मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
यहाँ पृष्ठ का पूर्ण देवनागरी पाठ प्रस्तुत है:
खं. ३ अ. ३३ | पान ७३ ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । व्रतं लब्ध्वा पुस्तकं संलिख्य संगृह्य मायया । धनकः कृतवीर्यस्य स्वप्ने सद्यो जगाम ह ॥१॥ धनकं पितरं दृष्ट्वा कृतवीर्यो ननाम तम् । पुत्रं राजा समादायोत्संगे स्वस्य जगाद तम् ॥२॥ धनक उवाच । पुत्र नानाविधा यत्ना विशेषेण कृतास्त्वया । पुत्रार्थमधुनैकं त्वं व्रतं कुरु ममाज्ञया ॥३॥ तेन पुण्येन पुत्रस्ते भविता नात्र संशयः । ब्रह्मणा कथितं मे यत् पुस्तकं तद् गृहाण ह ॥४॥ इत्युक्त्वा पुत्रहस्ते तद्दत्वा पुस्तकमादरात् । अंतर्धानं ययौ राजा जजागार नृपात्मजः ॥५॥ पुस्तकं हस्तगं दृष्ट्वा विस्मितोऽभूत् प्रहर्षितः । पितरं दुःखितो भूत्वा सस्मार स रुरोद वै ॥६॥ सपत्नीकस्ततो राजा कृतवीर्यो जगाम ह । स्वपुरं मानितस्तत्र प्रधानादिभिरादरात् ॥७॥ ततः स ब्राह्मणान् राजा समाकार्य ननाम तान् । पुस्तकं दर्शयामास तस्यार्थं ब्राह्मणा जगुः ॥८॥ अहो राजन् महाभाग पुस्तके व्रतमुत्तमम् । लिखितं सर्वसंकटहारकं सर्वदं परम् ॥९॥ कृष्णपक्षे चतुर्थ्यां वै चंद्रोदयसमागमे । पूजनीयो विशेषेण गणेशः सिद्धिदायकः ॥१०॥ पूजयित्वा गणाधीशं ततोऽर्घ्यं तिथये नृप । गणेशाय च चंद्राय दातव्यं व्रतकारिणा ॥११॥ सूर्योदयात् समारभ्य गणेशस्मरणं नृप । कर्तव्यं वर्जयेत्तत्र जलपानादिकं तथा ॥१२॥ चंद्रायऽर्घ्यं तथा दत्वा सप्तवारं नृपोत्तम । ब्राह्मणांस्तत आपूज्य सपत्नीकान्नमेत् स तान् ॥१३॥ भोजयेत् परमान्नेन मोदकादिभिरादरात् । पायसेनाऽपि सितया युतेन मधुरेण च ॥१४॥ ततः स्वयं सुहृद्भिश्च भोजनं वै समाचरेत् । दानं दद्यात् स विप्रेभ्यो योषिद्भ्यः कंचुकादिकम् ॥१५॥ ततो जागरणं कार्यं गणेशस्त्वनेन च । प्रभाते विमले स्नात्वा पूर्ववत् पूजयेद्विभुम् ॥१६॥ गणेशं च ततो विप्रान् भोजयेत् पूर्ववन्नृप । दक्षिणां विपुलां तेभ्यो दापयेत्तान्नमेत्ततः ॥१७॥ मासे मासे प्रकुर्यास्त्वं व्रतं गणेश्वरं त्विदम् । सर्वसंकटहीनः सन्मंते स्वानंदगो भवेः ॥१८॥ अपारमहिमायुक्तं व्रतं प्राप्तं त्वया नृप । त्वदीयसंगयोगेन जनेभ्यः सिद्धिदं भवेत् ॥१९॥ न श्रुतं नैव दृष्टं च व्रतं केनाऽपि भूमिप । लोकानामुपकाराय भविष्यति विशेषतः ॥२०॥ चतुर्विधं जगत्सर्वं संकटकरमुच्यते । तस्माद्बंधननाशार्थं व्रतं चेदं भविष्यति ॥२१॥ इह भुक्त्वाऽखिलान् भोगान् दुर्लभान् देवभोग्यकान् । अंते मुक्तिमवाप्नोति व्रतस्यास्य प्रभावतः ॥२२॥ एवमुक्त्वा द्विजाः सर्वे गताः स्वस्वाश्रमे तदा । कृतवीर्यस्तथा राजा चकार व्रतमुत्तमम् ॥२३॥ सूत उवाच । मुद्गलस्य वचः श्रुत्वा हृष्टरोमा प्रजापतिः । जगाद तं पुर्नवाक्यं संशयच्छेदनाय सः ॥२४॥ दक्ष उवाच । कृतवीर्यात् समारभ्य व्रतं भूम्यां समागतम् । महामुने भीमनाम्नांऽत्यजेनैव कृतं कथम् ॥२५॥ चतुर्थीव्रतपुण्येन स एव
खं. ३ अ. ३४ | पान ७४ कृतवीर्यकः । बभूव वर्णितं विप्र त्वया संशयदायकम् ॥२६॥ अतः संशयनाशार्थं वद मुद्गल मे वचः । सर्वज्ञस्त्वं न संदेहः साक्षाद्योगीश्वरो महान् ॥२७॥ मुद्गल उवाच । प्रजापते शृणु ह्यत्र वचनं मे महामते । येन ते संशयो नाशं गमिष्यति न संशयः ॥२८॥ व्रतं गाणेश्वरं दक्ष चतुर्थीसंज्ञकं परम् । संकष्टहरणं प्रोक्तं तज्जानीहि पुरातनम् ॥२९॥ पृथिव्यां स्वर्गलोके तत् पाताले सर्वसंमतम् । चतुर्थी च समुत्पन्ना तदारभ्य प्रतिष्ठितम् ॥३०॥ जनास्तन्नैव जानंति पृथिव्यां कुत्रचित् प्रभो । कृतवीर्याच्च सर्वत्र प्रकाशमगमद्द्रुतम् ॥३१॥ एत्तते सर्वमाख्यातं शृणु तस्य कथानकम् । कृतवीर्यस्य भूपस्य पुण्यदं शृण्वते भवेत् ॥३२॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते कृतवीर्यव्रतप्राप्तिवर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । वर्षमात्रव्रतेनैव गतं पापं लयं महत् । द्वादशब्रह्महत्याख्यं ततो राजा बभौ विधे ॥१॥ व्रतपुण्यप्रभावेण ससत्त्वाऽभून्नृपांगना । सुषुवे शुभवेलायां पुत्रं तेजस्विनां वरम् ॥२॥ हस्तपादविहीनं तं दृष्ट्वा माता रुरोद ह । कृतवीर्यस्तथा सर्वैः प्रधानैः बोधितोऽभवत् ॥३॥ त्यक्त्वा शोकं स्वयं राजा जातकर्म चकार वै । महोत्सवायुतैः सर्वैर्नगरे संस्थितोऽभवत् ॥४॥ रात्रौ स्वप्ने ददर्शाऽसौ दत्तात्रेयं च योगिनम् । तेन यत् कथितं स्वप्ने तच्छृणुष्व प्रजापते ॥५॥ गते द्वादशवर्षे तु त्वत्पुत्रस्य नृपोत्तम । आगमिष्यामि ते गेहं सांगं पुत्रं करोम्यहम् ॥६॥ मा चिंतां कुरु राजेंद्र गणनाधप्रसादजः । पुत्रोऽयं ते सुतेजस्वी देवमान्यो भविष्यति ॥७॥ ततः सोऽन्तर्दधे योगी दत्तात्रेय- स्तथा नृपः । प्रबुद्धो हर्षयुक्तः स बभूव गणपं स्मरन् ॥८॥ ततस्तेन पृथिव्यां तु घोषः सर्वत्र कारितः । चतुर्थ्यां कृष्णपक्षस्य व्रतं कार्यं जनैः सदा ॥९॥ येन व्रतमिदं नैव कृतं चेत्तं निहन्म्यहम् । चांडालादिद्विजांतास्ते व्रतं चक्रुर्विशेषतः ॥१०॥ अष्टवर्षसमायुक्ता नरा नार्यः स्म मानद । अकुर्वन् विधिवत् सर्वे व्रतं गाणेश्वरं महत् ॥११॥ तस्य राज्ये नरः कोऽपि दुःखयुक्तो बभूव न । न वंध्यादि भयं तद्वद्रोगादिकभयं नहि ॥१२॥ ततो द्वादशवर्षेषु गतेषु स जगाम ह । दत्तो योगींद्र- सेव्यश्च तं ननाम नराधिपः ॥१३॥ पूजितो भोजितस्तेन वचो दत्तस्तमब्रवीत् । पुत्रं दर्शय ते राजन्नद्भुतं द्रष्टुमागतः ॥१४॥
खं. ३ अ. ३४ पान ७५ ततः स हर्षितो राजा ददौ पुत्रं च तत्करे । अंके संगृह्य योगींद्रो राजानं प्रत्युवाच ह ॥१५॥ राजन् व्रतं त्वया तत्रांग- हीनत्वमजानता । कृतं तु तेन ते पुत्रोऽंगहीनः प्रबभूव ह ॥१६॥ व्रतस्य जागरे राजन् जृंभितं च पुनः पुनः । त्वया नाचमनं तत्र कृतं तेनायमीदृशः ॥१७॥ व्रतस्याऽयं प्रभावेण विष्णुः साक्षान्नराकृतिः । पुत्रोऽभवत्तदंशेन विख्यातः प्रभविष्यति ॥१८॥ तत एकाक्षरं मंत्रं ददौ तस्मै महामुनिः । विधियुक्तं गणेशस्य कार्तवीर्याय धीमते ॥१९॥ अनुष्ठानं समादिश्य द्वादशाब्दमयं प्रभुः । अंतर्धानं चकाराऽसौ राजा संहर्षितोऽभवत् ॥२०॥ प्रवालक्षेत्रसान्निध्ये वने व्याघ्रादि- संयुते । राजा बभूव संस्थाप्य जनैः पुत्रं च दुःखितः ॥२१॥ ततश्च कार्तवीर्येण तपस्तप्तं सुदारुणम् । वायुमात्राशनेनैव ध्यात्वा हृदि गजाननम् ॥२२॥ मंत्रं जजाप भो दक्ष हस्तपादविवर्जितः । देहभावमतिक्रम्य संस्थितः काष्ठवद्भूमौ ॥२३॥ तपःप्रभावतस्तस्य वने निर्वैरभावतः । प्राणिनः संचरंति स्म गजसिंहादयः सदा ॥२४॥ एवं द्वादशवर्षाणि गतानि तपसो यदा । तदा तत्राऽऽययौ ढुंढिर्भक्तं परमभाविकम् ॥२५॥ तडागमध्यभागात्तं निःसृतं गणपं नृपः । दृष्ट्वा ननाम विघ्नेशं पूजयन् भक्तिसंयुतः ॥२६॥ हर्षेण महता युक्तस्तं तुष्टाव गजाननम् । सरोमांचो महावीरः कार्तवीर्यो महायशाः ॥२७॥ कार्तवीर्य उवाच । नमस्ते गणनाथाय विघ्नेशाय नमो नमः । विनायकाय देवेश सर्वेषां पतये नमः ॥२८॥ निर्गुणाय परेशाय परात्परतराय वै । अनादये च सर्वादिपूज्याय तु नमो नमः ॥२९॥ सर्वपूज्याय हेरंब दीनपालाय ते नमः । ब्रह्मणे ब्रह्मणां चैव ब्रह्मदात्रे नमो नमः ॥३०॥ निराकाराय साकाररूपाय परमात्मने । योगाय योगदात्रे ते शांतिरूपाय वै नमः ॥३१॥ सदा ज्ञानघनायैव कर्ममार्गप्रवर्तिने । आनंदाय सदानंदकंदरूपाय ते नमः ॥३२॥ रजसा सृष्टिकर्त्रे ते सत्त्वतः पालकाय च । तामसेन प्रसंहर्त्रे गुणेशाय नमो नमः ॥३३॥ नानामायाधरायैव नानामायाविवर्जित । मायिभ्यो मोहदात्रे वै मायामायिक ते नमः ॥३४॥ स्वानंदपतये तुभ्यं सिद्धिबुद्धिबराय च । सिद्धिबुद्धिप्रदात्रे च लंबोदर नमोऽस्तु ते ॥३५॥ किं स्तौमि गणनाथ त्वां यत्र वेदा विसिस्मिरे । शिवविष्ण्वादयश्चैव योगिनो योगरूपिणम् ॥३६॥ जगाद गणनाथस्तु ततस्तं भक्तमुत्तमम् । वरं वृणु महाभाग कार्तवीर्य हृदीप्सितम् ॥३७॥ त्वया कृतं मदीयं यत् स्तोत्रं सर्वप्रदं भवेत् । अंगहीनस्य सर्वस्य स्वंगदं प्रभविष्यति ॥३८॥ कृत्वा भावेन मत्पूजां नरः स्तोत्रमिदं पठेत् । तस्य सांगं सदा सर्वं करोमि स्तोत्रपाठतः ॥३९॥ इह भुक्त्वाऽखिलान् भोगान् पुत्रपौत्रादिसंयुतः । अंते स्वानंदगो भूत्वा ब्रह्मभूतो
भविष्यति ॥४०॥ ततस्तं कार्तवीर्यश्च जगाद गणनायकम् । हर्षयुक्तो महाभक्तो भक्तेशं भक्तवत्सलम् ॥४१॥ कार्तवीर्य उवाच । किं वृणोमि गणाधीश सर्वं मायामयं विभो । तव दर्शनमात्रेण मया ज्ञातं न संशयः ॥४२॥ सुहृदां तदपि स्वामिन् संतोषार्थं वृणोम्यहम् । शरीरे चारुतां देहि भक्तिं त्वच्चरणे प्रभो ॥४३॥ यद्यदिच्छामि तत्तच्च सुलभं मे गजानन । भवतु त्वत्प्रसादेन राज्यं पूर्णं प्रदेहि च ॥४४॥ अस्मिन् क्षेत्रे स्थिरो भूत्वा भक्तान् पालय विघ्नप । धर्मार्थकाममोक्षादि ब्रह्मभूयप्रदं कुरु ॥४५॥ प्रवालमयरूपेण मया दृष्टो गजाननः । प्रवालक्षेत्रमित्युक्तं नाम्ना भवतु नित्यदा ॥४६॥ सदा विजयसंयुक्तं सहस्रभुजसंयुक्तम् । मां कुरुष्व दयासिंधो विष्णुतुल्यपराक्रमम् ॥४७॥ मदीयसेवनं देव देववच्च सदा भवेत् । मंत्रादिकं च मे नाथ भवतु त्वत्प्रसादतः ॥४८॥ मदीयस्मरणेनैव गतं प्राप्तं कुरु प्रभो । न मत्सम्स्त्रिलोकेषु सेंद्रादिषु भवेत्किल ॥४९॥ ततस्तं गणनाथः स तथेति प्रत्युवाच ह । सर्वं ते भविता राजन् मत्प्रसादान्न संशयः ॥५०॥ मदीयस्मरणेनैव मंत्रादीनां प्रसेवया । निर्विघ्नं ते च राजेंद्र भविष्यति निरंतरम् ॥५१॥ एवमुक्त्वा गणेशस्तमंतर्धानं जगाम ह । ततस्तस्य प्रजानाथ देहः सांगो बभूव ह ॥५२॥ सहस्रभुजसंयुक्तो बभूव पदसंयुतः । महाबलो महावीर्य- स्तेजसा संयुतोऽभवत् ॥५३॥ तत्र देवादयो जग्मुर्दर्शनार्थं नृपस्य च । साक्षाद् विष्णुः कलांशेन कार्तवीर्यो बभौ तदा ॥५४॥ ततस्तेन द्विजैः सार्धं स्थापिता मूर्तिरादरात् । गणेश्वरस्य तां राजाऽपूजयत् भक्तिसंयुतः ॥५५॥ पूजार्थं ब्राह्मणांस्तत्र स्थापयामास भूमिपः । ततो देवान् द्विजांस्तत्राऽपूजयत् स यथाविधि ॥५६॥ ननाम भक्तियुक्तस्तांस्तेऽपि तस्मै वरान् ददुः । हर्षिताश्च पुनः स्वर्गं जग्मुर्देवाः सवासवाः ॥५७॥ कार्तवीर्यो रथस्थः स ययौ स्वनगरं ततः । दूतैर्ज्ञात्वा च वृत्तांतं तं ययुः सर्वनागराः ॥५८॥ प्रधानांश्च प्रणम्यैनं सुहृद्भिरभिनंदितम् । अलंकृते पुरे सर्वे वेशयामासुरादरात् ॥५९॥ ननाम मातरं सोऽपि पितरं हर्षसंयुतः । ताभ्यामाशीर्भिरत्यंतं मुदितश्च कृतो बभौ ॥६०॥ ततः कियति काले संस्थाप्य पुत्रं यशस्विनम् । स्वराज्ये कृतवीर्यश्च सस्त्रीकः प्रययौ वनम् ॥६१॥ राजा गणपतिं तत्राऽभजत् सोऽनन्यचेतसा । स्वल्पकालेन सस्त्रीकः सोऽपि तं गणपं ययौ ॥६२॥ तस्य राज्ये जनाः सर्वे संकष्टीव्रतकारकाः । क्रमेण गणनाथं ते ययुर्दक्ष प्रजापते ॥६३॥ इदं च कृतवीर्यस्य चरितं यः शृणोति चेत् । पठेद्वा तस्य संकटं भवेन्न च चतुर्विधम् ॥६४॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते कृतवीर्यचरितं नाम चतुर्विंशोऽध्यायः ॥
खं. ३ अ. ३५ पान ७७ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । चकार कार्तवीर्योऽयं स ततो राज्यमुत्तमम् । धर्मेण राजन्यनीत्या स्वां पालयामास हि प्रजाम् ॥१॥ ततस्तेन च भूपेन जिताः सर्वे महीभृतः । सप्तद्वीपवतीं पृथ्वीं बुभुजे बलसंयुतः ॥२॥ देवैः संस्थापितं नाम सहस्रार्जुन आदरात् । न समस्तेन कश्चिद्वै बभूव क्षात्रमंडले ॥३॥ स्वर्गे देवादयश्चैव त्रासयुक्ता बभूविरे । यदा क्रुद्धः स्वयं राजा तदा स्वर्गं ग्रहीष्यति ॥४॥ न संख्या वर्तते तस्य सैन्यानां च प्रजापते । यशसा तेजसा पूर्णं पूरितं तेन वै जगत् ॥५॥ सस्त्रीको नर्मदांमध्ये चिक्रीड नृप एकदा । सहस्रबाहुभिर्धृत्वा जलौघं तत्र लीलया ॥६॥ यत्र वै नर्मदातीरे रावणः स महानुगः । पुपूज शांकरं लिंगं जलौघस्तत्र चागतः ॥७॥ पूजाविधिं स शीघ्रं समाप्य वै राक्षसाधिपः । पप्रच्छ केन दूतेशा जलौघः संप्रवर्तितः ॥८॥ गत्वा पश्यत मामत्र क्षोभयुक्तं स चाऽकरोत् । तं हनिष्यामि संक्रुद्धो नित्यभंगेन दुःखितः ॥९॥ ततस्ते त्वरया जग्मुर्दृष्ट्वा तं कार्तवीर्यकम् । समाचख्युर्महादैत्यं रावणं विस्मिता विभो ॥१०॥ श्रुत्वा वृत्तांतमेवं स रावणस्तं ययौ नृपम् । प्रधानैः षड्भिरत्यंतं क्रोधयुक्तः प्रतापवान् ॥११॥ सहसा रावणं दृष्ट्वा गदां धृत्वा महाबलः । आर्द्रवस्त्रेण संयुक्तो युयुधेऽर्जुन एककः ॥१२॥ गदायुद्धं महाघोरं तयोस्तत्र बभूव ह । ततः स गदया राजाऽपीडयद्रावणं परम् ॥१३॥ कवचादिकमेतस्य राक्षसस्य नराधिपः । भेदयामास वै दक्ष रावणस्तत आपतत् ॥१४॥ संगृह्य स्वगृहं भूपो ययौ तत्र बबंध तम् । निकटे स्थापयामास सभायां खेलकारकम् ॥१५॥ दशमस्तकयुक्तं तं दृष्ट्वा चिक्रीड भूमिपः । ततस्तं मुनिवर्यश्च पुलस्त्यः सहसाऽऽययौ ॥१६॥ तं प्रणम्य महाभागं गाणपत्यं विशेषतः । पुपूज भक्तिसंयुक्तो भोजयामास यत्नतः ॥१७॥ पुनः प्रणम्य तं विप्रं कृतांजलिपुटः पुरः । संस्थितस्तमुवाचाऽथ मुनिः सर्वार्थकोविदः ॥१८॥ रावणं मुंच राजेंद्र मत्पौत्रं वरसंयुतम् । मित्रभावेन तिष्ठ त्वं रावणस्य महामते ॥१९॥ तथेति तं जगादासावमुंचद्रावणं नृपः । पुलस्त्यः प्रययौ स्थानमाशिष्या चाभिनंद्य तम् ॥२०॥ इत्यादितेजसा युक्तः साक्षाद्विष्णुमयो नृपः । नैव शक्यो वर्णयितुं धर्मशीलो बभूव ह ॥२१॥ दिग्जये येन राज्ञा वै समुद्रः पादघाततः । ताडितः स विशीर्णोऽभूद्भयभीतः प्रजापते ॥२२॥ यज्ञान् स विपुलांश्चक्रे भूरिदक्षिणसंयुतान् । स्वाहां स्वधा वषट्कारैर्मुमुदुर्देवतादयः ॥२३॥ येन द्विजेन यत्तत्र प्रार्थितं तद्ददौ नृपः । स्वस्वधर्मरतान् लोकान् कारयामास यत्नतः ॥२४॥ सदा गणेशभक्तिं स चकार नृपसत्तमः । गाणपत्यप्रियश्चासीत्तीर्थदेवानिथिप्रियः ॥२५॥ आगतः स मयूरेशं यात्रां तत्र चकार ह ।
