भारतकोश
संग्रह पर लौटें

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

६ ] प्रथमाध्याये द्वितीयपादः ३७ कृतस्तदतिस्पष्टत्वान्न वार्त्तिककृता व्याख्यातम् । ननु बहुतरक्लृप्ताग्निहोत्रादिविधिविरोधे- नैकस्य कल्प्यस्य पूर्णाहुत्यादिविधेरप्रामाण्यं युक्तम् इह तूभयोः प्रत्यक्षत्वेनाविशेषात्कथ- मेकान्ततः प्रतिषेधस्यैवाप्रामाण्यमित्याशङ्क्यानिरकरणार्थं भाष्यम्-कथं तत्प्रमाणमित्यादि । तत्र स्वयमाकुलत्वमुपपादयति-एतदेवेति । अप्राप्तस्य चयनस्य पृथिव्याधारत्वनिषेधा- योगात्प्राप्तिस्तावदङ्गीकार्या, पुनश्चानाधारचयनायोगात्तन्निषेधोऽपीत्येतदेवेत्यनेन परामृष्टम् । किं तद्विध्यन्तरमित्यपेक्षायामाह-विध्यन्तरं चेति । अस्य गुणपरत्वाच्चयनोत्पत्तिवाक्यो- पलक्षणार्थत्वं दर्शयितुमिष्टकावाक्योपन्यासः, स्तुत्यर्थत्वं चानाशङ्क्यमेदेत्याह-प्ररोचना- बुद्धिरिस्त्वति ॥ ५ ॥ भागी का अर्थ प्राप्य या प्रतिषेध के योग्य होता है, इसलिए अभागिप्रतिषेध का अर्थ अप्राप्त विषय का निषेध है, अर्थवाद वाक्य अप्राप्त का निषेध करता है, अतः अर्थवाद वाक्य अप्रमाण है । आशय यह है कि अर्थवाद के अप्रामाण्य के अन्य कारणों का निर्देश करते हुए जैमिनि ने कहा है 'अभागिप्रतिषेधात्' प्राप्त विषयों का ही निषेध होता है, क्योंकि अप्राप्त विषयों का निषेध नहीं हो सकता है । "न पृथिव्यामग्निश्चेतव्यो नान्तरिक्षे न दिवि" (तै० सं० ५-२-७) भूमि में अग्नि का चयन नहीं करना चाहिए, अन्तरिक्ष में एवं द्युलोक में अग्नि का चयन नहीं करना चाहिए, इस अर्थवाद वाक्य में अप्रसक्त अर्थात् स्वाभाविक प्रवृत्ति के अधीन अप्राप्त विषय का निषेध किया गया है, क्योंकि आकाश में या द्युलोक में अग्नि का चयन करना असम्भव होने से इन लोकों में अग्नि के चयन करने में कोई भी प्रवृत्त नहीं हो सकता है और जिस कार्य में स्वाभाविक प्रवृत्ति ही नहीं है उसके निषेध करने का कोई प्रयोजन नहीं है । इस प्रकार भूमि में अग्नि चयन का प्रतिषेध होने से अग्नि चयन विधि ही बाधित हो जायेगी, क्योंकि यदि भूमि में अग्नि का चयन नहीं किया जाय तो कहाँ अग्नि का चयन किया जायगा ? फलतः इस अर्थवाद वाक्य के द्वारा अग्नि चयन की विधि ही बाधित हो जायगी । जिस अर्थवाद से विधि बाधित होगी वह अर्थवाद प्रमाण नहीं हो सकता है । इसलिए ये अर्थवाद अप्राप्त विषय के प्रतिषेधक हैं, अतः स्वार्थ में भी प्रमाण नहीं है ॥ ५ ॥ अनित्यसंयोगात् ॥ १.२.६ ॥ शा०] अनित्यसंयोगश्च वेदप्रामाण्ये सति । परं तु श्रुतिसामान्यमात्रमिति परिहृतः । इदानीं देवैकदेशानामाक्षिप्तानां पुनरुपोद्वलक उत्तिष्ठति, बबरः प्रावाहणिरकामयत वाचः प्रवदिता स्यामिति । (तै० सं० ७।१।३०) ॥ ६ ॥ ( इति पूर्वपक्षः )

३८ मीमांसादर्शनम् [ सू० भा० वि०] स्वार्थपरत्वेऽर्थवादानां पौरुषेयत्वमपि स्यादित्याह—अनित्येति । 'बबरः प्रावाहणिरकामयते' त्याद्युदाहरणेऽनित्यसंयोगसूत्रं योजयति—अनित्येति । अनित्यसंयोगश्च स्वार्थपरत्वे प्रसज्येतेति शेषः । पूर्वपक्षे स्वार्थस्यैवाभावेना- नित्यसंयोगाभावात् अन्यानर्थक्याभागिप्रतिषेधसूत्रयोरपि स्वार्थपरत्वेऽन्यानर्थ- क्याभागिप्रतिषेधप्रसङ्गवदिति योजना प्रष्टव्या । चशब्दादक्रियार्थत्वेनार्थक्य- मित्याद्यसूत्रं योजितम् । ननु वेदाधिकरण एव 'परं तु श्रुतिमान्यमात्रमिति' सूत्रेण बबरादिशब्दानां नित्यसिद्धवाय्वाद्यर्थाभिधायित्वस्योक्तत्वात् स्वार्थपरत्वेऽपि, नानित्यसंयोगप्रसङ्ग इत्याशङ्क्याह—वेदप्रामाण्ये सतीति । तत्र हि समस्तवेदप्रामाण्याभ्युपगमेन नित्यसिद्धवाय्वाद्यर्थत्वं प्रतिपादितम्, यदा त्वर्थवादानां क्रियातच्छेषार्थत्वा- भावेन प्रामाण्यमाक्षिप्तम्, तदा वायुर्वे क्षेपिष्ठेत्यादीनामिव नित्यार्थानामप्य- प्रामाण्येन स्वार्थपरित्यागकारणाभावात् स्वार्थपरत्वे बबरादिवाक्यानामनित्य- संयोगप्रसङ्गस्योपोद्वलकस्योत्थानं युक्तमित्यर्थः । न चाध्ययनविधिवलात् सर्वस्य पुरुषार्थांपयिकत्वावगतेः कथमर्थवादानामार्नथक्यं शङ्क्यत इति आशङ्कनीयम् । अदृष्टार्थत्वेऽपि पुरुणार्थोपपत्तेः, अध्ययनविधैरेकान्ततोऽर्थपरत्वानाक्षेपकत्वादिति- भावः ॥ ६ ॥ ( इति पूर्वपक्षः ) तं० वा०] सर्वोपाख्यानेष्वन्यपरत्वासंभवात्स्वरूपप्रतिपादनादनित्यसंयोगः । स च समस्तवेदप्रामाण्ये सति कथंचिदन्यथा नीयेत । यदा तु यथैव प्रमाणानां मध्ये शब्दः, तत्रापि च वेदः प्रमाणम्, तथैव वेदेऽपि विधिमात्रं युक्त्या कल्प्यते, तदेत- रैकदेशवदनित्यार्थकदेशप्रामाण्यं यथाश्रुतार्थग्रहणादापन्नं किं निवार्येत । तस्मा- देवमादीनामनपेक्ष्यार्थमध्ययनमात्रादेव फलं कल्प्यम् । अथ वा यथैतान्युपेक्षा- फलानि, तथा तद्विषयं प्रत्यक्षमपि प्रतिपत्तव्यम् । अथ कस्मान्मन्त्रवद्यथाप्रकरणं प्रयोगकाले न प्रयुज्यते, प्रयोगरूपसामर्थ्याभावात् । न हि मन्त्राणां पाठमात्रेण विनियोगः, किं तर्हि तत्सामर्थ्यात् । न चात्र तदस्ति । अथ वा यथा तेषां पूर्वपक्षे कार्यान्तराभापादृपमात्रं ग्रहीष्यते, तथाऽत्राप्यस्तु । यत्तु सूत्रकारेणा- नित्यत्वमुक्तम्, तत्प्रामाण्यापेक्षया नाप्रयोज्यतया ॥ ६ ॥ न्या० सु०] नन्वतः परं स्वार्थेनैवानर्थक्यं प्रतिपादयतीति वार्त्तिककृद्वचनात्स्वार्थसत्यत्व- रूपानर्थक्यप्रतिज्ञायामग्रं हेतुर्गम्यते तच्च विरुद्धम् । अनित्यो ह्यत्र प्रवाहणापत्यं बबरः स्वार्थः प्रतीयते तत्रासत्यत्वे सति अनित्यसंयोग एव न स्यात् । न१ चानित्यसंयोगेनानित्य- १. यदा स्वार्थासत्यत्वरूपानर्थक्यप्रतिज्ञा तदा बबरादीनामनित्यानामर्थानामभाव इत्य- मिप्रायेणाह—नचेति ।

६ ] प्रथमाध्याये द्वितीयपादः ३९ संयोगाभावः साध्यो भवितुमर्हति—उच्यते१। अनित्यसंयोगप्रसङ्गोऽत्र हेतुर्विवक्षितः, ततश्च स्वार्थसत्यत्वेऽनित्यसंयोगप्रसङ्गात्तत्परिहारार्थं स्वार्थासत्यत्वं बबरः प्रावाहणि- रित्यादीनामेष्टव्यमिति सूत्रार्थो भवति । अनित्यसंयोगान्मन्त्रानर्थक्यमित्यत्राप्यर्थप्रकाशनपक्षे यस्य यो ऽर्थः, स एव तेन प्रकाशयितव्यः क्वचिच्चानित्यैरकर्माङ्गभूतैः स्वार्थैरर्थवन्तो मन्त्रा लक्ष्यन्त इत्युपक्रमवार्त्तिकाद्यद्येतद्विवक्षितम्, तथा सत्यादिमदर्थाभिधानाद्वेदस्य कृत्रि- मत्वेनाप्रामाण्यं प्रसज्येतेति चोपसंहारवार्तिकादनित्यसंयोगः खल्वपि भवेन्मन्त्रेष्वभिधानार्थे- ष्विति भाष्याच्चायमेवार्थः प्रतीयते । अन्यानर्थक्याभागिप्रतिषेधयोरप्येवम्२ । तत्रापि स्वार्थासत्यत्वे तयोरभावात्सूत्रव्याख्यानार्थमनित्यसंयोगश्चेति भाष्यं तत्सोपस्कारमेव द्रष्टव्यम् । अनित्यसंयोगः स्वार्थवत्त्वे प्रसज्येत तस्मादानर्थक्यमेव युक्तमिति तत्रानित्य- संयोगप्रसङ्गान्माभूत्स्वार्थस्य सत्यत्वम्, स्तुत्यर्थत्वं तु सिद्धान्त्यभिमतं निराकर्तुमशक्य- मित्याशङ्क्याह—सर्वोपाख्यानेष्विति । अयमाशयः अन्यपरत्वं ह्युच्यमानं कार्यपरत्वं वा स्यात्, स्तुतिपरत्वं वा तच्चोभयमपि प्रतीत्यनारूढत्वान्न युज्यते । तेन पारिशेष्यादर्थवत्त्व- मङ्गीकुर्वता स्वार्थपरत्वमेव वाच्यम्, तत्र चानित्यसंयोगः प्रसज्येत इति । ननु परं तु श्रुतिसामान्यमात्रमित्यत्र बबरादिशब्दानां नित्यसिद्धवाय्वादद्यर्थाभिधा- यित्वस्योक्तत्वात्स्वार्थपरत्वेऽपि नानित्यसंयोगप्रसङ्ग इत्याशङ्कानिराकरणार्थं वेदप्रामाण्ये सतीति भाष्यं तद्व्याचष्टे—स चेति । अयमाशयः—अनित्यार्थाभिधायित्वे कृत्रिमत्वेन वेदस्याप्रामाण्यापत्तेस्तत्परिहार्थं कथंचिन्नित्यसिद्धवाय्वाद्यर्थवचनत्वम् कल्पितम् । यदा तु कथंचित्प्रामाण्यं न सम्भवति तदा यथाश्रुतार्थपरित्यागकारणाभावान्न क्लेशेन बबरादि- शब्दानां वाय्वादिवचनत्वकल्पनं युक्तमिति । नन्वेवमप्रामाण्ये सति यथाश्रुतार्थपरित्याग- कारणाभावादनित्यार्थाभिधायित्वमनित्यार्थाभिधायित्वे बवरादिवाक्यानां कृतकत्वेना- प्रामाण्यमितीतरेतराश्रयमाशङ्क्येत रैकदेशवदित्युक्तम्—तस्यार्थः । यथेतरेषामनित्यसंयोग- रहितानामापो वै शान्ता इत्यादीनामेकदेशानामकियार्थत्वादप्रामाण्यम्, तथैतेषामनित्यार्था- नामप्यक्रियार्थत्वेनैवाप्रामाण्यसिद्धेर्न इतरेतराश्रयत्वमिति । नन्वध्ययनविधिबलात्सर्वस्य वेदस्य पुरुषार्थोपयिकत्वावगतेः कथमर्थवादानर्थक्यशङ्क। । अत आह—तस्मादिति । अदृष्टार्थत्वेऽपि पुरुषार्थोपयिकत्वोपपत्तेन्नैं॑कान्ततोऽर्थपरत्वमध्यापनविधिर्राक्षपतीति भावः । एवमादीनामित्यनेनैतद्दर्शयति प्रथमसूत्रव्युत्पादितमध्ययनविधेर्दृष्टार्थत्वमर्थवादेष्वेवा- सम्भवादाक्षिप्य तेन सर्वत्र विधेर्हि प्रयोजनाकाङ्क्षायां दृष्टे सम्भवत्यदृष्टं न कल्प्यमिति तत्रोक्तम् । न च सर्वत्रैकरूप्येण भाव्यमिति नियमो युक्तः । स्तोभादिष्वर्थपरत्वासम्भ- वात् । अथ तत्रापि नियतकालसामभागपूरणाद्यर्थत्वादर्थज्ञानाथंत्वाभावेऽपि दृष्टार्थत्व- १. बबरादिवाक्यानि प्रतीयमानबाधितार्थकानि सत्यत्वेऽनित्यसंयोगप्रसङ्गात् । २. साध्यं तदेव सत्यार्थत्वेऽन्यानर्थक्यप्रसङ्गात् यथार्थत्वे प्रसज्यमानाप्रतिषेधभाग्यमर्थम- निषेधकत्वादिति ।

