भारतकोश
संग्रह पर लौटें

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

खं. ४ अ. ४२ | पान १०८

ते । शांतीनां शांतिरूपाय नमो योगाय वै नमः ॥२०॥ एकदंताय सर्वेश वक्रतुंडाय ते नमः । महोदराय पूर्णाय पूर्णानंदाय ते नमः ॥२१॥ सर्वेषां मूलबीजाय मात्रे पित्रे नमो नमः । ज्येष्ठराजाय ज्येष्ठानां पालकाय नमो नमः ॥२२॥ बीजरूपं गणाधीश जगतां ब्रह्मणां गजम् । चिह्नेन लभ्यसे तेन गजानन नमोऽस्तु ते ॥२३॥ बोधहीनाय रूपाय सदा सांख्यमयाय च । विदेहाय नमस्तुभ्यं प्रत्यक्षं रूपधारिणे ॥२४॥ यं स्तोतुं न समर्थाश्च वेदा योगिशिवादयः । तं किं स्तौमि गणाधीश नमस्ते वरदो भव ॥२५॥ त्वद्दर्शनजमाहात्म्यात् संस्तुतोऽसि महाप्रभो । तेन मेऽभयदो भूत्वा रक्ष दासं विशेषतः ॥२६॥ एवं स्तुत्वा महालोभः प्रणनाम गजाननम् । तमुवाच दयासिंधुर्भक्तं भक्तप्रपालकः ॥२७॥ गजानन उवाच । वरं वृणु महालोभ ददामि मनसीप्सितम् । प्रसन्नोऽहं विशेषेण भक्त्या काव्यप्रदत्तया ॥२८॥ त्वया कृतमिदं स्तोत्रं सर्वसिद्धिकरं भवेत् । पठतः शृणवतश्चैव लोभ तं नैव पीडय ॥२९॥ पुत्रपौत्रादिसंयुक्तो भुक्त्वा भोगान् मनेप्सितान् । अंते स्वानंदलोके स ब्रह्मभूतो भविष्यति ॥३०॥ यः स्तौति मामनेनैव स मे मान्यो न संशयः । सदा सुरस्वभावेन हीनः सोऽपि भविष्यति ॥३१॥ त्वां हंतुं क्रोधसंयुक्त आगतोऽहं न संशयः । शरणागतमेवं तु दानवोत्तम हन्मि न ॥३२॥ गजाननवचः श्रुत्वा लोभो हर्षसमन्वितः । उवाच तं महाबुद्धिर्भावेन ब्रह्मनायकम् ॥३३॥ लोभासुर उवाच । गजानन वरं मे त्वं देहि संपूर्णदायक । तव भक्तिस्वरूपं च गाणपत्यप्रियात्मताम् ॥३४॥ स्थानं देहि विशेषेण प्रभो वृत्तिं च शाश्वतीम् । कार्यं कथय सर्वेश करिष्यामि गजानन ॥३५॥ गजानन उवाच । मदीया भक्तिराद्या ते भविष्यति महामते । गाणपत्येषु ते स्नेहो वृद्धिं यास्यति नित्यदा ॥३६॥ स्वस्थाने त्वं स्थिरो भूत्वा तिष्ठ मे भक्तिसंयुक्तः । यत्र मे स्मरणं नास्ति पूजनं वाऽसुरोत्तम ॥३७॥ आदौ कर्मादिषु प्राज्ञ तत् समाहर नित्यदा । यथा देवाः प्रिया मे तु तथा त्वमपि लोभक ॥३८॥ मम भक्ताश्च ये दैत्य तान् रक्षस्व विशेषतः । मदीयभक्तिरूपं तु लोभ वर्धय तेषु वै ॥३९॥ एवमुक्तः प्रभुं लोभस्तं प्रणम्य गजाननम् । काव्येन सहितः सोऽपि स्वपुरं प्रययौ प्रभो ॥४०॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते लोभासुरशांतित्वर्णनं नाम द्विचत्वारिंशोऽध्यायः ॥

खं. ४ अ. ४३ पान १०९ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । शांतिरूपधरं लोभं दृष्ट्वा देवर्षयोऽमलाः । गजाननं निजं नाथं हर्षिता नेमुरादरात् ॥१॥ गजाननं पूजयित्वा विधानेन सुरर्षयः । पुनः प्रणम्य तं सर्वे तुष्टुवुः करसंपुटैः ॥२॥ विदेहरूपं भवबंधहारं सदा स्वनिष्ठं स्वसुखप्रदं तम् । अमेयसांख्येन च लभ्यमीशं गजाननं भक्तियुता भजामः ॥३॥ मुनींद्रवंद्यं विधिबोधहीनं सुबुद्धिदं बुद्धिधरं प्रशांतम् । विकालहीनं सकलांतगं वै गजाननं भक्तियुता भजामः ॥४॥ अमेयरूपं हृदि संस्थितं तं ब्रह्माहमेकं भ्रमनाशकारम् । अनादिमध्यांतमपाररूपं गजाननं भक्तियुता भजामः ॥५॥ जगत्प्रमाणं जगदीशमेवमगम्यमाद्यं जगदादि- हीनम् । अनात्मनां मोहप्रदं पुराणं गजाननं भक्तियुता भजामः ॥६॥ न भूर्न रूपं न जलं प्रकाशं न तेजसिस्थं न समीरण- स्थम् । न खे गतं पंचविभूतिहीनं गजाननं भक्तियुता भजामः ॥७॥ न विश्वगं तैजसगं न प्राज्ञं समष्टिव्यष्टिस्थमनंतगं न । गुणैर्विहीनं परमार्थभूतं गजाननं भक्तियुता भजामः ॥८॥ गुणेशगं नैव च बिंदुसंस्थं न देहिनं बोधमयं न हुंढिम् । संयोगहीनाः प्रवदंति तत्स्थं गजाननं भक्तियुता भजामः ॥९॥ अनागतं नैव गतं गणेशं कथं तदाकारमयं वदामः । तथापि सर्वं प्रभुदेहसंस्थं गजाननं भक्तियुता भजामः ॥१०॥ यदि त्वया नाथ कृतं न किंचित्तदा कथं सर्वमिदं विभाति । अतो महात्मानमचिंत्यमेव गजाननं भक्तियुता भजामः ॥११॥ सुसिद्धिदं भक्तजनस्य देवं स कामिकानामिह सौख्यदं तम् । अकामिकानां भवबंधहारं गजाननं भक्तियुता भजामः ॥१२॥ सुरेंद्रसेव्यं ह्यसुरैः सुसेव्यं समानभावेन विराजयंतम् । अनंतवाहं मुषकध्वजं तं गजाननं भक्तियुता भजामः ॥१३॥ सदा सुखानंदमये जले च समुद्रजे चेक्षुरसे निवासम् । द्वंद्वस्य पानेन च नाशरूपे गजाननं भक्तियुता भजामः ॥१४॥ चतुःपदार्था विविधप्रकाशास्त एव हस्ताः स चतुर्भुजं तम् । अनाथनाथं च महोदरं वै गजाननं भक्तियुता भजामः ॥१५॥ महाखुमारूढमकालकालं विदेहयोगेन च लभ्यमानम् । अमायिनं मायिकमोहदं तं गजाननं भक्तियुता भजामः ॥१६॥ रविस्वरूपं रविभासहीनं हरिस्वरूपं हरिबोधहीनम् । शिवस्वरूपं शिवभासनाशं गजाननं भक्तियुता भजामः ॥१७॥ महेश्वरीस्थं च सुशक्तिहीनं प्रभुं परेशं परवंद्यमेवम् । अचालकं चालकबीजभूतं गजाननं भक्तियुता भजामः ॥१८॥ शिवादिदेवैश्च खगैः सुवंद्यं नरैर्लतावृक्षपशुप्रभूमिः । चराचरैर्लोकविहीनमेवं गजाननं भक्तियुता भजामः ॥१९॥ मनोवचोहीनतया सुसंस्थं निवृत्तिमात्रं ह्यजमव्ययं तम् । तथापि देवं पुर आस्थितं तं गजाननं भक्तियुता भजामः ॥२०॥ वयं सुधन्या गणपस्तवेन तथैव नत्यार्चनतस्तवैव ।

पान ११०

गणेशरूपाश्च कृतास्त्वया तं गजाननं भक्तियुता भजामः ॥२१॥ गजाख्यबीजं प्रवदंति वेदास्तदेव चिह्नेन च योगिनस्त्वाम् । गच्छंति तेनैव गजाननस्त्वं गजाननं भक्तियुता भजामः ॥२२॥ पुराणवेदाः शिवविष्णुकाद्याऽमराः शुकाद्या गणपस्तवे वै । विकुंठिताः किं च वयं स्तवाम गजाननं भक्तियुता भजामः ॥२३॥ मुद्गल उवाच । एवं स्तुत्वा गणेशानं नेमुः सर्वे पुनः पुनः । तानुत्थाप्य वचो रम्यं गजानन उवाच ह ॥२४॥ गजानन उवाच । वरं ब्रूत महाभागा देवाः सर्षिगणाः परम् । स्तोत्रेण प्रीतिसंयुक्तः परं दास्यामि वाञ्छितम् ॥२५॥ गजाननवचः श्रुत्वा हर्षयुक्ताः सुरर्षयः । जगुस्तं भक्तिभावेन साश्रुनेत्राः प्रजापते ॥२६॥ देवर्षय ऊचुः । गजानन यदि स्वामिन् प्रसन्नो वरदोऽसि भोः । तदा भक्तिं दृढां देहि लोभहीनां त्वदीयकाम् ॥२७॥ लोभासुरस्य देवेश कृता शांतिः सुखप्रदा । तदा जगदिदं सर्वं वरयुक्तं कृतं त्वया ॥२८॥ अधुना देवदेवेश कर्मयुक्ता द्विजादयः । भविष्यंति धरायां वै वयं स्वस्थानगास्तथा ॥२९॥ स्वस्वधर्मरताः सर्वे गजानन कृतास्त्वया । अतःपरं वरं याचामहे ढुंढे कमप्यहो ॥३०॥ यदा ते स्मरणं नाथ करिष्यामो वयं प्रभो । तदा संकटहीनान् वै कुरु त्वं नो गजानन ॥३१॥ एवमुक्त्वा प्रणेमुस्तं गजाननमनामयम् । स तानुवाच प्रीतात्मा भक्त्यधीनस्वभावतः ॥३२॥ गजानन उवाच । यच्च प्रार्थितं देवा मुनयः सर्वमंजसा । भविष्यति न संदेहो मत्स्मृत्या सर्वदा हि वः ॥३३॥ भवत्कृतमदीयं वै स्तोत्रं सर्वत्र सिद्धिदम् । भविष्यति विशेषेण मम भक्तिप्रदायकम् ॥३४॥ पुत्रपौत्रप्रदं पूर्णं धनधान्यविवर्धनम् । सर्व- संपत्करं देवाः पठनाच्छ्रवणा न्नृणाम् ॥३५॥ मारणोच्चाटनादीनि नश्यंति स्तोत्रपाठतः । परकृत्यं च विप्रेन्द्रा अशुभं नैव बाधते ॥३६॥ संग्रामे जयदं चैव यात्राकाले फलप्रदम् । शत्रूच्चाटनकार्येषु प्रशस्तं तद्भविष्यति ॥३७॥ कारागृहगतस्यैव बंधनाशकरं भवेत् । असाध्यं साधयेत् सर्वमनेनैव सुरर्षयः ॥३८॥ एकविंशतिवारं चैकविंशति दिनावधिम् । प्रयोगं यः करोत्येव स भवेत् सर्वसिद्धिभाक् ॥३९॥ धर्मार्थकाममोक्षाणां ब्रह्मभूयस्य दायकम् । भविष्यति न संदेहः स्तोत्रं मद्भक्ति- वर्धनम् ॥४०॥ एवमुक्त्वा गणाधीशस्तत्रैवांतरधीयत । देवाः सर्षिगणाः सर्वेऽभवन् खिन्ना इव प्रभो ॥४१॥ गजाननस्य मूर्तिस्तैः स्थापिता सिद्धिदा ततः । नैर्ऋते कोणभागे स्म दर्शनेन सुखप्रदा ॥४२॥ तत्रैव संस्थिता देवा मुनयो भक्ति- संयुताः । अंशेन स्वाधिकारेषु स्वाश्रमेषु गता बभुः ॥४३॥ ततः स्वधर्मसंयुक्ता बभूवुर्मानवा भुवि । यथायोग्यं जगत् सर्वं

