मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
खं. ६ अ. १० पान २१ शक्त्याः प्रमाणभावेन पूजयेत् द्वारसंयुतम् । गणेशं विधिसंयुक्तश्चतुर्विधफलं लभेत् ॥५२॥ गणेशं द्वारसंयुक्तं यो नरः पूजयेत् कदा । यत्र तत्र गतश्चाऽसौ धर्मकामार्थमोक्षभाक् ॥५३॥ न तस्य मरणे देवा या मतिः सा गतिर्भवेत् । न भूम्यादिविकारश्च नीचोचो नैव विद्यते ॥५४॥ एतत् द्वारस्य माहात्म्यं यः शृणोति नरोत्तमः । स वै संस्कारयोगेन भुक्तिं मुक्तिं लभेत् पराम् ॥५५॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खंडे विकटचरिते मयूरेशद्वारयात्राविधिवर्णनं नाम नवमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ पंचदेवा ऊचुः । क्षेत्रस्य मानसंभूतं माहात्म्यं वद विस्तरात् । कियन्मानं समाख्यातं क्षेत्रं स्वानंद- वाचकम् ॥१॥ अन्यच्च वद योगींद्र धर्मकामार्थमोक्षगान् । अर्थान् येनैव तेषां स ज्ञानयुक्तो भवेन्नरः ॥२॥ पूर्वस्थे तु कथं द्वारे धर्म एकः प्रतिष्ठति । तथाऽर्थो दक्षिणद्वारि पश्चिमे काम एव च ॥३॥ उत्तरद्वारसंस्था तु कथं मुक्तिर्महामुने । चतुर्ब्रह्मसु चत्वारि विभक्तानि कथं वद ॥४॥ आदौ शाक्तं साधयित्वा पश्चात् सौरं लभेन्नरः । ततो वैष्णवकं बह्म ततः शैवं समाधिना ॥५॥ ततो गाणेश्वरं ब्रह्म प्रलभेन्नात्र संशयः । क्रमेण योगभूमिस्थो ब्रह्मभूतो नरो भवेत् ॥६॥ अत्रादौ वैष्णवं ब्रह्म द्वारभूतं नरोत्तमः । यात्रामार्गेण विप्रेश साधयेत् कथितं त्वया ॥७॥ ततः शैवं ततः शाक्तं ततः सौरं विधानतः । विपरीतं कथं प्रोक्तं वद कारणमत्र तु ॥८॥ शक्तिसूर्यावतिक्रम्य कथं वैष्णवगो भवेत् । अकस्माद् भ्रांतभावेन भ्रष्टो भवति मानवः ॥९॥ शक्तिरुवाच । एवं पृष्टो महायोगी भृशुंडी परमार्थवित् । जगाद तान् महादेवान् तच्छृणुध्वं तु शक्तयः ॥१०॥ भृशुंड्युवाच । धर्मः स्वधर्मरूपश्च सर्वसिद्धिप्रदायकः । अर्थः समर्थरूपाख्यो ज्ञातव्यः सर्वदायकः ॥११॥ कामः शरीरभोगाख्यो हृद्यः सौख्यप्रदायकः । मुक्तिश्चतुः शरीरेभ्यो हीनत्वे परिकीर्तिता ॥१२॥ धर्मः सर्वसमानाख्यो यथा भवति सर्वदा । कर्मानुसारभावेन फलं नित्यं ददाति सः ॥१३॥ स्वं परं नैव देवेशाः कदा धर्मस्य वर्तते । शुभाशुभं
कृतं येन तादृशं स फलं लभेत् ॥१४॥ समानं वैष्णवं ब्रह्म तेन धर्मः स्थितोऽभवत् । पूर्वद्वारे महाभागाः सर्वधर्म- प्रकाशकाः ॥१५॥ आदौ स्वधर्मनिष्ठश्चेत्ततः सर्वं नरोत्तमः । लभते नात्र संदेहः कारणं धर्म एव च ॥१६॥ विष्णोरंगमयो धर्मो विष्णुद्वारे समाश्रितः । अतः प्रथमधर्मार्थं पूर्वद्वारं समाचरेत् ॥१७॥ अर्थः समर्थरूपाख्य ईश्वरान्न परोत्तमः । समर्थस्तेन देवेंद्रो अर्थस्तत्र समाश्रितः ॥१८॥ समर्थभावेन यदि केऽपि तिष्ठंति देवताः । ते सर्वे तत्कालांशाश्च ज्ञातव्या नाऽत्र संशयः ॥१९॥ ईश्वरः सर्वशास्त्रेषु शिव एकः प्रकीर्तितः । अर्थः शिवांगात् संभूतस्तेन तं संश्रितोऽभवत् ॥२०॥ धर्मं कृत्वा समर्थश्च भवते मानवोत्तमः । सर्वकार्येषु देवेंद्रः क्रम एवं प्रकीर्तितः ॥२१॥ द्वितीयाश्रितयात्रातो दक्षिणद्वारसंभवा । कथिता सर्वभावज्ञैर्नरैभ्यः सर्वसिद्धये ॥२२॥ कामो भोगात्मकः प्रोक्तो देहाय विषयप्रदः । विषयाणां समारख्यातं कारणं शक्तिरंजसा ॥२३॥ शक्तेरंगात् समुद्भूतः कामस्तेन महेश्वराः । तामाश्रित्य स्थितः सोऽपि सर्वकामविवर्धनः ॥२४॥ आदौ धर्मं समाश्रित्य समर्थो जायते नरः । ततः कामान् स्वयं भुंक्ते सर्वान्नानासुखप्रदान् ॥२५॥ तृतीयं द्वारमेतस्मात् कामभोगफलप्रदम् । कृतं यात्राविधाने तु ज्ञातव्यं विबुधैः सदा ॥२६॥ मोक्षो जन्ममृतिभ्यां च हीनः संकीर्तितो बुधैः । शुक्तां गतिं ददत्तत्र सूर्यस्तिष्ठति नित्यदा ॥२७॥ आत्मा सूर्य इति प्रोक्तं तस्मान् मोक्षः प्रलभ्यते । तेन सूर्य समाश्रित्य मोक्षस्तत्रैव तिष्ठति ॥२८॥ कामेभ्यो धर्मसंयुक्तस्तृप्तो भवति मानवः । इच्छेन् मुक्तिं ततो यत्नाद्वितृष्णो देवसत्तमाः ॥२९॥ वासनायुक्तभावेन मुक्तौ नैव प्रवर्तते । अतो मुक्तिमयं द्वारं चतुर्थं परिकीर्तितम् ॥३०॥ एतद् द्वारस्य देवेशा रहस्यं कथितं मया । श्रवणात् सौख्यदं पूर्णं भवेत् पठनात्तथा ॥३१॥ एतत् क्रमार्थप्रामाण्यात् पूर्वं धर्मसमाश्रितम् । वैष्णवं तत्र कर्तव्यं द्वारं विघ्नेशनिर्मितम् ॥३२॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते द्वाररहस्यवर्णनं नाम दशमोऽध्यायः ॥
खं ६ अ. ११ पान २३ ॥ श्रीगणेशाय नमः ॥ भृगुंड्युवाच । चतुरस्रं गणेशस्य क्षेत्रं शास्त्रे प्रकीर्तितम् । ब्रह्मभूतमयं साक्षादेकं द्वादशयोजनम् ॥१॥ गणेशात् पूर्वदिग्देशे शतं च धनुषां स्थितम् । द्वारमष्टाविंशतिकं तत्रार्धेन विहीनकम् ॥२॥ दक्षिणस्यां गणेशान्दू द्विगुणं द्वारमुत्तमम् । पूर्वद्वाराच्च संप्रोक्तं ज्ञातव्यं विबुधैः सदा ॥३॥ ततः पश्चिमदिग्भागे गणेशाद् द्वारमुत्तमम् । द्विगुणं दक्षिणांगात्तु किंचिन्न्यूनं बुधैः पुरा ॥४॥ गणेशादुत्तरे भागे परं द्वारं च संस्थितम् । पश्चिमात् पादहीनं तदधिकं किंचि- दंजसा ॥५॥ एतावान् क्षेत्रविस्तारः कथितो देवसत्तमाः । नवखंडाद्विभिन्नं तु क्षेत्रं गाणेश्वरं मतम् ॥६॥ क्षेत्राणि प्रलयेषु श्रेष्ठानि दैवतसत्तमाः । प्रगच्छंति लयं नैव रक्षितानि स्वदैवतैः ॥७॥ महाप्रलयवेलायां तत्त्वानि त्रिगुणैः सह । लयं गच्छंति वेगेन कालस्य परमात्मनः ॥८॥ तदा क्षेत्राणि सर्वाणि स्वस्वदेवयुतानि च । लयं गच्छंति देवेशा निश्चितं योगिभिः पुरा ॥९॥ महाप्रलयकाले तु गाणेशं क्षेत्रमीदृशम् । नाशहीनं प्रभावेण परं तिष्ठति सर्वदा ॥१०॥ देवेशा ऊचुः । क्षरं क्षेत्रमिदं वाक्यं कथितं वेदवादिभिः । कथं नाशविहीनं तद्वद योगींद्रसत्तम ॥११॥ स्वानंदः सर्वसंयोगे जायते नाऽत्र संशयः । क्षेत्रस्याख्या कथं प्राप्ता स्वानंदस्य वद प्रभो ॥१२॥ भृगुंड्युवाच । क्षेत्रं गाणेश्वरं शास्त्रे सर्वमान्यं न विद्यते । ब्रह्मणस्पतिक्षेत्रत्वात् ब्रह्मरूपं च तत् स्मृतम् ॥१३॥ यथा स्वानंदरूपश्च स्वसंवेद्यात्मकः स्मृतः । तथा स्वानंदक्षेत्रं तु ब्रह्माकारं प्रकीर्तितम् ॥१४॥ देहः सगुणरूपस्तु निर्गुणं तस्य मस्तकम् । तयोर्योगे यथा देहस्तथा क्षेत्रं प्रकीर्तितम् ॥१५॥ आंतिरूपा स्वयं सिद्धिर्देहधात्री बभूव ह । आंतिधारकरूपा च बुद्धिः क्षेत्रं तथा स्मृतम् ॥१६॥ संगहीनतया सर्व स्त्रीपुंभावसुखं स्मृतम् । गणेशसिद्धिबुद्धीनां तथा क्षेत्रं प्रकीर्तितम् ॥१७॥ बहुनाऽत्र किमुक्तेन गणेशस्य किमप्यहो । क्षेत्रादिकं ब्रह्ममयं प्राकृतं नैव विद्यते ॥१८॥ यत्किंचिद्गणराजस्य तत्तद्ब्रह्मप्रवाचकम् । लोकादिकं मुनींद्रैश्च ब्रह्मणस्पति- रुच्यते ॥१९॥ गणेशक्षेत्रसंभूतानि क्षेत्राणि समंततः । तत्रैव मरणे देवाः फलदानि भवंति च ॥२०॥ धर्मार्थकाम- मोक्षाणां प्रदानि कथितानि तु । गाणेशं पंचमं ब्रह्म ब्रह्मभूतपदप्रदम् ॥२१॥ ततो द्वारस्य यात्रायां धर्मार्थकाममुक्तयः । संस्थितास्तत्र लभ्यंते यात्राकारिजनैः पराः ॥२२॥ क्षेत्रे मरणतो देवाश्चतुर्भिर्वर्जितो भवेत् । नरः सद्यस्तु संस्काराद्ब्रह्मभूतो न संशयः ॥२३॥ सुरासुरमयं क्षेत्रं गाणेशं ब्रह्मवाचकम् । साक्षात् कृतं शिवाद्यैश्च क्षेत्रं दैवं ततः स्मृतम् ॥२४॥ कमल- मस्तकस्थत्वात् पश्चादासुरकं स्मृतम् । तयोर्योगे स्वसंवेद्यं सर्वादौ तत् प्रकथ्यते ॥२५॥ यद्वैकद्वारयात्रां यः करोति च
खं. ६ अ. ११ पान २४