४० मीमांसादर्शनम् [ सू० मात्रेणैकरूप्यमुच्यते । ततो ऽत्रापि यत्सम्भवति तत्प्रयोजनमित्यनेन रूपेणैकरूप्यं मत्त्वा सन्तोष्टव्यम् । यद्वा अध्ययनसंस्कृतैरक्षरैर्यच्छक्यते पुरुषार्थरूपम्, तत् कुर्यादित्यध्ययनविधिना वेदा- ध्ययनस्य शक्यफलसाधनत्वावगमादर्थवादाक्षरैः कस्य चित्पुरुषार्थरूपस्य कर्तुमशक्यत्वा- न्निष्प्रयोजनत्वमेवाङ्गीकृतमित्याह—अथ वेति । प्रत्यक्षशब्देनापरोक्षाकारवाचिना१ ग्रहण- पर्यन्तमध्यापनमभिप्रेतं तस्योपेक्षाफलत्वमुपपादयितुं हेतुतयार्थवादजनितस्य२ ज्ञानस्य हेयोपादेयार्थविषयत्वेन तद्वाक्यानामुपेक्षाफलत्वं दृष्टान्तमिषेणोक्तं द्रष्टव्यम् । अर्थपरत्वा- भावेऽपि कर्मानुष्ठानकाले उच्चारणार्थत्वसम्भवादर्थवादाध्ययनस्यादृष्टार्थत्वम्, निष्प्रयो- जनत्वं वा पूर्वपक्षिणापि नाङ्गीकार्यमित्याशङ्कते—अथेति । परिहरति—प्रयोगेति । अव्यापाररूपत्वेन मन्त्राणां व्यापारग्राहिणा करणेन साक्षाद्ग्रहणाद्योगादुच्चारणद्वारा तद्ग्रहणम्, तद्ग्रहणच्चोच्चारणार्थतेत्यन्योन्याश्रययापत्तेर्न प्रकरणपाठमात्रेण विनियोगो युक्तः, सामर्थ्यात्त्वभिधानक्रियार्थत्वावगमे तद्द्वाराप्रकरणग्रहणोपपत्तेरनुच्चारितस्या- भिधानांशक्तेः कर्म्मकालोच्चारणसिद्धिरिति भावः । मन्त्राधिकरणपूर्वपक्षन्यायेन चार्थ- वादानामर्थपरत्वाभावेऽपि कर्म्मकालोच्चारणमत्रेत्यः पूर्वपक्षी मन्यत इत्यनभिमतमपि प्रौढ्यानुजानाति—अथ वेति । अस्मिन्पक्षे सूत्रविरोधमाशङ्कयाह—यत्त्विति ॥ ६ ॥ बबर, प्रावाहणि, इत्यादि अनित्य विषयों का संयोग अर्थात् प्रतिपादन होने से भी अर्थवाद अप्रमाण है । वेद में जन्म-मरणशील मनुष्यों का उल्लेख है । जैसे:—‘‘बबरः प्रावाहणिरकामयत’’ (तै० सं० ६।१।१०।२) । ‘‘कुसुरुविन्द औद्दालकिरकामयत’’ । (तै० सं० ६।२।२।१) प्रवाहणका पुत्र बबर उद्दालकका पुत्र कुसुरुविन्द ने कामना की, इत्यादि स्थलों में पिता और पुत्र का उल्लेख मिलता है, अतः, अर्थवादवाक्यों का अप्रामाण्य है । इन सूत्रों के द्वारा पूर्वपक्ष किया गया है । अतः अर्थवाद के अप्रामाण्य सूचक पद पञ्चम्यन्त में प्रयुक्त हैं । अर्थात् इन कारणों से इनका अप्रामाण्य है । ॥ ६ ॥ सिद्धान्तः विधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युः ॥१.२.७॥ [सि०] शा०] इदं समाम्नायते—‘वायव्यं श्वेतमालभेत भूतिकामः ‘वायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयति इति (तै० सं० २।१।१) । वायुर्वै क्षेपिष्ठा देवतेत्यतो यद्यपि क्रिया नावगम्यते क्रियासंबद्धं वा १. ग्रहणपर्यन्ततायां प्रत्यक्षत्वं भवतीति भावः । २. तस्य ग्रहणपर्यन्तताध्ययनस्योपेक्षाफलत्वमुपपादयितुमर्थवादवाक्यानामुपेक्षाफलत्वं दृष्टान्तमिषेण हेतुतयोक्तमिति संबन्धः । ३. अर्थवादवाक्यानामुपेक्षाफलत्वमुपपादयितुमाह—अथेति ।

७ ] प्रथमाध्याये द्वितीयपादः ४१ किंचित् तथापि विध्युद्देशेनैकवाक्यत्वात् प्रमाणम् । भूतिकाम इत्येवमन्तो विध्यु- देशः । तेनैकवाक्यभूतो वायुर्वै क्षेपिष्ठा देवतेत्येवमादिः । कथमेकवाक्यभावः पदानां साकाङ्क्षत्वाद्विधेः स्तुतेश्चैकवाक्यत्वं भवति । भूतिकाम आलभेत । कस्मात् यतो वायुः क्षेपिष्ठेति । नायमभिसम्बन्धो विवक्षितो भूतिकामेनाऽऽलब्धव्यमिति कथं र्तार्ह, आलभेत, यतस्ततो भूतिरिरिति भिन्नावभावर्थौ । उभयाभिधाने वाक्यं भिद्येत ॥ किमर्था स्तुतिरिति चेत् । कथं रोचेत ततोऽनुष्ठीयेतेति । ननु प्राक् स्तुति- वचनादनुष्ठानं भूतिकामान्तात्सिद्धम्, स्तुतिवचनमनर्थकम् । व हि । यदा स्तुति- पदसंनिधानम्, तदा पूर्वेणैव विधिः, यदा स्तुतिपदसंबन्धो, न तदा भूतिकाम- स्याऽऽलम्भो विधीयते । यथा पटो भवतीति पट उत्पद्यत इत्यर्थः । निराकाङ्क्षं च पदद्वयम् । यदा च तस्मिन्नेव रक्त इत्यपरं श्रूयते, तदा रागसंबन्धो भव- तीत्यर्थः । भवति च रक्तं प्रत्याकाङ्क्षा । एवं यदा न स्तुतिपदानि विधिशब्देनैव तदा प्ररोचना, यदा स्तुतिवचनं तदा स्तवनेन । नन्वेवं सति किं स्तुतिवचनेन यस्मिन्सत्यविधायकं मा भूत्तत् । तदभावेऽपि पूर्वविधिनेव प्रारोचयिष्यते इति । सत्यम्, विनाऽपि तेन सिध्येत्प्ररोचनम् । अस्ति तु तत्, तस्मिन् विद्यमाने योऽर्थो वाक्यस्य, सोऽवगम्यते स्तुतिः प्रयोजनं तयोः । तस्मिन्नविद्यमाने विधिना प्ररोचनमिति । ननु सत्स्वपि स्तुतिपदेषु पूर्वस्य विधिरूपत्वाद्विधिरभिप्रेतः स्यान्न विवक्ष्येत स्तुतिपदसम्बन्धः । आह—स्तुतिपदानि ह्यानर्थक्यान्यभविष्यन्सा- काङ्क्षाणि । भवन्त्वनर्थकानीति चेत । न गम्यमानेऽर्थेऽविवक्षितार्थानि भवितु- मर्हन्ति । योऽसौ विध्युद्देशः, स शक्नोति निरपेक्षोऽथं विधातुं, शक्नोति च स्तुतिपदानां वाक्यशेषी भवितुम् । प्रत्यक्षश्च वाक्यशेषभावः । अतोऽस्माद्विधेः स्तुतिमवगच्छामः ॥ ननु निरपेक्षादपि विधिमवगमिष्यामः । भवत्वेवम् । नैवं सति कश्चिद्विरोधः किंत्वशक्यः स्तुतिपदसंबन्धे सति विध्यर्थो विवक्षितुम् । वाक्यं हि सम्बन्धस्य विधायकम्, द्वौ चेत्संबन्धौ विदध्याद् भूतिकाम आलभेत, आलम्भेन चैष गुणो भविष्यतीति । भिद्येत र्तह्यवं सति वाक्यम् । अथ यदुक्तं न क्रिया गम्यते, न तत्सम्बद्धं वा किंचिदिति । स्तुत्यर्थेन विधीनां स्युः । स्तुतिशब्दाः स्तुवन्तः क्रियां प्ररोचयमाना अनुष्ठातॄणामुपकरिष्यन्ति क्रियायाः । एवमिमानि सर्वाण्येव पदानि कंचिदर्थं स्तुवन्ति विदधति । अतः प्रमाणमेवंजातीयकानि वायुर्वे क्षेपिष्ठा देवतेति ॥ ७ ॥ भा० वि०] यद्यप्यर्थवादाध्ययनस्यादृष्टार्थत्वेनोपेक्षाफलत्वेन वा तदध्ययनविधेः पुरुषार्थपर्यवसानं स्यात् । तथापि दृष्टे संभवत्यदृष्टकल्पनानुपपत्तेः, उपेक्षा-

