मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
खं. ४ अ. ६ | पान १७ किलास्माकं गता बहिः ॥५५॥ तथापि विवरात् कृष्णो न बहिश्च समागतः । मृतो वा जीवितो वा स ज्ञायते किं न यादवः ॥५६॥ वसुदेवादयः श्रुत्वा सस्त्रीका नृप दुःखिताः । उग्रसेनादयः सर्वे रुरुदुर्दुःखकर्शिताः ॥५७॥ परेऽस्माकं विशेषेण शत्रवः संस्थिता अहो । जरासंधादयश्चान्ये किं भविष्यति यादवाः ॥५८॥ हीनाः कृष्णेन संजाता अधुना नात्र संशयः । द्विषद्भिः संहताः सर्वे मरिष्यामः सपक्षकः ॥५९॥ ततो रामेण ते सर्वे सांत्विता बहुलोक्तिभिः । निःश्वस्य संस्थिता भूप दुःखयुक्ता भयाऽऽतुराः ॥६०॥ सत्राजितं निंदिंदुस्ते व्यर्थलाञ्छनदं तदा । सोऽपि दुःखसमायुक्तो बभूव भयसंकुलः ॥६१॥ अथ तं जांबवान् कृष्णमुवाच घननिःस्वनः । कस्त्वं वीर महातेजा योधयन्नसि मां वद ॥६२॥ ततस्तं प्रत्युवाचेदं कृष्णो वचनमुत्तमम् । यदुवंशभवं कृष्णं मां जानीहि महामते ॥६३॥ श्रुत्वा खेदसमायुक्तो जांबवांस्तं ननाम वै । रामेणोक्तं वचो रम्यं स त्वं विष्णुः समागतः ॥६४॥ अहं दासस्त्वदीयो वै क्षमस्व करुणानिधे । अज्ञाना- च्छक्तिगर्वेणापराधं युद्धजं च मे ॥६५॥ स्तुतः संपूजितस्तेन कृष्णो वृत्तांतमादरात् । अगदत्तं ततः श्रुत्वा कन्यायुक्तं मणिं ददौ ॥६६॥ गृहीत्वा सस्त्रियं कृष्णो द्वारकायां समागतः । आगतं कृष्णमालोक्य हर्षयुक्ता बभूविरे ॥६७॥ यादवैश्च ततः कृष्णः समानाय्य महामणिम् । सत्राजिते ददौ तत्र सर्वेषां पश्यतां नृप ॥६८॥ सत्राजिन् मनसाऽत्यंतं निंदयामास तां तनुम् । भयभीतः स कृष्णस्य विरोधेन महायशाः ॥६९॥ सत्यभामां ददौ तस्मै मणियुक्तां महात्मने । कृष्णाय स उवाचेदं श्वशुरो विनयान्वितः ॥७०॥ सूर्यभक्तियुतस्त्वं वै मणिं रक्ष महामते । दौहित्रास्ते भविष्यंति ग्रहीष्यंति मणिं च ते ॥७१॥ तथेति यादवेनैव कृतं सत्राजिता नृप । एतस्मिन्नंतरे तत्र वृत्तांतो यादवैः श्रुतः ॥७२॥ लाक्षागृहेषु संदग्धाः कुंत्या युक्ताश्च पांडवाः । पुरोचनेन तज् ज्ञात्वा रुरुदुर्यादवा बहु ॥७३॥ रामेण हस्तिनापुर्यां कृष्णः सद्यो जगाम ह । धृतराष्ट्रादिभिः सोऽपि रुरोद शोकसंकुलः ॥७४॥ शतधन्वा ततोऽक्रूरः कृतवर्मा च यादवः । मिलिताः क्रोधसंयुक्ता विचारं चक्रुरादरात् ॥७५॥ सत्राजिता वयं सर्वे कन्यार्थं संवृताः पुरा । अस्मान् संत्यज्य कृष्णाय ददौ कन्यां सुरूपिणीम् ॥७६॥ कृष्णः पांडवशोकार्तोऽभवत् तत्रैव संस्थितः । स रामो निश्चयतः कार्यं कर्तव्यं तत् त्रिभिः किल ॥७७॥ हत्वा सत्राजितं सुप्तं मणिर्ग्राह्यो न संशयः । एवं निश्चित्य रात्रौ तं शतधन्वा जगाम ह ॥७८॥ सत्राजितं स हत्वा वै मणिं जग्राह दारुणः । संस्थाप्य तैलद्रोण्यां तं कृष्णं सत्याययौ ततः ॥७९॥ श्वशुरं स हतं श्रुत्वा रामेण सहसा गतम् । कृष्णं
खं. ४ अ. ६ पान १८
ज्ञात्वा रोषितं शतधन्वाऽक्रूरमाययौ ॥१८०॥ अक्रूरेण समात्यक्तः कृतवर्माणमाययौ । तेनापि न धृतः पक्षः पुनः सोऽक्रूरमाययौ ॥८१॥ मणिं तत्रैव निक्षिप्य पपाल भयसंकुलः । शतयोजनगाऽश्विन्यां समारुह्य नृपात्मज ॥८२॥ पलायमानं विज्ञाय कृष्णः संकर्षणान्वितः । रथमारुह्य वेगेन तमनु प्रययौ तदा ॥८३॥ योजनानां शतं गत्वा ममार ह पुरोऽश्विनी । शतधन्वा भयैर्युक्तः पलायत पदा ततः ॥८४॥ पदातिनं च तं ज्ञात्वा कृष्णोऽधावत् सुसत्वरः । पदातिर्बलभद्रे स रथं त्यक्त्वा महाद्युतिः ॥८५॥ ततश्चक्रेण कृष्णेन हतस्तत्र पपात ह । शतधन्वा तेन तस्मिन् न दृष्टो मणिरुत्तमः ॥८६॥ ततः शोकसमायुक्तो बलभद्रमुवाच ह । शतधन्वा हतो हीनो मणिना तत्र मानद ॥८७॥ उवाच कोपयुक्तस्तं स ततो रोहिणीसुतः । मणिस्त्वया सुसंगुप्तो मिथ्या वाक् त्वं महाखल ॥८८॥ अग्रजाय प्रदातव्यस्तदर्थं मणिरादरात् । कृतं त्वया महालोभिन् कर्म साधु जुगुप्सितम् ॥८९॥ ततस्तं विनयेनैव सांत्वयामास केशवः । द्विजदेवगवां ते मे शपथो न कृतं मया ॥१९०॥ तं तिरस्कृत्य वेगेन त्यक्त्वा रामो जगाम ह । विदर्भं राजनीतिज्ञं स्वमित्रं नृपतिं तदा ॥९१॥ ततोऽतिदुःख- संयुक्तः कृष्णः परमदारुणम् । रुरोद बलभद्रं स स्मृत्वा स्मृत्वा विशेषतः ॥९२॥ ज्ञानदृष्ट्या स कृष्णेन मणिर्नाप्तो महीपते । ततोऽतिदुःखितो भूत्वा रुरोद च पुनः पुनः ॥९३॥ अहो ज्ञानं मदीयं यद्गतं कुत्र विशेषतः । नरतुल्यः कृतः केन धिङ् मे जीवितकं किल ॥९४॥ रथसंस्थः समायातो द्वारकायां महायशाः । लोकवृत्तांतमुग्रं स कथयामास विस्तरात् ॥९५॥ ततो यादवमुख्यैः स भर्त्सिसतोऽतिविशेषतः । कृष्णः सत्राजितः कर्म चकारोत्तरकं नृप ॥९६॥ देशे देशे नृपाद्याश्च जनाः कृष्णं विशेषतः । निंदिंदुः कर्म कृष्णेन किं कृतं दुष्टबुद्धिना ॥९७॥ समर्थं बलभद्रं योऽत्यजज्ज्येष्ठं सुदुर्मतिः । मणिलोभी महापापी विश्वास्यो नैव केनचित् ॥९८॥ द्वारकायां जनाः सर्वे तं कृष्णं न प्रमेनिरे । त्यक्तः सर्वैस्तथा कृष्णः शुशोच परमव्यथः ॥९९॥ अस्थित्वचासमायुक्तं सदा स्वगृहसंस्थितम् । नारदस्तं समालोच्याययौ दृष्ट्वा सुविस्मितः ॥२००॥ तं प्रणम्य महात्मानं कृष्णः परमदुःखितः । उवाच भावभक्त्या वै कृतांजलिपुटः शनैः ॥१॥ श्रीकृष्ण उवाच । सर्वैः संत्याजितो दुःखी गृहे नित्यं वसाम्यहम् । तन्न ते दर्शनं स्वामिन्नभवत् भाग्ययोगतः ॥२॥ ततस्तं नारदः प्राह किमर्थं त्यज्यसे वद । एवं पृष्टः पुनः प्राह वृत्तांतं सर्वमंजसा ॥३॥ श्रुत्वा वृत्तांतमुग्रं वै ध्यानेनालोक्य नारदः । देहत्यागे समुद्योगं कुर्वंतं तमुवाच ह ॥४॥ नारद उवाच । भाद्रशुक्लचतुर्थ्यां च त्वया चन्द्रो विलोकितः । शप्तोऽसौ विघ्नराजेन तेन
खं. ४ अ. ६ पान १९ संदुःखितो भवान् ॥५॥ देहत्यागं महाबुद्धे मा कुरुष्व विशेषतः । गणेशं भज भावेन संकष्टीव्रतसंयुक्तम् ॥६॥ मिथ्याऽपवादशून्यस्त्वं भविष्यसि न चान्यथा । सज्ञानश्च समर्थेखास्तस्मात् तं शरणं व्रज ॥७॥ एवमुक्त्वा महायोगी नारदः प्रययौ ततः । गणेशगानसंयुक्तो वीणावादनलालसः ॥८॥ ततः कृष्णः प्रहर्षेण युक्तो विघ्नेशमादरात् । अभजद् ध्यानमार्गज्ञो ध्यानेनोग्रेण भूमिप ॥९॥ एकाक्षरेण मंत्रेणापूजयन्नित्यमेव तम् । व्रतं चकार स ततः संकष्टी- संज्ञमुत्तमम् ॥१०॥ रात्रावेकांतसंस्थं तं ध्याननिष्ठं जनार्दनम् । निश्चलं गणराजः स ययौ भक्तं सुखप्रदः ॥११॥ बोधयामास तं कृष्णं गणेशो ब्रह्मनायकः । तमुत्थाय ननामाऽसौ पूजयामास चादरात् ॥१२॥ पुनः प्रणम्य तुष्टाव विघ्नेशं सामगेन सः । स्तोत्रेणाष्टकसंज्ञेन नाम्ना तं प्रननर्त ह ॥१३॥ सरोमांचं गणेशानः कृष्णं दृष्ट्वा जगाद ह । वरं वरय मत्तस्त्वं दास्यामि हृदि वाञ्छितम् ॥१४॥ गणेशवचनं श्रुत्वा तं जगाद महायशाः । कृष्णो भक्त्या समायुक्तो वचनं खेदसंयुक्तः ॥१५॥ श्रीकृष्ण उवाच । यदि तुष्टोऽसि विघ्नेश वरदोऽसि विशेषतः । तदा ते भक्तिमुग्रां मे देहि ह्यव्यभि- चारिणीम् ॥१६॥ भाद्रशुक्लचतुर्थ्यां ये चन्द्रं पश्यंति विघ्नप । ते शापदुःखहीना वै भवंतु कृपया च ते ॥१७॥ अहं चासन्नमरणजनवज्ज्ञानवर्जितः । प्रकृतोऽन्यस्य का वार्ता प्रार्थयामि ततः प्रभो ॥१८॥ जगाद गणनाथः स ततस्तं भक्तिमोहितः । मम भक्तिर्दृढा कृष्ण भविष्यति च तेऽनघ ॥१९॥ स्यमंतकस्य माहात्म्यं त्वदीयं लाञ्छनप्रदम् । वरदानं मदीयं च यः शृणोति जनार्दन ॥२०॥ पठेत्तु भावयुक्तश्चैन् मां धृत्वा हृदये हरे । स एव दोषसंहीनो भवत्वन्न न संशयः ॥२१॥ एवमुक्त्वा गणेशानः कृष्णं भक्तिपरायणम् । अंतर्धानं चकाराऽसौ कृष्णस्तत्र समास्थितः ॥२२॥ संपूर्णं जागरं कृत्वा पंचम्यां नियतः प्रभुः । पूजयित्वा गणेशानं ददौ दानं विशेषतः ॥२३॥ गणेशकृपया तस्यांऽतर्ज्ञानं संबभूव ह । ग्रहणं च मणेस्तेन ज्ञातमक्रूरकारितम् ॥२४॥ सभायां स समागम्याक्रूरं तत्राजुहाव च । तं प्रणम्य महाभागमुवाच हास्यसंयुक्तः ॥२५॥ मणिश्च तात संत्यक्तो गेहे ते शतधन्वना । बलभद्रार्थमद्य त्वं मणिं दर्शय मानद ॥२६॥ ततोऽक्रूरेण चानीतो मणिस्तत्र सुसंसदि । दृष्ट्वोग्रसेनमुख्यास्ते प्रशंसुर्जुनार्दनम् ॥२७॥ अक्रूरश्च विदर्भं तं गत्वा हलधरं प्रभुम् । मणिं दत्त्वा समानीय सभायां संस्थितोऽभवत् ॥२८॥ समागतं महावीरमनमत् केशवः पुनः । सर्वे हर्षयुता जाता द्वारका- वासिनस्ततः ॥२९॥ निर्दोषं वासुदेवं ते मानयामासुरादरात् । राजानः सुहृदः सर्वे नानादेशनिवासिनः ॥३०॥
पान २७ सर्वेषां हृदि संस्थोऽयं गणेशो बुद्धिनायकः । तस्यैव कृपया राजन् भवेत् किं किं सुदुर्लभम् ॥३१॥ अतो भाद्रचतुर्थ्यां वै न द्रष्टव्यः कदाचन । चन्द्रः कदाचित् दृष्टश्चेदिदं श्रोतव्यमादरात् ॥३२॥ तेन दोषविहीनश्च जायते नात्र संशयः । अन्यथा भ्रष्टभावेन नारकी स नरो भवेत् ॥३३॥ स्यमंतकमणेश्चित्रं चरितं कथितं परम् । चन्द्रदर्शनजं दोषं हरति श्रवणेन च ॥३४॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते भाद्रशुक्लचतुर्थी चंद्रदर्शनदोषहरणचरितवर्णनं नाम षष्ठोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । श्रुतं मया महाख्यानं त्वत्तो वेदविदांवर । चतुर्थ्योर्भुवयोः सारं माहात्म्येन समन्वितम् ॥१॥ तथापि वद मे ब्रह्मन् पृथक् व्रतसमुद्भवम् । चरित्रं विस्तरेणैव केन केन कृतं पुरा ॥२॥ कीदृशी चाऽभवत् सिद्धिः केन प्राप्तो गजाननः । श्रुत्वा व्रतस्य माहात्म्यं यामि नो तृप्तिमादरात् ॥३॥ मुद्गल उवाच। एवं पृष्टो महायोगी वसिष्ठः परमार्थवित् । जगाद तं प्रजानाथ शृणु तत् सुखदं परम् ॥४॥ वसिष्ठ उवाच । आदौ शंम्भादिभिश्चैतत् कृतं व्रतमनु- त्तमम् । कृष्णशुक्लचतुर्थ्यां यदुपोषणपरायणैः ॥५॥ ततः स्वायंभुवाद्यैश्च कृतं सर्वार्थसिद्धिदम् । ततो मुनिगणैः सर्वैरन्यैर्वर्णस्थजंतुभिः ॥६॥ अधुनाऽहं पृथक्त्वेन कथयामि व्रतोद्भवम् । माहात्म्यं सर्वदं पुण्यं संक्षेपेण शृणुष्व तत् ॥७॥ पुरा दौष्यंतिको नाम भरतः संभवूव ह । तेजस्वी वीरमुख्येशः शस्त्रास्त्रज्ञः प्रतापवान् ॥८॥ जित्वा भूमंडलं सर्वं सार्वभौमो बभूव ह । सप्तद्वीपवतीं पृथ्वीमपालद्धर्मसंयुतः ॥९॥ तद्देशे दैवयोगेन ह्यनावृष्टिः सुदारुणा । बभूव सर्वलोकास्ते भयभीता बभूविरे ॥१०॥ चराचरं व्यथायुक्तं दृष्ट्वा राजा महायशाः । कण्वं मुनिवरं शांतं ययौ शरण- मादरात् ॥११॥ तं प्रणम्य महात्मानं पूजयामास भक्तितः । कृत्वा करपुटं तस्याऽग्रे स्थितो भरतोऽभवत् ॥१२॥ तमुवाच महायोगी गाणपत्यप्रियः सदा । कण्वो वेदार्थसंनिष्ठो भरतं राजसत्तमम् ॥१३॥ कण्व उवाच । किमर्थमागतो राजन् कुशलं ते महामते । अस्ति देशादिभावेषु तिष्ठ त्वं चासनोत्तमे ॥१४॥ कण्वस्य वचनं श्रुत्वा हर्षयुक्तो महीपतिः । मुनिदत्ते विवेशासावासने स कृतांजलिः ॥१५॥ उवाच तं महात्मानं कण्वं वेदविदां वरम् । भरतो राजनीतिज्ञो भक्तियुक्तो विशेषतः ॥१६॥ भरत उवाच । त्वत्प्रसादेन योगींद्र कुशलं मे प्रवर्तते । दैवयोगेन तदपि दुःखितोऽहं समागतः ॥१७॥
खं ४ अ. ७ पान २१ नित्यं स्वधर्मयुक्तेन मया संपालिता मही । देवव्रतातिथिप्राज्ञप्रीत्यर्थं योगिसत्तम ॥१८॥ वर्णाश्रमाचारयुता जनाः सर्वे भवंति च । तथापि पापजं दुःखं संप्राप्तं तन्न वेद्यहम् ॥१९॥ अनावृष्टिश्च संभूता प्रभो सर्वत्र दुःखदा । चराचरं भयोद्विग्नं बभूव रसहीनतः ॥२०॥ तदर्थं त्वां महायोगिन्नागतोऽहं विशेषतः । त्वद्दर्शनजपुण्येन सफलो मे भवोऽभवत् ॥२१॥ अधुना ब्रूहि पापस्य स्वरूपं तन्निहन्म्यहम् । येन वृष्टिर्भवेत् पूर्णा तथा कुरुष्व मानद ॥२२॥ ततस्तं नृपशार्दूल- मुवाच मुनिसत्तमः । कण्वः श्रुत्वा च वृत्तांतं दयायुक्तः स्वभावतः ॥२३॥ कण्व उवाच । शृणु राजन् महत् पापं तव राज्ये प्रवर्तितम् । तेनाऽवृष्टिभवं दुःखं प्रादुर्भूतं न संशयः ॥२४॥ चतुःपदविहीनं ते राज्यं भवति निश्चितम् । जनैः सर्वैः सुशीलैश्च पापं घोरं कृतं महत् ॥२५॥ त्वं पापशीलभावेन वर्तसे जनवत्सल । धर्मार्थकाममोक्षैश्च हीनोऽसि पुरुषाधम ॥२६॥ चतुर्थीसंभवं तात व्रतं सर्वार्थसिद्धिदम् । कार्ष्णं शौक्लं सुविख्यातं भ्रष्टं राज्येऽभवन्नृप ॥२७॥ चतुर्विधं जगत्सर्वं स्थूल- सूक्ष्मादिभेदतः । संकटं यत्तदेव त्वं जानीहि नृपनायक ॥२८॥ चतुर्विधं च संकटं हरति व्रतकारिणः । सा संकटचतुर्थी वै कृष्णा ते कथिता मया ॥२९॥ चतुर्विधं या ददाति सा शुक्ला वरदा मता । संचितं नास्ति चेद्राजन् व्रतकारिजनाय वै ॥३०॥ चतुर्थीजं स माहात्म्यं कथयामास विस्तरात् । कण्वस्तद्धरतायैव स्वशिष्याय विशेषतः ॥३१॥ व्रतानि वै निष्फलानि चतुर्थीहीनकानि चेत् । ज्ञात्वा प्रणम्य तं राजोवाच हर्षसमन्वितः ॥३२॥ भरत उवाच । स्वामिन् वद गणेशस्य माहात्म्यं सर्वसिद्धिदम् । एतादृशं व्रतं यस्य तं भजिष्यामि नित्यदा ॥३३॥ कण्व उवाच । शृणु राजन् गणेशस्य माहात्म्यं सर्वदं परम् । क्रतुना कथितं मे यद्ब्रह्मपुत्रेण धीमता ॥३४॥ एकदाऽहं तपोयुक्तस्तिष्ठामि स्वाश्रमे पुरा । वायुमात्राशनो भूत्वा तपामि स्म तपो महत् ॥३५॥ मदीयतपसा सर्वं व्याप्तमासीन्नराधिप । तथापि योगमास्थाय संस्थितोऽहं विशेषतः ॥३६॥ ततः प्रजापतिः साक्षादाश्रमे मे समागतः । ऋतुर्योगींद्रवंद्यो यो गाणपत्यो महायशाः ॥३७॥ तं प्रणम्य महात्मानं पूजयित्वा पुरः स्थितम् । कृतांजलिं मामुवाच स तथा भक्तवत्सलः ॥३८॥ क्रतुरुवाच । वत्स तिष्ठस्व मे दत्त आसने किं महामते । इच्छा ते वद मां तात करिष्यामि हि तं च ते ॥३९॥ तस्य तद्वचनं श्रुत्वा हर्षितोऽहं नराधिप । आसने समुपावेश्यावदत्तं विनयान्वितः ॥४०॥ कण्व उवाच । तव दर्शनमात्रेण कृतकृत्योऽस्मि सांप्रतम् । तथापि शांतिदं योगं वद पूर्णं दयानिधे ॥४१॥ क्रतुरुवाच । सम्यक् पृष्टं त्वया वत्स श्रेष्ठाच्छ्रेष्ठतमं महत् । कथयामि महाभाग ब्रह्मणः संश्रुतं