बभूवे हर्षितं विधे ॥४४॥ एतद्गजाननस्यैव चरितं पापनाशनम् । भुक्तिमुक्तिप्रदं दक्ष कथितं ब्रह्मदं परम् ॥४५॥ यः पठेत् पाठयेद्वापि शृणुते श्रद्धयान्वितः । स ईप्सितफलं भुक्त्वा ब्रह्मभूतो भविष्यति ॥४६॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते देवमुनिकृतस्तुतिवर्णनं नाम त्रिचत्वारिंशोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । धन्योऽहं मुद्गल स्वामिंस्त्वत्संङ्गान्नात्र संशयः । लोभशांतिकरं चित्रं श्रुतं भक्त्या चरित्रकम् ॥१॥ न तृप्तोऽहं गजास्यस्य सुधापान इव प्रभो । वद क्षेत्रस्य माहात्म्यमधुना तस्य सर्वदम् ॥२॥ गजाननस्य भक्त्यर्थमवतारान् धृतान् वद । संक्षेपेण महाभाग सर्वज्ञोऽसि च ते नमः ॥३॥ सूत उवाच । दक्षस्य वचनं श्रुत्वा मुद्गलो हर्षसंयुतः । जगाद तं महाभागं महाभागो दयान्वितः ॥४॥ मुद्गल उवाच । अवतारा अनंताश्च गजाननस्य मानद । भक्तानां कार्यसिद्ध्यर्थं कथनं नैव शक्यते ॥५॥ तथापि शृणु दक्ष त्वमवतारचरित्रकम् । गजाननस्य कथयामि समासेन सर्वदम् ॥६॥ पार्वत्या शंकरेणैवाऽऽराधितो गणनायकः । दिव्यवर्षसहस्रेण प्रसन्नो वरदोऽभवत् ॥७॥ ताभ्यां संपूजितो देवः स्तुतः संयाचितोऽभवत् । त्वं पुत्रो भव नौ स्वामिन् संसारोत्तारणाय वै ॥८॥ तथेति प्रतिपाद्याऽसौ गणेशोऽन्तर्दधे स्वयम् । पुत्रः सिंधुवधायाभून् मयूरेश इति स्मृतः ॥९॥ हत्वा सिंधुं महावीर्यं गतः स्वानंदके पुरे । एवं नानाऽवतारान् स दधार शिवयोर्गृहे ॥१०॥ अष्टकोट्यवताराश्च गणेशस्य प्रकीर्तिताः । शिवपुत्राश्च ते ख्याताः कार्यार्थं त्वंशभावतः ॥११॥ केचिच्छिवात् समुद्भूताः केचिच्छक्तेर्महात्मनः । उभयोर्योगतः केचित् कलांशा अभवन् पराः ॥१२॥ यादृशं संकटं प्राप्तं तदर्थं संस्मृतो विभुः । तावत् कलांशयोगेन पुत्रोऽभूत् सुखदायकः ॥१३॥ कृत्वा कार्यस्य संसिद्धिं पुनः स्वानंदगोऽभवत् । तद्वियोगेन संतप्तौ शिवौ किल बभूवतुः ॥१४॥ अन्ये नानाऽवताराश्च कश्यपादिगृहेऽशतः । धृता गजाननेनैव वक्तुं नैव प्रशक्यते ॥१५॥ इतिहास प्रवक्ष्यामि सर्वसिद्धिप्रदायकम् । गजाननावतारेण युक्तं शृणु प्रजापते ॥१६॥ एकदा निद्रितं शंभुं ब्रह्माणं प्रययौ प्रभुः । किंचित् कार्यार्थमेवं तमुत्थाप्य स्वगृहेऽगमत् ॥१७॥ स उत्थितो महाजृंभां चकार क्रोधसंयुतः । तस्माज्जातः पुमानेको रक्तवर्णः सुशोभनः ॥१८॥ सुवासबहुलेनैव युक्तः काम इवापरः । तं दृष्ट्वा विस्मितो ब्रह्मा जगाद

यहाँ दिए गए पृष्ठ का देवनागरी में लिप्यंतरण प्रस्तुत है:

खं. ४ अ. ४४ | पान ११२ स महाबलम् ॥१९॥ ब्रह्मोवाच । कोऽसि त्वं पुरुषश्रेष्ठ किमर्थं ह्यागतो वद । एवं पृष्टः स तं देवं जगाद मेघनिःस्वनः ॥२०॥ पुमानुवाच । जृंभायास्ते समुत्पन्नः पुत्रोऽहं देवनायक । स्थानं नामादिकं देहि भक्षणं विविधं पितः ॥२१॥ ततोऽतिहर्षितो ब्रह्मा पुत्रं दृष्ट्वा महाद्भुतम् । ददौ तस्मै विशेषेण वरांस्ताञ् शृणु मानद ॥२२॥ सुवासबहुलं रक्तं वपुस्ते तेन सिंदुर । नाम नानाविधान् भोगान् भुंक्ष्व सर्वत्रगः स्वयम् ॥२३॥ न बलेन समस्ते वै भविष्यति चराचरे । ब्रह्मांडजयसंयुक्तो भव पुत्र ममाज्ञया ॥२४॥ यद्यदिच्छसि तत्तत्ते सफलं प्रभविष्यति । क्रोधादालिंगसे यं त्वं भस्मसात्तं करिष्यसि ॥२५॥ एवं नानावरान् दत्त्वा संस्थितं प्रपितामहम् । तं प्रणम्य स सिंदूरो जगामास्तुत्य भूतले ॥२६॥ शौनक उवाच । तपोहीनाय दाताऽसौ ददौ संदुर्लभान् वरान् । किं कारणं वद प्राज्ञ संशयो मे महान् हृदि ॥२७॥ सूत उवाच । इच्छासंकल्पसिद्ध्यर्थं तपस्तपति यो नरः । विपुले सोऽपि तपसि मृतो यदि भवेन् मुने ॥२८॥ अन्यस्मिन् जन्मनि प्राज्ञः फलयुक्तः प्रजायते । स्वल्पश्रमेण देवोऽपि वरं ददाति निश्चितम् ॥२९॥ एतत् ते कथितं सर्वं संशयच्छेदनं वचः । अधुना शृणु संवादं प्रकृतं यं पुरा भवम् ॥३०॥ विचारं मार्गमध्ये स गत्वा सिंदूर आकरोत् । तपोहीनायाऽपि देवो मे ददाति वरं कथम् ॥३१॥ अतोऽहं वंचितो नूनं विधिना नात्र संशयः । लिंगयित्वा मृतं कुर्वे तं सत्यत्वदिदृक्षया ॥३२॥ निःसंशयं भवेदेवं विचार्य सिंदुरासुरः । आययौ ब्रह्मणः सोऽपि समीपे क्रोधसंयुक्तः ॥३३॥ गर्जयित्वा विधातारमालिङ्गितुं प्रचक्रमे । तद् दृष्ट्वा परमाश्चर्यं ब्रह्मोवाच सुदारुणम् ॥३४॥ ब्रह्मोवाच । मद्धरस्य प्रभावेन मां हंतुं समुपागतः । अतो दैत्योऽसि दुष्ट त्वमभाग्या- न्नात्र संशयः ॥३५॥ पुत्रस्नेहेन रे दुष्ट वरा दत्ताः सुदुर्लभाः । अतो गजाननस्त्वां वै हनिष्यति कुलाधम ॥३६॥ एवमुक्त्वा पपालाऽसौ विकुंठे शरणं ययौ । नारायणं च सिंदूरस्तमनु प्रययौ खलः ॥३७॥ नारायणाय वृत्तांतं कथयामास विस्तरात् । सोऽपि श्रुत्वा विनिःश्वस्याऽभवत् संपूज्य संस्थितः ॥३८॥ एतस्मिन्नंतरे तत्र सिंदूरश्च समागमत् । जगाद विष्णुमव्यक्तं वचः क्रोधसमन्वितः ॥३९॥ सिंदूर उवाच । विष्णो रक्ष विधातारं मां शश्वा प्रसमागतम् । हनिष्यामि त्वया सार्धं पश्य मे पौरुषं परम् ॥४०॥ विष्णुरुवाच । अहं सत्त्वगुणश्चायं वेदाध्ययनतत्परः । आवां हत्वा महादैत्य न यशस्ते भविष्यति ॥४१॥ त्वदधीनौ च सिंदूर आवां जानीहि मानद । शंकरः सर्वसंहर्ता स यशस्ते हरिष्यति ॥४२॥ विष्णोर्वचनमाकर्ण्य त्यक्त्वा विष्णुं चतुर्मुखम् । जगाम शंकरं सद्यः कैलासे युद्धलालसः ॥४३॥ ध्यानस्थं शंकरं दृष्ट्वा विचारमकरोद्धृदि । अमुं नग्नं