४२ मीमांसादर्शनम् [ सू०

फलस्य च शब्दप्रमाणस्यादर्शनादर्थप्रकाशनेन चानुष्ठानोपयोगितया विध्येकवाक्य- त्वोपपत्तेः फलवदर्थावबोधपर्यन्ततामापादयन्नध्ययनविधिः अर्थवादादीनां सामान्येन धर्मप्रमित्युपयोगं दर्शयतीत्यभिप्रेत्य सिद्धान्तयति—विधिना त्वेक- वाक्यत्वादिति । यद्यपि चात्र प्राग्युदाहृत्य विशेषविनियोगाभावेनानर्थक्यं पूर्वपक्षितम्, तेष्वेव सोऽरोदीदित्येवमादिषु सिद्धान्तोऽपि दर्शयितुमुचितः । तथापि तेषां स्वार्थसत्यताप्रतिपादनेन तद्द्वारा स्तुत्युपयोगितया धर्मप्रमितिहेतुत्वप्रतिपादनात् स्वार्थसत्यानामेव स्तुत्युपयोगमात्रप्रतिपादनेन विधिशेषत्ववर्णनं लघीय इत्य- भिप्रेत्योदाहरणान्तरमाह—इदमिति । यद्यपि चार्थवादमात्रमत्रोदाहरणम्, तथापि विध्यपेक्षितप्राशस्त्यप्रतिपादनेन विध्युपयोगं दर्शयितुं सविधिवाक्य- मुदाहृतम् । यदुक्तम्—'आम्नायस्य क्रियार्थत्वादक्रियार्थानामानर्थक्यमिति', तत्र यत्क्रिया तत्सम्बन्धेनभिधायित्वं तदिष्टमेवेति सौत्रं तुशब्दं व्याकुर्वन्नाह— वायुरिति । न च तावन्मात्रेणानर्थक्यमिति वदन् विधिनेकवाक्यत्वादिति सूत्रा- वयवं व्याचष्टे—तथापीति । विधिः शब्दभावना, विधिमुद्दिशतीति वा विधि- रुद्दिश्यतेऽनेनेति वा विध्युद्देशो विधिबोधकं वचनं तेनैकवाक्यत्वाद्वायव्यं क्षेपि- ष्ठेत्यादीनां न धर्मप्रमित्यनुपयोगित्वलक्षणमप्रामाण्यमित्यर्थः । न चोद्देशपदा- धिक्यात् सूत्रार्थविनाशप्रसङ्गः, एकवाक्यत्वस्य शब्दधर्मस्य साक्षाद्विध्यर्थेन सहा- संभवात्, द्वारमात्रतयोद्देशग्रहणात् । यद्वा विधिशब्दस्य शब्दार्थयोः प्रयोगदर्श- नात् शब्दपरतया व्याख्यानेऽपि न दोषः । अयमाशयः—स्वाध्यायाध्ययनविधिना तावत्समस्तस्य वेदराशेः पुरुषार्थ- पर्यवसायित्वमवगतम्, न चार्थवादाः श्रुत्यैव पुरुषार्थसाधनं कश्चिदर्थमवगम- यन्ति, न च विध्येकवाक्यतामन्तरेण लक्षणा, तेन समभिव्याहारावगतविध्येक- वाक्यत्वबलेन लक्षणया प्राशस्त्यज्ञानं कुर्वन्तोऽर्थवादाः फलभावनाभाव्यायां विधिभावनायामुपकरिष्यन्तो नानर्थका भविष्यन्तीत्याह—प्रमाणमिति । ननु सार्थवादस्यैव विधेः अंशत्रयविशिष्टविधिभावनाबोधकत्वेन विध्युद्देश- त्वात् कथं तेनार्थवादानामेकवाक्यत्वमत आह—भूतिकाम इति । केवलविधि- भावनाविषयः प्रत्ययोऽत्र विध्युद्देश इति भावः । न चैवं प्रत्यय इत्येव वाच्यम्, न भूतिकाम इत्येवमन्त्रे हीति वक्तव्यम् । अंशत्रयविशिष्टभावनाविषयशब्दभावना- प्रतिपत्त्युत्तरकालमेव स्तुत्याकाङ्क्षति सूचनार्थत्वादिति द्रष्टव्यम् । नन्वर्थवादानां पुरुषार्थपर्यवसानाकाङ्क्षायामपि विधेः प्रवर्त्तनास्वरूपत्वेन प्राशस्त्यानपेक्षत्वात् सत्यपि समभिव्याहारे कथमेकवाक्यभाव इति चोदयति— कथमिति । विधिविषयस्य धात्वर्थस्यायासस्वरूपत्वेन पुरुषस्य तत्र रुच्यनुत्पत्तौ

७ ] प्रथमाध्याये द्वितीयपादः ४३ विधेः प्रतिबद्धशक्तित्वेन प्रवर्तकत्वासम्भवात्, तदुत्पत्तेश्च प्राशस्त्यज्ञानाधीनत्वा- द्युक्तमेकवाक्यत्वमिति परिहरति-पदानामिति। विधेः स्तुतेश्च साकाङ्क्षत्वा- द्विविधिस्तुतिपदानामेकवाक्यत्वमिति सम्बन्धः। विधेः स्तुत्याकाङ्क्षामभि- नयति-भूतीति। ननु विधिभावनायाः इतिकर्त्तव्यतापेक्षा कथमित्येवंरूपा स्यादर्थभावनाया इव तत्र कथं कस्मादित्याकाङ्क्षा दर्शिता, नैष दोषः इतिकर्त्तव्यताविषयैवा- काङ्क्षा यदा भावनासंबन्धितया निरूप्यते, तदा कथमित्येवंरूपा। यदा तु प्रवर्त्तितव्यं मयेति प्रतिपुरुषसंबन्धितया निरूप्यते, तदा कस्मादित्येवंरूपा तत्राकाङ्क्षायाः पुरुषधर्मत्वेन भावनायामुपचरितत्वान्मुख्यामेव पुरुषापेक्षा- माश्रित्य-कस्मादित्युक्तमिति। तत इति। यस्मात् क्षैप्रगुणकवायुदैवतसाध्यं कर्मक्षिप्रफलदत्वात् प्रशस्तमित्यर्थः। ननु यद्यपि विधेः प्ररोचनापेक्षया प्रवर्तकत्वम्, तथापि न स्तावकापेक्षा विधेरेव प्राशस्त्यज्ञापनद्वारा प्ररोचनायामपि व्यापारोपपत्तेरत आह-नाय- मिति। भूतिकाम आलभेत कस्मात् ? यतो वायुर्वैक्षेपिष्ठा देवतेत्यनेन योऽयं विधिस्तुतिसंबन्धः सार्थवादस्य विध्युद्देशस्यार्थो दर्शितः। नायं भूतिकामेना- लब्धव्यमित्यनेन विध्युद्देशमात्रेण विवक्षित इति संबन्धः-कथं तर्हीति। केन तर्ह्ययं विवक्षित इत्यर्थः, उत्तरमालभेतेति मध्यप्रतीकेन समस्तो विध्युद्देशोऽ- भिमतः-तत इति। पूर्ववाक्यप्रकृतवायूपरामर्शः तेन च क्षैप्रगुणयुक्तस्य वायोः क्षिप्रमेव फलप्रापकत्वप्रतिपादकत्वम्, स एवैनं भूतिं गमयतीत्येतदन्तं वाक्य- मुपलक्षितम्। तेनायमर्थः सार्थवादेन विध्युद्देशेनायमभिसंबन्धो विवक्षितः- न केवले नेति। ननु केवलस्यैव विध्युद्देशस्य कर्त्तव्यतारूपविधौ प्राशस्त्ये च व्यापारः किं न स्यादत आह-भिन्नाविति। यद्यपि प्रशस्तत्वात् कर्त्तव्योऽयमालम्भ इति विध्युद्देशेन प्रतिपादनेन वाक्यभेदोऽर्थैकत्वात्, तथापि केवलविशेष्यपरत्वसंभवे- ऽपि शिशिष्टपरत्वकल्पने गौरवापरपर्यायवाक्यभेदप्रसङ्गः तदवस्थ एवेत्यर्थः, यद्यपि विधिस्तुतिरूपार्थद्वयप्रतिपादनं विध्युद्देशमात्रेण न क्रियते, तथाप्यर्थ- वादानर्थक्यम्। तथाहि-प्रवृत्तिप्रतिबन्धकालस्यादिविरोधिरूपा प्ररोचनैव विधेरितिकर्तव्यता, न स्तुतिः, तयैव हि स्तुतिराकाङ्क्ष्यते। तत्र च विनैव प्ररोचनां विध्यवगतश्रेयस्साधनभावादेव प्रवृत्तिहेत्विच्छोत्पादनेन तद्विरोध्या- लस्यादिनिराससिद्धेः स्तुत्यानर्थक्यादर्थवादानर्थक्यमिति चोदयति-किमर्थेति। परिहरति-कथमिति। ननु रुचिरेव कर्मण्यनर्थिका तत्राह-तत इति। विध्यवगतश्रेयस्साधनत्व- बलादालस्यनिवृत्तावपि बहुव्ययायासदर्शनाद् द्वेषोत्पत्तेः स्तुतिसाध्यप्ररोचना-

४४ मीमांसादर्शनम् [ सू०

मन्तरेणानिरासात् साप्यनुष्ठाने हेतुरिति, तद्द्वाराऽर्थवानेवार्थवाद इति भावः । किमर्था स्तुतिरिति चोद्याभिसन्धिं विवृणोति - नन्विति । भूतिकामान्तादिति फलसाधनतावगम्यं प्रवृत्तिहेतुं सूचयति । विनैव प्ररोचनां प्रवृत्तिसिद्धौ फलित- माह—स्तुतीति । फलसाधनतावगमस्य दुःखरूपतावगमप्रतिबद्धप्रवृत्तिकरणे- च्छोत्पादकत्वासंभवात् प्रवृत्त्यङ्गप्ररोचनानिमित्ततया स्तुतिरास्थेयेति परि- हरति—नहीति । स्यादेतत् विधेः प्ररोचकस्तुत्यपेक्षायामपि नार्थवादान्वयः, विधिबलेनैव प्राशस्त्यस्याक्षेपात् । न च गौरवं दोषाय 'वसन्ताय कपिञ्जलानालभते' इत्यादी तथा दर्शनात् इति । तत्राह—यदेति । स्तुतिपदानि अर्थवादाः । पूर्वेण = विध्युद्देशेनैव । विधिसप्रयोजनः पर्यवस्येदित्यर्थः । तत्र गत्यन्तराभावाद् गौरवं- मप्याश्रीयते इति भावः । यत्र तु सार्थवादो विध्युद्देशः नैवमित्याह—यदा चेति । चस्त्वर्थः आलभ्भशब्दस्तद्विषयसप्ररोचनसमग्रः विधिपरः विधीयते प्रतिपाद्यते पूर्वेणैवेत्यनुषङ्गः, तत्र ह्यर्थवादानामेव स्तुत्या प्ररोचकत्वोपपत्तौ, न विध्युद्देश- स्यैव तदाक्षेपकत्वं गौरवावहमाश्रयणीयमिति भावः । योग्यपदान्तरानुच्चारणे तन्निरपेक्षमेव वाक्यं स्वार्थे पर्यवसितमिति, न यदुच्चारणेऽपि तथैव तत्र पर्यवस्यतीत्यत्र दृष्टान्तमाह—यथेति । अवान्तर- वाक्यस्य पदान्तरनिरपेक्षतया स्वार्थपर्यवसानप्रदर्शनाय वाक्यार्थकथनम् — घट उत्पद्यत इति । तत्फलनिरपेक्षत्वमुक्तम् निराकाङ्क्षं चेति । पदान्तरसन्निधाने तस्यैवावान्तरवाक्यस्यार्थान्तरं संभवतीत्याह--यदा त्विति । तत्फलमुक्तम्— भवति चेति । रिक्तं तत्पदं प्रतीत्यर्थं दृष्टान्तनिविष्टमर्थं दार्ष्टान्तिके योजयति-- यदा नेति । तदा विधिशब्देनैव प्राशस्त्याक्षेपेण प्ररोचनापि क्रियत इत्यर्थः । स्तवने न प्ररोचनेत्यनुषङ्गः । ननु यत्रावान्तरवाक्यस्य महावाक्यार्थे सामर्थ्यं नास्ति, तत्र तथास्तु इह तु महावाक्यार्थेऽवान्तरवाक्यस्य सामर्थ्यमभ्युपगमात् किं महावाक्येनेति शङ्कते— नन्विति । ननु विध्युद्देशस्यैव सामर्थ्येऽपि श्रूयमाणत्वात् अर्थवादानां तदर्थत्वस्याभ्यु- पगमः तत्राह—यस्मिन्निति । यस्मिन् स्तुतिवचने सति अवान्तरवाक्यमविधायकं सप्ररोचनविधिपर्यवसितं न स्यात्, तत् स्तुतिवचनं माभूत् इत्यर्थः । स्तुतिपद- परित्यागे लाभान्तरमाह—तदभाव इति । ततश्चातिलाघवमिति भावः । अपौरु- षेये वेदे लघुनोपायेन सिद्धेः, किं गुरुणेति परित्यागपरिचोदनानुपपन्नेति परिहरति—सत्यमिति । तेन स्तुतिवचनेन प्रयोजनं स्तुतिसाध्यप्ररोचना तत्स्तुतिवचनम्, परित्यागानुपपत्तौ फलितमाह—तस्मिन्निति । स्तुतिवचने