चतुर्षु सः । आप्नुयात्तद्गुवं सौख्यं मानवो यत्र कुत्रगः ॥२६॥ यस्मात् कस्मात् समायातः सकृद्यात्रां समाचरेत् । क्षेत्रस्य च गणेशस्य द्वारगां सर्वमाप्नुयात् ॥२७॥ यो नित्यं द्वारयात्रां स क्षेत्रसंस्थः समाचरेत् । वंद्यः क्षेत्रस्थलोकानांमंते ब्रह्म- मयो भवेत् ॥२८॥ ब्रह्मांडॆ न समं किंचिद्गणेशक्षेत्रकेण तु । चतुर्भिर्वर्जितं प्रोक्तं पंचमं तच्चतुर्मयम् ॥२९॥ बुधैर्गणेश्वर- क्षेत्रं त्रिविधं परिकीर्तितम् । बाह्यांतरादिभेदैश्च शृणुत देवनायकाः ॥३०॥ गर्भांगारं गणेशस्य वासगं योजनार्धकम् । बभुर्गणपतेश्चावतारास्तत्र संस्थिताः ॥३१॥ गाणेशा मुद्गलाद्या ये तत्र ते संस्थिता बभुः । सेवार्थं गणराजस्यान्ये जना भवनागताः ॥३२॥ तदेव चतुरस्रं तु चतुर्द्वारंसुशोभितम् । भक्तेभ्यः सिद्धिदं पूर्ण मनोरथसुपूरकम् ॥३३॥ गणेशात् पूर्वदिग्भागे धनुषां च शतानि तु । षट्किंचिन्न्यूनमानानि द्वारं सर्वार्थदं मतम् ॥३४॥ तत्र बुद्धिः स्थिता साक्षाद्विद्याभिः सेविता स्वयम् । कलाभिः पूजयित्वा तां ज्ञानवान् पुरुषो भवेत् ॥३५॥ गणेशाद्दक्षिणे भागे द्विगुणं दूरगं भवेत् । पूर्वद्वाराद्दक्षिणगं द्वारं गर्भाश्रितं महत् ॥३६॥ तत्र प्रमोद्यकाद्याश्च गणा ब्रह्मसुखे रताः । संस्थिताः पूजनेनैव गाणपत्य- पदप्रदाः ॥३७॥ गणेशात् पश्चिमे भागे द्वारं गर्भगृहस्य च । द्विगुणं दक्षिणद्वाराद् दूरगं परिकीर्तितम् ॥३८॥ तत्र सिद्धिः स्वयं देवाः संस्थिता पूजनेन तु । नाना सिद्धिसमायुक्ता नाना सिद्धिप्रदायिनी ॥३९॥ पादन्यूनेन मानेन पश्चिमद्वारत- स्त्था । उत्तरद्वारमाख्यातं गणेशसंमुखे बुधैः ॥४०॥ तत्र देव्यश्चतुःषष्टियोगिन्यः संस्थिता बभुः । परिवारयुताः सर्वा योगसिद्धाश्च मातरः ॥४१॥ तासां पूजनमात्रेण योगं विद्यात् स मानवः । अंतर्धानादिकं नाना कामदं नात्र संशयः ॥४२॥ गर्भांगारस्य यात्रां यो नित्यं कुर्यान्नरोत्तमः । अथवा तु चतुर्थ्यां वै सर्वकामार्थसिद्धये ॥४३॥ यात्रार्थं मानवो देवाः समागतो भवेद्यदा । तदा कुर्यादथो भक्त्या यात्रां गर्भगृहस्य च ॥४४॥ गर्भांगारात् परं क्षेत्रं देवालयमिति श्रुतम् । तत्र देवादयः संति खर्गस्थाः सेवनोत्सुकाः ॥४५॥ त्रियोजनप्रमाणेने चतुरस्रं च तन्मतम् । द्वाराणि तस्य चत्वारि कथयामि समासतः ॥४६॥ गणेशात् पूर्वदिग्भागे किंचिन्न्यूनानि दूरतः । शतानि पूर्वद्वारं तु धनुषां हि चतुर्दश ॥४७॥ तत्र भैरवराजेंद्रो नग्नः सर्वभयंकरः । त्रिशूली मुक्तकेशश्चातिष्ठत् स्वतेजसान्वितः ॥४८॥ तस्य पूजनमात्रेण वाञ्छितं लभते नराः । यातनां न लभेत् सोऽपि नानाकर्मसमुद्भवाम् ॥४९॥ तस्माद् द्विगुणमानेन गणेशाद् दूरतः शिवः । नील- कंठश्च देवेशा दक्षिणद्वारपोऽभवत् ॥५०॥ तस्य पूजां प्रकुर्याद्यस्तया बंधनतो नरः । मुच्यते नात्र संदेहो विषबाधा-
यहाँ पृष्ठ का देवनागरी में मूल पाठ प्रस्तुत है:
[शीर्षक]: खं. ६ अ. १२ | पान २५
विवर्जितः ॥५१॥ पश्चिमे विघ्नराजात्तु दक्षिणाद् द्विगुणे स्थितः । दूरे यः कृत्तिवासाः स द्वारदेवः प्रकीर्तितः ॥५२॥ तस्य पूजनमात्रेणाऽऽसुरं कर्म विनश्यति । ईप्सितं लभते चापि यात्रामात्रेण मानवः ॥५३॥ उत्तरे गणनाथाद्वै पश्चिमात् पाद- हीनतः । द्वाराद् द्वारं स्थितं देवास्तत्र भीमेश्वरः स्थितः ॥५४॥ तस्य यात्रां प्रकुर्याद्यः सद्यः सत्तासमन्वितः । भवेत् स मानवश्चारोग्यं लभेत निरंतरम् ॥५५॥ तृतीयक्षेत्ररूपं तु कथितं विस्तरान् मया । चतुर्द्वारयुतं पुण्यं मयूरं तन्मतं परम् ॥५६॥ क्षेत्रात् सर्वत्र देवेशा योजनं चतुरस्रगम् । देवक्षेत्रं समाख्यातं चतुर्विधपदप्रदम् ॥५७॥ क्षेत्रात् पूर्वविभागस्थो नरो गच्छेन् मृतः स्वयम् । वैकुंठे नात्र संदेहस्तत् क्षेत्रं वैष्णवं यतः ॥५८॥ दक्षिणे क्षेत्ररूपात्तु मृतो योजनमध्यगः । स कैलासे वसेन्नूनं शैवं क्षेत्रं यतः स्मृतम् ॥५९॥ मयूरात् पश्चिमे क्षेत्राद्योजनस्थो मृतो भवेत् । शक्तिलोकं वसेत् सोऽपि शाक्तं क्षेत्रं च तत् स्मृतम् ॥६०॥ मयूरादुत्तरे देवा यो मृतो योजनस्थितः । स सौरे संवसेन्नित्यं सूर्यक्षेत्रं यतः स्मृतम् ॥६१॥ एवं क्षेत्रस्य माहात्म्यं प्रमाणसहितं मया । कथितं श्रवणाच्चैव पठनात् पापहारकम् ॥६२॥ तत्र गत्वा महेशाना पूजयेत गजाननम् । स्थापयित्वाऽचलां मूर्तिं सिद्धिं प्राप्स्यथ निश्चितम् ॥६३॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते क्षेत्रप्रमाणवर्णनं नाम एकादशोऽध्यायः ॥
✦ ✦ ✦
॥ श्रीगणेशाय नमः ॥ देवा ऊचुः । पुरा कल्पे महाभाग मयूरे द्वारसंश्रिताम् । यात्रां कृत्वा नराः सिद्धिमलभंस्तद्वदस्व नः ॥१॥ देवभूमौ मृता ये वै तेषां सिद्धिं वदस्व च । एकद्वाराश्रितां यात्रां कृत्वा के सिद्धिमाप्नुयुः ॥२॥ श्रुत्वा कथां महारम्यां हर्षश्चेतसि वर्धते । सर्वज्ञोऽसि न संदेह आदिमध्यांतगस्तथा ॥३॥ भृशुंड्युवाच । पुरा जातां कथां रम्यां शृणुध्वं देवसत्तमाः । स्वगुरुं मुद्गलं नत्वा कथयामि समासतः ॥४॥ द्राविडे ब्राह्मणः कश्चिद्विद्याहीनो बभूव ह । तत्रैवांत्यजजातिस्थो नरो मूढस्तथाऽभवत् ॥५॥ माता पिता तस्य हीनौ तथा त्यक्तौ सुहृज्जनैः । त्यक्त्वा स्वदेशभूमिं बभ्रमतुस्तौ महीतलम् ॥६॥ प्रसंगात्तु जनानां तौ मयूरे दैवयोगतः । समागतौ जनैर्युक्तौ तस्थतुस्तत्र हर्षतः ॥७॥ स्नात्वा प्रभातकाले तौ शमीदूर्वादलं
ख. ६ अ. १२ पान २६ तथा । गृह्य विघ्नेशपूजार्थं जग्मतुः स्नेहभावतः ॥८॥ अंत्यजेन स्वकीया च प्रदत्ता ब्राह्मणाय तु । पूजा दूर्वादिसंयुक्ता गणेशार्थं स्वधर्मतः ॥९॥ ब्राह्मणो गणराजं तं पूजयामास भावतः । विधिमंत्रैर्विहीनस्तु जलपत्रादिभिः परम् ॥१०॥ ततस्तौ जनसंघातैर्जग्मतुर्दैवसत्तमाः । गर्भागारद्वारसंस्थां यात्रां चक्रतुरादरात् ॥११॥ पूर्वद्वारे समागम्य बुद्धिं संपूज्य तं पुनः । गणेशं पूजयित्वा तौ तस्थतुस्तत्र देवपाः ॥१२॥ उपोषणसमायुक्तौ विधानेन बभूवतुः । द्वितीये दिवसे यात्राम् क्षुधितौ तौ न चक्रतुः ॥१३॥ यात्रां त्यक्त्वा गतौ हर्षात्त्यक्त्वा क्षेत्रं महाद्भुतम् । अकस्मात् ज्ञानसंयुक्तौ विद्यायुक्तौ बभूवतुः ॥१४॥ जातिस्मरौ विशेषेण विचारं चक्रतुः परम् । अहो वर्णयितुं क्षेत्रमाहात्म्यं न प्रशक्यते ॥१५॥ एकद्वारस्य यात्रा तु कृता- ऽऽवाभ्यां ततः परम् । ज्ञानं विद्यायुतं प्राप्तं संपूर्णां किं स्तुवः कृताम् ॥१६॥ ततः स्वनगरं गत्वा सर्वमान्यौ बभूवतुः । तेन संस्कारयोगेन गणेशभजने रतौ ॥१७॥ भक्तेर्बलेन तौ देवा अंते स्वानंदलोकगौ । तत्र विघ्नेश्वरं दृष्ट्वा ब्रह्मभूतौ बभूवतुः ॥१८॥ एवं नाना जना द्वारसिद्धिं तत्र प्रलेभिरे । न मया वर्णनं शक्यमन्यैर्वर्षशतैरपि ॥१९॥ अन्यद्वारेषु सर्वेषु यथोक्तफलभोगिनः । न संदेहो बभूवुः कथयितुं नैव शक्यते ॥२०॥ मयूरे ये मृताः क्षेत्रे तेषां सिद्धिं वदाम्यहम् । देवमुख्याश्च शृणुत सर्वसंतोषवर्धिनीम् ॥२१॥ पुरा शूद्रः समायातः कश्चिद्दैववशेन तु । कुष्ठरोगसमायुक्तो मयूरे धूम्रनामकः ॥२२॥ तत्रोच्छिष्टादिकं भुंजन् भिक्षायां निरतोऽभवत् । मासमध्ये मृतः सोऽपि भृशं रोगेण पीडितः ॥२३॥ स स्वानंदं समाश्रित्य ब्रह्मभूतो बभूव ह । एवं नाना जनाः क्षेत्रे ब्रह्मभूता मयूरके ॥२४॥ तेषां न शक्यते वक्तुं चरित्रं देवसत्तमाः । यथोक्तफलभोक्तारो बभूवुर्नात्र संशयः ॥२५॥ तत्र क्षेत्रस्थिता देवा नराः पापपरायणाः । मृता क्षेत्रे यदा तेषां भयं यमकृतं न हि ॥२६॥ नग्नभैरवनामाऽसौ कथितः क्षेत्रपालकः । दंडधारक एवं तु सदा मायूरवासिनाम् ॥२७॥ तस्याधीनं समग्रं तु क्षेत्रं वैनायकं परम् । शुद्धं कृत्वा नरं दंड्यं स्वानंदे स्थापकोऽभवत् ॥२८॥ देवेशा ऊचुः । कोऽसौ नग्नस्वरूपेण भैरवः सर्वभैरवः । कीदृशी यातना विप्र मयूरे पापकारिणाम् ॥२९॥ भृशुंड्युवाच । मायासंगविहीनोऽयं सदा साक्षिवदुच्यते । तेन नग्न इति ख्यातो गाणपत्याग्रणीः परः ॥३०॥ यस्माद्भीतानि तत्त्वानि जगत् संवर्तयंति तु । ब्रह्मा सृष्टिकरो देवा विष्णुः पाता च तद्भयात् ॥३१॥ हरः संहारकारी च सूर्यस्तपति नित्यदा । संमोहधारिणी शक्तिः सदा भवति तद्भयात् ॥३२॥ इत्यादि सकलं तस्माद्भीतं स्वस्वपदे स्थितम् । स्वस्वकर्मकरं प्रोक्तं तेन भैरवकः स्मृतः ॥३३॥ मायया