[Header] खं. ४ अ. ४५ | पान १६३


तपोयुक्तं किमर्थं हन्मि मूर्खवत् ॥४४॥ वामांगे संस्थितां नारीं रूपेणाप्रतिमां पराम् । तां गृहीत्वा गमिष्यामि स्वेच्छया क्रीडानोत्सुकः ॥४५॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते सिंदूरशिवसमागमो नाम चतुश्चत्वारिंशोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । एवं निश्चितसंकल्पः सिंदूरो गिरिजां ततः । गृह्योड्डीय ययौ सद्यो मूर्च्छितां भयविह्वलाम् ॥१॥ तस्य श्वसनवेगेन पतिता नंदिमुख्यकाः । गणाः पुनः समुत्थाय हाहाकारं प्रचक्रिरे ॥२॥ हस्तगा पार्वती तत्र सावधाना बभूव ह । सस्मार गणपं देवं दैत्यपाशनियंत्रिता ॥३॥ गौर्युवाच । गजानन ज्ञानविहारकारिन् न मां च जानासि परावमर्शाम् । गणेश रक्षस्व न चेच्छरीरं त्यजामि सद्यस्त्वयि भक्तियुक्ता ॥४॥ विघ्नस्य शत्रोऽसुरसंघहंतर्विघ्नेश हेरंब महोदरप्रिय । मां रक्ष दैत्यात्त्वयि भक्तियुक्तां लंबोदर प्रेमविवर्धनाच्युत ॥५॥ किं सिद्धिबुद्धिप्रसरेण मोहयुक्तोऽसि किं वा निशि निद्रितोऽसि । किं लक्षलाभार्थविचारयुक्तः किं मां च विस्मृत्य सुसंस्थितोऽसि ॥६॥ किं भक्तसंगेन च देवदेव नानोपचारैश्च सुयंत्रितोऽसि । किं मोदकाद्यैर्गणपाऽऽवृतोऽसि नानाविहरेषु च वक्रतुंड ॥७॥ स्वानंदभोगेषु परिप्लुतोऽसि दासीं च विस्मृत्य महानुभाव । अनंतलीलासु सलालसोऽसि किं भक्तरक्षार्थसुसंकटस्थ ॥८॥ अहो गणेशा- मृतपानदक्षामरैस्तथा वाऽसुरपैः स्मृतोऽसि । तदर्थनानाविधिसंयुतोऽसि विसृज्य दासीं त्वमनन्यभावाम् ॥९॥ रक्षस्व मां दीनतमां परेश सर्वत्र चित्तेषु च संस्थितस्त्वम् । प्रभो विलंबेन विनायकोऽसि ब्रह्मेश किं देव नमो नमस्ते ॥१०॥ भक्ताभिमानीति च नाम मुख्यं वेदे बभूवात्र न किं महात्मन् । आगत्य हत्वा दितिजं सुरेश मां रक्ष दासीं हृदि पादनिष्ठाम् ॥११॥ अहो न दूरं बत किंचिदेव कथं न बुद्धीश समागतोऽसि । संचिंत्य देहं प्रजहामि ते हि यशः करिष्ये विपरीतमेव ॥१२॥ रक्ष रक्ष दयासिंधोऽपराधान् मे क्षमस्व च । क्षणे क्षणे वयं दास्यो रक्षितव्या विशेषतः ॥१३॥ स्तुवंत्यामेव पार्वत्यां शंकरो बोधसंयुतः । बभूव गणपानां वै श्रुत्वा हाहारवं विधे ॥१४॥ गणेशं मनसा स्मृत्वा वृषारूढः समाययौ । क्षणेन दैत्यराजं तं दृष्ट्वा डमरुणा त्वहन् ॥१५॥ ततः सोऽपि शिवं वीक्ष्याऽऽलिंगितुं धावितोऽभवत् । शिवस्य

[खं. ४ अ. ४५] [पान ११४]

शूलकादीनि शस्त्राण्याकुंठितानि वै ॥१६॥ तद् दृष्ट्वा परमाश्चर्यं भयभीतो महेश्वरः। सस्मार गणपं सोऽपि निर्विघ्नार्थं प्रजापते ॥१७॥ पार्वत्याः स्तवनं श्रुत्वा स गजानन आययौ। ब्राह्मणस्य स्वरूपेण तयोर्मध्ये प्रयुद्ध्यतोः ॥१८॥ गणेशेन कृतं तत्र कौतुकं परमाद्भुतम्। पपात गुप्तस्वरूपश्च परशुर्दैत्यवक्षसि ॥१९॥ तेनाहतं महादैत्यं व्याकुलं वीक्ष्य विघ्रपः। ततस्तं ब्राह्मणः प्राह शृणु दैत्य वचो हितम् ॥२०॥ जगज्जनिमिमां शक्तिं मुंच नो चेच्छिवः स्वयम्। गुप्तरूपेण सद्यस्त्वां मारयिष्यति निश्चितम् ॥२१॥ अहं शंभुं करिष्यामि त्वदाज्ञावशवर्तिनम्। भार्यां तस्य परित्यज्य कुरु राज्यं त्रिलोकगः ॥२२॥ तथेति सिंदुरेणैव कृतं सोऽपि शिवं वचः। जगाद हास्यवदनो दैत्याधीनो भव प्रभो ॥२३॥ ब्रह्मलब्धवरं दैत्यं न जेतुं तं क्षमो भवान्। महेशशक्तिं संगृह्य कालस्य क्रमणं कुरु ॥२४॥ तथेति शंकरेणोक्तं ददौ शक्तिं शिवाय सः। दैत्यः कैलासगो भूत्वा ननंद विजयी ततः ॥२५॥ ततः कैलासमेवं स त्यक्त्वा भूलोकगोऽभवत्। दैत्यस्त्रिभुवनं जित्वा जगदीश्रो बभूव ह ॥२६॥ अंतर्धानं चकाराऽसौ गणेशो द्विजरूपधृक्। तत् दृष्ट्वा पार्वती तत्र शोकयुक्ता बभूव ह ॥२७॥ अहो ब्राह्मणरूपेणाऽऽगतोऽयं गणनायकः। मोचयित्वा स मां शंभो त्वां संरक्ष्य ययौ पुनः ॥२८॥ ततस्तौ पार्वतीशंभू परलीवनगौ प्रभू। बभूवतुश्च विघ्नेशं तपसा हृदि चिंतकौ ॥२९॥ तताप तप उग्रं स सस्त्रीकः शंकरस्ततः। गते वर्षशते पूर्णे तं गजानन आययौ ॥३०॥ गणेश उवाच। वरं वृणु महादेव यत्ते चित्ते प्रवर्तते। दास्यामि तपसा तुष्टो वाञ्छितं प्राह शंकरम् ॥३१॥ ततस्तं शंकरो नत्वा स्तुत्वा नानाविधैः स्तवैः। पार्वत्या पूज्य विघ्नेशं प्रणम्य प्रत्युवाच ह ॥३२॥ शिव उवाच। वरदोऽसि गणाधीश तदा मे त्वं सुतो भव। यावज्जीवनपर्यतं तिष्ठ नाथ नमोऽस्तु ते ॥३३॥ त्वया नानाऽवताराश्च धृता मदीयवेश्मनि। ते सर्वे स्वल्पकांशस्था बभूवुर्गणनायक ॥३४॥ तादृशं मा कुरु स्वामिन् वस नित्यं च मे गृहे। तन्त्राऽहं त्वां भजिष्यामि पुत्रभावेन विघ्रप ॥३५॥ संसारे पुत्रभावेन मूर्तौ त्वां कुलदैवतम्। हृदये योगयुक्तोऽहं भजिष्यामि गजानन ॥३६॥ तथेति गणनाथास्तं जगादांतर्दधे पुनः। कैलासमागतः शंभुः शोकयुक्तो विशेषतः ॥३७॥ ततः किंचिद्गते काले पार्वती स्नानमाचरत्। नग्ना तत्र महेशानः सहसा समुपागतः ॥३८॥ लज्जिता तं निरीक्ष्यैव जगदंबा स्वकेशतः। देहं सञ्छादयामास शंकरो गृहगोऽभवत् ॥३९॥ ततः कदाचित्सा देवी सखीभ्यां संस्थिताऽभवत्। उवाच तां सखी तत्र जया च विजया परा ॥४०॥ जयाविजये ऊचतुः। गणा नंदिमुखाः सर्वेऽस्मदीया नात्र संशयः। शिवं यदि निरुद्ध्यैव

खं. ४ अ. ४६ पान ११९ निष्ठामश्लेच्छिवात्मकाः ॥४१॥ अतः कं च महादेवि स्वकीयं वशगं गणम् । कुरु त्वं सा ततः शक्तिस्तथेति प्रत्युवाच ते ॥४२॥ स्वांगान् मलं समाकृष्य कृत्वा तं पुरुषाकृतिम् । पुनः संजीवयामास पार्वती तं जगाद ह ॥४३॥ द्वारे तिष्ठ महाबाहो मदाज्ञावशगः सदा । मदाज्ञया विना पुत्र मा प्रवेश्यस्त्वया नरः ॥४४॥ अहं स्नानार्थमत्रैव संस्थिता कालपर्यये । पतिर्मे तत्र रे वत्स त्वागतोऽपि भवेत् स्वयम् ॥४५॥ केनापि कथितं तत्राऽन्तो मा कुरु च तादृशम् । स्वामिनं शंकरं पुत्र निषेधस्व मदाज्ञया ॥४६॥ तथेति तां प्रणम्याऽऽदौ द्वारसंस्थो बभूव सः । पुरुषः सा सखीभ्यां च मुदिता संस्थिताऽभवत् ॥४७॥ एतस्मिन्नंतरे तत्र गणयुक्तः शिवो ययौ । तं न्यषेधत् स्ववेगेन बोधितोऽपि प्रजापते ॥४८॥ ततोऽतिकोपसंयुक्तः शंकरः प्रबभूव ह । तज्ज्ञात्वा सा सखीभ्यां च मुदिता संस्थिताऽभवत् ॥४९॥ ततोऽतिक्रोधसंयुक्तो गणान्नंदिमुखान् शिवः । आज्ञापयच्च युद्धाय हंतव्योऽयं न संशयः ॥५०॥ ततस्ते शस्त्रसंघातैर्जग्मुस्तं क्रोधसंयुताः । पार्वत्या तेज उग्रं यन्निक्षिप्तं पुरुषे तदा ॥५१॥ तेजसा शस्त्रसंघाता मोघा जाता विशेषतः । मुसलेन जघानाऽसौ गणान् सर्वान् महाबलः ॥५२॥ ततः पलायनं चक्रुर्गुणाः सर्वे भयान्रिताः । ततः स्कंदं शिवः क्रुद्धः प्रेषयामास दारुणम् ॥५३॥ कुंठितास्त्रो भयोद्विग्नः सेनानीस्ताडितो भृशम् । पपाल च ततः शंभुः सस्मराऽमरमुख्यकान् ॥५४॥ ब्रह्मा विष्णुश्च देवेंद्रो यमाद्याः सर्व आगताः । प्रणिपत्य महेशानं संस्थिताश्चाऽभवन् पुरः ॥५५॥ तान् शिवः कथयामास वृत्तांतं ते ततो ययुः । इंद्रादयः सगंधर्वा युयुधुः पुरुषेण च ॥५६॥ पलायनं तेऽपि चक्रुः कुंठितास्त्रा भयातूराः । ताडिता मुसलेनैव शंकरः क्षोभितोऽभवत् ॥५७॥ ततस्तत्र विचारं ते चक्रुः सर्वे सुरेंद्रकाः । विष्णुमुख्याः शिवेनैव मुनिभिश्च प्रजापते ॥५८॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते शिवविचारवर्णनप्रसंगो नाम पंचचत्वारिंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । विचार्य देवपैः सर्वैः प्रेषयामास शंकरः । ब्रह्माणं ब्राह्मणैः सार्धं स्नेहार्थं सोऽपि तं ययौ ॥१॥ तं दृष्ट्वा गृह्य पुरुषो मुसलं सोऽपि दारुणम् । आययौ तं निरीक्ष्यैव पपाल स पितामहः ॥२॥ वयं सर्वे द्विजाः पुत्र शस्त्रहीनाः समागताः । शृणु वाक्यं विचारज्ञ पलंतस्ते तमब्रुवन् ॥३॥ तथापि न बुबोधैव पुरुषस्तं विलोक्य सः । ब्रह्मा जगाम शंभुं तं वृत्तांतमवदत्ततः ॥४॥ ततो विष्णुयुतः शंभुः क्रोधानलविलोचनः । संग्रामाय ययौ तत्र मुसलं