खं. ४ अ. ७ | पान २२
मया ॥४२॥ तपस्त्यक्त्वा पुरा तात योगमार्गपरायणः । न शांतिं प्रलभे तत्र योगभूमिं प्रसाधयन् ॥४३॥ ततोऽहं पितरं गत्वा ब्रह्माणं सर्ववेदिनम् । वंद्यं तं योगशांत्यर्थमपृच्छं विनयान्वितः ॥४४॥ स्वामिन् शांतिप्रदं ब्रह्म कीदृशं वद मे प्रभो । केन योगेन लभ्यं तत् प्रभवेत् कृपयान्वितः ॥४५॥ ब्रह्मोवाच । योगशांतिप्रदं ब्रह्म गाणेशं विद्धि पुत्रक । मनोवाणीमयं सर्वं त्यज योगस्य सेवया ॥४६॥ मनोवाणीविहीनं यदेव तत्तादृशं मतम् । गणेशोऽहं न भिन्नश्च ब्रह्मणो नायकः स्मृतः ॥४७॥ मनोवाणीमयः प्रोक्तो गकारो वेदवादतः । मनोवाणीविहीनश्च णकारः सर्वसंमतः ॥४८॥ तयोः स्वामी गणेशानो नाम्ना गणपतेर्यदा । गकारस्य णकारस्य योगो वेदप्रमाणतः ॥४९॥ समाधिना लभ्यते यच्चित्तेन च महामते । गकाराक्षरगं ज्ञानं ज्ञातव्यं वेदवादतः ॥५०॥ चित्तेन यन्न लभ्येत णकारं विद्धि मानद । ज्ञानाज्ञानमयं चित्तं त्यक्त्वा शांतिमवाप्स्यसि ॥५१॥ एतदेव परं गुह्यं शांतिदं कथितं मया । तदर्थं गणराजं त्वं भजस्व भावसंयुतः ॥५२॥ एकाक्षरं महामंत्रं गृहाण त्वं महामते । ध्यानयोगेन विघ्नेशं प्राप्स्यसि त्वं न संशयः ॥५३॥ एवमुक्त्वा महामंत्रं ददौ मह्यं विधानतः । तं प्रणम्य वने तात गतोऽहं योगकारणात् ॥५४॥ क्रमेण चित्तभूमीनां योगं त्यक्त्वा मया परम् । चित्तं चिंतामणौ पुत्र क्षिप्तं तद्रूप- भावतः ॥५५॥ ततो योगींद्रवंद्योऽहं जातस्तदपि नित्यदा । गणेशध्यानसंयुक्तोऽभवं तद्भक्तिकाम्यया ॥५६॥ ततो विघ्नपतिः साक्षाद्दर्शनं मे ददौ मया । स्तुतः संपूजितः सोऽपि ददौ स्वभक्तिमुत्तमाम् ॥५७॥ तदादिगाणपत्योऽहं जातः सर्वैश्च वंदितः । भजस्व गणराजं तमतस्त्वं योगकाम्यया ॥५८॥ कण्व उवाच । एवमुक्त्वा महायोगी मह्यं मंत्रं ददौ ततः । एकाक्षरं यथान्यायमंत्र्धानं चकार ह ॥५९॥ अहं तथा गणेशानं साधयित्वा विशेषतः । शांतिं प्राप्तस्तं तथापि भजाम्य- नन्यचेतसा ॥६०॥ अतस्त्वमपि राजेंद्र भज विघ्नपतिं सदा । चतुर्थीव्रतसंयुक्तो ब्रह्मभूतो भविष्यसि ॥६१॥ तत एकाक्षरं मंत्रं ददौ तस्मै महामुनिः । कण्वं प्रणम्य राजर्षिर्ययौ स्वनगरे तदा ॥६२॥ तस्मिन् काले चतुर्थी सा शुक्ला भाद्री समागता । कृता तेन सुभक्त्या वै नगरस्थजनैः सह ॥६३॥ ततः सर्वत्र संघोषः कृतस्तेन महीभृता । शुक्लां कृष्णां चतुर्थीं ये नाऽऽचरिष्यंति नित्यदा ॥६४॥ ते दंडैः पीडनीया वै ततः सर्वेऽभवन् जनाः । व्रतकारिण एतस्मात् पुण्यात् वृष्टिर्बभूव ह ॥६५॥ हृष्टपुष्टजनाः सर्वे तया जाता नृपात्मज । रोगादिदोषहीनास्ते भजंतं गणनायकम् ॥६६॥ भरतः स्म महाराजोऽभजत्सो- ऽनन्य चेतसा । गणेशं भक्तिसंयुक्तो गाणपत्यप्रियोऽभवत् ॥६७॥ स पुत्रे राज्यमुग्रं तन्निक्षिप्य वनगोऽभवत् ।
खं. ४ अ. ७ पान २३ अंते स्वानंदगो भूत्वा ब्रह्मभूतो बभूव ह ॥६८॥ क्रमेण भूमिसंस्था येऽभवन् स्वानंदगा जनाः । चतुर्थी पुण्ययोगेन यथा योगपरायणाः ॥६९॥ स्पर्शेन भरतस्यैव जनाः कीटादिका नृप । पुण्यररूपा बभूवुस्तेऽथॉते स्वानंदगामिनः ॥७०॥ एतादृशेन भूपेन पुण्यशालिजनाः कृताः । यज्ञैः सर्वा धरा येन चित्रिता पुण्यकारिणा ॥७१॥ भरतेन समो राजन् न कश्चित् प्रबभूव ह । ज्ञानेन स्वबलेनाऽपि यशसा धर्मशालिना ॥७२॥ भाद्रशुक्लचतुर्थ्यास्तु महिमा कथितो मया । चतुर्वर्गफलैर्युक्तो ब्रह्मभूयपदप्रदः ॥७३॥ भाद्रशुक्लचतुर्थ्यां तु माहात्म्यं यः शृणोति चेत् । पठेद्वा तस्य राजेंद्र सर्वदं प्रभवेद् ध्रुवम् ॥७४॥ भाद्रशुक्लचतुर्थ्यां वै शंकरस्य हृदि प्रभुः । प्रादुर्बभूव मध्याह्ने ध्यानजः स सुतोऽभवत् ॥७५॥ तदादि सा तिथिर्मुख्या बभूव जन्मधारिणी । गणेशस्य न संदेहो ब्रह्मभूयपदप्रदा ॥७६॥ सृष्ट्यादौ पंच देवेशैः स्थापिता मूर्तिरुत्तमा । मयूरे गणनाधस्य मध्याह्ने भाद्रगे तिथौ ॥७७॥ मयूरेशअवतारो भाद्रपदेयो बभूव सः । मध्याह्ने शंकरगृहे चतुर्थ्यां शुक्ल- पक्षके ॥७८॥ तस्यां ये मृन्मयीं मूर्तिं पूजयंति नरादयः । देवाः शंकरमुख्याश्च महोत्सवपरायणाः ॥७९॥ ते सर्वे विघ्नहीनाश्च भवंति सुखभोगिनः । अंते स्वानंदगा भूप ब्रह्मभूता भवंति च ॥८०॥ मध्याह्ने पूजनं प्रोक्तं गणेशस्य विशेषतः । उपोषणसमायुक्तैश्चतुर्थ्यां व्रतकारिभिः ॥८१॥ पंचम्यां पारणं कृत्वा द्विजैः सह महामते । मूर्तिं तां मृन्मयीं पूज्यां विसृज्य निनयेज्जलम् ॥८२॥ चतुर्थ्यां मृन्मयीं मूर्तिं भाद्रे ये नार्चयंति चेत् । तेषां निष्फलरूपं वै कर्म सर्वं भविष्यति ॥८३॥ न तेषां दर्शनं कार्यं नरैरात्महितेप्सुभिः । पतितास्ते मताः शास्त्रे नारकाश्च भवंत्यतः ॥८४॥ इह विघ्नसमायुक्ता नानारोगप्रपीडिताः । दारिद्र्यादिसमायुक्ता महापापा मता नृप ॥८५॥ चतुर्थ्यां सर्ववर्णस्थैर्भाद्रे पूज्यो गजाननः । मृन्मयो विघ्नहीनास्ते भवंति सफलक्रियाः ॥८६॥ इयं भाद्रपदे मासि चतुर्थी शुक्लरूपिणी । तस्याश्चरितमाद्यं ते कथितं स्वल्पभावतः ॥८७॥ अत्र ते वर्णयिष्येऽहं इतिहासं पुरातनम् । तच्छृणुष्व महाभाग चतुर्थीव्रतजं महत् ॥८८॥ द्राविडे नगरे राजंश्चांडालः कोऽपि पापकृत् । कुष्ठरोगयुतः पूर्णः परस्त्रीलंपटोऽभवत् ॥८९॥ चतुर्थ्यां भाद्रमासे स ज्वर- युक्तो बभूव ह । ज्वरस्य पीडयाऽत्यंतं पीडितो राजसत्तम ॥९०॥ अन्नेन स जलेनाऽपि हीनोऽभूद्दैवयोगतः । पंचम्यां मरणे प्राप्ते विमानेन जगाम ह ॥९१॥ तस्यांगस्पर्शतॊ वायुर्यमलोके जगाम ह। तेन स्पृष्टा नरास्तत्र नरकस्थाः समंततः ॥९२॥ ते सर्वे यानगा भूत्वा गताः स्वानंदके पुरे । दृष्ट्वा गणपतिं तैः स ब्रह्मभूतो बभूव ह ॥९३॥ व्रतमजानतश्चैवं फलप्रदमिदं