खं. ६ अ. १२ पान २७ गणराजेन सृष्टः सर्वार्थदायकः। गाणेशानां न संदेह इतरेषां भयंकरः ॥३४॥ गर्भागारं गणेशस्य रहस्यं रूपमुच्यते। अतस्तत्रैव देवेशाः स्थातव्यं यत्नतः सदा ॥३५॥ तत्र पूजादिकं कार्यं सत्कर्मादिकमुत्तमम्। न तत्रानृतकामादिकर्तव्यं मानवेन च ॥३६॥ न च मूत्रमलत्यागः कर्तव्यस्तत्र देवपाः। सदा गाणेशभावेन स्थातव्यं मानवैः सदा ॥३७॥ क्षेत्रे पुण्यं यथा प्रोक्तमधिकं ह्यन्यदेशतः। तथा तत्र कृतं पापमधिकं भवतीत्यहो ॥३८॥ अतः क्षेत्रेषु पापानि नाचरेत्तु नरोत्तमः। यथाशास्त्रं विधानेन पुण्यं तेषु समाचरेत् ॥३९॥ अन्यक्षेत्रेषु पापं यत् कृतं नश्यति तत्क्षणात्। क्षेत्रेषु पंचदेवानां ब्रह्मादिपदगेषु वै ॥४०॥ नरैस्तेषु कृतं पापं मयूरे नश्यति क्षणात्। मयूरे यत् कृतं पापं वज्रलेपं तु तत् स्मृतम् ॥४१॥ विधिं तत्र प्रवक्ष्यामि शृणुत देवसत्तमाः। येन संशयहीनाश्च भविष्यथ विचारतः ॥४२॥ मयूरे यत् कृतं पापं देवालये विनश्यति। देवालये कृतं चैतद्गर्भागारे लयं व्रजेत् ॥४३॥ गर्भागारे कृतं पापं द्वारयात्राबलेन च। नश्यत्यत्र न संदेहः प्रदक्षिणविधानतः ॥४४॥ द्वारयात्राकृतं पापं वज्रलेपमयं भवेत्। तदेव यातनां दत्त्वा नरस्य नाशमेष्यति ॥४५॥ यदा जन्मादि प्रारभ्य मरणान्तं समाचरेत्। पापं मयूरक्षेत्रे स यातनां प्रलभेन्नरः ॥४६॥ दशवर्षसहस्राणि नग्नभैरवनायकः। भैरवीं यातनां दत्त्वा शुद्धं करोति मानवम् ॥४७॥ यातना त्रिविधा तस्य भैरवस्य महात्मनः। कथयामि समासेन तां शृणुध्वं महेश्वराः ॥४८॥ अग्निकुंडादिकं तत्र संस्थितं भैरवस्थले। याम्यालक्षाधिकं प्रोक्तमुग्रं वक्तुं न शक्यते ॥४९॥ आदावेव स तां दत्त्वा पश्चाद् यमसमां प्रभुः। ददाति यातनां घोरां भैरवो भयदायकः ॥५०॥ ततो भूतपिशाचादि संभूतां प्रददाति सः। ततः शुद्धं नरं कृत्वा स्वानंदे स्थापयिष्यति ॥५१॥ चत्वारिंशत्सहस्राणि भैरवीं यातनां स्वयम्। ददाति तु ततो याम्यां त्रीणि साहस्रकाणि हि ॥५२॥ ततस्त्रीणि सहस्राणि पैशाचीयोनिसंभवम्। ददाति क्रोधसंयुक्तो नग्नः शूलधरः प्रभुः ॥५३॥ एवं सर्वं समाख्यातं यातनाजं महद्द्वयम्। यथा मयूरक्षेत्रस्थो नरो विन्द्यान् मृतः परम् ॥५४॥ पापरूपा नरा ये वै गाणेशे संस्थिताः खलाः। तान् स्वयं भैरवाधीशो बहिः कुर्याद्भयप्रदः ॥५५॥ पुण्यशीलान् हृदिस्थश्च समानाय्य महेश्वराः। भैरवः क्षेत्रगान् कृत्वा रक्षेद्धै नित्यमादरात् ॥५६॥ मयूरक्षेत्रसंस्था ये क्षेत्रसंन्यासधारकाः। न तेषां दुःखलेशश्च भवेद्देवेंद्रसत्तमाः ॥५७॥ लक्ष्म्या नारायणस्तान वै धर्मयुक्तान् करोति सः। पार्वत्या शंकरस्तद्वन्नानार्थान् संददाति वै ॥५८॥ रत्या कामः स्वयं तेभ्यो नाना कामान् ददाति हि। भूम्या वराहकश्चैव ज्ञानं ददाति शाश्वतम् ॥५९॥ अतः सर्वं परित्यज्य
[Page Header: पान २८]
मयूरं तत् समाश्रयेत् । सुहृद्भिस्तं तु देवेशा ब्रह्मभूतं वदंति हि ॥६०॥ नानायोनिगतो जंतुस्तत्र स्त्रीपुत्रसंयुतः । देहपोषणसक्तश्च बभूवे देवसत्तमाः ॥६१॥ नरदेहं समाश्रित्य गाणेशक्षेत्रगो यदि । न भवेत् स सदा ज्ञेयो रासभैस्तुल्यभावगः ॥६२॥ पंचमं ब्रह्मरूपं यत्तदेव भूमिगं मतम् । क्षेत्ररूपेण तद्ये वै न सेवंते समाः पशोः ॥६३॥ स्वर्गेषु देवमुख्याश्चेच्छंति मानवदेहकम् । गत्वा मयूरक्षेत्रे तु मरिष्यामः सुभाग्यतः ॥६४॥ तत्रैव मरणे ब्रह्म प्राप्यते पंचमं परम् । धर्मार्थकाममोक्षास्तु यदिच्छंति परात्परम् ॥६५॥ काश्यादिक्षेत्रमुख्येषु यत्कृतं सुकृतं नरैः । तेन संस्कार- योगेन मयूरं लभ्यते परम् ॥६६॥ इति सर्वं समाख्यातं वासरूपं विशेषतः । पठनाच्छ्रवणान्नित्यं क्षेत्रवासफलप्रदम् ॥६७॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते मयूरक्षेत्रवासशुभाशुभवर्णनं नाम द्वादशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ देवा ऊचुः । कथं गणेशक्षेत्रस्य नाम जातं मयूरकम् । एतत् कौतूहलं ब्रूहि भृशुंडिन् परमार्थद ॥१॥ भृशुंड्युवाच । पुरा कल्पे महेशाना भवद्भिस्तत्र विघ्नपः । आराधितः स वै साक्षाद्वरदस्तान् समाययौ ॥२॥ मयूरवाहनो भूत्वा दशहस्तो दशायुधः । लंबोदरो गजमुखः प्रसन्नात्मा महेश्वरः ॥३॥ उवाच तान् वृणुध्वं मे वरांश्च मनसीप्सितान् । दास्यामि तपसा तुष्टो भक्त्या स्तोत्रादिना परान् ॥४॥ तैर्मानसेप्सितं सर्वं वृत्तं तस्माद्गजाननात् । पुनस्तं ते गणाध्यक्षमूचुः प्रांजलयोऽमराः ॥५॥ मूषको वाहनं तेऽभून् मयूरध्वज चाधुना । मयूरा रूढ एव त्वमागतोऽसि गजानन ॥६॥ अस्मिन् क्षेत्रे मयूरस्थो दृष्टस्त्वं गणनायक । अतो मयूरजन्माख्यं क्षेत्रं जातं त्वया कृतम् ॥७॥ अद्य प्रभृतिरेतत्तु क्षेत्रं मायूरनाम- कम् । भवेत्तत् सर्वविख्यातं त्वत्प्रसादाद्गजानन ॥८॥ मयूरक्षेत्रनाथस्त्वं मयूरेशो भव प्रभो । नाम्ना सर्वत्र विख्यातो भक्तानुग्रहकारकः ॥९॥ तथेति तानुवाचाथ गणेशोऽतर्द्धे स्वयम् । देवेशा अभवन्नत्वा स्वस्वकार्यपरायणाः ॥१०॥ एतद्वः सर्वमाख्यातं कारणं नामधारणे । क्षेत्रस्य क्षेत्रनाथस्यान्यच्छृणुध्वं महेश्वराः ॥११॥ चित्राकारा महामाया ह्यनंतखेलकारिणी । मयूरा सा समाख्याता मयूरेशस्तु तत्पतिः ॥१२॥ चतुर्ब्रह्ममयं क्षेत्रं मायारूपं मयूरकम् । विहरतस्तत्र देवा मयूरेशः
खं. ६ अ. १३ पान २९ प्रकीर्तितः ॥१३॥ देवेशा ऊचुः । चतुर्भुजो गणाध्यक्षो मयूरे संस्थितोऽभवत् । कथं दशभुजः सोऽपि बभूव वद योगिप ॥१४॥ भृशुंड्युवाच । भूस्वानंदमयं क्षेत्रमेकं सर्वादिसंमतम् । गाणेशं तत्र देवेशा न चित्रं किंचिदंजसा ॥१५॥ एकाक्षरभवं ध्यानं प्रथमं परिकीर्तितम् । सर्वादौ तत् सुविख्यातं क्षेत्रसंस्थं बभूव ह ॥१६॥ सप्तकोटयो महामंत्रा गणेशस्य महात्मनः । सर्वे मयूरक्षेत्रे ते कल्पभेदे स्थिता बभुः ॥१७॥ अनंतरूपधारी स हिताय गणपोऽभवत् । लोकानां तानि सर्वाणि मयूरे संभवति हि ॥१८॥ मयूरक्षेत्रगश्चैव गणेशो भक्तकारणात् । नानाक्षेत्रस्य भावेन तिष्ठति कलयाऽमरः ॥१९॥ अतः सर्वाणि रूपाणि गाणेशानि विशेषतः । मायूरे संस्थितान्येव मूलभूते महेश्वराः ॥२०॥ शक्तिरुवाच । भृशुंडिवचनं श्रुत्वा हर्षयुक्ताः सुरेश्वराः । ऊचुस्तं प्रणिपत्यादौ भक्तिनम्रात्मकंधराः ॥२१॥ ब्रह्माया ऊचुः । दंडकारण्यदेशे तु गणेशस्य महात्मनः । क्षेत्रं मुख्यं कथं जातं तन्नो वद महामुने ॥२२॥ भृशुंड्युवाच । स्वस्वकर्मकृतं देवास्तस्य दंडः प्रकीर्तितः । शुभाशुभमयः शास्त्रे नरैर्भोक्तव्य एव च ॥२३॥ दंडानां नाशकं पूर्णं तेनारण्यं प्रकीर्तितम् । शून्यवत् सर्वशास्त्रेष्वरण्यं तत्कथ्यते बुधैः ॥२४॥ ब्रह्मभूय- पदं पूर्णं परं चादंडवाचकम् । दंडकारण्यकं तेन नाम तस्य विशेषतः ॥२५॥ दंडकारण्यगे देवो ब्रह्मभूतमयः परः । गणेशो वेदवादेष्वदंडिनां स हितावहः ॥२६॥ अदंडिनश्च योगींद्राः कथिताः शुकमुख्यकाः । योगेशो ब्रह्मणां नाथो गणेशस्तत्र राजति ॥२७॥ इतिहासं प्रवक्ष्यामि पुरा वृत्तं सुरेश्वराः । सृष्टान्यरण्यमुख्यानि ब्रह्मणा कार्यसिद्धये ॥२८॥ दंडकारण्यकं तेषु गणेशं लालसं सदा । उवाच वेधसं नत्वा कृत्वा करपुटं पुरा ॥२९॥ दंडकारण्यमुवाच । ब्रह्मभूयप्रदं देवं भजिष्यामि पितामह । तदर्थं मंत्रराजं मे देहि सर्वज्ञ मुख्यक ॥३०॥ ब्रह्मोवाच । गणेशं भज भावेन ब्रह्मभूतः स वै स्मृतः । समूहानां प्रभुः पूर्णः समूहा ब्रह्मवाचकाः ॥३१॥ स्वानंदनगरं यस्य सिद्धिर्बुद्धिः प्रिये परे । लक्षलाभौ सुतौ प्रोक्तौ वाहनं मूषकः परः ॥३२॥ गजाननमयो यस्य देहश्च नररूपधृक् । सर्वं ब्रह्ममयं तेन ब्रह्मणस्पतिरुच्यते ॥३३॥ एवमुक्त्वा ददौ तस्मै मंत्रमेकाक्षरं परम् । तं नमस्कृत्य तच्चैव जगाम तपसे स्वयम् ॥३४॥ दिव्यवर्षसहस्रेण ज्ञानं गाणेशकं परम् । लब्ध्वाऽरण्यं महादेवस्ततो भक्तिं चकार ह ॥३५॥ तद्ययौ गणराजस्तु प्रसन्नो भक्तवत्सलः । जगाद वृणु ते चित्ते स्थितं वरमरण्यक ॥३६॥ तं दृष्ट्वा दंडकारण्यं समुत्थाय ननाम तु । पूज्यं स्तोतुं गणाधीशं चकमे तत्कृतांजलिः ॥३७॥ दंडकारण्यमुवाच । नमस्ते गजवक्त्राय गणेशाय महोदर । ब्रह्मणे ब्रह्मपालाय विघ्नेशाय नमो नमः ॥३८॥ हेरंबाय चतुर्बाहुधराय कंजपाणये ।
ख. ६ अ. १३ पान ३० पाशांकुशधरायैव परेशाय नमो नमः ॥३९॥ अनादये च सर्वेषामादिरूपाय ते नमः । ज्येष्ठानां ज्येष्ठरूपाय ज्येष्ठाय वै नमो नमः ॥४०॥ स्वानंदवासिने तुभ्यं सिद्धिबुद्धिवराय च । सिद्धिबुद्धिप्रदात्रे ते मूषकध्वजिने नमः ॥४१॥ मूषकोपरिसंस्थाय गणेशाय परात्मने । नानामायाप्रचालाय मयूरेशाय ते नमः ॥४२॥ नायकानां विशेषेण नायकाय विनायक । नायकै- र्वर्जितायैव नायकत्वप्रदायिने ॥४३॥ विघ्नेशाय महाविघ्नधारिणे सर्वदायिने । पददात्रे तथा हंत्रे विघ्नेशैस्ते नमो नमः ॥४४॥ अमेयशक्तये तुभ्यं सर्वपूज्याय ते नमः । किं स्तौमि त्वां गणाधीश योगाकारस्वरूपिणम् ॥४५॥ अधुना वरदोऽसि त्वं तदा मे नाम सार्थकम् । कुरु नित्यं वस स्वामिन् मम देहे गजानन ॥४६॥ भक्तिं देहि त्वदीयां मे सदा ब्रह्मप्रकाशिनीम् । तेनाऽहं कृतकृत्यश्च भविष्यामि गजानन ॥४७॥ एवमुक्त्वा गणेशानं प्रणनाम कृतांजलिः। भक्ति- भावसमायुक्तं तञ्जगाद गजाननः ॥४८॥ श्रीगजानन उवाच । त्वया कृतमिदं स्तोत्रं मदीयं सर्वसिद्धिदम् । भविष्यति महा- रण्य भुक्तिमुक्तिप्रदं परम् ॥४९॥ त्वयोक्तं सफलं सर्वं भविष्यति सदा प्रियम् । मामेव सर्वभावेन भजिष्यसि न संशयः ॥५०॥ नानावतारांश्चैव त्वद्देहस्थोऽहमंजसा । भविष्यामि गणेशोक्त्वाऽन्तर्दधे देवसत्तमाः ॥५१॥ अतो गणेशक्षेत्रं तु दंडकारण्यमुत्तमम् । सकलं तत्र सेवार्थं देवास्तस्य समाययुः ॥५२॥ तेषां क्षेत्राणि देवेशा दंडकारण्यगानि तु । तेषु स्थिता विशेषेण भजंते गणनायकम् ॥५३॥ सर्वेष्वरण्यदेशेषु गणेशः प्रतितिष्ठति । दंडकारण्यमध्ये स विशेषेणावतारकृत् ॥५४॥