७ ] प्रथमाध्याये द्वितीयपादः ४५ विद्यमान एव योऽर्थो वाक्यस्य स्तुतिकार्या प्ररोचना, सोऽर्थोऽवगम्यते । अवगति- शब्देन तत्कार्याङ्गीकारो लक्ष्यते । तेनाङ्गीक्रियते=अङ्गीकार्यं इत्यर्थः । इतरथार्थ- वादाम्नानवैयर्थ्यादिति भावः । कोऽसौ सत्येव स्तुतिवचने विद्यमानोऽर्थस्तत्राह- स्तुतिरिति । स्तुतिद्वारां प्ररोचनम्, तच्च तयोर्विधिस्तुतिपदयोर्द्वयोः, न त्वेकैकस्य । न च तन्मतेऽर्थवादस्यैव स्तुतिरर्थः इति कथं द्विवचनेन विध्युद्देशस्यापि सोऽभि- धीयत इति अभिधातव्यं विधेरपि स्तुत्यसमर्पणेन स्तुतिहेतुतया तत्फलत्वात् स्वयमेव स्तावकस्यैवानङ्गीकारादित्यभिसन्धिः । किमिति तर्हि विधेरेव प्ररोचनायामपि सामर्थ्यं क्वचिदङ्गीकृतं तत्राह—तस्मिन्निति । अर्थवादाभावाद- गत्या गौरवमप्यङ्गीकृतमित्याशयः । ननु यद्यप्यपौरुषेयत्वाद्वेदस्य नार्थवादाम्नाने पर्यनुयोगः, तथापि न तेभ्यः प्ररोचना, किन्तु विधेरेवानर्थक्यं तु तेषामिष्टमेवेति मन्वानश्चोदयति—ननु सत्स्वपीति । पूर्वस्य विध्युद्देशस्य वसन्ताय कपिञ्जला नित्यादिकेवलविधि- सरूपत्वात्, तेनैव विधिसप्ररोचनोऽभिप्रेतः=प्रतिपादितः स्यादित्यर्थः । ततः किम्, अत आह—न विवक्ष्यतेति । स्तुतिपदानां विधिपदेन संबन्धो विद्यमानोऽपि नाभिप्रेयत इत्यर्थः । तर्हि साकाङ्क्षत्वात् स्तुतिपदान्यनर्थकानि स्युरिति यथाश्रुतमादाय परिहरति—नेति । साकाङ्क्षाणीति हेत्वर्थं विशेषणम्, परः स्वाभिप्रायं विवृणोति—भवन्त्विति । अध्ययनविधिदृष्टार्थत्वञ्चासंभवादनादेय- मेवेति परिहरति—न गम्यमानइति । अविवक्षितेतिच्छेदः, विध्येकवाक्यतया स्तुतिलक्षणया प्ररोचनमर्थवादानांर्थः । नासावसतिबाधकेऽपहेय इत्यर्थः । ननु निरपेक्षस्य विधेः क्वचित्पर्यवसानदर्शनं वाधकमन आह—योऽसाविति । विधातुम्=सप्ररोचनविधौ पर्यवसातुम्—वाक्यशेषं भवितुम्, स्तुत्यप्रतिपादनेन स्तावकवाक्यानां शेषीभवितुन्, अत उभयासम्भवान्न निरपेक्षविधिपर्यवसानदर्शनं बाधकमित्यभिप्रायः । ननूभयथा संभवमात्रेण कथं प्रकृते वाक्यशेषभावस्तत्राह--प्रत्यक्षश्चेति । उक्तमेतद् भूतिकाम आलभेत कस्मादित्यादिनेति भावः । उपसंहरति--अतइति । विधेरिति षष्ठी, विधिसंवन्धितोऽस्माद्वाक्यशेषादेव स्तुतिमवगच्छामः, न विधेरेवेत्यर्थः । स्यान्मतम्, यथार्थवादार्थो गम्यमानत्वान्नापहेयः तथाविधेरपि निरपेक्षस्यैव क्वचित्पर्यवसानदर्शनात् तदपि नापहेयम्, ततश्च सार्थवादेऽपि विधौ निरपेक्षस्यैव पर्यवसानं युक्तमिति चोदयति--नन्विति । विधिं सप्ररोचनमिति यावत् दूषयति--भवन्त्विति । यद्यपि यथादर्शनं केवलस्य विधेः पर्यवसानमवगम्यते, तथापि स्तुतिपदसंबन्धे सत्यवगम्यमानार्थवादार्थपरित्यागप्रसङ्गात् न केवलस्यैव पर्यवसानमित्यर्थः । विध्यर्थः सप्ररोचनः कुतोऽशक्य इत्याशङ्क्य गौरवं नाम

४६ मीमांसादर्शनम् [ सू० दोषान्तरं पूर्वोक्तं स्मारयति—वाक्यं हीति । वाक्यमिति संबन्धस्येति चैकत्व- निर्देशादेकं हि वाक्यमेकस्यैवार्थस्य प्रतिपादकमित्युक्तं भवति, संबन्धशब्दश्च संबन्धिवस्तुस्वरूपपरः, ततः किम् ? अत आह-द्वाविति। विदध्यात्=प्रतिपादयेत् विध्युद्देश इत्यर्थः । तावेव दर्शयति--भूतीति । आलभेतैष हीति विध्युत्थापिता- मेव परोचनामभिनयति, न त्वर्थवादोत्थापिताम्, तथा सति परोचनविशिष्ट- विधिविषयत्वाद्वाक्यस्य वाक्यभेदोपलक्षितगौरवापत्तिरित्यर्थः । एवं तावत्कथमेकवाक्यभाव इत्यादिनाभिमतसाधनतावबोधकस्यापि विधेः परोचनामन्तरेण प्रवर्त्तकत्वायोगात्, परोचनायाश्च प्राशस्त्यज्ञानाधीनत्वात्, तस्य च विधितो संभवदर्थवादापेक्षत्वाद्विध्येकवाक्यत्वेनार्थवादा. स्तुतिं लक्ष- यन्तः परोचनाद्वारेण प्रवृत्त्युपयोगार्थवन्त इत्युक्तम् । अधुनेममर्थं सूत्रावयवारूढं कर्तुं पूर्वपक्षोक्तमनुवदति—अतथेति। वाक्योप- क्रमार्थोऽथ शब्दः, 'वायुर्वै क्षेपिष्ठे' त्यादिना क्रिया अर्थभावना, तत्संबद्धं वा भाव्यादिनावगम्यते इति यदुक्तम्, तद्यानीत्यादिनेत्यर्थः, तत्रेदमुत्तरमिति शेषः, उत्तरत्वेनोपात्तं सूत्रांशं व्याचष्टे-स्तुतीति । स्तुतिशब्दा अनुष्ठातृणामुप- करिष्यन्तीत्यन्वयः, उपकारश्चानुष्ठातर्यतिशयः, स च सामर्थ्यम्, तच्च किंविषय- मित्यत उक्तम्-क्रियाया इति। क्रियाविषयं क्रियार्थमुपकारं करिष्यन्तीति यावत्, तेन क्रियाया इति तादर्थ्ये षष्ठी, एतेन विधेयभावनातदंशाप्रतिपादकत्वे- ऽपि तदनुष्ठापकानां विधीनामनुष्ठातर्युपकारजनने नाऽङ्गमर्थवादाः स्युरिति सूत्रा- वयवो विवृतः । कथमपकरिष्यन्तीत्यत्राह—परोचयमाना इति । अनुष्ठातृभ्य इत्यर्थात्संबध्यते कथमेते रुचि जनयन्तीत्यत उक्तम्-स्तुवन्तः क्रियामिति । तदनेन स्तुतिरेवार्थः स्तुत्यर्थः विधीनां परोचयितुमर्थ्यमानत्वात्, तेनोपकारेणेति स्तुत्यर्थेनेति सूत्रांशो विवृतः । तस्यात्सिद्धमर्थवादानामनुष्ठेयार्थपर्यवसानमिति निगमयति—एवमिति । उक्तन्यायेन सर्वाण्यपि स्तुतिपदानि कंचिद्विधेयं तत्संबद्धं वा अर्थं स्तुवन्ति सन्ति विधौ पर्यवस्यन्तीत्यर्थः । अनेनैव न्यायेन निन्दार्थवादानामपि निवृत्तिप्रतिबन्धकरागविरोधिद्वेषोत्पादनेन निषेधवाक्यैक- वाक्यतया निषेधपर्यवसानमुक्तं वेदितव्यम्। यतोऽर्थवादानामनुष्ठापकविध्यङ्ग- त्वेनानुष्ठेयार्थपर्यवसानं ततो यदुक्तम्, तस्मादेवजातीयकान्यनित्यानि न नित्य- चोदनाकार्यं कुर्वन्तीति तन्निरस्तमित्याह—अत इति । फलोपकार्याङ्गतयाधर्म- प्रमितिशेषत्वायुुक्तं चोदनावत् प्रामाण्यमित्यर्थः ॥ ७ ॥ त० वा०] पूर्वपक्षोदाहृतेष्वेव वाक्येषु सिद्धान्तेऽभिधातव्ये, किमर्थं वायव्य- वाक्यमुपन्यस्यते । केचिदाहुः । समानन्यायत्वादिदमपि तत्र, तान्यपि चेहोदाहृ- तानि द्रष्टव्यानीति । यद्यप्येवम्, तथाऽप्यपूर्वोदाहरणमभिप्रायन्तरमाकाङ्क्षति । तदभिधीयते । पूर्वोदाहृतेषु सर्वत्र स्वार्थसत्यत्वमप्याशङ्क्यते । तत्र कः प्रथममेव