सोऽपि चाददे ॥५॥ आगत्यैव न्यहञ्छंभुं हृदये यमसंनिभः । शूलं पपात तद्धस्ताच्छिवश्च व्याकुलोऽभवत् ॥६॥ ततस्तं गदया विष्णुर्योधयामास दारुणम् । ततस्त्रिशूलघातेन शिरश्चिच्छेद शंकरः ॥७॥ ममार पुरुषस्तत्र श्रुत्वा सा पार्वती पुनः । कोपयुक्ता च कोटीः सा शक्तीस्ता नव निर्ममे ॥८॥ तयाऽऽज्ञप्ता महादेव्यः संहर्तुं सकलं जगत् । प्राप्ता आलोक्य देवास्ते भयभीता बभूविरे ॥९॥ शंकरेण द्विजास्तत्र प्रेषिता नारदायः । अंतरिक्षचराः सर्वे प्रणेमुः पार्वतीं ततः ॥१०॥ रक्ष रक्ष जगत्सर्वं जगदंब त्वदुद्भवम् । तुष्टुवुस्तामथोवाच मुनीन् क्रोधयुता सती ॥११॥ पार्वत्युवाच । मम पुत्रः किमर्थं तैर्हतः सर्वैः सुरेश्वरैः । सजीवं संहरिष्यामि कुरुध्वं चेन्न संशयः ॥१२॥ तथेति प्रतिपाद्यैव गतास्ते शंकरं पुनः । शक्तय- स्तंमिताः सर्वाः शिवः सर्वैः समाययौ ॥१३॥ युद्धे मृतस्य बालस्य मस्तकं त्वप्सरोगणाः । जगृहुस्तत्र तं दृष्ट्वा शिरोहीनं सुदुःखितः ॥१४॥ शिवस्ततो गणान् प्राह यः पूर्वं दृश्यते त्वया । तमानयत हत्वा वै तस्य मस्तकमत्र यत् ॥१५॥ ततो गजासुरः प्राप्तः सहसा नारदेरितः । हंतुं देवगणान् सर्वान् महाबलपराक्रमः ॥१६॥ ततश्च क्षोभिताः सर्वे पलायंत दिशो दश । शूलघातेन शंभुस्तं मारयामास तत्क्षणात् ॥१७॥ तस्य मस्तकयोगेन पुरुषं ते दिवौकसः । योजयित्वा प्रजानाथ सजीवं चक्रिरे नरम् ॥१८॥ सर्वे हतोद्यमा जातास्ततो ब्रह्मा समागतः । जीवयामास तं तत्र सजीवो न बभूव ह ॥१९॥ ततो विष्णुः स्वयं तत्र जीवयामास विद्यया । सजीवो न बभूवाऽपि दुःखितोऽतिततोऽभवत् ॥२०॥ ततः शिवः स्वयं तत्र जीवयुक्तं चकार तम् । सजीवं न ददर्शैव दुःखितोऽतितरां तदा ॥२१॥ ततो विघ्नेश्वरं सर्वे तुष्टुवुः कार्यसिद्धये । अथर्वशिरसा दक्ष शंकराद्याः सुरेश्वराः ॥२२॥ प्रार्थयामासुरत्यंतं निर्विघ्नं कुरु विघ्नप । अधुना विश्वमेवेदमकाले लयमेष्यति ॥२३॥ गणेशस्मरणेन स्म बुद्धिः प्राप्ता दिवौकसाम् । वेदमंत्रेण देवास्ते तारमावाहयंति च ॥२४॥ ओंकारस्तत्र मंत्रेणाऽऽकर्षितः सहसाऽऽगतः । शवं प्रविश्य संतस्थौ ततः सोऽभवदुत्थितः ॥२५॥ ततो ज्ञानयुता देवा जाता विघ्नविहीनकाः । तं दृष्ट्वा गजवक्त्रं वै प्रणवं प्रणवाकृतिम् ॥२६॥ तुष्टुवुर्देवदेवेशं नानास्तोत्रैः प्रजापते । पूपुजुस्तं च सर्वादौ पूज्यं चक्रुः स्वमूलकम् ॥२७॥ दक्ष उवाच । साक्षादोंकाररूपश्च गणेशोऽयं न संशयः । स कथं मलजः शक्तेर्दैत्यमस्तकधारकः ॥२८॥ एनं मे संशयं ब्रह्मञ्छेत्तुमर्हसि सांप्रतम् । श्रुत्वा कथां महारम्यां ज्ञानयुक्तो भवाम्यहम् ॥२९॥ मुद्गल उवाच । सती दक्षगृहे तात दग्धा सा शैलजाऽभवत् । हिमाचले स्वयं शंभुस्तताप तप उत्तमम् ॥३०॥ तत्र सा पार्वती देवी शुश्रूषायां प्रजापते ।

खं. ४ अ. ४७ पान ११७ निरता तां निरीक्ष्यैव शंभुः सस्मार पूर्वगाम् ॥३१॥ ममाज्ञावशगा देवी नेयं दक्षगृहे गता । अतोऽहं न वृणोम्येतां पुनः शैलसुतां कदा ॥३२॥ तारकासुरभीतैर्देवैः कामः प्रार्थितस्ततः । स ययौ शंकरस्थानं मोहितुं मदसंयुक्तः ॥३३॥ तं प्रज्वाल्य महेशानस्त्यक्त्वा हिमगिरिं ययौ । अन्यत्र सा ततो देवी खेदयुक्ता बभूव ह ॥३४॥ मनसि ज्ञानमार्गेण ज्ञात्वा शंभुविचेष्टितम् । तपसा संयुता भूत्वा वनगा शिवमर्चयत् ॥३५॥ गते वर्षशते शंभुः प्रसन्नो न बभूव ह । ततः सा विघ्नराजं च सस्मार ध्यानसंयुता ॥३६॥ वर्षेणैकेन हेरंबः प्रसन्नश्च बभूव ह । शिवबुद्धिप्रभेदं स चकार बुद्धिधारकः ॥३७॥ ततो दयायुतः शंभुस्तां ययौ द्विजरूपधृक् । शंकरं निंदयामास नानावाक्यैः समीपगः ॥३८॥ तच्छ्रुत्वा कंपिता देवी बोधयामास शांभवैः । चेष्टितैस्तं ततः सोऽपि पुननिंदां चकार ह ॥३९॥ स्थानं त्यक्त्वा ततो देवी तं जगाम द्विजं पुनः । तिरस्कृत्य शिवस्तां स्वं दर्शयामास रूपकम् ॥४०॥ ततः सा तं प्रणम्यैव तुष्टाव विविधैः स्तवेः । गणेशं मनसा ध्यात्वा प्रार्थ्य तं सिद्धिदो भव ॥४१॥ ततः प्रसन्नभावेन शंकरः प्रददौ वरम् । विस्मितस्तां निरीक्ष्यैव तपसा कर्शितां प्रभुः ॥४२॥ शिव उवाच । वृणोमि त्वां महादेवि वश्योऽहं ते सदाऽनघे । तपसा भक्तिभावेन न वियोगो भविष्यति ॥४३॥ धूलिधूसरितं तेंडगं शिरोभूच्च जटान्वितम् । अतो मलस्तवांगस्य सर्वपूज्यो भविष्यति ॥४४॥ इत्युक्त्वा शंकरस्तत्रांतर्धानं प्रचकार सः । पार्वती प्रेमसंयुक्ता स्वगृहं वै जगाम ह ॥४५॥ स्वभक्तस्य शिवस्यैव रक्षणार्थं वचो महत् । गौरीमलांगसंभूतो बभूव ह गजाननः ॥४६॥ गणेशात्न परः कोऽपि सर्वपूज्यो महामते । गणेशवरदानेन सत्यवाक्याः शिवादयः ॥४७॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते शक्तिमलमाहात्म्यवर्णनं नाम षट्चत्वारिंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । अन्यच्छृणु चरित्रं तु गजमस्तकधारणे । महेश इति विख्यातो राजा धर्मयुतोऽभवत् ॥१॥ तस्य गेहे गुरुः साक्षाज्जगाम कीर्तिमोहितः । राज्ञा संमानितः सोऽपि नृपाय च ददौ वरम् ॥२॥ बृहस्पतिरुवाच । प्रणतस्ते महीपाल मूर्धा मे प्रभविष्यति । सर्वपूज्यो विशेषेण गतोऽभूत् स्वगृहे गुरुः ॥३॥ ततः कदाचिद्राजर्षिर्नारदं मार्गसंस्थितम् । अवमत्य ययौ सोऽपि तं शशाप नृपाधमम् ॥४॥ नारद उवाच । मदेन राजशार्दूल मामनादृत्य गच्छसि ।