खं. ४ अ. ८ पान २४ मतम् । यथाविधि कृतं येन तत्र चित्रं किमप्यहो ॥९४॥ चतुर्थ्या महिमाऽयं कथितुं न प्रशक्यते । पुरुषार्थाश्च चत्वारः प्राप्यंते व्रतमात्रतः ॥९५॥ मुद्गल उवाच । वसिष्ठवचनं श्रुत्वा दशरथस्तमब्रवीत् । शृणु दक्ष महाभाग तां कथां पावनीं प्रभो ॥९६॥ दशरथ उवाच । चांडालो गणनांथस्य पुपूज स न मृन्मयीम् । मूर्तिं दोषी कथं स्वामिन् ब्रह्मभूतो बभूव ह ॥९७॥ वसिष्ठ उवाच । सम्यक् पृष्टं त्वया राजन् शृणु संशयनाशनम् । ज्ञानं ते कथयिष्यामि भवेल्लोकोपकारकम् ॥९८॥ चांडालस्य चतुर्थ्यास्तु ज्ञानं नाऽभूद् दुरात्मनः । पूजनं च तथा तस्योल्लंघनं न ततोऽभवत् ॥९९॥ अतोऽयं दोषहीनश्च स्वानंदस्थो बभूव ह । पूजनोल्लंघनाभ्यां स वर्जितो ज्ञानभावतः ॥१००॥ एवं नानाजनाश्चेह भुक्त्वा तु विविधं सुखम् । अंते स्वानंदगा राजन् बभूवुर्व्रतमात्रतः ॥१॥ तत्रैकं कथितं प्रोक्तुं नालं वर्षायुतैरपि । पूर्णं भवति माहात्म्यं संक्षेपेण निरूपितम् ॥१०२॥ ॥ ओमिति श्रीमदान्द्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते भाद्रपदशुक्लचतुर्थीव्रतवर्णनं नाम सप्तमोऽध्यायः ॥ ❖ ॥ श्रीगणेशाय नमः ॥ वसिष्ठ उवाच । आश्विने वरदात्री या चतुर्थी शुक्लपक्षगा । तां शृणुष्व महाभाग सव्रतां सर्वदायिनीम् ॥१॥ इतिहासं प्रवक्ष्यामि पुरातनभवं नृप । व्रतसंयुक्तमाहात्म्यं भवेत् सर्वार्थसाधकम् ॥२॥ रैवतांतरगो राजा कीर्तिमांश्च बभूव ह । मत्तो नाम्ना धर्मधरः पूर्णशस्त्रास्त्रपारगः ॥३॥ देवविप्रातिथिप्रेप्सुः पंचयज्ञपरायणः । नीतिज्ञः पुत्रवल्लोकान् पालयन् स्वहिते रतः ॥४॥ भार्या तस्याऽभवत् साऽपि पातिव्रत्यगुणान्विता । सर्वलक्षणसंयुक्ता विप्रदेवातिथिप्रिया ॥५॥ गजानां च हयानां वै पदातीनां महीपतेः । रथानां नैव संख्याऽस्ति धानुष्काणां विशेषतः ॥६॥ सप्तद्वीपवतीं पृथ्वीं पालयन् स नराधिपः । देवादीनां च संग्रामे ह्यजेयः परवीरहा ॥७॥ तस्य वंध्यत्वदोषेण नृप पुत्रो बभूव नो । नानायत्न- परो राजा पुत्रार्थे प्रबभूव ह ॥८॥ तीर्थयात्रादिकं सर्वं चकार विधिवन्नृपः । अनुष्ठानव्रतादीनि देवानां पूजनं तथा ॥९॥ एवं नानाविधैः पुण्यैर्न बभूव सुतस्ततः । राज्यं त्यक्त्वा वने राजा सस्त्रीकः स जगाम ह ॥१०॥ तत्र भ्रमणयुक्तः स ददर्श ह महावनम् । सिंहव्यालादिसंयुक्तं भयदं सर्वजन्मिनाम् ॥११॥ दुःखयुक्तः स राजर्षिः प्रवेशं स चकार ह । वने तत्र मुनिश्रेष्ठं सौभरिं संददर्श च ॥१२॥ तं प्रणम्य महाभागः सस्त्रीकः पुरतो मुनेः । कृतांजलिपुटो भूत्वा तस्थौ
[हेडर] खं. ४ अ. ८ पान २५
स नृपंसमुखः ॥१३॥ ततः सौभरिणा सोऽपि सत्कृतो वचनेन च । निषसादासने तत्र मुनिना दर्शिते नृपः ॥१४॥ तमुवाच महाभागं राजानं मुनिसत्तमः । कोऽसि त्वं वन उग्र मेऽत्र किमर्थ समागतः ॥१५॥ इति पृष्टो महीपालस्तमुवाच सुहर्षितः । कीर्तिमान् सर्वधर्मज्ञः कृत्वा करपुटं वचः ॥१६॥ कीर्तिमानुवाच । द्राविडे वसतिर्मेऽस्ति नगरे सुरसत्तमे । राज्यं करोमि तत्राऽहं सार्वभौमो महामुने ॥१७॥ अपुत्रो दैवयोगेन जातोऽहं मुनिसत्तम । पुत्रार्थे व्रततीर्थादीन् नानाधर्मान् करोमि वै ॥१८॥ राज्यं त्यक्त्वा वने योगिन्नागतः पुत्रकाम्यया । तत्र ते दर्शनं प्राप्तं सर्वसिद्धिप्रदं प्रभो ॥१९॥ तव दर्शन- मात्रेण सफलो मे भवो भवेत् । मातृपित्रादिकं सर्वं धन्यं जातं न संशयः ॥२०॥ अधुना ब्रूहि मे नाथ पुत्रप्राप्त्यर्थमादरात् । उपायं तं चरिष्यामि त्वदाज्ञावशगो मुने ॥२१॥ इह जन्मनि भो विप्र न कृतं पापमुल्बणम् । मया राज्यं कृतं भूमेर्भययुक्तेन चेतसा ॥२२॥ तथापि वंध्यजो दोषो मया प्राप्तो महामुने । पूर्वजन्मकृतं पापं ज्ञायते नैव चेतसा ॥२३॥ कथयस्व महोग्रं मे पापं सर्वविदां वर । योगीन्द्रोऽसि महातेजाः साक्षाद्ब्रह्मस्तनोधरः ॥२४॥ वसिष्ठ उवाच । एवं विनययुक्तेन राज्ञा पृष्टो महामुनिः । सौभरिस्तं जगादेदं वचनं गणपप्रियः ॥२५॥ सौभरिरुवाच । कृतं त्वया महत्पापं महाराज विशेषतः । पूर्वजन्मकृतं नैव पापं ते विद्यतेऽधम ॥२६॥ तव राज्ये महामूर्ख चतुर्थीव्रतमुत्तमम् । लयं प्राप्तं विशेषेण व्रतादौ फलदं मतम् ॥२७॥ चतुर्थीव्रतमाद्यं यन्मानवेन नराधम । न कृतं चेद्रुतानीह निष्फलानि भवंति च ॥२८॥ विशेषतस्त्वया कर्म नानापुण्यादिकं कृतम् । चतुर्थीहीनभावेन निष्फलं तद्बभूव ह ॥२९॥ चतुर्विधपदार्थानां दात्री सा वरदा मता । चतुर्विधं तु संकष्टं हरंती संकटी मता ॥३०॥ भुनक्ति राजा पापं राष्ट्रकृतं शास्त्रसंमतम् । जनानां व्रतहीनानां पापभागी भवान् मतः ॥३१॥ अतः पापमयी मूर्तिस्त्वमेवात्र न संशयः । तेन वंध्यत्वमापन्नो नराधम न बुध्यसे ॥३२॥ सौभरेर्वचनं श्रुत्वा कीर्तिमांस्तं जगाद ह । विनयेन समायुक्तो अयभीतश्च पार्थिवः ॥३३॥ कीर्तिमानुवाच । अज्ञानेन कृतं कर्म मया स्वामिन् सुपापिना । कीदृशं तद्व्रतं विप्र मह्यं वद विधानतः ॥३४॥ पुत्रप्राप्त्यर्थमेवं मे वदोपायं महामते । येन पापविहीनोऽहं भवामि पुत्रवान् सुखी ॥३५॥ सौभरिरुवाच । चतुर्थीव्रतमाद्यं त्वं कुरुष्व नृप नित्यदा । जनैः सर्वैस्तदा सर्वपापहीनो भविष्यसि ॥३६॥ अज्ञानेन करोषि स्म पापं ज्ञात्वाऽनुतापवान् । व्रताचरणमात्रेण निष्पापः पुण्यभाग् भवेः ॥३७॥ इत्युक्त्वा व्रतमाहात्म्यं कथयामास विस्तरात् । ततः सोऽपि महाबुद्धिः पप्रच्छ विनयान्वितः ॥३८॥ कीर्तिमानुवाच ।
पान २६
कीदृशोऽयं गणाधीशो व्रतं यस्य चतुःपदम् । ब्रह्मभूयकरं प्रोक्तं भजिष्यामि विशेषतः ॥३९॥ ततस्तं मुनिशार्दूलः सौभरिः पुनरब्रवीत् । माहात्म्यं गणनाधस्य शांतियोगपदप्रदम् ॥४०॥ सौभरिरुवाच । पुराऽहं तपसा युक्तो नानाछंदपरायणः । अभवं तत्र देवा वै भयभीता बभूविरे ॥४१॥ अहो तपःप्रभावेण जित्वा सर्वं द्विजोत्तमः । किमिच्छति पदं श्रेष्ठं ज्ञायतेऽस्मा- भिरेव न ॥४२॥ प्रेषयामास सस्त्रीकं ततः कामं सुराधिपः । तपोभंगार्थमेवं मे कामस्तत्र समागतः ॥४३॥ उर्वशी- सहिताभिश्चाप्सरोभिर्मधुना तथा । आत्तबाणः स्वयं कामः पीडयामास मां शरैः ॥४४॥ अहं तपःप्रभावेण जित्वा कामं सह स्त्रिया । मोहहीनस्तपस्तत्राऽतपं सुदृढनिश्चयः ॥४५॥ ततो मे तपसोग्रेण दाहयुक्तो बभूव ह । कामः पलाय्य सर्वैस्तं मघवंतं जगाद सः ॥४६॥ ततोऽहं योगमार्गेणांऽतर्निष्ठश्चाभवन्नृप । जडोन्मत्तादिमार्गेषु संस्थितो योगकारणात् ॥४७॥ ततः शुको महायोगी गाणपत्यः समागतः । ममाश्रमे स मां दृष्ट्वा जगादेच्छसि किं मुने ॥४८॥ ततस्तं प्रणतो भूत्वा कृतांजलिः पुरः प्रभोः । स्थित्वाऽवदं सुवाक्यं तच्छृणु राजन् सुसिद्धिदम् ॥४९॥ मम श्रेष्ठेन भाग्येन त्वं प्राप्तोऽसि महायशाः । शांतिं वद महायोगिन् यया शांतो भवाम्यहम् ॥५०॥ श्रीशुक उवाच । चित्तं पंचविधं त्यक्त्वा चित्तं कृत्वा च तन्मयम् । निरोधेनैव भूमीनां शांतिं प्राप्स्यसि निश्चितम् ॥५१॥ चिंतामणिं भजस्व त्वं मंत्रेणैकाक्षरेण च । तेन चिंतामणौ विप्र संचित्तः सुभविष्यसि ॥५२॥ त्यक्त्वा जडादिकं मार्गं शमदमपरायणः । गणनाथं महाभाग भज यत्नेन नित्यदा ॥५३॥ एवमुक्त्वा शुको योगी ययौ स्वेच्छापरायणः । गणेशनाम संकीर्त्य जपंश्चैव विशेषतः ॥५४॥ अहं गणपतिं भक्त्याऽभजं संभक्तिसंयुक्तः । एकाक्षरविधानेनाऽऽस्थाप्य मूर्तिं पुरो नृप ॥५५॥ ततः स्वल्पेन कालेन शांतिं प्राप्तोऽहमादरात् । तथापि पूजने सक्तोऽभजं तं गणनायकम् ॥५६॥ दशवर्षे गते काले विघ्नेशो मां समागतः । मया संपूजितो राजन् स्तुतश्च विविधैः स्तवैः ॥५७॥ गाणपत्यपदं दत्त्वा गतः स्वानंदके पुरे । तदादि गाणपत्योऽहं भजामि ब्रह्मनायकम् ॥५८॥ एवमुक्त्वा स राजानं ददौ मंत्रं विधानतः । षडक्षरं स राजर्षिस्तं प्रणम्य ययौ पुरम् ॥५९॥ स आश्विन्यां द्वितीयायां शुक्लायां तु गृहे गतः । तस्मिन् मासे चतुर्थ्यां च शुक्लायां व्रतमारभत् ॥६०॥ जनैः सर्वैः समायुक्त उपोषणपरायणः । मध्याह्ने गणपं तत्र प्रपूज्य विधिवन्नृपः ॥६१॥ रात्रौ जागरणं चक्रे बालवृद्धसमन्वितः । नरैः स्त्रीभि- स्तद्रुतं च कृतं सर्वैर्यथातथम् ॥६२॥ शुक्लां कृष्णां चतुर्थीं ये न कुर्वंति नराधमाः । ताडनीयाः प्रयत्नेन पृथिव्यां यत्र तत्र सः