७ ] प्रथमाध्याये द्वितीयपादः ४७ तत्प्रतिपादनक्लेशमङ्गीकुर्यादिति प्रसिद्धस्वार्थसत्यत्वानां स्तुतिद्वारैकवाक्यभावेन धर्मप्रमाणशेषत्वमात्रप्रतिपत्तिसौकर्यार्थं वायव्यवाक्योपन्यासः। तत्र भाष्यकाराः प्रसिद्धेनैकवाक्यत्वेन स्तुत्यर्थोपयोगं वदन्ति। एतावत्तत्र प्रथमं वक्तव्यम्। किमर्थं रूपभङ्गे न बलादेकवाक्यता; पुरुषार्थत्वं वा वेदस्योच्यते इति। लौकिक- वाक्ये तु दृष्टत्वादिति यद्युच्येत, तत्राभिधीयते। युक्तं लोके वाक्यार्थस्य प्रमाणान्तरगम्यत्पादन्यथाऽपि कल्पनम्। इह त्वत्यन्तातीन्द्रियत्वादयथाश्रुता- दीषदप्यन्यथात्वे पौरुषेयत्वमापद्येत। लोकेऽपि च यानि प्रमाणान्तरानवगता- र्थानि आप्तप्रत्ययमात्रेण श्रोतॄणां प्रमाणानि भवन्ति, तेषां नैवान्यथात्वकल्पनं लभ्यते। तत्र केचिद्वदन्ति। ‘तुल्यं च सांप्रदायिकम्’ इति यद्वक्ष्यति, तेन समस्तो वेदः पुरुषार्थ इति साध्यते। न ह्यात्मानुपकारिणं सन्तमेनं बुद्धिपूर्वकारिणः पुरुषाः प्रयत्नेन धारयेयुः। यद्यपि च केषांचिदज्ञानं भवेत्, तथाऽप्यस्मत्पूर्वाति- क्रान्ताऽनेकपरोक्षकप्रमादकल्पना निष्प्रमाणिका। तस्माद्यथा यथा पुरुषार्थता भवति, तथा तथा भङ्क्त्वाऽपि रूपं व्याख्यायत इति। न त्वेतद्युक्तमिव। कुतः? पुरुषाधीनप्रामाण्यप्रसङ्गात्। यदि ह्यक्षरानुपात्तो- ऽप्यर्थोऽस्मदादिभिरेवं कल्प्यते, यस्माद्वयं प्रयत्नेन धारयामस्तस्मादस्य पुरुषार्थतेति। तथा सत्यात्मचेष्टितवशेन प्रामाण्यमभ्युपगतं स्यात्। अथ पुरुषा- न्तरधारणमुच्यते, एवमपि तद्वशेन, तैरप्येवमन्यवशेनेत्यनादित्वेऽपि सत्यन्ध- परम्परान्यायेन सर्वेषां परप्रत्ययान्न क्वचित्प्रामाण्यावस्थानम्। सर्वत्र ह्येवमयं पुरुषो वेदेति प्रत्ययो, नैवमयमर्थ इति। तेन यद्यपि तेषु तेष्वध्येतृषु नूनं पुरुषार्थं वेदं मन्यन्त इत्यभिप्रायोऽनुमीयते, तथाऽपि निर्मूलत्वात्तन्मात्रेणासिद्धिः। अतो यावद्वेद एव पुरुषार्थतया सकलमात्मानं न प्रतिपादयति तावदप्रमाणम्। तदुच्यते। सकलस्य तावद्वेदस्य ‘स्वाध्यायोऽध्येतव्य’ इत्यध्ययनभावना विधीयते। तत्र किं भावयेदित्यपेक्षायामध्ययनमित्यागतमपि पुरुषप्रवर्तनाशक्ति- युक्तेन विधायकेनापुरुषार्थसाध्यायां भावनायां प्रवर्तनाशक्तिप्रसक्तेस्तदंशात्क्षिप्ता- क्रियते। ततश्चाध्ययनेनेत्यविरोधात्संनिधेश्च करणांशे निविशते। तेन किमि- त्यपेक्षिते ‘यच्छक्यते’ इत्युपबन्धादक्षरग्रहणमित्यापतति। तस्याप्यपुरुषार्थ- त्वात्तेन किमिति, पदावधारणमित्युपतिष्ठते, तेनापि पदार्थज्ञानम्, तेन वाक्यार्थ- ज्ञानम्, तेन चानुष्ठानम्, अनुष्ठानेन स्वर्गादिफलप्राप्तिरित्येतावति प्राप्ते निरा- काङ्क्षीभवति। एवं सर्वविधीनां प्राक् पुरुषार्थलाभादपर्यवसानम्। न च सहसैव विधिदर्शनात्स्वर्गाद्येव फलं कल्प्यते। योग्यतया हि यस्य यत्रानन्तरभाविनि व्यापारे लक्ष्यते, तदेव तस्य कार्यमित्यवधार्यते। तत्र यदि तावत्तदनुसारेणैव कियत्यप्यध्वनि फलमासाद्यते, ततो नान्तरा कल्पनमर्हति। पारम्पर्यप्रयोजने-

४८ मीमांसादर्शनम् [ सू०

नापि श्रुतविध्युपपत्त्या, अन्यथानुपपत्तिलक्षणार्थापत्त्यनुत्पादात् । यत्र त्वनन्तरं दृष्टं कार्यं न स्वयं पुरुषार्थो नाऽपि पारम्पर्येण तमाप्नोति यथा होमस्याऽऽहव- नीयप्राप्तिः, भस्मसाद्भावो वा । तत्र तदतिक्रमेण साक्षात्कर्मण एवादृष्टकल्पना । सर्वत्र चैतल्लक्षयितव्यम् । यत्र तु विहिते फलाकाङ्क्षिणि तदनात्मककार्यपरम्परायां सत्यामान्तरालिकं किंचित्क्रतवे, पुरुषार्थाय वा चोद्यते, तत्र तदेव तत्साधनम् । पूर्वस्य तु विधेस्तदु- पकारार्थतया पर्यवसानम् । यानि तूत्तरविधेः कार्याणि, प्राक्तानि साध्यसाधन- भावेनाचोदितत्वान्नान्तरीयकत्वेन काष्ठादीनामिव ज्वालादीनि पूर्वविहितकर्म- स्वव्यापारमात्रतया मन्तव्यानि । यत्र तु पारम्पर्यजन्यं न किंचिदन्तरा विधीयते, तत्र सर्वाणि स्वव्यापारी- कृत्य विधेयस्यैव स्वयं फलसाधनता । तत्र यानि तावत्क्लृप्तकल्पयिष्यमाणपुरुषार्थ- साधनविधिवाक्यानि, तानि तत्प्रतिपादनं यावत्स्वाध्यायाध्ययनविधिना नीयन्ते, परतस्तु फलवत्त्वं ज्ञातमेवेति न तद्यावत्प्राप्यन्ते । यानि तु तत्प्रकरणे पठ्यन्ते, तान्यपि तथैवाक्षरग्रहणादिक्रमेण स्वार्थावबोधनं यावद्गतानि न साक्षात् क्रत्वङ्गं भवन्ति । कुतः ? कथमित्यदृष्टोपायापेक्षेण क्रतुना दृष्टार्थत्वादक्षरादिष्वन- वसजता तद्विहितं कर्ममात्रमेव हि प्रयोजनद्वारेणोपादीयते, नान्यत् । अतः प्रधानवाक्यतुल्यान्यङ्गानि भवन्ति । तद्वाक्यानि तु बाह्यतराण्यध्ययनादिवत् । एवं प्रोक्षणादिवाक्यानां व्रीह्यादिसंस्कारमात्रफलावसितानां तण्डुलपिष्ट- पुरोडाशद्रव्यवदानादिभिर्व्यवहिततरः प्रधानसंबन्धः । एवमेवानारभ्याधीतारा- दुपकारकसामवायिकाङ्गवाक्यानि योजयितव्यानि । तत्र त्वेतावान्विशेषः । यदप्रकरणस्थत्वादक्षराण्यस्पृष्टप्रधानमर्थमेव १ संबध्यते । यानि त्वाधानादि- वाक्यानि तान्यपि फलवत्क्रत्वङ्गाहवनीयादिसंस्कारप्रतिपादनावसायिनि दूरस्थे- नैव फलेन निराकाङ्क्षीक्रियन्ते । एतेन क्रत्वर्थकर्तृप्रतिपादनद्वारेणोपनिषदां नैराकाङ्क्ष्यं व्याख्यातम् । मन्त्रनामधेययोस्तु स्वाधिकारे योजना वक्ष्यते । तेन सर्वेषां भावनान्तर्गतिरुपपन्ना । यत्त्वर्थवादानां भावनांशत्रयानन्तःपातित्वादग्रहणमिति, तत्राभिधीयते । सत्यम्, अतिरिक्तं न गृह्यते । अस्तित्वन्तर्गतिः । कथम् ? इह हि लिङ्गादियुक्तेषु वाक्येषु द्वे भावने गम्येते शब्दात्मिका, चार्थात्मिका च । तत्रार्थात्मिकयाऽर्थ- वादा नापेक्ष्यन्ते । शब्दात्मिकया तु ग्रहीष्यन्ते । सा ह्येवं प्रवर्तते स्वाध्याया- ध्ययनविधिनेतरे सर्वे विधायकाः स्वाध्यायपदोपात्तश्चाऽऽत्मा नियुज्यते भावये- दिति । तत्र लिङादीनां प्रयोजककर्तृत्वम्, पुरुषः प्रयोज्यस्तेन किमित्यपेक्षायां पुरुषप्रवर्तनमिति संबध्यते । अथ तु योग्यतयैव लिङादिविषया क्रियोच्यते

१. स्पृशन् ।

७ ] प्रथमाध्याये द्वितीयपादः ४९ प्रवर्तयेदिति । ततः किमित्यपेक्षते पुरुषमित्येव संबध्यते । यद्यपि चाचेतनत्वा- ल्लिङादिष्वेवंविधं प्रयोजकत्वं न संभवति, तथाऽपि पुरुषस्य प्रयोज्यस्य प्रयोज- कत्वानुपपत्तेस्तद्गतचैतन्यद्वारेण विधायकानां प्रयोजकता । यदि चैवं न कल्प्येत, नैवेषां विधायकत्वव्यपदेशो भवेत् । अथ केनेत्यपेक्षिते पूर्वसंबन्धानुभवापेक्षेण विधिविज्ञानेनेति संबध्यते । कथमिति ? प्राशस्त्यज्ञानानुगृहीतेनेति । कुत एतत् ? बुद्धिपूर्वकारिणो हि पुरुषा यावत्प्रशस्तोऽयमिति नानुबुध्यन्ते, तावन्न प्रवर्तन्ते । तत्र विधिशक्तिरवसीदति, तां प्राशस्त्यज्ञानमुत्तम्भाति । तच्च पुरुषार्थत्वे फलांशे सर्वस्य स्वयमेवानुष्ठानं भवतीति प्रसिद्धत्वान्न वेदादुत्पद्य- मानमपेक्ष्यते । साधनेतिकर्तव्यतयोस्त्वप्रवृत्तपुरुषनियोगाच्छास्त्रमेव प्राशस्त्य- प्रतिपादनायाऽऽकाङ्क्ष्यते । तत्पुनः केन क्रियेतेति साधनापेक्षायां यदि वा फल- पदेन निवर्त्येत, प्रशस्तोऽयं भूतिफलत्वात् । अथ वा विधिनैव, सर्वदोषाशङ्का- विनिर्मुक्तवेदविहितत्वादिति । अथ वा विशिष्टद्रव्यदेवतेतिकर्तव्यतायुक्तत्वा- दिति । तत्र फलपदादीनामर्थान्तरोपयोगात्पुनरन्यत्राप्युपयोगो न युज्यते । विध्युत्तरकाला चेयमाकाङ्क्षा, पूर्वं च फलपदादिनिवेशः । तस्मादपि न तैर्नि- वर्त्यते । लक्षणा चैतेभ्यः कल्प्यते । न च श्रौतार्थसंभवे सा युक्ता । युगपच्चो- भयवृत्तिविरोधात्प्राशस्त्यपरत्वे फलादीनि न स्युः । न ह्यन्यशास्त्रे सत्युपाय- मात्रत्वेनोपात्तानामेकान्तेन पारमार्थिकत्वमिति वक्ष्यते । अत एव चार्थाद्गम्य- मानमन्यपरत्वाच्छब्दानां न प्राशस्त्यं प्रयोजनं भवति । न हि यद्यत्प्रतीयते तत्तच्छास्त्रफलमवसीयते । यथा पूर्वो धावतीत्युक्ते यद्यप्यपरो गम्यते, तथाऽपि न कार्येण युज्यते । तद्वत्प्ररोचना गम्यमानाऽपि न कार्यान्तरोपयुक्तशास्त्रार्थ- त्वेनावतिष्ठते । अन्यथानुपपत्त्या चेयं तेभ्यः कल्प्येत । सर्वप्रमाणप्रत्यस्तमये चान्यथानुपपत्तिर्भवति । प्रमाणाभावाच्च यः सर्वप्रकारं प्रयतमानस्य स प्रमाणम् । तद्यपि केनचिदुपदेशेन वा अतिदेशेन वा न लप्स्यामहे, ततो दविर्हो- मम्यायेन विध्युद्देशस्यैव द्वे शक्ती कल्पयिष्यामः । अथ तु केनचिद् दूरस्थेनापि सेत्स्यति, ततस्तदनुसारस्तावत्कर्तव्य इत्येवं साकाङ्क्षो विधिरास्ते । तथा वायुर्वे क्षेपिष्ठा देवतेत्येवमाद्यपि स्वाध्यायाध्ययनविधिना पुरुषार्थतयोपनीतं यच्छक्यते, तत्कुर्यादित्यपबन्धाच्च सहसैव तेनासंबध्यमानमपुरुषार्थत्वेन च पूर्ववदक्षरादिष्वपर्यवस्यद् भूतान्वाख्यानवाक्यार्थं यावद्भूतम् । तत्रापि तु साका- ङ्क्षमेवेति, यस्तेन लक्ष्यमाणः साधनानुरूपसाध्योत्पत्तिद्वारेण क्षिप्रदेवतासाध्यं कर्म क्षिप्रमेव फलं दास्यतीति प्राशस्त्यरूपोऽर्थः, सोऽनन्तरप्रवृत्तविध्युद्देशा- काङ्क्षितत्वात्पुरुषार्थे द्वारतां शक्नोति प्रतिपत्तुमिति परिगृह्यते । सोऽयं नष्टा- श्वदग्धरथवत्संप्रयोगः । एवं च न प्ररोचनाऽन्यकृता कर्माङ्गम् । न चार्थवाद- पदैः प्रयोजनान्तरं साधनीयमित्याम्नानसामर्थ्यादुभयोर्नियमः । एतेन प्रतिषेधा- ४