खं ४ अ. ४७ पान ११८ अतोऽसुरस्य योनौ त्वं पतिष्यसि न संशयः ॥५॥ काले सोऽपि ममराऽथ गजयोनौ बभूव ह । गजासुर इति ख्यातो नरकुंजरवेषभृत् ॥६॥ गजासुरेण शंभोस्तपः कृतं च विशेषतः । मंत्रं जजाप शैवेनातोषयन्नियमे रतः ॥७॥ सहस्रेषु गतेष्वेव वर्षेषु वरदः शिवः । जगाद वृणु दैत्येश यत्ते मनसि वर्तते ॥८॥ स वव्रे राज्यमुग्रं मे देहि लोकत्रयस्य च । बलं सर्वातिगं शंभो आरोग्यं सर्वपूज्यताम् ॥९॥ अंते मोक्षं च मे देहि तथेति शंकरोऽब्रवीत् । मस्तकः सर्वपूज्यस्ते भविष्यति गजासुर ॥१०॥ अतो गजासुरस्यैव मस्तकं गणपेन तत् । धृतं वचो रक्षणार्थं शंकरस्य बृहस्पतेः ॥११॥ अन्यच्छृणु प्रजानाथ इतिहासं पुरातनम् । कदाचिच्छंकरेणैव पूजितो गणनायकः ॥१२॥ ददौ शिवाय निर्माल्यं मूर्तिसंस्थश्च विघ्नपः । स्वप्ने तस्य स माहात्म्यं कथयामास विस्तरात् ॥१३॥ श्रीगणेश उवाच । एकनिष्ठतया शंभो भक्त्याऽहं पूजितस्त्वया । प्रसन्नोऽहं स्वमूर्तिस्थः शृणु मे वचनं हितम् ॥१४॥ निर्माल्यं मे गृहाण त्वं सर्वसिद्धिप्रदं शिव । येनेदं मस्तके पुष्पं धृतं मान्येन भक्तितः ॥१५॥ सर्वपूज्यः स वै भावी सर्वातिगयशोधरः । ततः सोऽन्तर्दधे ढुंढिः शिवो जागरितोऽभवत् ॥१६॥ हस्ते पुष्पं समालोक्य विस्मितः शंकरोऽभवत् । विचारं स चकारैव किमिदं देवभाषितम् ॥१७॥ सर्वपूज्यो गणाधीशो नान्यो ब्रह्मांडमंडले । अतो मे भक्तिमाहात्म्यं परीक्षार्थं ददौ प्रभुः ॥१८॥ ततः शिवेन निर्माल्यं न धृतं मस्तके स्वके । पूजायां स्थापितं दक्ष महाभक्तेन सर्वदम् ॥१९॥ ततोऽत्रिसंभवस्तत्र दुर्वासाः सहसाऽऽययौ । दर्शनार्थं महेशस्य शिवेन भृशमानितः ॥२०॥ शिवो विचारमकरोदयं योगी सयोगवित् । वर्णाश्रमविहीनश्च मतः साक्षाद्विनायकः ॥२१॥ अतो निर्माल्ययोग्योयं ददौ तस्मै सदाशिवः । निर्माल्यं विघ्नराजस्य कथयित्वा यशो महत् ॥२२॥ तं प्रणम्य महायोगी दुर्वासाः प्रययौ प्रभुम् । यथेच्छं विचरन् मार्गे ददर्श देवनायकम् ॥२३॥ विचारं मनसा योगी चकार स्वहितावह्म् । सर्वपूज्यो गणेशाद्वै नान्यो भवति निश्चितम् ॥२४॥ वयं भक्ता गणेशस्य भजामोऽनन्यचेतसः । अतो निर्माल्य- योग्योऽहं नैव शंकरवत् कदा ॥२५॥ अयं देवपतिः साक्षादिंद्रः सत्त्वगुणान्वितः । योग्योऽयं नैव संदेहस्तं ययौ मुनिसत्तमः ॥२६॥ तं दृष्ट्वा मघवा नत्वा स्थित ऐरावते प्रभुः । आज्ञां कुरु महाभाग मुने दासोऽस्मि ते जगौ ॥२७॥ ततः सोऽपि प्रसन्नात्मा ददौ तस्मै महामुनिः । निर्माल्यं गणनांथस्य माहात्म्यं प्रोच्य सादरः ॥२८॥ इन्द्रो राज्यश्रिया युक्तो गृहीत्वा गजमस्तके । निर्माल्यमिंद्रः संस्थाप्य ययौ मार्गमवस्थितः ॥२९॥ निर्माल्यस्यापमानेन भ्रष्टोऽभूद्देवनायकः । गता सत्त्वमयी

यहाँ दिए गए पृष्ठ का सटीक देवनागरी लिप्यंतरण प्रस्तुत है:

खं. ४ अ. ४७ पान ११९ लक्ष्मीर्गजस्तेजोयुतोऽभवत् ॥३०॥ तिरस्कृत्य महेंद्रं तं गजो हत्वा सुरान् परान् । ययौ वने प्रजानाथ स्वच्छंदश्च बभूव सः ॥३१॥ ततोऽतितापसंयुक्त इन्द्रो हीनः श्रियाऽभवत् । दैत्यराजा बुभुजिरे संगृह्य स्वर्गमागताः ॥३२॥ ततो बहौ गते काले गुरुणा बोधितः सुरः । देवैः सह गणेशानं तोषयामास नित्यदा ॥३३॥ गते वर्षसहस्रे तु गणेशस्तं ययौ तदा । पूजितः संस्तुतस्तेन प्रसन्नो वरदोऽभवत् ॥३४॥ श्रीगणेश उवाच । मा कुरुष्व महेंद्र त्वं मम निर्माल्यदूषणम् । भक्त्यधीनः स्वभावेन प्रसन्नोऽहं कृतस्त्वया ॥३५॥ समुद्रतनया लक्ष्मीर्भविष्यति सुसिद्धिदा । तां प्राप्य पूर्ववद्देवाः श्रिया युक्ता भविष्यथ ॥३६॥ पूजाकृतफलं यच्च निर्माल्ये संस्थितं भवेत् । तस्य वंदनमात्रेण सफलो जायते नरः ॥३७॥ भावेनाऽऽगृह्य निर्माल्यं मस्तके धारितं यदि । पुनस्तच्छुद्धभूमौ वै स्थापयेद्वा जले सुर ॥३८॥ गर्ते यत्र मनुष्यस्य पादस्पर्शो न वै भवेत् । तदा फलयुतः सोऽपि मद्ग्रूपो जायते नरः ॥३९॥ सदा दुःखयुतं त्वाऽहं पुरा कर्तुं समुद्यतः । गुरुणा बोधितं मत्वाऽपराधं ते सहाम्यहम् ॥४०॥ मामेव शरणं देवमागतं संविचिंत्य वै । बहुकालेन देवेश क्रोधहीनोऽहमागतः ॥४१॥ एवमुक्त्वा गणाधीशो गतः स्वानंदके पुरे । इन्द्रो राज्यश्रिया युक्तो बभूवे स प्रजापते ॥४२॥ सदा निर्माल्यभावज्ञो गणेशभजने रतः । निर्विघ्नेन महेंद्रश्चाऽऽस्मरणं राज्यमाकरोत् ॥४३॥ अधुना शृणु वृत्तांतमैरावतगजस्य च । इन्द्रं त्यक्त्वा वने गत्वा चचार स्वेच्छयेरितः ॥४४॥ हस्तिनीभिः सदा मोहयुक्तः परमदुर्जयः । बुभुजे विविधान् भोगान् मदेनैव समन्वितः ॥४५॥ ततः स्वल्पेन कालेन गणेशो जठरे गतः । पार्वत्या वरदानेन तस्य दैत्यः शिरोऽहरत् ॥४६॥ मस्तकेन विहीनश्च बभूव गणनायकः । तादृशोऽवातरत्तत्र विष्णुः शोकपरोऽभवत् ॥४७॥ जनार्दनश्चेष्टितं ज्ञात्वा ध्यानेन ययौ वने । ऐरावतशिरश्छित्वा योजयामास तत्क्षणात् ॥४८॥ तत्रोंकारं समावाह्य मंत्रेण जीवसंयुक्तम् । चकार विघ्नराजं स देवास्ते हर्षिता बभुः ॥४९॥ दैत्येन तच्छिरस्त्यक्तं नर्मदायां प्रजापते । तत्र कुंडं समुत्पन्नं गणेशमहिमान्वितम् ॥५०॥ तत्र या दृषदो रक्ता नर्मदायां समास्थिताः । यत्र तत्र गणेशास्ते बभूवुः सर्वसिद्धिदाः ॥५१॥ दक्ष उवाच । कथं रेवाजले संस्था दृषदो मुनिसत्तम । गणेशास्तन्ममाऽऽचक्ष्व धन्या सा सरितां वरा ॥५२॥ मुद्गल उवाच । ब्रह्मकमंडलूतपन्नाश्चतस्रो नद्य एव च । गंगा च यमुना दक्ष नर्मदा तु सरस्वती ॥५३॥ गंगाया महिमानं तं सर्वत्रातुलमुत्तमम् । ज्ञात्वा सा नर्मदा देवी संतप्ता चेतसाऽभवत् ॥५४॥ ततस्तया तपस्तप्तं शंकरस्य महात्मनः । शतवर्षे गते शंभुः प्रसन्नो वरदोऽभवत् ॥५५॥ तया संपूजितः