॥६३॥ घोषेण घोषयामास ततः सर्वे तथाऽभवन् । व्रतं ततो वै बभूव प्रशस्तं भूमिखंडले ॥६४॥ एवं भूमंडले राज्यं कृत्वा पुत्रे निवेद्य सः । वने गत्वा गणेशानं सस्त्रीको नृप आभजन् ॥६५॥ अंते स्वानंदगो भूत्वा ब्रह्मभूतो बभूव ह । तस्य राज्ये स्थिता लोकाः सर्वे स्वानंदगा बभुः ॥६६॥ एवमन्यं दशरथ शृणुष्व त्वं व्रतोद्भवम् । इतिहासं प्रवक्ष्यामि चाश्विन्यां परमाद्भुतम् ॥६७॥ भीमो नाम महाव्याधः पापकर्मपरायणः । मार्गे जनान् निहत्वाऽगृह्य धनं स तुतोष ह ॥६८॥ एकदा वनमध्ये स ब्राह्मणं हंतुमुद्यतः । पलायत द्विजस्तत्र वने भयसमाकुलः ॥६९॥ एतस्मिन्नंतरे तत्राश्वगः शस्त्रधरः पुमान् । धावंश्च ब्राह्मणं दृष्ट्वा भीमं धृत्वा गतः पुरे ॥७०॥ ततो द्विजः सुखेनैव स्वाश्रमं प्रजगाम ह । पुरुषो भीमव्याधं तं राज्ञे दुष्टं न्यवेदयत् ॥७१॥ तत्र सोऽपि क्षुधाविष्टो व्याधः संस्थापितोऽभवत् । राज्ञाऽऽश्विन्यां चतुर्थ्यां वै शुक्लायां दैवयोगतः ॥७२॥ पंचम्यां तं जघानैव ततो व्याधं गजाननः । चतुर्थ्यां क्षुधितत्वात् स ब्रह्मभूतं चकार ह ॥७३॥ एवं नानाजना राजन् चतुर्थीव्रतयोगतः । स्वानंदस्था भवंतीह मया वक्तुं न शक्यते ॥७४॥ चतुर्थीजमिदं चित्रं चरितं कथितं मया । शुक्लाऽऽश्विन्यां समुद्भूतं श्रवणात् सर्वसिद्धिदम् ॥७५॥ शृणुयाद्यः पठेद्वाऽपि भुक्तिं मुक्तिं लभेन्नरः । पुत्रपौत्रादि- संयुक्तः सुहृद्भिर्नृपसत्तम ॥७६॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते शुक्लाऽश्विनी चतुर्थी व्रतवर्णनं नामाष्टमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ वसिष्ठ उवाच । कार्तिके मासि शुक्ला या चतुर्थी सर्वसिद्धिदा । तां शृणुष्व महाभाग इतिहास- समन्विताम् ॥१॥ सूर्यवंशोद्भवो राजा सुधन्वा नीतिसंयुतः । शस्त्रास्त्रबलसंयुक्तो बभूव परमद्युतिः ॥२॥ धर्मशीलो वदान्यश्च सत्यवाक् साधुसंमतः । देवविप्रातिथिप्राज्ञपंचयज्ञपरायणः ॥३॥ भार्या कलावती तस्य बभूवे रूपशालिनी । पतिव्रता महोदारा धर्मशीला विशेषतः ॥४॥ जित्वा भूमंडलं सर्वं राजा तेजस्विनां वरः । पालयामास पृथिवीं स नित्यं धर्मपरायणः ॥५॥ सामंता वशगा यस्य सैन्यं स्म गणनातिगम् । संपच्च धनदेनैव तुल्या सर्वत्र संबभौ ॥६॥ अर्द्धायुषा समायुक्तो बभूव नृपसत्तमः । अकस्मात् कुष्ठसंयुक्तः कीतैः संपीडितोऽभवत् ॥७॥ पूयशोणितघर्मौघैर्व्याप्तो दुर्गंधिसंयुतः ।
पान २८
न चाऽलभत् सुखं किंचिच्छूलप्रोतो यथा नरः ॥८॥ औषधानि विशेषेण सिषेवे यत्नसंयुक्तः । नानामंत्रप्रयोगादि कारयामास मानवैः ॥९॥ अनुष्ठानं द्विजैः सोऽपि वेदमंत्रैः सुखप्रदैः । अकारयत्तथा तेभ्यो न फलं चाऽभवत् कदा ॥१०॥ ततस्तीर्थानि बभ्राम स्नानदानपरायणः । तथापि रोगसंयुक्तोऽधिकं राजा बभूव ह ॥११॥ ततो निवृत्तिमापन्नो जगाद सचिवात्नृपः । राज्यं मे परिपाल्यं वै यावदागमनं पुनः ॥१२॥ सांत्वयित्वा स सस्त्रीकः सुहृदः सर्वनागरान् । वनं ययौ नृपश्रेष्ठो बभ्राम यत्र तत्र च ॥१३॥ ततो गणपतिं राजा सस्मार दुःखसंयुतः । विघ्नहीनार्थमेवं स तत्र चित्रं बभूव ह ॥१४॥ अकस्मात् मुनिशार्दूलः पुलस्त्यस्तत्र चाययौ । तं दृष्ट्वा हर्षसंयुक्तो ननाम प्रियया सह ॥१५॥ कृत्वा करपुटं राजोवाच तं मुनिनायकम् । किं पुण्यं मे पुरा चीर्णं येन दृष्टो भवान् मुने ॥१६॥ धन्यं जन्म तथा ज्ञानं जनको जननी च मे । तपो धर्मादिकं सर्वं त्वदंघ्रियुगदर्शनात् ॥१७॥ एवं विवदमानं तं जगाद मुनिसत्तमः । किमर्थं राजनीतिज्ञ वने त्वं च समागतः ॥१८॥ एवं पृष्ट्वा स राजानं वृक्षच्छायासमाश्रितः । पुलस्त्य उपविश्याथ तमुपावेश्य संबभौ ॥१९॥ ततो राज्ञा स्वकीयो वै वृत्तांतः कथितोऽभवत् । जगाद प्रणनामैवं पुनस्तं हर्षसंयुतः ॥२०॥ सुधन्वोवाच । दयाकराश्च योगींद्राः पुराणेषु वदंति यत् । तदेव सत्यमभवत् त्वां दृष्ट्वा दयया युतम् ॥२१॥ दुःखितं मां विदित्वा त्वं संस्थितो मुनिसत्तम । साक्षात् प्रजापतिः प्रोक्तः पुलस्त्यो ब्रह्मणः सुतः ॥२२॥ सर्वज्ञस्त्वं महायोगिन् न्यायं मे वद मानद । धर्मयुक्ततया राज्यं करोमि स्म निरंतरम् ॥२३॥ पूर्वजन्मकृतं मे किं महापापं समागतम् । येनाऽहं कुष्ठसंयुक्तोऽभवं पश्य दयायुतः ॥२४॥ वसिष्ठ उवाच । सुधन्वनो वचः श्रुत्वा तमुवाच महामुनिः । अत्यंतं पीडितं दृष्ट्वा करुणायुतचेतसा ॥२५॥ पुलस्त्य उवाच । इहजन्मकृतं पापं बुद्ध्यसे न नराधम । तेन कुष्ठयुतो जातः शृणु तत्ते वदाम्यहम् ॥२६॥ तव राज्ये नृपश्रेष्ठ व्रतं गाणेश्वरं महत् । नष्टं चतुर्थीसंज्ञं यत् सर्वसिद्धिप्रदं परम् ॥२७॥ चतुर्णां पुरुषार्थानां साधनं सर्वसंमतम् । तेन प्रोक्ता चतुर्थी सा वरदा संकटा मता ॥२८॥ सर्वादौ न कृतं चेद्वै भवेत् सर्वं सुनिष्फलम् । कृतं कर्म नरेणाऽपि चतुर्वर्गविहीनकम् ॥२९॥ वर्णैः सर्वैः कृतं पापं राजानमुपतिष्ठति । तेन त्वं कुष्ठसंयुक्तोऽधुना जातो नराधम ॥३०॥ मरिष्यसि यदा राजंस्तदा ते नरके गतिः । भविष्यति न संदेहश्चतुर्वर्गविहीनता ॥३१॥ पुलस्त्यवचनं श्रुत्वा दुःखयुक्तो महीपतिः । उवाच तं महाप्राज्ञं कृतांजलिपुटोऽभवत् ॥३२॥ सुधन्वोवाच । भगवन् सर्वतत्त्वज्ञ त्वया यत् कथितं वचः । तदेव सत्यरूपं वै मया ज्ञातं न संशयः
खं. ४ अ. ९ पान २९ ॥३३॥ अधुना तद्व्रतं ब्रूहि कीदृशं कस्य पूजनम् । कस्मिन् काले प्रकर्तव्यं सर्वसिद्धिप्रदायकम् ॥३४॥ कुष्ठनाशार्थमेवं मे वदोपायं महाप्रभो । प्रायश्चित्तं करिष्यामि व्रतलोपप्रदोषहृत् ॥३५॥ एवं पृष्टो महायोगी पुलस्त्यो हर्षसंयुक्तः । तं जगाद गणेशाय नम इत्युपसंस्मरन् ॥३६॥ पुलस्त्य उवाच । अज्ञानेन कृतं दोषं प्रायश्चित्तेन हंति तम् । नरस्तस्मात्त्वमेवाशु व्रतं कुरु जनैः सह ॥३७॥ तेन कुष्ठविहीनस्त्वं सुरूपः प्रभविष्यसि । अनुतापाच्च ते राजन् पापं नष्टं न संशयः ॥३८॥ इत्युक्त्वा तं ततो योगी जगाद व्रतसंभवाम् । कथां सर्वां स संश्रुत्य हर्षयुक्तो नृपोऽभवत् ॥३९॥ उवाच तं मुनिश्रेष्ठं प्रणम्य च पुनः पुनः । धन्यं मे जन्म भो नाथ श्रुतं येन महद्व्रतम् ॥४०॥ नानेन सदृशं किंचिन् मया ज्ञातं महामते । त्वत्तो वद महाप्राज्ञ गणेशस्य स्वरूपकम् ॥४१॥ तज् ज्ञात्वा सर्वभावेन भजिष्यामि महामुने । नित्यं भक्तिसमायुक्तो देवदेवेशमादरात् ॥४२॥ एवं पृष्टः स राजानं वचनं प्रजगाद ह । पुलस्त्यः सर्वभावज्ञो गाणपत्यो महायशाः ॥४३॥ पुलस्त्य उवाच । सुधन्वञ्छृणु मे वाक्यं गणेशज्ञानकारकम् । ब्रह्मभूयमयं पूर्णं योगाकारं विशेषतः ॥४४॥ पुराऽहं योगशांत्यर्थं नानायोगपरायणः । असाधयञ्छ्रमेनैव दमेन मनसो जयात् ॥४५॥ तथापि शांतिहीनोऽहं शरणं शंकरं गतः । तं प्रणम्य महात्मानमपृच्छं योगमुत्तमम् ॥४६॥ ततस्तेन समाख्यातं तच्छृणुष्व नराधिप । येन त्वं गाणपत्यश्च साधनेन भविष्यसि ॥४७॥ श्रीशिव उवाच । योगशांतिमयं विद्धि गणेशं भज भावतः । मनोवाणीविहीनं तं मनोवाणीमयं न च ॥४८॥ मनोवाणीमयं सर्वं संप्रज्ञातसमुद्भवम् । गकाराक्षरगं विद्धि पठ्य वेदे महामते ॥४९॥ मनोवाणीविहीनं यदसंप्रज्ञातगं मतम् । णकाराक्षरसंभूतं नाम्नो गणपतेर्यदि ॥५०॥ तयोः स्वामी गणेशानः शांत्या योगेन लभ्यते । चित्तभूमिनिरोधेन तं भजस्व विनायकम् ॥५१॥ एवमुक्त्वा महादेवो विरराम विशेषवित् । तं प्रणम्य वनं गत्वाऽसाधयं तं सुयत्नतः ॥५२॥ अष्टाक्षरेण मंत्रेण ध्यात्वा गणपतिं नृप । अतोषयं विशेषेण चित्तनिग्रहभावतः ॥५३॥ ततः स्वल्पेन कालेन शांतिं प्राप्तोऽहमात्मनि । तथापि मंत्रराजं तमजपं पूजने रतः ॥५४॥ एकविंशतिवर्षेषु गतेषु स विनायकः । आययौ मे वरं दातुं भक्तानुग्रहकारकः ॥५५॥ तं दृष्ट्वा प्रणतो भूत्वाऽपूजयं तु यथाविधि । स्तौमि नामाष्टकेन स्म कौथुमेन महाप्रभुम् ॥५६॥ गाणपत्यं स मां कृत्वा ययौ स्वानंदके पुरे । तदारभ्याहमत्यंतं भजामि गणनायकम् ॥५७॥ एवमुक्त्वा महीपालं तथा दशरथं स्वयं । मंत्रमष्टाक्षरं तस्मै ददौ विधिसमन्वितम् ॥५८॥ तेन स्तुतो महायोगी पुलस्त्योंऽतर्दधे प्रभुः । राजा स्वनगरे गत्वा कार्तिके
पान ३०
हर्षितोऽभवत् ॥५९॥ जनैः सर्वैर्महाभागश्चकार व्रतमुत्तमम् । कार्तिके शुक्लपक्षस्य चतुर्थ्यां गणपं स्मरन् ॥६०॥ पंचम्यां पारणं चक्रे राजाऽसौ जनसंयुतः । ब्राह्मणेभ्यो ददौ दानं सर्वान् अन्नैस्त्वतोषयत् ॥६१॥ ततः कुष्ठविहीनश्च बभूव स जनाधिपः । सुरूपः कामदेवेन समः शोभाधरो बभौ ॥६२॥ लोका वंध्यत्वदोषेण रोगादिभिः प्रपीडिताः । ते सर्वे दुःखहीनाश्च बभूवुर्व्रतसेवनात् ॥६३॥ ततस्तेन नृपेणाऽथ सर्वत्र भूमिमंडले । प्रकाशितं प्रयत्नेन व्रतं गाणेश्वरं नृप ॥६४॥ ततः शुक्लां तथा कृष्णां चतुर्थी चक्रिरे जनाः । तेनाऽऽनंदसमायुक्ता बुभुजुर्विविधं सुखम् ॥६५॥ ततः सुधन्वा स्थाप्य स्वं पुत्रं राज्ये महामतिः । एकांते संस्थितो भूत्वाऽभजत्तं गणपं सदा ॥६६॥ अंते स्वानंदगो भूत्वा ब्रह्मभूतो बभूव ह । तथा जनाश्च सर्वे ते स्वानंदस्था बभूविरे ॥६७॥ एवं ते कथितं राजन्नथो शृणु महामते । महिमानं व्रतस्यैव सर्वसिद्धिकरस्य ह ॥६८॥ माहिष्मत्यां च चांडालो वसन् कः पापकारकः । प्राप्य कार्तिकगां शुक्लां चतुर्थी स वने गतः ॥६९॥ तत्र व्याघ्रेण संदृष्टः पलायन् वृक्षमारुहत् । व्याघ्रो वृक्षतले तत्र संस्थितस्तं प्रतीक्षयन् ॥७०॥ तत्र रात्रिर्गता तस्य चांडालस्य प्रजागरः । संपूर्णश्चाभवद्भूष पुनश्चित्रं बभूव ह ॥७१॥ समागतो महासर्पो वनस्थो वृक्षमारुहत् । पपात भयभीतः स तं दृष्ट्वा कंपवेगतः ॥७२॥ व्याघ्रेण संगृहीतः स पंचम्यां भक्षितोऽभवत् । स विमानं समारुह्य ययौ स्वानंदकं पुरम् ॥७३॥ अज्ञातव्रतजेनैव पुण्येन गणपं गतः । दृष्ट्वा योगपरो भूत्वा ब्रह्मभूतो बभूव सः ॥७४॥ एवं नृप अपारा वै चतुर्वर्गफलैर्युताः । ब्रह्मभूताश्च संजाताश्चतुर्थीव्रतकारकाः ॥७५॥ कार्तिके शुक्लपक्षस्य चतुर्थ्या महिमा मया । कथितो लेशतो भूप श्रोतुमिच्छसि किं पुनः ॥७६॥ शृणुयाच्चः पठेद्वाऽपि स वै सर्वार्थसिद्धिभाक् । पुत्रपौत्रादिसंयुक्तः प्रभवेद्गणपप्रियः ॥७७॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते कार्तिकशुक्लचतुर्थीवर्णनं नाम नवमोऽध्यायः ॥
खं. ४ अ. १० पान ३१ ॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । गणेशस्य कथां श्रुत्वा हर्षश्चेतसि जायते । मार्गशीर्षे च या शुक्ला तां मे वद मुने यतः ॥१॥ वसिष्ठ उवाच । अत्र ते वर्णयिष्येऽहमितिहासं पुरातनम् । मार्गशीर्षे चतुर्थ्यां यः शुक्लायामभवन्नृप ॥२॥ काशीपतिः पुरा राजा पुण्यकीर्तिर्बभूव ह । अजातशत्रुको नाम सर्वशास्त्रविशारदः ॥३॥ देवद्विजातिथिप्रेप्सुर्नाना- धर्मपरायणः । प्रजानां पालने सक्तो यथाशास्त्रेण मानदः ॥४॥ तत्रैव नारदोऽकस्मान्नृपं द्रष्टुं समागतः । तं प्रणम्य महात्मानं पूजयामास भक्तितः ॥५॥ स्वयं पादस्य संवाहं चकार नृपसत्तमः । उवाच तं प्रहर्षेण नारदं सर्वगं परम् ॥६॥ अजातशत्रुरुवाच । धन्यं मे जन्म पुत्रादि राज्यं निहतकंटकम् । धन्यौ च जनकौ ज्ञानं त्वदंघ्रियुगदर्शनात् ॥७॥ सर्वसारं वदस्व त्वं योगशांतिप्रदायकम् । येन संसारदुःखेभ्यो मुच्यते मानवः क्षणात् ॥८॥ ततस्तं नारदो योगी गाणपत्या- ग्रणीर्नृप । जगाद हर्षसंयुक्तो वाक्यं सारमयं हसन् ॥९॥ नारद उवाच । सम्यक् पृष्टं त्वया राजन् सर्वेभ्यो ब्रह्मदं परम् । शृणु ते कथयिष्यामि योगं शांतिप्रदायकम् ॥१०॥ ब्रह्म नानाविधं वेदे वर्णितं पात्रभेदतः । न मुख्यं ब्रह्मभूतत्वं तदेव भवति प्रभो ॥११॥ ब्रह्मणस्पतिनामानं गणेशं भज भावतः । चित्तवृत्तिनिरोधेन चिंतामणिर्भविष्यसि ॥१२॥ गणेशोऽहं न संदेहो मम तत्र कथं भवेत् । संयोगायोगकं राजन् तेन शांतिमवाप्स्यसि ॥१३॥ तस्य व्रतं महाभाग चतुर्थीसंज्ञकं महत् । राज्ये नष्टे च तेन त्वं नारकी प्रभविष्यसि ॥१४॥ धर्मार्थकाममोक्षाणां प्रदं पूर्णं प्रकीर्तितम् । चतुर्थीसंज्ञकं राजन वरदं संकटं मतम् ॥१५॥ नानाकर्माणि कुर्वंति नराः सर्वार्थसिद्धये । चतुर्थीव्रतहीनाश्चेन्निष्फलाः प्रभवंति ते ॥१६॥ इत्युक्त्वा तं महायोगी नारदः करुणायुतः । माहात्म्यं कथयामास चतुर्थीसंभवं नृप ॥१७॥ ततस्तं नृपवर्यः स प्रणम्य भावसंयुतः । पप्रच्छ सर्वमार्गज्ञं गणेशोपासनं पुनः ॥१८॥ अजातशत्रुरुवाच । ब्रह्मणस्पतिमाहात्म्यं श्रुतं मया महामते । तस्योपासनमार्गं मे वद सर्वज्ञ ते नमः ॥१९॥ नारद उवाच । एकाक्षरविधानेन भज ढुंढिं विनायकम् । तेन साध्यो गणेशस्ते प्रत्यक्षश्च भविष्यति ॥२०॥ तस्मै स विधिना सर्वं गणेशोपासनं ददौ । मंत्रमेकाक्षरं सांगं ततश्चांतर्हितोऽभवत् ॥२१॥ तत्राऽऽदौ मार्गशीर्षस्या संप्राप्ता शुक्लगा नृप। चतुर्थी सा कृता तेनोपोषणेन यथाविधि ॥२२॥ जनैः सर्वैस्तथा राजन् कृता सर्वप्रदायिनी । ततस्तेन च सर्वत्र प्रशस्ता सुकृताऽभवत् ॥२३॥ शुक्लां कृष्णां चतुर्थीं ये न कुर्वंति नराधमाः । स्त्रियश्चे- त्ताडनीयास्ते महापापिन एव च ॥२४॥ ढुंढिराजं नृपाध्यक्षो नित्यं संपूज्य यत्नतः । भक्त्याऽभजत् संबभूव योगींद्रो म. पु. ५