५० मीमांसादर्शनम् [ सू० पेक्षितद्वेषसिद्धयर्थं निन्दापदसंगतिर्व्याख्याता । तत्रापि हि न द्वेषादृते विद्वाञ्प्रि- वर्त्तते । द्वेषश्चाप्रशस्तप्रत्ययाधीनोत्पत्तिः । न चाप्रशस्तज्ञानं नकारादिभिः पदैः प्रशस्ताप्रशस्तानभिधानेन निषेधतत्फलेतिकर्त्तव्यतामात्रपर्यवसितैः शक्यमव- लम्बितुमित्यनन्यप्रयोजननिन्दावाक्यगम्यमेव भवति । अतश्चैकवाक्यत्वसिद्धिः । नित्यं च विधिप्रतिषेधयोः क्रमेण वाक्यशेषाः स्तुतिनिन्दानिर्णयहेतवो भवन्ति । न निह स्तुतिनिन्दे नाम व्यवस्थिते, निन्दारूपासु स्तुतिषु स्तुतिरूपास्वपि च निन्दासु विपर्ययदर्शनात् । यथा वक्ष्यति न हि निन्दा निन्द्यं निन्दितुं प्रवर्त्तते अपि तु विधेयं स्तोतुमिति । तथा त्र्यम्बकवाक्येषु "यदभिधारयेत्तद्रुद्रायाऽस्य पशूनभिदध्यात्" इति स्तुतमप्यभिधारणं नाऽऽश्रयिष्यते, निन्दितमपि चान्ते विधिदर्शनादभिधारणमेव प्रशस्तं भविष्यति । संदिग्धस्तुतिनिन्दानामपि च प्रक्रमादेव निर्णयो । यथा वक्ष्यति न वयं निन्दिताननिन्दितान्वाऽसुरान्विद्मः । कदाचिद्धि यस्मादसुरानप्येषा वशीकृत्याऽऽनयति क्रिया । तस्मान्न्यूनं प्रशस्तेंति स्तुतिः स्यात् । अथ वा विध्वंसकासरागमननिमित्तत्वादशोभनेति निन्दा । तत्रान्ते सामविधानात्तत्प्रशंसार्थमृचां निन्देति गम्यते । सर्वत्र च किंचित्पदं स्तौति, निन्दति च, इतराणि त्वेकवाक्यतया तदर्थं प्रतिपद्यन्ते । यत्रापि तादृशं पदं न स्यात्तत्रापि लक्षणा लक्षितलक्षणा वाऽन्यथानुपपत्तेराश्रयणीया । विधिप्रतिषेधयोश्च स्तुतिनिन्दाभ्यामविनाभावादन्यतरदर्शनेनेतरदनुमाय वाक्यं पूरयितव्यम् । एवं भारतादिवाक्यानि व्याख्येयानि । तेषामपि हि श्रावयेच्चतुरो वर्णा- नित्येवमादिविध्यनुसारेण पुरुषार्थत्वान्वेषणादक्षरादि व्यतिक्रम्य धर्मार्थकाम- मोक्षाधर्मानर्थदुःखसंसारसाध्यसाधनप्रतिपत्तिरुपादानपरित्यागाङ्गभूता फलम्¹ । तत्रापि तु दानराजमोक्षधर्मादिषु केचित्साक्षाद्विधयः, केचित्पुनः परकृतिपुरा- कल्परूपेणार्थवादाः । सर्वोपाख्यानेषु च तात्पर्यं सति श्रावयेदिति विधेरानर्थ- क्यात्कथंचिद्गम्यमानस्तुतिनिन्दापरिग्रहः । तत्परत्वाच्च नातीत्रोपाख्यानेषु तत्त्वाभिनिवेशः कार्यः । वेदप्रस्थानाभ्यासेन हि वाल्मीकिद्वैपायनप्रभृतिभिस्तथैव स्ववाक्यानि प्रणी- तानि । प्रतिपाद्यानां च विचित्रबुद्धित्वाद्युक्तमेवैतत् । इह केचिद्विधिमात्रेण प्रतिपद्यन्ते । अपरे सार्थवादेन, अपरोऽल्पेनार्थवादेन, अपरे महता । सर्वेषां च चित्तं ग्रहीतव्यमित्येवमारम्भः । तत्र तु, केचिद्विधिप्रतिषेधाः श्रुतिमूलाः, केचि- दर्थसुखादिषु लोकमूलाः, तथाऽर्थवादाः केचिद्वैदिका एव, केचिल्लौकिका एव, १. धर्मादीनां साध्यानां साधनप्रतिपत्तिरिति विग्रहः । धर्मादिचतुष्टयसाधनप्रतिपत्ति- रुपादानाङ्गभूता । अधर्मादिचतुष्टयसाधनप्रतिपत्तिः परित्यागाङ्गभूतेत्यर्थः ।

७ ] प्रथमाध्याये द्वितीयपादः ५१ केचित्तु स्वयमेव काव्यन्यायेन रचिताः । सर्वे च स्तुत्यर्थेन प्रमाणम् । ये तु वाक्यशेषत्वं न प्रतिपद्यन्ते, तेऽपि केचित्स्वयमेव श्रूयमाणगन्धमादनादिवर्णक- प्रभृतयः प्रीतिं जनयन्ति । ये तु युद्धवर्णकास्ते सर्वेषां शूराणां भीरूणां चोत्साह- कराः पार्थिवानामुपयुज्यन्ते । यत्र तु न किंचिद् दृष्टमुपलभ्यते, तत्र विशिष्ट- देवतादिस्तुतिद्वारमदृष्टं कल्पनीयमित्येषा दिक् । विध्युत्खातिपूर्वपक्षः । विध्युद्देशेनैकवाक्यत्वादिति । केचिदाहुः । किमर्था स्तुतिरिति चेत्कथं रोचेत ततोऽनुष्ठीयेतेत्येवं स्तुतिनिन्दाभ्यां प्रवृत्तिनिवृत्तिप्रतिपादनं लिङादिभि- श्चाभिधानमतस्तुल्यार्थत्वम् । न च तुल्यार्थानां समुच्चयः । तत्र ये तावदर्थ- वादरहिता लिङादयः तद्रहिताश्चार्थवादास्तेषां यथाविषयं व्यवस्थितं निवर्त- कत्वम्, प्रवर्तकत्वमविरुद्धम् । यत्र तु द्वयसंनिपातः, तत्रान्यतरेण कृतार्थत्वाद- वश्यावहेयेऽन्यतरस्मिन्भूयसामनुग्रहो युक्तः । 'त्यजेदेकं कुलस्यार्थे' इतिवद्विधि- प्रत्ययः परित्यज्यते । केवलप्रकृतिप्रयोगाभावात्तदनुग्रहार्थंपरोचनालब्धविधित्वा- नुवादेन प्रवर्तते । यथा 'सत्रादुदवसाय पृष्ठशमनीयेन यजेरन्' इति क्त्वाप्रत्यय- सिद्धप्रवृत्त्यनुवादकत्वं वक्ष्यते । तस्माद्वायव्यंश्वेतालम्भ इत्येतावन्मात्रं विवक्षि- तम् । स एव च विध्युद्देशः फलादिसंबन्धोत्तरकालं स्तूयत इत्येतद् भूतिकाम इत्येवमन्तो विध्युद्देश इत्यनेन कथ्यते । अन्यथा पुनरुद्देशग्रहणमनर्थकमेव स्यात् । स्वोक्तेन तु विधिनेकवाक्यत्वं न संभवतीत्यतिक्रम्य तद्विषयः परि- गृह्यते । तथा चाऽऽह-नायमभिसंबन्ध इति । विधिविधेयसम्बन्धनिषेधेन स्तुति- स्तुत्यसम्बन्धं विवक्षितं वदति यतस्ततो भूतिरिति । सैव च भूतिनिमित्तस्य योजना । भिन्नावभाविति पूर्वोक्तौ संबन्धावभिधत्ते । किमर्था स्तुतिरिति चेदिति । प्रत्ययश्चेदुत्खातस्तेनाविधीयमानस्य किं स्तुत्येति । अथ वा यदनया साध्यते, तत्प्रत्ययेनैव सेत्स्यतीति मनसि कृत्वा वदति । आचार्यस्तूत्खातेऽपि प्रत्ययेऽर्थवादादेव तदर्थवासिमुभयसंभवे चार्थवादानुग्रहं मत्वाऽऽह-कथं रोचे- तेति । इतरः प्रश्नाभिप्रायं विवृणोति । प्रागेव सिद्धेः स्तुतिवचनमनर्थकमिति । नहीति ग्रन्थच्छेदः । सर्वत्रावान्तरवाक्यानि महावाक्येष्वप्रमाणं महासंख्यास्वि- वावान्तरसंख्या भवन्ति । तान्येव तु यदा केवलानि प्रयुज्यन्ते, तदा निरपेक्ष- त्वाद्भवन्ति प्रमाणम् । यथा घटो भवतीति । न च कदाचिदेतावन्मात्रेण समाप्तेर्नैराकाङ्क्ष्यदर्शनात्सर्वत्र नैराकाङ्क्ष्यम् । योग्यपदान्तरानुच्चारणेन हि सर्ववाक्यानि पर्यवस्यन्ति । इतरथा पुनः श्रुतपदातिरेकेणापि निपुणदृशां भव- त्येवापेक्षा । सा चानुपलब्ध्या निवर्तते । तथा च यत्रोपलप्स्यन्ते, तत्रैकवाक्यतां गमयिष्यन्ते । अन्यथा ह्यसौ तदुच्चारणेऽपि न स्यात् । तदिह महावाक्येन विनाऽवान्तरवाक्यं प्रमाणम्, तत्सद्भावे तु नेत्येतदाह-यदा न स्तुतिपदानीति । नन्वेवं सतीति । यत्र महावाक्यावान्तरवाक्ययोः फलं भिद्यते यथा पटभवन-