खं. ६ अ. १४ | पान ३१
॥ श्रीगणेशाय नमः ॥ भृशुंडयुवाच । पुराकल्पभवां सर्वां कथयामि कथां पराम् । संक्षेपेण महाभागाः शृणुध्वं भक्तिसंयुताः ॥१॥ काचिद्विप्रस्य भार्या तु पीडिता दुर्जनैः पुरा । सा सतीभावरक्षार्थं यत्नयुक्ता बभूव ह ॥२॥ वने पतिविहीना सा तानुवाच महाखलान् । अद्य प्रारभ्य वस्त्राद्धि पंचमे स्त्री भवाम्यहम् ॥३॥ सत्यं वाक्यं न संदेहो गच्छध्वं वनवासिनः । एवमुक्ता गताश्चौरा हर्षिताः स्वगृहं ततः ॥४॥ सा वने शोकसंयुक्ता विचारमकरोत्तदा । यज्ञार्थं यजमानस्य भर्ता मे संगतो- ऽभवत् ॥५॥ करोमि किं समीपस्थं गच्छामि च मयूरकम् । तत्र धर्मस्य संस्थानं वर्तते नाऽत्र संशयः ॥६॥ यात्रामात्रेण तत्रैव स्वस्वधर्मः प्रलभ्यते । एवं विचार्य सा देवी मयूरेशं जगाम ह ॥७॥ स्नात्वा गणेशतीर्थे सा संपूज्य गणनायकम् । पूर्वद्वारस्थितां शक्तिं सर्वयुक्तां पुपूज ह ॥८॥ पुनश्चैव मयूरेशं पूजयित्वा विधानतः । सत्यसंपालनार्थाय स्वगृहं तत्क्षणाद्ययौ ॥९॥ ततस्ते वनगा दुष्टास्तां ययौ पंचमेऽहनि । सा सस्मार गणेशानं धर्मशक्तियुतं परम् ॥१०॥ तस्याः स्मरणमात्रेणाग्निस्तान् सर्वान् ददाह च । सा विस्मिता गणेशानममन्यत विशेषतः ॥११॥ मृता सा धर्मशक्तिस्थं गणेशं चिंत्य मानदा । वैकुंठमगमत् सा वै विष्णुना मानिता भृशम् ॥१२॥ पुनः कल्पे मयूरे सा पतियुक्ता बभूव ह । ब्राह्मणी तं पुनर्भक्त्या सिषेवे धर्मतत्परा ॥१३॥ अंते स्वानंदगा चैव बभूवे देवनायिका । ब्रह्मभूता महाभक्त्या पत्या युक्ता महाद्भुतम् ॥१४॥ एवं नाना जनास्तत्र नाना वर्णसमुद्भवाः । नरा नार्यश्च देवेशा महासिद्धिं प्रलेभिरे ॥१५॥ अन्यच्च दक्षिणद्वारसंस्थां शृणुत चादरात् । येन संशयहीनाश्च भविष्यथ विशेषतः ॥१६॥ भद्रदेशमहीपालः शास्त्रज्ञो बलसंयुतः । बभूव सर्वनीतिज्ञः प्रजापालन- लालसः ॥१७॥ कदा सामंतकैः सर्वैः पीडितोऽतितरां नृपः । न समर्थो बभूवैव तेषां निग्रहणे बलात् ॥१८॥ ततोऽतिशोक- संयुक्तो राज्यं त्यक्त्वा महामतिः । जगाम मुनिशार्दूलं शौनकं कर्मसिद्धये ॥१९॥ ज्ञात्वा वृत्तांतमेवं तु तस्य राज्ञश्च शौनकः । जगाद गच्छ राजेंद्र मयूरेशं सुसिद्धिदम् ॥२०॥ तत्र दक्षिणभागे तु द्वारमर्थात्मकं परम् । यात्रामात्रेण सर्वार्थदायकं तत् समाचर ॥२१॥ प्रणम्य भद्रसेनस्तं मयूरेशं समागतः । दक्षिणद्वारगां यात्रां चकार भक्तिसंयुतः ॥२२॥ पुनः स्वनगरं गत्वा स्मृत्वा विघ्नेश्वरं नृपः । जित्वा सर्वान् भद्रसेनः शत्रून् राज्यं चकार ह ॥२३॥ एवं यात्राविधानेन समर्थो जायते नरः । स्वस्वजातिभवं देवा अर्थं विंदति निश्चितम् ॥२४॥ ततः सोऽपि गणेशानं दक्षिणद्वारगं सदा । भुंजानो
भोगमभजन् मृतः कैलासगोऽभवत् ॥२५॥ पुनर्वैश्योऽभवत् सोऽपि मयूरे देवसत्तमाः । नित्यं गणेश्वरं देवमभजद्भक्ति- संयुक्तः ॥२६॥ अंते स्वानंदगो भूत्वा क्षेत्रे मरणतः स्वयम् । ब्रह्मभूतः स वैश्योऽपि नाम्ना मेघो बभूव ह ॥२७॥ एवं नाना जना देवा अर्थयुक्ता बभूविरे । तत्रैवं कति वो ब्रूयां शक्यते न मया क्वचित् ॥२८॥ अधुना पश्चिमद्वारसंभूतं कथयाम्यहम् । चरित्रं सर्वभावज्ञाः शृणुध्वं परमार्थदम् ॥२९॥ भारके नगरे रोगादिभिर्वैश्यः प्रपीडितः । दरिद्रो भोगहीनश्च सामो नाम्ना बभूव ह ॥३०॥ तेन स्कंदपुराणस्थं माहात्म्यं संश्रुतं कदा । स्वानंदक्षेत्रजं तेन विस्मितः प्रबभूव ह ॥३१॥ देवाः समागतो यात्रार्थं मयूरे पुरा स वै । यथाशास्त्रं विधानेन तीर्थदेवं पुपूज ह ॥३२॥ अतीव पीडितः सोऽपि रोगैस्तेन चकार ह । दारिद्र्येण तथा यात्रां पश्चिमद्वारसंस्थिताम् ॥३३॥ ततो रोगविनिर्मुक्तो बभूवे हर्षसंयुक्तः । स्वगृहं पुनरागत्य वैश्यवृत्तिं चकार ह ॥३४॥ धनाढ्यः स बभूवाऽपि सर्वमान्यः सुरेश्वराः । पश्चिमद्वारसंयुक्तमभजद्गणनायकम् ॥३५॥ स्वगृहे भोगसंयुक्तो बुभुजे विविधान् रसान् । अंते जगाम शक्तेः स लोकं परमसौख्यदम् ॥३६॥ पुनः क्षेत्रे बभूवाऽपि ब्राह्मणो वेदपारगः । मयूरे गणनाथं स शिवशर्माऽभजत्परम् ॥३७॥ क्षेत्रसंन्यासभावेन मयूरेशं समाश्रितः । अंते स्वानंदगो भूत्वा ब्रह्मभूतो बभूव ह ॥३८॥ अथोत्तरभवां यात्रां शृणुध्वं देवसत्तमाः । कर्णाटे शूद्रजातिस्थो बभूवे भीमनामकः ॥३९॥ कदा श्रुत्वा पुराणं स खेदयुक्तो बभूव ह । व्यर्थं मायामयं सर्वं तत्त्यजाम्यहमादरात् ॥४०॥ मुक्तिः संपूर्णभावेन लभ्यते केन कर्मणा । तदेव साधनीयं वै मया मानवदेहिना ॥४१॥ ततो बभ्रामातिखेदसंयुक्तो यत्र तत्र ह । वने ददर्श शूद्रः स विश्वामित्रं तपोधनम् ॥४२॥ तं प्रणम्य स्थितस्तत्र बभौ तेनाऽपि सत्कृतः । पप्रच्छ मुक्तिदं मार्गं तं जगाद स हर्षितः ॥४३॥ विश्वामित्र उवाच । महाश्रमयुतैश्चैव सत्कर्मभिर्विशेषतः । अनेकजन्मसंभूतैर्नरो मुक्तिमवाप्नुयात् ॥४४॥ अतो गच्छ महाक्षेत्रे मयूरेशस्य शूद्रज । उत्तरद्वारगां यात्रां कुरु मुक्तिमवाप्स्यसि ॥४५॥ आयासेन विहीनस्तु मुक्तिं तत्रैवमाप्नुयाः । मा खेदं कुरु शूद्र त्वं गच्छ गच्छ ममाज्ञया ॥४६॥ भीमस्तं कौशिकं नत्वा मयूरेशं समाययौ । उत्तरद्वारगां यात्रां चकार विधिसंयुतः ॥४७॥ अत्यंतलोलुपत्वात् स मुक्तिद्वारं चकार ह । पुनः स्वगृहमागत्य चकार कर्म देहजम् ॥४८॥ स्वधर्मेण युतो नित्यं स्त्रीपुत्राद्यैः स संयुतः । त्रिवर्णस्थजनानां वै सेवां चकार हर्षितः ॥४९॥ मुक्तियुक्तं
खं. ६ अ. १४ पान ३३
गणेशानमभजन्नित्यमादरात् । अंते जगाम सूर्यस्य लोकं तेजोमयं परम् ॥५०॥ ततः क्रमेण शूद्रः स शुक्लगत्या महेश्वराः । मोक्षरूपो बभूवाऽपि क्षेत्रयात्राप्रभावतः ॥५१॥ एवं नानाविधास्तत्र मुक्तिं प्राप्ता विशेषतः । तेषां मया चरित्रं यत्तद्वक्तुं न प्रशक्यते ॥५२॥ अथ देवेश्वराः पूर्णां यात्रां द्वारसमाश्रिताम् । कथयामि भवत्प्रीत्या सर्वसिद्धिप्रदायिनीम् ॥५३॥ मालवेऽन्त्यजजातिस्थो बभूवे दुंदुभिखनः । नाम्ना ख्यातश्च पापात्मा विचचार महीतलम् ॥५४॥ द्रव्यलोभी नरादींश्च हत्वा कोटरगोऽभवत् । मुमोच ब्राह्मणं सोऽपि न गां वा पापनिश्चयः ॥५५॥ कदाचिन् मार्गगः कश्चिद्वैश्यो द्रव्यसमन्वितः । मालवाद्दंडकारण्यं जगाम क्रयकारणात् ॥५६॥ स दृष्ट्वा द्रव्यसंयुक्तं महामार्गसमाश्रितम् । नाना जनैश्च संकीर्णं तमनु प्रययौ खलः ॥५७॥ वैश्यं क्रमेण देवेशा मयूरेशं समागतम् । अनु तं सोऽपि दुर्बुद्धिराययौ दुंदुभिखनः ॥५८॥ स वैश्यो गणनाथस्य यात्रायां निरतोऽभवत् । अंत्यजोऽपि तथा तत्र यात्रां तेन चकार ह ॥५९॥ चतुर्द्वाराणि कृत्वा तु संस्थिता विविधा जनाः । चांडालस्तत्र मायूरे तद्वत्तस्थौ स वै खलः ॥६०॥ ततस्तस्य च दुर्बुद्धेर्बुद्धिभेदो बभूव ह । विचारमकरोचित्ते स स्वयं दुंदुभिखनः ॥६१॥ अहो मयाऽतिमूर्खेण पापं नानाविधं कृतम् । का गतिर्मरणे मे तु भविष्यति सुदारुणा ॥६२॥ ततो वैश्यं प्रणम्यैव गतः स्वस्थानमादरात् । स्वधर्मसंयुतो भूत्वा चकार कर्म देहजम् ॥६३॥ पूर्वद्वारजपुण्येन स्वधर्माचार- संयुतः । दक्षिणद्वारजेनैव सत्तायुक्तो बभूव ह ॥६४॥ पश्चिमद्वारपुण्येन रोगाद्यभिबिवर्जितः । धनाढ्यो विविधान् भोगान् बुभुजेऽसौ सुहृद्वृतः ॥६५॥ उत्तरद्वारजेनैव यात्रायाः फलरूपिणा । महामोक्षं शुक्लगंत्याऽन्त्यजो लेभे महेश्वराः ॥६६॥ न शक्यते मया वक्तुं चरित्रं द्वारकारिणाम् । नानावर्णाश्रमे संस्थाश्चतुर्वर्गयुता बभुः ॥६७॥ नारीनरः पशुस्थश्च जीवस्तत्र समागतः । द्वारयात्रां तु कुर्यात् स चतुर्विधं फलं लभेत् ॥६८॥ इति द्वारस्य यात्रायाश्चरितं संशृणोति चेत् । पठति तस्य सर्वं तु सफलं कर्म संभवेत् ॥६९॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खंडे विकटचरिते द्वारयात्रावर्णनं नाम चतुर्दशोऽध्यायः ॥