खं. ४ अ. ४८ पान १२० शंभुः स्तुतो ज्ञात्वा मनेप्सितम् । तस्या जले शिवाः सर्वे दृषदश्च कृतास्तदा ॥५६॥ ततो गंगासमं तेजो बभूव सरितः प्रभोः । नर्मदायास्तथा सापि न संतोषयुताऽभवत् ॥५७॥ पुनस्तताप तीव्रं सा तपो विघ्नेश्वरे रता । गतेषु वै सहस्त्रेषु वर्षेषु वरदोऽभवत् ॥५८॥ स्तुतः संपूजितः सोऽपि हृदीप्सितवरं ददौ । रक्तवर्णा गणेशाना दृषदो जलगाः कृताः ॥५९॥ ततः साऽतीव माहात्म्ययुता जाता सरिद्वरा । दर्शनेन जनानां वै गंगास्नानफलप्रदा ॥६०॥ यस्यास्तीरे जले संस्था दृषदः शंकरात्मिकाः । रक्ता गणेशरूपास्तत् साम्यगा का भवेन्नदी ॥६१॥ महिमानं वर्णयितुं रेवायाः कः क्षमो भवेत् । गणेशशिवसंयुक्ता यत्र तत्र महानदी ॥६२॥ एतत्ते कथितं सर्वं विस्तराद्गणपस्य वै । चेष्टितं सर्वपापघ्नं सर्वसंशयनाशनम् ॥६३॥ आदौ दक्ष गणेशस्य दैत्यमस्तकधारणम् । ऐरावतस्य तद्वै भक्तमाहात्म्यरक्षणात् ॥६४॥ शिरश्छेदादिकं तस्य चरित्रं तद् बृहस्पतेः । निर्माल्यस्य च रक्षार्थं माहात्म्यं गणपाश्रितम् ॥६५॥ भक्तवचः समाबद्धो गणेशः किं प्रजापते । न करोति महाभाग भक्ताधीनस्ततः स्मृतः ॥६६॥ येन स्वशिरसश्छेदः कृतो भक्तस्य कारणात् । मलजो गजवक्त्रश्च बभूवे भक्तिमोहितः ॥६७॥ एतत्ते कथितं सर्वं चेष्टितं परमाद्भुतम् । प्रकृतं शृणु दक्ष त्वं गजाननचरित्रकम् ॥६८॥ पार्वती प्रेमसंयुक्ता पूजयामास तं सुतम् । देवा हर्षयुताः सर्वे जग्मुः स्वं स्वं निवेशनम् ॥६९॥ ॥ ओमिति श्रीमदन्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते गणेशभक्ताधीनत्ववर्णनं नाम सप्तचत्वारिंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । एकदा नारदो योगी सिंदूरासुरमागमत् । पूजितस्तेन तं विप्रो हर्षयुक्तो जगाद ह ॥१॥ नारद उवाच । कैलासे शंकरस्यैव बभूवे पुत्र उत्तमः । गणेशस्तपसा तुष्टः सिद्धिवुद्धिपतिः स्वयम् ॥२॥ देवैः संप्राथितः सोऽपि त्वां हनिष्यति निश्चितम् । अतो यत्नपरो दैत्य भव गच्छामि मानद ॥३॥ एवमुक्त्वा महायोगी नारदः स्वेच्छया चरन् । गतः सोऽपि भयोद्विग्नो बभूवासुरनायकः ॥४॥ एतस्मिन्नंतरे तत्र प्रधानं सहसाऽऽगतम् । विचार्य तेन दैत्येंद्रो ययौ हंतुं सुरान् पुरा ॥५॥ समागतं विलोक्यैव पलायतेंद्रमुख्यकाः । ब्रह्माणं शरणं सर्वे भयभीता दिवौकसः ॥६॥ सिंदूरः कोपसंयुक्त आययौ तत्र मानद । ब्रह्मा हंसं समारुह्य देवैः पपाल तत्क्षणात् ॥७॥ वैकुंठे स गतो विष्णुं

Here is the line-by-line Sanskrit transcription of the text from the image:

Header: खं. ४ अ. ४८ | पान १२१

Text: दैत्यस्तत्र समागतः । ततो विष्णुः शिवं देवैर्ययौ सत्वर एव च ॥८॥ तत्राऽपि स ययौ दैत्यः शंभुर्देवैर्गणेश्वरम् । तुष्टाव दैत्यनाशार्थं ततः स वरदोऽभवत् ॥९॥ सिंदूरमाययौ तत्र प्रभुः परशुधारकः । गजाननो मूषकारूढको भूत्वा प्रतापवान् ॥१०॥ तं दृष्ट्वा योद्धुमायातं सिंदूरः क्रोधसंयुतः । जगाद स्वमदेनैव युक्तः परमदुर्जयः ॥११॥ सिंदूर उवाच । किमर्थं रणभूमौ त्वमागतोऽसि गजानन । बालभावेन मां मूर्ख न जानासि सुरेरितः ॥१२॥ मच्छ्वासेन चलंति स्म मेरुमंदरकादयः । तलप्रहारवेगेन ब्रह्मांडं शतधा भवेत् ॥१३॥ शिवादयः सुरेशाश्च भयभीताः समागताः । तान् दृष्ट्वाऽपि गणाधीश योद्धुं कथमुपागतः ॥१४॥ बालभावेन संयातं न त्वां हन्मि गजानन । त्वत्प्रेरकान् सुरांश्चाहं हनिष्यामि न संशयः ॥१५॥ क्रोधेनाहं च यं कंचिदालिंगामि गजानन । स भस्मसाद्भवेन्नूनं किं करिष्यसि मां वद ॥१६॥ एवं श्रुत्वा गणाधीशो दैत्येशस्य वचो महत् । स उवाच प्रहस्याऽथ सिंदूरं लोकपीडकम् ॥१७॥ श्रीगजानन उवाच । दैत्याधम महाबाहो मां न वेत्सि प्रभाविणम् । स्वानंदवासिनं पूर्णं ब्रह्मभूतं विशेषतः ॥१८॥ एवमुक्त्वा विराट्पं दधार स गजाननः । हस्ताभ्यां मर्दयित्वा तं मस्तके विभुरालिपत् ॥१९॥ ब्रह्मणो रक्षणार्थं स वचः सिंदूरधारकः । गजाननो बभूवापि भक्तेश्रो भक्तिभावितः ॥२०॥ सिंदूरं मर्दितं दृष्ट्वा देवा हर्षसमन्विताः । तुष्टुवुस्तं प्रपूज्यैव भक्तिनम्रात्मकंधराः ॥२१॥ देवा ऊचुः । गजाननाय पूर्णाय सांख्यरूपमयाय ते । विदेहेन च सर्वत्र संस्थिताय नमो नमः ॥२२॥ अमेयाय च हेरंबाय ते परशुधारक । मूषकवाहनायैव विघ्नेशाय नमो नमः ॥२३॥ अनंतविभवायैव परेषां पररूपिणे । गुहाग्रजाय देवाय शिवपुत्राय ते नमः ॥२४॥ पार्वती नंदनायैव देवानां पालकाय ते । सर्वेषां पूज्यदेहाय गणेशाय नमो नमः ॥२५॥ स्वानंदवासिने तुभ्यं शिवस्य कुलदैवत । विष्ण्वादीनां विशेषेण कुलदेवाय ते नमः ॥२६॥ योगाकाराय सर्वेषां योगशांतिप्रदाय च । ब्रह्नेशाय नमस्तुभ्यं ब्रह्मभूयप्रदाय ते ॥२७॥ सिद्धिबुद्धिपते नाथ सिद्धिबुद्धिप्रदायिने । मायिने मायिकेभ्यश्च मोहदाय नमो नमः ॥२८॥ लंबोदराय वै तुभ्यं सर्वोदरगताय च । अमायिने च मायाया आधाराय नमो नमः ॥२९॥ गजः सर्वस्य बीजं यत्तेन चिह्नेन विघ्नप । योगिनस्त्वां प्रजानंति तदाकारा भवंति ते ॥३०॥ तेन त्वं गजवक्त्रश्च किं स्तुमस्त्वां गजानन । वेदादयो विकुंठाश्च शंकराद्याश्च देवपाः ॥३१॥ शुकादयश्च शेषाद्याः स्तोतुं शक्ता भवंति न । तथापि संस्तुतोऽसि त्वं स्फूर्त्या त्वद्दर्शनात्मना ॥३२॥ गजाननं प्रणेमुस्तमेवमुक्त्वा शिवादयः । स तानुवाच प्रीतात्मा भक्तिभावेन तोषितः ॥३३॥

खं. ४ अ. ४९ पान १२२

श्रीगजानन उवाच। भवत्कृतमिदं स्तोत्रं मदीयं सर्वदं भवेत्। पठते शृण्वते देवा ब्रह्मभूयप्रदायकम् ॥३४॥ वरं वृणुत देवेशास्तुष्टिं स्तोत्रेण चागतः। दास्यामि सकलाभीष्टं भवतां यच्चिकीर्षितम् ॥३५॥ शिवादय ऊचुः। यदि प्रसन्नभावेन वरदोऽसि गजानन। तदा तिष्ठ गृहे शंभोः सर्वदा विघ्ननाशनः ॥३६॥ त्वां दृष्ट्वा विघ्नहीनाश्च भविष्यामो निरंतरम्। प्रत्यक्षं योगरूपं च पश्यामस्तेन सार्थकाः ॥३७॥ मुद्गल उवाच। गजाननस्तानुवाचाऽथ तथेति सुरेश्वरान्। स्वलोकं कल्पयामास तत्रैव शिवपार्श्वगम् ॥३८॥ दशयोजनसाहस्रविस्तारस्तस्य मानद। गणाः कुमुदमुख्याश्च कल्पिता मोदकादयः ॥३९॥ तिष्ठति स्वर्गलोकेषु तदादि गणनायकः। गणेशलोक एवाऽसौ बभूवे भुक्तिमुक्तिदः ॥४०॥ सकामास्तं समागम्य पतंति पृथिवीतले। निष्कामास्तस्य देहे ते अंते लीना भवंति हि ॥४१॥ एतत्ते कथितं सारं गजाननचरित्रकम्। शिवपुत्रत्वभावेन ब्रह्मेशोऽयं बभूव ह ॥४२॥ यः शृणोति नरो भक्त्या पठेद्वा तस्य सिद्धिदम्। भविष्यति प्रजानाथ तथा नानासुखप्रदम् ॥४३॥

॥ ओमिति श्रीमदन्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते सिन्दूरवधो नामाष्टचत्वारिंशोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ दक्ष उवाच। निर्माल्यस्य च माहात्म्यं श्रुतं यत् परमाद्भुतम्। विस्तरेण पुनः स्वामिन् वद तस्य चरित्रकम् ॥१॥ मुद्गल उवाच। पराशरगृहे देवो बभूव ह गजाननः। पुत्रभावेन तस्यापि चरितं कथितं पुरा ॥२॥ पराशरेणैव तत्र स्थापिता मूर्तिरादरात्। गजाननस्य भो दक्ष सर्वदाऽभूत् सुसेविता ॥३॥ नित्यं तत्रैव देवेशा ब्रह्मविष्णुशिवादयः। रात्रौ गजाननं ते संपूजयंति सुसिद्धिदम् ॥४॥ गजासुरवधाद्दक्ष प्रारभ्य भक्तिसंयुताः। स्वर्गपुष्पोपहाराद्यैः सुप्रसन्नाननां- बुजाः ॥५॥ कदाचित् तत्र राजर्षिर्मृगयासक्त आययौ। सैन्येन स्वप्रधानैश्च संवृतो वीरभद्रकः ॥६॥ स आगत्य गणेशानं पूजयन् भक्तिसंयुतः। तत्रैव निशि संस्थोऽभूद्वाणपत्यो महायशाः ॥७॥ उषःकाले समागत्य स पुपूज गजाननम्। पुष्पाणि दृष्टवान् सोऽभूत् तत्र स्वर्गोद्भवानि च ॥८॥ सुवासबहुलान्येव मंदाराद्यानि भूमिपः। विस्मितो मानसे भूत्वाऽभवत्तत्रैव संस्थितः ॥९॥ देवालयं पिधायाऽसौ भूपः संस्थाप्य रक्षकान्। सैन्ययुक्तो जगागार देवदर्शनलालसः ॥१०॥

