दूरे पुरुषार्था- द्ध्रवतीति । अपि चैवंविधेषु स्तुतिनिन्दाकल्पनायामितरेतराश्रयप्रसङ्गः । स्तुतिनिन्दात्म- कत्वेनैव ह्येकवाक्यता, तया चानुन्मीलितस्तुतिनिन्दोत्प्रेक्षाश्रयणम् । न चान्य- तरमूलप्रसिद्धिरस्ति, यतो व्यवतिष्ठेत । तस्मात्पृथगवस्थितानां दृष्टवादानर्थक्य- मेवोपपन्नतरमिति । स एष वाक्यैकदेशस्येति । विध्युद्देशातिरिक्तस्य सिद्धान्ता- भिप्रायेणैकदेशत्वं न तु पूर्वपक्षे, भिन्नवाक्यत्वाभ्युपगमात् । अथ वा वाक्यानां
१ ] प्रथमाध्याये द्वितीयपादः ९ मध्य एकदेशाक्षेपः कतिपयानामित्यर्थः । तत्र यानि तावत्केवलविधियुक्तानि तेषु नैवाऽऽशङ्का । यान्यपि लिङादिमन्ति प्रागर्थवादेभ्यो विधिसमर्थानि, तैः संयुज्यार्थान्तरे स्तुतिस्तुत्यसम्बन्धे वर्तन्ते, तेषामर्थवादाभावे तन्मात्रमेव हीयते । न तु विधित्वेन पुरुषार्थताऽपि । यानि तु वर्तमानापदेशयुक्तानि स्तुतिनिरपेक्ष- विध्यसमर्थानि । यथा “यस्य खादिरः स्रुवो भवति, स च्छन्दसामेव रसेना- वद्यति”१, इत्येवमादीनि । तान्येकदेशद्वारेण समस्तान्याक्षिप्यन्ते ॥१॥ सर्वानवद्यकारिणी न्यायसुधा आनन्दात्मनि विश्ववैभवभवाविर्भावसम्भावितः । स्वेच्छाधीशसचिवः पुरन्दरपुरीशानः स्वयं खेलति ॥ तत्कारुण्यकटाक्षकुङ्मलकलाकान्तोदयाघूर्णितः । स्वात्मानन्दसुधाम्बुधिविजयते धीमान्महेन्द्रामृतः ॥ १ ॥ यद्यप्यूषरमुपेत्य गुरुणा बीजम्महेन्द्रामृतम् । क्षेत्रञ्चित्रमनेकधोरु फलति प्राप्यात्मनोऽनर्घ्यताम् ॥ यन्मेघस्रुतवाङ्निरन्तरसुधासारैः समासिञ्चितम् । सोऽयं सर्वसुहृज्जनार्दनजगज्जीयाज्जगन्मण्डनम् २ ॥ २ ॥ उमानन्दनमाराध्य शारदामीश्वरं गुरुम् ॥ कृत्स्नशास्त्रप्रसादेन व्याख्यास्ये तन्त्रवार्त्तिकम् ॥ ३ ॥ अत्र भाष्यकारेणार्थवादानुदाहृत्य किञ्चिद्धर्मं प्रमिमते, उत नेति विचारितम् । तदयुक्तम् । प्रथमपाद एव सर्वप्रामाण्यकारणनिरासेन सर्वात्मकवेदप्रामाण्यस्य सुस्था- पितत्वात् । अथ साध्यसाधनेतिकर्त्तव्यतान्वितभावनाप्रतिपादकपदसमुदायमात्रेण श्रेयः- साधनरूपधर्मप्रमितिसिद्धेः, तदतिरिक्तानां वायुक्षेपिष्ठादिपदानां धर्मप्रमितावनुपयोग- माशङ्कय, उपयोगोऽत्रोच्यते । ततो विधिमन्त्रनामधेयान्यप्युदाह्रियेरन् । धर्मप्रमित्य- नुत्पादकत्वेन चानुपयोगित्वे अर्थवादादेर्दोषाभावेऽपि प्रामाण्यायोगादयमेव विचारः प्राग्भावी स्यात् । चोदनासूत्रप्रतिज्ञातप्रामाण्यस्य विधिभागस्य प्रसिद्धधर्मसंयोगस्य परतः प्रामाण्यनिरासेन प्राक् प्रामाण्योक्तावर्थवादादिविचारोऽप्रतिज्ञातविषयत्वाद- सङ्गतः स्यादित्याशङ्काचतुष्टयं निराकर्तुमाह-सिद्धप्रमाणभावस्येति । तत्रार्थवादार्पित- प्राशस्त्यमन्त्रस्मारितनामधेयावच्छिन्नधात्वर्थानुरक्तभावनाविषयप्रवर्त्तकपरत्वेन चोदना- शब्दस्य मन्त्रार्थवादाद्युपेतमहावाक्यविषयत्वान्नजिज्ञासासूत्रेण चाध्ययनविधिदृष्टार्थताप्रति- पादनेन सकलवेदप्रामाण्योपक्षेपादौत्पत्तिकत्वादियुक्तिसाधारण्याच्च वेदमात्रप्रामाण्यस्य प्रतिज्ञापरत्वेऽपि, यागेन स्वर्गमित्यादिसाध्यसाधनभावप्रतिपादकशब्दाभावेन धर्मप्रमित्य- शक्तत्वादसम्भवदर्थविषयत्वमाशङ्कय धर्मप्रमितिशक्तिप्रदर्शनार्थत्वेन चोदनावत्सङ्कीर्त्तनो- १. तै० सं० ३ । २. इमौ श्लोकौ २ पु० न भवतः ।
१० मीमांसादर्शनम् [ सू० पपत्तेरुपदेशो हि भवतीति चोदनाख्योपदेशत्वस्य हेतुत्वेन भाष्यकृता व्याख्यातत्वाद्देद- वाकयानि धर्मे प्रमाणं चोदनात्वादिति प्रतिज्ञासूत्रार्थविधारणादर्थवादादिप्रामाण्यविचारस्य प्रतिज्ञासङ्गतिनिरूपणार्थं वेदग्रहणम्, सिद्धेऽपि सामान्यतो वेदप्रामाण्ये तद्विशेषस्यार्थ- वादादेस्तदसंभवाशङ्कानिरासार्थत्वेनास्य विचारस्यापौनरुक्त्यनिरूपणार्थं विवेककीर्त्तनम् । सिद्धग्रहणेन चैतद्दर्शयति । प्रमाकरणत्वं प्रमाणत्वम् । न च प्रथमे पादे धर्मप्रमोत्पत्तिसिद्धयङ्गीकारेण