खंड/अध्याय: खं. ६ अ. १५ (गणेश पुराण / मयूरेश माहात्म्य)
यहाँ प्रस्तुत पृष्ठ का मूल संस्कृत पाठ (पंक्ति-दर-पंक्ति) एवं उसका संपूर्ण श्लोकानुसार अर्थ/कथा-सार दिया गया है:
शीर्षक एवं पृष्ठ संख्या:
- खंड/अध्याय: खं. ६ अ. १५ (गणेश पुराण / मयूरेश माहात्म्य)
- पृष्ठ: पान ३४
मूल पाठ (पंक्ति-दर-पंक्ति):
॥ श्रीगणेशाय नमः ॥ भृशुण्ड्युवाच । देवालयस्य द्वाराणि चत्वारि कथितानि च । तेषां चरित्रकं देवाः कथयामि सुसेविनाम् ॥१॥ बभूव शूद्रजातिस्थो गुर्जरे मानवः खलः । नाम्ना शंभुरिति ख्यातो द्रव्ययुक्तः सुहृत्प्रियः ॥२॥ स सायाह्ने जगामैव किंचित् कार्यार्थमादरात् । ग्रामाद्बहिश्च तत्राऽपि प्रेतैः संवेष्टितोऽभवत् ॥३॥ दृष्ट्वा प्रेतान् महोग्रान् स भयभीतो बभूव ह । ततस्तं विविशुः सर्वे प्रेताः परमदारुणाः ॥४॥ तत्रैव पतितः शूद्रस्तदर्थं सुहृदस्ततः । समाययुस्तं संगृह्य स्वगृहं प्रययुः खलम् ॥५॥ ततः पिशाचतुल्यः स विचचार महीतलम् । तदर्थं सुहृदः सर्वेऽभवन् यत्नपरायणाः ॥६॥ तथाऽपि तं महाप्रेता मुमुचुर्न कदाचन । तत्तत् क्षेत्राणि तीर्थानि बभ्रमुस्तेन संयुताः ॥७॥ तदपि प्रेतराजास्तं मुमुचुर्न प्रतापतः । सुहृदस्तैन संयुक्ता महत् क्षेत्रं समाययुः ॥८॥ मयूरेशं समभ्यर्च्य शंभुं गृह्य सुहृज्जनाः । जग्मुस्ते भैरवं देवं नग्नरूपधरं परम् ॥९॥ दर्शनेन महेशाना भैरवस्य महात्मनः । प्रेतास्त्यक्त्वा ययुः सर्वे शंभुं भीता न संशयः ॥१०॥ स्वस्थप्रकृतिगं दृष्ट्वा विस्मिताः सुहृदोऽखिलाः । पुनर्विघ्नेशमापूज्य ययुः स्वनगरं ततः ॥११॥ नग्नभैरवदेवस्य दर्शनेन महेश्वराः । पिशाच- प्रेतदोषेभ्यो मुक्तः संजायते नरः ॥१२॥ ग्रहभूतादिजा नाना पीडादोषा भवंति न । कदाचिदपि देवेशा नग्नभैरवदर्शनात् ॥१३॥ नाना जना महाक्षेत्रे तं प्रणम्य विधानतः । यात्रामात्रेण दोषैश्च बभूवुर्वर्जिताः पुरा ॥१४॥ न वक्तुं शक्यते तत्र मया वर्षशतैरपि । संक्षेपेण ततो देवाः कथितं तस्य चेष्टितम् ॥१५॥ अथ दक्षिणद्वारस्य चरित्रं कथयामि वः । तत्र देवेश्वरः साक्षान्नीलकंठः स्थितोऽभवत् ॥१६॥ गणेशानं समाराध्य पपौ विषं समुद्रजम् । महोग्रं शांकरो देवः सर्वभस्मकरं परम् ॥१७॥ यस्य स्पर्शेन विष्णुश्च श्यामरूपो बभूव ह । विषयुक्तः पपाताऽसौ गर्वयुक्तप्रभावतः ॥१८॥ गणेशस्मरणं कृत्वा विषहीनो बभूव ह । महाविष्णुः शिवेनैवोपदिष्टः परवीरहा ॥१९॥ गणेशकृपया तत्तु विषं पीतं महात्मना । शांकरेण ततो दाहसंयुक्तः स बभूव ह ॥२०॥ मयूरेशेति संस्मृत्य दाहहीनो बभूव ह । सकृच्छीतलदेहः स मयूरेशं समाययौ ॥२१॥ तत्रैव संस्थितः सोऽपि नीलकंठो महेश्वरः । सेवार्थं गणराजस्य धाराधीशो बभूव ह ॥२२॥ तं प्रणम्य जनाः सर्वे विषहीना भवंति ते । इतिहासं वदाम्यत्र शृणुध्वं परमेश्वराः ॥२३॥ दंडकारण्यदेशस्थः कश्चित्तु क्षत्रियोऽभवत् । सुलोचन इति ख्यातो नानाशास्त्रविशारदः ॥२४॥ तेन भूपेन राजानो जिताः शस्त्रबलेन वै । निस्तेजसः पुनस्तं ते शरणं जग्मुराहताः ॥२५॥ तमुग्रदंडकर्तारं ज्ञात्वा सर्वे नृपास्ततः । विषबाधां ददुस्तस्मै किंचिच्छद्मबलेन वै ॥२६॥ स्वयं व्याकुल-
श्लोकानुसार हिंदी अनुवाद एवं कथा-सार:
- श्लोक १–२: श्री गणेशाय नमः। महर्षि भृशुण्डि बोले—हे देवगण! मयूरेश्वर देवालय (मंदिर) के चार द्वार कहे गए हैं। उनकी उत्तम सेवा करने वालों का चरित्र मैं आपसे कहता हूँ। गुजरात देश में शूद्र जाति का एक दुष्ट (खल) स्वभाव वाला, धनवान तथा मित्रों का प्रिय 'शंभु' नाम का मनुष्य रहता था।
- श्लोक ३–५: एक दिन सायंकाल किसी कार्यवश वह गाँव से बाहर गया। वहाँ भयंकर प्रेतों ने उसे घेर लिया। अत्यंत उग्र प्रेतों को देखकर वह भयभीत हो गया और उन परम दारुण प्रेतों ने उसमें प्रवेश कर लिया। वह शूद्र वहीं गिर पड़ा। तब उसके मित्र वहाँ पहुँचे और उस दुष्ट (शंभु) को उठाकर घर ले आए।
- श्लोक ६–८: इसके बाद वह पिशाच के समान पृथ्वी पर विचरने लगा। उसके मित्र उसे ठीक करने के यत्न में लग गए। तथापि उन महाप्रेतों ने उसे नहीं छोड़ा। वे मित्र उसे लेकर विभिन्न तीर्थों और क्षेत्रों में घूमे, फिर भी उन प्रेतों ने उसे अपने प्रभाव से मुक्त नहीं किया। अंततः मित्र उसे लेकर इस महाक्षेत्र (मयूरेश्वर क्षेत्र) में आए।
- श्लोक ९–११: मयूरेश भगवान की सम्यक् पूजा करके, मित्र शंभु को लेकर नग्न रूप धारण किए हुए परम देव 'नग्न भैरव' के पास गए। महात्मा भैरव के दर्शन मात्र से ही वे सभी प्रेत भयभीत होकर शंभु को छोड़कर भाग गए। उसे पुनः स्वस्थ प्रकृति (सामान्य) देखकर सभी मित्र विस्मित हुए और फिर विघ्नेश (मयूरेश्वर) का पूजन कर अपने नगर लौट गए।
- श्लोक १२–१५: हे देवेश्वरगण! नग्नभैरव देव के दर्शन से मनुष्य पिशाच और प्रेत के दोषों से मुक्त हो जाता है। नग्नभैरव के दर्शन से ग्रह, भूत आदि से उत्पन्न नाना प्रकार की पीड़ाएँ व दोष कभी नहीं होते। पूर्वकाल में अनेक लोग इस महाक्षेत्र में विधिपूर्वक उन्हें प्रणाम और केवल यात्रा करके ही दोषमुक्त हुए हैं। उसकी महिमा सौ वर्षों में भी नहीं कही जा सकती, अतः संक्षेप में यह चरित्र कहा गया।
- श्लोक १६–१८: अब मैं आपके सम्मुख दक्षिण द्वार का चरित्र कहता हूँ। वहाँ साक्षात् नीलकंठ देवेश्वर स्थित हैं। समुद्र-मंथन से उत्पन्न, सबको भस्म कर देने वाले परम उग्र कालकूट विष को भगवान शंकर ने गणेशजी की आराधना करके पिया था। जिस विष के स्पर्श मात्र से भगवान विष्णु श्यामरूप हो गए और अपने गर्व के प्रभाव से विषयुक्त होकर मूर्छित हो गिर पड़े।
- श्लोक १९–२१: तब शिवजी द्वारा उपदेश दिए जाने पर महाविष्णु ने गणेशजी का स्मरण किया और वे विष-दोष से रहित हो गए। गणेशजी की कृपा से ही महात्मा शंकर ने वह विष पिया था, जिससे उनके शरीर में तीव्र दाह (जलन) उत्पन्न हो गया। तब भगवान शिव ने 'मयूरेश' का स्मरण किया, जिससे वे दाह-मुक्त (शीतल) हो गए और उनका शरीर शीतल होते ही वे मयूरेश के समीप आए।
- श्लोक २२–२३: वहीं गणराज की सेवा के लिए महेश्वर नीलकंठ रूप में स्थित हो गए। उन्हें प्रणाम करके सभी मनुष्य विष-बाधा से मुक्त हो जाते हैं। हे परमेश्वरों! इस विषय में एक प्राचीन इतिहास कहता हूँ, सुनिए—
- श्लोक २४–२६: दंडकारण्य देश में 'सुलोचन' नाम का एक क्षत्रिय राजा था, जो अनेक शास्त्रों में प्रवीण था। उसने अपने बाहुबल और शस्त्रबल से अनेक राजाओं को पराजित कर दिया। आहत व निस्तेज होकर पराजित राजा उसकी शरण में आए। परंतु उसे अत्यंत उग्र दंड देने वाला जानकर, उन राजाओं ने छल-बल से उसे विष दे दिया, जिससे वह स्वयं व्याकुल... (कथा आगे जारी रहती है)।
खं. ६ अ. १५ | पान ३५
चित्तः सन् ज्ञात्वा विषभवां व्यथाम् । स जगाम मयूरेशं प्रधानैस्तत्क्षणान्नृपः ॥२७॥ उद्देशेन गणेशस्य महद्विषं महेश्वराः । स्तंभितं स ततो राजा क्षेत्रे समागतोऽभवत् ॥२८॥ तावद्विषेण भूपालः पीडितोऽतितरां किल । देहचेष्टाविहीनः स बभूवे देवसन्निधौ ॥२९॥ प्रधानास्तं प्रगृह्यैव यात्रां चक्रुर्यथाविधि । देवालयस्य द्वारस्थां दक्षिणे नीलकंठजाम् ॥३०॥ नीलकंठं प्रपूज्यैव तस्य तीर्थं स्वमस्तके । राजा वंद्य महेशानं विषहीनो बभूव ह ॥३१॥ ततो विघ्नेश्वरं राजा पूज्य स्वस्था- नगोऽभवत् । सुलोचनः शशासैव धरां संदंश्य दुर्जनान् ॥३२॥ एवं यात्राविधानेन विषहीनो नराधिपः । नीलकंठसमायुक्तं गणेशमभजत् परम् ॥३३॥ अंते कैलासगो राजा बुभुजे विविधं सुखम् । पुनश्च ब्राह्मणो जातः क्षेत्रे मायूरसंज्ञिते ॥३४॥ तत्रैव गणराजं स सदा भक्तिपरायणः । अभजद्धर्मशीलश्च नाम्ना ख्यातो महेश्वराः ॥३५॥ एवमंते जगामाऽसौ स्वानंदं गणपं परम् । ब्राह्मणो ब्रह्मभूतो वै बभूव परमद्युतिः ॥३६॥ एवं नाना जनास्तत्र नीलकंठं प्रदृश्य वै । सिद्धिं प्राप्ता महेशाना मया वक्तुं न शक्यते ॥३७॥ अधुना पश्चिमद्वारसंस्थं माहात्म्यमुत्तमम् । कथयामि महेशाना देवागारस्य सिद्धिदम् ॥३८॥ महिषासुरपुत्रश्च बभूव ह गजासुरः । तेन त्रैलोक्यगं सर्वं पीडितं सचराचरम् ॥३९॥ अजेयः सर्वभूतानां महाबलयुतो सुरः । कर्मखंडनभावेनापीडयत् सकलामरान् ॥४०॥ ततश्च शोकसंयुक्तो शंकरश्च मयूरगः । पूजयामास विघ्नेशं ततो दैत्यं जघान ह ॥४१॥ ततः क्षेत्रं समाश्रित्य संस्थितः पार्वतीपतिः । गणेशेन कृतः सोऽपि द्वाराधीशो महेश्वरः ॥४२॥ कृत्तिवासाः स्वयं शंभुर्देवागारस्य मानदः । पश्चिमद्वारसंस्थोऽभूद्भजतां भावपूरकः ॥४३॥ अत्रेतिहास मुख्यं यत् संक्षेपेण वदाम्यहम् । शृणुध्वं सर्वपापघ्नं गणेशे भक्तिदायकम् ॥४४॥ आंध्रदेशे द्विजः कश्चित् पापकर्मपरायणः । आसुरं धर्ममाश्रित्य दुर्विनीतो बभूव ह ॥४५॥ तदर्थं सुहृदः सर्वे नाना यत्नपरायणाः । हृदिस्थं राक्षसं वारयितुं शेकुर्न ते कदा ॥४६॥ तदाऽतिशोकसंयुक्ता ययुः कंचित्तपस्विनम् । तेनैव कथितः सर्ववृत्तांतो द्विजसंभवः ॥४७॥ तपस्वी उवाच । मलं त्यक्त्वा द्विजश्चायमकरोन्न कदा पुरा । शौचभ्रमयुतस्तत्र राक्षसः पिंगलो ययौ ॥४८॥ अपवित्रं द्विजं दृष्ट्वा ससार हृदि राक्षसः । करोति कर्म तेनाऽयमासुरं नित्यमादरात् ॥४९॥ अतः क्षेत्रे मयूरे वै कृत्तिवासोऽधरंगतः । द्वारयात्रा- विधानेन पूजयध्वमनेन तु ॥५०॥ तेनायं राक्षसो मुक्तो भविष्यति न संशयः । नान्यथाऽयुतवर्षैश्च समीचीनः कदाचन ॥५१॥ ततस्ते हर्षिताः सर्वे तं गृह्य क्षेत्रमाययुः । देवागारस्य यात्रां ते चक्रुः पश्चिमद्वारगाम् ॥५२॥ कृत्तिवाससमभ्यर्च्य
ख. ६ अ. १९ पान ३६ द्विजः सचश्व देवपाः । रक्षोहीनो बभूवाऽपि स्वधर्मसहितोऽभवत् ॥५३॥ ततः स्वगृहमागत्य गणेशमभजद् द्विजः । कृत्तिवासः समायुक्तमंते कैलासगोऽभवत् ॥५४॥ पुनः स ब्राह्मणो भूत्वा मयूरेशं समाश्रितः । क्षेत्रसंन्यासभावेनाऽभजत्तं नित्यमादरात् ॥५५॥ अंते गणपतौ सोऽपि ब्रह्मभूतो बभूव ह । एवं पश्चिमद्वारस्य माहात्म्यं कथितं मया ॥५६॥ नाना जना महेशानः पश्चिमद्वारकारिणः । रक्षोभावविहीनाश्च बभूवुर्नाऽत्र संशयः ॥५७॥ अतः परं प्रवक्ष्यामि देवागारस्य देवपाः । उत्तरद्वारसंयुक्तं चरित्रं सर्वकामदम् ॥५८॥ राक्षस्यां कुंभकर्णात्तु बभूवे राक्षसाधिपः । भीमः सर्वत्र शैवस्य मार्गध्वंसनकारकः ॥५९॥ तेन शैवा धृताः केचित् पुरा केचिच्च संहताः । ततः कदा द्विजः कोऽपि महापाशुपतो धृतः ॥६०॥ स उपोषणसंयुक्तः शिवं ध्यात्वा समास्थितः । कारागारे राक्षसस्य वधार्थं ह्युद्यतोऽभवत् ॥६१॥ हृदिस्थं शंकरं सोऽपि तं पुपूज विशेषतः ॥६२॥ शंकरः क्षुभितोऽत्यंतं भीमं हंतुं समाययौ । युद्धं कृत्वा स भीमेन ताडितस्तु पपाल ह ॥६३॥ समागत्य मयूरेशं प्रार्थयामास शंकरः । तं पूज्य प्रययौ तत्र जघान भीममुल्बणम् ॥६४॥ स एव भीमनाथस्तु स्थापितोऽभूद् द्विजैः पुरा । शैवास्तं हर्षसंयुक्ताः पुपूजुर्भक्तिभावतः ॥६५॥ ततः स भीमनाथस्तु मयूरे भक्तिकारणात् । समागतो मयूरेशं पूजयामास नित्यदा ॥६६॥ द्वाराधीशं चकारैव गणेशस्तं महेश्वराः । देवागारस्य देवेशमुत्तरे भीमशंकरम् ॥६७॥ पूजयित्वाऽमरेशानं सत्तायुक्तो नरोऽभवत् । अत्रेतिहासमाद्यं यत् कथयामि समासतः ॥६८॥ दंडकारण्यदेशस्थो राजा परमधार्मिकः । उग्रसेन इति ख्यातः सर्वविद्याविशारदः ॥६९॥ बलहीनो महीपालो बभूवे वायुदूषितः । जडवच्चेष्टया हीनः संस्थितो दुःखसंयुतः ॥७०॥ नानोपायांश्चकाराऽसौ शांतये वैद्यनायकैः । तथाऽपि रोगनिर्मुक्तो न बभूव नराधिपः ॥७१॥ ततोऽकस्मान् महादैत्यः सुखभोक्ता समागतः । बलात् सर्वं नरेंद्रस्य राज्यं जग्राह तत्क्षणात् ॥७२॥ ततोऽतिभय- संयुक्ताः प्रधानास्तं प्रगृह्य वै । मयूरेशं समायाताः पप्रच्छुर्जंयदायकम् ॥७३॥ गाणेशैः क्षेत्रसंस्थैश्च कथितं द्वारसंभवम् । माहात्म्यं तच्च ते श्रुत्वा हर्षयुक्ता बभूविरे ॥७४॥ नृपं गृह्य प्रधानास्ते देवागारस्य चोत्तरे । द्वारयात्रां विधानेन चक्रुः परमभक्तितः ॥७५॥ ततो रोगविहीनस्तु राजा सत्तायुतोऽभवत् । गणेशं पूज्य सैन्येन युतः स्वनगरं ययौ ॥७६॥ देवं गणेशं स्मृत्वा युतं भीमेशेन भूमिपः । युयुधे तेन दैत्येन शस्त्रास्त्रैर्विविधैर्बलात् ॥७७॥ ततो दैत्यः समाक्रुद्धो मल्लयुद्धाय तं ययौ । राजा तं योधयामास स्मृत्वा विघ्नेश्वरं हृदि ॥७८॥ दैवी सत्ता समायाता राज्ञो देहे तयामरः । क्षीणशक्तिः
शीर्षक (Header): खं. ६ अ. १५ | पान ३७
पपालैव सुखभोक्ता महाबलः ॥७९॥ चकार नगरं गत्वा स ततो राज्यमुत्तमम् । भीमेशसंयुक्तं नित्यमभजद्गणनायकम् ॥८०॥ अंते कैलासगो भूत्वा बुभुजे भोगमुत्तमम् । पुनर्मयूरक्षेत्रे च ब्राह्मणः स बभूव ह ॥८१॥ गाणेशानेन मार्गेणाभजत्तं गणनायकम् । अंते स्वानंदगः सोऽपि तल्लीनः प्रबभूव ह ॥८२॥ एवं नानाविधा देवाः सिद्धिं प्राप्ता विशेषतः । देवागारस्थ- भीमेशयात्रया नात्र संशयः ॥८३॥ अधुना पूर्णयात्राया देवालयस्य देवपाः । माहात्म्यं कथयामीह संक्षेपेण पुरा भवम् ॥८४॥ द्राविडे शूद्रजातिस्थो बभूव विषयप्रियः । नाम्ना कदा स्वकार्यार्थ मार्गसंस्थो बभूव ह ॥८५॥ तत्राशुचिस्वभावस्थं राक्षसः प्रविवेश तम् । तेनासुरस्वभावस्थः शूद्रो बभूव सर्वदा ॥८६॥ ततः पिशाचकैः सोऽपि धृतो हृदि विशेषतः । प्रविश्य चेष्टया हीनः कृतः पैशाचकोऽभवत् ॥८७॥ ततो वीर्यविहीनं तं नानारोगैः प्रपीडितम् । एतादृशं गृहीत्वा तु सुहृदो दुःखमाययुः ॥८८॥ विदुषा ब्राह्मणेनाऽपि सुहृदश्चोपदेशिताः । मयूरेशं समागम्य यात्रां चक्रुर्यथाविधि ॥८९॥ देवागारस्य संपूर्णां चतुर्द्वारसमन्विताम् । तत्र सर्पेण दष्टाश्च यात्रां चक्रुस्तथाऽपि ते ॥९०॥ नग्नभैरवदेवस्य पूजनेन पिशाचकाः । तं त्यक्त्वा प्रययुः सर्वे भयभीताः सुरेश्वराः ॥९१॥ नीलकंठं समालोक्य विषबाधा पपाल ह । कृत्तिवासः समालोक्य राक्षसः प्रययौ ततः ॥९२॥ भीमेशं पूजयित्वा तु वीर्ययुक्तो बभूव ह । ततो विघ्नेशमापूज्य स्वगृहं स जगाम ह ॥९३॥ विस्मितो मानसेऽत्यंतं सस्मार गणनायकम् । चतुर्द्वारयुतं तं सोऽभजद्भावसमन्वितः ॥९४॥ अंते शैवे समागम्य लोके भोगान् मनोगतान् । बुभुजे स पुनः क्षेत्रे मयूरे क्षत्रियोऽभवत् ॥९५॥ क्षेत्रसंन्याससंयुक्तोऽभजत्तं गणनायकम् । स्वानंदे ब्रह्मभूतः स बभूवांते सुरेश्वराः ॥९६॥ एवं नानाविधा लोका ययुः सिद्धिं महेश्वराः । देवागारस्य तत्रैव ब्रूयां कति तु यात्रया ॥९७॥ देवालयस्य यात्राया माहात्म्यं यः शृणोति चेत् । पठेद्वा तस्य विघ्नेशः प्रसन्नो भवति प्रभुः ॥९८॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विघ्नराजचरिते देवागारद्वारयात्रामाहात्म्यवर्णनं नाम पंचदशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ भृशुंड्युवाच । गर्भालस्य यात्राया माहात्म्यं कथयाम्यहम् । शृणुध्वं भाग्यसंयुक्ता देवेशास्तत् समासतः ॥१॥ मूर्खः कोऽपि पुरा विप्रो वंगदेशे बभूव ह । विष्णुदत्त इति ख्यातः पशुतुल्यः स्वभावतः ॥२॥ तं दृष्ट्वा पितरौ तस्य काश्यपौ दुःखसंयुक्तौ । कश्यपं जग्मतुस्तेन श्रुतो वृत्तांत उल्बणः ॥३॥ गर्भांगारस्य माहात्म्यं कथयामास कश्यपः । पूर्वद्वारभवं तौ तं प्रणम्य ययतुर्गृहम् ॥४॥ पुत्रं गृह्य मयूरेशं जग्मतुर्भक्तिसंयुतौ । यात्रां पुत्रेण संयुक्तौ चक्रतुः परमादरात् ॥५॥ गर्भांलयस्य पूर्वस्थद्वारगां बुद्धिमलभत् । संपूज्य स महाविद्यां ज्ञानयुक्तो बभूव ह ॥६॥ ततो हर्षसमायुक्तौ पितरौ तं प्रगृह्य च । स्वाश्रमं जग्मतुर्देवा विस्मितौ पुत्रचेष्टया ॥७॥ ततो बुद्धियुतं देवं गणेशमभजन् परम् । अंते कैलाससंस्थं तं गणपं जग्मुरादरात् ॥८॥ तत्रैव विविधान् भोगान् पुनर्भुक्त्वा महेश्वराः । मयूरे ब्राह्मणाः क्षेत्रे बभूवुः शीलसंयुताः ॥९॥ तत्र विघ्नेश्वरं नित्यमभजन् भक्तिभावतः । अंते स्वानंदगा भूत्वा ब्रह्मभूता बभूविरे ॥१०॥ एवं नाना जना देवाः सिद्धिं प्राप्ता मयूरके । गर्भांगारस्य पूर्वद्वारस्थयात्राविधानतः ॥११॥ तत्र वक्तुं महादेवाः शक्यते न कदाचन । अतः संक्षेपतः प्रोक्तं पूर्वद्वारयशोऽमलम् ॥१२॥ अधुना दक्षिणद्वारयात्रामाहात्म्यमुत्तमम् । गर्भांगारस्य वक्ष्यामि शृणुध्वं चैकचेतसः ॥१३॥ काश्मीरे शूद्रजात्यां कः पापकर्मा बभूव च । देवालयं समालोक्याभजद्देवान् सुदारुणः ॥१४॥ कदा वैश्यं समालोक्य द्रव्ययुक्तं प्रलोभतः । तमनुप्रययौ दुष्टः प्रहंतुं खड्गधारकः ॥१५॥ वैश्योऽपि यत्नमास्थाय सार्थयुक्तो बभूव ह । तथापि पापकर्मा तं न सुमोच कदाचन ॥१६॥ वैश्यः समागतः सार्थैर्जनैः क्षेत्रे मयूरके । शूद्रस्तत्र समायातो जिघांसुर्भाग्यगौरवात् ॥१७॥ तत्र यात्रां चकाराऽसौ वैश्यो भावसमन्वितः । शूद्रः स्वयं स्थितश्चैव यात्राहीनः खलात्मवान् ॥१८॥ द्वितीये दिवसे सर्वे दक्षिणद्वारगां पराम् । यात्रां चक्रुस्ततः शूद्रस्तेषामनुययौ खलः ॥१९॥ गर्भांगारस्थितान् पूज्य दक्षिणद्वारपान् जनाः । प्रमोदाद्यास्ततः सर्वे पुरो जग्मुर्महेश्वराः ॥२०॥ शूद्रस्तत्र समासीनः पुनः स्वस्थानमाययौ । गणेशं पूज्य पापात्मा पुण्यवान् स बभूव ह ॥२१॥ विचारमकरोचित्ते मया पापानि नित्यशः । अहो कृतानि तान्येव पीडयिष्यंति मां किल ॥२२॥ अहो देवालये देवा मया संखंडिता मुधा । जनाः संपूजयंस्तान् किं कृतं पापरूपिणा ॥२३॥ एवं विचार्य स्वस्थाने त्यक्त्वा वैश्यं जगाम ह । काश्मीरममरान् सर्वान्- भजद्भक्तिसंयुतः ॥२४॥ अंते जगाम कैलासे गणेशं भक्तिसंयुतः । अभजत् स पुनर्देवान् मयूरे वैश्यजोऽभवत् ॥२५॥