वर्षमात्रोषितो राजा यात्रार्थं लोलुपः स्वयम् ॥२६॥ गणेशं स्थापयामास ब्राह्मणैर्मंत्रकोविदैः । प्रवालगणनाथेति नाम कृत्वा पुपूज ह ॥२७॥ एवं नानाविधैर्भावैर्गणेशमभजत् सदा । त्रिलोककीर्तिसंगीतो बभूव कृतवीर्यजः ॥२८॥ चतुर्थीव्रतजेनैव तेजसा संयुतो बभौ । अंगहीनकभावेन मोहयुक्तो बभूव ह ॥२९॥ देवादीनामभून् मान्यः श्रिया परमया युतः । भोगयुक्तः स्वभावेन विसस्मार गजाननम् ॥३०॥ त्यक्त्वा मंत्रं गणेशस्य ब्रह्मज्ञानमदेन सः । अहं गणेशरूपः सन् कं भजाम्यवदत् खलः ॥३१॥ ततो बभूवातिविघ्नसंयुक्तः सोऽर्जुनः प्रभो । तच्छृणुष्व महाभाग कथयामि प्रचेष्टितम् ॥३२॥ सैन्येन संयुतो राजा मृगयार्थं वनं ययौ । नीलवेषधरो भूत्वा सैनिकास्तादृशा बभुः ॥३३॥ जघान विविधांस्तत्र मृगांस्तान् नगरे स्वके । प्रेषयामास दूतैः स विश्रमन् यत्र तत्र वै ॥३४॥ ततोऽकस्मान् महाराजो ददर्शाश्रममुत्तमम् । मुनेः पप्रच्छ राजाऽसौ सचिवान् कस्य चाश्रमः ॥३५॥ त ऊचुर्जमदग्नेर्वै मुनेराश्रम आगतः । ततः सोऽपि मुनिं दक्षं ययौ हर्षसमन्वितः ॥३६॥ प्रणम्य सचिवैर्मुख्यैः संवृतः स कृतांजलिः । उवाच मुनिशार्दूलं जमदग्निं महायशाः ॥३७॥ धन्यं मेऽद्य महायोगिन् जन्म ज्ञानादिकं तथा । कुलं च पितरो सर्वं त्वदंघ्रियुगदर्शनात् ॥३८॥ ततस्तं मुनिमुख्योऽसावासनादिकमादरात् । दत्त्वा शिष्यैश्च संपूज्य पप्रच्छ कुशलादिकम् ॥३९॥ प्रयोजनं तथा विप्रः संपृच्छन् राजसत्तमम् । मानयामास तं भूपं विष्णोरंशसमुद्भवम् ॥४०॥ ततो राजा मुनिं दक्षं जगाद प्रीतिसंयुतः । तवाशीर्वचनेनैव कुशलं मे प्रवर्तते ॥४१॥ मृगयाऽसक्तचित्तोऽहमागतो मुनिसत्तम । पूर्वपुण्यबलेनैव प्राप्तं ते दर्शनं महत् ॥४२॥ सर्वैः सह महाभाग पवित्रोऽहं न संशयः । दर्शनेनैव संतुष्ट आज्ञां देह्यधुना प्रभो ॥४३॥ गमिष्यामि ससैन्योऽहं नगरे स्वे महामते । न ते समश्च योगेन तपसा भासते मम ॥४४॥ जगाद मुनिमुख्योऽसौ ततस्तं हर्षसंयुतः । विष्णोरंशः स्वयं त्वं मेऽधुना संप्राप्त आश्रमे ॥४५॥ अनायासेन भो राजन्नतस्त्वां प्रार्थये विभो । भुंक्ष्व किंचिन्मया दत्तमपराह्ने समागतः ॥४६॥ ततो राजा जगादेदं वचनं तं प्रणम्य च । स्वामिन् वनेषु मे सैन्यं क्षुधितं भ्रमणे रतम् ॥४७॥ संत्यज्य कथमेकोऽहं भुनज्मि मुनिसत्तम । सर्वेषां भोजने शक्तिर्वर्तते नैव ते मुने ॥४८॥ वदामि तेन योगींद्र आज्ञां देहि च मे प्रभो । गमिष्यामि त्वरायुक्तो नगरे सैन्यसंयुतः ॥४९॥ ततस्तं राजशार्दूलमुवाच मुनिसत्तमः । न चिंतां कुरु राजेंद्र ससैन्यं भोजयाम्यऽहम् ॥५०॥
[Header] ख. ३ अ. ३६ | पान ७९
तपसा मे महाराज वश्यं ब्रह्मांडमंडलम् । अतस्त्वं गच्छ नद्यां वै स्नानार्थ सवसंयुतः ॥५१॥ तथेति तं प्रणम्याऽसावगमत् सैन्यसंयुतः । स्नानार्थं विस्मितो भूत्वा सहस्रार्जुन आदरात् ॥५२॥ ॥ ओमिति श्रीमदान्ते पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते सहस्रार्जुननिमंत्रणं नाम पंचत्रिंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । गते राजनि भो दक्ष जमदग्निर्महामुनिः । रेणुकां च समाहूय वृत्तांतमवदत् स्वयम् ॥१॥ ततस्ताभ्यां स्मृता देवी कामधेनुः प्रजापते । समागतां प्रसंOutputting exact characters: पूज्य प्रार्थयंतावुभौ समम् ॥२॥ कार्तवीर्यः ससैन्यश्च भोजनाय निमंत्रितः । तदर्थं कुरु कल्याणि यत्नं प्रत्वरिता सखि ॥३॥ तयोर्वचनमाकर्ण्य कामधेन्वा महापुरम् । रचितं स्वप्रभावेण परिखावलयांकितम् ॥४॥ चतुर्विधान्नसंयुक्तं निर्ममे पाककालिकाम् । क्षणेन तां समालोक्य हर्षितश्चाऽभवन् मुनिः ॥५॥ शिष्यै राजानमाहूय ससैन्यं तं प्रजापते । भोजयामास विप्रोऽसावन्नैर्नानाविधैः परैः ॥६॥ अमृतकल्परूपं ते बुभुजुर्हर्ष- संयुताः । तृप्तास्ते फलकंदादीन् भक्षयामासुरादृताः ॥७॥ तांबूलानि ततः सर्वे बभक्षुः प्रेमसंयुताः । ततो वस्त्रादिभिस्ते च सत्कृता मुनिना बभुः ॥८॥ राजाऽथ विस्मितो भूत्वा प्रणनाम महामुनिम् । आज्ञां गृहीत्वा सैन्येन ययौ स्वनगरं प्रति ॥९॥ गच्छंतं तं प्रधानं च ऊचे विनयसंयुतः । धेनुं प्रार्थय राजंस्त्वं ब्राह्मणस्तां प्रदास्यति ॥१०॥ इयं धेनुर्महाराज रत्नभूता न संशयः । तां विना राज्यमुग्रं ते निष्फलं भासतेऽधुना ॥११॥ तस्य तद्वचनं श्रुत्वा राजा मोहेन संयुतः । विघ्नेन पीडितोऽत्यंतमुवाच सचिवं वचः ॥१२॥ गच्छ त्वं प्रार्थ्य विप्रं तं धेनुमानय यत्नतः । तथेति सैन्यमादाय मुनिं दुष्टः समाययौ ॥१३॥ प्रधानं मुनिमुख्यं तं प्रणम्याभिदधे वचः । मुने धेनुमिमां देहि राज्ञे ह्यतिथिरूपिणे ॥१४॥ ततस्तं कोपसंयुक्त उवाच मुनिसत्तमः । न दास्यामि महामूर्ख धेनुं देवस्वरूपिणीम् ॥१५॥ ततः सोऽपि महावीर्यैर्धृत्वा धेनुं बलात् खलः । निर्जगाम मुनेस्तस्याऽऽश्रमात् कोपसमन्वितः॥१६॥ ततो धेनुः समाक्रुद्धा ससृजे बलमुत्कटम् । तेन सैन्यं हतं तस्य प्रधानसहितं प्रभो ॥१७॥ ज्ञात्वा वृत्तांतमुग्रं तं क्षुभितः कृतवीर्यजः । युद्धार्थं गर्वसंयुक्तो ययौ तस्याश्रमं विधे ॥१८॥
ततस्तस्य महत् सैन्यं हतं धेन्वा बलेन वै । राजा खेदसमायुक्तो पपाल गतमत्सरः ॥१९॥ कामधेनुर्गता स्वर्गं पुना राजा समाययौ । हृदि विव्याध बाणेन मुनिः सोऽपि ममार ह ॥२०॥ ततस्तं भर्त्सयामास रेणुका भूमिपाधमम् । एकविंशति- बाणैस्तां नृपो विव्याध सर्वतः ॥२१॥ ततः सा क्षुभिताऽत्यंतं तमुवाच नृपाधमम् । स्वल्पकालेन राजंस्त्वं मरिष्यसि न संशयः ॥२२॥ सहस्रबाहुच्छेदस्ते भविष्यति सुदुर्मते । ततः सोऽपि भयोद्विग्नो जगाम नगरे स्वके ॥२३॥ गते भूपे मुनेः पत्नी रुरोद करुणस्वरा । सस्मार तनयं रामं बदर्याश्रमगं प्रभुम् ॥२४॥ स्मृतिमात्रेण रामः स ययौ मातुस्तदांतिकम् । दृष्ट्वा मृतं महाविप्रं पितरं प्ररुरोद ह ॥२५॥ मातरं बाणनिचयैश्चितां वीक्ष्य विशेषतः । प्रभुर्निष्कासयामास शरान् मातुः शरीरगान् ॥२६॥ ततस्तं रेणुकादेवी सांत्वयामास युक्तितः । मा शोकं कुरु पुत्र त्वं स्थास्यामि निकटे प्रभो ॥२७॥ दत्तात्रेयं समानीय कुरु कर्म यथाविधि । आवयोः प्रभविष्यावो देहयुक्तौ पुनः प्रभो ॥२८॥ नान्यो वक्ता न संदेहः स्तस्माद्यत्नपरो भव । जहि दुष्टं च भूपं त्वं हस्तानां छेदनं कुरु ॥२९॥ ततस्ते जनकं तत्र तस्य देहोद्भवेन च । रक्तेन तर्पयस्व त्वं तृप्तः सोऽपि भविष्यति ॥३०॥ ममांगे एकविंशच्च बाणास्तेन समर्पिताः । एकविंशतिवारं त्वं कुरु निःक्षत्रियां धराम् ॥३१॥ एवमुक्त्वा गता देवी स्वर्गे देहं विसृज्य सा । रामस्तथा चकाराऽसौ दत्तेन सहितस्ततः ॥३२॥ पंचमे दिवसे रामः कर्म कृत्वा समास्थितः । दत्तात्रेयश्च स्वस्थाने ययौ भिक्षार्थमादरात् ॥३३॥ षष्ठे दिने समायातः व्याघ्रस्तत्र महाबलः । तं दृष्ट्वा भयसंयुक्तो रामः सस्मार मातरम् ॥३४॥ स्मृतिमात्रेण साऽऽयाता शिरोमात्रा प्रजापते । तां दृष्ट्वा विस्मितो रामस्तमुवाच हि रेणुका ॥३५॥ किमर्थं पुत्रकाऽऽहूता तव स्नेहात् समागता । ततोऽंतर्धानमकरोद्व्याघ्रः परम- दुर्जयः ॥३६॥ एतस्मिन्नंतरे तत्र दत्तात्रेयः समाययौ । दृष्ट्वा तां राममामंत्र्योवाच योगविदां वरः ॥३७॥ समागता त्वया तात किमर्थं रेणुका स्मृता । न्यूनदेहा विशेषेण कुरु कर्म यथातथम् ॥३८॥ वृत्तांतं कथयामास रामस्तं मुनिसत्तमम् । चकार कर्म सांगं तद्दत्तेन सहितः प्रभुः ॥३९॥ सर्पिंडीकरणं रामश्चकार द्वादशेऽहनि । पाथेयश्राद्धमेवं स त्रयोदशदिने तथा ॥४०॥ ततः स जमदग्निस्तं दिव्यदेहः समागतः । राममालिंग्य संहृष्टो बभूव मुनिसत्तमः ॥४१॥ जमदग्निं ततो दत्तो रेणुकां हर्षसंयुक्तः । उवाच भावगंभीरो बोधयन् बोधदायकः ॥४२॥ गणेशं मंत्रराजेन भजतं भावपूर्वकम् । तेन विघ्नविहीनौ च शांतिरूपौ भविष्यथः ॥४३॥ क्षत्रहस्तेन मरणं युवाभ्यां प्राप्तमेव च । विघ्नराजमविज्ञाय जातौ
यहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्ति-दर-पंक्ति पाठ दिया गया है:
खं. ३ अ. ३७ पान ८१ दुःखेन संयुक्तौ ॥४४॥ एवमुक्त्वा गणेशस्य ददौ मंत्रं महामुनिः । ताभ्यामेकाक्षरं विप्रौ तपोयुक्तौ बभूवतुः ॥४५॥ दत्तश्च स्वाश्रमे तद्वद्ययौ हर्षसमन्वितः । पित्रोः सेवार्थमानंदाद्रामस्तत्र स्थितोऽभवत् ॥४६॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते रेणुकाजमदग्निसंजीवनकरणं नाम षट्त्रिंशोऽध्यायः ॥ ❖ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । गते वर्षसहस्रे स तपतोषाययौ प्रभुः । विघ्नेश्वरो भार्गवयोर्वरदस्तावुवाच ह ॥१॥ रेणुके जमदग्ने त्वं वृणु मे वरमुत्तमम् । एकाक्षरविधानेन तपसा तोषितोऽभवम् ॥२॥ तस्य तद्वचनं श्रुत्वा हर्षयुक्तौ बभूवतुः । ऊचतुर्गणराजं तौ भक्तिभावसमन्वितौ ॥३॥ धन्यो वंशो गणेशान दर्शनेन तथाऽऽवयोः । तपः स्वाध्याय एवं त आवयोर्नात्र संशयः ॥४॥ एवमुक्त्वा प्रणम्यैनं पूजयंतौ गणेश्वरम् । सरोमांचौ तुष्टुवतुः प्रहर्षेण प्रजापते ॥५॥ रेणुकाजमदग्नी ऊचतुः । नमस्ते विघ्नपालाय भक्तानां विघ्नहारिणे । विघ्नकर्त्रे ह्यभक्तानां ब्रह्मभूताय ते नमः ॥६॥ अनादये त्वनाधार वक्रतुंडस्वरूपिणे । गणेशान अनंतानां गणानां पतये नमः ॥७॥ नानाशक्तियुतायैव नानाभेदकराय ते । नानाभेदविहीनाय हेरंबाय नमो नमः ॥८॥ अमेयमायया चैव खेलकाय च ढुंढये । सिद्धिवुद्धिसहायाय सिद्धिवुद्धिवराय च ॥९॥ स्वानंदपतये तुभ्यं भक्तेभ्यो योगदायिने । योगाकाराय योगाय शांतिदाय नमो नमः ॥१०॥ अखंडानंदरूपाय भुक्तिमुक्तिप्रदाय च । लंबोदराय देवाय चैकदंताय ते नमः ॥११॥ महोदराय विघ्नानां पतये सुखदायिने । मूषकध्वजिने तुभ्यं नमो मूषकवाहन ॥१२॥ चतुर्भुजाय सर्वेषामादिपूज्याय भोगिने । ज्येष्ठराजाय सर्वेषां पितृमातृस्वरूपिणे ॥१३॥ यं स्तोतुं न समर्थाश्च वेदा देवाः शिवादयः । योगिनस्तं कथं चावां ह्यतस्त्वां प्रणमावहे ॥१४॥ एवं स्तुत्वा गणेशानं प्रणतौ भक्तिसंस्तुतौ । तावुत्थाप्य गणाधीश ऊचिवान् हर्षसंयुतः ॥१५॥ वरं च वृणुतं पुत्रौ दास्यामि मनसीप्सितम् । यमिच्छथो महाभागौ भक्तिभावनियंत्रितः ॥१६॥ गणेशवचनं श्रुत्वा दंपती तमथोचतुः । प्रणम्य च पुनः पादौ स्पृष्ट्वा तौ हर्षसंयुतौ ॥१७॥ तावूचतुः । यदि प्रसन्नभावेन वरदोऽसि गजानन । तदा ते पादपद्मे नौ भक्तिं देहि सुखप्रदाम् ॥१८॥ योगशांतिं च विघ्नेश देहि योगेश नौ परा । गाणपत्यप्रियां चैव सदा ह्यांनददायिकाम् ॥१९॥ ओमित्युक्त्वा गणाध्यक्षः
खं. ३ अ. ३७ पान ८२
पुनः प्रोवाच तौ तदा । दृष्ट्वा भक्तिं तयोर्भावं भक्तेभ्यः सुखदायकः ॥२०॥ भवत्कृतमिदं मे यत् स्तोत्रं योगप्रदं भवेत् । यो यदिच्छति तत्तस्मै दास्यामि स्तोत्रपाठतः ॥२१॥ जमदग्ने सदा शांतो भव मे भक्तिकारकः । रेणुके देहयुक्ता त्वं भज मां योगभाविता ॥२२॥ लोकास्त्वां मस्तकाकारां पश्यंत्यत्र न संशयः । ज्ञानदृष्ट्या तथा सांगां पश्येयुर्देवतादयः ॥२३॥ एवमुक्त्वाऽतर्दधेऽसौ गणेशो ब्रह्मनायकः । रेणुका जमदग्निश्च स्वाश्रमस्थौ बभूवतुः ॥२४॥ ततः कदाचिद्रामस्तौ प्रणिपत्य कृतांजलिः । उवाच पितरौ वाक्यं साक्षाद्विष्णुः प्रतापवान् ॥२५॥ श्रीराम उवाच । अर्जुनं संहनिष्यामि तथा निःक्षत्रियां धराम् । करिष्यामि न संदेहः पितरौ भवदाज्ञया ॥२६॥ ततस्तं जमदग्निश्चोवाच हर्षसमन्वितः । मा कुरुष्व वृथा हिंसां राम गर्वं परित्यज ॥२७॥ ततस्तं भार्गवं राम उवाच विनयान्वितः । मातुरग्रे प्रतिज्ञा च मुनीश्वर कृता मया ॥२८॥ तां सत्यां प्रकरिष्यामि मातृभक्तिपरायणः । देहत्यागं करिष्यामि तदर्थमथवा मुने ॥२९॥ तस्याऽऽग्रहं समालोक्य न्यगदत् पुत्रमादरात् । शंकरं गच्छ भो राम स तेऽभीष्टं करिष्यति ॥३०॥ तौ प्रणम्य जगामाऽसौ कैलासे शंकरं प्रभुः । प्रणिपत्य महेशानं स्तुत्वा तं चाऽब्रवीद्भवः ॥३१॥ कार्तवीर्यं हनिष्यामि कुर्वे निःक्षत्रियां धराम् । एकविंशतिवारं च तत्रोपायं वद प्रभो ॥३२॥ तत एकाक्षरं मंत्रं गणेशस्य ददौ शिवः । रामाय तं प्रगम्याशु वनं प्रायान् महाबलः ॥३३॥ पूर्वजन्मनि देवस्य गणेशस्य कृतं तपः । वामनेन च तत् स्मृत्वा तस्मिन् तपसि संस्थितः ॥३४॥ वायुभक्षस्ततो मंत्रं जजप ध्यानसंयुतः । समाधिना महोग्रेण तोषयामास विघ्नपम् ॥३५॥ गते वर्षशते पूर्णे आययौ तं गजाननः । भक्तं भक्त्या समायुक्तं महोग्रतपसा युतम् ॥३६॥ उवाच तं महाभागं भार्गवं विष्णुमव्ययम् । वरं वृणु महाभाग भक्त्या दास्यामि भावितः ॥३७॥ श्रुत्वा तस्य वचो रम्यमुत्थाय गणपं द्विजः । ननाम दंडवद्भूतौ तं पुपूज विशेषतः ॥३८॥ पूजयित्वा पुनर्नत्वा तुष्टाव प्रकृतांजलिः । रामो भक्तिरसेनैव संप्लुतः साश्रुलोचनः ॥३९॥ राम उवाच । नमस्ते गणनाथाय भक्तानंदविवर्धन । भक्तिप्रियाय देवाय हेरंबाय नमो नमः ॥४०॥ वेदांतवेद्यरूपाय मनोवाणीमयाय च । मनोवाणीविहीनाय योगाकाराय ते नमः ॥४१॥ गजवक्त्राय वै तुभ्यं निर्गुणात्मप्रधारिणे । सगुणाय च कंठाधो नराकाराय ते नमः ॥४२॥ अनादये च पूज्याय सर्वेषां सर्वदायिने । आदिपूज्याय विघ्नेश नानाचित्रप्रचालक ॥४३॥ विघ्नहंत्रे सुभक्तानां विघ्नकर्त्रे दुरात्मनाम् । सदा स्वानंदनाथाय ढुंढिराजाय ते नमः ॥४४॥ वक्रतुंडाय ते नाथ नमो लंबोदराय वै ।