तत्र वेदस्य करणत्वमुच्यते । प्रत्यक्षादेस्तत्करणत्वनिषेधाच्छब्दस्य च प्रमाणान्तरादृष्टेऽर्थे कारणत्वासिद्धेः तस्मात्का- रणाभावेन धर्मप्रमानुत्पत्तिमाशङ्कय कारणान्तराभावेऽप्याकाङ्क्षासन्निधियोग्यता- सध्रीचीनपदार्थप्रतिपादनद्वारेणापौरुषेयत्वात्प्रमाणान्तरानपेक्षः स्यात् एव निरस्तदोषा- शङ्कस्य वेदस्य कारणत्वोपपत्तेर्धर्मप्रमारब्धकार्यसद्भावस्तत्र प्रतिपादितः, इह त्वर्थ- वादादिरूपस्य वेदभागस्य तत्राकरणत्वमाशङ्कय करणत्वं प्रतिपाद्यत इति स्पष्टमेवापौन- रुक्त्यं करणनिरूपणार्थे तु प्रथमपादे सत्युक्तप्रमाणभावस्येत्यवक्ष्यत् । धर्मप्रमाया वेद- कार्यत्वप्रतिपादनेन त्वर्थात्सिद्धयदपि वेदस्य करणत्वं संमुग्धरूपेणैव सिद्ध्येन्नार्थवादादि- विशेषरूपेनेति प्रतिपादयितुं सर्वश इत्युक्तम् । अर्थवादादिप्रामाण्यासद्धौ सर्वात्मकवेदप्रामाण्यासद्धेः संमुग्धाभिप्रायः सर्वशब्दो व्याख्येयः । परतः प्रामाण्यादिद्वारा अप्रामाण्ये सकलस्य वेदस्य निरस्तेऽप्यर्थवादादीनाम- बोधकत्वेनाप्रामाण्यमाशङ्कय धर्मबोधोपयोगित्वमिह प्रतिपाद्यमित्युपयोगशब्देनोक्तम् । अर्थवादोदाहरणं त्वानर्थक्यमतदर्थानामित्यविशेषश्रवणात् प्रदर्शनार्थम्, द्वारप्रविशेषप्रति- पादने चार्थवादमात्रस्य द्वारविशेषोऽत्राधिकरणे प्रतिपाद्यत इति दर्शयितुम् । सामान्य- तः स्तुत्युपयोगित्वासिद्धौ लाक्षणिकस्तुत्यादिद्वारविशेषस्याशक्यकल्पनत्वात्पूर्वं सामान्यो- पयोगे विचार्यें । सर्वेषामेवोदाहरणत्वमिति विध्यर्थवादमन्त्राणामित्यनेनोक्तम् । सिद्धे च धर्मप्रमाख्ये कार्ये कियतो वेदभागस्य तत्र कारणनेति विचारावसरो भवतीत्यधुनेत्यनेनोक्तम् । तस्मात्सर्वमदुष्टम् । श्लोकं व्याचष्टे—सामान्यत इति । यद्वा प्रतिपादितमपि सकलवेदप्रामाण्यमर्थवादादिष्वसम्भवादाक्षिप्येह समाधीयते इति । अन्यथा श्लोकं व्याचष्टे—अवधृतप्रामाण्यस्येति । अस्मिन्व्याख्याने सामस्त्यं सर्व- शब्दार्थः । विध्यर्थवादमन्त्राणामिति तस्यैव विवरणम् । विध्यादिग्रहणस्योपलक्षणत्वा- द्व्याख्याने नामधेयग्रहणम् । इह हि द्विपर्वाविचारः । पूर्वं तावदेषामक्रियार्थत्वेनानुपयोगमाशङ्कयाध्ययनविधि- बलाद्विधिना त्वेकवाक्यत्वादिति सूत्रावयवेन, तत्तुल्यं च साम्प्रदायिकमित्यनेन च सूत्रेण निराकृतं द्वारासंभवात् पुनरुज्जीव्यार्थवादानां तावत् द्वारविशेषोऽस्मिन्नधिकरणे चिन्त्यते । तस्मादनेन सूत्रेण सामान्यविशेषरूपेण पूर्वपक्षद्वयं तन्त्रेणोच्यते । आम्नायस्य
१ ] प्रथमाध्याये द्वितीयपादः ११ 'तद्भूतानां क्रियार्थेन समाम्नाय' इत्यनेन न्यायेन क्रियार्थत्वावधारणादर्थवादादीनां तदसम्भवादानार्थक्यम् । अथाप्यध्ययनविधिवलादेषां कथं चित्क्रियार्थत्वं कल्पयितु- मारभ्यते, तथाप्यर्थवादानां तावद् द्वारासम्भवाद् दुःपरिहरमानर्थक्यमिति । भाष्यमप्येव- मेव योज्यम् । सामान्योपयोगप्रतिपादनं विना विशेषोपयोगप्रतिपादनासम्भवस्य 'अतो यावद्वेद एव पुरुषार्थतया सकलमात्मानं न प्रतिपादयति, तावदप्रमाणमि'त्यत्र वक्ष्यमाणत्वात् । तदभिधीयत इत्यादिपूर्वपक्षभाष्यं व्याचष्टे—तत्रेत्यादिना प्रसिद्धमेवातदर्थत्वमित्यन्तेन । विध्युपयोगस्यापि पूर्वपक्षिणोऽनिष्टत्वात्साध्यसाधनेतिकर्त्तव्यतान्वितभावनाप्रतिपादक- पदसमूहपरो विधिशब्दः । चोदनोपदेशशब्दावपि तत्परौ पूर्वपक्षी मन्यते । यद्वैतद्ग्रन्थपर्यालोचनयार्थवादादीनामेवेहोपयोगश्चिन्त्यते । पूर्वं तु विधिग्रहणं न केवलं विधेरेवोपयोगः, किं त्वर्थवादादीनामपीत्येवं नेयम् । धर्माधर्मोपयोगिविचारो- पक्रमाद्धर्माधर्मविषयमेव प्रामाण्यमभिप्रेतम्; विधिनिषेधयोरेव चोदनोपदेशशब्दाभ्यां धर्मा- धर्मप्रामाण्याभिधानादतद्रूपस्यार्थवादादेर्न तत्र प्रामाण्यम्, नाप्यन्यत्र 'तद्भूतानां क्रियार्थेन समाम्नाय' इति सर्वस्य समाम्नायस्य क्रियार्थत्वावधारणेन भूतान्वाख्यानपरत्वानभ्युपग- मादित्यर्थः । न चैतत्प्रक्रियामात्रम्; किं तु न्याय्यमेवेति यथाक्रमं फक्किकाद्वयेनोक्तम् । 