खं. ४ अ. ४९ पान १२३ ततो देवेंद्रमुख्याश्च रात्रौ देवाः समाययुः । तद् दृष्ट्वा गुप्तरूपेण पुपूजुस्तं गजाननम् ॥११॥ पूजयित्वा गताः सर्वे राजा तत्र समागतः । पूजां दृष्ट्वा महाभागो विस्मितोऽभूत् पुनः पुनः ॥१२॥ ततः स्वगुरवे गत्वा पप्रच्छ विनयान्वितः । देवदर्शन- कांक्षी कृतांजलिः स विशेषतः ॥१३॥ वीरभद्र उवाच । स्वामिन् देवगणाः पूजयितुं चात्र गजाननम् । नित्यमायांति तान् द्रष्टुमिच्छामि वद कारणम् ॥१४॥ शिवशर्मोवाच । निर्माल्यसंभवानि त्वं पुष्पाणि यत्र तत्र च । आच्छादय महीपाल तेषां ते दर्शनं भवेत् ॥१५॥ तथेति वीरभद्रेण कृतं देवालये पुनः । देवाः समागता रात्रावज्ञानेनाचरंस्ततः ॥१६॥ निर्माल्यस्पर्श- मात्रेण पुण्यहीना बभूविरे । पूजां कृत्वा पुनर्गंतुमिच्छां चक्रुः सुरेश्वराः ॥१७॥ ततोऽतिवेगहीनैश्र्च देवैर्देवेंद्रसत्तमैः । विचारेण समाज्ञातं कारणं गतिखंडने ॥१८॥ पादस्पर्शः कृतोऽस्माभिर्निर्माल्ये गणपस्य च । अतो गतिविहीनैश्र्च किं कर्तव्यं विशेषतः ॥१९॥ ततो राजा समायातः पूजार्थं देवसन्निधौ । निर्माल्यमार्जनं कृत्वा ददर्श देवमुख्यकान् ॥२०॥ तान् प्रणम्य महाभक्त्या तुष्टाव विविधैः स्तवैः । प्रसन्नास्ते च राजानमूचुः शंम्वादयः सुराः ॥२१॥ शिवादय ऊचुः । राजंस्त्वया कृतं कर्म स्वार्थभावेन दुःखदम् । देवानां तत्र चोपायं कुरु गतिप्रदायकम् ॥२२॥ ततो राजा भयोद्विग्नः स्वगुरुं प्रणिपत्य तम् । पप्रच्छ चलने तेषामुपायं पुण्यदं परम् ॥२३॥ गुरुणा बोधितो राजा हृदि ध्यात्वा गजाननम् । गणेशपूजया जातं पुण्यपुष्पं ददौ तदा ॥२४॥ अगाधपुण्ययोगेन देवा गतियुताः कृताः । विष्ण्वादयो जगुस्तं ते वरं वृणु महीपते ॥२५॥ अमोघं दर्शनं प्रोक्तमस्माकं शास्त्रसंमतम् । अतो मनेप्सितं भूप दास्यामो नात्र संशयः ॥२६॥ ततो राजा च ब्रह्माद्यानुवाच स कृतांजलिः । गणेशे दृढभक्तिर्मेऽस्तु भवत्कृपया परा ॥२७॥ ततस्ते विस्मिताः सर्वे प्रार्थयित्वा गजाननम् । ददुर्भाक्त गणेशानै ब्रह्मभूतपदप्रदाम् ॥२८॥ गताः स्वर्गेषु देवास्ते राजा तत्र समास्थितः । राज्यं पुत्रे विनिक्षिप्य बाले प्रधानसंयुते ॥२९॥ नित्यं गजाननं भक्त्याऽभजदनन्यचेतसा । अंते स्वानंदगो भूत्वा भजते गणनायकम् ॥३०॥ एवं निर्माल्यमाहात्म्यं संक्षेपेण निरूपितम् । पठनाच्छ्रवणात्नृभ्यो भुक्तिमुक्तिफलप्रदम् ॥३१॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते गणेशनिर्माल्यमाहात्म्यवर्णनं नामैकोनपंचाशत्तमोऽध्यायः ॥

पान १२४

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । पार्श्वेण मुनिना पूर्वं दीपवत्सलया सह । पत्न्या परमसत्या वै तपसाऽऽराधितो विभुः ॥१॥ दशवर्षसहस्रेषु गणेशो वरदोऽभवत् । स्तुतः संपूजितस्तेन नानास्तोत्रैः प्रजापते ॥२॥ ताभ्यां पुत्रो भव स्वामिन् वृतस्तवन्नौ वरो महान् । तथेति गणराजस्तौ कथयित्वा ययौ पुरम् ॥३॥ ततः कदाचिद्देवर्षिर्नारदस्त्विन्द्रमाययौ । पूजितः सुरनाथेन जगाद वचनं हितम् ॥४॥ नारद उवाच । हिमवत्यां हिमप्रांते राजा मदसमन्वितः । अभिनन्दन एवाऽसौ यज्ञं करोति दुर्मतिः ॥५॥ ब्राह्मणान् स समानीय प्रोवाच बलगर्वितः । यज्ञमिन्द्रेण हीनं मे कुरुध्वं यत्नसंयुताः ॥६॥ नो चेत् सर्वान् हनिष्यामि क्रोधयुक्तो महर्षयः । तस्य तद्वचनं श्रुत्वा तथेति ब्राह्मणा जगुः ॥७॥ अद्य श्वो वा करिष्यंति यज्ञं भयसमन्विताः । ब्राह्मणा नात्र संदेहो यथेच्छसि तथा कुरु ॥८॥ एवमुक्त्वा महायोगी नारदः प्रययौ ततः । वैकुंठे स महाविष्णुं ततः स्वच्छंदगोऽभवत् ॥९॥ इंद्रः क्रोधसमाविष्टः सस्मार कालरूपिणम् । भगवंतं महाकायमिंद्रं स प्रययौ प्रभुः ॥१०॥ तं प्रणम्य प्रतुष्टाव कथयामास दुःखदम् । वृत्तांतं प्रार्थयामास यज्ञविध्वंसनाय तम् ॥११॥ कालस्तथेति तं तुष्टः कथयित्वा ययौ धराम् । धारयामास मनसि कालः कलयतां प्रभुः ॥१२॥ कालाधीनं जगत् सर्वं सदा कालेन भुज्यते । कालं योगबलेनैव जयंत्यत्र हि योगिनः ॥१३॥ तत्रादौ कर्मसंशुद्धा योगनिष्ठा भवंति च । अतः कर्मविनाशार्थं यतिष्येऽहं विशेषतः ॥१४॥ कर्महीना नराः सर्वे मलिनाः संभवंति च । नेच्छंति योगमार्ग ते भविष्यंति मदात्मकाः ॥१५॥ जन्ममृत्युयुताः सर्वे मदधीना न संशयः । इंद्रेण प्रेरितस्तत्र च्छद्म नैव करोम्यहम् ॥१६॥ विचार्य काल इति स आसुरं रूपमादधे । विघ्नरूपेण तं भूपं ययौ क्रोधसमन्वितः ॥१७॥ यज्ञं बभंज वेगेन ब्राह्मणांस्ताडयन् पुरा । ततो नानास्थले दुष्टो ह्यगमद्विघ्नरूपधृक् ॥१८॥ कर्मखंडनभावेन चचार बलमोहितः । सर्वत्र कर्मलोपाय विघ्नेनापीड्य मानवान् ॥१९॥ ततः सोऽपि महावेगो जनान् कालेन मोहयन् । भ्रामयामास विप्रान् योगिनो नानास्वरूपधृक् ॥२०॥ प्रातःकालं चकाराऽसौ निशीथं सायमादरात् । मध्याह्नं कारयामास नानाभ्रमकरः सदा ॥२१॥ चकार रात्रिरूपं स दिवसं कर्मखंडकः । रात्रिं दिवसरूपां तां वक्तुं नैव प्रशक्यते ॥२२॥ लोकान् भ्रमयुतान् सर्वान् कर्महीनांश्चकार सः । चंद्रमाच्छाद्य कालस्तु सूर्यं नक्षत्राकादिकान् ॥२३॥ ततोऽतिभयसंयुक्ता देवा भ्रांता बभूविरे । कर्महीनप्रभावेण चोपोषणपरायणाः ॥२४॥ न समर्था बभूवुस्ते कालं चलयितुं प्रभुम् । कालाधीनाः सुराः सर्वे सृष्टिस्थितिलयात्मकाः ॥२५॥ ततो वसिष्ठमुख्याश्च ब्रह्माणं

शरणं ययुः । तेन सार्धं च वैकुंठं जग्मुः कालभयान्विताः ॥२६॥ विष्णुना शंकरं जग्मुर्ब्राह्मणा भयसंकुलाः । स्तुत्वा नानाविधैः स्तोत्रैः शशंसुः कालचेष्टितम् ॥२७॥ शिवेन संयुताः सर्वे विघ्नेशं तुष्टुवुः प्रभुम् । तपसा ध्यानयुक्तेन तोषया- मासुरादरात् ॥२८॥ गते वर्षशते काले परमात्मा गजाननः । वरदस्तान् ययौ देवान् बोधयामास तापसान् ॥२९॥ ततस्तैः संस्तुतो देवः प्रार्थितो विघ्ननाशने । तथेति प्रतिपाद्यैव पार्श्वपुत्रो बभूव सः ॥३०॥ दीपवत्सलया युक्तः पार्श्वः परम- योगवित् । पुरा तताप घोरं स तपो विघ्नेश्वरं स्मरन् ॥३१॥ प्रगतेषु स वर्षेषु सहस्रे गणनायकः । प्रसन्नस्तं ययौ तेन पूजितः संस्तुतोऽभवत् ॥३२॥ स वव्रे मे भव स्वामिन् पुत्रः परमतारकः । संसारे पुत्रवात्सल्याद्भजिष्यामि सह स्त्रिया ॥३३॥ मूर्तौ देवस्वभावेन हृदये योगमार्गतः । भजिष्यामि त्रिधा ढुंढे त्वां सर्वत्र विशेषतः ॥३४॥ नानाकर्मपरोऽहं वै तव देव गजानन । पिता जातश्च तेन त्वं तारको मे भविष्यसि ॥३५॥ तथेति विघ्नराजस्तमुवाचांतर्दधे प्रभुः । विघ्नासुरविनाशाय बभूवे देहधारकः ॥३६॥ दीपवत्सलिकायाः स जठरे संगतो विभुः । स्तनपानादिकं सर्वं स चकारा तितोषितः ॥३७॥ पंचवर्षात्मको बालो बभूव मुनिवेश्मनि । तदा देवर्षयः सर्वे तं ययुर्भक्तिसंयुताः ॥३८॥ शंभ्वाद्यान् स सुरान् वीक्ष्य वसिष्ठादिमुनीश्वरान् । पार्श्वः संभ्रमसंयुक्तस्तान् पुपूज यथाविधि ॥३९॥ उवाच प्रेमसंयुक्तो धन्यं मे जन्म कर्म च । येन देवगणाः सर्वे मुनयो गृहमागताः ॥४०॥ आज्ञां कुरुत देवेशा दासोऽहं भवतां द्विजाः । करिष्यामि न संदेहो भवत्स्मृति- बलेन वै ॥४१॥ देवर्षय ऊचुः । तव भाग्यबलेनैव सुतः स्वानंदगोऽभवत् । गजाननः स्वयं सर्वे प्रार्थयामो हिताय तम् ॥४२॥ विघ्नासुरेण दुष्टेन जगद्भ्रष्टं कृतं मुने । तस्य नाशार्थमेवं त्वं कुरु यत्नं महामते ॥४३॥ श्रुत्वा तेषां वचः क्रूरं मुनिः शोकयुतो- ऽभवत् । एतस्मिन्नंतरे तत्र स गजानन आययौ ॥४४॥ तं दृष्ट्वा सहसोत्थाय नेमुः सर्वे सुरेश्वराः । मुनयस्तुष्टुवुर्देवं प्रार्थयामासुरादरात् ॥४५॥ तेषां हृदि स्थितं ज्ञात्वा शस्त्रहस्तश्चतुर्भुजः । मूषकोपरि संस्थो यो ययौ हंतुं महासुरम् ॥४६॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते विघ्नासुराश्रमगमनं नाम पंचाशत्तमोऽध्यायः ॥