खं. ३ अ. ३७ पान ८३ सततं शांतिरूपाय शांतिदाय नमो नमः ॥४५॥ महोदराय सिद्धेश बुद्धेश पतये नमः । नानैश्वर्यप्रदात्रे ते श्रमदाय नमो नमः ॥४६॥ नानाज्ञानप्रभेदैश्च मोहकत्र्रे नमो नमः । सुभक्तानां सदा नाथ भ्रममोहादिहारिणे ॥४७॥ नानादैत्यनिहंत्रे च देवानां मदहारिणे । सुरासुरमयायैव ब्रह्मेशाय नमो नमः ॥४८॥ सर्वत्र योगरूपेण संयोगायोगहीनतः । संस्थितं तं कथं स्तौमि त्वां विघ्नेश वद प्रभो ॥४९॥ यं समर्था गणाध्यक्ष योगिनः शेषकादयः । शिवादयश्च वेदा वै स्तौतुं न प्रभवंति ते ॥५०॥ तं किं स्तौमि गणाधीशमतस्त्वां प्रणतोऽभवम् । तेन तुष्टश्च मां नाथ पालयस्व त्वदाश्रितम् ॥५१॥ एवं संस्तुवतस्तस्य भक्तिभावेन मानद । भक्त्या रोमोद्गमः प्राप्तः कंठरोधो बभूव ह ॥५२॥ ननर्त परमानंदयुक्तोऽसौ भार्गवाग्रणीः । जय विघ्नेश हेरंब गणेशेति वदंस्तदा ॥५३॥ तं तथा भक्तिसंमग्नं वीक्ष्य देवो गजाननः । उवाच साश्रुनेत्रश्च सरोमांचः प्रजापते ॥५४॥ राम राम महाभाग शृणु मे परमं वचः । धन्योऽसि सर्वभावेन भक्तो मे मग्नतां गतः ॥५५॥ त्वया कृतमिदं स्तोत्रं भवेत् भक्तिरसप्रदम् । पठिष्यति च यश्चैतच्छृणुयात् सततं परम् ॥५६॥ तस्याऽहं सकलां बाधां नाशयिष्यामि नित्यदा। इह भुक्त्वाऽखिलान् भोगानंते स्वानंदगो भवेत् ॥५७॥ यद्यच्चिंतयति प्राज्ञ तत्तद्दास्यामि केशव । मम मान्यः सदा सोऽपि भविता नात्र संशयः ॥५८॥ परशुं मे गृहाण त्वं तेन मत्तोल्पगो भवेः । जेष्यसि त्वं महावीरम- र्जुनं राजभिर्वृतम् ॥५९॥ निःक्षत्रियां तथा पृथ्वीं करिष्यसि न संशयः । एकविंशतिवारं त्वं सदा जयसमन्वितः ॥६०॥ नाम ते सर्वविख्यातं भविष्यति शुभप्रदम् । उक्तं परशुरामेति स्मरणेन सुखप्रदम् ॥६१॥ यज्ञान् कृत्वा महाभाग यशः संस्थाप्य भूतले । शांतियोगस्थभावेन मां भजिष्यसि नित्यदा ॥६२॥ एवमुक्त्वाऽन्तर्दधेऽसौ जामदग्न्यं गणेश्वरः । रामः संस्थापयामास गणेशं ब्राह्मणैस्ततः ॥६३॥ संपूज्य स्वगृहं रामो ययौ हर्षसमन्वितः । रेणुकां जमदग्निं स ननाम परशोधरः ॥६४॥ तयोराज्ञां गृहीत्वा स भ्रातृभिश्च समन्वितः । जुहाव कार्तवीर्यं तं महाबलपराक्रमम् ॥६५॥ सिद्धेश्च कवचैर्युक्ता राजानः सर्व आगताः । अवध्याः सर्वभावेन देवादीनां महाबलाः ॥६६॥ गणेश्वरवरदानेन परशोस्तेजसा प्रभुः । रामः सर्वांश्च संग्रामे मारयामास यत्नतः ॥६७॥ कार्तवीर्यं तं जघान स ततो रोषतो दृढम् । युद्धं कृत्वा महाघोरं बाहूंश्चिच्छेद लीलया ॥६८॥ ममार कार्तवीर्यश्च परशुना च प्रजापते । ततः स विजयी रामः क्षत्रियाणां वधे रतः ॥६९॥ निःक्षत्रियां धरां तत्र चकार क्रोधसंयुतः । पुनर्ब्राह्मणवीर्येण क्षत्रियाः प्रबभूविरे ॥७०॥ रामेण ते पुनः सर्वे हताः
खं. ३ अ. ३८ पान ८४ क्षत्रकुलोद्भवाः । निःक्षत्रियां धरां दक्ष चकार स पुनः पुनः ॥७१॥ एकविंशतिवारं च कृत्वा निःक्षत्रियां धराम् । क्षत्रियाणां च रक्तेन तर्पयामास पूर्वजान् ॥७२॥ यज्ञं कृत्वा ददौ पृथ्वीं ब्राह्मणेभ्यो महायशाः । समुद्रेण ततस्तस्मै दत्ता पृथ्वी भयाद्विधे ॥७३॥ तत्राऽयं संस्थितो रामो भजते गणनायकम् । अनन्यभावसंयुक्तो गाणपत्योऽधुना महान् ॥७४॥ इदं ते कार्तवीर्यस्य रामस्य च महाद्भुतम् । जमदग्ने रेणुकायाश्चरितं कथितं मया ॥७५॥ यः शृणोति नरो भक्त्या पठेद्वा तस्य संभवेत् । भुक्तिमुक्तिप्रदं दक्ष चिंतितार्थप्रदं परम् ॥७६॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते परशुरामचरितकथनं नाम सप्तत्रिंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । कार्तवीर्यस्य पुत्रास्तु शतं तत्र महारथाः । पंचैव बलिनः शूरा धर्मात्मानो यशस्विनः ॥१॥ जयध्वजः शूरसेनो वृषभोऽथ पुरुजितौ । जयध्वजस्तत्र राजा मुख्योऽभूत् स प्रजापते ॥२॥ जयध्वजस्य पुत्रोऽभूत्तालजंघः प्रतापवान् । तस्य पुत्रशतं जज्ञे तालजंघा इति स्मृताः ॥३॥ तेषां ज्येष्ठो महाबाहुर्वीतिहोत्रोऽभवन्नृपः । वृषप्रभृतयश्चान्ये यादवाः पुण्यकर्मिणः ॥४॥ वृषो वंशकरश्चासीत्तस्य पुत्रोऽभवन् मधुः । मधोः पुत्रशतं जज्ञे वृष्णिज्येष्ठः स वंशकृत् ॥५॥ वीतिहोत्रसुतश्चैवानंतनामा महायशाः । दुर्जयस्तस्य पुत्रोऽभूत् सर्वशास्त्रविशारदः ॥६॥ तस्य भार्या गुणैर्युक्ता पातिव्रत्य- परायणा । वने स तु ययौ राजोर्वशीं तत्र ददर्श ह ॥७॥ तस्यां सक्तः स्वयं कामी न सस्मार स्वकां स्त्रियम् । गते बहुतिथे काले ययौ कण्वेन बोधितः ॥८॥ स्वगृहं पुनरेवाऽसौ प्रायश्चित्तं चकार वै । याजयामास तं कण्वः स विनीतो बभूव ह ॥९॥ तस्य पुत्रो बभूवाऽपि सुप्रतीक इति श्रुतः । सहस्रजित् कुलभवं सर्वं ते कथितं त्विदम् ॥१०॥ यदुपुत्रस्य वंशं वै शृणु क्रोष्टोः प्रजापते । क्रोष्टोरेको वृजिनवानिति पुत्रोऽभवच्छ्रुतः ॥११॥ तस्य पुत्रोऽभवच्छ्वाह्निः कुशेकूस्तत्सुतो मतः । कुशेश्रोश्चाऽभवत्पुत्रो नाम्ना चित्ररथो बली ॥१२॥ पुत्रश्चित्ररथस्याऽभूच्छशबिंदुस्ततोऽभवत् । दशलक्षसहस्राणि तेषु ज्येष्ठः पृथुश्रवाः ॥१३॥ उशनास्तस्य पुत्रोऽभूद्धर्म एव स कथ्यते । तस्माद्रुचकनामाऽभूत्ततः पंच सुता मताः ॥१४॥ तेषु वंशधरः प्रोक्तो ज्यामघो लोकविश्रुतः । तस्माद्विदर्भः पुत्रोऽभूद्विदर्भाच्च क्रुशक्रथौ ॥१५॥ लोमपादस्तृतीयस्तु
[शीर्षक]: सं. ३ अ. ३८ | पान ८५
बभ्रुस्तस्याऽऽत्मजोऽभवत् । कृतिस्तस्यात्मजः प्रोक्त उशिकस्तत्सुतोऽभवत् ॥१६॥ उशिकात् पुत्रको जातश्चेदिश्चैद्यस्ततो- ऽभवत् । तस्य पुत्रो महाबाहुः प्रभावात् कौशिकः स्मृतः ॥१७॥ अभूत्तस्य सुतो धीमान् सुमंतुश्च ततोऽमलः । अमलस्य सुतः प्रोक्तो निःश्वेतश्च महाबलः ॥१८॥ तस्य दक्षाऽभवन् पुत्राः शतं चैव महाबलाः । क्रथस्याप्यऽभवत्कुंतिर्धृष्टिस्तस्याऽथ निर्वृतिः ॥१९॥ दशार्होऽस्य ततो व्योमस्तस्माज्जीमूतकस्ततः । विकृतिस्तस्य पुत्रो भीमरथोऽभून् महाबलः ॥२०॥ तस्मा- न्नवरथो नाम बभूव च महाबलः । तस्य पुत्रो दशरथः शकुनिस्तस्य चात्मजः ॥२१॥ तस्मात् करंभिः संभूतो देवरातो- ऽभवत्ततः । ईजे स चाश्वमेधेन देवक्षत्रश्च तत्सुतः ॥२२॥ मधुस्तस्य सुतो जज्ञे तस्मात् कुरुरजायत । पुत्रद्वयमभूत्तस्य सुत्रामा चानुरेव च ॥२३॥ अनोस्तु पुरुहोत्रोऽभूदायुस्तस्य सुतो मतः । आयुषः सात्त्वतो नाम तस्य सप्त सुता मताः ॥२४॥ भजमानो भजिर्दिव्यो वृष्णिर्देववृधोऽन्धकः । महाभोजश्च विख्याता यादवेषु प्रजापते ॥२५॥ भजमानस्य निम्लोचिः किंकणो वृष्णिरेव च । अथ देववृधो राजा पुत्रार्थे तप आचरत् ॥२६॥ बभ्रुः पुत्रोऽभवत्तस्य पुण्यश्लोको महायशाः । सर्वशास्त्रार्थतत्त्वज्ञः श्लोकौ यस्य बभूवतुः ॥२७॥ यशसा तेजसा राजा त्रिलोकेषु विराजितः । महाभोजकुले जाता भोजास्ते वै प्रकीर्तिताः ॥२८॥ वृष्णेः सुमित्रः पुत्रश्च युधाजिदपरस्तथा । अनमित्रः शिनिस्तस्मान्निघ्नोऽभूदनमित्रतः ॥२९॥ सत्राजिच्च प्रसेनश्च विख्यातौ निम्नजौ सुतौ । सत्राजित् सूर्यमाराध्य मणिं लेभे स्यमंतकम् ॥३०॥ शिनेरथ समुत्पन्नः पुत्रः सर्वार्थकोविदः । सत्यकः सत्यसंपन्नः सत्यनामा महायशाः ॥३१॥ सात्यकिर्युयुधानः स जयस्तस्याऽभवत्सुतः । कुणिश्चाथ सुतो धीमांस्तस्य पुत्रो युगंधरः ॥३२॥ अनमित्रसुतो योऽन्यो वृष्णिः शस्त्रविशारदः । श्वफल्कश्च सुतो वृष्णेः परश्चित्ररथोऽभवत् ॥३३॥ श्वफल्कः काशिराजस्य सुतां भार्यामविंदत । तस्यामजनयत् पुत्रमक्रूरं साधुसंमतम् ॥३४॥ आसंगसारमेयाद्या अन्ये च द्वादशाऽऽत्मजाः । अक्रूरस्याऽभवत्पुत्रो देववानुपदेवकः ॥३५॥ अभूच्चित्ररथात् पुत्रः पृथुश्चापृथुरेव हि । अश्वग्रीवः सुबाहुश्च सुधाश्वाद्याः सुताः स्मृताः ॥३६॥ अथांधको महाबाहुर्लेभे वै चतुरः सुतान् । कुकुरं भजमानं च शुचिं कंबलवर्हिणम् ॥३७॥ कुकरस्य सुतो वह्निर्बहेस्तु तनयोऽभवत् । कपोतरोमा भो दक्ष पुत्रोऽभवदनुस्ततः ॥३८॥ सोऽभवत्तुंबरोर्मित्रं सुतस्तस्यांऽधकः स्मृतः । अंधकादभवत् पुत्रस्तेजोयुक्तश्च दुंदुभिः ॥३९॥ स गोवर्धनमासाद्य तताप विपुलं तपः । ब्रह्मा तस्मै ददौ चैव वरं तन्मनसीप्सितम् ॥४०॥ वंशस्ते चाक्षयो भावी
खं. ३ अ. ३९ पान ८६ कीर्तिज्ञानादिकं यशः । सुरैः सदाधिकं मैत्र्यं कामरूपित्वमेव च ॥४१॥ अरिद्योतः सुतस्तस्य तेजोयुक्तश्च दुंदुभेः । पुनर्वसुः सुतस्तस्याहूकस्तस्य सुतः स्मृतः ॥४२॥ आहुकादुग्रसेनश्च देवकश्च प्रजापते । देवकस्य सुता वीरा जज्ञिरे देवसन्निभाः ॥४३॥ देववानुपदेवश्च सुदेवो देववर्धनः । तेषां स्वसारः सप्ताऽऽसन् वसुदेवाय ता ददौ ॥४४॥ धृतदेवा तथा चैवोपदेवा देवसाक्षिता । श्रीदेवा शांतिदेवा च सहदेवा च सुव्रता ॥४५॥ देवकी वसुदेवाय ददौ सर्वाः प्रजापते । उग्रसेनस्य पुत्रास्तु कंसमुख्या महाबलाः ॥४६॥ महायशा अभूत् पुत्रो भजमानाद्विदूरथः । तस्य शूरः शिनिस्तस्य स्वयंभोजश्च तत्सुतः ॥४७॥ हृदिकोऽतो देहबाहुस्ततः शतधनुस्ततः । कृतवर्मा ततो देवमीढोऽतः शूरकस्ततः ॥४८॥ वसुदेवादयो दक्ष दश धर्मपरायणाः । वसुदेवान् महातेजा वासुदेवो जगद्गुरुः ॥४९॥ देवकीपुत्रतां यातो देवैः संप्रार्थितो हरिः । भूमिभारावताराय साधूनां पालनाय च ॥५०॥ रोहिणी च महाभागा वसुदेवादजीजनत् । संकर्षणं ततो ज्येष्ठं शेषांशं च हलायुधम् ॥५१॥ उमा देहधरा जाता योगनिद्रा च कौशिकी । नियोगाद्वासुदेवस्य यशोदा तनयाऽभवत् ॥५२॥ ये चान्ये वसुदेवस्य वासुदेवाग्रजाः सुताः । जघान कंसः प्रागेव तान् सर्वान् सूतिमात्रतः ॥५३॥ सुषेणश्च ततो दायि भद्रसेनो महाबलः । ऋतुः संमर्दनो भद्रः कीर्तिमानिति संज्ञिताः ॥५४॥ हतेष्वेतेषु सर्वेषु रोहिणी वसुदेवतः । असूत लोकनाथं तं बलभद्रं हलायुधम् ॥५५॥ जाते रामे च देवानामादिमात्मानमच्युतम् । असूत देवकी कृष्णं श्रीवत्सांकितवक्षसम् ॥५६॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते हरिवंशवर्णनं नामाष्टत्रिंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः॥ मुद्गल उवाच । रामस्य रेवती भार्या सुरूपाऽऽसीद्गुणान्विता । तस्यामुत्पादयामास द्वौ पुत्रौ निष्षठोल्मुकौ ॥१॥ षोडश स्त्रीसहस्राणि शतमष्टोत्तरं तथा । कृष्णस्य पत्न्यः संप्रोक्ताश्चारुरूपाः सुलोचनाः ॥२॥ तासु पुत्रा बभूवुश्च शतशोऽथ सहस्रशः । प्रत्येकं दश पुत्राश्च दुहितैका बभूविरे ॥३॥ प्रद्युम्नसांबमुख्याश्च महातेजोयुताः सुताः । महारथा महाभागा बभूवुर्ज्ञानसंयुताः ॥४॥ प्रद्युम्नस्य च पुत्रोऽभूदनिरुद्धः प्रतापवान् । तस्य पुत्रस्तु वज्रः स एवाभूद्वंशधारकः ॥५॥
खं. ३ अ. ३९ पान ८७
मुसलात् सोऽवशिष्टोऽभूदेवं नानाविधा नृपाः । जातास्तत्र न शक्यं वै भवेत् कथयितुं मया ॥६॥ दक्ष उवाच । कथं विष्णुः स्वयं साक्षात् मानुषे देहधारकः । बभूव तत्र यन्मूलं तदेव वद मानद ॥७॥ मुद्गल उवाच । कथां शृणु महारम्यां पुरा जातां प्रजापते । यया ते संशयः सर्वो नाशमेष्यति तच्छ्रुतात् ॥८॥ पुरा देवैश्च दैत्येशा जिता विष्णुसमन्वितैः । राज्यं त्यक्त्वा ततो दैत्या वनेषु व्यचरन् भयात् ॥९॥ ततस्तान् हंतुमत्यंतं ययुर्देवा उदायुधाः । प्रह्लादप्रमुखाः सर्वे भयभीतास्ततोऽभवन् ॥१०॥ अनाथांस्तानथोचुस्ते कृत्वा करपुटं पुरः । राज्यं त्यक्त्वा वयं सर्वे वनेषु विचरामहे ॥११॥ शस्त्रादिभिर्विहीनान्नः कथं हंतुं समुद्यताः । सुराः सर्वं भवद्भिश्च गृहीतं तदपि ह्यहो ॥१२॥ अतो नो रक्षत प्राज्ञाः शरणं समुपागतान् । मा हिंस्यत महाभागा दीनांश्चैव विशेषतः ॥१३॥ तथाऽपि विष्णुना तत्र प्रेरितास्तेऽपि दानवान् । देवा हंतुं प्रारभंत पलायंताऽसुरास्तदा ॥१४॥ शरणं स्वगुरुं तत्र भृगुं योगनिधिं ययुः । उदायुधास्तु पश्चात्ते जग्मुः क्रोधसमन्विताः ॥१५॥ तत्र सर्वे भृगुं दक्ष ददृशुर्न च दानवाः । समिदर्थं गतं ज्ञात्वा भृगुपत्नीं समाययुः ॥१६॥ रक्ष नो देवि भीतांस्तु देवेभ्यः शरणं गतान् । नोचेद्वयं मरिष्यामस्त्वदग्रे नात्र संशयः ॥१७॥ तेषां वचनमाकर्ण्य तानुवाच सुखप्रदा । मा भयं कुरुत ह्येवं वारयामि सुरानहम् ॥१८॥ तस्यास्तद्वचनं श्रुत्वा हर्षयुक्ताश्च दानवाः । तत्र संस्थास्ततो दक्ष निःश्वासोच्छ्वाससंयुताः ॥१९॥ एतस्मिन्नंतरे तत्राजग्मुर्विष्णुपुरोगमाः । देवा उदायुधाः सर्वे दैत्यान् हंतुं प्रचक्रमुः ॥२०॥ तानुवाच भृगोः पत्नी मा हिंस्यत सुरोत्तमाः । दैत्यान् मां शरणं प्राप्तान्राज्यहीनान् विशेषतः ॥२१॥ तामनादृत्य देवेंद्रो विष्णुना प्रेरितः स्वयम् । वज्रं धृत्वा ययौ हंतुं दैत्यान् क्रोधविलोचनः ॥२२॥ ततो भृगोश्च पत्नी सा चुकोप तपसा स्वयम् । सवज्रं देवराजं तं स्तंभितं प्रचकार ह ॥२३॥ तद् दृष्ट्वा विष्णुना तत्र चक्रेण क्षुरनेमिना । शिरश्छिन्नं भृगोः पत्न्याः सा पपात धरातले ॥२४॥ एतस्मिन्नेव काले तु भृगुस्तत्र समागतः । मृतां पत्नीं तथा दृष्ट्वा चुकोपारुणलोचनः ॥२५॥ शशाप विष्णुमावेशात् पत त्वं पृथिवीतले । ब्राह्मणीवधदोषेण देवाधम न बुद्ध्यसि ॥२६॥ भृगुणा तपसा स्वेन ज्ञानेनाऽपि प्रजापते । जीवयुक्ता कृता पत्नी रक्षिता दानवास्तथा ॥२७॥ ततोऽतिदुःखितो देवो विष्णुः शोकसमन्वितः । शरणं विघ्नराजं तं ययौ क्षेत्रे मयूरके ॥२८॥ तत्राऽतितपसा देवं वर्षमात्रं प्रजापते । निराहारेण भक्त्या स तोषयामास विघ्नपम् ॥२९॥ ततस्तं गणराजः स ययौ भक्तिनियंत्रितः । उवाच च महाविष्णुं वरं वृणु हृदीप्सितम् ॥३०॥ गणेशं प्रणनामाथोत्थायाऽसौ विष्टरश्रवाः ।