'उक्तमेवेति' अर्थेऽनुपलब्धे इत्यत्रेत्यर्थः । तदनेन क्रियेत्यादि समामन्तीत्यन्तो- भाष्यावयवो व्याख्यातः । तद्यानीत्यादिभाष्यं व्याचष्टे—तुमतश्चेत्याद्युक्तम् । कं धर्मं प्रमि- मीरन्निति काक्वा सूचितो ऽर्थो यथाश्रुतेत्यादिना प्रकाशितः । एवं सर्वेषामनुपयोगित्वे पूर्वपक्षिते अध्ययनविधिसामर्थ्योपबृंहितसिद्धान्तसूत्रगततु- शब्दोपक्षिप्तं तुल्यं साम्प्रदायिकसूत्रोपपादितपुरुषाार्थानुबन्धित्वनिर्वाहाय अध्याहारादि- नापि क्रियार्थत्वं यथासम्भवं कल्प्यमिति पूर्वविचारसिद्धान्तनिरूपणार्थमथोच्येतेत्यादिभाष्यं तद्व्याचष्टे—अथ कयाचिदिति । । द्वारविशेषानिर्द्धारणेन पुनः प्रत्यवस्थानाथं स कल्प्यमान इत्यादिभाष्यम् । तद्व्याचष्टे—एवमपीत्यादिनाऽनर्थक्यमित्यन्तेन । कः कल्प्येतेत्यनेनोक्त- मनवधारणं दर्शयितुमुद्भाष्यः प्रतिषेधाध्याहारोपन्यासः चिरवृत्तेष्टवियोगध्यानादिना रोदनादिशक्यताशङ्कापरिहाराय शास्त्रविरोधोपन्यासः । रोदनवपोत्खननदिङ्मोहेषु यथाक्रमं मङ्गलाचारात्मरक्षणप्राङ्मुखभोजनशास्त्रविरोधः । अश्रुणश्च रजतपरिणाम- विरुद्धसद्यःशोषदर्शनाद् दृष्टविरोधः । पुरास्य सम्वत्सराद् गृहे रोदनं भवतीत्यत्र फला- भावमादिशब्देनाह । धर्माधर्मपरत्वाभावेऽपि सिद्धार्थकथनेनानर्थक्योपसंहारानुपपत्ति- माशङ्क्योक्तम्—यत्तु भूतान्वाख्यानमात्रमिति । क्रियत इत्यस्मिन्नर्थे प्रत्ययेन विवक्षिते तदनुग्रहार्थं पाकं पचतीतिवत् प्रतिपाद्यत इतिधातुप्रयोगः । वायुक्षेपिष्ठादिवाक्यानां स्वार्थ- सत्यत्वेऽपि अनुवादमात्रत्वाद्, धूमादिवाक्यानां च स्वरूपेऽप्यसत्यत्वादानर्थक्यम् । एवमपि प्राशस्त्यादिलक्षणया क्रियार्थत्वसम्भवादानर्थक्योपसंहारो न युक्त इति सिद्धान्ति-
१२ मीमांसादर्शनम् [ सू० मतमाशङ्क्याह—विध्येकवाक्यत्ववशेन चेति । तत्र निरासहेतुमाह—न चेति । लक्षणयैक- वाक्यत्वकल्पने अन्योन्याश्रयापत्तेरिति भावः । श्रौतार्थाभिधानं तु भिन्नवाक्यत्वे ऽप्युप- पन्नमित्याह—भिन्नैरपीति । न च निष्प्रयोजनत्वप्रसङ्गभयेन प्रतीयमानविषयत्यागेन विषयान्तरकल्पनोचिता प्रत्यक्षादावदर्शनादित्याह—न चेति । ननु अस्तु प्रमाणान्तरे तथा- शब्दे तु प्रयोजनवत्त्वाय श्रौतार्थत्यागेनार्थान्तरकल्पना युक्ता, बहुक्षीरादिवाक्ये तथा दर्शनादित्याशङ्कयाह—सर्वाण्येवेति । सर्वमेव वस्तु स्वविषय एव व्याप्रियते, न हूर्णनाभः कदाचित्पदसूत्रं करोति । लौकिकवाक्ये तु प्रमाणं प्रत्यक्षादेरन्यथात्वकल्पनम् । तदभावे तत्रापि श्रौतार्थानतिक्रमादिति भावः । तार्किकस्थितिपर्यालोचनस्यापि न प्रयोजनानुसारेण विषयकल्पनोचितेत्याह—तेनैवेति प्रयोजनवत एव प्रमेयत्वे तस्य हानोपेक्षानुपपत्तेः प्रमाणानां त्रैफल्यं न स्यादित्यर्थः । अप्रतीयमानस्य च प्रयोजनवत्तया ज्ञातुमशक्यत्वात्तद्विषयत्वमशक्यनिरूपणमित्याह—अपि चेति । प्रयोजनानुसारेण प्रमाणविषयकल्पनं निराकृतमुपसंहरति तस्मादिति । प्रमातॄणां प्रयोजनवत्प्रमित्सायामपि प्रमाणशक्त्या नियममात्रमेयानियम इत्याह—न हीति । पुरुषाधीनेऽपि च चक्षुरादिव्यापारे प्रमेयानियमत्वात्स्वतन्त्रे वेदे का वार्त्तेत्याह— यत्रापीति । प्रमाणान्तरस्य प्रयोजनवद्विषयत्वानियमेऽपि वेदस्य शास्त्रत्वेन हितो- पदेशित्वात् प्रयोजनवद्विषयत्वनियमेन भाव्यमित्याशङ्कयाह—न चेति । कुतः प्रथममित्य- पेक्षिते परीक्षात इति दर्शयितुमाह—अयमेव हीति । शास्त्रत्वस्यैव प्रागसिद्धेरिति भावः । न च वेदस्य निष्प्रयोजनार्थाभिधायित्वं तथाभूतस्य चादरणीयत्वं पर्य्यनुयोज्यमित्याह-- तच्चेति । उभयत्र यथाक्रमं कारणमाह—सर्वेति । उत्तरकालतामुपपादयति न हीति । परीक्षणेन १ हि पुरुषाधीनप्रामाण्यापत्तेर्नध्येत्राऽऽदरमात्रेण प्रयोजनवत्त्वनिश्चय इत्याह— पश्चादिति । यथा दर्शपूर्णमासप्रकरणाधीतानामपि पूषाद्यनुमन्त्रणमन्त्राणां न तादर्थ्यनिश्चय इति दृष्टान्तार्थः । न चाग्निहोत्रादिवाक्येषु प्रयोजनवद्विषयत्वदर्शनाद्वेदवाक्यत्वेन वायु- क्षेपिष्ठादिवाक्येष्वपि तथानुमानं युक्तम् । प्रतीतिविरोधादित्यभिप्रायेणोपसंहरति—तस्मा- दिति । इह च यानि त्वतिरिक्तान्यर्थवादमन्त्रनामधेयानुपातीनीति सर्वेषां पूर्वनिर्दिष्टानां विध्येकवाक्यत्ववशेन चैतेषामित्यादिभिर्निर्दिष्टप्रतिनिर्दिष्टकैः सर्वनामभिः परामर्शाद्, धूम एवाग्नेर्दिर्वेत्यादीनामपीत्यत्राप्यादिशब्दस्योपक्रमवशेन सर्वविषयत्वात्सदृशविषयत्वे चार्थ- वादानामपि सर्वेषामपरामर्शापत्तेस्तुल्यहेतुत्वेन चैतावता ग्रन्थेन सर्वानुपयोगप्रतिपादन- १. अध्ययनोत्तरकालीनपरीक्षणेन अध्येत्रादरमात्रेण वा न प्रयोजनवत्त्वनिश्चय इत्याह परीक्षणेन हीति प्रथमपक्षे हेतुमाह पुरुषाधीनप्रमाण्यापत्तेरिति । द्वितीयपक्षे वार्त्तिक- कृतैव दृष्टान्त उक्तः यथा पूषाद्यनुमन्त्राणां दर्शपूर्णमासप्रकरणपाठे सत्यपि न तदङ्ग- त्वनिश्चयस्तादादरमात्रेण न प्रकरणेन न च लिङ्गनिश्चयादित्यर्थः ।
१ ] प्रथमाध्याये द्वितीयपादः १३ परतयैतद्भाष्यं व्याख्यातमिति गम्यते । मन्त्रेष्वपि१ च प्रयोगविध्येकवाक्यत्ववशेन पूर्वसाधनरूपलक्षणा सिद्धान्तिनोऽभिप्रेतैवेति, न तद्दर्शनेनाप्यर्थवादमात्रपरत्वनिश्चयः । व्याख्यातॄणां त्वर्थवादमात्रपरत्वेनेमं ग्रन्थं व्याचक्षाणानामभिप्रायं न विद्मः । इदानीमेतदेव भाष्यमर्थवादमात्रानुपयोगप्रतिपादनपरतया व्याचष्टे—योऽपि चेति । सर्वानुपयोगसाधारणोपपत्त्यनुकर्षणार्थश्चशब्दः । क्लेशेनेत्यप्रतीयमानैकवाक्यताकल्पनेने- त्यर्थः । कल्प्येतेत्यनेनैतद्दर्शयति न तावत्स्तुतिनिन्दे एव निरूप्येते गुणदोषवत्त्वप्रतिपादनं हि स्तुतिनिन्दाशब्दाभ्यामभिप्रेतम् । तत्र यदीष्टानिष्टफलत्वम्, विधिप्रतिषेधविषयत्वं वा विशिष्टेतिकर्त्तव्यताकत्वं२ वा गुणदोषवत्त्वं तदन्यतः सिद्धत्यान्नार्थवादापेक्षम् । न च वायुक्षेपिष्ठत्वादेर्गुणदोषवत्त्वं सर्वार्थवादाननुवृत्तेः श्रौतत्वाच्च तस्य, लाक्षणिकस्तुति- निन्दार्थत्वसिद्धान्तभङ्गापत्तेः । न चान्यौ गुणदोषौ निरूप्येते । प्ररोचना३ द्वेषजनकत्वेन च स्तुतिनिन्दयोरर्थवत्त्वं प्रयोजनवत्त्वमिष्यते । तन्न न तावदिच्छानिच्छे तच्छब्दवाच्ये विधिनिषेधावगतेष्टानिष्टफलत्वादेव तत्सिद्धेः । प्रवृत्तिनिवृत्तिप्रतिबन्धकविपरीतत्वेनाल- स्योत्साहभङ्गोऽपि४ न । प्रवृत्तिनिवृत्तिहेतुभूतविधिनिषेधसिद्धत्वात् । तस्मान्न स्तुति- निन्दाख्यः कश्चिदर्थः । न ह्यसावर्थवादगम्यो नापि तत्प्रयोजनमिति । एवं सिद्धान्त्य- भिमतविधिनिषेधापेक्षितप्ररोचनाद्वेषजनकस्तुतिनिन्दासमर्पकत्वेन विधिनिषेधाभ्यां ग्रहणे निराकृते । यदि भावनान्तर्गतः स्यात् ततस्तद्द्वारेण विधिनिषेधग्रहणात् पुरुषार्था- न्वयित्वं भवेत्तच्च नाशङ्क्यमेवेति भावः । अगम्यमानैकवाक्यत्वेष्वर्थवादेषु लाक्षणिकस्तुतिनिन्दार्थत्वकल्पने दुःपरिहरमितरेत- राश्रयत्वमित्याह—अपि चेति । एतच्च पूर्वं सर्वानर्थक्याय योजितमपीदानीमर्थवादानर्थ- क्याय प्रकटितमित्यपौनरुक्त्यम् । अर्थवादानर्थक्यमेवोपसंहरति—तस्मादिति । ‘तस्माद- नित्यमुच्यते’ इत्येतत्सूत्रावयवव्याख्यानपरं तस्मादित्यादिभाष्यं स्पष्टत्वान्न व्याख्यातम् । वृत्तिकारान्तरैरेतत्सूत्रमर्थवादाप्रामाण्येन तदेकवाक्यतया साकाङ्क्षत्वाद्दिग्ध्युद्धेशस्याप्य- प्रामाण्यापत्तेः । प्राभाकरैरपि सकलवेदाप्रामाण्यपरतया व्याख्यातं तन्निराकरणार्थं स एष इत्यादिभाष्यम् । तत्र पूर्वपक्षे ऽर्थवादानां भिन्नार्थत्वेनैकवाक्यत्वायोगादेकदेशशब्दो न युक्त इत्याशङ्क्याह—स एष इति । १. लक्षणया विध्येकवाक्यत्वशङ्कया अर्थवादमात्रपरत्वम्भाविष्यतीत्याशङ्क्याह मन्त्रेष्व- पीति । अर्थवादानामिव समभिव्याहारलक्षणैकवाक्यताबाधेऽपि प्रयोगविध्येकवाक्य- त्वमसत्येवेति चाह—प्रयोगेति । लिङ्गसमवायो हि विधिमन्त्रनामधेययोः-व्रीहीनव- हन्तीत्यादौ अक्रियार्थत्वादितिहेतोः स्तुत्यत्वादिति भावः । २. एकत्र प्रयाजादि परत्र खड्गोद्यमादि । ३. नापि स्तुतिनिन्दयोःप्रयोजनमित्याह-प्ररोचनेति । ४. न गुणदोषवत्त्वमित्यनुषङ्गः ।