पान १२६ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । केनाऽपि विघ्नदैत्यस्य स्थानं न ज्ञायते सदा । कालस्य गणनाथस्तु ययौ तस्याऽश्रमं प्रभुः ॥१॥ गुप्तरूपधरं विघ्नमंकुशेन समानयत् । तद् दृष्ट्वा परमाश्चर्यं देवाः सर्वे विसिस्मिरे ॥२॥ ततस्तं स महाकालः प्रावमत्य गजाननम् । अंतर्धाय स्वमात्मानमग्निरूपो बभूव ह ॥३॥ त्रैलोक्यसंस्थितं ज्ञात्वा तेजस्तत्त्वसमाश्रितम् । विघ्नं गजाननः क्रुद्धो वायुः संहारकोऽभवत् ॥४॥ ततः कालः स्वयं दक्षोऽभवदाकाशतत्त्वगः । वायुस्थं गणनाथं स कर्षयामास दारुणः ॥५॥ आकाशस्थं महाकालं ज्ञात्वाऽहंकारधारकः । गजाननश्च तं क्रुद्धोऽकर्षयत् प्रलयं प्रभुः ॥६॥ ततो विघ्नो महत्तत्त्वं समाश्रित्य गजाननम् । ताडयामास संक्रुद्धः कालः कलयतां प्रभुः ॥७॥ ततो गजाननः क्रुद्धः प्रधानरूप- धारकः । महत्तत्त्वस्थमेवं तं कर्षयामास दारुणम् ॥८॥ ततोऽभवत् सोऽपि महत्तत्त्वं त्यक्त्वा गुणेशगः । प्रधानं हंतुमारेभे कालः परमदुर्जयः ॥९॥ ततो गजाननः साक्षाद्विंदुब्रह्मस्थितोऽभवत् । चतुष्पादमयीं शक्तिं हंतुं चिक्षेप सोऽंतकम् ॥१०॥ गुणेशाच्च परः कालस्ततः खंडितविक्रमः । कालो मायां चतुष्पादां निरीक्ष्य त्रासितोऽभवत् ॥११॥ शक्तिं दृष्ट्वा महाघोरां कालगर्वहरां पराम् । शरणं गणराजं स ययौ कालः प्रजापते ॥१२॥ समागतं महाविघ्नं देवा मुनिगणास्ततः । विस्मिताश्चा- ऽभवन् सर्वे जयेति गणपं जगुः ॥१३॥ विघ्नासूरः प्रणम्यादौ पुपूज ह गजाननम् । तद् दर्शनजबोधेन तुष्टाव स कृतांजलिः ॥१४॥ विघ्नासुर उवाच । नमस्ते गणनाथाय गजाननस्वरूपिणे । योगाय योगनाथाय योगिभ्यो योगदायिने ॥१५॥ अनाकाराय साकाररूपाय ते नमो नमः । नानाभेदविहीनाय भेदानां पतये नमः ॥१६॥ विघ्नेशाय परेशाय कालभीति- हराय ते । हेरंबाय परेषां वै परात्पर नमो नमः ॥१७॥ अनादये ह्यनाथाय सर्वेषामादिमूर्तये । भक्तेशाय सदा भक्तवाञ्छित- प्रद ते नमः ॥१८॥ स्वानंदवासिने तुभ्यं मूषकध्वजिने नमः । मूषकोपरिसंस्थाय ढुंढिराजाय ते नमः ॥१९॥ आदिमध्यांत- हीनायादिमध्यांतस्वरूपिणे । गजवक्त्राय वै तुभ्यं सर्वपूज्याय ते नमः ॥२०॥ सिद्धिबुद्धिस्वरूपाय सिद्धिबुद्धिप्रदाय च । सिद्धिबुद्धिपते तुभ्यं महोदर नमो नमः ॥२१॥ अमेयमायातिगमूर्तयेऽपि ते सदा सुशांतिप्रदपूर्णमूर्तये । मनोवचो- हीनमयाय तेजसे मनोवचोयुक्तकलाय ते नमः ॥२२॥ अज्ञानदोषेण कृतोऽपराधो हेरंब तं क्षंतुमिहार्हसि त्वम् । रक्षस्व मां भक्तियुतं दयाब्धे श्रेष्ठं वरं देहि परेशपाल ॥२३॥ अधुना हि मया बुद्धं स्वरूपं ते गजानन । योगाकारमयोऽसि त्वं ततोऽहं निर्जितस्त्वया ॥२४॥ त्वां विना कः समर्थः स्यात् कालं कलयतां प्रभुम् । जेतुं धन्यः कृतो नाथ पादपद्मस्य दर्शनात् ॥२५॥

खं. ४ अ. ५१ पान १२७


एवं स्तुत्वा महाविघ्नः प्रणनाम गजाननम् । तमुत्थाप्य जगादेदं वचनं सर्वदः परः ॥२६॥ श्रीगजानन उवाच । त्वया कृतं मदीयं वै स्तोत्रं सर्वप्रदं भवेत् । कालस्य न भयं तेषां पठतां शृण्वतां सदा ॥२७॥ यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः । महायोगप्रदं चास्तु स्तोत्रं मत्प्रीतिवर्धनम् ॥२८॥ हंतुं त्वां क्रोधसंयुक्त आगतोऽहं न संशयः । वाञ्छितं वृणु नो हन्मि अधुना शरणार्थिनम् ॥२९॥ महाकाल उवाच । भक्तिं देहि त्वदीयां मे सुदृढां तां गजानन । दासरूपेण मां नाथ रक्षस्व त्वत्समीपगम् ॥३०॥ ब्रह्मेश कार्यं कथय तत् करिष्यामि यंत्रितः । स्थानं भक्ष्ययुतं देहि तत्र तिष्ठामि नित्यशः ॥३१॥ मन्नामपूर्वकं नाम कुरु त्वं ते गजानन । सर्वसिद्धिकरं नाथ पूर्णयोगप्रदं परम् ॥३२॥ जगाद गणराजस्तु ततस्तं भक्तमुत्तमम् । निर्विकल्पं मनस्तस्य ज्ञात्वा भक्तप्रपालकः ॥३३॥ श्रीगजानन उवाच । मदीया भक्तिरचला भविष्यति तवाऽनघ । यद्यदिच्छसि तत्तत्ते सफलं चास्तु सर्वदा ॥३४॥ मत् समीपे गणो भूत्वा तिष्ठ त्वं बलसंयुतः । महाविघ्नस्वरूपेण नानाविघ्नगणैर्वृतः ॥३५॥ विघ्नराजेति मन्नाम भविष्यति सुसिद्धिदम् । ब्रह्मभूयकरं पूर्णं वाञ्छितार्थप्रदायकम् ॥३६॥ यत्र मे स्मरणं नास्ति कर्मादौ पूजनं तथा । तत् सर्वं भुंक्ष्व विघ्न त्वं अंशयित्वा सुरेंद्रकान् ॥३७॥ शिवविष्णुमुखा देवा अन्ये मुनिमुखा नराः । शेषाद्या नागराजास्ते नानाजंतव एव च ॥३८॥ अहंकोरेण संयुक्ता भवंति यदि तेऽसुर । तदा तान् अंशयित्वा त्वं भुंक्ष्व भोगान् यथेप्सितान् ॥३९॥ मद्भक्तिकारिणः सर्वे त्वया पाल्या विशेषतः । तेषां निर्विघ्नभावेन पुरो भावपरो भव ॥४०॥ एवमुक्त्वांतर्दधेऽसौ गजाननः प्रतापवान् । विघ्नो विघ्नैः समायुक्तः शांतरूपो बभूव ह ॥४१॥ देवा मुनिमुखाः सर्वे स्वस्वस्थानं ययुस्ततः । सपत्नीकस्तत्र पार्श्वो मूर्च्छितोऽभूत् प्रजापते ॥४२॥ तयोर्हृदि गणाधीशः प्रकटो- ऽभूद्वचोऽब्रवीत् । मां चिंतामणिरूपं ते पश्य तात हृदि स्थितम् ॥४३॥ मूतौं पूजनमात्रेण हृदि ध्यानेन मानदौ । संतुष्टौ जनकौ नित्यं संशयो न भविष्यथः ॥४४॥ यदा मे स्मरणं तातौ महाकार्ये करिष्यथः । द्रक्ष्यथो मां न संदेहो योगशांतौ भविष्यथः ॥४५॥ एवमुक्त्वांतर्दधे सोऽपि गणेशो हृदि रूपधृक् । तौ स्वस्थौ मूर्तिमास्थाप्य निरंतरमपूजताम् ॥४६॥ इति ते गणराजस्य कथितं चरितं महत् । अंशा गजाननस्यैते अवतारा विधे स्मृताः ॥४७॥ वरेण्यपुत्रभावेन बभूव ह गजाननः । कस्मिन् काले वधार्थाय सिंदूरस्य न संशयः ॥४८॥ कल्पभेदानुसारेण नानारूपधरः प्रभुः । गजाननो ह्यभूच्चूर्णयितुं वापि


ग. पु. १७