५२ मीमांसादर्शनम् [ सू० रागभवने, तत्रैव युक्तम्, इह त्वनतिरिक्‍तार्थस्य सतः किमवान्तरवाक्यनिराकरण- मेव महावाक्यस्य युक्तं फलम् । तदेतदाह—यस्मिन् सत्यविधायकमवान्तरवाक्यं भवति, मा भूतन्महावाक्यमिति । सत्यम्, विनाऽपि तेनेति । यो नाम वेदस्य कर्ता स्यात्स एवं पर्यनुयुज्येत लघुनोपायेन सिद्धे किं महावाक्यमाश्रयसीति । तदभावान्न पर्यनुयोगः । परिहारपथग्रामगमनवच्च श्रमातिरेकमात्रं स्यान्नार्था- नवाप्तिः । दृष्टं चैवंजातीयेषु गौरवाश्रयणम् । यथा तमेवार्थं खमित्येतावता सिध्यन्तमाकाशप्रभृतिभिरभिलपन्ति, न च जाड्यं लभन्ते । तथाऽत्र लिङादि- भिरपि सिध्यन्तमर्थवादभ्यो गृह्णत इति । शक्यते चेदमिह वक्तुं यथैवानेकोपाय- प्रसङ्गे मन्त्रेण स्मृतं क्रियमाणमभ्युदयकारि भवति, तथाऽन्येनापि विधिसिद्धा- वर्थवादप्रतिपादितविधिविहितमिति । ननु सत्स्वपि स्तुतिपदेष्विति । यत्र लघु- मुपायमनुपादाय गुरुपाय आश्रीयते तत्र तथाऽपि भवेदत्र तु पूर्वमेव लघुतर आश्रितः समर्थतरश्च तस्माद्यथैव प्रयुक्ते खशब्दे नाऽऽकाशादयस्तदानीमेव प्रयुज्यन्ते, तथाऽत्र विधौ सति स्तुतिर्नाऽऽश्रयितव्येति । तत्रोत्तरसाकाङ्क्षत्वा- त्स्तुतिपदान्यनर्थकानि स्युरिति । भवन्त्विति चेत् । नोक्तेन न्यायेनार्थवत्त्वाद- विवक्षितार्थता युक्तेति । द्वयसंभवे हि प्रत्यक्षादेकवाक्यत्वादर्थवादानुग्रहो युक्त इति । ननु सत्स्वपीत्यनेन गतार्थत्वान्ननु निरपेक्षादित्यवक्‍तव्यम् । तदुच्यते तत्रार्थवादपरित्यागायोक्तमिदानीं तु भवतु नाम स्तुतिसंबन्धः समस्तस्य पूर्व- स्यापि तु स्वरूपावगतो विधिसंबन्धो न बाधितव्यः । अथास्य क्वचिदपि शक्ति- रपह्रियते, ततः प्रतिप्रसवहेत्वभावात्सर्वत्राशक्तत्वप्रसङ्ग इति । तदभिधीयते । भवतु पूर्वस्य विधिशक्तिर्न त्वियं क्वचिद्वाधितेत्यन्यत्रापि बाध्यते, कदाचिदा- विर्भूतेति सर्वत्राऽऽविर्भवति । यत्र त्वर्थान्तरस्तुत्यादि नोपादीयते, तत्रोऽऽविर्भूता शक्तिः कार्यमारभते । यत्र त्वपवादभूतशक्त्यन्तराभिव्यक्तिः, तत्र वाक्यभेद- प्रसङ्गात्पूर्वा तिरोधीयते । प्रश्नोत्तरत्वेनायं पूर्वोक्त एव वाक्यभेदः परामृश्यते । तस्मादेकार्थ्यात्प्ररोचनयैवात्र विधिरिति । प्ररोच्यमाना अनुष्ठातॄणामिति । “रुच्यर्थानां प्रीयमाणः” इति संप्रदानत्वं कस्मान्न भवति । प्ररोचयतेः प्रकृत्य- न्तरत्वादिति चेत् ? न, तत्रापि रुचिसंबन्धानपह्लवात् । अथ सामान्यविवक्षया षष्ठ्युच्यते । साऽप्युपात्ते विशेषे दुर्लभा । तस्मादनुष्ठातॄणां क्रियाया इति संबन्धः केभ्यः प्ररोच्यमाना इत्यपेक्षितेऽर्थात्तेभ्य एवेति गम्यते । अथ चानुष्ठातॄणामुप- करिष्यन्तीति संबन्धः । क्रियाया इति पञ्चमी क्रियातोऽपि हि त एव प्ररोचका इति । अथ वा क्रियार्थमिति षष्ठ्यर्थः कल्प्यः । कञ्चिदर्थं स्तुवन्तीति शत्रन्तम् । कञ्चिदिति विधेयं तत्संबन्धिनं वा कञ्चिद्वा विदधति क्रियां तत्संबन्धिनं वा तच्च स्तुतिद्वारेणेत्युपपन्नं प्रत्ययोद्धारेणार्थवादप्रामाण्यम् । विध्युत्खाति-पक्षनिरासः ।

७ ] प्रथमाध्याये द्वितीयपादः ५३ इदं तु व्याख्यानं नानुमन्यन्ते । यदि हि प्रत्ययोत्खातिः स्यात्, ततः केन स्तुतिराकाङ्क्ष्येत । न तावच्छब्दभावनाकथंभावोऽस्ति । याऽपि कस्मादित्यपेक्षा कल्प्येत, साऽपि विधीतिकर्तव्यताविषयैव, तदनुग्रहार्थत्वात् । शब्दान्तरव्यप- देशमात्रं तु भिद्यते । साऽपि च नियुज्यमानस्यैव पुरुषस्य भवति, न क्रिया- मात्रश्रवणात् । न हि वायव्यश्वेतालम्भ इत्युक्ते कर्तव्यताऽकर्तव्यतोक्तः प्राक् प्रशस्तोऽप्रशस्त इति वाऽपेक्ष्यते । तदनपेक्षितं च श्रुतिमात्रेणैव वदन्तो नार्थ- वादाः प्रतिपादयन्ति न च धात्वर्थेन सह कस्यचित् संबन्धः, अपेक्षा वा विद्यते । सर्वस्य भावनागामित्वात् । भावना तु प्रत्ययोद्धारेणापनीता किमपेक्षेत । तस्मात्तद्गतांशत्रयोच्छेदान्न भूतिः फलम्, न यागः करणम्, न वेतिकर्तव्यता काचित्स्यात् । उक्तेऽपि च प्राश- स्त्ये कस्मादित्यनपेक्षितत्वात्प्रशस्तोऽयमित्येतावन्मात्रेऽवधृते प्रशस्तत्वादित्य- नुच्यमाने कर्तव्यताबुद्धिर्नैव स्यात् । भवन्ती वा तन्निष्ठा भवेत्प्रशस्तोऽयं कर्तव्यः, पटो रक्तः कर्तव्य इतिवत् । अकल्पिते विधावानर्थक्यमेव स्यात् । प्रत्यक्षं च विधिमुत्सृज्य पारम्पर्यलक्षणयाऽर्थवादेभ्यः परिगृह्यत इतणपूर्वा वाचोयुक्तिः । न चैतत्कल्पनावसरोऽस्त्यन्यतः सिद्धत्वात् । अनुक्तो हि सन्नर्थवादादेव विधिः कल्प्येत, यद्यन्यथा नोपपद्येत । प्रत्यक्षप्रत्ययोपपन्नत्वान्नान्यथानुपपत्तिस्तथाऽर्थ- वादोऽपि यद्युपाख्यानादिष्वेव प्ररोचनायां निष्प्रयोजनः स्यात्ततो दूरं नीयेत । यथोक्तेन तु न्यायेन प्ररोचनोपयोगान्नान्यत्र गच्छतीत्यवश्यकर्तव्या च प्ररोचना, यद्यन्यतः सिध्येत्ततोऽर्थवादान्नापेक्षेत साऽपि त्वनन्यगतिकत्वात्तमेवाऽऽश्रयति । सर्वत्र च वैदिकेऽर्थेऽर्थापत्त्या शब्दः कल्प्येत, ततोऽर्थसिद्धिः तेन प्ररोचनया विधिशब्दः कल्प्येत, नार्थः, तत्कल्पनावेलायां च यथैन्द्रवायवादिवाक्येषु सोमेन यजेतेत्यस्मिन्नुपतिष्ठमाने नान्ययजिकल्पना, तथैवाऽऽलभेतत्येनेनान्यानुमान- प्रतिबन्धः । तुल्यार्थयोश्च बाधविकल्पौ भवतः प्रत्ययार्थवादयोः पुनरत्यन्तभिन्नानु- ग्राह्यानुग्राहकार्थविषयत्वेनार्थभेदात्समुच्चयः इत्येकवाक्यता । यदि च प्रत्ययो- त्खातिः स्यात्ततः कर्तृसंख्योपग्रहविशेषावगतक्रियाफलस्वार्थपरार्थत्वाद्युच्छेद- प्रसङ्गः । स्यादेतत् । विधित्वमात्रमविवक्षयित्वा शेषविवक्षया कर्तृसंख्यादिलाभ इति । एतच्चाशक्यं यतस्तदर्थमप्युपात्तः प्रत्ययः सामर्थ्याद्विधित्वं वदत्येव । प्रतीतस्य च द्वय्येवाविवक्षा, विध्यसंस्पर्शो वा ग्रहैकत्ववत् अनुवादकत्वं वेन्द्रिय- कामहोमवत् । न तावद्विधेरविधित्वं नाम किंचित् । नाप्यनुबादस्तस्यामवस्था- यामप्राप्तेः । न ह्येवं संभवति योऽयं वायव्यश्वेतालम्भः कर्तव्यः, स प्रशस्त इति । भवति त्वेवं कर्तव्यः, प्रशस्तत्वादिति ।

५४ मीमांसादर्शनम् [ सू० यत्तूदवसानीयवदिति तत्रापि क्त्वावशेन विधिप्रतिषेधावनपेक्ष्य क्रियामात्रा- विधित्वमाश्रितमेवेत्यदृष्टान्तता । यदि च विध्यविवक्षा स्यात्ततः प्रत्यासत्ते- र्धात्वर्थ एव साध्यांशे निपतेदिति निष्फलत्वं स्यात् । तस्मात्सूत्रातिनाशेनैव विधिनेकवाक्यत्वम् । तथा च भाष्यकारः । साविधिकमेव भूतिकाम इत्येवमन्तो विध्युद्देश इत्याह । अन्यथा धात्वर्थ इत्येवावक्ष्यत् । तन्नास्य क्रियामात्रतया विध्युद्देशत्वं शक्यते वक्तुम् । तस्मात्प्रत्यय एव विध्यभिधायित्वाद्विध्युद्देशः । विध्यर्थेन त्वेकवाक्यत्वासंभवात्सूत्रातिरेकेणोद्देशग्रहणम् । भूतिकाम इत्येवमन्त इति च फलादिसंगत्युत्तरकालं स्तुत्यवसरप्रदर्शनार्थम् । नन्वेवं सति वर्तमानोपदेशेष्वनाकाङ्क्षणादर्थवादा न संबध्येरन् । एवमे- वैतत्, तथाऽपि तु प्रमाणान्तरप्राप्त्यभावात्क्वचित्प्रयोगवचनेन क्वचित्पञ्चम- लकारेण । अथवा श्रुतवर्तमानस्यान्यथानुपपत्त्या कल्पिते विधित्वेऽर्थवादसंगतिः । यत्रापि केवलार्थवाददर्शनादेव विधित्वं तत्राप्यन्यथानुपपत्तिमात्रं शरणम् । संभवन्त्यां तु गतौ, नातिगौरवं युक्तमिति । यस्त्वस्मिन्पक्षे वाक्यभेदः संबन्धद्वयाश्रयणादिति, स आलभेन प्रशस्तत्वा- दित्येकप्रसरोपपत्तेः परिहृतः । विधीयमानस्यैव हि स्तुत्याकाङ्क्षेत्यवैरूप्यादुप- पन्नं तन्त्रत्वम् । यदि चैवंविधैः संबन्धभेदैर्वाक्यं भिद्येत ततः साध्यसाधनेति- कर्तव्यतासंबंधैरपि भिद्येत । तस्मान्नायमभिसंबन्धो^१ विवक्षित इत्यादिभाष्य- मेवं नेतव्यम् । न पूर्वत्रैव साङ्गविधिपर्यवसानं विवक्षितम् । विधित्वादिवार- प्ररोचनाकल्पनायामतिगौरवनििमत्ताद्वाक्यभेदात् । किमर्था स्तुतिरिति । पूर्वे- णैव प्ररोचनाऽपि सिद्धेत्यभिमानात् । कथं रोचेतेति—विध्यनुग्रहकथनम् । ननु प्रागिति—पूर्वाभिप्रायविवरणम् । न हीति । स्तुत्यभावे तस्य शक्तिद्वयमग- त्याऽऽश्रीयते न संभवन्त्यामपीत्येतत्, न, तदा भूतिकामस्य विधिः समाप्यत इत्याह—यथा घट इति । गतार्थम् । विधिशब्देन तदा प्ररोचनेति । विवृतं कार्यनानात्वं विधिस्तुत्योः । १. नायमभिसंबन्धो विवक्षित इत्यादि, भिद्येतेत्यन्तभाष्यस्यायमर्थः—भूतिकाम आलभते कस्माद्यतो वायुः क्षेपिष्ठेत्यनेन यः सार्थवादकस्य विध्युद्देशस्य विधिस्तुतिसंबन्धरूपो विशिष्टोऽर्थो दर्शितः, नायं विध्युद्देशमात्रेण विवक्षितः किं तु सार्थवादकेनेति । तर्हीत्ययं भिद्येतेत्यनेनान्वेति । आलभेतेति मध्यप्रतीकेन विध्युद्देशोपलक्षणम् । यतस्ततो भूतिरित्यर्थवादस्योपलक्षणम् । तथा च विशेष्यविशेषणरूपभिन्नाविमा- वर्थौ विध्युद्देशार्थवादाभ्यां प्रतिपाद्यमानौ यद्येकेन विध्युद्देशेन प्रतिपिपादयिषितौ तर्हि गौरवलक्षणो वाक्यभेद इति ।