१४ मीमांसादर्शनम् [ सू० व्याख्यानान्तरमाह—अथ वेति। एतच्च विभवार्थम्, न निर्द्धारण इति षष्ठीसमास- निषेधात्सम्बन्धमात्रषष्ठ्यां च मध्यशब्दानुपपत्तेः। कर्मधारयेऽप्येकदेशशब्दस्योपसर्ज- नत्वेन पूर्वनिपातापातादवयववाचित्वेन च कतिपयार्थत्वाभावात्। नन्वित्यादिवृत्ति- कारान्तराभिप्रायविवरणार्थं भाष्यम्। तस्योत्तरं—नैवेत्यादि। तस्यार्थः न तावत्सर्वो विध्युद्देशोऽर्थवादापेक्षः, शुद्धस्यापि वसन्ताय कपिञ्जलानालभत इत्यादेर्दर्शनात्कश्चिदेव तु वायव्यं श्वेतमालभेतेत्यादिस्तदपेक्षः, तस्यापि विधिविधेयसम्बन्धरूपावान्तरवाक्यार्थे- ऽर्थवादपदनिरपेक्षस्य स्तुतिस्तुत्यसम्बन्धात्मके महावाक्यार्थरूपेऽर्थान्तर एव तदपेक्षा। ततश्चैकदेशाक्षेपरूप एव तेषामाक्षेपः। अर्थवादाप्रामाण्येन महावाक्यार्थाविवक्षायामप्य- वान्तरवाक्यार्थविवक्षा दुर्निवारेति भावः ! तत्र कश्चिदिति काक्वा सूचितमर्थं दर्शयति— तत्रेति। भाष्यार्थं व्याचष्टे—यान्यपीति। विधिप्रत्ययशून्येषु तर्हि—समस्ताक्षेपः स्यादित्या- शङ्क्य सिद्धसाध्यतामाह--यानि त्विति। यद्वा ऽनेनावृत्त्या खण्डशो भाष्यं व्याख्यायते-कश्चित्पदसमूहो नैव भवति नाप्रमाणत्वेन शङ्क्यो भवतीत्यर्थः। कश्चित्वर्थवादपदैः संयुज्यार्थान्तरे वर्त्तते, तत्र तान्यर्थवादपदानि केवलान्याक्षिप्यन्ते। पुनस्तानीत्यादि शुद्धार्थवादविषयत्वेनैव व्याख्यातम्। यानि केवला- न्यर्थवादपदानि तच्छब्दान्निर्दिष्टानि, तानि समस्तान्याक्षिप्यन्त इति ॥ १ ॥ भावप्रकाशिका वेद में इष्ट फल के साधन के रूप में उपदिष्ट क्रिया ही धर्म है। अर्थात् वेदविहित याग, दान, होम आदि क्रिया ही धर्मं है, कारण इसी के द्वारा पुरुष अभिलषित श्रेय का लाभ कर सकता है। प्रथम पाद में इष्ट-फल-साधन वेद-विधि का प्रामाण्य प्रतिष्ठापित होने पर समग्र वेद का प्रामाण्य सूचित होता है। प्रथमाध्याय के द्वितीय पाद में केवल विधिवोधक वेदवाक्य का ही प्रामाण्य है, समग्र वेदवाक्य का नहीं—इस आशय से पूर्वपक्षी के मत का उत्थापन करते हुए महर्षि जैमिनि ने छः सूत्रों से पूर्वपक्ष का प्रतिपादन किया है। अनन्तर सिद्धान्ती ने “विधिना त्वेकवाक्यत्वात्” इत्यादि बारहसूत्रों से पूर्वोक्त पूर्वपक्ष का परिहार और सिद्धान्त का प्रतिपादन किया है। पूर्वपक्षी ने “अथातो धर्मजिज्ञासा” इस सूत्र के द्वारा वेदार्थरूप धर्म का विचार करना कर्तव्य है—यह कहा है। इस सूत्र के विषयीभूत “स्वाध्यायोऽध्येतव्यः” इस वेदवाक्य से अवगत होता है कि सम्पूर्ण वेद में पुरुषार्थ की प्राप्ति का साधन सूचित किया गया है। धर्म और अधर्म का स्वरूप अवगत कर अधर्म का परित्याग-पूर्वक धर्म का अनुष्ठान करने पर पुरुषार्थ की प्राप्ति हो सकती है। इसलिए विधि एवं निषेध ही पुरुषार्थ का साधन है, अतः विधि और निषेध क्रियास्वरूप है, अतः वेद के जिस अंश से क्रिया का प्रतिपादन नहीं है उन वेदांशों को अप्रामाणिक ही मानना उचित है। विधि, मन्त्र, नामधेय और अर्थवाद इन चार भागों में वेद विभक्त है। वेद का विधि