खं. ४ अ. ११ | पान ३२ योगिसंमतः ॥२५॥ ततो बहुगते काले प्रत्यक्षः स गजाननः । बभूव तस्य भूपस्य वरं ब्रूहि तमब्रवीत् ॥२६॥ स्तुतः संप्रूजितस्तेन ढुंढिराजस्तुतोष ह । गाणपत्यं चकाराऽसौ नृपं चाजातशत्रुकम् ॥२७॥ ईप्सितं तं वरं दत्त्वा तत्रैवांतरधीयत ढुंढिराजं तमभजत् राजेंद्रोऽनन्यचेतसा ॥२८॥ अंते नागरसंयुक्तो जगाम गणपं नृपः । सर्वैर्बभूव च ब्रह्मभूतो वै योगिसंमतः ॥२९॥ एवं शुक्लचतुर्थ्यां ते मार्गशीर्षेऽभवन् महत् । माहात्म्यं कथितं राजन् संक्षेपेण न संशयः ॥३०॥ अन्यत् कथांतरं भूप शृणु सर्वभयापहम् । वेश्याया व्रतसंयोगाद्ब्रह्मभूयकरं महत् ॥३१॥ मिथिलायां कदाचित् का वेश्या नरविमोहिनी । आगता तां निरीक्ष्यैव मोहिताः सकला नराः ॥३२॥ राज्ञा संमानिताऽत्यंतं तत्र वासमरोचयत् । कदाचित्तीर्थगा सा वै संदृष्टा रक्षसा पुरः ॥३३॥ तां संगृह्य ययौ रक्षः स्ववासं हर्षसंयुतः । सा तं दृष्ट्वा भयोद्विग्ना विललाप भृशातुरा ॥३४॥ रक्षसा सांत्विता तत्र न शोकं साऽत्यजत् कदा । तस्मिन् काले चतुर्थी वै शुक्ला मार्गे समागता ॥३५॥ अतिशोकक्तया राजन्न बभक्ष जलादिकम् । पंचम्यां सा मृता तत्र भययुक्तेन चेतसा ॥३६॥ ततो गणेशदूतेन नीता स्वानंदके पुरे । ब्रह्मभूता च सा जाता व्रतपुण्यप्रभावतः ॥३७॥ अज्ञानेन कृतं चैतत् वरदाख्यं व्रतं महत् । ब्रह्मसायुज्यदं प्रोक्तं किं पुनर्ज्ञानभावतः ॥३८॥ मार्गशीर्षगतायाश्च शुक्लायाः कुरुते नरः । चतुर्थ्या लभते सोऽपि सर्वार्थ संशृणोति यः ॥३९॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते मार्गशीर्षशुक्लचतुर्थीवर्णनं नाम दशमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । श्रुतं यन् मार्गशुक्लस्थचतुर्थी संज्ञितं मया । व्रतं तेन महाभाग संतृप्तो गुरुसत्तम ॥१॥ अधुना पौषमासे या चतुर्थी वरदायिनी । तस्या माहात्म्यमेवं मे ब्रूहि त्वं मुनिसत्तम ॥२॥ वसिष्ठ उवाच । शृणु राजंश्च माहात्म्यं संक्षेपेण वदाम्यहम् । विस्तरेण तु को वक्तुं समर्थः प्रभवेद्भुवि ॥३॥ अवंतीनगरीमध्येऽवसत्तु ब्राह्मणोत्तमः । सुदंत इति विख्यातः सर्वशास्त्रविशारदः ॥४॥ राज्ञः पुरोहितः श्रेष्ठः सदा नीतिपरायणः । धर्मशास्त्रानुसारेण राजानमप्यबोधयत् ॥५॥ राजा बृहद्रथो नाम तदाज्ञावशगोऽभवत् । पालयामास भूमिं स नानाधर्मकरः परः ॥६॥
सं. ४ अ. ११ | पान ३३ सुदंतस्याऽभवद्भार्या नाम्ना ख्याता विलासिनी । बभूव कर्मदोषेण वंध्या सा वै पतिव्रता ॥७॥ अपत्यं सुषुवे सा यज्जातमात्रं मृतं भवेत् । तदर्थं व्रतदानादिधर्मं चक्रे च स द्विजः ॥८॥ नाऽभवत्तस्य तदपि पुत्रः परमंसौख्यदः । विप्रोऽतिदुःखितः सस्त्रीको जगाम वनं ततः ॥९॥ बभ्राम भ्रांतचित्तोऽसौ यत्र तत्र महामतिः । मरणे निश्चयं कृत्वा तपोयुक्तो बभूव ह ॥१०॥ तत्राऽऽजगाम योगींद्रो वामदेवः प्रतापवान् । यदृच्छाविचरंस्तेन दृष्टः संनमितोऽभवत् ॥११॥ पूजयित्वा महात्मानं वामदेवं कृतांजलिः । जगाद खेदसंयुक्तः सुदंतो योगिसत्तमम् ॥१२॥ सुदंत उवाच । वामदेव च मे धन्यं दुःखितस्य तपो वयः । ज्ञानादिकं विशेषेण त्वत्पादपद्मदर्शनात् ॥१३॥ वंध्योऽहं मुनिशार्दूल का गतिर्मे भविष्यति । मृतस्य स्वर्ग- हीनस्य वद योगींद्रसत्तम ॥१४॥ वामदेव उवाच । शृणु द्विज महाभाग त्वं सदा धर्मसंयुक्तः । तथापि पापचारी त्वं येन जातः शृणुष्व तत् ॥१५॥ अवंतीपुरपालस्य आदरात्त्वं पुरोहितः । राज्ञा कृतं महत्पापं यत्तदेव त्वया कृतम् ॥१६॥ चतुर्थीव्रतलोपश्च बभूवे भूममंडले । चतुर्वर्गफलैर्हीना जाता भूवासिनो जनाः ॥१७॥ धर्मस्याऽऽचरणं पूर्णं कृतं राज्ञा तथा त्वया । निष्फलं व्रतलोपेन तेन त्वं दुःखितोऽधुना ॥१८॥ एवं श्रुत्वा वचो रम्यं वामदेवस्य धीमतः । विस्मितस्तं सुदंतोऽसौ जगाद विनयान्वितः ॥१९॥ सुदंत उवाच । कीदृशं तद्व्रतं तात वद मे हितकारकम् । चतुर्णां पुरुषार्थानां साधकं कथमाभवत् ॥२०॥ तेन हीनो नरो यस्तु स कथं फलहीनकः । कर्मणस्तत् समाचक्ष्व दयासागर मानद ॥२१॥ वसिष्ठ उवाच । एवं पृष्टो महायोगी तज्जगाद सविस्तरम् । माहात्म्यं सकलं तस्मै स श्रुत्वा विस्मितोऽभवत् ॥२२॥ पुनः पप्रच्छ तं विप्रो हर्षयुक्तेन चेतसा । गणेशज्ञानबोधार्थं गाणपत्यं महामुनिम् ॥२३॥ सुदंत उवाच । कीदृशोऽयं गणाधीशो वद तस्य स्वरूपकम् । ज्ञात्वा तं प्रभजिष्यामि नित्यं भक्तिसमन्वितः ॥२४॥ एवं पृष्टो महायोगी वामदेवस्तमब्रवीत् । गणेश- बोधदाने स कुशलः सर्वपारगः ॥२५॥ वामदेव उवाच । सुदंत शृणु विप्रर्षे गाणेशं ज्ञानमुत्तमम् । गाणपतयो येन भक्तिभावितो भविताऽसि भोः ॥२६॥ अहं पुरा तपोनिष्ठस्त्वभवं यत्नसंयुक्तः । तपसा मे महाभाग व्याप्तं सर्वं चराचरम् ॥२७॥ ततो मया तपस्त्यक्तं योगार्थं ब्राह्मणोत्तम । शमे दमे परेणांतर्निष्ठेन मनसो जयात् ॥२८॥ योगभूमिक्रमेणाऽहं कालेन महता द्विज । सहजे संस्थितो भूत्वा यत्र तत्राऽचरं तु च ॥२९॥ सहजं मोहहीनं यत् स्वाधीनत्वसमायुतम् । दृष्ट्वा शांत्यर्थ- मत्यंतं तत् त्यक्तं च मया ततः ॥३०॥ संधृतं मनसि ब्रह्म मनोवाणीविवर्जितम् । कथं स्वाधीनता तत्र निर्मोहश्च प्रवर्तते
खं. ४ अ. ११ पान ३४ ॥३१॥ अधुना किं मया कार्यं विचार्य शरणं गतः । शंकरं योगिवंद्यं तं शैवोऽहं प्रणतोऽभवम् ॥३२॥ शैवमार्गे रतं नित्यं दृष्ट्वा हर्षसमन्वितः । शंभुः प्रोवाच मां विप्र स्थीयतां मुनिसत्तम ॥३३॥ किमर्थमागतस्तात वामदेव महामते । वद मे सकलं वृत्तं करिष्यामि प्रियं च ते ॥३४॥ शिवस्य वचनं श्रुत्वा संस्थितोऽहं कृतांजलिः । अवदं तं महादेवं भक्तवाञ्छा- सुरद्रुमम् ॥३५॥ सहजं यत्परं ब्रह्म शैवं स्वेच्छामयं प्रभो । तस्मात् परं न विद्येत तथापि नुद संशयम् ॥३६॥ ब्रह्मणि ब्रह्मभूतस्य स्वेच्छा तत्र कुतो भवेत् । स्वाधीनता दोषयुक्तं सहजं न परं मतम् ॥३७॥ अतः शांत्यर्थमेव त्वामहं प्रष्टुं समागतः । योगशांतिप्रदं पूर्णं वद मां करुणानिधे ॥३८॥ वसिष्ठ उवाच । वामदेववचः श्रुत्वा हर्षितः शंकरोऽब्रवीत् । तं पुनः सर्वयोगज्ञो गाणपत्यस्वभाववान् ॥३९॥ श्रीशिव उवाच । योगशांतिप्रदं पूर्णं गणेशं विद्धि भो मुने । जानीहि न परं ब्रह्म सहजं योगसेवया ॥४०॥ स्वानंदाद्यात् समुत्पन्नमसत्यं सत्यरूपकम् । समं च सहजं विद्धि चतुर्धाऽसौ विभज्यते ॥४१॥ चतुर्णामत्र संयोगे स्वानंदः परिकीर्तितः । अयोगे नैव संयोगः केषांचिद्ब्रह्मणां भवेत् ॥४२॥ गकाराक्षरगं ज्ञानं विद्धि तन्निजबोधतः । णकाराक्षरगं ज्ञानं निवृत्या लभ्यते जनैः ॥४३॥ तयोः स्वामी गणेशानो योगरूपः प्रकीर्तितः । शांत्याऽसौ लभ्यते विप्र शांतिभ्यः शांतिदायकः ॥४४॥ चित्तं पंचविधं विद्धि बुद्धिरूपं न संशयः । चित्ते मोहात्मिका सिद्धिर्माये ते परिकीर्तिते ॥४५॥ तयोर्बिंबं गणेशश्च बिंबिभावं त्यज प्रभो । अधुना गणनाथस्त्वं भविष्यसि न संशयः ॥४६॥ एवमुक्त्वा महादेवस्तस्मै मंत्रं ददौ पुनः । एकाक्षरं गणेशस्य सविधिं करुणायुतः ॥४७॥ तं प्रणम्य महेशानं वने यातोऽहमादरात् । तत्रैव गणनाथं तमभजं भक्तिसंयुतः ॥४८॥ एकाक्षरविधानेन संतुष्टो गणनायकः । योगशांतिं ददौ पूर्णां भक्तवात्सल्यकारणात् ॥४९॥ ततोऽहं योगिवंद्यश्च जातः सर्वत्र संमतः । तथापि विघ्नदहनमभजं नित्यमादरात् ॥५०॥ गतेषु दशवर्षेषु गणाधीशः समाययौ । ममाश्रमं वरं दातुमुवाच घननिःस्वनः ॥५१॥ गणेश उवाच । वामदेव महाभाग वरं वृणु हृदीप्सितम् । तव दास्यामि भक्त्याऽहं संतुष्टो योगिसत्तम ॥५२॥ गणेशस्य वचः श्रुत्वा त्यक्त्वा ध्यानं समुत्थितः । प्रणम्य तं गणेशं संपूज्य स्तोतुं प्रचक्रमे ॥५३॥ वामदेव उवाच । गणेशाय नमस्तुभ्यं सदा स्वानंदवासिने । सिद्धिवुद्धिपते तुभ्यं विघ्नेशाय नमो नमः ॥५४॥ मूषकारूढ हेरंब भक्तवाञ्छाप्रपूरक । ढुंढिराजाय ते देव रक्ष मां ते नमो नमः ॥५५॥ आदिमध्यांतहीनाय लंबोदर नमोऽस्तु ते । आदिमध्यांतरूपाय शंकरप्रियसूनवे ॥५६॥ नानामायाधरायैव
यहाँ प्रस्तुत पृष्ठ का मूल देवनागरी पाठ (लाइन-दर-लाइन) दिया गया है:
[शीर्षक/Header] खं. ४ अ. ११ | पान ३५
[मूल पाठ / Sanskrit Text]
मायिभ्यो मोहदायिने । मायामायिकभेदैस्त्वं क्रीडसे ते नमो नमः ॥५७॥ विष्णुपुत्राय शेषस्य पुत्राय ब्राह्मणाय ते । ब्रह्मपुत्राय सर्वेश सर्वपुत्राय ते नमः ॥५८॥ सर्वेषां चैव पित्रे ते मात्रे सर्वात्मकाय ते । महोदराय देवेंद्रपाय ज्येष्ठाय वै नमः ॥५९॥ महोग्राय महेशाय विष्णवे प्रभविष्णवे । अमृताय तु सूर्याय नानाशक्तिस्वरूपिणे ॥६०॥ पुरुषाय प्रकृतये गुणेशाय गुणात्मने । एकानेकात्मकार्याय विघ्नकर्त्रे नमो नमः ॥६१॥ भक्तेभ्यः सर्वदात्रे ते ब्रह्मणं पतये नमः । योगाय योगनाथाय योगिनां पतये नमः ॥६२॥ स्तौमि किं त्वां गणेशान मनोवाणीविहीनकम् । मनोवाणीमयं नैवातस्ते देव नमोऽस्तु ते ॥६३॥ सहसैवं संस्तुवतस्तस्य भक्तिरसेन च । रोमोद्गमः प्रादुरासीत् कंठरोधो बभूव ह ॥६४॥ उवाच वामदेवं स नृत्यंतं विघ्ननायकः । वरं वृणु महाभाग यत्ते चित्ते स्थितं परम् ॥६५॥ त्वया कृतमिदं स्तोत्रं सर्वसिद्धिकरं परम् । शृणोति यः पठति चेत्तस्मै योगप्रदं तथा ॥६६॥ भक्तिदं भक्तियुक्तेभ्यः पुत्रपौत्रादिकप्रदम् । धनधान्यप्रदं प्रोक्तं मयि प्रीतिविवर्धनम् ॥६७॥ गणेशवचनं श्रुत्वा तं जगाद महामुनिः । वामदेवः प्रसन्नात्मा ब्रह्मेशं ब्रह्मभावितः ॥६८॥ भक्तिं देहि गणाधीश गाणपत्यां विशेषतः । नान्यं याचे वरं देव यदि तुष्टोऽसि विघ्नप ॥६९॥ तथेति तमुवाचैव गणेशोऽन्तर्दधे स्वयम् । वामदेवः प्रसन्नात्मा गाणपत्यो बभूव ह ॥७०॥ तदादि शांतिमापन्नस्त्वहं विप्र महामते । अतस्त्वं गणराजं तं भज शांतिमवाप्स्यसि ॥७१॥ एकाक्षरं महामंत्रं सुदंताय ददौ ततः । सविधिं वामदेवः सोऽन्तर्धानमकरोन् मुनिः ॥७२॥ सुदंतो विस्मितो भूत्वा ययौ स्वस्थानमुत्तमम् । राज्ञा सम्मानितः सोप्यभजत्तं गणनायकम् ॥७३॥ बृहद्रथाय वृत्तांतं कथयामास भो नृप । तदाज्ञया नृपः सद्यो घोषयामास तद्भुतम् ॥७४॥ तत्रादौ पौषमासे या चतुर्थी शुक्लगाऽऽगता । तां चकार द्विजः सद्यो जनै राज्ञा पुरः स्थितैः ॥७५॥ व्रताचरणमात्रेण गर्भयुक्ता बभूव ह । मुनिपत्नी सुतं लेभे ज्ञानयुक्तं चिरायुषम् ॥७६॥ ततो भूमितले सर्वे चक्रुर्व्रतमनुत्तमम् । शौक्लं कार्ष्णं विशेषेण चतुर्थीसंज्ञितं नृप ॥७७॥ सर्वे रोगादिभिर्हीना जाताः पुत्रादिसंयुताः । धनधान्यादिभिर्युक्ता अंते स्वानंदगा बभुः ॥७८॥ सुदंतो योगिवंद्यश्च बभूवे योगसेवया । राजाऽपि ज्ञानसंयुक्तो गाणपत्यो बभूव ह ॥७९॥ पौषशुक्लचतुर्थीजमेतत्ते कथितं व्रतम् । राजन् सर्वार्थदं पूर्णं पुनस्त्वं शृणु मानद ॥८०॥ वैश्यो मार्गे स्थितः सोऽपि श्रमयुक्तो धनप्रियः । तत्र चोरैः समायातैर्लुंठितं तैर्धनं महत् ॥८१॥ तेषां शस्त्राभिघातेन पपात धरणीतले । वैश्यो वने दुःखितश्च विललाप भृशातुरः ॥८२॥ दैवयोगेन सा देवी चतुर्थी
शुक्लगा गता । पौषी तस्यां जलाद्यैश्च हीनस्तत्र बभूव सः ॥८३॥ रात्रौ जागरणं तस्य संजातं पीडया तदा । पंचम्यां स मृतः पापी धनलुब्धो महामते ॥८४॥ अज्ञातव्रतजेनैव महिम्ना सोऽपि भूपते । स्वानंदे गणपं दृष्ट्वा ब्रह्मभूतो बभूव ह ॥८५॥ एवं जना व्रतेनैव मुक्ताः संसारसागरात् । इह भुक्त्वाऽखिलान् भोगान् वर्णितुं तन्न शक्यते ॥८६॥ इदं पौषचतुर्थ्यास्तु माहात्म्यं यः शृणोति चेत् । पठेद्द्वै तस्य भो राजन् सर्वदं प्रहविष्यति ॥८७॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते पौषशुक्लचतुर्थीमाहात्म्यवर्णनं नामैकादशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । चतुर्थ्या महिमानं च श्रुत्वा हर्षः प्रवर्धते । न तृप्यामि महायोगिन्नमृताधिकं मतम् ॥१॥ माघे शुक्लचतुर्थी या तस्या माहात्म्यमुत्तमम् । वद येन जनाः सर्वे भवंति सुखभोगिनः ॥२॥ वसिष्ठ उवाच । माघी शुक्ला चतुर्थी या तस्यां जातो विनायकः । कश्यपस्य गृहे साक्षादंगारकयुता नृप ॥३॥ मुद्गल उवाच । एवमुक्त्वा वसिष्ठस्तं विनायकचरित्रकम् । कथयामास भो दक्ष देवांतकवधाश्रितम् ॥४॥ श्रुत्वा सोऽपि मुदा युक्तो बभूवाजस्य नंदनः । पुनस्तं प्रेरयामास व्रतार्थं मुनिमादरात् ॥५॥ तस्यादरं स विज्ञाय वसिष्ठस्तमुवाच ह । हर्षेण महता युक्तो गाणपत्येंद्र- सत्तमः ॥६॥ वसिष्ठ उवाच । अत्र ते वर्णयिष्येऽहमितिहासं पुरातनम् । श्रुतश्चेत् सर्वदः पूर्णो भविष्यति नरोत्तम ॥७॥ कर्णाटे भानुपुर्यां च राजा परमधार्मिकः । देवविप्रातिथिप्रेप्सुर्नरीत्या राज्यं चकार सः ॥८॥ शस्त्रास्त्रज्ञो विशेषेण नाम्ना सोमश्च वीर्यवान् । जित्वा भूमंडलं सर्वं चक्रे सौराज्यमुत्तमम् ॥९॥ भार्या यशोवती तस्य नाम्ना पूर्णपतिव्रता । धर्मशीला रता दाने बभूवे रूपशालिनी ॥१०॥ तस्याऽपि दीर्घकालेन कुर्वतो राज्यमुत्तमम् । अनावृष्टिभवं दुःखं प्राप्तं परमदारुणम् ॥११॥ स तु शौनकनामानं मुनिं सर्वार्थकोविदम् । ययौ दुःखनिवृत्त्यर्थं गाणपत्यं वने पुरात् ॥१२॥ महावनं समासाद्य तं ननाम महामुनिम् । साष्टांगं च पुरस्तस्य कृतांजलिपुटोऽभवत् ॥१३॥ उवाच तं मुनिश्रेष्ठं सोमो विनयसंयुतः । धन्यं मे जन्म कर्माद्यं येन दृष्टो भवान् मुने ॥१४॥ वदंतमेवं राजानमुवाच शौनको मुनिः । सर्वशास्त्रार्थतत्त्वज्ञो न्यस्तस्वपरविभ्रमः ॥१५॥ शौनक उवाच । पुरा राजन् महाभाग वद मां सकलं तव । चेष्टितं यद्वने कस्मादागतो दुर्गमे च मे ॥१६॥ एवं पृष्टो मुनींद्रेण सोमस्तं प्रत्युवाच ह । हर्षयुक्तेन चित्तेन मुनिं वेदज्ञमुत्तमम् ॥१७॥ सोम उवाच । कर्णाटे भानुपुर्यां मे वसतिर्धर्ममिच्छतः ।