खं. ६ अ. १६ पान ३९
गणेश्वरं तत्र देवं क्षेत्रसंन्यासमार्गतः । अभजच्चांतकाले स तद्देहे लीनतां ययौ ॥२६॥ नानाविधा जना एवं ययुः सिद्धिं सुरेश्वराः । तत्र वक्तुं न शक्यं तु मया भवति नित्यशः ॥२७॥ अतः परं प्रवक्ष्यामि पश्चिमद्वारसंश्रितम् । माहात्म्यं यत् पुरा जातं गर्भागारस्य सौख्यदम् ॥२८॥ विदर्भे क्षत्रियः कश्चिद्राज्यहीनो बभूव ह । सुदासः सर्वशास्त्रज्ञः क्षत्रियो पीडितो भृशम् ॥२९॥ वनं गत्वा स राजर्षिः शोकयुक्तो बभूव ह । तत्राऽऽजगाम देवर्षिर्नारदः परमार्थवित् ॥३०॥ राज्ञा संपूजितो योगी हर्षयंश्च जगाद तम् । गच्छ क्षेत्रे मयूरे त्वं ततः सिद्धिमवाप्स्यसि ॥३१॥ गर्भागारस्य राजेंद्र पश्चिमद्वारसंश्रिताम् । सिद्धिं पूज्य महाराजो भविष्यसि यथा पुरा ॥३२॥ एवमुक्त्वा नारदश्च विघ्नेशं संस्मरन् ययौ । राजा तथा चकाराऽसौ भक्तियुक्तेन चेतसा ॥३३॥ गर्भागारस्य यात्रां स चकार विधिसंयुतः । पश्चिमद्वारगामेकां तत- स्तत्रैव संस्थितः ॥३४॥ कौडिन्यनगरे राजा सुबाहुः पीडितोऽभवत् । शूलेन दारुणेनैव मृत्युरूपेण देवपाः ॥३५॥ रात्रौ स्वप्ने महाभीमं पुरुषं स ददर्श ह । तेन संताडितोऽत्यंतं मुमूर्छ भयसंयुतः ॥३६॥ पुनः संज्ञायुतं भूपमुवाच पुरुषः परः । राज्यं देहि सुदासाय विदर्भदेशसंभवम् ॥३७॥ मरिष्यसि न चेद्राजन् सकुलो नात्र संशयः । मयूरेशं समाश्रित्य स्थितं गच्छाधुना खल ॥३८॥ ततः पुरुषरूपं तं न ददर्श महीपतिः । शूलहीनो बभूवाऽसौ तं जगाम सुदासकम् ॥३९॥ विदर्भदेशगं राज्यं तं प्रणम्य ददौ परम् । स्वराज्यं स जगामैव वैरमुत्सृज्य देवपाः ॥४०॥ राजा सिद्धियुतं नित्यम- भजद्गणनायकम् । अंते कैलासगः सोऽपि बभूवे कामनायुतः ॥४१॥ पुनः स ब्राह्मणो जातो मयूरे वर्मसंयुतः । गणेश्वरं तत्र नित्यमभजद्भक्तिसंयुतः ॥४२॥ अंते जगाम स्वानंदे गणेशं गणप्रियः । ब्रह्मभूतोऽभवत्तत्र क्षेत्रवासप्रभावतः ॥४३॥ एवं नाना जनाः सिद्धिं पश्चिमद्वारतो ययुः । यात्रामात्रेण गर्भागारस्य कति वदाम्यहम् ॥४४॥ अथोत्तरस्थितं द्वारं गर्भागारस्य मानदाः । चरित्रं तस्य वक्ष्यामि श्रवणात् सर्वसौख्यदम् ॥४५॥ पांचालदेशगः कश्चिद्वैश्यो विषयलंपटः । न बुबोध गतं कालं द्रव्ययुक्तः स्वभावतः ॥४६॥ स्त्रीमांसमदिरासक्तो बभूवे नित्यमादरात् । एकदा तत्र देशे तु परचक्रा- द्वयं परम् ॥४७॥ त्यक्त्वा स्वदेशं वैश्यश्च पपाल सकुडुंबकः । आययौ दंडकारण्यं निवासार्थं भयातुरः ॥४८॥ तत्र मार्गस्थभावेन क्षेत्रं प्राप्तं मयूरकम् । तद्दिने पश्चिमद्वारयात्रां चक्रुर्जनाः पराम् ॥४९॥ द्वितीयेऽह्नि स वैश्यस्तु लज्जया संयुतोऽभवत् । उत्तरद्वारयात्रार्थमुद्यतोऽभूज्जनैः स्वयम् ॥५०॥ गणेशं पूजयित्वा स गर्भागारं जगाम ह । पुपूज तत्र
यहाँ पृष्ठ की सामग्री का अक्षरशः लिप्यंतरण (लाइन नंबर सहित), अन्वय, विस्तृत सरल हिन्दी अनुवाद एवं कथानुवाद प्रस्तुत है:
मूल पाठ (चित्रानुसार पंक्तियाँ):
खं. ६ अ. १६ $\qquad\qquad\qquad\qquad\qquad\qquad\qquad\qquad\qquad\qquad\qquad\qquad$ पान ४०
वैश्योऽपि चतुःषष्टिश्च योगिनीः ॥५१॥ ततः श्रमेण संयुक्तः पुनर्गणपतिं ययौ । पूजयित्वा जगामाऽसौ यथेष्टं विषय- प्रियः ॥५२॥ ततो बुद्धिश्च वैश्यस्य विपरीता बभूव ह । तया युक्तो महेशान विचारमकरोद् हृदि ॥५३॥ मया विषय- युक्तेन कृतं कर्म भयावहम् । का गतिर्मरणे मे तु भविष्यति सुदारुणा ॥५४॥ अहो क्षेत्रस्य माहात्म्यं मया वक्तुं न शक्यते । विपरीता मतिर्जाता ममापि दुष्टचेतसः ॥५५॥ योगिनीनां दर्शनेन शुद्धचित्तो भवेन्नरः । योगप्रियस्तथाऽहं वै जातः सत्यं च शास्त्रगम् ॥५६॥ योगिनीसंयुतं ढुण्ढिं वैश्यः स्वधर्ममास्थितः । अभजन्नित्यमानंदान्निंदयन् विषयान् सदा ॥५७॥ अंते जगाम कैलासे गणेशे कामनायुतः । तत्र भुक्त्वा महाभोगान् पुनः पपात भूतले ॥५८॥ मयूरक्षेत्रगो भूत्वा क्षत्रियो धर्मसंयुक्तः । क्षेत्रसंन्यासभावेन विघ्नेशमभजत् सदा ॥५९॥ अंते विघ्नेश्वरः सोऽपि ब्रह्मभूतो बभूव ह । पूर्वसंस्कारभावेन योगसिद्धो महेश्वराः ॥६०॥ एवं नाना जनास्तत्र ययुः सिद्धिमनुत्तमाम् । तत्रैवं कति वो ब्रूयां संख्यातुं न प्रशक्यते ॥६१॥ अतः परं प्रवक्ष्यामि संपूर्णां तु महेश्वराः । गर्भागाराश्रितां यात्रां परां माहात्म्यसंयुताम् ॥६२॥ आत्रेयो ब्राह्मणः कश्चित् पुरा मूर्खो बभूव ह । पितरौ संमृतौ तस्याऽनाथो बभ्राम भूतले ॥६३॥ विषयेषु विशेषेण प्रीतियुक्तस्तथाऽमराः । भ्रमन् समागतः सोऽपि मयूरे दैवगौरवात् ॥६४॥ तत्र कश्चिद् द्विजः सुज्ञः सेवार्थं क्षेत्रगोऽभवत् । तं गृह्य ब्राह्मणो गर्भागारयात्रां चकार ह ॥६५॥ संसर्गेण द्विजस्याऽसौ यात्रां चकार दुष्टधीः । स्वयं विद्यानिधिर्जातो यथाऽन्ये ब्राह्मणास्तथा ॥६६॥ पूर्वद्वारं समालोक्य दक्षिणस्थं जगाम ह । तत्र मार्गे पपाताऽसौ तथापि द्वारगोऽभवत् ॥६७॥ प्रमोदादीन् समालोक्य विषये निःस्पृहोऽभवत् । पश्चिमे सिद्धिमालोक्य भाग्ययुक्तो महेश्वरः ॥६८॥ योगिनींस्तत आलोक्य पुण्यशीलो बभूव ह । एवं यात्रां सकृत् कृत्वा पुनः स्वगृहगोऽभवत् ॥६९॥ ततो द्विजं प्रणम्याऽसौ स्वदेशं तु जगाम ह । तं तादृशं विलोक्यैव विस्मिताः सुहृदोऽभवन् ॥७०॥ विवाहं कारयामासुः सुहृदस्तस्य धीमतः । स गणेशं विचिंत्यैवाऽभजद्धर्माश्रितं तदा ॥७१॥ अंते कैलासगो भूत्वा गणेशं तत्र चाभजत् । भुक्त्वा भोगान् पपाताऽसौ मयूरे ब्राह्मणोऽभवत् ॥७२॥ गणेश्वरं तत्र देवा अभजन् नान्यचेतसा । अंते स्वानंदगः सोऽपि ब्रह्मभूतो बभूव ह ॥७३॥ मयूरे गर्भयात्रायां निरताः सकृदप्यहो । ययुस्ते सिद्धिमाद्यं कथयितुं न प्रशक्यते ॥७४॥ गर्भागारस्य माहात्म्यं शृणोति द्वारजं त्विदम् । पठेद्वा तस्य विघ्नेशो ददते चेप्सितं फलम् ॥७५॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते गर्भागारयात्रामाहात्म्यवर्णनं नाम षोडशोऽध्यायः ॥ १६ ॥
श्लोकवार अन्वय एवं हिन्दी अनुवाद
श्लोक ५१-५२
वैश्योऽपि चतुःषष्टिश्च योगिनीः ॥५१॥ ततः श्रमेण संयुक्तः पुनर्गणपतिं ययौ । पूजयित्वा जगामाऽसौ यथेष्टं विषयप्रियः ॥५२॥
- अन्वय: वैश्यः अपि चतुःषष्टिः योगिनीः (दृष्ट्वा) ततः श्रमेण संयुक्तः पुनः गणपतिं ययौ। विषयप्रियः असौ पूजयित्वा यथेष्टं जगाम।
- हिन्दी अर्थ: वैश्य ने भी चौंसठ योगिनियों के दर्शन किए। तत्पश्चात् थकावट से युक्त होकर वह पुनः गणपति के पास गया और पूजन करके अपनी इच्छानुसार अपने विषय-भोगों में चला गया।
श्लोक ५३-५५
ततो बुद्धिश्च वैश्यस्य विपरीता बभूव ह । तया युक्तो महेशान विचारमकरोद् हृदि ॥५३॥ मया विषययुक्तेन कृतं कर्म भयावहम् । का गतिर्मरणे मे तु भविष्यति सुदारुणा ॥५४॥ अहो क्षेत्रस्य माहात्म्यं मया वक्तुं न शक्यते । विपरीता मतिर्जाता ममापि दुष्टचेतसः ॥५५॥
- अन्वय: हे महेशान! ततः वैश्यस्य बुद्धिः विपरीता (सन्मार्गगामिनी) बभूव ह। तया युक्तः (सः) हृदि विचारम् अकरोत्—विषययुक्तेन मया भयावहं कर्म कृतम्। मरणे मे सुदारुणा का गतिः तु भविष्यति? अहो! क्षेत्रस्य माहात्म्यं मया वक्तुं न शक्यते, दुष्टचेतसः मम अपि मतिः विपरीता (पवित्र) जाता।
- हिन्दी अर्थ: हे महेश्वर! इसके बाद उस वैश्य की बुद्धि विपरीत (संसार से विमुख होकर सन्मार्ग की ओर) हो गई। उसने मन में विचार किया—"मुझ विषयासक्त ने अत्यंत भयानक पापकर्म किए हैं। मृत्यु के पश्चात् मेरी कैसी दारुण दुर्गति होगी? अहो! इस मयूरक्षेत्र की महिमा का वर्णन नहीं किया जा सकता, जिससे मुझ जैसे दुष्टचित्त की बुद्धि भी परिवर्तित (पवित्र) हो गई।"