१ ] प्रथमाध्याये द्वितीयपादः १५ भाग ही साक्षात् सम्बन्ध से पुरुषार्थ के उपायों का निर्देश करता है, अतः क्रिया प्रतिपादन करनेवाले वेद के अंशों का ही प्रामाण्य सिद्ध होता है। उपक्रम, उपसंहार और अभ्यास भी क्रियाप्रतिपादक वेद अंशों का प्रामाण्य सिद्ध करता है। "चोदना- लक्षणोऽर्थे धर्मः" इससे उपक्रम कर "तस्य ज्ञानमुपदेशः" इस मध्यस्थ वचन से इसी अर्थ का अभ्यास किया है और "तद्भूतानां क्रियार्थेन समाम्नायः" इस वाक्य से उपसंहार किया है, अतः वेद के विधि अंश का ही प्रामाण्य अवगत होता है। वेद के जिन अंशों से क्रिया का प्रतिपादन नहीं है, वे अंश अनर्थक हैं, उनके प्रामाण्य मानने का कोई भी उचित तर्क या हेतु नहीं है। "आम्नायस्य" = आम्नाय (वेद) के "क्रियार्थत्वात्" विधि और निषेध रूप क्रिया के प्रतिपादन साधन होने से "अतदर्थानाम्" अतदर्थ अर्थात् क्रिया प्रतिपादन का साधन न होने से "आनर्थक्यम्" वे अंश निष्प्रयोजन हैं, "तस्मात्" इसलिए आनर्थ- क्यम् वे अंश निष्प्रयोजन हैं अर्थात् पौरुषेय वाक्यों के समान ही वे वेदवाक्य निष्प्र- योजन हैं "उच्यते" (यह) कहा गया है, क्योंकि, क्रियात्मक यागादिरूप धर्म का प्रतिपादन करना ही वेद का प्रयोजन है, इसलिए, वेद जिन अंशों से क्रिया का प्रतिपादन नहीं कर रहा है, उन वेदांशो को अनर्थक अर्थात् प्रयोजनशून्य मानना पड़ेगा और इसी कारण से वे वेदांश अनित्य अर्थात् पौरुषेय वाक्यों के समान अप्रामाणिक हैं। मन्त्र, नामधेय और अर्थवाद में अर्थवाद की आलोचना में प्रथमाध्याय का प्रथमपाद परिसमाप्त हो जाता है एवं अर्थवाद वाक्यों की विधिजन्य प्रवृत्ति के विषय में विशेष रूप से अपेक्षा होने से इस पाद में उसी का विचार आवश्यक है। सोऽरो- दीत् तद्रजतस्य रजतत्वम्" (तै० सं० १।५।१) वे रोएँ थे इसलिए वही रजत का रजतत्व है। "प्रजापतिरात्मनोवपामुदखिदत्" (तै० सं० २।१।१) प्रजापति ने अपनी वपा को (अपने हृदय से) बाहर किया। "देवा वै देवयजनमध्यवसाय दिशो न प्रजानन्" (तै० सं० ६।१।५) देवताओं ने देवयजन (देवपूजा, यज्ञ) का आरम्भ कर दिशा के निर्णय में समर्थ नहीं हुए, इत्यादि वेदवाक्य किसी प्रकार से क्रिया के प्रतिपादक नहीं हैं, अतः, इनको अनर्थक अर्थात् अप्रमाण मानना होगा। क्योंकि, इन वाक्यों का—रुद्र ने रोदन किया है, अतः, तुम लोग भी रोदन करो अथवा प्रजापति ने अपनी वपा अर्थात् हृदय का भेदन किया था। अतः, संसार के सभी वही करें। देवों का यज्ञ का अनुष्ठान करते हुए दिङ्मोह हो गया था, अतः संसार में भी वैसा होना उचित है—इत्यादि अर्थ नहीं हो सकते हैं। अतः, इस तरह के वाक्य अनित्य हैं। यद्यपि वेद अनादि हैं, वेदान्तर्गत सभी वाक्यों की स्वरूपतः अनित्यता नहीं हो सकती है तथापि ये वेद-वाक्य नित्य या सर्वकालीन धर्म और अधर्म के तत्त्वों का ज्ञापन नहीं करते हैं, अतः, ये पुरुषार्थ के साधन नहीं है, इसलिए लौकिक काव्यविद् के समान इन वाक्यों का प्रामाण्य नहीं है।
१६ मीमांसादर्शनम् [ सू० आचार्य शङ्कर और वाचस्पति के अनुसार इस सूत्र का तात्पर्य आचार्य शङ्कर ने भी इस सूत्र को पूर्व पक्ष के रूप में उपस्थापित कर "तत्तु समन्वयात्" (ब्र० सू० १-१-४) इस सूत्र में सिद्धान्त का प्रदर्शन किया है। कर्म मीमांसकों ने शङ्का की है कि शास्त्र प्रमाण के द्वारा ब्रह्म का प्रतिपादन होता है, किन्तु, यह किसी भी तरह सङ्गत नहीं है, क्योंकि, शास्त्र के द्वारा ब्रह्म का प्रतिपादन नहीं हो सकता है, कारण, महर्षि जैमिनि ने कहा है कि वेद कर्तव्य कर्मों का ही प्रतिपादन करता है, वेद के जिन अंशों से किसी भी तरह कर्तव्य कर्म का प्रतिपादन नहीं हो रहा है, वे अंश निरर्थक हैं अर्थात् उन अंशों का प्रयोजन = सार्थक्य सिद्ध नहीं किया जा सकता है, वेद के वे अंश अप्रामाणिक हैं। इन सूत्रों के द्वारा आचार्य जैमिनि ने यही सिद्ध किया है कि समग्र वेदशास्त्र किसी रूप में कर्तव्य कर्मों का ही प्रतिपादन करते हैं, कर्तव्य कर्मों का प्रतिपादन करना ही वेद का स्वभाव है। वेदान्त शास्त्र अर्थात् उपनिषद् हम लोगों के लिए किसी कर्तव्य कर्म का उपदेश नहीं करती है, अतः, उपनिषद् की कोई सार्थकता नहीं है, ये निरर्थक हैं। इसलिए, उपनिषद् के प्रामाण्य पर अवगत ब्रह्मतत्त्व भी निरर्थक हैं। फलतः, "अथातो ब्रह्मजिज्ञासा" (ब्र० सू० १।