७ ] प्रथमाध्याये द्वितीयपादः ५५ नन्वेवमिति । अस्ति चेत्प्ररोचयितुमपि शक्तिः, कस्मादन्यदपेक्ष्यत इति । सत्यमिति । तस्माद्विद्यमाने तस्मिन्नाविद्यमाने योऽर्थः स गम्यते । कश्चासौ । स्तुतिः प्रयोजनं तयोः । न तस्यैव पूर्वस्यापोत्यर्थः । स्तुतिविषयोपकल्पनाच्च विधेरपि स्तुतिप्रयोजनव्यपदेशः । न हि निर्विषया स्तुतिरुपपद्यते । अर्थवादा- भावे त्वगत्या केवलोऽपि गौरवमङ्गीकरिष्यति । ननु सत्स्वपीति । पूर्ववदेव व्याख्येयम् । अतोऽस्माद्विधेरिति१ । इदानीं षष्ठी- वाक्यशेषसंबन्धादित एवास्य स्तुतिमवगच्छामो न स्वत इत्यर्थः । ननु निर- पेक्षादपीति । यदि क्वचिदनितिकर्तव्यताकस्य विधेः प्रवर्तनशक्तिः कस्मादन्यद- पेक्षते, तेन सत्स्वप्यनादरः स्यात् । आचार्यस्तु सोपहासमाह-यत्रासौ केवलः प्रयुज्यमानो निरपेक्षः । तत्र भवतु न कश्चिद्विरोधः । इह त न तत्संभवः साका- ङ्क्षैः पदान्तरैराक्षिप्तत्वात् । वाक्यं ह्येकमेकस्यैव संबन्धस्य विधायकम् । तन्न यदि द्वौ विध्युद्देश एव कुर्यात्तथा सति भिद्येत । विध्युद्देशोत्थापितानामेवैष हि गुणो भवतीति प्ररोचनां दर्शयति । तस्माद्विधिनैकवाक्यत्वात्तदनुग्रहेणार्थवन्तोऽ- र्थवादा इति ॥ ७ ॥ न्या० सु० ] पूर्वपक्षसिद्धान्तयोर्भिन्नविषयत्वापत्तेरपूर्वोदाहरणानुपपत्तिमाशङ्कते-पूर्व- पक्षेति । नातिप्रयत्निनं परिहारमाह-केचिदिति । भाष्यकारस्यानिपुणत्वापत्तेरिमं परिहारं दूषयति—यद्यपीति । स्वमतेन परिहरति—तदभिधीयत इति । अत्र भाष्यकारेण वायुर्वै- क्षेपिष्ठा देवतेति यद्यपि क्रिया नावगम्यते, क्रियासम्बद्धं वा, तथापि विध्युद्देशेनैकवाक्य- त्वात्प्रमाणमित्युक्त्वा, कथमेकवाक्यभावः ? इति पृष्टे पदानां साकाङ्क्षत्वाद्दिधेः स्तुतेश्चैक- वाक्यत्वमित्यभिधानादेकवाक्यत्वं प्रामाण्यकारणम्२, स्तुत्यर्थत्वं त्वेकवाक्यत्वकारणमुक्त- मिति प्रतिभाति । तच्चायुक्तम्, विध्येकवाक्यत्वं विना लाक्षणिकस्तुत्यर्थत्वायोगादितरे- तराश्रयापत्तेरित्याशङ्क्य व्याचष्टे—तत्रेति । स्तुत्यर्थत्वोपपादनद्वारेणैकवाक्यत्वस्यो- पयोगरूपप्रामाण्यकारणत्वमभिप्रेतम्, न साक्षात् । विधिस्तुतिपदसाकाङ्क्षत्वं तु समभि- व्याहारावगतैकवाक्यत्वनिर्वाहायोक्तमित्यदोषः । तदेतद्भाष्यमाक्षिपति—एतावत्स्विति । सामान्यतः पुरुषार्थानुबन्धित्वासिद्धौ तदधीनलाक्षणिकस्तुत्यादिद्वारविशेषनिरूपणाशक्ते- स्तदेवादौ साध्यमिति प्रथमशब्देनोक्तम् । स्वारसिकैकवाक्यत्वावगमे३ श्रौतार्थत्यागस्य १. यतो वाक्यशेषोऽतो विधेः—विधिसंबन्धिनोऽस्माद्वाक्यशेषाद्विधेयस्य स्तुतिमव- गच्छाम इत्यर्थः । नत्वनेन भाष्येण विधिरेव स्तुतिप्रतिपादक इत्युपसंह्रियेत । पूर्व- ग्रन्थविरोधापत्तेरिति । २. धर्मप्रमाजनकस्वरूपप्रामाण्यकारणं तदाश्रितम्, ततो धर्मप्रमानुत्पत्तेः । ३. ननु समभिव्याहारलक्षणैकवाक्यताप्रकृते स्वारसिकी सम्भवतीति चेत् ? विभज्य- मानसाकाङ्क्षत्वे सत्येकार्थप्रतिपादकत्वं स्वारसिकमेकवाक्यत्वं विवक्षितम् । प्रकृते त्वर्थवादानां निराकाङ्क्षत्वेन तदभावात् ।

५६ मीमांसादर्शनम् [ सू० गङ्गायां घोष इत्यादी दर्शनात्तेद्व्युदासार्थं बलादित्युक्तम् । स्वरसतो प्रतीयमानाप्येक- वाक्यता पुरुषार्थानुबन्धित्वलाभाय स्तुत्यर्थत्वावधारणात्तद्वशेन कल्प्यमाना नेतरेतरा- श्रयापादिकेत्याशङ्कां निराकर्त्तुं पुरुषार्थत्वं वेत्युक्तम् । पुरुषार्थानुबन्धित्वस्याप्यप्रमाण- कत्वादिति भावः । बहुक्षीरादिवाक्येषु रूपभङ्गेनापि पुरुषार्थपर्य्यवसायित्वदर्शनाद्वेदेऽपि तथानुमानं १ स्यादित्याशङ्कते—लौकिकवाक्येष्विति । आक्षेप्ता पुरुषार्थपर्य्यवसायित्वे साध्ये वाक्यत्वस्य हेतोरप्रयोजकत्वं दूषणमाह—तत्रेति । एतदेवोपपादयति—लोके ऽपीति । समाधानान्तर- माशङ्कते—तत्रेति । कथं तेन सूत्रेण पुरुषार्थपर्य्यवसायित्वसिद्धिरत आह—न हीति । आदरण्यान्यथानुपपत्तिः पुरुषार्थपर्यवसायित्वे प्रमाणम्, तेन सूत्रेण वक्ष्यत इति भावः । न च व्यामोहादादरोपपत्तिरित्याह—यद्यपीति एतदेवोपसंहरति-तस्मादिति । एतदप्याक्षेप्ता दूषयति—न त्वेतदिति । नन्वाप्तवाक्यवत्पुरुषाधोनप्रामाण्याङ्गीकरणमपि न दोषाय स्यादत आह—यदि हीति । अयमाशयः—किमत्र स्वादरान्यथानुपपत्त्या प्रयोजनवत्त्वकल्पनं स्यात्, पुरुषान्तरादरान्यथा- नुपपत्त्या वा । तत्राद्ये पक्षे स्वाद्रात्प्रयोजनवत्त्वावगमः प्रयोजनवत्त्वावगमाच्च स्वादर इत्यन्योन्याश्रयः स्यादित्यनेनोक्तम् । द्वितीये तु मूलप्रमाणाभावेनान्धपरम्परेत्याह— अथेति । तदेव दर्शयति—सर्वत्र हीति । नन्वादरान्यथानुपपत्त्याध्येतृषु प्रयोजनवत्त्वज्ञाने कल्पिते तत्कारणीभूतं किं चिन्मूलप्रमाणं कल्पयिष्यामोऽत आह—तेनेति । कस्यचिन्मूल- प्रमाणस्यासम्भवाद् भ्रान्तिमूलत्वं प्रसज्येतेति भावः । कथमसम्भवोऽत आह—अतो यावदिति । एवमाक्षिप्याध्ययनविधिरैव सर्वस्य पुरुषार्थ- पर्यवसायित्वे प्रमाणमिति स्वमतेन समाधातुमुपक्रमते—तदुच्यत इति । विध्यादिसाधारण्य- प्रदर्शनार्थं सकलग्रहणं । पूर्वं तावत्सर्वोपयोगः प्रतिपाद्यते । पश्चादर्थवादानां द्वारविशेष इति तावच्छब्देनोक्तम् । निष्प्रयोजनाक्षरमात्राध्ययनेऽपि बुद्धिपूर्वकारिणां पुंसां प्रवर्त्त- यितुमशक्यत्वान्नै कस्याप्यक्षरस्य निष्प्रयोजनत्वमध्ययनविधिरनुमन्यते । न चैकदेशे दृष्टार्थ- स्याद्दृष्टार्थत्वमेकदेशान्तरे युक्तम् । एकत्र नियमविधिः, परत्राप्राप्तविधिरिति वैरूप्यस्या- परिहार्थत्वात् तस्मात्सकलस्यैव वेदस्य प्रयोजनवदर्थपर्यवसायित्वमध्ययनविधिबलाद- वसीयत इति भावः । ननु क्वचिदध्ययनविधेः पुरुषार्थपर्यवसायित्वे सिद्धे सत्यवैरूप्याय सर्वत्र तथाङ्गी- करणं युक्तम्, तदेव तु निष्प्रमाणकं समानपदोपात्तस्याध्ययनस्यैवभव्यत्वोपपत्तेरित्याशङ्क्य प्रथमसूत्रोक्तं दृष्टार्थत्वे दर्शयितुमाह—तत्रेति । कस्मिन्नंशे तर्हि तस्य निवेशः, अत आह— ततश्चेति । साध्यांशानिवेशकारणस्य विधिविरोधस्यात्राभावमविरोधादित्यनेन दर्शयति । नामांथंस्य करणांशे निराकर्त्तुं सन्निधेरित्युक्तम् । तेनात्र भाव्याकाङ्क्षायां श्रुतभाव्या- १. अर्थवादवाक्यं पुरुषार्थपर्यवासायि वाक्यत्वात् बहुक्षीरादिवाक्यवत् ।