पुपूज भक्तिभावेन तं तुष्टाव गजाननम् ॥३१॥ अथर्वशिरसा तेन स्तुतस्तं प्रत्युवाच ह । वरं वरय दास्यामि मा खेदं कुरु केशव ॥३२॥ श्रीविष्णुरुवाच । यदि प्रसन्नभावेन वरदोऽसि गजानन । शापं मे भृगुसम्भूतं निवर्तय महाप्रभो ॥३३॥ अत्रैव वाससंस्थानं देहि ते भजनाय मे । निर्विघ्नं सर्वदा स्वामिन् कुरु मां त्वत्पदप्रियम् ॥३४॥ ओमित्युक्त्वा स्वयं ढुंढिरूचिवान् भक्तमुत्तमम् । मा चिंतां कुरु विष्णो त्वं शृणु मे परमं वचः ॥३५॥ भृगोर्मदीयभक्तस्य तस्य वाणीं न वै मृषा । करिष्यामि कदा तस्मान् मृत्युलोके पतिष्यसि ॥३६॥ तत्रैव ते सदा ज्ञानं नष्टं नैव भविष्यति । मत्प्रसादाच्च देवेश स्वेच्छाचारी सदा सुखी ॥३७॥ देवैः संप्रार्थितस्त्वं वै दैत्यादीनां वधाय च । धर्मसंस्थापनार्थायोऽवतारं प्रधरिष्यसि ॥३८॥ तत्र ते कीर्तिरत्यंतं भविष्यति विशेषतः । यशो महत् पृथिव्यां त्वं स्थापयिष्यसि केशव ॥३९॥ तत्र त्वदीयभक्ताश्च भविष्यंति विशेषतः । तेषां चतुर्विधां वाञ्छां पूरयिष्यसि नित्यदा ॥४०॥ पुनश्च देवकार्यं च कृत्वा देव जनार्दन । वैकुंठे ते सदा वासो भविष्यति न संशयः ॥४१॥ स्वेच्छया देहवांस्त्वं वै भविष्यसि न संशयः । मत्प्रसादात् हृषीकेश सर्वं ते वाञ्छितं भवेत् ॥४२॥ अन्यत्त्वया च देवेश प्रार्थितं तद् भविष्यति । वस त्वं क्षेत्रगो भूत्वा स्थानं दत्तं मयाऽक्षयम् ॥४३॥ इत्युक्त्वाऽंतर्दधे दक्ष गणेशः करुणानिधिः । विष्णुना तत्र संवासः कृतो भक्त्या प्रजापते ॥४४॥ पूर्वदिग्भागदेशे वै स्थापितो गणनायकः । विष्णुर्विनायक इति नाम तस्य कृतं द्विजैः ॥४५॥ एत्तते कथितं दक्ष देहधारणकारणम् । विष्णोर्देवाधिपस्याऽपि नानायोनिसमुद्भवः ॥४६॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते विष्णुदेहधारणवर्णनं नामैकोनचत्वारिंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः । मुद्गल उवाच । पुरोर्वंशे महाभागा राजानो धर्मशालिनः । बभूवुर्यज्ञकर्तारः स्वधर्मनिरताः किल ॥१॥ तेषां चरित्रमत्यंतं कथनाय न शक्यते । बहुत्वात् कारणं दक्ष शृणु ते कथयाम्यहम् ॥२॥ पुरोर्वंशे महाराज शांतनुः प्रबभूव ह । विख्यातो धर्मशीलश्च प्रजापालनतत्परः ॥३॥ तस्य पुत्रोऽभवच्छ्रेष्ठो भीष्मो धर्मपरायणः । गंगायां सर्व- शास्त्रज्ञो ब्रह्मचर्यपरायणः ॥४॥ सत्यवत्यां च पुत्रौ द्वौ शांतनोर्वै बभूवतुः । चित्रांगदो महाबाहुर्विचित्रवीर्यकोऽपरः ॥५॥ चित्रांगदो महातेजाः पस्पर्धे क्षत्रियान् सदा । चित्रांगदेन युद्धे स गंधर्वेण हतोऽभवत् ॥६॥ विचित्रवीर्यकस्तत्र यक्ष्मणा
[headers] खं. ३ अ. ४० पान ८९
पीडितोऽभवत् । मृतः स रोगदोषेण दुःखिताः सुहृदोऽभवन् ॥७॥ तस्य भार्ये प्रजानाथ द्वे काशीराजपुत्रिके । अंबिकांऽबालिका नान्द्यौ दुःखिते ते बभूवतुः ॥८॥ सत्यवत्या कृतं तत्र संतानार्थं महामुनेः। व्यासस्य स्मरणं दक्ष स्वपुत्रस्य विशेषतः ॥९॥ स आगत उवाचैनां किमर्थं दुःखिता वद । मातस्ते दुःखनाशं च करिष्यामि न संशयः ॥१०॥ तं प्रत्युवाच सा देवी वंशवृद्धिं कुरु प्रभो । विचित्रवीर्यक्षेत्रे त्वं मदाज्ञावशगो भव ॥११॥ तथेति तेन वंशस्य कृता वृद्धिः प्रजापते । कुत्सितं वेषमास्थाय रात्रौ रेमे महामुनिः ॥१२॥ अंबिकायां मुनेर्वीर्यात् धृतराष्ट्रो बभूव ह । पांडुरंबालिकायां वै दास्यां च विदुरोऽभवत् ॥१३॥ यमोऽयं विदुरः साक्षाच्छूद्रयोनौ समुद्भवन् । मांडव्यशापभोगार्थं नीतिज्ञः स बभूव ह ॥१४॥ दक्ष उवाच । कथं मांडव्यशापश्च यमेशस्य पुराऽभवत् । धर्ममार्गरतस्याऽपि स्वपरेषु समस्य भोः ॥१५॥ मुद्गल उवाच । सम्यक् पृष्टं त्वया नाथ शृणु तस्य कथानकम् । पुरातनभवं तेऽहं कथयामि सविस्तरम् ॥१६॥ मांडव्यो मुनिवर्यः स वने तपसि संस्थितः । तत्र चोरा धनं हृत्वा पलंतश्च समाययुः ॥१७॥ राज्ञश्च वीरमुख्यास्तन्निशायां धर्तुमाययुः । चोरांश्चोरैर्धनं सर्वं स्थापितं मुनिसंनिधौ ॥१८॥ धनं त्यक्त्वा गताश्चोरा वने वै यत्र तत्र ते । राजदूतैर्धनं दृष्टं संगृह्य कुपिता भृशम् ॥१९॥ ततो मुनिं तिरस्कृत्य मौनभावसमन्वितम् । संगृह्य ताडर्यंतस्त आययुर्नगरे स्वके ॥२०॥ राजानं ते समाचख्युर्धनं दत्त्वा यथातथम् । वृत्तांतं चौरसंभूतं नृपोऽपि कुपितोऽभवत् ॥२१॥ शूले प्रोतव्य एवं चेद्भवद्भिश्चोरसत्तमः । तथेति तैः कृतं तत्र हस्ते प्रोतो महामुनिः ॥२२॥ तत्र दुःखसमायुक्तो मांडव्यस्तपसि स्थितः । सस्मार स्वगुरुं विप्रं कश्यपं सृष्टिकारकम् ॥२३॥ स्मृतमात्रः स तस्याऽग्रे कश्यपः सहसाऽऽययौ । तं तथा दुःखसंयुक्तं दृष्ट्वा संदुःखितोऽभवत् ॥२४॥ उवाच तं स्वशिष्यं स भज त्वं गणनायकम् । सर्वविघ्ननिहंतारं भक्तेभ्यः शांतिदायकम् ॥२५॥ ततस्तं मुनिशार्दूलं मांडव्यः प्रजगाद वै । केन मार्गेण विघ्नेशं तं भजामि वदस्व माम् ॥२६॥ तस्य तद्वचनं श्रुत्वा कश्यपस्तमुवाच ह । गणेशस्य स्वरूपं वै भक्तेभ्यः सुखदं परम् ॥२७॥ कश्यप उवाच । पंचधा चित्तवृत्तेश्च चालकोऽयं गजाननः । चिंतामणिरिति ख्यातो वेदांते वेदवादिभिः ॥२८॥ संप्रज्ञातस्वरूपो वै देहस्तस्य महामुने । असंप्रज्ञातरूपं च शिरो गणपतेः स्मृतम् ॥२९॥ तेनाऽयं गजवक्त्रोऽभूद्गजशब्दं विचारय । भ्रमरूपां महामायां सिद्धिं विद्धि महामते ॥३०॥ भ्रमधारकborder/रूपां त्वं बुद्धिं जानीहि सत्तम । तयोः स्वामी गणाधीशो योगाकारः प्रदृश्यते ॥३१॥ तं भजस्व
खं. ३ अ. ४० पान ९०
विधानेन योगशांतिमयं मुने। तेन त्वं विघ्नसंहीनो भविष्यसि न संशयः ॥३२॥ इत्युक्त्वा स गणेशस्य ददौ तस्मै महामुनिः। एकाक्षरविधानेन कवचं शास्त्रसंमतम् ॥३३॥ आज्ञां संगृह्य विप्रेशः कश्यपः स्वालयं ययौ। मांडव्यस्तत्र विघ्नेशमभजद्भावसंयुतः ॥३४॥ कवचं गणराजस्य दधार मुनिसत्तमः। कवचे संधृते दक्ष पीडाहीनो बभूव ह ॥३५॥ तत्रैव सहसा राजा कस्मै कार्यार्थमाययौ। ददर्श तं महाविप्रं प्रणनाम कृतांजलिः ॥३६॥ रुदोद भयसंयुक्तो वचस्तं मुनिरब्रवीत्। मा रुद् त्वं महीपाल नैव शापं ददाम्यहम् ॥३७॥ मदीयकर्मदोषेण शूलप्रोतोऽहमेव च। अजानता त्वया राजन् कृतं तेन सहाम्यहम् ॥३८॥ ततो नृपेण विप्रार्थं लोहकारविचक्षणाः। समानीताश्च तैस्तत्र कृतो यत्नो विशेषतः ॥३९॥ शूलाग्रं हस्तगं तत्रैकभागं संगतं बभौ। निष्कासितुं न शक्तास्ते व्याकुला भयसंयुताः ॥४०॥ शस्त्रैः संछेदितं तैस्तत् शूलाग्रं हस्तगं विधे। यावन्मात्रं मुनेर्हस्ते संस्थितं तत्स्थितं बभौ ॥४१॥ राज्ञा संपूजितो विप्रः प्रययौ यमसंनिधिम्। उवाच कोपरक्ताक्षो यमं यमवतां वरम् ॥४२॥ मांडव्य उवाच। मया किं प्रकृतं कर्म पापरूपं वदस्व माम्। येनाऽहं शूलजं दुःखं प्राप्तः शीघ्रं महाशठ ॥४३॥ तस्य क्रोधयुतं वाक्यं श्रुत्वा भयसमन्वितः। प्रांजलिः प्रत्युवाचेदं वचनं कर्मसूचकम् ॥४४॥ यम उवाच। बालभावे त्वया ब्रह्मन् कीटः कंटकवेधितः। तत्कर्मणः फलं प्राप्तं तदेव मुनिसत्तम ॥