१।१) आदि सिद्ध ब्रह्मतत्त्व के प्रतिपादन के लिए निरर्थक है। महर्षि जैमिनि वेद के उपनिषद् भाग को सर्वथा निरर्थक नहीं मान सकते हैं, क्योंकि मीमांसा दर्शन के "अथातो धर्मजिज्ञासा" (जै० सू० १।१।१) इस प्रथम सूत्र के आधार पर समग्र वेद का अध्ययन प्रतिपादित कर वेदार्थज्ञान उसका फल सिद्ध किया है। "स्वाध्यायोऽध्येतव्यः" (तै० आ० २।१५।१) (वेद का अध्ययन अवश्य करना चाहिए) इस वेदवचन के द्वारा समग्र वेद का अध्ययन ही विहित है, उपनिषद् भाग से अतिरिक्त वेद भाग का ही अध्ययन करना चाहिए, कर्मकाण्ड ही सार्थक है, उपनिषद् भाग या ज्ञानकाण्ड क्रियार्थक नहीं है, इसमें क्रिया या कर्तव्य का प्रतिपादन नहीं है, अतः निरर्थक या निष्प्रयोजन है—यह प्रतिपादन नहीं है; वेद के अध्ययन से वेदार्थ का ज्ञान होता है, यही यदि 'स्वाध्यायोऽध्येतव्यः' इस वाक्य का अर्थ जैमिनि को अभिमत है, तो उपनिषद् अंश परित्याग कर वेद का अध्ययन करना चाहिए— यह अर्थ किस प्रकार अवगत होगा ? आशय यह है कि ब्रह्मसूत्र के तृतीय सूत्र "शास्त्रयोनित्वात्" (१।१।३) की व्याख्या के अनुसार इतना ही सिद्ध होता है कि शास्त्र ब्रह्म में प्रमाण है = शास्त्र- प्रमाण ब्रह्म है। ब्रह्म के शास्त्रप्रमाणकत्व की प्रतिज्ञामात्र इस वचन से की गई है, किन्तु, शास्त्रप्रमाणकत्व के लिए किसी हेतु का प्रदर्शन नहीं किया है। शब्द को ब्रह्म विषय में ज्ञापक मानने पर शब्द का प्रामाण्य ही नहीं हो सकता है, कारण, फलवत् अर्थ का प्रतिपादक होने पर ही शब्द का प्रामाण्य रहता है। 'ब्रह्म' सिद्ध
१ ] प्रथमाध्याये द्वितीयपादः १७ वस्तु है, इस सिद्ध वस्तु का बोधक वाक्य सर्वत्र फलवत् अर्थ का ही बोधक होगा— यह कोई आवश्यक नहीं है, कारण, कभी वह फलवत् अर्थ का बोधक हो सकता है और किसी स्थल में नहीं भी हो सकता है। जैसे—'नदी के तट पर फल हैं' यह शब्द सुनकर जो व्यक्ति फल का संग्रह करता है उसके लिए यह वाक्य फलवत् होगा और प्रमाण भी होगा, किन्तु, जो व्यक्ति उसका संग्रह नहीं करना चाहता है उसके लिए यह शब्द अर्थबोधक होने पर भी फलवत् नहीं होने से प्रमाण नहीं होगा। इसलिए सिद्ध वस्तु ब्रह्मबोधक वाक्य अर्थबोधक होने पर भी फलवत् नहीं हो सकते हैं, अतः, अप्रमाण भी हो सकते हैं। यह भी कहा जा सकता है कि रूपादिविहीन सिद्धवस्तु ब्रह्म के बोधक वाक्य से अवगत ब्रह्म यदि अन्य प्रमाण से गम्य होगा तो वेदान्तशास्त्रप्रमाणक ब्रह्म नहीं हो सकता है। यदि वह ब्रह्म अन्य प्रमाण से गम्य नहीं होता है तभी वह वेदान्त प्रमाण गम्य हो सकता है। यह सिद्ध ब्रह्म अन्य प्रमाण से वेद्य है या नहीं—यह जब तक निर्णीत नहीं हो जाता है, तब तक सिद्ध ब्रह्मबोधक वाक्य प्रमाण है या नहीं यह संशय उपस्थित रहेगा। इसी प्रसङ्ग में आचार्य शङ्कर ने शङ्का की कि ब्रह्म शास्त्रप्रमाणगम्य कैसे हो सकता है, क्योंकि वेद क्रिया अर्थ का ही बोधक है और अन्य अर्थ बोधक वेद वाक्य का अप्रामाण्य ही सिद्ध होता है। अतः, वेद ब्रह्म के प्रति प्रमाण कैसे हो सकता है ? फलतः ब्रह्म शास्त्रप्रमाणगम्य कैसे हो सकता है ? आचार्य वाचस्पति ने कहा है—जो शुद्ध-बुद्ध अर्थात् ज्ञानस्वरूप उदासीन स्वभाव अर्थात् निष्क्रिय है, वह उपेक्षणीय होता है, ब्रह्म भी ऐसा ही है, अतः, वह भी उपेक्ष- णीय है। यदि सिद्धवस्तु ब्रह्म वेदान्त से प्रतिपाद्य है तो वेदान्त किसी पुरुषार्थ का उपदेशक नहीं रहेगा। कारण, पुरुषार्थ से आशय है सुख साधन या दुःखनिवृत्ति साधन कर्म, किन्तु, वेदान्त ऐसे किसी पुरुषार्थ का उपदेश नहीं करता है, अतः, वेदान्त का क्या प्रयोजन है अर्थात् निष्प्रयोजन ही है। ब्रह्म सिद्धवस्तु है, अतः, प्रत्यक्ष आदि भी उसमें प्रमाण हो सकता है, अर्थात् प्रत्यक्ष आदि प्रमाण के द्वारा भी उसके स्वरूप की अवगति हो सकती है। ऐसी स्थिति में प्रत्यक्ष आदि प्रमाण से अवगत विषय में जैसे लौकिकवाक्य प्रमाण नहीं होता है, अपि तु, वह उसका अनुवादक ही होता है, फलतः, .