श्लोक ५६-५८ (क)
योगिनीनां दर्शनेन शुद्धचित्तो भवेन्नरः । योगप्रियस्तथाऽहं वै जातः सत्यं च शास्त्रगम् ॥५६॥ योगिनीसंयुतं ढुण्ढिं वैश्यः स्वधर्ममास्थितः । अभजन्नित्यमानंदान्निंदयन् विषयान् सदा ॥५७॥ अंते जगाम कैलासे गणेशे कामनायुतः ॥५८॥
- अन्वय: योगिनीनां दर्शनेन नरः शुद्धचित्तः भवेत्, तथा अहं वै योगप्रियः जातः, शास्त्रगम् एतत् सत्यं च। स्वधर्मम् आस्थितः वैश्यः सदा विषयान् निन्दयन् योगिनीसंयुतं ढुण्ढिं नित्यम् आनन्दात् अभजत्। अन्ते गणेशे कामनायुतः कैलासे जगाम।
- हिन्दी अर्थ: "योगिनियों के दर्शन से मनुष्य का चित्त शुद्ध हो जाता है और मैं भी योगप्रिय हो गया हूँ, शास्त्र का यह कथन सर्वथा सत्य है।" अपने स्वधर्म में स्थित होकर वह वैश्य सदा विषय-भोगों की निंदा करता हुआ आनंदपूर्वक योगिनी-सहित ढूँढिराज गणेश का नित्य भजन करने लगा। अंत में गणेश जी में भक्ति-कामना रखकर वह कैलास को गया।
श्लोक ५८ (ख)-६०
तत्र भुक्त्वा महाभोगान् पुनः पपात भूतले ॥५८॥ मयूरक्षेत्रगो भूत्वा क्षत्रियो धर्मसंयुक्तः । क्षेत्रसंन्यासभावेन विघ्नेशमभजत् सदा ॥५९॥ अंते विघ्नेश्वरः सोऽपि ब्रह्मभूतो बभूव ह । पूर्वसंस्कारभावेन योगसिद्धो महेश्वराः ॥६०॥
- अन्वय: तत्र महाभोगान् भुक्त्वा पुनः भूतले पपात। मयूरक्षेत्रगः धर्मसंयुक्तः क्षत्रियः भूत्वा क्षेत्रसंन्यासभावेन सदा विघ्नेशम् अभजत्। हे महेश्वराः! पूर्वसंस्कारभावेन योगसिद्धः सोऽपि अन्ते विघ्नेश्वरः (विघ्नेशे लीनः) ब्रह्मभूतः बभूव ह।
- हिन्दी अर्थ: वहाँ दिव्य भोगों को भोगकर वह पुनः भूतल पर आया और मयूरक्षेत्र में धर्मपरायण क्षत्रिय के रूप में जन्म लेकर 'क्षेत्र-संन्यास' के भाव से निरंतर विघ्नेश्वर की उपासना करने लगा। हे महेश्वरों! पूर्वजन्म के संस्कारों के प्रभाव से योग-सिद्ध होकर वह अंत में ब्रह्मभूत (मुक्त) हो गया।
श्लोक ६१-६२
एवं नाना जनास्तत्र ययुः सिद्धिमनुत्तमाम् । तत्रैवं कति वो ब्रूयां संख्यातुं न प्रशक्यते ॥६१॥ अतः परं प्रवक्ष्यामि संपूर्णां तु महेश्वराः । गर्भागाराश्रितां यात्रां परां माहात्म्यसंयुताम् ॥६२॥
- अन्वय: एवं तत्र नाना जनाः अनुत्तमां सिद्धिं ययुः। वो कति ब्रूयां, एवं तत्र संख्यातुं न प्रशक्यते। हे महेश्वराः! अतः परं माहात्म्यसंयुतां संपूर्णां परां गर्भागाराश्रितां यात्रां तु प्रवक्ष्यामि।
- हिन्दी अर्थ: इस प्रकार वहाँ अनेक लोगों ने उत्तम सिद्धि प्राप्त की। मैं किस-किसका वर्णन करूँ, उनकी गणना करना संभव नहीं है। हे महेश्वरों! अब इसके आगे मैं परम माहात्म्य से युक्त संपूर्ण 'गर्भागार-यात्रा' का वर्णन करता हूँ।
श्लोक ६३-६६
आत्रेयो ब्राह्मणः कश्चित् पुरा मूर्खो बभूव ह । पितरौ संमृतौ तस्याऽनाथो बभ्राम भूतले ॥६३॥ विषयेषु विशेषेण प्रीतियुक्तस्तथाऽमराः । भ्रमन् समागतः सोऽपि मयूरे दैवगौरवात् ॥६४॥ तत्र कश्चिद् द्विजः सुज्ञः सेवार्थं क्षेत्रगोऽभवत् । तं गृह्य ब्राह्मणो गर्भागारयात्रां चकार ह ॥६५॥ संसर्गेण द्विजस्याऽसौ यात्रां चकार दुष्टधीः । स्वयं विद्यानिधिर्जातो यथाऽन्ये ब्राह्मणास्तथा ॥६६॥
- अन्वय: पुरा कश्चित् आत्रेयः ब्राह्मणः मूर्खः बभूव ह। तस्य पितरौ संमृतौ, अनाथः (सः) भूतले बभ्राम। हे अमराः! तथा विषयेषु विशेषेण प्रीतियुक्तः सोऽपि भ्रमन् दैवगौरवात् मयूरे समागतः। तत्र कश्चित् सुज्ञः द्विजः सेवार्थं क्षेत्रगः अभवत्, तं गृह्य ब्राह्मणः गर्भागारयात्रां चकार ह। द्विजस्य संसर्गेण असौ दुष्टधीः यात्रां चकार, (तेन) यथा अन्ये ब्राह्मणाः तथा स्वयं विद्यानिधिः जातः।
- हिन्दी अर्थ: प्राचीन काल में अत्रि-गोत्रीय एक अत्यंत मूर्ख ब्राह्मण था। उसके माता-पिता की मृत्यु हो जाने पर वह अनाथ होकर पृथ्वी पर भटकता रहा। हे देवगण! वह विषयों में विशेष आसक्त था, परंतु भटकते-भटकते दैवयोग से मयूरक्षेत्र में पहुँच गया। वहाँ कोई ज्ञानी ब्राह्मण भगवान की सेवा हेतु आया था; उसने इस मूर्ख ब्राह्मण को साथ लेकर गर्भागार-यात्रा की। उस श्रेष्ठ ब्राह्मण की संगति से इस दुर्बुद्धि ने भी यात्रा की, जिससे वह अन्य विद्वान ब्राह्मणों की भाँति स्वयं भी विद्या का निधान बन गया।
श्लोक ६७-६९
पूर्वद्वारं समालोक्य दक्षिणस्थं जगाम ह । तत्र मार्गे पपाताऽसौ तथापि द्वारगोऽभवत् ॥६७॥ प्रमोदादीन् समालोक्य विषये निःस्पृहोऽभवत् । पश्चिमे सिद्धिमालोक्य भाग्ययुक्तो महेश्वरः ॥६८॥ योगिनींस्तत आलोक्य पुण्यशीलो बभूव ह । एवं यात्रां सकृत् कृत्वा पुनः स्वगृहगोऽभवत् ॥६९॥
- अन्वय: (सः) पूर्वद्वारं समालोक्य दक्षिणस्थं जगाम ह। तत्र मार्गे असौ पपात, तथापि द्वारगः अभवत्। प्रमोदादीन् समालोक्य विषये निःस्पृहः अभवत्। पश्चिमे सिद्धिम् आलोक्य भाग्ययुक्तः महेश्वरः (बभूव)। ततः योगिनीः आलोक्य पुण्यशीलः बभूव ह। एवं सकृत् यात्रां कृत्वा पुनः स्वगृहगः अभवत्।
- हिन्दी अर्थ: उसने पूर्व द्वार के दर्शन कर दक्षिण द्वार की ओर प्रस्थान किया। मार्ग में वह गिरा, फिर भी द्वार तक पहुँच गया। आमोद-प्रमोद आदि के दर्शन कर वह विषयों से निःस्पृह (विरक्त) हो गया। पश्चिम दिशा में सिद्धि के दर्शन कर वह परम भाग्यशाली बन गया। तदनंतर योगिनियों के दर्शन कर वह पुण्यात्मा हो गया। इस प्रकार एक बार यह यात्रा संपन्न करके वह पुनः अपने घर लौटा।
श्लोक ७०-७३
ततो द्विजं प्रणम्याऽसौ स्वदेशं तु जगाम ह । तं तादृशं विलोक्यैव विस्मिताः सुहृदोऽभवन् ॥७०॥ विवाहं कारयामासुः सुहृदस्तस्य धीमतः । स गणेशं विचिंत्यैवाऽभजद्धर्माश्रितं तदा ॥७१॥ अंते कैलासगो भूत्वा गणेशं तत्र चाभजत् । भुक्त्वा भोगान् पपाताऽसौ मयूरे ब्राह्मणोऽभवत् ॥७२॥ गणेश्वरं तत्र देवा अभजन् नान्यचेतसा । अंते स्वानंदगः सोऽपि ब्रह्मभूतो बभूव ह ॥७३॥
- अन्वय: ततः द्विजं प्रणम्य असौ स्वदेशं तु जगाम ह। तं तादृशं विलोक्य एव सुहृदः विस्मिताः अभवन्। सुहृदः तस्य धीमतः विवाहं कारयामासुः। सः तदा गणेशं विचिन्त्य एव धर्माश्रितम् अभजत्। अन्ते कैलासगः भूत्वा तत्र च गणेशम् अभजत्। भोगान् भुक्त्वा असौ पपात, मयूरे ब्राह्मणः अभवत्। हे देवाः! तत्र नान्यचेतसा गणेश्वरम् अभजत्। अन्ते सोऽपि स्वानन्दगः ब्रह्मभूतः बभूव ह।
- हिन्दी अर्थ: उस मार्गदर्शक ब्राह्मण को प्रणाम करके वह अपने देश गया। उसे इतना विद्वान और शांत देखकर उसके सभी बंधु-बांधव विस्मित रह गए। मित्रों ने उस बुद्धिमान ब्राह्मण का विवाह करा दिया। वह धर्म का आश्रय लेकर निरंतर श्रीगणेश का ही चिंतन और भजन करने लगा। अंत में कैलास जाकर वहाँ भी गणेश जी की आराधना करता रहा। दिव्य भोगों को भोगकर वह पुनः मयूरक्षेत्र में ब्राह्मण के रूप में जन्मा। हे देवगण! वहाँ उसने अनन्य चित्त से गणेश्वर का भजन किया और अंत में स्वानंदलोक में जाकर ब्रह्मलीन (मुक्त) हो गया।
श्लोक ७४-७५ (फलश्रुति)
मयूरे गर्भयात्रायां निरताः सकृदप्यहो । ययुस्ते सिद्धिमाद्यं कथयितुं न प्रशक्यते ॥७४॥ गर्भागारस्य माहात्म्यं शृणोति द्वारजं त्विदम् । पठेद्वा तस्य विघ्नेशो ददते चेप्सितं फलम् ॥७५॥
- अन्वय: अहो! मयूरे गर्भयात्रायां सकृत् अपि निरताः ते आद्यां सिद्धिं ययुः, (यत्) कथयितुं न प्रशक्यते। इदं गर्भागारस्य द्वारजं माहात्म्यं शृणोति वा पठेत्, तस्य विघ्नेशः ईप्सितं फलं ददते।
- हिन्दी अर्थ: अहो! मयूरक्षेत्र में एक बार भी गर्भागार-यात्रा करने वाले मनुष्य आद्य (परम) सिद्धि को प्राप्त होते हैं, जिसकी महिमा कही नहीं जा सकती। जो मनुष्य गर्भागार एवं उसके द्वारों के इस माहात्म्य को सुनता या पढ़ता है, श्रीविघ्नेश उसे उसका मनोवांछित फल प्रदान करते हैं।
अध्याय समाप्ति पुष्पिका:
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते गर्भागारयात्रामाहात्म्यवर्णनं नाम षोडशोऽध्यायः ॥ १६ ॥ (इस प्रकार पुराण-उपनिषद स्वरूप अंतिम श्रीमौद्गल महापुराण के छठे खण्ड विकट-चरित के अंतर्गत 'गर्भागार-यात्रा-माहात्म्य-वर्णन' नामक सोलहवाँ अध्याय पूर्ण हुआ।)