४५॥ तस्य तद्वचनं श्रुत्वा क्रोधयुक्तो महामुनिः। जगाद धर्मराजं तं मांडव्यश्च प्रजापते ॥४६॥ अहो बालस्वभावेन कृतं कर्म मया किल। अज्ञानेन महामूर्ख तस्येदं किं फलं भवेत् ॥४७॥ अतो नीतिविहीनस्त्वं पतिष्यसि धरातले। शूद्रयोनौ शतं वर्षाणि भुक्त्वा पुनरेष्यसि ॥४८॥ अधुनाऽहं करोम्येतां मर्यादां शृणु भानुज। अष्टवर्षवयोयुक्तैः कृतं कर्म हि निष्फलम् ॥४९॥ मम वाक्येन भवतु गणराजप्रसादतः। तदादि बालकैः कर्म कृतं तन्निष्फलं भवेत् ॥५०॥ मांडव्यः स्वाश्रमे गत्वा तताप तप उत्तमम्। एकाक्षरविधानेन तोषयामास विघ्नपम् ॥५१॥ कवचस्य प्रसादेन शूलाग्रं तस्य हस्तगम्। बभूव मांसरूपं तु यथापूर्वं करो बभौ ॥५२॥ अणिमांडव्यको नाम्ना तदादि स बभूव ह। स्वल्पकालेन योगीशो गाणपत्यप्रियोऽभवत् ॥५३॥ नित्यं गणपतेर्विप्रो मूर्तिपूजारतोऽभवत्। सदा गणेशभावज्ञः सर्ववंद्यो महायशाः ॥५४॥ मांडव्यचरितं पुण्यं यः शृणोति नरोत्तमः। पठेद्वा तस्य विघ्नेशः प्रसन्नो जायते सदा ॥५५॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते मांडव्यचरितं नाम चत्वारिंशोऽध्यायः ॥
यहाँ पृष्ठ का मूल पाठ (प्रतिलेखन) प्रस्तुत है:
शीर्षक (Header): खं. ३ अ. ४१ | पान ९१
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । धृतराष्ट्रं च जन्मांधं त्यक्त्वा पांडुं प्रचक्रिरे । राजानं ब्राह्मणाः सर्वे स विजिग्ये वसुंधराम् ॥१॥ छत्रादि राजचिह्नैस्तं ज्येष्ठं भक्तिपरायणः । धृतराष्ट्रं चकाराऽसौ पांडुः परपुरंजयः ॥२॥ धृतराष्ट्रस्य भार्या- ऽभूद्गांधारी च पतिव्रता । पांडोः कुंती तथा माद्री भार्ये द्वे प्रबभूवतुः ॥३॥ भार्याभ्यां संयुतो राजा वनं पांडुर्जगाम ह । क्रीडार्थं तत्र नित्यं स रेमे हर्षेण संयुतः ॥४॥ मृगरूपधरं राजा मुनिं जघ्ने शरेण सः । मृग्यासक्तं शशापाऽसौ राजानं मरणोन्मुखः ॥५॥ भार्यासंसक्तरूपं मां हतवांश्च नृपाधम । अतस्त्वं भार्यया सक्तो मैथुनाय भविष्यसि ॥६॥ तदा ते मरणं सद्यो मम वाक्याद्भविष्यति । इत्युक्त्वा देहसंत्यागं चकार द्विजसत्तमः ॥७॥ श्रुत्वा शापं महाघोरं राज्यं त्यक्त्वा वने स्थितः । भार्याभ्यां सहितः पांडुः कंदमूलादि भक्षयन् ॥८॥ ततः कुंत्यां समुद्भूतो धर्माद्धर्मभृतां वरः । युधिष्ठिरो महाभागो मंत्रसामर्थ्यकारणात् ॥९॥ वायोश्च भीमसेनो वै बभूव बलसंयुतः । इंद्रात् कुंत्यामर्जुनः स धनुर्विद्यापरायणः ॥१०॥ अश्विभ्यां नकुलस्तद्वत् सहदेवश्च वीर्यवान् । माद्र्यां धर्मरतौ दक्ष रूपलावण्यसंयुक्तौ ॥११॥ गांधार्यां च शतं पूर्णं पुत्राणाममितौजसाम् । बभूव पुत्रिका दक्ष रूपलावण्यसंयुता ॥१२॥ पांडुः शापविमोहेन माद्र्यां सक्तो ममार ह । सा वै सहगता जाता कुंती पुत्रानपालयत् ॥१३॥ ब्राह्मणैः सा महाभागैरानीता हस्तिनापुरे । पुत्रैः कुंती तथा भीष्मादिभिः संमानिताऽवसत् ॥१४॥ ततो बहौ गते कालेऽनुजैर्दुर्योधनः स ह । पांडवान् द्वेषसंयुक्तोऽपीडयत् स विषादिना ॥१५॥ दग्धुं तेनैकदा लाक्षागृहे संस्थापिताः किल । पांडवाः सह मात्रा ते रक्षिताः कर्मणा तदा ॥१६॥ इत्यादि विविधैर्भावैः द्वेषयुक्तः स दुर्मतिः । पीडयामास तान् शूरांस्ततो भीष्म उवाच ह ॥१७॥ अर्धं राज्यं च संगृह्य पुराद् गच्छंतु पांडवाः । इंद्रप्रस्थं ततो जग्मुर्धृतराष्ट्रप्रचोदिताः ॥१८॥ तत्र दिग्विजयं कृत्वा श्रिया युक्ताश्च तेऽभवन् । कृष्णस्तेषां महाभागः पक्षग्राही बभूव ह ॥१९॥ राजसूयमखं कृत्वा शुशुभुः पांडवास्ततः । यत्र दुर्योधनो राजाऽभवन्मनसि दुःखितः ॥२०॥ धृतराष्ट्रेण दुर्बुद्धिरानयामास पांडवान् । द्यूतेन तान् महाभागान् जित्वा संहर्षितोऽभवत् ॥२१॥ वनेषु स्थापयामास पांडवान् साहसप्रियः । वर्षाणि द्वादशाऽथैकं वर्षं गुप्ततया तथा ॥२२॥ त्यक्त्वा राज्यादिकं सर्वं पांडवा वनमाययुः । तत्राऽजगाम तान् कृष्णो बलभद्रेण संयुतः ॥२३॥ पांडवान् सांत्वयामास क्रोधयुक्तो बभूव सः । दुर्योधनं हनिष्यामि महादुष्टं युधिष्ठिर ॥२४॥ कुरु राज्यं मया दत्तं शत्रुहीनं विशेषतः । ब्रुवंतं तं ततः कृष्णं जगाद स युधिष्ठिरः ॥२५॥ धर्मयुक्ततया राज्यं
[Page Header] पान ९२
करिष्यामि जनार्दन। अहं नाधर्मसंयुक्तं राज्यमिच्छामि पापप्रदम् ॥२६॥ अतः कोपं महाबाहो नियच्छ मम वाक्यतः। वद त्वं धर्मसंयुक्तमुपायं राज्यलाभदम् ॥२७॥ ततः कृष्णः स्वयं तत्र कोपहीन उवाच ह। युधिष्ठिरं स द्रौपद्या भ्रातृभिस्तं समन्वितम् ॥२८॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते युधिष्ठिरकृष्णसमागमो नामैकचत्वारिंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः॥ मुद्गल उवाच। शृणु दक्ष महाभाग चरितं विघ्नपस्य च। कृष्णः संकथयामास पांडवानमितद्युतिः ॥१॥ श्रीकृष्ण उवाच। युधिष्ठिर महापुण्यशीलः शृणु वचो महत्। येन त्वं संकटेभ्यश्च मुक्तः सन् सुखमाप्स्यसि ॥२॥ इतिहासं पुरावृत्तं कथयामि समासतः। सर्वविघ्नहरं पुण्यं महोदरगुणैर्युतम् ॥३॥ एकदा देवदेवेशो विष्णुर्वैकुंठसंस्थितः। लक्ष्म्या सह विलासेन विष्वक्सेनादिभिर्वृतः ॥४॥ गरुडेन समीपस्थेन सदा हर्षसंयुतः। अप्सरोभिश्च गंधर्वैर्देवैः संसेवितो बभौ ॥५॥ तमुवाच महाभागं भगवंतं सनातनम्। शृण्वत्सु सर्वदेवेषु लक्ष्मीर्विनयसंयुता ॥६॥ श्रीलक्ष्मीरुवाच। स्वामिन्निच्छामि विज्ञप्तुं मम त्वं सततं गतिः। स्त्रीणां भर्तृसमं नैवास्ति किंचिद्वेदभाषितम् ॥७॥ त्वं साक्षाद्देवदेवेशः शंकराद्यैः सुसंस्तुतः। षडैश्वर्यसमायुक्तो भक्तेभ्यः सिद्धिदायकः ॥८॥ देवादीनां पदप्राप्तिस्त्वत्तो नैवात्र संशयः। सर्वेभ्यो भुक्तिदाता त्वं मुक्तिदाता तथा भवान् ॥९॥ सर्वेषां पालकस्त्वं वै तव पाता न विद्यते। तदपि ध्यानसंयुक्तो भजसे कं वदस्व मे ॥१०॥ एकांते पूजयसि कं देवं त्वं विष्टरश्रवाः। आनंदं परमं ब्रह्म तदेव त्वं श्रुतेर्मुखात् ॥११॥ विस्मापयति मां चित्ते त्वया ध्यानं कृतं प्रभो। अधुना त्वां च निर्लज्जा नाथ पृच्छामि ते नमः ॥१२॥ संशयच्छेदनाथं मां वद विष्णो विशेषतः। दासीं ते पादपद्मस्य द्वंद्वहीनः सदा मतः ॥१३॥ सर्वत्र समरूपस्त्वं सदाऽऽनंदमयस्ततः। तस्मात्परं किमत्राऽस्ति कथं मोहयसे जनान् ॥१४॥ ध्यानेन पूजनेनैव फलं किं ते भविष्यति। तथाऽपि त्वं किमर्थं भो ध्यानयुक्तोऽसि केशव ॥१५॥ श्रीकृष्ण उवाच। इति प्रियावचः श्रुत्वा तां प्रहस्य जनार्दनः। समालिंग्य प्रजानाथ उवाच जलधेः सुताम् ॥१६॥ श्रीविष्णुरुवाच। शृणु प्रिये प्रवक्ष्यामि त्वया पृष्टं शुभप्रदम्। तारकं सर्वभूतानां सर्वेभ्यः सिद्धिदायकम् ॥१७॥ न करोमि जनानां वै ध्यानं मोहाय नित्यदा। कुलदेवं गणेशानं भजामि सर्वभावतः ॥१८॥ गुणेश्वराद्वयं देवि समुत्पन्ना महेश्वराः।