वह अप्रमाण ही होगा, इस स्थिति में ब्रह्म प्रतिपादक शास्त्र भी अप्रमाण क्यों नहीं होंगे ? शास्त्र के द्वारा प्रतिपादित ब्रह्म सिद्ध वस्तु है, अतः, वह प्रत्यक्ष आदि प्रमाणों से ही गम्य वस्तु होगा। इसलिए सिद्धवस्तु का प्रमाण शास्त्र है यह कथन सङ्गत नहीं है। लौकिक वाक्य अन्य प्रमाणों से अवगत विषय का बोधक होने पर वह स्वतः प्रमाण नहीं होता है—यह सभी मानते हैं। वेदान्त की भी यही २
१८ मीमांसादर्शनम् [ सू० स्थिति है तो यह भी स्वतः प्रमाण१ नहीं होगा। इस प्रकार वेदान्त का अनपेक्षत्व लक्षण प्रामाण्य सङ्गत नहीं है। वेदान्त का अप्रामाण्य या अप्रयोजनीयता उचित नहीं है। 'वेदाध्ययन करना चाहिए' इस विधि के द्वारा समग्र वेद की प्रयोजनवत्ता सिद्ध है। अतः, वेदान्त को ब्रह्म बोधक न मानकर वेदविहित अग्निहोत्रादि रूप कर्म के लिए अपेक्षित कर्ता, देवता आदि वस्तुओं का प्रतिपादक मानना ही उचित है। यदि कर्मबोधक वेदांश के सान्निध्य का अभाव वेदान्त (उपनिषद्) में होने से कर्मपरक मानना उचित न हो तो उपासनादिरूप क्रियापरक मानने में क्या आपत्ति है? ऐसा मानने पर प्रत्यक्षादि प्रमाण से अनधिगतविषयक होने से अनपेक्षत्वरूप प्रामाण्य और सप्रयोजनत्व भी सिद्ध होता है। आचार्य के इसी अभिप्राय से आचार्य शङ्कर ने इस सूत्र का पूर्वपक्ष के रूप में उपस्थापन किया है। इस सूत्र में भामतीकार ने आनर्थक्य का अर्थ अप्रयोजनवत्त्व माना है और यह अप्रयोजनवत्त्व अनुवादक मानने पर ही सम्भव है। आपात दृष्टि से आनर्थक्य का अर्थ अभिधेयरहितत्व ही होता है अर्थात् किसी प्रकार अर्थ न होना एवं निष्प्रयोजनत्व। उपनिषद् का श्रवणकर किसी व्युत्पन्न व्यक्ति को अर्थ का बोध होगा ही तब उपनिषद् का कोई अर्थ नहीं है—यह कथन सङ्गत नहीं है। यही कारण है कि आनर्थक्य का अर्थ निष्प्रयोजनवत्त्व अर्थ किया है। फलतः, ब्रह्म शास्त्रप्रमाण- गम्य नहीं है—यही पूर्वपक्ष के रूप में आचार्य शङ्कर ने किया है। किन्तु, परमर्षि जैमिनि के द्वारा प्रदर्शित सिद्धान्त पक्ष के साथ आचार्य शङ्कर का ऐकमत्य नहीं है। अतः, इस विरोध का विश्लेषण "विधिना त्वेकवाक्यत्वात् स्तुत्यर्थेन विधीनां स्युः।" (जै० सू० १।२।६) इस सूत्र के विश्लेषण प्रसङ्ग में करूँगा ॥ १ ॥ शास्त्रदृष्टविरोधाच्च ॥ १.२.२ ॥ शा०—'स्तेनं मनः' 'अनृतवादिनी वाक्' इत्येवं जातीयकानां धर्मं प्रत्यप्रामाण्यम्, भूतानुवादात्। विपरिणामादिभिरपि कल्प्यमाने स्तेयं मृषोक्तं च कर्तव्यमित्यापतत्ति । तच्चाशक्यं स्तेयानृतवादप्रतिषेधमबाधमानेनानुष्ठातुम्। न च विकल्पः, वैषम्यात्। एकः कल्प्यो विधिः, एकः प्रत्यक्षः। अथ दृष्टविरोधः। 'तस्माद् धूम एवाग्नेर्दिवा ददृशे, नार्चिः। तस्मादर्चि- रेवाग्नेर्नक्तं ददृशे न धूमः' तस्माद् दृष्टविरुद्धं इति। 'अस्माल्लोकादुत्क्रम्याग्नि- १. प्रमाणसम्वादवाद या प्रमाणसंप्लववाद एवं प्रमाणासंप्लववाद या प्रमाणविसम्वाद- वाद। प्रथम मत में एक वस्तु में एक से अधिक प्रमाण रहने पर भी कोई भी अनुवादक या अनुवादकत्व निबन्धन अप्रमाण नहीं होता है। द्वितीय मत में एक से अधिक प्रमाण रहने पर जिस प्रमाण से जो प्रथम अवगत होता है वह प्रमाण ओर बाद में जिस प्रमाण से अवगत होता है उसमें अनुवादकत्व निबन्धन प्रमाण नहीं रहता है।